वाचस्पत्यम्
सर to सर्ब
links:
Menu अ–ह
Prev समि–सय
Next सर्व–सह
सर
सरा
सर्प
सर्पक
UpasanaYoga
.org

सर = न० सरति सृ–अच्। १ सरोवरे शब्दच०। २ जले जटा०। ३ लवणे ४ वाणे च हमच०। ५ दध्यग्रे दधिमस्तौ रत्नमा०। ६ तज्जाते नवनीते च। भावे अच्। ७ भेदने ८ गमने च। कर्त्तरि अच्। ९ सारके १० भेदके राजनि०।

सरक = पु० न० सृ–वुन्। १ मद्यपानपात्रे भरतः २ मद्यपरिवेशने ३ इक्षुजमद्ये ४ तत्पात्रे ५ अविरलपथिकपङक्तौ च मेदि० ६ गतिशीले त्रि० शब्दर०।

सरघा = स्त्री सरं मद्यभेदं हन्ति हन–ड नि०। मधुमक्षिकायाम् अमरः।

सरङ्ग = पुं स्त्री० सृ–अङ्गच्। १ चतुष्पाद्जन्तौ २ खगे च संक्षिप्तसा० स्त्रियां ङीष्।

सरज = न० सरात् जायते जन–ड। नवनीते हारा०।

सरजस् = स्त्री सह रजसा सहस्य सः। १ ऋतुमत्यां स्त्रियाम् २ रजोयुक्ते त्रि०। अव्ययी० अच् समा०। सरजस्य ३ रजःसाहित्ये अव्य० अमरः।

सरट = पुंस्त्री० सृ–अटन्। कृकलासे (का~कलास)अमरः। स्त्रियां ङीष्। देहे तत्प्ररोहणादिफलं यथा “वल्ल्याः प्रपाते च फलं सरटस्य प्ररोहणे। शीर्षे राजश्रियोऽवाप्तिर्भाले चैश्वर्य्यमेव च। कर्णयोर्भूषणावाप्तिर्नेत्रयोर्बन्धुदर्शनम्। नासिकायाञ्च सौगन्ध्यं वक्त्रे मिष्टान्नभोजनम्। कण्ठे चैव श्रियोऽवाप्तिर्भुजयोर्विभवो भवेत्। धनलाभो वाहुमूले करयोर्धनवृद्धयः। स्तनमूले च सौभाग्यं हृदि सौख्यविवर्द्धनम्। पृष्ठे नित्यं मही लाभः पार्श्वयोर्बन्धुदर्शनम्। कटिद्वये वस्त्रलाभो गुह्ये मृत्युसमागमः। जङ्घे चार्थक्षयो नित्यं गुदे रोगभयं भवेत्। ऊर्वोश्च वाहनावाप्तिर्जानुजङ्घेऽर्थसक्षयः। वामदक्षिणयोः पदोर्भ्रमणं नियतं भवेत्। वल्ल्याः प्ररोहणे चैव पनने सरटस्य च। व्यत्यासाञ्च फलं चैव तद्वदेवं प्रजायते। वल्ल्याः प्ररोहणं रात्रौ सरटस्य प्रपातनम्। निधनार्धाय भवति व्याधिपीडाविपर्य्ययौ। पतनानन्तरं चैवारोहणं यदि जायते। पतने फलमुत्कृष्टं रोहणेऽन्यत् फलं भवेत्। आरोहणञ्चोर्द्ध्ववक्त्रे अधोवक्त्रे च पातगम्। भवेदिष्टफलं तस्य तत्फलं जायते ध्रुवम्। स्पृष्टमात्रेण वा सद्यः सचेलं जलमाविशेत्। पञ्चगव्यप्राशतञ्च कुर्य्यादर्कावलोकनम्” दिवाकरः

सरट् = पु० सृ–अटि। १ वायौ २ मेघे उणादिकोषः। ३ सरथायां सिद्धान्तकौमुदी। ४ कृकलासे अमरटीका।

सरटि = पु० सृ–अटिन्। १ वायौ २ मेघे च उणादि०।

सरटु = पु० सृ–अटु। कृकलासे उणादिकोषः।

सरण = न० सृ–ल्युट्। १ गमने २ लोहमले हेमच०। (गन्धभादाल) ३ लतायां स्त्री अमरः टाप्। ४ त्रिवृतायां शब्दमा०।

सरणि(णी) = स्त्री सृ–अनि वा ङीप्। १ पथि २ पङ्क्तौ मेदि० २ प्रसारण्यां भरतः। ३ त्रिवृतायां स्त्री शब्दमा०।

सरण्ड = पु० सृ–अण्डच्। १ खगे २ कामुके शब्दच० ३ धूर्त्ते ४ सरटे ५ भूषणभेदे मेदि० सर्वत्र जातौ स्त्रियां ङीष्।

सरण्यु = सृ–अन्यु। १ वायौ २ मेघे ३ जले शब्दर० ४ वसन्ते ५ अग्नौ उणादिकोषः।

सरत् = त्रि० सृ–शतृ। १ गन्तरि स्त्रियां ङीप् सरन्ती। २ सूत्रे न० शब्दमाला।

सरत्नि = पु० सह रत्निना। रत्निशब्दार्थे अमरटीका।

सरपत्त्रिका = स्त्री सरे जले पत्त्रमस्त्यस्याः ठन्। १ पद्मपत्त्रे २ पद्मे च शब्दच०।

सरमा = स्त्री सह रमते रम–अच्। १ कुक्कुरयोषिति २ टबशून्यां ३ राक्षसीभेदे विभीषणपत्न्याञ्च मेदि०। ४ कश्यपार्षकन्याभेदे “गोलाङ्गूलश्चकोरश्च श्येन्यापत्यं तथैव च। अपत्यं सरमायाश्व गणो वै भ्रमरादयः” वह्निपु०।

सरयु = पु० सृ–अयु। १ वायौ त्रिका०। ऊङ्। २ अयोध्यान्तिक० वाहिनदीभेदे स्त्री। तदुत्पत्तिः कालिकापु० २३ अ० यथा “एवं विवाह्य विधिवत् सौवर्णे मानसाचले। तत्र यत् पतितं तोयं मानसाचलकन्दरे। तत्तोयं सप्तधा भूत्वा मानसाचलकन्दरात्। हेमाद्रेः कन्दरे सानौ सरस्याञ्च पृथक् पृथक्” इत्युपक्रमे “तेनाभूत् सरयूर्नाम्ना नदी पुण्यतमा शुभा”। तस्यां भवः अण् नि०। सारव तत्र भवे त्रि० अमरः।

सरल = पु० सृ–अलच्। १ पीतशाले अमरः “सरलो मधुकस्तिक्त कटुपाकरसो लघुः। स्निग्धोष्णः कर्णकण्ठाक्षिरोगरक्षोहरः स्मृतः। कफानिलस्वेदयूककामलाक्षिव्रणापहः” भावप्र० तद्गुणोक्तिः। २ धूपकाष्ठभेदे शब्दर० ३ उदारे ४ ऋजौ च त्रि० मेदि० ५ त्रिपुटायां स्त्री अमरः

सरलद्रव = पु० ६ त०। सरलवृक्षनिर्य्यासे (टारपोन) अमरः।

सरलाङ्ग = पु० सरलो वृक्षोऽङं साधनं यस्य। श्रीवेष्टे गन्धद्रव्ये राजनि०।

सरस् = न० सृ–असुन्। १ जले रुद्रः। २ सरोवरे अमरः। गौरा० ङीष्। ३ सरसीत्यप्यत्र स्त्री अमरः “सरसीः परिशीलितुं मया” नैषधम्।

सरस = न० सह रसेन जलेन आखादेन च सहस्य सः। १ सरोवरे शब्द च० २ रसान्विते ३ सार्द्रे च त्रि०। “सरसां सरसां परिमुव्य तनुम्” भट्टिः। ३ श्वेतत्रिवृतायां स्त्री रायमु०।

सरसम्प्रत = न० सरमिव निर्यासं सम्प्रतनोति सम् + प्र + तनड। त्रिकण्टकवृक्षे (तेकाटासिजु) शब्दच०।

सरसिज = न० सरसि जायते जन–ड अल्क् समा०। १ पद्मे राजान० “सरसिजमनुविद्धं शैवलेनातिरद्यम्” शकु न्तला। २ सारसखगे पुंस्त्री० स्त्रियां ङीष्। लुकि सरोजमप्यत्र।

सरसीक = पुंस्त्री० सरस्यां कायति कै–क। सारसखगे शब्दर० स्त्रियां ङीष्।

सरसीरुह = न० सरम्यां सरोवर रोहति रुह–क। १ पद्मे २ सारसखगे च पुंस्त्री० अमरः स्त्रियां ङीष।

सरस्वत् = पु० सरांसि जलानि सन्त्यस्य मतुप मस्य वः। १ सरावरे २ सागरे ३ नदे ४ रसिके त्रि० मेदि० ५ नद्यां ६ बाण्यां ७ गवि ८ स्त्रीरत्ने स्त्री मेदि० ङीप्। सा च ९ ज्योतिष्मत्यां १० ब्राह्म्यां शक्तौ राजनि०। ११ देवीभेदे मेदि० १२ सीमलतायां शब्दच०। १३ बुद्धशक्तिभेदे त्रिका० १४ दुर्गायाम् “सराः सरणशीलत्वात् गेयाख्ये सप्त कीर्त्तिताः। अति प्रापणदाने वा तेन देवी सरस्वती” देवीपु० ४५ अ० तन्नामनिरुक्तिः। पृषो०। १५ वागधिष्ठातृदेव्याम् “आविर्बभूव तत्पश्चात् मुखतः परमात्मनः। एषा देवी शुक्लवर्णा वीणापुस्तकधारिणी। वागधिष्ठातृदेवी सा कवीनानिष्टदेवता। शुद्धसत्त्वस्वरूपा च शान्तरूपा सरस्वती” ब्रह्मवै० ब्र० ख० ३ अ०। तत्रैव गणे० ७० अ० “वागधिष्ठात्री या देवी शास्त्रज्ञानप्रदा सदा। कृष्णकण्ठोद्भवा या च सा च देवी सरस्वती”। “बन्धुजीवञ्च द्रोणञ्च सरस्वत्यै न दापयेत्” मत्स्यसू० तत्पूजादिकं तन्त्रसा० दृश्यम्। १६ सन्ध्याकाले उपास्यदेवतायां गायत्रीशब्दे २५८३ पृ० दृश्यम्। सरः ब्रह्मसरः उत्पत्तिस्थानत्वेनास्त्यस्याः मतुप् मस्य वः ङीप्। १७ नदीभेदे सरस्वतीनद्या तथोत्पत्तिकथा च “प्रस्नुतासि महाभागे सरसो ब्रह्मणः पुरा। जानन्नि त्वां सरिच्छ्रेष्ठे मुनयः संशितव्रताः” भा० श० ५ अ०। तस्याश्च सप्तनोमत्वं यथा “राजन्! सप्त सरस्वत्यो याभिर्व्याप्तमिदं जगत्। आहूता बलवद्भिहि तत्र तत्र सरस्वती। तप्रभा १ काञ्चनाक्षो २ च विशाला ३ च मनोरमा ४। सरस्वती ५ चोघवती ६ सुरेणु ७ र्बिमलोदका” भा० श० २९ श०। तासां नामकारणञ्च तत्राध्याये दृश्यम् तस्या माहात्म्यं तत्रैव सारस्वतोपाख्याने दृश्यम्।

सरा = स्त्री सृ–अच्। १ प्रसारण्यां राजनि० २ निर्झरे द्विरूपकोषः।

सराव = पु० सर जलमवति अव–अण्। १ जलाधारे मृण्मये पात्रभेदे(शरा)द्विरूपकोषः। सह रावेण। २ सशब्दे त्रि०

सरि = पुंस्त्री० सृ–इन् स्त्रीत्वपक्षे वा ङीप्। निर्झरे हेमच०।

सरिका = स्त्री सरोऽस्त्यस्याः ठन् सृ–वुन् वा। हिङ्गुपत्त्रिकायाम् शब्दर०।

सरित् = स्त्री सृ–इति। १ नद्याम् अमरः २ सूत्रे शब्दमा०। “क्रियाकारकरूपत्वात् सरणाच्च सरिन्मता” देवीपु० ४५ अ० निरुक्तायां ३ दुर्गायाम्।

सरित्पति = पु० ६ त०। समुद्रे अमरः। सरिन्नाथादयोऽत्यत्र

सरित्वत् = पु० सरित् स्वामित्येनास्त्यस्य मतुप् मस्य वः तान्तत्वेन पदत्वाभावात् न तस्य दः। समुद्रे।

सरित्सुत = पु० ६ त०। गङ्गापुत्त्रे भीष्मे।

सरिताम्पति = पु० ६ त० अलुक् समा०। १ समुद्रे शब्दर०। सरितांनाथादयोऽप्यत्र।

सरिद्वरा = स्त्री सरित्सु वरा श्रेष्ठा। गङ्गायाम् हेमच०।

सरिल = न० सृ–इलच्। जले अमरटीकायां भरतः।

सरिमन् = पु० सृ–इमनि। १ वायौ २ गतौ च उणादि०।

सरिषप = पु० सर्षप + पृषो०। मर्षपे त्रिका०।

सरीसृप = पुंस्त्री० वक्रं सर्पति सृप–यङो लुक्, अच्। १ सर्पे अमरः। २ वृश्चिकादौ। ज्योतिषोक्तेषु ३ मीनवृश्चिककर्कटराशिषु “वृश्चिकराशिर्मुनिभिः सरीसृपत्वेन निर्दिष्टः” ज्यो० त०। “सृगपतिवशे तिष्ठन्त्येते विहाय सरीसृपान्” ज्यो० त० बहुवचनात् मीनकर्कटयोर्ग्रहणम्

सरु = पु० सृ–उन्। खङ्गादिमुष्टौ सारसुन्दरी।

सरूप = त्रि० समानं रूपमस्य समानस्य सः। तुल्यरूपे सदृशे जटा०

सरोज = न० सरसि जले जायते जन–ड। १ पद्मे हेमच०। २ सारसखगे पुंस्त्री० स्त्रियां ङीष्। ३ सरोजातमात्रे त्रि०।

सरोजन्मन् = न० सरसि जले जन्म यस्य। १ पद्मे हेमच०। २ सारसखगे ३ तडागजातमात्रे त्रि०।

सरोजिन् = पु० सरोजं विष्णुनाभिपद्ममुत्पत्तिस्थानत्वेनास्त्यस्य इनि। चतुर्मुखे ब्रह्मणि त्रिका०।

सरोजिनी = स्त्री सरोजानां समूहः सन्निकृष्टदेशो वा इनि ङीप्। १ पद्मसमहे रत्नमा० २ तद्युक्तदेशरूपायां पद्मलतायाम् ३ पद्माधारदीर्घिकायाञ्च मेदि०।

सरोत्सव = पुंस्त्री० सरे जले उत्सवोऽस्य। सारसखगे शब्दर० स्त्रियां ङीष्।

सरोरुह्(ह) = सरसि रोहति रुह–क्विप् क वा। १ पद्मे हेमच०। कान्तस्तत्रार्थे रत्नमा० २ सारसखगे च पुंस्त्री०।

सरोरुहासन = पु० सरोरुहं पद्ममासनं यस्य। चतुमुंखे ब्रह्मणि हेमच० तस्य विष्णुनाभिपद्मस्थितत्वात्तथात्वम्। २ पद्मापविष्टमात्रे त्रि०।

सरोवर = पु० सरोभिर्जलैर्ब्रयतेऽसौ वृ–अप्। तडागे शब्दर०। तडागशब्दे ३२४० पृ० दृश्यम्।

सर्क = पु० सृ–क तस्य नेत्त्वम्। १ वायौ २ मनसि ३ प्रजापतौ च संक्षिप्तसा०।

सर्ग = पु० सृज–घञ्। १ स्वभावे २ सृष्टौ ३ निर्मोहे काव्यादेः ४ परिच्छेदे “सर्गोऽयमादिर्गतः” इति नैषधम्। ५ निश्चये अमरः “यदि सर्ग एष ते” इति रघुः। ६ मोक्षे ७ उत्साहे मेदि० ८ अनुमतो हेमच०। सृष्टिरूपः सर्गश्च नवविधः भाग० ३। १० अ० उक्तो यथा “सर्गो नवविधस्तस्य प्राकृतो वैकृतस्तु यः। कालद्रव्यगुणैरस्य त्रिविधः प्रतिसंक्रमः। आद्यस्तु महतः सर्गो गुणवैषभ्यमात्मनः। द्वितीयस्त्वहमो यत्र द्रव्यज्ञानक्रियोदयः। भूतसर्गस्तृतीयस्तु तन्मात्रो द्रव्यशक्तिमान्। चतुर्थ ऐन्द्रियः सर्तो यस्तु ज्ञानक्रियात्मकः। वैकारिको देवसर्गः पञ्चमो यन्मयं मनः। षष्ठस्तु तमसः सर्गो यस्त्वबुद्धिकृतः प्रभोः। षडिमे प्राकृताः सर्गा वैकृतानपि मे शृणु। रजोभाजो भगवतो लीलेयं हरिमेधसः। सप्तमो मुख्यसर्गस्तु षड्विधस्तस्थुषाञ्च यः। वनस्पत्योषधिलतात्वक्सारावीरुधो द्रुमाः। उत्स्रोतसस्तमःप्राया अन्तःस्पर्शाविशेषिणः। तिरश्चामष्टमः सर्गः सोऽष्टविंशद्विधो मतः। अविदो भूरितमसो घ्राणज्ञा हृद्यवेदिनः। गौरजो महिषः कृष्णः शूकरो नवयो रुरुः। द्विशफाः पशवश्चेमे अविरुष्ट्रश्च सत्तम!। खरोऽश्वोऽश्वतरो गौरः शरभश्चमरी तथा। एते चैकशफाः क्षत्तः! शृणु पञ्चनखान् पशून्। श्वा शृगालो वृको व्याव्रो मार्जारः शशशल्लकौ। सिंहः कपिर्गजः कूर्मो गोधा च मकरादयः। कङ्कगृध्रवकश्येनभासभल्लूकवर्हिणः। हंससारसचक्राङ्गकाकोलूकादयः खगाः। अर्वाक्स्रोतास्तु नवमः क्षत्तरेकविधो नृणाम्। रजोऽधिकाः कर्मपरा दुःखे च सुखमानिनः। वैकृतास्त्रय एवैते देवसर्गाश्च सत्तम!। वैकारिकस्तु यः प्रोक्त कौमारस्तूभयात्मकः। देवसर्गश्चाष्टविधो विबुधाः पितरोऽसुराः। गन्धर्वाप्मरसः सिद्धा यक्षरक्षांसि चारणाः। भूतप्रेतपिशाचाश्च विद्याध्राः किन्नरादयः। दशैते विदुराख्याता सर्गास्ते विश्वसृक्कृताः”।

सर्गबन्ध = पु० बन्ध–भावे घञ् सर्गैर्बन्धः ३ त० “कृदभिहितभावो द्रव्यवत् प्रकाशते” इति न्यायात् सर्गबन्धस्य कर्मपरता न कर्मणि घञ् तथःत्वे महाकाव्यविशेषणतया क्लीवतापत्तेः। महाकाव्ये तल्लक्षणं महाकाव्यशब्देऽनुक्तत्वात् अत्र दर्श्यते सा० द० “सर्गबन्धो महाकाव्यं तत्रैको नायकः सुरः। सद्वंशः क्षत्रियो वापि धीरोदात्तगुणान्वितः। एकवंशभवा भूपाः कुलजा बहवोऽपि वा। शृङ्गारवीरशान्तानामेकाऽङ्गी रस इष्यते। अङ्गानि सर्वेऽपि रसाः सर्वे नाटकसन्धयः। इतिहासोद्भवं वृत्तमन्यद्वा सज्जनाश्रयम्। चत्वारस्तस्य वर्गाः स्युस्तेष्वेकञ्च फलं भवेत्। आदौ नमस्क्रियाशीर्वा वस्तुनिर्देश एव वा। क्वचिन्निन्दा खलादीनां सताञ्च गुणकीर्त्तनम्। एकवृत्तमयैः पद्यैरवसानेऽन्यवृत्तकैः। नातिस्वल्पा नातिदीर्घाः सर्गा अष्टाधिका इह। नानावृत्तमयः क्वापि सर्गः कश्चन दृश्यते। सर्गान्ते भाविसर्गस्य कथायाः सूचनं भवेत्। सन्ध्यासूर्येन्दुरजनीप्रदोषध्वान्तवासराः। प्रातर्मध्याह्नमृगयाशैलर्त्तुवनसागराः। सम्भोगविप्रलम्भौ च मुनिस्वर्गपुराध्वराः। रणप्रयाणोपयममन्त्रपुत्रोदयादयः। वर्णनीया यथायोगं साङ्गोपाङ्गा अमी इह। कवेर्वृत्तस्य वा नाम्ना नायकस्येतरस्य वा। नामास्य सर्गोपादेयकथया सर्गनाम तु”।

सर्ज = सर्जने भ्वा० पर० सक० सेट्। सर्जति असर्जीत सृजिवर्जने सर्जस्यापि वर्जनं तेन षोपदेशत्वाभावान्न षत्वम्। तत्र प्रमाणाभावात् षोपदेश एव न्याय्यः।

सर्ज = पु० सृज–अच्। १ शालवृक्षे अमरः। २ तद्रसे (धुना) ३ पीतशाले शब्दच०

सर्जक = पु० सृज–ण्वुल्। १ पीतशाले अमरः २ शालवृक्षे जटा०

सर्जगन्धा = स्त्री सर्जस्येव गन्धो यस्याः। रास्नायां रत्नमा०।

सर्जन = न० सृज–ल्युट्। १ सैन्यपश्चाद्भागे शब्दर० २ सृष्टौ च।

सर्जनिर्य्यासक = पु० सर्जस्य निर्यास इव कायति कै–क। राले (धुना) राजनि०।

सर्जमणि = पु० सर्जस्य शालवृक्षस्य मणिरिव। (धुना) सर्जरसे त्रिका०।

सर्जरस = पु० ६ त०। शालवृक्षरसे (धुना) अमरः।

सर्जि(र्जी) = स्त्री सृज–इन् वा ङीप्। १ नदीभेदे २ तत्कूलजे सर्जिकाक्षारे (साजिमाटि) रत्नमा०।

सर्जिका = स्त्री सृज–ण्वुल् टाप् अतैत्त्वम्। १ सर्जिकाक्षारे “पाक्यक्षारो यवक्षारो यावशूको यवाग्रजः। सार्जिकोऽपि स्मृतः क्षारः कापोतः सुखवर्चकः। कथितः सजिकाभेदो विशेषज्ञैः सुवर्चिका। यवक्षारो लघुः स्निग्धः सुसूक्ष्मो वह्निदीपनः। निहन्ति शूलं वातामश्लेष्मश्वासगलामयान्। पाण्ड्वर्शोग्रहणीगुल्मानाह प्लीहहृदामयान्। सर्जिकाल्पगुणा तस्माद्विशेषाद्गुल्मशूलहृत्। सुवर्चिका सर्जिकावद् बोद्धव्या गुणतो जतै” भावप्र०। २ नदीभेदे च जटा०।

सर्जिकाक्षार = स्त्री सर्जिकायाः क्षारः। स्वनामख्याते क्षारभेदे (साजिमाटि) राजनि०।

सर्जिक्षार = पु० ६ त०। (साजिमाटि) सर्जिकाक्षारे राजनि०।

सर्जु = पु० सृज–उन्। बणिग्जने मेदि०।

सर्जू = स्त्री सृज–ऊ। १ विद्युति मेदि० २ अभिसारे शब्दर०।

सर्ज्य = पु० सर्जस्येदं यत्। १ सर्जरसे रत्नमा०। सृज–ण्यत्। २ सर्जनीये त्रि०।

सर्प = पु० सृप–अच्। १ नागकेशरे उणा०। २ भुजङ्गमे पुंस्त्री० अमरः स्त्रियां ङीष्। ३ सर्पदैवते अश्लेषानक्षत्रे ज्यो० त० “सर्पणादऽभवन् सर्पा हीनत्वादहयः स्मृताः” वह्निपु० तन्नामनिरुक्तिः। भावे घञ्। ४ गमने सुश्रुतोक्तं तद्भेदादिकम् अहिशब्दे ५८१ पृ० दृश्यम्। तद्दंशने तस्य दंष्ट्र भेदेन विषादिकं च भविष्यपु० उक्तं यथा “दष्ट्रा शुक्ला च कृष्णा च रक्ता पीता च दक्षिणा। समासेन तु वक्ष्यामि यथा वै वर्णतः स्मृताः। शुक्ला तु ब्राह्मणी ज्ञेया रक्ता तु क्षत्रिया स्मृता। वैश्या तु पीतिका ज्ञेया कृष्णा शूद्रा तु कथ्यते। अतापरं प्रवक्ष्यामि दंष्ट्राणां विषलक्षणम्। दंष्ट्रायान्तु विषं नास्ति नित्यमेव भुजङ्गमे। दक्षिणं नेत्रमासाद्य विषं सर्पस्य तिष्ठति। संक्रुद्धस्यैव सर्पस्य विषं गच्छति मस्तके। मस्तकाद्धमनीं याति ततो नाडीषु तिष्ठति। नाडीभ्यो गच्छते दंष्ट्रे विषं तत्र प्रवर्त्तते। तत्सर्वं कथयिष्यामि यथावदनुपूर्वशः। अष्टमिः कारणैः सर्पो दशते नात्र संशयः। आक्रान्तो दशते पूर्वं द्वितीयं पूर्ववैरिणम्। तृतीयं दशते भीतश्चतुर्थं मददर्पितः। पञ्चमन्तु क्षुधाविष्टः षष्ठञ्चेह विषोल्वणः। सप्तमं पुत्ररक्षार्थम् अष्टमं कालचोदितम्। यस्तु सर्पो दशित्वा तु उदरं परिवर्त्तयेत्। बलभुग्नाकृतिर्दंष्ट्रा आक्रान्तं तं विनिर्दिशेत्। यस्य सर्पेण दष्टस्य गम्भीरं दृश्यते व्रणम्। वैरदष्टं विजानीयात् कश्यपस्य वचो यया। एकदंष्ट्रा पदे यस्य अव्यक्तं न च कोपितम्। भीतदष्टं विजानीयात् यथोवाच प्रजापतिः। यस्य सर्पेण दष्टस्व रेखा दण्डस्य जायते। मददष्टं विजानीयात् कश्यप्रस्य वचो यथा। द्वे च दंष्ट्रापदे यस्य दृश्येते च महाक्षतम्। क्षुघाविष्टं वि जानीयात् यथोवाच प्रजापतिः। द्वे दष्ट्रे यस्य दृश्येते क्वचिद्रुधिरसंकुले। विषोल्वणं विजानीयाद्वंशं तं नात्र संशयः। द्यपत्यरक्षणार्थायं जानीयान्नात्र संशयः। यत्तु काकपदाकारं त्रिभिर्दन्तैर्विछिद्रितम्। महानाग इति प्रोक्तः कालदष्टं विनिर्दिशेत्। द्विविधं दष्टजातेस्तु लक्षणं समुदाहृतम्। दष्ट दष्ट्वा तु पीतञ्च दष्ट्वोद्धृतं तथैव च। यस्तु सर्पो दशित्वा तु पिबते तु विचक्षणः। दष्ट्वा तु पीतं विज्ञेयं कश्यपस्य वचो यथा। विषभागो तु सर्पस्य त्रिभागस्तत्र संक्रमेत्। उदरं दर्शयेद् यस्तु उद्धृत तं विनिर्दिशेत्। छर्दितं विषपेगेन निर्विषः पन्नगो भवेत्। अमाध्यश्चापि विज्ञेयश्चतुर्दंष्ट्राभि पीडितः। पीवाभङ्गो भवेत् किञ्चित् सदष्टो विषयोगतः। आर्द्राऽश्लेषामघायाम्यकृत्तिकासु विशेषतः। विशाखासु त्रिपूर्वासु मूलास्वातिशतात्मके। सर्पदष्टा न जीवन्ति विषं पीतञ्च यैस्तथा। शून्यागारे श्मशाने च शुष्कवृक्षे तथैव च। न जीवन्ति नरा दष्टा नक्षत्रे तिथिसंयुते। हतो दंशस्ततः शुद्वोव्यन्तरः परिकीर्त्तितः” भविष्यपु० “अतःपरं प्रवक्ष्यामि कालदष्टस्य लक्षणम्। “जिह्वाभङ्गो हृदिशूलं चक्षुर्भ्याञ्च न पश्यति। दशञ्च दग्धसङ्काशं पक्वजम्बूफलोपमम्। वैवर्ण्यं चैव टलानां श्यामो भवति वर्णतः। सर्वेष्वङ्गेषु शैथिल्यं पुरीषस्य च भेदनम्। भग्नस्कन्धकटिग्रीव ऊर्द्ध्वदृष्टिरयोमुखः। दह्यते वेपते चैव स्वपते च मुहुर्मुहुः। शस्त्रेण छिद्यसानस्य रुधिरं न प्रवर्चते। दण्डेन ताड्यमानस्य दण्डराजी न जायते। दंशे काकपदे सुनीलमसकृज्जम्बूफलाभं घनम् घच्छूनं रुधिराङ्गसेकबहुलं कृच्छ्रान्निरोधो भवेत्। हिक्काश्वासगलग्रहस सुमहान् या दुस्त्वचा दृश्यते संस्थानं प्रवदन्ति शास्त्रनिपुणास्तं कालदष्टं पिदुः। दंशे यस्याथ शोथः प्रचलितवलितं मण्डलं वा सुनीलं प्रस्वेदो णात्रमेदः स्रयांत च रुधरं सानुनासञ्च जल्पेत। दलोष्ठाभ्यां वियोसो म्रसति च हृदयं सन्निरोधश्च तीज्ञो दिव्यानामेव दशरथलविपुलमयो किद्धि तं कालदष्टम। दलैर्दन्तान् स्पृशति बहुलो दृष्टिरायासखिन्ना स्थूलो दंष्ट्रः स्रवति रुधिरं केकरं चक्षुरेकम्। प्रत्वादिष्टः श्वसिति सततं सानुनासञ्च भाषेत् यद् यद् ब्रूते सकलनदितं कालदष्टं तमायुः। वेपते वेदनातस्तु रक्तनेत्रश्व जायते। प्रीयाभङ्गश्च लालाभिः कालदष्टं विनिर्दिशेत्। दर्पणे सलिले वापि आत्मच्छायां न पश्यति। मन्दरश्मि तथा दीपं तेजोहीनं दिवाकरम्। वेपते वेदनातस्तु रक्तनेत्रश्च जायते। स याति निधनं जन्तुः कालदष्ट विनिर्दिशेत्। अष्टम्याञ्च नवम्याञ्च कृष्णपक्षे चतुर्दशीम्। नागपञ्चमीदष्टानां जीवितस्य च संशयः। आर्द्राऽश्लेषामथायाम्यकृत्तिकासु विशेषतः। विशाखासु त्रिपूर्वासु मूलास्वातिशतात्मके। सर्पदष्टा न जीवन्ति विषं पीतञ्च यैस्तथा। शून्यागारे श्मशाने च शुष्कवृक्षे तथैव च। न जीवन्ति नरादष्टा नक्षत्रे तिथिसंयुते। अष्टोत्तर मर्मशतं प्राणिनां समुदाहृतम्। तेषां मध्ये तु मर्माणि दश द्वे चापि कीर्त्तिते। शङ्खे नेत्रे भ्रुवोर्मध्ये वस्तिभ्यां वृषणान्तरे। कक्षे स्कन्धे हृदिमध्ये तालुके चिवुके गुदे। एषु द्वादशकर्मसु दष्टः शस्त्रेण वा हतः। न जीवन्ति नरा लोके कालदष्टान् विनिर्दिशेत्”। दूतो वा दण्डहस्तो भवति च युगलं पाशहस्तस्तथा वा रक्तं वस्त्रञ्च कृष्णम् ह्यथ शिरसि गतम् चैकवस्त्रश्च दूतः। तैलाभ्यक्तश्च तद्वत् त्वरितगतियुतो युक्तकेशश्च याति, यः कुर्य्यात् घोरशब्दं करचरणयुगैः प्राप्तकालस्य दूतः। नागोदयं प्रवक्ष्यामि ईशानेन तु भाषितम्। ब्रह्मणा तु पुरा सृष्टा ग्रहा नागास्त्वनेकशः। अनन्त भास्कर विद्यात् सोम विद्यात्तु वासुकिम्। तक्षकं भूमिपुत्रन्तु कर्कोटञ्च बुधं विदुः। पद्म वृहस्पतिं विद्यान्महापद्मञ्च भार्गवम्। कुलिकः शङ्खपालश्च द्वावेतौ तु शनैश्चरः। पूर्वपादः शङ्खपालो द्वितीयः कुलिकोऽस्य च। नेत्रभागे यमौ दिष्टौ दिनरात्री तथैव च। शुक्रसोमौ च सध्याह्ने उदये तु क्षमासुतम्। प्राणः प्रागष्टमे भागे दिवासन्धाविहोच्यते। ग्रहाश्च भुञ्जते० राजन्! पथि मृत्यु व्रजत्यधः। अधो गत्वा भवेत् सर्पो निर्विषो नात्र संशयः” भविष्यपु० “मास्याषादे तथा ज्यैष्ठे प्रमाद्यस्ति भुजङ्गमाः। ततो नागो नागिनी च मैथुनं संप्रपद्यो। चतुरो वार्षिकान् मासान् नागी गर्भमधारयत्। ततः कार्त्तिकमासे तु अण्डकानि प्रसूयते। अण्डकानान्तु विज्ञेयं द्वे शते द्वे च विंशती। तान्येव भक्षयेत् सा तु भागैकं घृणया त्यजेत्। सुवर्णार्कवर्णनिभात् पुमात् संजायतेऽण्डकात। तानेव खदते सपी अहोरात्राणि विशतिम्। अर्कोदकसुवर्णाभात् दीर्घराजीवसन्निमात्। तस्मादुत्पाद्यते स्त्री वै अण्डाद् व्राह्मणसत्तम!। शिरीषपुष्पवर्णाभादण्डकात्स्यान्नपु सकम्। ततो भिनत्ति चाण्डानि षणमासेन तु गौतम!। ततस्ते प्रीतिसम्बन्धात् स्नेहं वध्नन्ति बालकाः। ततोऽसौ सप्तरात्रेण कृष्णो भवति यत्नतः। आयुःप्रमाणं सर्पाणां शतं विंशोत्तर स्मृतम्। मृत्युश्चाष्टविधो ज्ञेयः शृणुष्यात्र यथाक्रमम्। मयूरात् मानुषाद्वापि चकोराङ्गोखुरात्तथा। विडालान्नकुलाच्चैव वराहाद्वृश्चिकात्तथा। एतभ्यो यदि मुच्येत जीवेद्वि शोत्तरं शतम्। सप्ताहे तु ततः पूर्णे दंष्ट्राणान्तु विरोहणम्। विषस्यागमनं तत्र विक्षपश्च पुनः पुनः। एव ज्ञात्वा तु तत्त्वेन विषकर्म समारभेत्। एकविंशतिरात्रेण विषं दंष्टासु जायते। नागी पार्श्वसमावर्त्ती बालसर्पस्तु उच्यते। पञ्चविंशतिरात्रस्तु सद्यः प्राणहरो भवेत्। षण्मासाज्जातमात्रस्तु कञ्चुकं वै प्रमुञ्चति। पादानाञ्चापि विज्ञेया द्वे शते द्वे च विंशती। गोलोमसदृशाः पादाः प्रविशन्ति क्रमन्ति च। सन्धीनां चास्य विज्ञेयं द्वे शते विंशती तथा। पांशुल्य श्चापि विज्ञेया द्वे शते विंशतिस्तथा। अकालजाता ये सर्पा निर्विषास्ते प्रकीर्त्तिताः। पञ्चसप्ततिवर्षाणि आयुस्तेषां प्रकीर्त्तितम्। रक्तपीतशुक्लदन्ता आनीला मन्दवेगिनः। एते अल्पायुषो ज्ञेया अल्पाहाराश्च भीरवः। एकञ्चास्य भवेद्वक्त्रं द्वे जिह्वे च प्रकीर्त्तिते। दंष्ट्राश्चतस्रो विज्ञेया प्रजापतिवचो यथा। प्रथमा ब्रह्मदैवत्या द्वितीया विष्णुदैवता। तृतीया रुद्रदैवत्या चतुर्थी यमदैवता। हीना प्रमाणतः सा तु वामनेत्रं समाश्रिता। नास्यां मन्त्राः प्रयोक्तव्या नौषधं नैव भेषजम्। वैद्यः पराङ्मुखो याति मृत्यु स्तस्या विलेखनात्। चिकित्सा न बुधैः कार्य्या तदन्तं तस्य जीवितम्। मकरीं मासिकीं विद्यात् करालीञ्च द्विमासिकीम्। कालरात्री भवेत् त्रीणि चतुरो यमदूतिका। मकरीं शस्त्रकं विद्यात् कराली काकपादिका। ढककाकृतिः कालरात्री याम्या कूपाकृतिः स्मृता। मकरी वातुला ज्ञेया कराली पैत्तिकी स्मृता। कफात्मिका कालरात्री यमदूती त्रिदोषिका। शुक्ला तु मकरी ज्ञेया कराली रक्तसन्निभा। कालरात्री भवेत् पीता कृष्णा च यमदूतिका” भविष्यपु०। कश्यप उवाच “सविषा दंष्ट्रयोर्मध्ये यमदूती तु चेद्भवेत्। न चिकित्सा बुधैः कार्य्या तं गतासुं विनिर्दिशेत्। प्रहरार्द्धं दिवारात्रौ एकैकं भुञ्जते त्वहिः। एकस्य च समानञ्च द्विताय षोडशं तथा। नागोदये य उद्दष्टो हतो विद्धो विदारितः। कालदष्टं विजानीयात् कश्यपस्य वचो यथा। यन्मात्रः पततेबिन्दुर्वालाग्रसलिलोद्धृतः। तन्मात्रं स्रवते दंष्ट्राविषं सर्पस्य दारुणम्। ज्वालाशते तु संपूर्णे देहे संक्रमते विषम्। यावत् संक्रामयेदबाहुं कुञ्चितं वा प्रसारयेत्। अनेन क्षणमात्रेण विषं गच्छति मस्तके। एधते विषवेगस्तु शतशोऽथ सहस्रशः। वर्द्धते रक्तमासाद्य ततो वाते शिखी यथा। तैलबिन्दुर्जलं प्राप्य यथा वेगेन वर्द्धते। शिखण्डी आश्रयं प्राप्य मारुतेन समीरितः। ततस्तालाशतं प्राप्य त्वचास्थानं विचेष्टितम्। त्वचासु द्विगुणं विद्याच्छोणितेषु चतुर्गुणम्। पित्ते तु त्रिगुणं याति ष्मेष्मे वै षोडशं भवेत्। वायौ त्रिंशद्गुणञ्चैव मज्जे षष्टिगुणं तथा। प्राणे चैकार्णवीभूते सर्वस्रोतो निरोधयेत्। स्नातसा रुध्यमानेन याति साध्यमसाध्यताम्। ततोऽसौ म्रियते जन्तुर्निश्वासाच्छ्वासवर्जिनः। निष्क्रान्ते तु ततो जीवे भूते पञ्चत्वमागते। तानि भूतानि गच्छन्ति यस्य यस्य यथालयम्। पृथिव्यापस्तथा तेजो वायुराकाशमेव च। इत्येषामेव संक्षातः शरीरमभिधीयते। पृथिवी पृथिवीं याति आपस्तीयेषु लीयते। तेजो गच्छति चादित्य मारुतो मारुतं व्रजेत्। आकाशञ्चैव आकाशे सह तेनैव गच्छति। स्वस्थानं ते प्रपद्यन्ते परस्परनियोजिताः। न जीवेदागतः कश्चिदिह जन्मनि सुव्रव!। विषाथ न उपेक्षेत त्वरितं तु चिकित्सयेत्। एकमस्ति विषं लोके द्वितीयञ्चोपपद्यत। यथा चलविषञ्चैव स्थावरन्तु तथैव च। प्रथमे विषयेगे तु रोमहर्षः प्रजायते। द्वितीये विषवेगे तु स्वेदो गात्रेषु जायते। तृतीये विषयेगे तु कम्पो गात्रेषु जायते। चतुर्थे विषवेगे तु श्रोत्रान्तरनिरोधकृत्। पञ्चमे विषवगे तु हिक्का गात्रेषु जायते। षष्ठे तु विषवेगे तु ग्रीवाभङ्गस्तु जायते। सप्तमे विषवेगे तु प्राणभ्यो विप्रमुच्यते सप्तधातुवहा ह्येते वैनतेयेन भाषिताः। त्वचास्थाने विषप्राप्ते तस्य रूपाणि मे शृणु। अङ्गानि तिमिरायन्ते यतन्ते च मुहुर्मुहुः। एतानि यस्य चिह्नानि तस्य त्वचगतं विषम्। तस्यागदे प्रवक्ष्यामि येन सम्मद्यते सुखम्। अर्कमूलसपामार्गं प्रियङ्गुं तगर तथा। एतदालोड्य दातव्यं ततः सम्पद्यते सुखम् ततस्तस्मिन् कृते विप्र! न निवर्त्तेत चेद्विषम्। त्वचःस्थानं ततो भित्त्वा रक्तस्थानं प्रधावति। विषे च रक्तसप्राप्ते तस्य रूपाणि मे शृणु। दह्यते मुह्यते चैव शीतलं बहुमन्यते। एतानि यस्य रूपाणि तस्य रक्तं गत विषम्। तत्रागदं प्रवक्ष्यामि येन सम्पद्यते सुखम्। उशीरं चन्दनं कुष्ठमुत्पलं तगरं तथा। कहाकालस्य मूलानि सिन्धुवारमृगस्य च। हिङ्गुञ्च मरिचञ्चैव पूर्वयेगे तु दापयेत्। वृहती वृश्चिकाली च इन्द्रवारुणिमूलकम्। सर्पगन्धा घृतं चैव द्वितीये परिकीर्त्तितम्। सिन्धुवारं तथा हिङ्गु तृतीये कारयेद्बुधः। नस्यं पानञ्च कूर्वीत अञ्जनं लेपनं तथा। एतेनैवोपचारेण ततः सम्पद्यते सुखम्। रक्तस्थानं ततो गत्वा पित्तस्यानं प्रधावति। पित्तस्थानगते विप्र! विषे रूपाणि मे शृणु। उत्तिष्ठते निपतते दह्यते मुह्यते तथा। गात्रतः पीतता स्याद्वै दिशः पश्यति पीतिकाः। धवलाश्च भवेन्मूर्च्छा न चात्मानं विजानते। विषक्रियां तस्य कुर्य्यात् यथा सम्पद्यते सुखम्। पिप्पलं मधुकं चैव मधुखण्डघृतं तथा। मधुसारमलाबूञ्च जातिशर्करबालुकाम्। इन्द्रवारुणि मूलञ्च गवां मूत्रेण पेषयेत्। नस्यं तस्य प्रयुञ्जीत पानमालेपमञ्जनम्। एतेनैवोपचारेण ततः सम्प्रद्यते सुखम्। पित्तस्थानमतिक्रम्य श्लेष्मस्थानञ्च गच्छात। श्लेष्मस्थाने ततः प्राप्ते तस्य रूपाणि मे शृणु। गात्राणि तस्य रुध्यन्ते निश्वासश्च न जायते। लाला च स्रवते तस्य कण्टो घुरघुरायते। एतानि यस्य रूपाणि श्लेष्मस्थानगतं विषम्। तस्यागदं प्रवक्ष्यामि येन सम्पद्यत सुखम्। त्रिकटुकं कोशातकी लोध्रञ्च मधुसारकम्। एतेषां सप्तभागानि गवां मूत्रेण पेषयेत्। नस्यं पानञ्च कुर्वीत अञ्जनं लेपनं तथा। एतेनैवोपचारेण ततः सम्पद्यते सुखम्। श्लेष्मस्थान्मतिक्रम्य वायुस्थानञ्च गच्छति। तत्र रूपाणि वक्ष्यामि वायुस्थानगते विषे। आध्मायते च जठरं यत्नवांश्च न पश्यति। ईदृशं कुरुते रूपं दृष्टिभङ्गश्च जायते। एतानि यस्य रूपाणि तस्य वायुगतं विषम्। तस्यागद प्रवक्ष्यामि येन सम्पद्यते सुखम्। शोणभूलं पियालञ्चा रक्ता च गजपिप्पली। हिङ्गुञ्च पिष्ट्वा गुडिकाञ्च कुर्य्याद्दद्याच्च तस्याञ्जनलेपादीन्। एषोऽगदः सर्वविषाणि हन्यात् स्वयम्भुवा देववरेण सृष्टः। अञ्जनञ्चैव नस्यञ्च क्षिप्रं दद्याद्विषान्विते। वायुस्थानं ततो मुक्त्वा मज्जस्थानं प्रधावति। विषे मज्जगते विप्र! तस्य रूपाणि मे शृणु। दृष्टिश्च हीयते तस्य भृशमङ्गानि मुञ्चति। एतानि यस्य रूपाणि तस्य मज्जगत विषम्। तस्यागदं प्रवक्ष्यामि येन सम्पद्यते सुखम्। वृत मधु शर्कराञ्च उशीरं चन्दनं तथा। एतदालाड्य दातव्यं प्रानं तस्य च सुव्रत!। ततः प्रणश्यते दुःखं ततः सम्पद्यते सुखम्। अथ तस्मिन् कृते योगे विषं तस्य निवर्त्तते। मज्जस्थानं ततो गत्वा मर्मस्थान प्रधावति। विषे च मर्मसंप्र प्ते शृणु रूपं यथा भवेत्। निश्चेष्टः पतते भूमौ कर्णाभ्यां वधिरो भवेत्। वारिणा सिच्यमानस्य रामहर्षो न जायते। दण्डेन हन्यमानस्य दण्डराजी न जायते। शस्त्रेण छिद्यमानस्य रुधिरं न प्रवर्त्तते। केशेषु लुच्यमानेषु नैव क्त्र शंप्रवेदने। यस्य कर्णौ च पार्श्वौ च हनूप्रादौ च सन्धयः। शिथिलानि भवन्तीह स गतासुरिति श्रुतिः। एतानि यस्य रूपाणि विपरीतानि गौतम!। मृतन्तु तं विजानीयात् कश्यपस्व वचो यथा। वैद्यास्तस्य न पश्यन्ति ये पश्यन्ति कुशिक्षिताः। विचक्षणास्तु पश्यन्ति मन्त्रौषधिसमन्विताः। तस्यागदं प्रवक्ष्यामि स्वयं रुद्रेण भाषितम्। मयूरपित्तं मार्ज्जारपित्तं नकुलपित्तकम्। मत्स्यमहिषपित्तञ्च धानालीमूलमेव च। कुङ्कुमं भार्गवं कष्ठं काश्मरी च त्वचं तथा। उद्पलस्य च किञ्जल्कं पद्मस्य कुमुदस्य च। एतानि समभागानि गामूत्रेण च पेषयेत्। एषोऽगदो यस्य हस्ते दष्टेन म्रियते न वै। कालाहिनापि दष्टोऽपि क्षिप्रं भवति निर्विषः। क्षिप्रमेव प्रदातव्यं मृतसञ्जीवबौषधम्। अञ्जनञ्चिव नस्वञ्च क्षिप्रं दद्यात् विचणणः” भविष्यपु०। कश्यप उवाच “अतःपर प्रवक्ष्यामि नानानां रूपलक्षणम्। सर्पदष्टस्व च तथा सनामाद्द्विजपुङ्गव!। अथ सर्पेण दष्टस्य ऊर्ध्वा वृष्टिः प्रजायते। सर्प्पादष्टस्य च तथा व्यधोदृष्टिः प्रजायते। नपुंसकेन दष्टस्य अद्गमर्दः प्रजायते। रुपा दष्टख वा साम्या दृष्टिर्व्विजवरोत्तम!। कुमारेणापि दष्टस्य दक्षिणा एव जायते। गुर्विण्या वाथ दष्टस्य तथा स्वेदश्च जायते। रोसाञ्चःस्यात् हूतिकया वेपयुश्चापि जायते। पत्रनी प्रमवदात्नौ दिवा सर्पो विवाघिकः। नपुंसकस्वु मख्यायां कश्यपेन तु भापितम्। चन्धकारे तु दष्टानामुदके गहने वने। सप्तस्य वै प्रमत्तख पदे सर्पो न दृश्यते। दष्टरूपाण्यजानन् वै कयं वैद्यश्चिकित्सति चतुविंघास्तु सपोक्ताः पन्नगास्तु महात्मना। दर्वीकरा मण्डतिनो राजिला व्यन्तरास्तथा। दर्वीकरा वातविपा मण्डलाः मैत्तिकाः स्मृताः। श्लेष्मला राजिला ज्ञेया व्यन्तराः सान्निपातिकाः। रक्तं परीक्षयेद्गाढं सर्पाणान्त पृथक् पृथक्। कृष्णं दपींकराणान्तु जायते वातमुल्वणम्। रक्तं घनञ्च बहुशः शोणितं मण्डलिक्षते। पिच्छिलं राजिले स्वल्पं तद्वद्व्यन्तरके तथा। ज्ञेयाः सर्पास्तु चत्वारः पञ्चमी नोपलायते। ब्रह्मणः क्षक्षित्रो वैश्यः शूद्रश्चैव चतुर्थकः। ब्राह्मणे मधुरं दद्यात् तिक्तं दद्यात्तथोत्तरे। वैश्यं कर्षफलं दद्यात् शूद्रे त्रिफलमेव वा। व्राह्मणेन तु द्रष्टस्य दाहो गात्रेषु जायते। मर्च्छा च प्रबला स्याद्वैन ज्ञानमभिजायते। श्यामवर्णं मुखञ्च स्यान्मन्यास्तम्भश्च जायते। तस्य कुर्य्यात् प्रतीकारं येन सम्पद्यत सुखम्। अश्वगन्धामपामार्गं सिन्धुवारं सुरालयम्। एतत् सर्पिः समायुक्तं पानं नस्यञ्च दापयेत्। एतेनैवोपचारेण सुखी भवति मानवः। क्षत्रियेण तु दष्टस्य कम्पो गात्रेषु जायते। मूर्च्छा मोहस्तथा स्याद्वै न ज्ञानमभिजायते। जायते वेदना तस्य ऊर्ध्वञ्चेव निरीक्षते। तस्य कुर्य्यात् प्रतीकारं येन सम्पद्यते सुखम्। अर्कमूलमपानार्गं प्रियङ्गुमथ वारुणीम्। एतत् सर्पिःसमायुक्तं पानं तस्य प्रदापयेत्। एतेनैवोपचारेण मुखी भवति मानवः। वैश्येनापि हि दष्टस्य शृणु रूपाणि यानि तु। श्लेष्ममकोपो लाला च नवोद्वहति वेदना। मूर्च्छा च प्रबला यस्य आत्मानं नाभिनन्दति। तस्य कुर्य्यात् प्रतीकारं येन सम्पद्यते सुखम्। अश्वगन्धां स गोमूत्रां गृहधूभं सगुग्गुलम्। शिरीषार्कपलाशञ्च श्वेतां च गिरिकर्णिकाम्। गोमूत्रेण समायुक्तं पानं नस्यञ्च दापयेत्। एष वैश्येन दष्टानामगदः परिकीर्त्तिवः। शूद्रेणापि हि दष्टस्य शृणु तत्त्वेन गोतम!। कुप्यते वेपते चैव ज्वरः शीतञ्च जायते। अङ्गानि चुलुचुलायन्ते शूद्रदष्टस्य लक्षणम्। तस्यागदं प्रवक्ष्यामि येन सम्पद्यते सुखम्। पद्मञ्च लोध्रकञ्चैव क्षौद्रं पद्मस्य केसरम्। मधु मधूकसारञ्च श्वेता च गिरिकर्णिका। एतानि सममागानि पेषयेत् शीतवारिणा। पान लेपाञ्जनं नस्यं सुखी भवति मानवः। पूर्वाह्णे चरते विप्रो मध्याह्णे क्षत्रियश्चरेत्। अपराह्णे चरेद्वैश्यः शूद्रः सन्ध्याचरो भवेत्। आहारश्चात्र पुष्पाणि ब्राह्मणानां विदुर्बुधाः। मूषिकाः क्षत्रियाणाञ्च आहारो द्विजसत्तम!। वैश्या मण्डूकमक्ष्याश्च शूद्राः सर्वाशिनकथा। अग्रतो दशते विप्रः क्षत्रियो दक्षिणेन तु। वामपार्श्वे सदा वैश्यः पश्चाद्वै शूद्र आदशेत्। मदकाले तु संप्राप्ते पीड्यमाना महाविषाः। अवेलाया दशन्ते वै मैथुनार्त्ता भुजङ्गमाः। पुष्पगन्धाः स्मृता विप्राः क्षत्रियाश्चन्दनाबहाः। वैश्याश्च घृतगन्धा वै शूद्राः शूर्मस्य गन्धिनः। वासं तेषां प्रवक्ष्यामि यथावदनुपूर्वशः। नदीकूपतडागेषु गिरिप्रस्रवणेषु च। आरामेषु पवित्रेषु शुचिष्वायतनेषु च। वसन्ति ब्राह्मणाः सर्पा ग्रामद्वारे चतुष्पथे। क्षत्रियो वसते नित्यं तोरणेषु पुरेषु च। गोशालास्वश्वशालासु पलालेषु तटेषु च। गोष्ठेषु पथि वृक्षेषु विप्र! वैश्या वसन्ति च। अविविक्तेषु स्थानेषु निर्झरेषु वनेषु च। शून्यागारे श्मशाने च शूद्रा विप्र! वसन्ति च। श्वेताश्च कपिलाश्चैव ये सर्पास्त्वनलप्रभाः। मनस्विनः सात्त्विका ये ब्राह्मणास्ते बुधैः स्मृताः। रक्तवर्णसुवर्णाभाः प्रबालमणिसन्निभाः। सूर्य्यप्रभास्तथा विप्र! क्षत्रियास्ते भुजङ्गमाः। नानाविचित्रराजीभिरतसीवर्णसन्निभाः। माणपुष्पसुवर्णाभा वैश्यास्ते च भुजङ्गमाः। काकोदरनिभाः केचित् ये च अञ्जनसन्निभाः। काकवर्णा धूम्रवर्णास्ते शूद्राः परिकीर्त्तिताः। यस्य सर्पेण दष्टस्य दंशमङ्गुलमन्तरम्। बालदष्टं विजानीयात् कश्यपस्य वचो यथा। यस्य सर्पेण दष्टस्य दंशं द्व्यङ्गुलमन्तरम्। योवनस्थेन दष्टस्य एतद्भवति लक्षणम्। यस्य सर्पेण दष्टस्य सार्द्धद्व्यङ्गुलमन्तरम्। वृद्धदष्टं विजानीयात् कस्यपस्य वचो यथा” भविष्यपु०। “स्थानाम्यादौ प्रवक्ष्यामि नद्यां दष्टो न जीवति। चितावल्मीकशैलादौ कूपे च विवरे तरोः। दंशे रेखात्रयं यस्य प्रच्छन्नं स न जीवति। षष्ठ्याञ्च कर्कटे मेषे मूलाश्लेषा मघादिषु। कक्षाश्रोणिगले सन्धौ शङ्खकर्णोदरादिषु। दण्डी शस्त्रधरो भिक्षुर्नग्नादिः कालदूतकः। वक्त्रे वाहौ च ग्रीवायां पृष्ठे च न हि जीवति। पूर्वं दिनपतिर्भुङ्क्ते ह्यर्द्धयामन्ततो परे। शेषाः ग्रहाः प्रतिदिनं षट्संख्यापरिवर्त्तनैः। नागभोगक्रमो ज्ञेया रात्रौ बाणविवर्त्तनैः। शेषोऽर्कः फणिप्रश्चन्द्रस्तक्षको भौम ईरितः। कर्कोटोज्ञो गुरुः पद्मो महापद्मश्च भार्गवः। शङ्खः शनैश्चरो राहुः कुलिकश्चाहयो ग्रहाः। रात्रौ दिवा सुरगुरोर्भोगे स्यादमरान्तकः। पङ्गोः कालो दिवा राहुः कुलिकेन सह स्थितः। यामार्द्धसन्धिसंस्थः स वेलां कालयतीञ्चरेत्। बाण द्विषड् वह्निवाजियुगभूरेकभागतः। दिवा मड्वेदनेत्रादि- पञ्चत्रिवसुखांशकैः। पादाङ्गुष्ठे पादपृष्ठे गुलफे जानुनि लिङ्गके। नामौ हृदि स्तनतटे कण्ठे नासापुटेक्षणे। कर्णयोश्च भ्रुवोः शङ्खे मस्तके प्रतिपत् क्रमात्। तिष्ठेच्चन्द्रश्च जीवेन पुंसो दक्षिणभागके। कायस्य वामभागे तु स्त्रिया वायुवहक्रमात्। अमवत्त्वकृतो मोहो निवर्त्तेत च मर्दनात्” गारुडे १९ अ०। “आषाढादित्रिमासैः स्याद् गर्भो मासचतुष्टये। अण्डकानां शतेद्वे च चत्वारिंशत् प्रसूयते। सर्पा ग्रसन्ति सूतौ तान विना स्त्रीं, पुंनपुंसकान्। उन्मीलतेऽक्षि सप्ताहात् हृष्टो मासाद्भवेद्बहिः। द्वादशाहात् सुबोधः स्याद्दन्ताः स्युः सूर्य्यदर्शनात्। द्वात्रिंशद्दिनविंशत्या चतरस्रस्तेषु दंष्ट्रिकाः। कराली मकरी कालरात्री च यमदूतिका। एतास्ताः सविषा दंष्ट्रा वामदक्षिणपार्श्वगाः। षण्मासान्मुञ्चते कृत्तिं जीवेत् षष्टिसमाद्वयम्। नागाः सूर्य्यादिवारेशाः सप्त उक्ता दिवानिशि। तेषां षट् प्रतिवारेषु कुलिकः सर्वसन्धिषु। शङ्खेन वा महाब्जेन सह तस्योदयोऽथ वा। द्वयोश्चैव नाडिकयोरन्तरं कुलिकोदयः। दुष्टः सकालः सर्वत्र सर्वदंशे विनिर्दिशेत्। कृत्तिका भरणी स्वातिर्मूलं पूर्वत्रयाश्विनी। विशाखार्द्रा मघाश्लेषा चित्रा श्रवणरोहिणी। हस्ता मन्दकुजौ वारौ पञ्चमी चाष्टमी तिथिः। षष्ठी रिक्ता शिवा निन्द्या पञ्चमी च चतुर्दशी। सन्ध्याचतुष्टयं दुष्टं दग्धयोगश्च राशयः। एकद्विबहवो दंशा दष्टविद्धञ्च खण्डितम्। अदंशमवगुप्तं स्याद्दंशमेवं चतुर्विधम्। त्रयो द्व्येकक्षता दंशा वेदना रुधिरं नृणाम्। नक्तं द्व्येकाङ्घ्रिकूर्माभा दंशाश्च यमचोदिताः। दाही पिपीलिकास्पर्शी कण्ठशोषरुजान्वितः। सतोदो ग्रन्थितो दंशः सविषो न्यस्तनिर्विषः। देवालये शून्यमृहे वल्मीकोद्यानकोटरे। सथ्या सन्ध्या रमशाने च शुष्कद्रौ सिन्धुसङ्गमे। द्वीपे चतुष्पथे सौष्ठे गृहेऽब्जे पर्वताग्रतः। बिलद्वारे जीर्णकूपे जीर्णवेश्मनि कुड्यके। शिग्रुश्लेष्मातकाक्षेषु जम्बूडुम्बरकेषु च। वटे च जीर्णप्राकारे खास्यहृतकक्षजत्रुणि। तालौ शङ्खे गले मूर्ध्नि चिवुके नाभिपादयोः। दंशोऽशुभः” अग्निपु०। सुश्रुते तद्दंशलक्षणभेदादिर्दर्शितो यथा “तत्र सर्वेषां सर्पाणां सामान्यत एव दष्टलक्षणं वक्ष्यामः। किं कारणं विषं हि निशितनिस्त्रिंशाशनिहुतवहदेश्यकारि मुहूर्त्तमप्युपेक्षितमातुरमतिपातयति। न चाव- काशोऽस्ति वाक् समूहमनुसर्तुम्। प्रत्येकमपि दष्टलक्षणेऽभिहिते सर्वत्र त्रैविध्यं भवति। तस्मात्रैविध्य मेव वक्ष्यामः। एतद्धातुरहितमसम्मोहकरञ्च। अपि चात्रैव सर्वसर्पव्यञ्जनावबोधः।

तत्र दर्वीकरविषेण त्वङ्नयननखदशनमूत्रपुरीषदंशकृष्णत्वं रौक्ष्यं शिरसो गौरवं सन्धिवेदनाकटीपृष्ठग्रीवादौर्बल्यं जृम्भणं वेपथुः स्वरावसादो घुर्घुरको जडता शुष्कोङ्गारः कासश्वासौ हिक्का वायोरूर्ध्व गमनं शूलोद्वेष्टनं तृष्णा लालास्रावः फेनागमनं स्रोतोऽवरोधस्तास्ताश्च वातवेदना मवन्ति।

मण्डलिविषेण त्वगादोनां पीतत्वं शीताभिलाषः परिधूपनं दाहस्तृष्णा मदो मूर्च्छा ज्वरः शोणितागमनमूर्ध्वमधश्च मांसानामवशातनं श्वयथुर्दंशकोथः पीतरूपदर्शनमाशुकोपस्तास्ताश्च पित्तवेदना भवन्ति।

राजिमद्विषेण शुक्लत्वं त्वगाटीनां शीतज्वरो रोमहर्षस्तब्धत्वं गात्रानामोदंशशोफः सान्द्रकफप्रसेकश्छर्दिरभीक्ष्णमक्ष्णोः कण्डूः कण्ठे श्वयथुर्घुर्घुरक उच्छासनिरोधस्तमःप्रवेशस्तास्ताश्च कफवेदना भवन्ति।

पुरुषाभिदष्ट ऊर्ध्वं प्रेक्षतेऽधस्तात् स्त्रिया सिराश्चोत्तिष्ठन्ति ललाटे। नपुंसकाभिदष्टस्तिर्य्यक्प्रेक्षी भवति। गर्भिण्या पाण्डुमुखोध्मातश्च। सूतिकया शूलार्त्तो रुधिरं मेहत्युपजिह्विका चास्य भवति। ग्रासार्थिनान्नं काङ्क्षति। वृद्धेन मन्दा वेगाश्च। बालेनाशु मृदवश्च निर्विषेणाविषलिङ्गम्। अन्धाहिकेनान्धत्वमित्येके। ग्रसनादजगरः शरीरप्राणहरो न विषात्। तत्र सद्य प्राणहराहिदष्टः पतति शस्त्राशनिहत इव भूमौ स्रस्ताङ्गः स्वपिति। तत्र सर्वेषां सर्पाणां विषस्य सप्त वेशा भवन्ति तत्र दर्वीकराणां प्रथमे वेगे विष शोणितं दूषयति तत् प्रदुष्टं कृष्णतामुपैति तेन कार्ष्ण्यं पिपीलिकापरिसर्पणमिव चाङ्गे भवति। द्वितीये मांसं दूषयति तेनात्यर्थं कृष्णता शोफो ग्रन्थयश्चाङ्गे भवन्ति। तृतीये मेदो दूषयति तेन दंशक्लेदः शिरोगौरवं स्वेदश्चक्षुर्ग्रहणञ्च। चतुर्थे कीष्ठमनुप्रविश्य कफप्रधानान् दोषान् दूषयति। तेन तन्द्राप्रसेकसन्धिविश्लेषा भवन्ति। पञ्चमेऽस्थीन्यनुप्रविशति प्राणमग्निञ्च दूषयति तेन पर्वभेदो हिक्का दाहश्च भवति। षष्ठे मज्जानमनुप्रविशति ग्रहणोञ्चात्यर्थं दृषयति तेन गात्राणां गौरवमतीसारो हृत्पीडा मूर्च्छा च सवति। सप्तमे शुक्रमनुप्रविशति व्यानञ्चात्यर्थ कोपयति कफञ्च सूक्ष्मस्रोतोभ्यः प्रच्यावयति तेन श्लेष्मवर्त्तिप्रादुर्भावः कटीपृष्ठभङ्गश्च सर्वचेष्टाविघातो लालास्वेदयोरतिप्रवृत्तिरुच्छासनिरोधश्च भवति।

तत्र मण्डलिनां प्रथमे वेगे विषं शोणित्रं दूषयति तत्तत्र प्रदुष्टं शीततामुपैति तत्र परिदाहः पीतावभासता चाङ्गानां मवति। द्वितीये मांसं दूषयति तेनात्यर्थं पीततापरिदाहौ दंशे श्वयथुश्च भवति। तृतीये मेदो दूषयति तेन पूर्ववच्चक्षुर्ग्रहणं तृष्णा दंशे क्लेदः स्वेदश्च। चतुर्थे कोष्ठमनुप्रविश्य ज्वरमापादयति पञ्चमे परिदाहं सर्वगात्रेषु करोति। षष्ठसप्तमया पूर्ववत्।

राजिमतां प्रथमे वेगे विषं शोणितं दूषयति तत्प्रदुष्टं पाण्डुतामुपैति तेन रोमहर्षः शुक्लावभासश्च पुरुषो भवति। द्वितीये मांसं दूषयति तेन प्राण्डुतात्यर्थं जाड्यं शिरःशोफश्च भवति। तृतीये मेदो दूषयति तेन चक्षुर्ग्रहणं स्वेदो घ्राणाक्षिम्रावश्च भवति। चतुर्थे कोष्ठमनुप्रविश्य मन्यास्तम्भं शिरोगौरवं चापाइयति। पञ्चमे वाकसङ्गं शीतज्वरञ्च करोति षष्ठसप्तमयोः पूर्ववदिति।

भवन्ति चात्र। धात्वन्तरेषु याः सप्त कलाः संपरिकीर्त्तिताः। तास्वेकैकामतिक्रम्य वेगं प्रकुरुते विषम्। येनान्तरेण हि कलां कालकल्पं भिनत्ति हि। समीरणेनोह्यमानं तत्तु वेगान्तरं स्मृतम्। शूनाङ्ग प्रथमे वेगे पशुर्ध्यायति दुःखितः। लालास्रावो द्वितीये तु कृष्णाङ्गः पीद्ध्य्यते हृदि। तृतीये च शिरो दुःख कण्ठग्रीवञ्च तक्ष्यते। चतुर्थे वेपते मूढः खादन् दन्तान् जहात्यसून्। केचिद्वेगत्रयं प्राहुरन्तश्चैतेषु तद्विदः। ध्यायति प्रथमे वेगे पक्षी मुह्यत्यतः परम्। द्वितीये विह्वलः प्रोक्तस्तृतीये मृत्युमृच्छति। केचिदेकं विहङ्गेषु विषवेगमुशन्ति हि। मार्ज्जारनकुलादीनां विषं नातिप्रवर्त्तते”। “अथातः सर्पदष्टचिकित्सितकल्पं व्याख्यास्यामः। सर्वैरेवादितः सर्पैः शाखादष्टस्य देहिनः। दंशस्योपरि बध्नीयादरिष्टा(तागा)श्चतुरङ्गुले। प्लोतचमान्तवल्कानां मृदुनाऽन्यतमेन च। न गच्छति विषं देहमरिष्टाभिर्निवारितम्। दहेद्दंशमथोत्कृत्य यत्र बन्धो न जायते। आचूषणच्छेददाहाः सर्वत्रैव तु पूजित। प्रतिपूर्य्य मुखं वस्त्रैर्हितमाचूषणं भवेत्। स दष्टव्योऽथ वा सर्पो लोष्टो वापि हि तत्क्षणम्। अथ मण्डलिना दष्टं न कथञ्चन दाहयेत्। स पित्तविषबाहुल्याद्दशो दाहाद्विसर्पति। अरिष्टामपि मन्त्रैश्च बध्नीयान्मन्त्रकोविदः। सा तु रज्ज्वादिभिर्बद्ध्वा विषघ्नतिकरो मता। देवब्रह्मर्षिभिः प्रोक्ता मन्त्राः सत्य तपोमयाः। भवन्ति नान्यथा क्षिप्रं विषं हन्युः सुदुन्तरम्। विषं तेजोमयैर्सन्त्रैः सत्यब्रह्मतपोमयैः। यथा निवार्य्यते क्षिप्रं प्रयुक्तैर्न तथौषधैः। मन्त्राणां ग्रहणं काय्य स्त्रीमांसमधुवर्जिना। जिताहारेण शुचिना कुशास्तरणशायिना। गन्धमाल्योपहारैश्च बलिभिश्चापि देवताः। पूजयेन्मन्त्रसिद्ध्यर्थं जपहोमैश्च यत्नतः। मन्त्र स्तु विधिना प्रोक्तः हीना वा स्वरवर्णतः। यस्मान्न सिद्धिमायान्ति तस्माद् योज्योऽगदक्रमः। समन्ततः सिरादंशाद्विद्धेषु कुशलो भिषक्। शाखाग्रे वा ललाटे वा वेध्यास्ता विसृते विषे। रक्ते निर्ह्रियमाणे तु कृत्स्नं निर्ह्रियते विषम। तस्माद्विसावयेद्रक्तं सा ह्यस्य परमा क्रिया”।

सर्पकङ्काली = स्त्री० सर्पस्येव कङ्कालमङ्गविशेषो यस्याः गौरा० ङीष। सर्पविषघातिन्यां लतायां शब्दच०।

सर्पगन्धा = स्त्री सर्पं तद्विषं गन्धयति हिनस्ति गन्ध–अण्। विषहारिण्यां लतायां जटा०।

सर्पघातिनी = स्त्री सर्पं तद्विषं हन्ति हन–णिनि। सर्पविषहरीलतायां रत्नमा०।

सर्पतृण = पुंस्त्री० सर्पस्तृणमिवानायासच्छेद्यो यस्य। नकुले हेमच०।

सर्पदंष्ट्र = पु० सर्पस्य दंष्ट्रेव पुष्पमस्य। १ नागदन्तीवृक्षे शब्दच०। सर्पस्य दंष्ट्रेव स्पर्शने दुःखदत्वात्। २ वृश्चिकालीलतायां स्त्री (विछाति) रत्नमा०।

सर्पदंष्ट्रिका = स्त्री सर्पदंष्ट्राऽऽकारेऽस्त्यस्याः टन्। अजशृङ्ग्यां राजनि०।

सर्पदण्डी = स्त्री सर्पं तद्विषं दण्डयति दण्ड–अण्। १ योरक्षीवृक्षे राजनि०।

सर्पदन्ती = स्त्री सपस्य दन्त इव पुष्पमस्त्यस्या अच गौरा० ङीष। नागदन्तीवृक्षे राजनि०।

सर्पनामा = स्त्री सर्पस्य नामात्र वाचकशब्दे। सर्पकङ्कालीभदे शब्दच०।

सर्पदमनी = स्त्री सर्पान् दमयति अनया दम–णिच–करणे ल्यट् ङीप्। बन्ध्याकर्कोट्यां राजनि०।

सर्पपुष्पी = स्त्री सर्पः सर्पदन्त इव पुष्पभस्याः। नामदन्त्यां राजनि०।

सर्पफणिज = पु० सर्पस्य फणे जायते जन–ड। सर्पफणजात प्रणौ शब्दमा०।

सर्पभुज् = पु० सर्पं भुङ्क्ते भुज–क्विप्। १ मयूरे हेमच०। २ सर्पभक्षके गरुडादी च।

सर्पराज = पु० सर्पाणां राजा टच् समा०। वासुकौ नागभेदे अमरः।

सर्पलता = स्त्री सर्प इव लता। नागवल्ल्यां ताम्बूल्यां राजनि०

सर्पसत्र = न० सर्पेण होम्यद्रव्येण तन्नाशनार्थं वा सत्रम्। जनमेजयानुष्ठिते महाभारतप्रसिद्धे सर्पनाशनार्थे यज्ञभेदे भा० आ० ५१ अ० ५८ अ० तत्कथा दृश्या।

सर्पसहा = स्त्री सर्पं सहते सह–अच्। सर्पकङ्कालोलताया राजनि०।

सर्पहन् = पु० सप हन्ति हन–क्विप्। १ नकुले हेमच० २ गरुडे च।

सर्पाक्षी = स्त्री सर्वस्येवाक्षि पुष्पं यस्याः षच् समा०। १ गन्धनाकुल्याम् राजनि०।

सर्पाख्य = पु० सर्पस्याख्याऽऽख्या यस्य। १ नागकेशरे रत्नमा०। २ महिषकन्दभेदे च राजनि०।

सर्पाङ्गी = स्त्री सर्पस्येवाङ्गं यस्याः ङीष्। १ सर्पकङ्कालीलतायां रत्नमा०। २ सिंहल्यां राजनि०।

सर्पादनी = स्त्री सर्पं सर्पविषमत्त्यऽनया अद–ल्युट् ङीप्। नाकुल्यां राजनि०।

सर्पाराति = पु० ६ त०। १ गरुडे हेमच० २ नकुले च सर्पारिप्रभृतयोऽप्यत्र।

सर्पावास = न० सर्पानामावासा यत्र। १ चन्दनवृक्ष राजनि०। ६ त०। २ सर्पाणामावासे पु०।

सर्पाशन = पु स्त्री० सर्पमश्नाति अश–ल्युट्। १ मयूरे हला०। स्त्रियां ङीप्। २ गरुडे पु०।

सर्पिस् = न० सृप–इसि। घृते अमरः।

सर्पिणी = स्त्री सृप–णिनि ङीप्। १ सर्पयोषिति शब्दर०। २ क्षुपभेदे राजनि०। ३ गमनकर्त्तरि त्रि० स्त्रियां ङीप्।

सर्पीष्ट = न० सर्पीणां भुजगीनामिष्टम्। चन्दने रत्नमा०।

सर्पेष्ट = न० सर्पाणामिष्टम्। चन्दने जटा० २ सर्पाभीष्टे त्रि०।

सर्ब = सर्पणे भ्वा० पर० सक० सेट्। सर्बति असर्बीत् अषोपदेशत्वान् न षत्वमित्येके षोपदेश एव न्याय्यः।

***