सर्व = पु० सृ–व तस्य नेत्त्वम्। १ शिवे २ विष्णौ च विष्णुस०। “असतश्च सतश्चैव सर्वस्य प्रभवाप्ययौ। सर्वस्य सर्वदाज्ञानात् सर्वमेत प्रचक्षते” विष्णुपु० तन्नामनिरुक्तिः। तथा च सर्वं ज्ञेयत्वेन उत्पाद्यत्वादिना वाऽस्त्यस्य अच्। ३ सम्पूर्णे ४ सकले च त्रि० अमरः। असंज्ञायामस्य सर्वनामसज्ञ तत्कार्य्यया। सर्वशब्दार्थस्तु स्वार्थान्वयितावच्छेदकधर्मव्यापकतादृशधर्मावच्छिन्नान्वयितावच्छेदकावच्छिन्नव्याप्यपर्य्याप्तिकधर्मावच्छिन्नः” गा० श०। “व्यापकत्वावच्छिन्नः दिनकरी। यथा सर्वे घटा रूपवन्त इत्यादौ मर्वपदार्थः। “वुद्धिविषययावत्त्वावच्छिन्नसमूहत्ववान्” इति शाब्दिका वदन्ति।
सर्वकर्त्तृ = पु० सर्वं करोति कृ–तृच। १ चतुर्मुखे व्रह्मणि शब्दर०। २ परमेश्वरे च।
सर्वकर्मीण = त्रि० सर्वकर्मभ्योऽलं ख। सर्वकरणसमर्थे पदार्थे “संग्रामे सर्वकर्मीणावि” ति भट्टिः।
सर्वकेशिन् = पु० अभिनेयानां सर्वेषामिव केशोऽस्त्यस्य इनि। नटे शब्दर।
सर्वक्षार = पु० सर्वः क्षारमयः। (सावान)ख्याते पदार्थे राजनि०
सर्वग = न० सर्व गच्छति गम–ड। १ जले २ शिवे ३ परमेश्वरे पु० मेदि०। ४ वायौ ५ आत्मनि च पु० शब्दमा०। ६ सर्वगामिनि त्रि०। ७ प्रियङ्गुवृक्षे स्त्री शब्दच० टाप्।
सर्वगन्ध = न० सर्वे गन्धा अत्र। “चातुर्जातककर्पूरकक्कोलागुरुकुङ्कुमम्। लवङ्गसहितञ्चैव सर्वगन्धं प्रकीर्त्तितम्” भावप्र० उक्ते १ गन्धद्रव्यसमूहभेदे। सर्वान् गन्धयति हिनस्ति संहारकाले गन्धत्यच् सर्वगन्धा उत्पाद्यतया सन्त्यस्य वा। २ परमेश्वरे सर्वनाशकत्वात् सर्वगन्धहेतुत्वाद्वाऽस्य तथात्वम्।
सर्वग्रन्थि = पु० सर्वत्र ग्रन्थिरिवात्र। १ पिप्पलीमूले राजनि०।
सर्वङ्कष = पु० सर्वं कषति कष खच् मुम्च। १ पापे २ सर्वातिरेकिणि त्रि०।
सर्वजनीन = त्रि० सर्वजनेषु विदितः ख। सर्वत्र विख्याते सि० कौ०।
सर्वज्ञ = पु० सर्वं जानाति ज्ञा–क। १ शिवे २ बुद्धे अमरः। ३ परमेश्वरे च “यः सर्वज्ञः सर्वविद्” श्रुतिः। ४ सर्वज्ञानकर्त्तरि त्रि०। ५ दुर्गायां स्त्री “सर्वज्ञा सर्ववेत्तृत्वात्” देवीपु० ४८ अ०।
सर्वतःशुभा = स्त्री सर्वतः शुमं यस्याः। प्रियङ्गुवृक्षे शब्दच०।
सर्वतस् = अव्य० सर्व + तसिल्। समन्तत इत्यर्थे अमरः।
सर्वतिक्ता = स्त्री सर्वतः तिक्ता। काकमाच्यां राजनि०।
सर्वतोभद्र = पु० न० सर्वतो भद्राणि मुखानि यस्य। १ चतुर्द्वारयुक्ते १ गृहभेदे प्रतिष्ठादौ पूज्यदेवतानां २ मण्डलभेदे सर्वतोभद्रमण्डलशब्दे दृश्यम्। ज्योतिषोक्ते ३ शुभाशुभज्ञानार्थे चक्रभेदे चक्रशब्दे २८१५ पृ० दृश्यम्। अलङ्कारोक्ते बन्धभेदात्मके ४ चित्रकाव्ये च। अलङ्कारशब्दे ४०७ पृ० दृश्यम् सर्वतो भद्रमस्यात्। ५ निम्बवृक्षे पु० अमरः। ६ गाम्भार्य्यां ७ नटयोषिति च स्त्री मेदि०।
सर्वतोभद्रचक्र = न० सर्वतो भद्र यत्र तादृशं चक्रम्। ज्योतिषोक्ते शुभाशुभज्ञानार्थे चक्रभेदे चक्रशब्दे २८१५ पृ० दृश्यम्।
सर्वतोभद्रबन्ध = पु० सर्वतो भद्राकारेण बन्धः। चित्रकाव्यभेदे अलङ्कारशब्दे ४०७ पृ० दृश्यम्।
सर्वतोभद्रमण्डल = न० सर्वतो भद्रनामकं मण्डलम्। शारदातिलकाद्युक्ते पतिष्ठादो–पूज्यदेवतामण्डलभेदे तल्लेखनप्रकारस्तु हेमाद्रौ स्कान्दे प्रागुदीच्यां गतः रेखाः कुर्य्यादेकोनविंशतिम्। खण्डेन्दुवत्त्रिपात् कोणे शृङ्खला पञ्चभिः पदैः। एकादशपदा वल्ली भद्रन्तु नवभिः पदैः। चतुर्वि शत्पदा वापी परिधिर्विंशत्या पदैः। मध्ये षोडशभिः कोष्ठैः पद्ममष्टदलं स्मृतम्। श्वेतेन्दुः शृङ्खला, कृष्णां वल्लीं नीलेन पूरयेत्। भद्रारुणा सिता वापी परिधिः पीतवर्णकः। बाह्यान्तरदलैः श्वेता कर्णिका पीतबर्णिका। परिध्यावेष्टितं पद्म बाह्ये सत्वरजस्तमः। तन्मध्ये स्थापयेद्देवान् ब्रह्माद्यांश्च सुरासुरानिति। शारदायामन्यथोक्तं यथा
“चतुरस्रचतुःकोष्ठे कर्णसूत्रसमन्विते। चतुर्ष्वपि च कोष्ठेषु काणसूत्रचतुष्टयम्। ततः कोष्ठेषु मत्स्याः स्युस्तेषु सूत्राणि पातयेत्। यावत् शतद्वयं मन्त्री षट्पञ्चाशत् पदान्यपि। तावत्तेनैव विधिना तत्र सूत्राणि पातयेत्। षट्त्रिंशता पदैर्मध्ये लिखेत् पद्मं सुलक्षणम्। वहिःपङ्क्त्या भवेत् पीठं पङ्क्तियुग्मेन वीथिका। द्वारशोभोपशोभासान् शिष्टाभ्यां परिकल्पयेत्। शास्त्रीक्तविधिना मन्त्री ततः पद्म समालिखेत्। पद्मक्षेत्रस्य सन्त्यज्य द्वादशांशं बहिः सुधो। तन्मध्य विभजेद्वृत्तैस्त्रिभिः समविभागतः। आद्यं स्यात् कर्णिकास्थानं केसराणां द्वितीयकम्। तृतीयं पद्मपत्राणामुक्तांशेन दलाग्रकम्। बाह्यवृत्तान्तरालस्य मानेन विघिना सुधीः। निधाय केसराग्रेषु परितोऽर्द्धनिशाकरान्। लिखित्वा सन्धिसस्थानि तत्र सूत्राणि पातयेत्। दलाग्राणाञ्च यन्मानं तन्मानाद् वृत्तमालिखेत्। तदन्तरालतन्मध्यसूत्रस्योभयतः सुधीः। आलिखेद् बाह्यहस्तेन दलाग्राणि समन्ततः। दलमूलेषु युगशः केसराणि प्रकल्पयेत्। एतत् साधारणं प्रोक्त पङ्कजं तन्त्रवेदिभिः। पदानि त्रीणि पादार्थं पीठकोणेषु मार्जयेत्। अवशिष्टैः पदैर्विद्वान् पीठगात्राणि कल्पयेत्। पदानि वीथिसंस्थानि मार्जयेत् पङ्क्त्यभेदतः। दिक्षु द्वाराणि रचयेत् द्विचतुःकोष्ठकैस्ततः। पदैस्त्रिभिरथैकेन शोभाः स्युर्द्वारपार्श्वयोः। उपशोभाः स्युरेकेन त्रिभिः कोष्ठैरनन्तरम्। अवशिष्टैः पदैः षड्भिः कोणानां स्याच्चतुष्टयम्। रञ्ज येत् पञ्चभिर्वर्णैर्मण्डलं तन्मनोहरम्। पीतं हरिद्राचूर्ण स्यात् सितं तण्डुलसम्भवम्। कुसुम्भचूर्णमरुण कृष्ण दग्धपुलाकजम्। बिल्वादिपत्रजं श्याममित्युक्त वणपञ्चकम्। अङ्गुलोत्सेधविस्ताराः सीमारेखा सिताः शुभाः। कर्णिकां पीतवर्णेन केसराण्यरुणेन च। शुक्लवर्णानि पत्राणि तत्सन्धीन् श्यामलेन च। रजसा रञ्जयेन्मन्त्री यद्वा पीतैव कर्णिका। केसराः पीतरक्ताः स्युररुणानि दलान्यपि। सन्धयः कृष्णवर्णाः स्युः सितेनाप्यसितेन वा। रञ्जयेत् पीठमार्गांश्च पादाः स्युररुणप्रभाः। गात्राणि तस्य शुक्लानि वीथीषु चतसृष्वपि। आलिखेत् कल्पलतिकादलपुष्पफलान्विताः। वर्णैर्नाना विधैश्चित्राः सर्वदृष्टिमनोहराः। द्वाराणि श्वेतवर्णानिं शोभा रक्ताः समीरिताः। उपशोभाः पीतवर्णा कोणान्यसितभानि च। तिस्रो रेखा बहिः कार्य्याः सितरक्तासिताः क्रमात्। मण्डलं सर्वतोभद्रमेतत् साधारणं स्मृतम्”। अपरञ्च “चतुरस्रां भुबं भित्त्वा दिग्भ्यो द्वादशधा सुधीः। पातयेत् तत्र सूत्राणि कोष्ठानां दृश्यते शतम्। चतुश्चत्वारिंशदाढ्यं पश्चात् षट्त्रिंशताम्बुजम्। कोष्ठैः प्रकल्पयेत् पीठं पङ्क्त्या नैवात्र वीथिकाः। द्वारशोभे यथा पूर्वमुपशोभा न दृश्यते। अवशिष्टैः पदैः कुर्य्यात् षडभिः कोष्ठानि तन्त्रवित्। विदध्यात् पूर्ववत् शेषमेवं वा मण्डलं स्मृतम्”। “चतुरस्रे चतुःषष्टिं पदान्यारचयेत् सुधीः। पदैश्चतुर्भिः पद्मं स्यात् मध्ये तत् पूरिताः पुनः। वीथीश्चतस्रः कुर्वीत मण्डलान्तरशालिकाः। दिग्गतेषु चतुष्केषु पङ्कजानि समालिखेत्। विदिग्गतचतुष्काणि भित्त्वा षोडशधा सुधीः। मार्जयेत् स्वस्तिकाकारं श्वेतपीतारुणासितैः”। मार्जनमाह राथवभट्टधृतम् “विदिग्गतश्चतुष्कोणान् भित्त्वा षोडशधा सुधीः। वह्न्यादिकोष्ठत्रितये मध्योर्ध्वमपि मार्जयेत्। रजोभिः पूरयेत्तानि स्वस्तिकानि शिवादितः। प्राक् प्रोक्तेनैव मार्गेण शेषमन्यत् समापयेत्। नवनाभमिदं प्रोक्तं भण्डलं सर्वसिद्धिदम्। पञ्चाब्जमण्डलं प्रोक्तमेतत् खग्निकवर्जितम्। दीक्षायां देवपूजायां मण्डलानां चतुष्टयम्। सर्वतन्त्रानुसारेण प्रोक्तं सर्वसमृद्धिदम्”।
सर्वतोमुख = न० सर्वतोमुखमस्य। १ जले अमरः २ आकाशे मेदि० ३ शिवे ४ बह्मणि ५ परमेश्वरे ६ आत्मनि च पु० मेदि०। ७ ब्राह्मणे शब्दच० ८ स्वर्गे ९ अग्नौ शब्दमा०। “सर्वतःपाणिपादान्तः सर्वतोऽक्षिशिरोमुखः। विश्वरूपो महानग्निः प्रणीतः सर्वकर्मसु” ति० त० उक्तेः वह्नेस्तथात्वम्।
सर्वत्र = अव्य० सर्व–त्रल्। सर्बस्मिन् काले देशे सर्वायां दिशि चित्यर्थे।
सर्वत्रग = पु० सर्वत्र गच्छति गम–ड। १ वायौ शब्दच० ३ सर्व- त्रगामिनि त्रि०।
सर्वत्रगामिन् = पु० सर्वत्र गच्छति गम–णिनि। १ वायौ २ सर्वत्र गन्तरि त्रि० स्त्रियां ङीप्।
सर्वथा = अव्य० सर्वप्रकारम् थाल्। १ सर्वप्रकारे २ भृशे ३ प्रतिज्ञायां ४ हेतौ च शब्दर०।
सर्वदम = पु० सर्वान् दमयति दम–णिच्–अण्। सर्वदमने शाकुन्तले भरतनृपे हेमच०।
सर्वदमन = पु० सर्वान् दमयति दम–णिच्–ल्यु। १ दुष्मन्तपुत्रे भरतनृपे त्रिका०। २ सर्वदमनकर्त्तरि त्रि०।
सर्वदर्शिन् = पु० सर्वं समभावेन पश्यति दृश–णिनि। १ बुद्धे २ परमेश्वरे च। ३ सकलद्रष्टरि त्रि० स्त्रियां ङीप्।
सर्वदा = अव्य० सर्वस्मिन् काले दाच्। सर्वस्मिन् काले इत्यर्थे।
सर्वदुःखक्षय = पु० सर्वेषामाध्यात्मिकाधिदैविकाधिभौतिकानां दुःखानां क्षयः। आत्यन्तिकदुःखत्रयनिवृत्तौ मोक्षे हेमच० “अथ त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्त पुरुषार्थः” सा० सू० “स्वसमानाधिकरणदुःखासमानकालीनत्व दुःखध्वंसरूपनिवृत्तेरात्यन्तिकत्वम्।
सर्वदेवमुख = पु० सर्वेषां देवानां मुखं यत्र। अग्नौ रत्नमा०।
सर्वद्र्यन्च् = त्रि० सर्वमञ्चति पूजयति अन्च–क्विप् अद्र्यागमन नलोपः। सर्वस्य पूजके। भत्वे सर्वद्र्यञ्च इत्यादि। गत्यर्थस्य नलोपे सर्वद्र्यच् इत्येव सर्वगामिनि। भत्ये सवंद्रीच इति मेदः।
सर्वधुरावह = त्रि० सर्वेषां धूः अच्समा० सर्वधुरा तां वहति बह–अच्। सर्वभारवाहके वृषादौ अमरः।
सर्वधुरीण = त्रि० सर्वां धुरं वहति ख। सकलभारवाहके वृषादौ अमरः।
सर्वनाम = पु० सर्वेषां नाम वाचकं संज्ञात्वेऽपि क्षुभ्ना० न णत्वम्। व्याकरणोक्ते कार्य्यविशेषार्थं कृतसंज्ञायुते सर्वादिशब्दभेदे “सर्वादीनि सर्वनामानि” पा० सर्वनामशब्दार्थस्तु वक्तृबुद्धिविषयतावच्छेदकधर्मोपलक्षितधर्मविशिष्टः।
सर्वपूर्णत्वं = न० सर्वैः पूर्णत्वम्। सम्भारे सामग्र्याम त्रिका०।
सर्वप्रहरणायुध = पु० सर्वेषां प्रहरणानि सर्वाणि वा प्रहरणानि आयुधान्यस्य। विष्णौ “सर्वप्रहरणायुधः” विष्णुस० व्युत्पत्तिद्वययोगात् नामद्वयम् तेन नामसहस पूर्त्तिः” भा०।
सर्वभक्षा = स्त्री भक्ष–अण् उप०। १ अजायां हेमच० २ सर्वभक्षके त्रि० ३ वह्नौ पु०।
सर्वमङ्गला = स्त्री सर्वाणि मङ्गलान्यस्याः ५ ब० सर्वाणि मङ्गलानि देयत्वेनास्त्यस्याः अच् वा। दुर्गायाम् अमरः। “सर्वाणि हृदयस्थानि मङ्गलानि शुभानि च। ददाति क्षेपसितान् लोके सा तेन सर्वमङ्गला” देवोप० ४५ अ०।
सर्वमय = त्रि० सर्वात्मकः मयट्। १ सर्वात्मके २ परमेश्वरे पु०।
सर्वमूल्य = न० ६ त०। कपर्द्दके त्रिका०।
सर्वमूषक = पु० सर्वं मुष्णाति मुष–वुन् पृषो०। काले हेमच०।
सर्वरस = पु० सर्वोरसमयः। (धुना) १ शालरसे अमरः ७ व०। २ वोणादिवाद्ये मेदि०। ३ पण्डिते शब्दच०। कर्म०। ४ लवणे रसे। सर्वाणि रसयति रसि–अण्। ५ परमेश्वरे सैन्धवघनवद् तस्य सर्वत आनन्दमयत्वात् तथात्वम्।
सर्वरसोत्तम = पु० सर्वेषु रसेषु उत्तमः। लवणे रसे हेमच०।
सर्वरात्र = पु० सर्वा रात्रिः अच् समा०। “रात्राह्नान्ताः पुसीति” पा० पुंस्त्वम्। सकलरात्रौ सि० कौ०।
सर्वरी = स्त्री सृ–वनिप् ङीप् र च। रात्रौ धरणिः तालव्यादिरयम्।
सर्वर्त्तुपरिवर्त्त = पु० सर्वर्तूनां परिवर्त्तो यत्र। वत्सरे जटा०
सर्वला(ली) = स्त्री सर्वं लाति ला–क वा गौरा० ङीष्। तोमरास्त्रे अमरः।
सर्वलिङ्गिन् = पु० सर्वेषां लिङ्गानि सन्त्यस्य इनि। वेदविरुद्वाचारिणां बोद्धादीनां लिङ्गवत्सु पाषण्डेषु अमरः
सर्वलोह = पु० सर्वः लोहमयोऽवयवो यस्य। लौहमये बाणे हेमच०।
सर्ववर्णिका = स्त्री सर्वं वर्णयति वर्ण–ण्वुल् अत इत्त्वमृ। गाम्भारीवृक्षे जटा०।
सर्वविद् = पु० सर्वं वेत्ति विद–क्विप्। १ परमेश्वरे २ सर्वज्ञातरि त्रि०।
सर्ववेद = पु० सर्वो वेदान् अधीते उक्त्था० ठक्। “सर्वादेः सादेश्च लुक् वक्तव्यः” वार्त्ति० तस्य लुक्। १ सर्ववेदाध्ययनकर्त्तरि। सर्वा वेत्ति विद–अण् उप०। २ सर्वज्ञे त्रि०।
सर्ववेदस् = स० सर्वाणि धनानि वेदयते लम्भयति पात्राय दक्षिणार्थ ददाति विद–लाभे णिच्–असि। सर्वस्वदक्षिणकविहजिन्नामकादियागकर्त्तरि अमरः।
सर्ववेदस = न० सर्वं अदः गृहे विद्यमानं धनं नि० अच्समा०। सर्वस्वे गृहे विद्यमाने सर्वधने तच्च विश्वजिद्यागे दक्षि णात्वेन विहितम। “सहस्र सर्ववेदसं विश्वजितः” कात्या० श्रो० २२। १। ९ सहस्रसर्ववेदसयोर्विश्वजिति विकल्पः। सर्ववेदसपक्षे इदमुच्यते। “ज्येष्ठ पुत्रकप भज्य भूमिशूद्रवर्जं योगाविशेषात् सर्वेषाम्” सू०। “ज्येष्ठपुत्रस्य विभागं दत्त्वां भूमिशूद्रद्वर्जं ददाति कुत पतत् सर्वमनुष्याणां हि भूम्या योगोऽविशिष्टः धारणचङ्क्रमणद्वारेण शूद्रस्य च शुश्रूषोपनतनेति” कर्क “भूमेस्तावद्धारणशयनासनवङ्क्रमणादिसम्बन्धः सर्वेषः। मविशिष्टा यः शूद्रो धर्मार्थं सेवां कुरुते स मर्वेषामविशिष्ट एव संग्र० व्याः “शूद्रदानं वा दर्शनाविरोधाभ्याम्” सू० वाशब्दः पक्षव्यावृत्तौ शूद्रस्य दानं च भवति दृश्यते हि शूद्रस्य दानं पुरुषमेधे “सपुरुषं प्राची दिग्घातुरिति” न च विरोधो गर्भदासस्य। तस्माच्छूद्रो दीयत एव अनेन च न्यायेन भूमेरप्येकदेशदानेनैव न विरोधः “परिमाणे सवमविशेषात् सू०। सर्वस्वपरिमाणे यस्य यावत् स्व तत्सर्वं गृह्यते सर्वं वेदः सर्ववेदसमिति तेन प्रागपि सहस्रात् सर्ववेदसं भवति एवं प्राप्त आह। सर्व स्वपरिमाणे अपेक्षिते सर्वस्वं यस्य यावद्धनं गृहे सुवर्णादि तत्सर्वं देयम् कुतः अविशेषात् न च सर्वस्वं ददातीति (अस्य) वाक्यशेषः श्रुतः येन सहस्रान्न्यूनमतिरिक्तं वेति विशेष आश्रीयते। “अधिकं वा प्रकृत्यनुग्रहात् सू०। “अधिकं वा सहस्रात् सर्ववेदसं ग्रहीतव्यम्। प्रकृत्य हि सर्ववेदसं सष्टम्रेणानुग्रहं दर्शयति कोऽर्हति मदष्यः सर्ववेदसं दातुं तस्मात् सहस्रं देयमिति एतच्च सहस्रादधिक उपसद्यते नेतरथेति एवं तावदत्र (विश्वजिति) सहस्रादधिकं सर्ववेदसमित्युक्तम्” कर्कः। “सर्वष्व प्रतिनिधिर्वा” सू० “दीयते अप्रसिद्धत्वादुव्यते” कर्क० “धेन्वनडुतसारधान्यपल्यदासमिथुनमहानसारोहणविमितशयनानि” सू०। “धेन्वादीनि दासमिथुनान्तानि प्रसिद्धानि महानसोपयोगिकं द्रव्यं ताम्रचर्वादिमहानसशब्देनोच्यने आरोहणं च युग्यं विमितशयने प्रसिद्धे पव। धेनुः प्रसिद्धा अनडुद्वलीवर्दः सीरं हलम् धान्यं गोधूमादिपल्य पलादिमानार्हम्। दासमिथुनं दासीकमौ महानसं ताम्रचर्वादिगृहोपकरणम् आरीहण हस्त्वश्व “द विमितं गृहम् शयनं खट्वादं एता। न दद्यात्” कर्कः।
सर्ववेशिन् = पु० सर्वेषां वेशो धार्य्यत्वेनास्त्यस्यं इनि। नटे हेमच०।
सर्वसङ्गत = पु० सर्वं सङ्गतमुचितं यस्य। १ षाष्टिधान्ये शब्दच० सर्वेत्रोचित त्रि०।
सर्वसंसर्गलवण = न० सर्वसंसर्गेण जातं लवणम्। औषरके लवणे राजनि०।
सर्वसन्नहन = न० सर्वेषां सन्नहनं युद्धार्थं सज्जीकरणं यत्र। चतुरङ्गसैन्यसज्जीकरणेन युद्धयात्रायाम् अमरः।
सर्वसह = पु० सर्वं सहते अच्। १ गुग्गुलो रत्नमा० २ सर्व० महिष्णौ त्रि०।
सर्वसहा = स्त्री सर्वं सहंते खच मुम् च। १ पृथिव्याम् अमरः २ सर्वसोढरि त्रि०।
सर्वसिद्धि = पु० सर्वेषां सिद्धिरस्मात्। १ श्रीफले शब्दच०। २ सकलार्थसाधने त्रि०।
सर्वस्व = न० कर्म०। सकलधने सर्ववेदसशब्दे दृश्यम्।
सर्वस्वदक्षिण = पु० सर्वस्वं दक्षिणा यत्र। विश्वजिन्नामकयागभेदे सर्ववेदसशब्दे दृश्यम्।
सर्वहित = न० सर्वेषां हितम्। १ मरिचे राजनि० ५ ब०। २ सकलहितहेतौ त्रि०।
सर्वाङ्गसुन्दर = पु० औषधभेदे “रमगन्धकतुल्यांशो द्वौ भागौ टङणस्य च। मौक्तिकं विद्रुमं शङ्खमवनीय समांशतः। हेमभस्मार्द्धभागञ्च सर्वं खल्ले निधापयेत्। निम्बुद्रवस्य योगेन पिष्टिकां कारयेद्भिषक्। पश्चात् गजपुटं दद्यात् शीतलञ्च समुद्धरेत्। हैमभस्मसमं तीक्ष्णं तीक्ष्णार्द्धो दरदो मतः। एकीकृत्य समस्तानि सूक्ष्मचूर्णानि कारयेत्। ततः पूजां प्रकुर्वीत भक्षयेत् दिवसे शुभे। सर्वाङ्गसुन्दरो ह्येष रोगराजनिकृन्तनः। वातपित्तज्वरे घोरे सन्निपाते सुदारुणे। अर्शः तु ग्रहणीरोगे मेहे गुल्मे भगन्दरे। निहन्ति वातजान् रोगान् श्लैष्मिकांश्च वि शेषतः। पिषपलीमधुसंयुक्तं घृतयुक्तमवापि वा। मक्षयेत् पर्णखण्डेन सितया चार्द्रकेण वा। गुडूचीरस कहितं प्रमेहे च विशेषतः। रसरत्नाकरप्रोक्तः सिद्धयोगो रमोत्तमः। राजिकाहिङ्गुतैलाम्लं लबणाद्यं विवर्जयेत्” भैषज्यरत्ना०। हेमभस्यवः सर्वद्रव्यार्द्धत्वमिति मतान्तरम्।
सर्वाङ्गीण = त्रि० सर्वाण्यङ्गानि व्याप्नोति ख। सर्वावयवव्यापके “सर्वाङ्गीणे तरुत्रचे” इति मट्टिः।
सर्वाणी = स्त्री सर्वेभ्य आनयति मोक्षं आ–नी–ड पूर्वपटादिति णत्वम्। दुर्गायाम् “सर्पान् मोह्यान् प्रापयति जन्म मृत्युजरादिकम्। चराचरांश्च विपस्थान् सर्वाणी तेन कीर्त्तिता” ब्रह्मवै० प० ५४ अ० तन्निरुक्तिः।
सर्वानुकारिणी = स्त्री सर्वमनुकरोति अमु + क्व–णिनि ङीप्। १ शालपर्ण्याम् राजनि० २ सकलसदृशे त्रि० स्त्रियां ङीप्।
सर्वानुभूति = स्त्री सर्वेषामनुभूतिर्यत्र। १ श्वेवत्रिवृतायाम् अभरः २ तत्त्वज्ञानिनि त्रि० ३ जिनभेदे हेमच०।
सर्वान्नभोजिन् = त्रि० सर्वषामन्नं सर्वाण्यन्नानि वा भुङ्क्ते भुज–णिनि। सर्वान्नभक्षक अमरः।
सर्वान्नीन = त्रि० सर्वेषामन्नं सर्वमन्नं वा भुङ्क्ते ख। सर्वान्नभक्षके अमरः
सर्वाभिसन्धिन् = पु० सर्वत्र आसरणे अभिसन्धास्त्यस्य इनि। १ मन्त्राभसन्धिमति जने २ छद्मतापमे त्रिका०।
सर्वाभिसार = पु० अभिस्रियते अत्र अभि + सृ–भावे घञ् ६ त०। चतुरङ्गसैन्यमन्नाहेन युद्धयात्राभेदे।
सर्वार्थसिद्ध = पु० सर्वेषु अर्थेषु सिद्धः। १ बुद्धे अमरः ६ ब०। २ सत्तलाभीष्टसिद्धियुते त्रि०।
सर्वार्थानुसाधिनी = स्त्री “धर्मादीन् चिन्तितान् यस्मात् सर्वलोकेषु यच्छति। ततो देवी समाख्याता सा सर्मार्थानुसाधिनी देवीपु० ४५ अ० निरुक्तायां दुर्गायाम्।
सर्वावसर = पु० सर्वेषां कर्मणामवसरोऽपहरणं यत्र। अर्द्धरात्रे त्रिका०।
सर्वास्त्रा = स्त्रा सर्वाणि अस्त्राणि यस्याः। १ देवीभेदे हेमच० २ सकलास्त्रयुते त्रि०।
सर्वाह्ण = पु० सर्वमहः टच्समा० ह्रादेशः णत्वम्। सकलदिने
सर्वौघ = पु० सर्वेषां चतुरङ्गसैन्यानामोघो वृन्दममिसारे यत्र। आघोभूतसर्वसैन्याभिसारे अमरः कर्म०। २ सर्वजलवेगे मेदि०
सर्वौषधि = स्त्री कर्म०। “कुष्ठमांसीहरिद्राभिर्वचाशैलेयचन्दनैः। मुराचम्पककर्पूरैर्मुस्तः सर्वौषधिः स्मृता” इत्युक्ते कुष्ठादिद्रव्यवर्गे राजनि०। हेमाद्रौ छन्दोगपरिशिष्टे “कुष्ठं मांसी हरिद्रे द्वे मुराशैलेयचन्दनम्। वना चम्यकमुस्तञ्च सर्वौषध्यो दश स्मृताः” ता एवोक्ताः। शब्दचन्द्रिकामेता एव सर्वौषधिगणत्रेनोक्ताः।
सर्वौषधिगण = पु० सर्वासामोषधीनां गणः। “मुरा मांसी वचा कुष्ठं शैलेयं रजनीद्वयम्। शठीचम्पकमुस्तञ्च सर्वौ षघिगणः स्मृतः” शब्दच० उक्ते द्रव्यगणे।
सर्षप = पु० सृ–अप सुक् च। (सरिषा) १ सखभेदे अमरः। “सर्षपस्तु रसे पाके कटुर्हृद्यः सभक्तिकः। तीक्ष्णोष्णः कफवातनो रक्तपित्ताग्निवर्द्धनः। रक्षाहरोजयेत् कण्डूकष्ठचोठकृमिग्रहान्। यथा रक्तस्तथा गौरः किन्तु गौरोवरो मतः” तच्छाकगुणाः “कटुकं सार्षपं शाकं नहुमूत्रमलं गुरु। अम्लपाकं विदाहि स्यादुष्णं रूक्षं त्रिदोषकृत्। सक्षारं लवणं तीक्ष्णं स्वादु शाकेषु निन्दितम्। तीक्ष्णाष्णं सार्षपं नालं वातश्लेष्मव्रणापहम्। कण्डूकृमिहरं दद्रुकुष्ठघ्नं रुचिकारकम्” भावप्र०। “जालान्तरगते भामौ वच्चाणु दृश्यते रजः। तैश्चतुर्भिर्भवेल्लिख्या लिख्या षडभिश्च सर्षपः” शब्दश्च० उक्ते २ मानमेदे। ३ खञ्जनिकायां स्त्री त्रिका० ङीष्।
सर्षपतैल = न० सर्षपय्य स्नेहः सर्षप + स्नेहार्शे–तैलत्त। सर्षपस्नेहरूपे तैलमेदे “सर्षपतैलं तिक्तं कटुकं वातकफविकारघ्नम्। पित्तास्रदोषदं कृमिकुष्ठघ्नं तिलजवच्चक्षुष्यम्” राजनि०।
सल = न० सल–अच। जले भरतः।
सलिल = न० सल–इलच। १ जले अमरः। बद्वैकृत्ये भलं जलवैकृतशब्दे ३०७१ पृ० दृशप्रम्। ज्या० उक्ते २ जलदवताके उत्तराशादानक्षत्रे लग्नावपिके ३ चतुर्थस्थामे च
सलिलकुन्तल = पु० सलिलस्य कुन्तल इव। शैवाले त्रिका०।
सलिलज = न० सलिले जायते जन–ड। १ पद्मे राजनि०। २ जलजातमात्रे त्रि०।
सलिलनिलय = पु० सलिलं निलयो यस्य। १ जलचरे २ मीनकर्कटराशौ च “सलिलनिलयाभक्ष्या वश्याः सरीसृ पजातयः” ज्यो० त०।
सलिलराशि = पु० ६ त०। समुद्रे सलिलनिध्यार्दयोऽप्यत्र।
सलिलेन्धन = पु० सलिलमिन्धनसिव दाह्यं यस्य। बडवानले त्रिका०।
सल्लकी = स्त्री शल–वुन् लुक्च पृषो० शस्य सः गौरा० ङीष्। शल्लक्यां गजभक्ष्यायाम् अमरे पाठान्तरम्।
सव = पु० सूयते सु–अच्। १ यज्ञे अमरः। २ सन्ताने मेदि०। अच्। ४ सूर्य्ये ४ अर्कवृक्षे ५ जले न० जटा०।
सवन = न० सु–सू–वा ल्युट्। यज्ञाङ्गे २ स्नाने अमरः। सोमनिष्पीडने ४ अभिषवे अमरः ५ सोमपाने भरतः। ६ यज्ञे ७ प्रसवे च ८ मद्यसन्धाने। यज्ञियसवनानि च त्रीणि प्रातर्मध्यतृतीयभेदात्। हवींषि निर्वपत्याग्नेयमैन्द्रं वैश्वदेवं चरुं सवनकालेष्वेकैकम् कात्या० श्रौ० २४। ७। ५। सू० “कुतएतत् आग्नेयं प्रातःसवनम्, ऐन्द्रं माध्यन्दि नमवनम्, वैश्वदेवं तृतीयसवनमित्यर्थवादात्”। “प्रातमैध्यन्दिनापराह्णेषु एकैकं हविर्निर्वपति” कर्कः।
सवयस् = त्रि० समानं वयो यस्य समानस्य सः। वयस्ये अमरः “सवयोभिरन्वितः” इति रघुः।
सवर्ण = पु० समानोवर्णो यस्य। १ तुल्यरूपे हेमच० २ एकजात्याश्रये यथा विप्रस्य विप्रजातिः क्षत्रियस्य क्षत्रियजातिः “तुल्यास्यप्रयत्नं सवर्णमिति” पा० उक्ते स्थानप्रयत्नाभ्यां ३ तुल्ये वर्णे च यथा ककारस्य स्थानेन तुल्यो गकारादिः, प्रयत्नसाम्येन तकारस्य चकारादिः, जकारस्य सकारः सकारस्य षकारः। हकारस्य वर्ग्याश्चतुर्था वर्णाः। सह वर्णेन। ४ वर्णसहिते त्रि०।
सवर्णन = न० सवर्ण + कृतौ णिच्–भावे ल्युट्। तुल्यरूपता सम्पादने “अंशसवर्णनं स्यात्” लीला०।
सवहा = स्त्री सह बहेन। त्रिवृतायां भरतः।
सवासस् = त्रि० सह वाससा। १ वस्त्रत्यागविलम्बस्याक्षमे वेगवति “संवासा जलमाप्लवेत्” स्मृतिः।
सविकल्पक = न० सह–विकल्पेन कप्। वेदान्तोक्ते ज्ञातृज्ञेयभेदादिकल्पनासहिते १ समाधिभेदे न्यायोक्ते एकस्मिन् धर्मिण्यपरसंसर्गावगाहिनि २ ज्ञानभेदे च पात० उक्ते सम्प्रज्ञाते ३ समाधिभेदे असम्प्रज्ञातशब्दे ४७पृ० दृश्यम्। निर्विकल्पकशब्दे ४१०३ पृ० दृम्यम्।
सविकाश = त्रि० सह विकाशेन। १ प्रफुल्ले विकशिते २ असङ्कोचे च “जगन्ति यस्यां सविकाशमासत” माघः।
सविचारा = स्त्री पात० उक्ते समापत्तिरूपसमाधिभेदे निर्विचारशब्दे ४१०३ पृ० दृश्यम्।
सवितर्का = स्त्री पात० उक्ते समापत्तिरूपसमाधिभेदे “तत्र शब्दार्थज्ञानविकल्पैः सङ्कीणां सवितर्का समापत्तिः” सू० “तद्यथा गौरिति शब्दो गौरित्यर्थो नौरिति ज्ञानमित्यविभागेन विभक्तानामपि ग्रहणं दृष्टं विभज्यमानाश्चान्ये शब्दधर्मा अन्येऽर्थधर्मा अन्ये विज्ञानधर्मा इत्येतेषां विभक्तः पन्थाः, तत्र समापन्नस्य योगिनोयोगवाह्यर्थः समाधिप्रज्ञायां समारूढः स चेत्शब्दज्ञानविकल्पानुविद्ध उपावर्त्तते सा सङ्कीर्णा समापत्तिः सवितर्केत्युच्यते। यदा पुनः शब्दसङ्केतस्मृतिपरिशुद्धौ श्रुतानुमानज्ञानविकल्पशून्याया समाधिप्रज्ञायां स्वरूपमात्रेणावस्थितोऽर्थस्तत्स्वरूपाकारमात्रतयैवावच्छिद्यते सा च निर्वितर्का समापत्तिः तत् योगिनां परं प्रत्यक्षं, तच्च श्रुतानुमानयोर्वीजं ततः श्रुतानुमाने प्रभवतः। न च श्रुतानुमानज्ञानसहभूतं तद्दर्शनं तस्मादसङ्कीर्णं प्रमाणान्तरेण योगिनो निर्वितर्कसमाधिजं दर्शनमिति” भा०।
सवितृ = पु० सू–तृच्। १ जङ्कत्स्रष्टरि परमेश्वरे “तत्सवितुर्वरेण्यमि” ति श्रुतिः। २ सूर्ये ३ अर्कवृक्षे अमरः। ४ तद्देवताके हस्तनक्षत्रे ज्यो०। ५ मातरि स्त्री हेमच० ङीप्। सवितुरिदं घ सवित्रिय तत्सम्बन्धिनि त्रि०। स देवताऽस्य अण्। सावित्र तद्देवताकचर्वादौ त्रि० स्त्रियां ङीप्।
सविध = त्रि० सह विध्यति विध–क सहस्य सः। १ निकटे अमरः “सविधेऽपि न सूक्ष्मसाक्षिणी” नैषधम्। सह षिधया। २ प्रकारयुते ३ विधानयुक्ते च त्रि०।
सविस्मय = त्रि० सह विस्मयेन। विस्मयापन्ने हारा०।
सवीज = पु० पात० उक्ते समाधिभेदे “ताएव सवीजः समाधिः” सू० “ताश्चतस्रः समापत्तयो बहिर्वस्तु वीजरूपा इति समाधिरपि सवीजः तत्र स्थूलेऽर्थे सवितर्का तिर्वितर्के सूक्ष्मेऽर्थे सविचारनिर्विचारे इति चतुर्द्धो पसंख्यातः समाधिरिति” भा०।
सवेश = त्रि० विशत्यत्र वेशोदेशः सह वेशेन। १ निकटे अमरः २ वेशान्विते धरणिः।
सव्य = त्रि० सू–प्रेरणे यत्। १ वामे २ दक्षिणे च अमरः। ३ प्रतिकूले हेमच० ४ विष्णौ शब्दमा०।
सव्यभिचार = पु० सह व्यभिचारेण सहस्य सः। अनैकान्तिके दुष्टहेतुभेदे तल्लक्षणं तु “अनैकान्तिकः सव्यभिचारः” गौ० सू० “व्यभिचार एकत्राव्यवस्था सह व्यभिचारेण वर्त्तते इति सव्यभिचारः निदर्शनं नित्यः शब्दोऽस्पर्शत्वात्” वा० भा०। तत्त्वञ्च साध्यवन्मात्रवृत्त्यन्यत्वे सति साध्याभाववन्मात्रवृत्त्यन्यत्वम् चिन्ता०। सव्यभिचारग्रन्थदीधित्यादौ दृश्यम्।
सव्यसांचिन् = पु० सव्येन वामेनापि सचति सन्दघाति बाणं सच–णिनि। अर्जुने हेमच० “उभौ मे दक्षिणौ पाणी गाण्डीवस्य विकर्षणे। तेन दैवमनुष्येषु सव्यसाचीति मां विदु” भा० वि० ४४ अ०।
सव्येष्ठ = पु० सव्ये तिष्ठति स्था–क अलुक्स० अम्बष्ठादि० षत्वम्। सारथौ हला०
सव्येष्ठृ = पु० सव्ये तिष्ठति स्था–ऋन् किच्च अलुक्स० षत्वम्। सारथौ अमरः।
सशस्या = स्त्री सह शस्येन। १ नागदन्त्यां रत्नमा० २ शस्ययुक्ते त्रि०।
ससत्वा = स्त्री सह सत्वेन। १ गर्भवत्यां स्त्रियां २ प्राणियुक्ते त्रि० न मसत्वेषु गर्त्तेष्वि” ति मनुः।
स(श)सन = न० स(स)स० हिंसने ल्युट्। यज्ञार्थं पशुहनने अमरः
सस्य = न० सस–यत्। १ वृक्षादीनां फले अमरः २ क्षेत्रगते धान्ये च हेमच० “सस्यं क्षेत्रं गतं प्रोक्तम्” स्मृतिः। “सस्यञ्च गृहमागतम्” चाणक्यः तालव्यादिरयमित्येके। ३ शस्त्रे ४ गुणे विश्वः।
सस्यक = पु० सस्यमिव कायति कै–क। “सस्यको नारिकेलान्तःसस्याभो मणिखड्गयोः” मेदि० उक्ते १ मणिभेदे २ खड्गे च।
सस्यमारिन् = पु० सस्यं मारयति सृ–णिच् णिनि। १ मूषके राजनि० २ सस्यघातके त्रि०।
सस्यसंवर = पु० सस्यं संवृणोति सम् + वृ–अच्। शालवृक्षे अमरः।
सस्यसंवरण = पु० सस्यं संवृणौति सम् + वृ–ल्युट्। अश्वकर्णवृक्षे राजनि०।
सस्वेदा = स्त्री सह स्वेदेन सहस्य सः। १ दूषितकन्यायां शब्दर० २ घर्मयुक्ते त्रि०।
सह = अव्य० सह–अच्। १ साहित्ये अमरः २ साकल्ये ३ सादृश्ये ४ यौगपद्ये ५ विद्यमानत्वे ६ समृद्धौ ७ सम्बन्धे मेदि०। ८ सामर्थ्ये शब्दमा०। सहशब्दार्थस्तु समभिव्याहृतक्रियाकालः स्वक्रियाकालीनक्रिया वा। तत्र गौणक्रियान्वविनि तृतीया। पुत्रेण सहागता पिता।
सह = पु० सहते सह–अच्। १ अग्रहायनमासे २ भारादिसहिष्णौ त्रि० हेमच० ३ गन्धलवणे ४ बले पु० न० मेदि०।
सहकार = पु० सह युगपत् किरति सौरभम् दूरात् कृअण्। अतिदूरगामिसौरभान्विते १ आम्रे अमरः। भावे घञ्। २ सहकर्मकरणे पु०।
सहकारिन् = त्रि० सह सम्भूय करोति कार्य्यं कृ–णिनि। हेतुभेदे स्वभिन्ने स्वकार्य्यकारके हेतौ।
सहगमन = न० सह + गम–ल्युट्। १ पत्यासहपत्न्यामरणे २ महगतौ च
सहचर = पु० सह चरति चर–अच्। १ पीतझिण्ट्यां २ नील झिण्ट्याञ्च रत्नमा०। ३ वयस्ये ४ प्रतिबन्धके ५ झिण्ट्यां हेमच०। ६ सहांये ७ अनुचरे त्रि० मेदि० “सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः” कुमारः। स्त्रियां ङीप्।
सहचरी = स्त्री सह चरति चर–ट ङीप्। १ पीतझिण्ट्यां २ सख्यां जटा०। सह चरति धर्मम् चर–ट ङीप्। धर्मपत्न्यां हेमच०।
सहचार = पु० सह + चर–घञ्। सामानाधिकरण्ये तदधिकरणवृत्तित्वे।
सहज = पु० सह जायते जन–ड। १ सहोदरे अमरः २ निसर्गजे स्वभावसिद्धे च “सहजप्राकृतावपि” माघः। ३ सहोत्थिते त्रि० मेदि० ज्योतिषोक्ते जन्मलग्नात् ४ तृतीयस्थाने। तत्र भ्रातुः शुभादिचिन्तनात्तथात्वम्।
सहजमित्र = न० सहजं स्वभावसिद्धम् मित्रम्। स्वभावतो मित्रे भागिनेयादौ मिता०। कतिचित् सहजमित्राणि शुक्रनी० परि० उक्तानि यथा “केचित् स्वभावतोऽमित्रामित्राणि सन्ति सर्वदा। माता मातृकुलं चैव पिता तत्पितरौ तथा। पितृपितृव्यात्मकन्या पत्नी तत्कुलमेव हि। पितृमात्रात्मभगिनी कन्यका सन्ततिस्तथा। प्रजापालो गुरुश्चैव मित्राणि सदजानि तु”। २ विद्यादौ च “विद्या शोर्य्यञ्च दाक्ष्यं च बलं धैर्य्यञ्च पञ्चमम्। मित्राणि सहजान्याहुर्वर्त्तयन्ति हितैर्बुधाः” शुक्रनीतिपरिशिष्टम्।
सहजारि = पु० सहजः स्वभावसिद्धः अरिः। सापत्नभ्रातृपितृव्यपुत्रादौ मिता०। शुक्रनीतिपरिशिष्टे अन्येऽप्युक्ता यथा “स्वभावतो भवन्त्येतेऽरयो दुर्वृत्त एव च। ऋणकारी पिता शत्रुर्माता स्त्री व्यभिचारिणी। आत्मपितृ भ्रातरश्च तत्स्त्रीपुत्राश्च शत्रवः। स्नुषा श्वश्रू सपत्नी च ननान्दा यातरस्तथा। मूर्खः पुत्रः कुवैद्यश्चारक्षकश्च पतिः प्रभुः। चण्डश्चण्डा प्रजा शत्रुरदाता धनिकश्च यः। दुष्टानां भूपतिः शत्रुः कुलटानां पतिव्रता। साधुः खलानां शत्रुः स्यात् मूर्खानां बोधको रिपुः।
सहण्डुक = न० पक्वमांसभेदे “छागादेर्मांसमूर्द्ध्वादेः कुट्टितं खण्डितं पुनः। शुद्धमांसविधानेन पचेदेतत् सहण्डुकम्” भावप्र०।
सहदेव = पु० सह दीव्यति दिव–अच्। २ माद्रीसुते पाण्डवभेदे मेदि० २ बलायां ३ दण्डोत्पले ४ शारिरोषधौ च स्त्री मेदि० टाप्। ५ सर्पाक्ष्यां स्त्री मेदि० ङीष ङीषन्तः। ६ पीतदण्डीत्पलायां रत्नमा०।
सहदेव्यादि = पु० “सहदेवी बला चैव शतमूली शतावरी। कुमारी च गुडूची च सिंही व्याघ्री तथैव च” गरु० पु० ४८ अ० प्रतिष्ठाङ्गदेवस्बानीयद्रव्यगणभेदे।
सहधर्मिणी = स्त्री सह समानो वा धर्मोऽस्त्यस्या इनि। १ पत्न्याम् अमरः “सहधर्मं चरेयाताम्” इति मनूक्तेः सहधर्मचारित्वात् “शरीरार्द्धं स्मृता जाया पुण्यापुण्यफले समा” दायभा० उक्तेश्च तस्याः पतिकृतधर्मफलभागित्वाच्च तथात्वम्।
सहन = न० सह–ल्युट्। १ क्षमायां तितिक्षायां शीतोष्णादिद्वन्द्वधर्मसहने हेमच०। सह–ल्यु। २ सहिष्णौ अमरः ३ जमागीले त्रि० मेदि०।
सहपान = न० सह पानम्। एकत्र मद्यादिपाने हेमच०। २ तुल्यपाने अमरः।
सहपांशुकिल = पु० सह पांशुभिः किलति किल–क। वयम्ये त्रिका०।
सहभाविन् = त्रि० सह भवति भू–णिनि। सहाये स्त्रियां ङीप्।
सहभोजन = न० सह एकत्र भाजनम्। एकत्रस्थानेऽशनादौ अमरः।
सहम = न० नील० ता० उक्ते दिवारात्रिभेदेन परस्परं योगवियोगयुतग्रहविशेषेण युतेन लग्नादिनानीते पुण्यादि शुभादिचिन्तनस्थाने राशिभेदे तानि च पञ्चाशत् तदानयनं तत्फलानि च तत्रोक्तानि यथा “पुण्यं गुरुर्ज्ञानयशोऽथ मित्रं साध्ये कृते यत्र न योग उक्तः। कस्यापि तत्रैव युतं विलग्न माहात्म्यमाशा च समर्थना च। भ्राता ततो गौरवराज्यताता माता सुतो जीवितमम्बु कर्म। मान्द्यं च मन्मथकमी परतः क्षमोक्ता शास्त्रञ्च बन्धुसहम त्वथ बन्धकञ्च। मृत्योश्च मद्म परदेशधनान्यदारा स्यादन्यकर्म सबणिक् त्वथ का र्य्यसिद्धिः। उद्वाहसूतिमन्तापश्रद्धाप्रीतिर्बलं तनुः। जाद्यव्यापारसहमे पानीयपतनं रिपुः। शौर्य्योपाय- दरिद्रत्वं गुरुताम्बुपथाभिधम्। बन्धनं दुहितैतानि पञ्चाशत् सहमानि हि। सूर्य्योनचन्द्रान्वितमग्नि लग्नं रवीन्दुयुक्तं निशि पुण्यसंज्ञम् १। शोध्यर्क्षशुद्ध्याश्रयमान्तराले लग्नं न चेत् सैकभमेतदुक्तम्। व्यत्यस्तमस्मात् गुरु २ विद्ययो ३ स्तु संसाधनं पुण्यवियुक् सुरेज्यः। दिवा विलोमं निशि पूर्ववत्तु यशोभिधं ४ तत् सहमं वदन्ति। पुण्यसद्म गुरुसद्मतस्त्यजेत् व्यत्ययो निशि सितान्वितं च तत्। सैकतातनुवदक्तरीतितो मित्रलामसहमं ५ जगुर्बुधाः। पुण्याद्भोमं शोधयेदुक्तरीत्या माहात्म्यं ६ गन्नक्तमस्माद्विलोमम्। शुक्रं मन्दादह्नि नक्तं विलोममाशाख्यं ७ स्यादुक्तवच्छेषमूह्यम्। सामर्थ्य ८ मारात्तनुप विशोध्य नक्तं विलोमं तनुपे कुजे तु। जीवाद्विशुद्धे सततं पुरावत् भ्राता ९ र्किहीनात् गुरुतः सदोह्यः। दिने गुरोश्चन्द्रमपास्य नक्तं रविं क्रमादर्कविधू च देयौ। रीत्योक्तया गौरव १० मर्कमार्केरपास्य वामं निशि राज्यतातौ ११। १२। माते १२ न्दुतोऽपास्य सितं विलोमं नक्तं सुतो १४ऽहर्निशमिन्दुमीज्यात्। स्याज्जीविताख्यं १५ गुरुमार्कितोऽह्नि वामं निशीदं सममम्बयाम्बु १६। कर्म १७ ज्ञमारान्निशि वाममुक्तं रोगाख्य १८ मिन्दुं तनुवः सदैव। स्यान्मन्मथो १९ लग्नपमिन्दुतोऽह्नि वामं निशीन्दुं तनुपं सदार्कात्। कलि २० क्षमे २१ स्तो गुरुतो विशुद्धे कुजे विलोमं निशि पूर्वरीत्या। शास्त्रं २२ दिने सौरिमपास्य जीवात् वामं निशि ज्ञेन युते पुरावक। दिवानिशं ज्ञाच्छशिनं विशोध्य बन्ध्वाख्य २३ मेतन्निशि वन्धकं २४ स्यात्। वामं दिवैतत् मृति २५ रष्टमर्क्षादिन्दुं विशोध्योक्तवदार्कियोगात्। देशान्तराख्य २६ नवमाद्विशोध्य धर्मेश्वरं मन्ततमुक्तवत् स्यात्। अहर्निश वित्तपमर्थभावाद्विशोध्य पूर्वोक्तवदर्थसंज्ञम् २७। सितादपास्यार्कमथान्यदारोह्वयं २८ सदा प्राग्वदथान्यकर्म २९। चन्द्राच्छनिं वाममथो निशायां शश्वद्बणिज्यं ३० दिनबन्धकोक्त्या। शनेर्दिवार्कं निशि चन्द्रमाकेर्विशोध्य सूर्य्येन्दुभनाथयोगात्। स्यात् कार्य्यमिद्धिः ३१ सततं विशोध्य मन्दं सितात् स्यात्तु विवाहसंज्ञम् ३२। गुरोर्बुधं प्रोद्द्य भवेत् प्रसूति ३३ र्वामं निशीन्दुं शनितो विशाध्य। षष्ठं क्षिपेदुक्तदिशा सदैव सन्तापसद्मा ३४ऽऽरमपास्य शुक्रात्। श्रद्धा ३५ सदा प्रोक्तदिशाथ पुण्यं विद्याख्यतः प्रोह्य सदा पुरोक्त्या। प्रोत्याख्य ३६ मुक्ते बल ३७ देह ३८ सं ३९ ज्ञे यशश्च ४० जाड्यं समपास्य भौमात्। शनि विलोमं निशि चन्द्रयोगात् व्यापार ४१ आराज्ज्ञमपास्य शश्वत्। पानीयपातः ४२ शशिनं विशाध्य सौरेर्विलोमं निशि पूर्ववत् स्यात्। मन्दं कुजात् प्रोह्य रिपु ४३ र्विलोमं रात्रौ भवेद्भौमविहीनपुण्यात्। शौर्य्यं ४४ विलोमं निशि पूर्ववत् स्यादुपाय इज्यं ४५ शनितो विशोध्य। वामं निशि ज्ञं तु विशोध्य पुण्यात् ज्ञयुग् विलोमं निशि नद्दरिद्रम् ४६। सूर्य्यौच्चतः सूर्य्यमपास्य नक्त चन्द्रं तदुच्चात् गुरुता ४७ पुरोक्त्या। कर्कार्द्धतः शनिं पाह्यं स्याज्जलाध्वा। ४८ न्यथा निशि। पुण्याच्छनिं विशोध्याह्नि वामं निशि तु बन्धनम् ४९। चन्द्रं सितादपास्योक्तं सदा। कन्याख्य ५० मुक्तवत्। पुण्यादर्कमपास्यायं योगो दृश्योऽन्यथा निशि। स्वनाथहीनं सहमं तदंशाः म्वायोदयघ्ना विहृतास्त्रिशत्यां। तत्सद्मपाको दिवमैर्हि लब्धैः स्यात् तद्दशायां तदसम्भवे वा। अथैषां फलानि। स्वोच्चादिसत्पदगतो यदि लग्नदर्शी वीर्य्यान्वितः सहषपा यदि नेक्षतेऽङ्गम्। नासौ बली रविशशिश्रितभेशदर्शी पूर्ण्णस्तु लग्नपबलस्य विचारणेत्थम्। पञ्चवर्गीबलेनोनो न हर्षस्थानमाश्रितः। अबलोऽयं लग्नदर्शी बली स्वल्पेऽस्ति चेत् पदे। स्वस्वामिना शुभ खगैः सहितं च दृष्टं स्वामी बली च यदि तत्सहमस्य वृद्धिः। यत्स्वामिना शुभखगैश्च न युक्तदृष्टं तत्सम्भवो न हि भवेदिति चिन्त्यमादो। अष्टमाधिपतिना युते क्षित पापदृग्युतमथेत्थशालि तैः। सम्भवेऽपि विलयं प्रयाति तत् तन जन्मनि पुरदभीक्ष्यताम। आदौ जन्मनि सर्वेषां सहमानां बलाबलम्। विमृश्य सम्भवो येषां तानि वर्षे विचारयेत्। सबले पुण्यसहसे धमसिद्धिर्धनागमः। शुभस्वामीक्षितयुते व्यत्यये व्यत्ययं विदुः। लग्नात् षष्ठाष्टरिप्फस्थं धर्मभाग्ययशोहरम्। शुभस्वामिदृशा प्रान्ते सुखधर्मादिसम्भवम्। पापयुक् शुभदृष्टं चेदशुभं प्राक् ततः शुभम्। शुभयुक्तं पापदृष्टपदो शुभमसत् परे। यत्रावदे पुण्यसहमे शुमं सोव्दः शुभावहः। अनिष्टेऽस्मिन् शुभो नेति पुण्यमादौ विचारयेत्। सूतौ षष्ठाष्टरिप्फस्थमवदे पावण्डतं युतम्। पुण्यधर्मार्थसौख्यघ्नं पत्यो दग्धे फलं तथा। सहमान्यखिलानीत्थं सूतौ वर्षे च चिन्तयेत्। मान्द्यारिकलिमृत्यूनां व्यत्ययादादिशेत् फलम्। यशोऽभिधाने सहमे खनेन युतक्षिते सद्यशसो विनाशः। पापार्जितस्यायशसोऽस्ति लाभो नष्टौजसि स्यात् कुल- कीर्त्तिनाशः। कार्य्यसिद्धिसहमं युतं शुभैर्दृष्टभूथसिलगं जयप्रदम्। सङ्करेऽथ शुभपापदृष्टियुक् क्लेशतो जय उदीरितो बुधैः। कलिसद्म मिश्रखगदृष्टमंयुतं यदि पापमूथशिलगं कलेर्मृतिम्। अथ तत्र सौम्यसहितावलोकिते जयमेति मिश्रदृशितः कलिव्ययौ। विवाहसद्माधिपसौम्यदृष्टं युतं शुभैर्मूथशिलं तदाप्तिम्। कुर्य्यात्तदा मिश्रसमेतदृष्टं कष्टादथ क्ररमृतीश्वरैर्न। आशा तदीशश्च षडष्टरिप्फविवर्जितः सौम्ययुतेक्षितश्च। व्याद्वाञ्छितार्थाम्बरवाहनादिलाभः खलेक्षायुतितोऽतिदुःखम्। मान्द्याधिपः पापयुतेक्षितश्च पापा स्वयं रोगकरो विचिन्त्यः। चेदित्थशाली मृतिपेन मृत्युस्तदा भवेद्धीनबलेऽतिकष्टात्। स्वस्वामिसौम्येक्षणभाजिमान्द्ये नाथे सवीर्य्येऽष्टषडन्त्यवर्जे। रोगस्तदा नैव भवेद्विमिश्रं युतेक्षित रुग्भयमस्ति किञ्चित्। अर्थाख्यं शुभनाथदृष्टसहित द्रव्यागमात् सौख्यदं पापैर्दृष्टयुतं च वित्तविलयं कुर्य्यादथो पापयुक्। सद्दृष्टं च शुभेत्थशालसहितं पूर्वं हि तन्नाशनं पश्चादर्थसमुद्भवं च सुसुखं व्यत्या सतो व्यत्ययः। रिपुदृष्ट्या रिपोर्भी तस्तस्करादेर्धनक्षयः। मित्रदृष्ट्या मित्रयोगाद्धनमानौ यशः सुखम्। सत्स्वामिदृष्टं युतमात्मजस्य लाभं सुखं यच्छति पुत्रसद्म। पापान्वितं सौम्यखगेत्थशालं प्राग्दुःखदं पुत्रसुखीय पश्चात्। पापान्वितं क्र रकृतेशराफं नाशाय पुत्रस्य गतौजसीशे। सूतौ सुतेशः सहमेश्वरोऽव्दे पुत्रस्य लब्ध्यै शुभभित्र० दृष्टः। पित्र्यं सदीक्षितयुतं पतिदृष्टयुक्तं तातस्य यच्छति धनाम्बरमानसौख्यम्। पत्यौ गतौजसि मृतौ खलप्रवरोफे नाशः पितुश्चरगृहे परदेशयानात्। शुभेत्थशाले खलखेटयोगे गदप्रकोपः प्रथमे महान् स्वात्। पश्चात् सखं विन्दति पूर्णवीर्य्ये नाथे नृपान्मानयशोभितवृद्धिः। बन्धनाख्यसहम युतेक्षितं स्वामिना शुभखगौ सुखाप्तये। राजगौरवयशोथराप्तयः पापवीक्षणयुते पदाच्युतिः। शुभाशुभैट ष्टयुतं खलैश्चेत् कृतेत्थशालं धनमाननाशम्। पर्वं विधत्ते चरमे शुभेत्थशाले सुखं वाहनशास्त्रनाभ्म्। कर्मभावसहमाधिपः शुभैः स्वामिना भूथशिलो बलान्वितः। हेमवाजिगजभूमिलाभदः पापदृष्टियुतितोऽशुभप्रदः। दग्धा वक्राः कर्मवैकल्यदास्ते युक्ता दृष्टाः शौरिणा ते विशेषात्। राज्यभ्रंशः कोषलाशश्च राजकर्मेशौ चेत् मशराफो खलेन। उपदेष्टा गुरुर्ज्ञानं विद्या शास्त्र श्रुतिः स्मृतिः। मोहो जाड्यं बलं सैन्यमङ्गं देहो जलं द्युतिः। गुरुता मण्डले शत्वं गौरवं मानशालिता। निग्रहानुग्रहविभूराजचिह्नादिलाञ्छनम्। माहात्म्यं मन्त्रगाम्भीर्य्यं धृतिर्बुद्ध्यादिशालिता। सामर्थ्यं देहजा शक्तिः शौर्य्यं तेजो विनिग्रहे। आशेच्छोक्ता मतिर्धर्मे श्रद्धा, बन्धः पराश्रयः। पानीयपतनं वृष्टिर्जलेऽकस्माच्च मज्जनम्। आधिव्याधी तापमान्द्ये सपिण्डा बन्धवः स्मृताः। सत्यानृतं बणिनवृत्तिराधानं प्रसवः स्मृतः। दासत्वं परकर्भोक्तमन्यत् स्पष्टं स्वनामतः। निरूप्याणि यथायोगं कुलजातिस्वरूपतः। शुभयोगेक्षणात् सौख्यं पत्युर्वीर्य्यानुसारतः। दारिद्र्यमृतिमान्द्यारिकलिषूक्तो विपर्य्ययः। प्रश्नकालेऽपि सहमं विचार्य्यं प्रष्टुरिच्छया। सर्वेषामुपयोगोऽत्र चित्रं यच्छन्ति यज्जनाः”।
सहमरण = न० सह मृतेन पत्या सह एकचितारोहणेन मरणम्। मृतपतिचितारोहणेन तत्सहितमरणे शु० त० “अङ्गिराः “मृते भर्त्तरि या नारी समारोहेद्धुताशनम्। साऽरुन्धतीसमाचारा स्वर्गलोके महीयते। तिस्रः कोट्योऽर्द्धकोटी च यानि लोमानि मानवे। तावन्त्यव्दानि सा स्वर्गे भर्त्तारं याऽनुगच्छति। व्यालग्राही यथाव्यालं बलादुद्धरते बिलात्। तद्वद् भर्त्तारमादाय तेनैव सह मोदते। मातृकं पैतृकञ्चैव यत्र कन्या प्रदीयते। पुनाति त्रिकुलं नारी भर्त्तारं याऽनुगच्छति। तत्र सा भर्त्तृपरमा परा परमलालसा। क्रीडते पतिना सार्द्धं यावदिन्द्राश्चतुर्दश”। “ब्रह्मघ्नो वा कृतघ्नो वा मित्रघ्नो वापि यो नरः। तं पुनाति च सा नारी इत्याङ्गिरसभाषितम्। साध्वीनामेव नारीणामग्निप्रपतनादृते। नान्यो धर्मो हि विज्ञेयो मृते भर्त्तरि कर्हिचित्” “या नारीत्युपदानात् सहमरणाभावपक्षोऽपि सूचितः नान्यो धर्म इति तु सहमरणस्तुत्यर्थम्। तथाच विष्णुः “मृते भर्त्तरि ब्रह्मचर्य्यं तदन्वारोहणं वा” इति। ब्रह्मचर्य्यं मैथुनवर्जनं ताम्बूलादिवर्जनञ्च यथा प्रचेताः “ताम्बू लाभ्यञ्जनञ्चैव कांस्यपात्रे च भोजनम्। यतिश्च ब्रह्मचारी च विधवा च विवर्जयेत्” स्मृतिः “एकाहारः मदा कार्य्यो न द्वितीयः कदाचन। पर्य्यङ्कशायिनी मारी विधवा पातयेत पतिम्। गन्धद्रवस्य सम्भोगो मैब कार्य्यस्तथा पुनः। तर्षणं प्रष्यहं कार्य्यं भर्तुस्रिलकुशोदकैः” एतत्त तर्पणं पुत्रपौत्राद्यभावविषय- मिति मदनपारिजातः। “वैशाखे कार्त्तिके साघे वि० शेषनियमञ्चरेत्। स्नानं दानं तीर्थयात्रां विष्णोर्नामग्रहं मुहुः”। तत्र साध्वीमाह हारीतः। आर्त्तार्त्ते मुदिता हृष्टे प्रोषिता मलिना कृशा। मृते म्रियेत या पत्यौ साध्वी ज्ञेया पतिव्रता” इति छन्दोगवरिशिष्टीयमिति कल्पतरुः। साध्वीप्रसादेन लोकधारणमप्याह मत्स्यपु० “तस्मात् साध्व्यः स्त्रियः पूज्याः सततं देववज्जनैः। तासां राज्ञा प्रसादेन धार्य्यते च जग त्रयम्”। महाभारते “अवमत्य च याः पूर्वं पतिं दुष्टेन चेतसा। वर्त्तन्ते याश्च सततं भर्त्तॄणां पतिकूलतः। भर्त्रनुमरणं काले याः कुर्वन्ति तथाविधाः। कमात् क्रोधात् भयान् मोहात् सर्वाः पूता भवन्ति ताः”। अत्र चैहिकब्रह्मघ्नपतेर्दाहनिषेधात् जन्मान्तरीणतत्पापवत एव सहमरणेनोद्धारः” शु० त०। ब्रह्मपु० “देशान्तरमृते पत्यौ साध्वी तत्पादुकाद्वयम्। निधायोरसि संशुद्धा प्रविशेज्जातवेदसम्। ऋग्वेदवादात् साध्वी स्त्री न भवेदात्मघातिनी। त्र्यहाशौचे निवृत्ते तु श्राद्धं प्राप्नाति शास्त्रवत्”। ऋग्वेदवन्दात् “इमा नारीरविधवाः” इत्यादिमन्त्रात्। वृहन्नारदीये “बालापत्याञ्च गर्भिण्यो ह्यदृष्टऋतवस्तथा। रजस्वला राजसुते! नारोहन्ति चितां शुभे!” राजसुते! इति सगरमातुः सम्बोधनम्। वृहस्पतिः “बलसम्बर्द्धनं त्यक्त्वा बाला पत्या न गच्छति। रजस्वला सूतिका च रक्षेद् गर्भञ्च गर्भिणी। एवमन्यतश्चेद् बालसम्बर्द्धनं स्यात्तदा तस्या अप्यधिकारः। व्यासः “दिनैकगम्यदेशस्या साध्वी चेत् कृतनिर्णया। न दहेद् स्वामिनं तस्या यावदागमनं भवेत्। भविष्यपुराणे “तृतीयेऽह्नि उदक्याया मृते भर्त्तरि वै द्विजाः। तस्यानुमरणार्थाय स्थापयेदेकरात्रकम्”। तस्य भर्त्तुः। तथा “एकां चितां समासाद्य मर्त्तारं यानुगच्छति। तद्भर्त्तुर्यः क्रियाकर्त्ता स तस्याश्च क्रियाञ्चरेत्। एतच्च पिण्डदानम्”। “एवञ्च अङ्गिरोब्रह्मपुराणवचनालोचनया ब्राह्मण्यादिसकलभार्य्याणां स्वगतभर्तृगतफलविशेषार्थिनीनां गर्भवतीबालाऽपत्यादिव्यतिरिक्तानां सहमरणानुमरणयोरधिकारः न चात्र योगसिद्ध्यकरणविरोधान्न समुच्चितफलसिद्धिरिति वाच्यम्। योगसि० द्धधिकरणे हि “यः पुत्रकामो यः पशुकाम” इत्यादिना यज्ञक्रतूनुपक्रम्य “एकस्मै वा कामायान्ये यज्ञक्रतव आह्रियन्ते सर्वेभ्यो दर्शपौर्णमासौ” इत्युक्तं तत्र तत्तद्विधि- वाक्येषु निरपेक्षफलश्रुतेः कामनाभेद न्न कर्त्रैक्यं ततश्च सर्वशब्देन प्रकृतवाचिना निरपेक्षाणामेव पुत्रादिफलानां दर्शपौर्णमाससम्बन्धेऽवगते प्रयोगभेदादेव भवतु तत्र तत्तत्फलसिद्धिः तथाच तंदधिकरणसिद्धान्तसूत्रं “योगसिद्धिर्वा अर्थस्योत्पत्त्ययोगित्वात् जैमि०। अस्यार्थः वाशब्दः सिद्धान्तद्योतनार्थः सर्वेभ्यी दर्शपौर्णमासावित्यत्रार्थस्य तत्तत्फलस्य योगेन प्रयोगभेदेन सिद्धिः उत्पत्त्ययोगित्वात् सर्वशब्दानुकर्षणोयानां यः पुत्रकामो यः पशुकाम इत्यादाद्युत्पत्तिवाक्ये फलानां युगपदसम्बन्धात्। न चार्थस्य नानाविधस्य उत्पत्त्ययोगित्वात् महेन्द्रादितत्तल्लोकवासादीनां एकदोत्पत्त्यसम्भवादिति व्याख्यानं युक्तामिति वाच्यं तडागोत्सर्गादौ एकस्मात् कर्मणः क्रमिकनानाफलोक्तेः” “तथहापि सर्वनामपदाभावादार्थवादिकफलानि समुच्चितान्येव कामनाविषयी लाघवात् आर्थवादिकसमुच्चितनानाफलविषयकविधिरप्येक एव कल्प्यत लाघवात् न हि निमित्तसाधारण्ये बाधकं विना नैमित्तिकानां पर्य्यायता सम्भवति वह्निसामीप्ये दाहप्रकाशयोः पर्य्यायताया अदर्शनात्। तस्मात् सकृदनुष्ठितेन कर्मणा यथैकं फल निष्पाद्यते तथा बाधकं विना फलान्तरमपि विनिगमकाभावात्। ज्योतिष्टोमादेस्तु षष्टिवर्षावच्छिन्नफलश्रुतेः पृथगनुष्ठानादेव पृथक् फलसिद्धिः अन्यथा षष्तिसख्याद्यर्भिधानं व्यर्थं स्यात्। यत्र तु कर्मफले कालविशेषो नोक्तस्तत्रापि तत्कर्मसम्पादकानुरूपेण कालविशेषो बोध्यः “फलस्य कर्मनिष्पत्तेस्तेषां लोकवत् परिमाणतः फलविशेषः स्यादिति” ग्यायात्। तेषा कर्मणां लोकवत् कृष्यादिवत्। तथाच भवदेवभट्टाः “एकस्मै वा कामायान्ये यज्ञक्रतव आह्रियन्ते” इति संकीर्त्त्य “सर्वेभ्योदर्शपौर्णमासाविति” प्रयोगभेदविधानाद् भवतु तत्र पृथगनुष्ठानसाध्यत्वं ब्रह्मबधप्रायश्चित्ते तथाभूतपृथगनुष्ठानसाध्यत्वप्रातपादकवचनाभावात् अनेकफलानाञ्च तन्त्रेण दशहरान्यायेन एककामनाविषयतासम्भवात तन्त्रत्वम्” इत्याहुः। हरिनाथोध्यायास्तु “वृषोत्सर्गफलान्युद्दिश्यैतानि चार्थवादिकफलानि समुच्चिता न्येव कामनाकिषयः, पुरुषविशेषणत्वस्य कल्प्यत्वात् तथाच मिलितानामेककासनाविषयत्वकल्पना अग्नीषीभयोरिव देवतात्वे लाघवन्यायस्य विशिष्टत्वाद्” इत्याहुः। अथ वा “य एता रात्रीरधीयीत तस्य पितरो घृतकुल्याः मधु- कुल्याः वा क्षरन्ते” इत्यत्रापि वैकल्पिकान्वयोषगमे जातेष्टिनयभङ्गप्रसङ्गात् लाघवाद्विकल्पेऽष्टदोषाच्च एकस्य कार्यस्य नियोज्याकाङ्क्षायां सकलार्थवादोपस्थितफलकामो यथैक एव नियोज्यः स्वीकृतस्तथात्रापीति। अथानुत्पन्नव्रह्महत्यादिपातकायास्तत्पूतत्वरूपफलबाधात् तत्तत्कामनाविरहेणानधिकारः स्यादिति चेत् उक्तयुक्त्या समुच्चितफलसिद्धेरनन्यथासिद्धार्थवादबलेन सन्दिग्धपापकामनया एवाधिकारो मङ्गलवत्। सति जन्मान्तरीये तादृशपातके संसर्गादिकृत वा तद्ध्वंसोऽपि जायते असति तु न तथा प्रतियोगिरूपसहकारिविरहात् निविंघ्नस्य कृतमङ्गलवत् शु० त० रघु०। “समुच्चितफलककर्मणोऽपि प्रत्येकफलकामनया करणे तत्तत्कामनासहकारेण प्रत्येकफलजनकत्वम् विधिस्वरूपे गदा०।
सहरसा = स्त्री सह रसेन। १ मुद्गपर्ण्यां शब्दर० २ रसान्विते त्रि०।
सहर्ष = पु० सह हर्षेण समानो वा हर्षो यत्र। १ स्पर्द्धने २ हर्षे च त्रिका०। ३ हर्षयुक्ते त्रि०।
सहस् = न० सह–असि। १ बले २ ज्योतिषि च शब्दर० ३ भार्गशीर्षे मासे पु० अमरः। “सहसा सहसा कृतबेपथुरिति” माघः।
सहसा = अव्य० सह + सो–डा। १ हठादित्यर्थे असुरः। २ अकस्मादित्यर्थे शब्दर०। ३ हास्ययुते त्रि० “न सहसा सहसा परिरभ्य तम्” माघः।
सहस्य = पु० सहसे बलाय हितः यत्। पीषमासे अमरः।
सहस्र = न० समानं हसति हस–र। १ दशशतसङ्ख्यायां २ बहुसंख्याया ३ तत्संख्यान्विते च हेमच०। सहस्रसंख्यकाश्च केचित् पदार्थाः कविकल्प० यथा “गङ्गावक्त्रं शेषमूर्द्ध्वा पद्मदलम् रविकरः कार्त्तवीर्य्यवाहुः बेदशाखा शक्रनयनम्”। “तत्र बहुसंख्यत्वे सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपाद्” श्रुतिः। बहुशीर्षादि परत्वमत्र भाष्यादावुक्तम्। संख्यासंख्यययोः परत्वेऽस्य सर्वदैकवचनत्वम् यथा घटानां सहस्रं सुहस्रं घटा इत्यादि आवृत्तौ तु द्वित्वादिकं यथा द्वे सहस्रे त्रीणि सहस्राणीति “चत्वार्य्याहुः सहस्राणि” मनुः।
सहस्रकर = पु० सहसं कराः किरणा अस्य। १ सूर्ये सह स्रकिरणादयोऽप्यत्र हला०। २ अर्कवृक्षे व।
सहस्रकाण्डा = स्त्री सहस्र बहवः काण्डा यस्याः। श्वेतदूर्वायां राजनि०।
सहस्रदंष्ट्र = पुंस्त्री० सहस्रं बहुसंख्या दंष्ट्रा अस्य। पाठीनम त्स्ये (वोयाल) अमरः स्त्रियां ङीष्।
सहस्रदंष्ट्रिन् = पु० सहस्रं दंष्ट्राः सन्त्यस्य इनि। पाठीनमत्स्ये शब्दर०
सहस्रधारा = स्त्री सहस्रगुणिता धारा। देवस्नानार्थं बहु च्छिदयन्त्रनिःसृप्रबहुजलादिधारायाम्।
सहस्रनयन = पु० सहस्रं नयनान्यस्य। १ इन्द्रे हला० सहस्रनेत्रादयोऽप्यत्र। २ पेचके च।
सहस्रपत्त्र = न० सहस्रं बहुसंख्यकानि पत्त्राणि यस्य। १ पद्मे अमरः। सहस्रदलादयोऽप्यत्र। २ सारसे खगे च।
सहस्रपाद = पु० सहस्रं बहवः पादा अस्य अन्तलोपः समा०। १ विष्णौ २ परमेश्वरे च “सहस्राक्षः सहस्रपाद्” पुरुषसूक्तम्।
सहस्रपाद = पु० सहस्रं पादाः किरणश्चरणा वा सन्त्यस्य अच्। १ विष्णौ २ सूर्य्ये ३ अर्कवृक्षे च। ४ कारण्डखगे पुंस्त्री मेदि० स्त्रियां ङीष्।
सहस्रबाहु = पु० सहस्रं बाहवोऽस्य। १ वाणासुरे “बाणः पुत्र शतज्येष्ठो बलेरासोन्महात्मनः। सहस्रबाहुर्वाद्येन ताण्डवेऽतोषयत् शिवम्” भाग० १०। ६२ अ०। २ कार्त्तवीर्य्याजुने। ३ बिष्णौ च “सहम्रवाहो भव विश्वमूर्त्ते!” गीता०
सहस्रभुज = पु० सहम्रं बहवी भुजा अस्य। १ विष्णौ २ कार्त्त वीर्य्यार्जुने च। ५ महानक्ष्म्यां स्त्री “अष्टादशभुजा पूज्या सा महस्रभुजा रणे” मार्कण्डेयपु०।
सहस्रमूर्द्धन् = पु० सहस्रं बहवो मूर्द्ध्वानोऽस्य। १ विष्णौ पुरुषसृक्तम् २ सहस्रशीर्षादयोऽप्यत्र।
सहस्रमूली = स्त्री सहम्रं बहूनि मूलान्यत्या ङीप्। द्रवन्तीलतायां राजनि०।
सहस्रवीर्य्या = स्त्री सहस्रं बहूनि वीर्य्याण्यस्याः। १ दूर्वायाम् अमरः। २ महाशतावर्य्याञ्च राजनि०।
सहस्रवेध = न० सहस्रं वहवो वेधा यस्य। १ चुक्रे २ काञ्जिकभेदे राजनि०।
सहस्रवेधिन् = न० सहस्रं धिध्यति बिध–णिनि। १ हिङ्गौ २ अम्बुवेतसे च मेदि०। ३ कस्तूर्य्यां पु० रात्तनि०। ४ सहस्रवेधकर्त्तरि त्रि०।
सहस्रा = स्त्री सहस्रं वलानि सन्त्यस्याः अच्। अम्बष्ठायां भावप्र०।
सहस्रांशु = पु० सहस्रमशवो यस्य। १ सूर्ये २ अर्कवृक्षे च अमरः
सहस्राणीक = पु० ६ व० संज्ञात्वात् णत्वम्। शतानीकनृपसुते राजभेदे वह्निपु०।
सहस्राक्ष = पु० सहस्रमक्षीणि यस्य षच् समा०। १ इन्द्रे २ पेचके अमरः। २ विष्णौ पुरुषसू० ४ ईश्वरे च।
सहस्रार = न० सहस्रमाराः कोणा यस्य। शिरःस्थिते सुषुम्णा नाडीमध्यस्थे सहस्रदलकमले तन्त्रसा०।
सहस्रिन् = पु० सहस्रं सैन्यानि सन्त्यस्य इनि। १ सहस्रसैन्य- युक्ते नृपादौ अमरः २ सहस्रदंष्ट्रापाठीने मत्म्ये च
सहा = स्त्री सहते सह–अच्। १ मुद्गपर्ण्यां २ घृतकुमार्य्याम् अमरः। ३ खण्डोत्पलायां ४ पृथिव्यां ५ नखभेषजे मेदि०। ६ शुक्लझिण्ट्याम् ७ सर्पकङ्काल्यां शब्दर० ८ रास्नायां स्वर्णक्षीर्य्यां रत्नमा० १० नारीपुष्पे राजनि०।
सहाचर = पु० सहा शुक्लझिण्टीव आचरति आ + चर–अच्। पीतझिण्ट्यां शब्दर०।
सहाय = पु० सह एति इण–अच्। १ सहचरे २ अनुकूले अमरः।
सहायता = स्त्री सहायानां समूहः तस्य भावो वा तल्। १ साहाय्ये २ सहायसमुदाये च अमरः।
सहार = पु० सह एकदैव ऋच्छति दूरं गच्छति सौरमेण ऋ–अच्। १ सहकारे आम्रे उणा०। हारोहरणं सह हारेण। २ महाप्रलये हारा०। ३ हारेण सहिते त्रि०।
सहारोग्य = त्रि० सह आरोग्येण। रोगशून्ये हेमच०
सहासन = न० सह आस्यतेऽत्र आस–ल्युट्। एकासने।
सहित = त्रि० सम्यक् हितः समोऽन्त्यलोपः। १ सम्यगहिते सह–क्त वा इट् सह + इतच् वा। २ समभिव्याहृते सि० कौ० ३ हितेन सहिते च।
सहितृ = त्रि० सह–तृच् वा इट्। सहनशीले। इडमावे सीढाप्यत्र स्त्रियां ङीप्।
सहित्र = न० सह्यतेऽनेन सह–इत्र। सहनसाधने धर्मभेदे।
सहिष्णु = त्रि० सह–इष्णुच्। सहनशीले अमरः।
सहिष्णुता = स्त्री सहिष्णोर्भावः तल्। १ क्षमायाम् २ शीतोष्णादिविरुद्धधर्मद्वयसहने।
सहुरि = पु० सह–उरि। १ सूर्य्ये उणादिकोषः। २ अर्क्षवृक्षे च।
सहृदय = त्रि० सह–हृदयेन। १ प्रशस्तचित्ते २ काव्यार्थभावनाधीनपरिपक्वबुद्धौ सा० द० “परिष्कर्वन्त्वर्थान् सहृदयधुरीणाः कतिपये” रसगङ्गाधरः।
सहृल्लेख = पु० हृदयस्य लेखः कालुष्यकरणं हृद्भावः सह हृल्लेखेन। “विचिकित्सा तु हृदये अन्ने यस्मिन् प्रजायते। सहृल्लेखन्तु विज्ञेयं पुरीषन्तु स्वभावतः” इत्युक्ते दूषितान्ने प्रा० वि०। २ हृल्लेखा सहिते सन्त्रे च तन्त्र०
सहोक्ति = स्त्री सह उक्तिः। सहकथने १ एकोक्तौ सहशब्दस्योक्तिर्यत्र। २ अर्थालङ्कारभेदे अलङ्कारशब्द ४०७ पृ० दृस्यम्
सहोटज = पुंन०। सहते आतपाद्यत्र सह–अचं कर्म०। मुनीनां पर्णशालायाम् हारा०।
सहोढ = पु० सह ऊढया “या गर्भिणी संस्क्रियते ज्ञाताऽज्ञातापि वाऽसती। वोढुः स गर्मो भवति सहोढ इति चोच्यते” इति मनक्ते अज्ञातगर्भायाः परिणीतायाः स्त्रियाः गर्भे। सहोढे गर्भे। जायते जन–ड। सहोढज तज्जाते पुत्रभेदे।
सहोदर = न० सह समानमुदरं यस्य। एकगर्भजाते भ्रातरि जटा० २ भगिन्यां स्त्रो एकपिवृजाते ३ भ्रातय्यपि उपचारात्। “देशे देशे कलत्राणि देशे देशे च बान्धवाः। तन्तु देशं न पश्यामि यत्र भ्राता सहोदरः” रामायणे लक्ष्मणविच्छेदे रामेण तस्य भिन्नोदरजातत्वेऽपि तथोक्तम्
सहोर = त्रि० सह–ओर। साधौ उणादिकोषः।
सह्य = न० सहायस्य भावः यत् नि०। १ साहाय्ये “तत्रार्थे सह्यमकरोत्” पुराणम्। सह भावे यत्। २ आरोग्ये ३ साम्ये ४ माधुर्य्ये च शब्दर०। कर्मणि यत्। ५ सोढव्ये त्रि० ६ पुनाख्यदेशसमीपस्थे पर्वतभेदे पु० मेदि०। स च पर्वतः भारतवर्षस्य कुलाचलभेदः “माहेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः। बिन्ध्यश्च पारिपात्रश्च सप्तै वात्र कुलाचलाः” मार्कण्डेयपु० ५७ अ०। स च अपरान्तदेशसन्निकृष्टो लबणसमुद्रात् कियद्दूरस्थश्च तदतिक्रमेणैव रघौ अपरान्तदेशगमनोक्तेः। “असह्यविक्रमः सह्यं दूरान्मुक्तसुदन्वता। नितम्बमिव मेदिन्याः स्रस्तांशुकमलङ्घयत्। तस्यानीकैर्विसर्पद्भिः अपरान्तजयोद्यतैः। रामास्त्रीत्सारितोऽप्यासीत् सह्यलग्न इवार्णवः” रघु०। तत्पर्वतपादजा नद्यश्च “तापो पयोष्णी निर्बिन्धा कावेपी प्रमुखा नदी। गोदावरीभीमरथीकृष्णवेण्वादिकास्तथा। सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः” विष्णुस० उक्ताः “गोदावरी भीमरथी कृष्णवेण्वास्तथाऽपरा। तुङ्गभद्रा सुपयोगा सह्यात् कावेर्य्यथापगाः” मार्कण्डेयपु०।
सह्यात्मजा = स्त्री सह्यस्य आत्मजेव तत्प्रभवत्वात्। कावेर्य्यां हेमच०। सह्यशब्दे दृश्यम्।
***