समिक = न० सम्–इण–डि संज्ञायां कन्। शेलास्त्रे (वडशा) शब्दर०।

समित् = स्त्री समीयतेऽत्र सम् + इण्–आधारे क्विप्। युद्धे अमरः

समिता = स्त्री सम् + इण्–क्त। १ गोधूमचूर्णभेदे “गोधूभा धवला धौताः कृट्टिताः शोषितास्ततः। प्रक्षिप्तास्ता विनिष्पिष्टाश्चालिताः समिताः स्मृताः” राजनि०। २ सङ्गते त्रि०।

समिति = स्त्री सम् + इण–आधारे क्तिन्। १ समायाम् अमरः २ युद्धे ३ सङ्केते च मेदि०। आर्हतमतसिद्धे प्राणिपीडापरिहारेण सम्यग्गमने सा च पञ्चविधा अर्हतशब्दे ३८५ पृ० दृश्या।

समिथ = पु० सम + इण–थक्। १ वह्नौ २ युद्धे च सि० कौ०। ३ आहुतौ सक्षिप्तसा०।

समिध् = स्त्रा समिन्धतऽनया सम् + इन्ध–करणे क्विप्। १ काष्ठे २ होमीयकाष्ठभेदे च तल्लक्षणं छन्दोग० “नाङ्गुष्ठादधिका नोना समित् स्थूलतया क्वचित्। न निर्मुक्तत्वचा चैव न मकीटा न पाटिता। प्रादेशान्नाधिका नोना न तथा स्याद्विशाखिका। न सपत्रा न निर्वीर्य्या हेमेषु च विजानता” इति। तस्य निषिद्धलक्षणं यथा “विशीणां विदला ह्रस्वा वक्राः स्थूला द्विधाकृताः। कृमिदष्टाश्च दीर्घाश्च समिधो नैव कारयेत्” तत्र दोमो यथा “विशीर्णायुःक्षयं कुर्य्याद्विदला पुत्रनाशिनी। ह्रस्वा नाशयते पत्नीं वक्रा बन्धुविनाशिनी कृमिदष्टा रोगकरी विद्वेषकरणी द्विधा। पशून् मारयते दीर्घा स्थूला चार्थविनाशनी” तन्त्रसा०।

समिध = पु० समिध्यते सम् + इन्ध–क। १ काष्ठे २ बह्नौ च त्रिका०।

समिन्धन = पु० सम् + इन्ध–करणे ल्युट्। १ काष्ठे शब्दच०। भावे ल्युट्। २ सम्यग्दीप्तौ च।

समीक = न० सम–ईकक्। युद्धे अमरः।

समीकरण = न० असमः समः क्रियतेऽनेन सम–च्वि + कृ ल्युट्। वीजगणितप्रसिद्धे अज्ञातसंख्यानां यावत्तावदादीनामव्यक्तराशीनां संख्या ज्ञानार्थं १ प्रक्रियाभेदे २ तुल्यरूपतापादने च।

समीक्ष = न० सम्यगीक्षतेऽनेन घञ्। १ साङ्ख्यदर्शने त्रिका०। भावे घञ्। २ पर्य्यालोचने ३ सम्यग्ज्ञाने च पु०। अ। समीक्षाप्यत्र। ४ सत्त्वे ५ बुद्धौ मेदि० ६ मीमांसाशास्त्र ७ यत्ने च स्त्री शब्दच०।

समीक्ष्यकारिन् = त्रि० समीक्ष्य पर्य्यालोच्य करोति कृ–णिनि उप०। वस्तुस्वरूपपर्य्यालोचनपूर्वककार्य्यकारके।

समीच = पु० सम् + इण–चट् कित् दीर्घश्च। १ संयुक्त २ हरिण्यां स्त्री ङीप् उज्ज्वलद०। ३ बन्दनायां स्त्री त्रिका०।

समीचीन = त्रि० सम्यग्भवः सम् + अन्च–क्विप् ततः ख समः समिः अञ्चेरकारलोपे पूर्वपददीर्घः। १ यथार्थे २ साधौ ३ सत्य न० हेमच०। ४ सत्ययुते त्रि०।

समीनिका = स्त्री समां प्राप्य प्रसूते ख ततः स्वार्थे क। प्रतिवर्षं प्रसूतायां समांसमीनायां गवि शब्दच०।

समीप = त्रि० सङ्गता आपोऽत्र अच् समा० आत ईत्त्वम्। निकटे अमरः

समीर = पु० सम्यक् ईरयति नोदयति सम् + ईर–अच। १ वायौ अमरः। २ शमीवृक्षे राजनि०। पृषो०। समिरोऽप्यत्र राजनि०।

समीरण = पु० सम् + ईर–ल्यु। १ वायौ २ मरुवकवृक्षे अमरः ३ पथिके मेदि०। भावे ल्युट्। सम्यगुक्तौ न०।

समीरित = त्रि० सम् + ईर–क्त। १ कथिते २ उच्चारिते “चतुर्मुखसमीरिता” कुमारः।

समीहित = त्रि० सम् + ईह–क्त। १ अभीष्टे २ सम्यक्चेष्ठिते न०।

समुख = त्रि० सह मुखन मुखव्यापारेण वा सहस्य सादेशः। १ वावदूके हेमच०। २ वाग्मिनि च।

समुचित = त्रि० सम् + उच–क्त। सम्यग् उपयुक्ते समञ्जसे।

समुच्चय = पु० सम् + उद् + चि–अच्। १ द्वित्रादीनां राशौ अमरः परस्परनिरपेक्षाणामनेकेषामेकस्मिन् ३ क्रियादावन्वये च यथा देवदत्तो यज्ञदत्तश्च गच्छतीत्यत्र देवदत्तयज्ञदत्तयोः परस्परसापेकताभावेऽपि एकस्मिन् गमने अन्वयः। तद्वाचकश्च प्रायेण चकारः क्वचित् तथादिशब्दोऽपि। ३ सहाहारे शब्दच०।

समुच्चित = त्रि० सम् + उद् + चि–क्त। कृतसमुच्चये “समुच्चितफलकामनानामि” ति विधिखरूपे गदाधरः।

समुच्च(च्चा)र = पु० सम् + उद् + चर–अप् घञ् वा। सम्यगुच्चारणे २ सम्यक्त्यागे च।

समुच्छेद = पु० सम् + उद् + छिद–घञ्। १ विनाशे २ समूलोत्पाटन च।

समुच्छ्र(च्छ्रा)य = पु० सम् + वद् + श्रि–अच् घञ् वा। १ अत्युन्नतौ २ विरोधे ३ उत्सेधे च मेदि०।

समुच्छ्रित = त्रि० सम् + उद् + श्रि–क्त। अत्युन्नते।

समुच्छलित = त्रि० सम्यक् + उच्छ्वलितम् सम् + उद् + श्वल्–क्त वा। समन्तात् विस्तीर्णे (छयलापि) “समुच्छ्वालतबिभ्रमा गतिः” काव्यप्र०।

समुच्छ्वसित = त्रि० सम् + उद् + श्वस–क्त। १ सम्यगुच्छ्वासयुक्ते २ प्रत्युज्जीविते च।

समुच्छास = पु० सम् + उद् + श्वस–घञ्। मुखनासिकाभ्यां प्रा० णवायोर्व्यापारे।

समुज्झित = त्रि० सम् + उज्झ–क्त। व्यक्ते अमरः। गुद्गमने।

समुत्क्रम = पु० सम् + ठद् + क्रम–घञ् न वृद्धिः। १ ऊर्द्ध्वगमने २ सम्यगुद्गमने।

समुत्क्रोश = पुंस्त्री० सम्यम् उत्क्रोशति उच्चैः शब्दायते सम् + उद् + क्रुश–अच्। १ कुररविहगे शब्दच० स्त्रियां ङीष्। भावे घञ्। २ अत्युच्चैःशब्दे

समुत्थ = त्रि० सम्यगुत्तिष्ठति सम् + उद् + स्था–क सस्य थः। १ सम्यगुत्पन्ने २ उत्थिते च।

समुत्थान = न० सम् + उद् + स्था–करणे ल्युट् मस्य थः। १ समुद्योगे २ उत्तालने ३ व्याधिमिर्णये च मेदि०।

समुत्पत्ति = स्त्री सम् + उद् + पद–क्तिन्। समुद्भवे।

समुत्पन्न = त्रि० सम् + उद् + पद–क्त। ममुद्भूते।

समुत्पाट = पु० सम् + उद् + च० पट–अच्। उन्मूलीकरणे।

समुत्पाटित = त्रि० सम् + उद् + चु–पट–क्त। उन्मूलिते।

समुत्पिञ्ज = त्रि० सम् + उद् + पिञ्ज–अच। १ अत्याकुले हेमच० २ आकलसैन्ये पु० अमरः।

समुत्सर्ग = पु० सम् + उद् + सृज–घञ्। सम्यक्त्यागे।

समुत्सुक = त्रि० सम्यगुत्सुकः पा० स०। १ अत्यन्तोत्सुके इष्टवस्तुलाभाय त्वरान्विते।

समुत्सृष्ट = त्रि० सम् + उद् + सृज–क्त। सम्यक्त्यक्ते।

समुत्सेध = पु० सम् + उद् + सिध–घञ्। १ अत्युन्नतौ २ अतिस्फीततायाञ्च।

समुदक्त = त्रि० सम् + उद् + अनच–क्त। कूपादेरुद्धृतजलादौ अमरः।

समुदय = पु० सम् + उद् + इण अच्। १ समूहे अभरः २ युद्धे ३ समुद्गमे मेदि० ४ दिवमे शब्दर०। ज्योतिषोक्ते ५ लग्ने न०। ३ षड्नाडीचक्रम्ये जन्मतारवधिके अष्टादशनक्षत्रे चक्रशब्दे पृ० दृश्यम्। घञतः समहे युद्धे पु० अमरः। पृष्ठस्थसैन्ये अजयः अत्युन्नतौ मेदि०।

समुदागम = गु० सम् + उद् + आ + गम–घञ न वृद्धिः। सम्य ग्ज्ञाने त्रिका०।

समुदाचार = पु० सम् + उद् + आ–चर–घञ। १ अभिप्राये त्रिका०। २ सम्यगाचारे च।

समुदित = त्रि० सम् + उद् + इण्–क्त। १ प्राप्तसंभूतौ पदार्थे सम + वद–कर्मणि क्त। २ सम्यक्कथिते।

समुदीरण = न० सम् + उद् + ईर–क्त। सम्यक्कथने।

समुदीरित = पु० सम् + उद् + ईर–क्त। सम्यक्कथिते।

समुद्ग = पु० सम् + उद् + गम–ड। १ सम्पुटके हेमच० २ सश्लेषकारकदार्थे ३ मुद्गेन सहिते। स्वार्थे क। तत्रैव अमरः

समुद्गम = पु० सम् + उद् + गम–घञ् न वृद्धिः। १ ऊर्द्धगतौ २ समुद्भवे च।

समुद्गीत = त्रि० सम् + उद् + गै–क्त। उच्चैर्गीते।

समुद्गीर्ण = त्रि० सम् + उद् + गृ–क्त। १ वमिते २ उत्तोलते ३ कथिते च।

समुद्दिष्ट = त्रि० सम्यक् उद्दिष्टम् उद् + दिश–क्त। सम्यगुद्देशविषये पदार्थे तत्समुद्दिष्टं कर्मेति” सक्षिप्तसारः।

समुद्देश = पु० सम्यक् उद्देशः उद + दिश–घञ्। सम्यगभिसन्धौ। २ सम्यगुद्देशे च यथा “वाक्यपादा जातिसमुद्देशे” मञ्जूषा

समुद्वत = त्रि० सम् + उट् + हन–क्त। १ अत्यन्तप्रगल्भे अत्यन्ताविनीते अमरः ३ समुद्गीर्ण हेमच०।

समुद्धरण = न० सम् + उट् + हृ–ल्यट्। १ उत्तोलने कूपादेर्ज- लोन्नयने २ भुक्तान्नस्य वमने ३ उन्मूलने च। कर्मणि ल्युट्। ४ वान्ते अन्नादौ ५ सन्मूलिते च अमरः।

समुद्धृत = त्रि० सम् + उद् + हृ–क्त। १ अपनीते २ समुत्कीर्णे मेदि०। ३ उत्तोलिते ४ उन्मूलिते च।

समुद्धर्त्तृ = त्रि० सम् + उद् + हृ–वृच्। १ वमनकारिणि २ उन्मलयितरि उत्थापके ४ हृतद्रव्यस्य पुनरादानकर्त्तरि च

समुद्भव = पु० सम् + उद् + भू–अप्। समुत्पत्तौ।

समुद्भूत = त्रि० सम् + उद् + भू–क्त। समुत्पन्ने।

समुद्यत = त्रि० सम् + उद् + यम–क्त। सम्यगुद्यमयुते।

समुद्यम = त्रि० सम् + उद् + यम–घञ् न वृद्धिः। सम्यक्प्रयत्ने।

समुद्र = पु० सम् + उन्द–क्लेदने रक, सम् + उद् + रा–क वा। १ स्वनामख्याते प्रचुरजले सागर अमरः। सह मुद्रया २ मुद्रासहिते त्रि० “बभौ मरुत्वान् विकृतः समुद्रः बभौ मरुत्वान् विकृतः समुद्रः” इति भट्टिः। ३ शट्यां ४ शम्याञ्च स्त्री टाप् राजनि०। सागरस्य व्रह्मणो मेढ्रात् उद्भवः “आस्यात् वाक्, सिन्धवो म्रेढ्रात्” भाग० ३। १२ अ०। स च सप्तविधः “लवणेक्षुसुरासर्पिर्दघिदुग्धजलार्णवाः” समुद्रनामनिरुक्तिः तद्वृद्ध्यादिकारणञ्च मत्स्यपु० १२२ अ० उक्तं यथा “अपाञ्चैव समुद्रेकात् समुद्र इति संज्ञितः। उदयतीन्दौ पूर्ण तु समुद्रः पूर्य्यते सदा। प्रक्षीयमाणे बहुले क्षीयतेऽस्तमिते च वै। आपूर्य्यमाणो ह्युदधिरात्मनैवापि पूर्य्यते। ततो वै क्षीयमाणे तु स्वात्मन्येव ह्यपां क्षयः। उद्दीप्यन्तेऽग्निसंयोगा दुखास्वापो यथा स्वयम्। तथा स्वतः समुद्रोऽपि वर्द्धते शशिनोद्रये। अन्यूनानतिरिक्तात्वात् वर्द्धन्त्यापो ह्रसन्ति च। उदयेऽस्तमये चेन्दोः पक्षयोः शुक्लकृष्णयोः। क्षयवृद्धी समुद्रस्य शशिवृद्धिक्षये तथा। दशोत्तराणि पञ्चाहुरङ्गुलानां शतानि च। अपां वृद्धिः क्षयो दृष्ट समुद्राणान्तु पर्वसु”।

समुद्रकफ = पु० समुद्रस्य कफ इव। जलविफेने त्रिका०।

समुद्रकान्ता = स्त्री ६ त०। १ पृक्कायां राजनि०। २ नद्याञ्च हला० समुद्रपियादयोनद्याम्।

समुद्रगा = स्त्री समुद्रं गच्छति गम–ड। १ नद्यां हेमच०। “सर्वा नद्यः समुद्रगा” इति पुराणम्। साक्षात् परम्परया वा सर्वासां जलधिगामित्वात् तथात्वम्। साक्षात् समुद्रगा च गङ्गादिः सर्वा नद्यो रजायुक्ता वर्जयित्वा समुद्रगाः” इति प्रा० त०। गङ्गाया एव चत्तस्त्रो धाराः सीतालकनन्दावङ्क्षुभद्रारूपतया ख्याताः जम्यूद्वोपशब्दे ३०४४ पृ० दर्शिताः। भारतवर्षस्थाः समु द्रगाश्च “नदीं पिवन्ति विपुलामित्यादिना “यमुनाञ्च महानदीमित्यन्तेन” भा० भी० उक्ताः ३०४६ पृदिशिताः। क्षदनदीनामपि महानद्यामिलितानां समुद्रगामित्वं यथोक्तं माघे “साम्भूयाम्भाधिमभ्येति महानद्या न शापगा”।

समुद्रगृह = न० समुद्र इव प्रचुरजलं गृहम्। जलयन्त्रगेहे त्रिका०।

समुद्रचुलुक = पु० समुद्रश्चुलुकः गणडूषजलमितजलमिव अनायामेन पीतत्वाद्यस्य। अगस्त्ये मुनौ त्रिका०।

समुद्रनवनीत = न० समुद्रस्य नवनीतमिव। समुद्रमन्थनोद्भूतसारांशे १ अमृते २ चन्द्रे च मेदि०।

समुद्रफल = न० ओषधिभेदे “समुद्रनाम प्रथमं पश्चात् फल मुदीरयेत्। समुद्रफलमित्यादि नाम वाच्यं भिपग्वरैः। फलं समुद्रस्य कटूष्णकारि वातापहं भूतनिरोधकारि। त्रिदोषदावानलदोषहारि कफामयभ्रान्तिविराधकारि” राजनि० तद्गुणाः उक्ताः।

समुद्रफेन = पु० ६ त०। समुद्रस्य फेने अमरः “समुद्रफेनश्चक्षुष्यो लेखनः शीतलश्च सः। कषायो विषपित्तघ्नः कर्णरुक्कफहृल्लघुः” भावप्र० तद्गुणा उक्ताः।

समुद्रमेखला = स्त्री समुद्रः मेखलेव वेष्टनाकारत्वात् यस्याः। पृथिव्यां त्रिका०। समुद्ररशनादयोऽप्यत्र।

समुद्रयान = न० यायतेऽनेन या–करणे ल्युट् ६ त०। पोते समुद्रतरणसाधने नौकाभेदे वराहपु०।

समुद्रयात्रा = स्त्रा ६ त०। समुद्रस्य तीर्थत्वेन गमने। कलौ तन्निषेषः कलिशब्दे १८०४ पृ० दृश्यम्।

समुद्ररमण = स्त्री समुद्रः रमण इव वेष्टकत्वात् यस्याः। पृथिव्यां हला०।

समुद्रलवण = न० समुद्रजलजातं लवणम्। (करकच) सामुद्रे लवणे राजनि०। “सामुद्रं यत्तु लवणमक्षीवं वशिरं च तत्। सामुद्रं मधुरं पाके सतिक्तं मधुरं गुरु। नात्युष्णं दीपनं भेदि व्यक्षीवमविदाहि च। श्लेष्मलं वातनुत्तिक्तमरूक्षं नातिशीतलम्” भावप्र०।

समुद्रवह्नि = पु० ६ त०। समुद्रस्थे अग्नौ बाडवानले हला०

समुद्रवेला = स्त्री ६ त०। समुद्रस्य कूले।

समुद्रसुभगा = स्त्री ६ त०। गङ्गायां राजनि०।

समुद्रान्त = न० समुद्रस्यान्तः पर्य्यन्तदेशः उत्पत्तिस्थानत्वेनास्त्यस्य अच् समुद्रः अन्तो यस्य वा। १ जातीफले शब्दच० २ दुरालभायां स्त्री अमरः। ३ कार्पास्यां ४ पृक्कायां मेदि० ५ यवासे स्त्री राजनि०। ६ त०। ६ समुद्रपर्य्यन्ते त्रि०।

समुद्राम्बरा = स्त्री समुद्रःअम्बरमिव वेष्टनाकारत्वात् यस्याः। पृथिव्यां त्रिका०। सागराम्बरादयीऽप्यत्र।

समुद्रारु = पु० समुद्रमृच्छति ऋ–कर्त्तरिकरणे वा उण्। १ कुम्भीरे २ मेतुबन्धे ३ तिमिङ्गलमत्स्ये मेदि०।

समुद्रि(द्री)य = त्रि० समुद्र + भवार्थे घ छ वा। समुद्रभवे पदार्थे।

समुद्वह = त्रि० सम् + उद् + वह–अच्। श्रेष्ठे सम्यगुद्वहनकर्त्तरि च।

समुन्दन = न० सम् + उन्द–ल्युट्। सम्यगार्द्रीभावे (भिजा)अमरः।

समुन्न = न० सम् + उन्द–क्त। १ क्लिन्ने २ आर्द्रे अमरः।

समुन्नत = त्रि० सम् + उद् + नम–क्त। १ अत्युच्चे २ स्तम्भमेदे पु० परणिः

समुन्नति = त्रि० सम् + उद् + नम–क्तिन्। १ उच्चतायाम् “प्रायः पयाधरसमुन्नतिरत्र हेतुः” उत्युद्भटः। २ उत्सेधे स्फीतयायां जटा०।

समुन्नद्ध = त्रि० सम् + उद् + नह–क्त। १ गर्विते २ पण्डितन्मन्ये अमरः। ३ प्रभौ अजयः। ४ समुद्धृते मेदि० ५ उत्क्षिप्य बद्धे हेमच०। ६ समुद्भूते च। भावे क्त। ७ उत्तोल्यबन्धने न०।

समुन्नय = पु० सम् + उद् + नी–अच्। १ ऊर्द्ध्वनयने २ सम्यग्नीतौ ३ उत्क्षेपणे ४ समुद्भावने च।

समुपचित = त्रि० सम्यक् उपचितम् उप + चि–क्त। १ सुबहुलीकृते २ संवर्द्धिते च।

समुपजोषम् = अव्य० सम् + उप + जुष–अमु। अत्यन्तानन्दे रामाश्रमः।

समुपेयिवस् = त्रि० सम् + उप + इण–क्वसु। समीपगते।

समुपोढ = त्रि० सम् + उप + वह–क्त। १ सङ्गते २ सञ्जाते च।

समुल्लेख = पु० सम् + उद् + लिख–घञ्। पादादिना भूम्यादेः खनने।

समूढ = त्रि० सम् + ऊह + वह–वा क्त। १ राशौकृते २ अनपप्लुते “समूढनस्य पांसुरे” इति ऋग्वेदः। ३ भुग्ने ४ सद्योजाते मेदि० ५ दमिते ६ कृतविवाहे धरणिः ७ शीधिते जटा०। सह मूढेन। ८ मूढसहिते त्रि०।

समूरु = पु० सङ्गतौ सन्धिहीनत्वात् ऊरूयस्य। मृगभेदे अमरः पृषो०। समूर तत्रार्थे पुस्त्रा० हमच० स्त्रियां ङीष्।

समूल = त्ति० र्सह मूलेन। मूलसहिते “समूले उपपदे कषादिभ्यः णमुल् तत्प्रकृतिधातोरनुप्रयोगश्च “समूलकाषं च कषुः” “समूलघातं न्यबधात्” इति च भट्टिः।

समूह = पु० सम + ऊह–घञ्। १ समुदये अमरः। समूहत्वञ्च अपक्षाबुद्धिविषयविषयत्वं त्रित्वादिपर्य्याप्तसंख्याविशेषो वा। २ सम्यग ऊहे तर्के च।

समूहनी = स्त्री समुह्यतेऽनया सम् + ऊह–करणे ल्युट् ङीप्। ० १ सम्मार्जन्यां हेमच० भावे ल्युट्। २ सम्पार्जने परिसमूहनशब्दे ४२५८ पृ० दृश्यम्। ३ सम्यगूहकरणे च न०।

समूहालम्बन = त्रि० समूहमालम्बते विषयतया आ + लयिल्यु। नानाप्रकारतानिरूपितनानाविशेष्यताशालिनि ज्ञाने। तत्र संशये नानाप्रकारतानिरूपिताया एकविशेष्यतायाः सत्त्वात् न समूहालम्बनत्वम्। धवखदिरौ द्वावित्यादौ दण्डी कुण्डी च देवदत्त इत्यादौ वाक्यजनितबाधस्यापि समूहालम्बनत्वं तत्रोभयनिंरूपितयोः विशेष्यतयोर्द्वयोरेवाङ्गोकारात् द्वन्द्वात्परश्रूयमाणशब्दस्य प्रत्येकान्वयनियमेन प्रथमार्थद्वित्वस्म प्रत्येकवृत्तित्वात् तच्च समवायेनैवेति बोध्यम्। अतएव शब्दचिन्तामणौ मणिकृता धवखदिरपलाशांश्छिनत्तोत्यादौ प्रत्येककर्मताया एव विभिन्नक्रियायावन्वय इत्युक्तम्। अत उक्तस्थले विशेष्यताद्वयम्। धवखदिरौ द्वावित्यादावपि द्वित्वस्य सम वायसम्बन्धेन धवादिवृत्तित्वात् विशेष्यताद्वयाङ्गीकारेऽपि नक्षत्यभावात्। तेनैव धवखदिरौ न द्वाविति प्रतीतिवारणसम्भवात्। घटं पटञ्च पश्यतीत्यादौ च दर्शनक्रियायां घटपटयोरन्वयसम्भवे तु न समूहालम्बनमिति भेदः इत्यादिबोध्यम्। यदि च आत्मघटयोर्नात्मत्वमित्यादि प्रयोगसाधुत्वार्थं पर्य्याप्तिसम्बन्धेनैव द्वित्वादेर्वोघोऽङ्गीक्रियते तदा तस्य न समूहालम्बनत्वम्।

समूहिन् = त्रि० समूहोऽस्त्यस्य इनि सम् + ऊह–णिनि वा। समूहावयवे प्रत्येकवस्तुनि यथा घटपटसमूहान्तर्गता घटः पटश्च समूही। २ सम्यक्तर्कयुते त्रि० स्त्रियां ङीप्

समूह्य = पु० सम् + ऊह–ण्यत्। १ यज्ञियाग्नौ अमरः २ मम्यक् तर्क्ये त्रि० २ यज्ञाग्निसंस्कारभेदे सि० कौ०।

समृद्ध = त्रि० सम्यक् ऋद्धः ऋध–क्त। १ अधिकसम्पत्तिनुक्ते अमरः। २ अतिवृद्धे च शब्दमा०।

समृद्धि = स्त्री सम्यक् ऋद्धिः सम् + ऋध–क्तिन् वा। १ अतिसम्पत्तौ अमरः २ सम्यग्वृद्धौ च “मधुसमृद्धिसमेधित या मेधया” माघः।

समेत = त्रि० सम् + आ–इण क्त। १ समागते २ सङ्गते च।

समेधित = त्रि० सम् + एघ + णिच्–क्त। संवर्द्धिते “मधुसमृद्धि समेधितमेधययेति” माघः।

समोदक = न० समम् अर्द्धभागेन तुल्यमुदकं यत्र। अर्द्धाम्बु संयोगेन मथितदधिजाते १ तक्रभेदे हेमच०। सह मोदवेन सहस्य सः। २ मोदकसहिते त्रिकाण्डशेषः।

सम्पत्ति = स्त्री सम् + पद–क्तिन्। १ अतिविभवे अमरः २ अनुरूपात्मभावे यस्य यद्रूपता उचिता तस्य तथाभवने च सि० कौ० ३ विभूतौ मेदि०।

सम्पद् = स्त्री सम् + पद–सम्प० भावे क्विप्। १ विभवे २ सम्पत्तौ च अमरः। ३ गुणोत्कर्षे। करणे क्विप्। ४ हारभेदे पु० मेदि०। घञर्थे क। सम्पद तत्रार्थे न० शब्दमा०।

सम्पन्न = त्रि० सम् + पद–क्त। १ साधिते २ सम्पद्युक्ते च मेदि०

सम्पराय = पु० सम् + परा + इण–आधारे अच्। १ युद्धे २ आपदि ३ उत्तरकाले च अमरः।

सम्परायिक = न० सम्परायाय आपदे हितम् ठन्। १ युद्धे तदर्थे ठण्। २ साम्परायिकमय्यत्र अमरः।

सम्पर्क = पु० सम् + पृच–घञ्। १ सम्बन्धे २ रतौ ३ मेलके च मेदि०।

सम्पर्किन् = त्रि० सम् + पृच–चिनुण्। सम्बन्धयुक्ते।

सम्पा = स्त्री सम्यक् अतकिंतं पतति पत–ड। विद्युति असरः।

सम्पाक = पु० सम्यक् पाको यस्मात् ५ व०। आरग्बधवृक्षे अमरः तद्भोजने हि भुक्तान्नादेः सम्यक्पाको भवतीति वैद्यके प्रसिद्धम्। २ धृष्टे ३ तर्कके मेदि० ४ लम्पटे ५ अल्पे च त्रि० धरणिः।

सम्पात = पु० सम् + पत–घञ्। १ पक्षिगतिभेदे जटा० २ सम्यक्पतने च। ३ रेखासूत्रादेः सम्पतने च।

सम्पाति = पु० सम् + पत–णिच्–इन्। जटायुयो ज्येष्ठभ्रातरि पक्षिभेदे रामा०। स्वार्थे क। तत्रैव। साम्पतिरिव कायति कै–क। सम्पातिक गरुडज्येष्ठतनये शब्दमा०।

सम्पुट = पु० सम् + पुट–क। १ कुरुवकवृक्षे अमरः। सम्यक् पुटमिव उभयवार्श्ववर्त्ति यस्य। २ एकजातीयपदार्थेन भिन्नजातीयस्य उभयतो व्याप्ते त्रि० “सकामैः सम्पुटोजाप्यः” इति तन्त्रम्।

सम्पुटक = पु० सम्पुटयति सम् + पुट–अच् स्वार्थे वुन्। सम्पुद्गके मञ्जूषाख्ये (पेटारा) पदार्थविशेषे अमरः।

सम्पूर्ण = त्रि० सम् + पूर–क्त। १ परिपूर्णे २ समग्रे च “आदित्योदयवेलायाः प्राङ्मूहूर्त्तद्वयान्विता। एकादशी हि सम्पूर्णे” ति स्मृत्युक्ते ३ एकादशीभेदे स्त्री ति० त०। शुद्धे ४ षष्टिदण्डात्मकतिथिमात्रे स्त्री तिथिशब्दे ३२९३ पृ० दृश्यम्।

सम्पृक्त = त्रि० सम् + पृच–क्त। १ मिश्रिते हेमच० २ सम्बद्धे च

सम्प्रणयन = न० सम् + प्र + णी–ल्युट्। १ सम्यग्वह्निघृतादेः शोधनाय संस्कारविशेषे २ विधाने च।

सम्प्रति = अव्य० सम् + प्रति + समाहारद्वन्द्वः। इदानीमित्यर्थे अमरः।

सम्प्रतिप्रत्ति = स्त्री सम् + प्रतिपद्यते क्तिन्। १ वाद्युक्तार्थवि- मयस्वीकरण “श्रुत्वाभियोगं प्रत्यर्थीत्यदि तं प्रतिपद्यते। सा तु सम्पतिपत्तिः स्यादि” ति २ स्मृत्युक्ते व्यवहारे उत्तरभेदे च “मिथ्या सम्प्रतिपत्तिश्च प्रत्यवस्कन्दनं तथा। प्राङ्त्यायश्चोत्तराः प्रोक्ताश्चत्वारः शास्त्रवेदिभिः” उत्तरशब्दे १०१९ पृ० दृश्यम्।

सम्प्रदातृ = त्रि० सम् + प्र + दा–तृच्। दानकर्त्तरि स्त्रियां ङीप्

सम्प्रदान = न० सम् + प्र + दा–भावे ल्युट्। १ सम्यक्प्रदाने। सम्प्रदीयतेऽस्मै ल्युट्। “कर्मणा यमभिप्रैति स सम्प्रदानमिति” पाणिन्युक्ते २ दानकर्मोद्देश्ये। तच्च त्रिविधम्। “अनिराकरणात्कर्तुस्त्यागाङ्गकर्मणेप्सितम्। प्रेरणानुमतिभ्याञ्च लभते सम्प्रदानताम्” इत्युक्तेः। तत्र विष्णवे वस्त्रं ददातीत्यादौ अनिराकर्तृ सम्प्रदानम्, याचकाय धनं ददातीत्यादौ प्रेरयितृ सम्प्रदानम्, गुरवे धनं ददातीत्यादौ अनुमन्तृ सम्प्रदानम्। गौणमुख्यसाधारणे सम्प्रदाने चतुर्थी पा०। तल्लक्षणं तु शब्दश० प्र० दर्शितं यथा “गत्यादिमिन्ने धात्वर्थे चतुर्थ्या विग्रहस्थया। “यः स्वार्थो बोधनीयस्तत्सम्प्रदानत्वतीरितम्”। “गत्यादिमिन्ने यद्धातूपस्थाप्ये यादृशार्थे विग्रहस्थचतुर्थ्या यः स्वार्थो बाधयितुं शक्यते स तद्धातूप स्थाप्यतादृशक्रियायां सम्प्रदानत्वमुच्यते। ब्राह्मणाय दानं वनस्येत्यादौ ददातेः स्वत्वजनकत्यागाऽर्थस्तन्निविष्टे च स्वत्वे ब्राह्मणादेः प्रतियोगित्वं निरूपितत्वं वा चतुर्थ्या बोध्यते इति तदेव तत्र सम्प्रदानत्वं ब्रह्मणप्रतियोगिकं ब्राह्मणनिरूपितं वा यद्धनवृत्ति स्वत्वं तज्जनकस्त्याग इत्येवं तत्र प्रत्ययात् घात्वर्थतावच्छेदकीभूतस्वत्वाख्य फलवत्तया घनादेर्दानकर्मत्वात्। न चैवं पशुकामनया यागकरणदशायां चैत्रः स्वात्मने पशुं ददातीत्यपि प्रवीगापत्तिस्तादृशयागस्य चेत्रीयं यत् पशुनिष्ठं स्वत्वं तज्जनकत्यागत्वादिति वाच्यं स्वत्वध्वं सजनकक्रियापर्य्यवसन्नस्य त्यागस्यैकदेशे स्वत्वध्वंसेऽपि द्वितीयाद्यर्थस्यान्वयेन पशुफलकयागे पशुनिष्ठस्य स्वत्वध्वंसस्य जनकत्वविरहादेव तद्वाक्यस्वाप्रमाणत्वात्। ग्रामाय गत इत्यादौ विग्रहस्थचतुर्थ्या धात्वर्थे बाध्यमपि कर्मत्वं न गत्यादिमिन्ने चतुर्थ्या बोधनीयम्। संवर्द्धयितुमित्यादि तुमर्थो न विग्रहस्थयेति न तत्र प्रसज्ञः। गम्प्रदानशब्दस्तु स्वाश्रयगोचरत्यागजन्यस्वत्वस्य प्रतियोगिन्येव शक्त इति स्त्रतप्रतियोगित्य सम्प्रदानत्वमित्यादिको न प्रयोगः। न च दानस्य सत्वहेतुत्वे प्रमाणामावः। “सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः। विभागः सम्प्रयोमश्च सत्प्रतिग्रह एव च” इत्यादिमन्वादिवचनैस्तस्य स्वत्वहेतुत्वऽप्रतिपादनादिति वाच्यं व्राह्मणाय त्यक्तायां गाव गौरियं ब्राह्मणस्य न तु ममेत्यादिसर्वजनीनप्रतीतेरेव तत्र प्रमाणत्वात् “प्रदानं स्वाम्यकारणमिति” वचनाच्च। अतएव विदेशस्थं पात्रमुद्दिश्य त्यक्तधने स्वीकारमन्तरेणैव पात्रस्य मरणस्थले पितृदायत्वेन तद्धनं पुत्रादिभिर्विभज्य गृह्यते अन्यथा तैरिव उदासीनैरपि तद्धनस्यारण्यकुशादेरिवोपादाने यथेष्टनियोगे च प्रत्यवायो न स्यात्। नन्वेवं दानादेव स्वत्वसिद्धेर्दक्षवस्तुनि स्वीकारो व्यर्थ इति चेन्न “लव्ध्वा चाष्टगुणं फलम्” इत्यादिस्मृतेः प्रतिगृहीतद्रव्यदानस्य फलविशेषं प्रतिहेतुत्वेन तादृशफलसम्पत्त्यर्थमेव प्रतिग्रहस्योपयोगात् “याजनाध्यापनप्रतिग्रहैर्द्विजो धनमर्जयेदित्यादि” श्रुत्या प्रागुक्तस्मृत्या च प्रविग्रहस्यापि स्वत्वहेतुत्वबोधनाच्च स्वत्वजनकव्यापारस्यैवार्जन पदार्थत्वात्। दासाय भक्ष्यं ददाति भृतकाय वेतनं ददातीत्यादावपि स्वत्वजनकत्यागं प्रतिपाटयन् ददातिर्मुख्य एव पुण्यजनकन्तु न तादृशं दानमवैधत्वात्। युत्तु स्वीकारजन्यस्य स्वत्वस्य जनकस्त्यागो दानं मनसा पात्रमुद्दिश्य धनत्यागस्तु न दानं किन्तूत्सर्गमात्रं प्रतिग्रहजन्यस्वत्वं प्रति हेतुभूतवैधत्यागस्यैव तथात्वात्, उपेक्षा तु खत्वध्वंसमात्रजनकस्त्यागो न तु तत्र स्वत्वजनकत्वस्यान्तर्भाव इति मैथिलैरुक्तं तन्न युक्तं लाघवेन स्वत्वजनकत्यागस्यैव ददात्यर्थत्वात्। तिलानस्मै प्रतियच्छति तुरगमस्मै विक्रीणीते इत्यादौ द्रव्यान्तरग्रहणपूर्वकं दानमेव प्रतिदान मूल्यग्रहणपूर्वकं दानमेव च विक्रय इति तत्रापि मुख्यमेव सम्प्रदानत्वं चतुर्थ्या बोध्यते तिलादिकञ्च न मूल्यं पणपुराणादेरेव शास्त्रे तथात्वोपदेशात्। अदृष्टार्थं दत्तस्यैव च स्वीकारः प्रतिग्रह इति परेण प्रीतिदत्तस्य विक्रीतस्य वा तिलतुरगादेः स्वीकारो न दोषाबहः। मैत्राय रोचते मोदक इत्यत्र चतुर्थ्या धात्वर्थान्वितमाघेयत्वं धातुना च भक्ष्यत्वप्रकारकेच्छोपस्थाप्यते तिङा तु प्रकाशत इत्यादादिव विषयत्वलक्षणं कर्तृत्वं तथाच मैत्रनिष्ठाया भक्ष्यत्वप्रकारकेच्छाया विषयतावान्मोदक इत्याकारकस्तत्र बोधः। गुरवे गां धारयते इत्यत्र धृङा गृहावस्थितिर्द्वितीयया तदन्वितं कर्तृत्वं चतुर्थ्या च तन्निविष्टगृहान्वितं सम्बन्धित्वसुपस्थाप्यते तेन गोकर्तृकाया गुरुसम्बन्धिगृहाव- स्थितेरनुकूलव्यापारवानित्याकारस्तत्र बोधः धृधातूत्तरणिचा व्यापारबोधनादिति कालापाः। पाणिनीयास्तु “घारेरुत्तमर्णः” इति सूत्रानुसारेण चैत्राय शतं धारयते इत्यादाविव गुरवे गां धारयते इत्यादावपि ऋणग्रहणं घारणं दत्तत्वञ्च चतुर्थ्यर्थः तथाच गुरुदत्तां गा ऋणत्वेन गृह्णातीत्याकारस्तत्र वाक्यार्थः पश्चाच्छोध्यत्वेनाङ्गीकृत्य गृहीतञ्च द्रव्यमृणमित्याहुः। पुत्राय राध्यति पुत्रायेक्षते इत्यादौ दैवनिरूपणं धात्वर्थस्तन्निविष्टे च दैवे सु वर्थम्य सम्बन्धस्यान्वयस्तेन पुत्रस्य दैवं निरूपयतीव्येव तत्र वोवः। गुरवे गां प्रतिशृणोति आशृणोतीत्यादौ देयत्वेनाभ्युपभमः शृणीतेरर्थस्तत्र गोर्विशेष्यत्वेन तदेक देशे च दाने गुरोरुद्देश्यत्वेनान्वयस्तेन गुरूद्देश्यकदानकर्मत्वेन गामभ्युपगच्छतीत्येवं तत्रं बोधः। होत्रे प्रतिगृणातीत्यादौ हर्षानुकूलव्यापारलक्षणं प्रोत्साहनं गृणातेरर्थस्तदेकदेशे च हर्षे होत्रादेरन्वयस्तेन होतृनिष्ठहर्षानुकूलव्यापारवानित्याकारकस्तत्र बोधः। चैत्राय कृप्यति क्रुध्यतीत्यादौ धात्वर्थ उत्कटद्वेषस्तत्र विषयित्वलक्षणं सम्प्रदानत्वं चतुर्थ्या बोध्यते तेन च चैत्रविषयकोत्कटद्वेषवानित्याकारकस्तत्र बोधः। पुत्रे कोपो न युज्यते इत्यादौ कृदन्तस्य कोपपदस्यैवार्थे पुत्र इत्यस्यास्वया न तु धात्वर्थ। पटाय घटते इत्यादावपि घात्वर्थकृतौ सुपा पटस्य विषयित्व बोध्यते तत्रोद्देश्यत्वमेव चतुर्य्यर्थः कथमन्यथा पटेच्छया तन्तुनिर्माणदशायां पटाय यतते इत्यादिकः प्रयोगः इत्यपि वदन्ति। मित्राय द्रुह्यतीत्यत्र द्विष्टाचरणं द्रोहस्तेन मित्रस्य द्विष्टमाचरतीत्यर्थः। शिष्यायेर्ष्यतीत्यत्रानिष्टानुपेक्षणमीर्ष्या तथाच शिष्यानिष्टं नोपेक्षत इत्यर्थः। पुत्रायासूयतीत्यत्र असूया गुणद्वेषस्तेन पुत्रस्य गुणं द्वेष्टीत्याकारस्तत्र बोधः। मित्रं द्रुह्यति शिष्यमीर्ष्यति पुत्रमसूयतीत्यपि प्रयोगात् द्रुहादिकर्मणः सम्प्रदानत्वं वैकल्पिकमित्युन्नीयते। कोपपूर्वकस्य द्राहादेर्द्रुहादिधातुवाच्यत्वे तत्कर्मणः सम्प्रदानत्वं द्रोहादिमात्रस्य तथात्वे तु कर्मत्वमेवेति पुनः कोमाराः। सोपसर्गयोस्त क्रुधद्रुहोः कर्मणः कर्मतैव न तु सम्प्रदानता अतएव शिष्यस्याभिक्रोद्धा मित्रस्याभिद्रोढेत्यादौ कृद्योगे कर्मणि षष्ठ्येव प्रमाणम्”।

सम्प्रदाय = पु० सम् + प्र + दा–भावे घञ्। १ गुरुपरम्परागते सदुपदेशे अमरः। उपचारात् २ तदुपदेशयुते जने च। ईश्वरस्यैव सर्वसम्प्रदायप्रद्योतकत्वमिति “निर्माणकाय- मधिष्ठाय सर्वसम्प्रदायप्रद्योतक इति पातञ्जलाः” कुसुमा०। ईश्वरवादे च मणिकृताऽऽशङ्क्य तथैव व्यवस्थापितं यथा “नन्वशरीरात् कथं वेदघटादिशब्दव्यवहारसम्प्रदायः उच्यते सर्गादावदृष्टोपगृहीतभूतभेदान्मीनशरीरोत्पत्ता वदृष्टवदात्मसंयागाददृष्टसहकृतप्रयत्नवदीश्वरसंयोगाद्वा सकलवदार्थगोचरज्ञानाद्विबक्षासहितान्मीनकलेवरकण्ठताल्वादिक्रियाजन्यसंयोगाद्वेदोत्पत्तिः। एवं कुलालादिशरीरावच्छेदेनादृष्टसहकृतप्रयत्नवदीश्वरसंयोगात्तद्बुद्धीच्छासहितचेष्टोत्पत्तौ सकलघटानुकूलव्यापारो घटोत्पत्तिः। एवं प्रयोज्यप्रयोजकज्ञानाय व्यापाराभिमतशरीरावच्छेदेनापि अदृष्टसहकृतेश्वरज्ञानेच्छाप्रयत्नादेव व्यवहारः ततस्तत्सुशीलो बालो व्युत्पद्यते सोऽयं भूतावेशन्यायः। यत्तु यथा लिप्यादिना मौनिश्लाकोऽनुमाय पट्यते तथा सर्गान्तरात्पन्नतत्त्वज्ञानवता भोगार्थं सर्गादावुत्पन्नेन मन्वादिना सर्वज्ञेन, ईश्वराभिप्रायस्थवेदः साक्षात्कृत्यानूद्यते ततोऽग्निनसम्प्रदायः स एव कायव्यूहं कृत्वा वाग्व्यबहारं करोतीति मतं तन्न प्रतिसर्गाद्यनन्तसर्वज्ञकल्पनायां गौरवात् तषामेव क्षित्यादिकर्तृत्वसम्भवेन ईश्वराननुगमाच्च। एतेन सर्गादौ सर्गान्तरसिद्धयोगिन एव क्षितिकर्त्तारः सन्त्विति निरस्तं सर्गादावनन्तसर्वज्ञसिद्धिश्च किं प्रमाणान्तरात् क्षित्यादिकर्तृग्राहकाद्वा नाद्यस्तदभावात् नान्त्यः अनादिद्व्यणुकादिकार्य्यप्रवाहस्य सकर्तृकत्वानुमानात् लाघवसहकृतादेकस्यैव सर्वज्ञस्य सिद्धेः”। सम्प्रदायप्रवर्त्तकभेदाश्च पद्मपु० उक्ता यथा “श्रीमन्नारायणो ब्रह्मा नारदो व्यास एव च। श्रीलमध्वः पद्मनामो नृहरिर्माघवस्तथा। अक्षोभो जयतीर्थश्च ज्ञानसिन्धुर्महानिधिः। विद्यानिधिश्च राजेन्द्रो जयधर्ममुनिस्तथा। पुरुषोत्तमो ब्रह्मण्यो व्यासतीर्थमुनिस्तथा। श्रीमाल्लक्ष्मीपतिः चीमान् माधवेन्द्रपुरी तथा। सम्प्रदायविहीना ये मन्त्रास्ते निष्फला मताः। अतः कलौ भविष्यन्ति चत्वारः सम्प्रदायिनः। श्रीमाध्व रुद्र सनका वैष्णवाः क्षितिपावनाः” पद्मपु०। तन्त्रोक्त वैष्णवसम्प्रदाया यथा “श्रोशिव उवाच वैखानसः सामवेदी श्रीराधावल्लभी तथा। गोकुलेशो महेशानि! तथा वृन्दावनी भवेत्। पञ्चरात्रः पञ्चमः स्यात् षष्ठः श्रीवीरवैष्णवः। रामानन्दी हविष्याशी निम्बार्कश्च महेश्वरि!। ततो भागवतो देवि! दश भेदाः प्रकी र्त्तिताः। शिखी मुण्डी जटी चैव द्वित्रिदण्डी क्रमेण च। एकदण्डी महेशानि! वीरशैवस्तथैव च। सप्त पाशुपताः प्रोक्ता दशधा वैष्णवा मताः। एतेषां वासनं देवि! शृणु यत्नेन शाम्भवि!। वेवेष्टि सर्वं संव्याप्य यस्तिष्ठति स वैष्णवः। वैखानसादिदक्षाद्यैर्भूषितः स्मार्त्तवैष्णवः। श्रीराधावल्लभं देवि! शृणु यत्नेन शाम्भवि!। वैष्णवाचारनिरतो विष्णुतन्त्रैकपारगः। अनन्यचेताः शान्तात्मा विष्णुचिन्तापरायणः। श्रीराधावल्लभो देवि! गोकुलेशं शृणु प्रिये!। नानाभूषणसम्पन्नो नानासुगन्धिभूषितः। गवां कुलं प्रीणयिता केलिकृष्णस्वरूपधृक्। शरीरमर्थं प्राणांश्च संनिवेदतीह यः। अन्तःशक्तिपरो देवि! वहिर्वैष्णवरूपधृक्। गन्धर्वाचारनिरतो लतावेष्टनतत्वरः। सम्प्रदायो गोकुलेशः सर्वसिद्धिकरो भुवि। वृन्दा वनाख्यं देवेशि! शृण् यत्नेन साम्प्रतम्। विगताशः प्रसन्नात्मा विष्णुभक्तिपरायणः। कामिनीसङ्गचपलो वनक्रीडाविनोदधृक्। सौगन्धभूषिततनुः स्त्रीध्यानैकपरायणः। विष्णुसारूप्यतत्त्वज्ञः प्रोक्तो वृन्दावनी शिवे!। पाञ्चरात्रो महेशानि तथैव वीरवैष्णवः। पूर्वमेव महेशानि कीर्त्तितः परमेश्वरि!। रा शक्तिरिति विख्याता मः शिवः परिकीर्त्तितः। तदानन्दी शान्तचित्ती प्रसन्नात्मा विचारधृक्। सर्वत्र समरूपा च रामानन्दी प्रकीर्त्तिता। हविष्याशी महेशानि! यथावदवधारय। पापसंहरणासक्तो विष्णुभक्तो जितेन्द्रियः। यमादिनियमैर्युक्तो भक्ताचारपरायणः। स्वोपयोग फलग्राही परकार्य्यपरायणः। हविष्याशी महेशानि! शिवभक्तिस्वरूपधृक्। निम्बार्काख्यं सम्प्रदायं शृणु यत्नेन साम्प्रतम्। नित्यार्चनक्रमासक्तः स्वतन्त्रैकपरायणः। बाह्यपूजादिनिरतो नान्यभक्तः प्रसन्नधीः। आर्य्यपक्षान्वितः स्वच्छः स्वच्छन्दाचारतत्परः। स्वतन्त्रः स्मार्त्तविद्वेषी निम्बार्को भगवान् हरिः। अथ भागवतं देवि! कथ्यते शृणु साम्प्रतम्। विष्णुभक्तैकनिपुणो विजितात्मा प्रसन्नधीः। स्मार्त्तगर्वान्वितो देवि! तदन्याचारतत्परः। आर्य्यपक्षान्वितो देवि! तथा सुरूपवेशधृक्। शैवद्वेषी तस्य सङ्गात् पुनः स्नानपरायणः। केवलविष्णुतत्त्वज्ञः प्राक्तो भागवतः शिवे” शक्तिसङ्ग० त०

सम्प्रधारणा = स्त्री सम् + प्र + घृ–णिच्–युच्। युक्तायक्तत्वविवचनार्थसमर्थने अमरः।

सम्प्रयोग = पु० सम् + प्र + युज–घञ्। १ वृद्ध्यादिलाभेच्छया ध- नादिविनियोगे “विभाग सम्प्रयोगश्चे” ति स्मृतिः। २ र० मणे ३ निधुवने ४ अन्वये ५ अर्थिते त्रि० अजयः ६ सन्दिन्धे ७ कार्मणे वशीकरणादौ मेदि० ८ इन्द्रियविषयसम्बन्धे च

सम्प्रयोगिन् = त्रि० सम् + प्र + युज–चिनुण्। १ कामुके २ कलाकेलिकारके २ सम्बग्लाभार्थं धनांदिविनियोजके। ३ संप्रयोजके त्रि० मेदि०।

सम्प्रसन्न = त्रि०। १ सम्यक्प्रसन्ने २ सुषुप्ते च सम्प्रसादशब्दे दृश्यम्

सम्प्रसाद = पु० सम् + प्र + सद–करणे० घञ्। १ योगादिशाखोक्ते चित्तस्य नैर्मल्यसम्पादके प्रयत्नभेदे। भावे घञ्। २ सम्यक्प्रसन्नतायाम्। आधारे घञ्। ३ सुषुप्तौ “तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं विजानातीति” श्रुतिः। सन्ध्यशब्दे च सुषुप्तिशब्दे दृश्यम्।

सम्प्रसाधन = न० सम् + प्र + साधं–णिच् करणे ल्युट्। १ कटकादो भूषणे। भावे ल्युट्। २ भूषणक्रियायाम्।

सम्प्रसारण = न० सम् + प्र + सृ–णिच्–ल्युट्। १ सम्यग्विस्तारणे व्याकरणोक्ते यणः स्थाने जायमाने २ इक्संज्ञवकर्णे च। “इक् यण सम्प्रसारणम्” पा०।

सम्प्रहार = पु० सम्प्रह्रियतेऽत्र सम् + प्र + हृ–आधारे घञ्। १ युद्धे अमरः। भावे घञ्। २ सम्यक्प्रहरणे ३ गमने च मेदि०।

सम्प्राप्ति = स्त्री सम् + प्र + आप–क्तिन्। १ सम्यक्प्राप्तौ २ वैद्यकोक्ते रोगोत्पत्तिभेदे च तल्लक्षणं भावप्र० उक्तं यथा “अथ सप्राप्तेलंक्षणमाह “यथा दुष्टेन दोषेण यथा चानुविसर्पता। उत्पत्तिर्याऽमयस्यासौ सम्प्राप्तिर्जातिरागतिः”। यथा दुष्टेन दोषेण यथा कारणभेदेन दोषेण यथा चानुविसर्षता अनेकधा दोषाणां विसर्पता मूर्ध्वाधस्तिर्यगादिगतिभेदेन तथा च विसर्वता। आमयस्य या उत्पत्तिः असौ सम्प्राप्तिः। शास्त्रव्यवहाराय सम्प्राप्तेः पर्य्यायावाह जातिरागतिरिति। संप्राप्ते रौपाधिकभेदानाह “सङ्ख्याविकल्पप्राधान्यबलकालविशेषतः। सा भिद्यते यथात्रैव वक्ष्यन्तेऽष्टौ ज्वरा इति”। सङ्ख्यादिकालविशेषान्तेभ्यः सा संप्राप्तिर्मिद्यते भेदवती क्रियतं इत्यर्थः। तत्र सङ्ख्यां विवृणोति। यथा ज्वरोऽष्टधा अतीसारः षड्विध इत्यादि विकल्पं विवृणोति। “दोषाणां सभवेतानां विकल्पोऽशांश कल्पना” समवेतानां समुदितानां दोषाणाम् अंशांशकल्पनाहीन मध्याधिकभेदैर्भागकल्पना विकल्पः। प्राधान्यं विवृणोति। “खातन्त्र्यपारतन्त्र्याभ्यां व्याधेः प्राभान्यमादिशेत्”। ज्याप्तेः स्वातन्त्र्येण प्राधान्यं पारतन्त्र्येणाप्राधान्यञ्च वदेदित्यर्थः। यथा स्वतन्त्रस्य ज्वरस्य प्राधान्यं ज्वराधीनानां श्वासादीनामप्राधान्यम। बलं विवृणोति “हेत्वादिकार्त्स्न्यावयवैर्बलाबलविशेषणम्”। अत्रापि व्याधेरित्यनुवर्त्तते हेत्वादीनां हेतुपूर्वरूपरूपाणाम्। कार्त्स्न्येन साकल्येन अवयवैः एकदेशेन व्याधेर्बलाबलयोर्विशेषणम्। विशेषणं बोधः। कालं विवृणोति। “नक्तं दिनर्तुभुक्तांशैर्व्याधिकालो यथामलम्” नक्तमत्राव्ययं रात्रिवाचकम्। घतेनैतदुक्तं यस्मिन्नक्तादिरंशो यस्य दोषस्य प्रकोप उक्तोऽस्ति सोऽशस्तस्य दोषजस्य व्याधेः काल इत्यर्थः। नक्ता देरंशेषु वातादिप्रकोप उक्तो वाग्भटेन “ते व्यापिनोऽपि हृन्नाभ्योरधोमध्योर्ध्वसंश्रयाः। वयोऽहोरात्रि भुक्तानामन्तमध्यादिगाः क्रमादिति” ते वातपित्तकफाः। ऋतुषु वातादिको यथा। “वर्षासु शिशिरे वायुः, पित्तं शरदि ग्रीष्मके। वसन्ते तु कफः कुप्येदेषा प्रकृतिरार्त्तवी। संप्राप्तिर्व्याधीनां ज्ञानाय हेतुः, यथा मिथ्याहारविहारकपितवाताद्यामाशयगमनरसदूषणकोष्ठाग्निबहिर्निरसनरूपं ज्वरोत्पत्तिप्रकारं बोधयति। तथा व्याधीनां सङ्ख्यादोषांशकल्पना प्राधान्यबलकालांश्च बोधयति।

स(म्प्रे)म्प्रैष = पु० सम् + प्र + इष–घञ् वा वृद्धिः। १ नियोगे २ विधौ हेमच०। विधिशब्दे ४९०७ पृ० दृश्यम्।

सम्प्रोक्षण = न० सम् + प्र + उक्ष–ल्युट्। जलादिसेचनेन संस्कारभेदे अभ्युक्षणशब्दे ३१३ पृ० दृश्यम्।

सम्प्रोक्षित = त्रि० सम् + प्र + उक्ष–क्त। जलादिसेचनेन कृतसंस्कारे पदार्थे।

सम्फाल = पु० सम् + फल–ज्वला० ण। मेधे हेमच०।

सम्फुल्ल = त्रि० सम + फुल्ल–अच्। विकसिते। सम् + फल–क्त अत उत्त्वम्। सम्पुल्त इति लकारमध्योऽपि तत्रैव।

सम्ब = सर्पणे भ्वा० प० स० सेट्। सम्बति असम्बीत् षोपदेशः साघुः

सम्ब = सम्बन्धे चु० उभ० सक० सेट्। सम्बयति ते अससम्बत् त।

सम्ब = न० सम्ब–अच्। १ कृष्टक्षेत्रस्य प्रतिलोमकर्षणे २ जले जटा०

सम्बद्ध = त्रि० सम् + बन्ध–क। १ सम्बन्धिनि। भावे क्त। २ सम्यग्बन्धने न०।

सम्बन्ध = पु० सम् + बन्ध–घञ्। १ संयोगादी २ संसर्गे ३ समृद्धौ अजयः। ४ सम्यग्बन्धने ५ नृणां संसर्गभेदे च। स च सम्बन्धस्त्रिविधः “सम्बन्धस्त्रिविधः पुसा विप्रेन्द्र! जगतीतले। विद्याजायातिजयैव प्रीतिजश्च प्रकीर्त्तितः। मैत्रन्तु प्रीतिजं प्रोक्तं स सम्बन्धः सुदुर्लभः” व्रह्मवै० ब्रह्मख० १० अ०। संसर्गश्च नानाविधः “शेषे षष्ठी” पा० महाभाष्ये दर्शितस्तत्रावगन्तव्यः। न्यायमते संयोगसमवायादिरुक्तः। सम्यग्बन्धी यतः। ६ हिते त्रि० अजयः।

सम्बर = न० सम्ब–अरन्। १ जले अमरः अयं तालव्यादि अजयः। २ बौद्धव्रतभेदे मेदि०। ३ संयमे त्रि० ४ सेतौ हेमच० ५ दैत्यभेदे ६ मृगभेदे ७ मीनभेदे पुंस्त्री० स्त्रियां ङीष्। ८ पर्वतभेदे च पु० शब्दर०। ९ जैनभेदे १० जिनमतप्रसिद्धपदार्थभेदे। स च आस्रवनिरोधरूपः गुप्तिसमित्यादिः अर्हत्शब्दे ३८४ पृ० तस्योद्देशः ३८५ पृ० च तल्लक्षणं दृश्यम्। संवर इत्येव अन्तस्थवमध्यः पाठः तत्रार्थे।

सम्बरारि = पु० सम्बरस्य दैत्यविशेषस्य अरिः। कामदेवे अमरः

सम्बरी = स्त्री सम्ब–अरन् ङीप्। १ मूषिकपर्ण्याम् अमरः। २ शतावर्य्याञ्च तालव्यादिरयमिति भरतः।

सम्बल = न० सम्ब–कलच् सम्यक्बलं यतो वा। १ जले शब्दर० २ पाथेये पु० न० अमरः तालव्यादि तत्रार्थे भरतः।

स(श)म्बाकृत = त्रि० स(श)म्बेन प्रातलोमेन कृष्टं क्षेत्रं स(श) म्ब + डाच्–कृ–क्त। १ अनुलोमकर्षानन्तरं प्रतिलोमकृष्टे द्विःकृष्टे क्षेत्रादौ अमरः। भावे क्त। २ प्रतिलोभकर्षणे न०

सम्बाध = न० सम्यक् बाधा यत्र। १ नरकवर्त्मभये शब्दमा०। सम् + बाध–भावे घञ्। २ अन्योन्यसंघर्षे पु० ३ सङ्कटे ४ भगे मेदि०।

सम्बाधन = पु० सम् + बाध–ल्यु करणे ल्युट् वा। १ द्वारपाले २ शूलाग्रे ३ मदनद्वारे भगे च मेदि०। भावे ल्युट्। ४ सम्यग्पीडने।

सम्बुद्ध = पु० प्रा० स०। १ बुद्धावतारे त्रिका०। २ सभ्यग्बोधाश्रये त्रि०।

सम्बुद्धि = स्त्री सम् + बुध–क्तिन् सम्यग्बुद्धिर्यत्र वा। १ सम्यगबोधे २ सम्बोधनशब्दार्थे च।

सम्बोध = पु० सम् + बुध–घञ्। १ क्षेपे २ बोधने मेदि०। ३ नाशे अजयः ४ सम्यक्ज्ञाने च

सम्बोधन = न० सम् + बुध–ल्युट्। १ सम्यक्ज्ञाने। बुध–णिच्युच्। तत्रार्थे स्त्री भरतः। ल्युट्। २ सम्यग्ज्ञापने “स्थितस्याभिमुखीभावमात्रं सम्बोधनं विदुः। प्राप्ताभिमुख्यः पुरूषः क्रियासु विनियुज्यते” इति व्याकरणोक्ते अन्यत्रासक्तस्यामिमुखीकरणाय अमीष्टक्रियासु विनियोगाय ज्ञापनादिरूपे ३ व्यापारभेदे न० “सम्बोधनपदं यच्च तत् क्रियाया विशेषणम्। व्रजानि देवदत्तेत्यादौ निघातोऽत्र तथा सति” हरिः। समानवाक्ये एव निघातस्य (अनुदात्तस्य) विधानात्। व्रजानि देवदत्त इत्यादौ तस्य निघातः। “सम्बोधनान्तं कृत्वोर्थाः कारकं प्रथमो वातः। धातुसम्बन्धाधिकारविहितभस- मस्तनञ्। तथा तत्स च भावेन षष्ठी चेत्युदितं द्वयम्। सम्बन्धश्चाष्टकस्यास्य क्रिययैवाधार्य्यताम्” हर्य्युक्तेस्तस्य क्रियायामेवान्वयः। सम्बोधनार्थे च प्रथमा।

सम्भली = स्त्री सम्यक् भवते सम् + भल–अच् गौरा० ङीष्। कुट्टिन्याम् परपुरुषेण सह अन्यस्त्रिया योजयित्र्याम् अमरः। तालव्यादि तत्रार्थे भरतः।

सम्भव = पु० सम् + भू–अप्। १ उत्पत्तौ २ आधेयस्याधारे समावेशनयोग्यत्वरूपे व्यापारे ३ उत्कटकोटिकसन्दहे गदा०। ४ सङ्कते। अपादाने अप्। ५ हेतौ। कर्त्तरि अच्। ६ मेलके त्रि० मेदि०। ७ अपाये च अजयः। पौराणिकमतसिद्धे ८ बद्धिभेदे ९ तत्प्रमाणे च तदेतन्मतम् तत्त्वकौमुद्यां प्रदर्श्य “सम्भवस्तु यथा खार्य्यां द्राणाढकप्रस्थाद्यवगमः सचानुमानमेव खारीत्वं हि द्रोणाद्यविनामूतं प्रतीतं खार्य्यां द्रोणादिसत्त्वमव गमयतीति” अनुनावान्तर्गतया प्रमाणान्तरत्वं दूषितम्। खारीत्वं खारीपरिमाणं महापरिमाणे स्वावान्तरपरिमाणसमाविशाऽनुभवसिद्धः तथा च खारीपरिमाणं द्रोणादिपरिमाणव्यापकमिति व्यापकस्थित्या व्याप्यस्थितेरावश्यकत्वादनुमानेनैव गतार्थतत्यर्थः। “न चतुष्ट्रमैतिह्यार्थापत्तिसम्भवाभावप्रामाण्यात्” गौ० सू० भाष्ये सम्भवोनाम अविना भाविनोऽर्थस्य सत्त्वग्रहणम्। यथा द्रोणस्य सत्त्वग्र हणात् आढकस्य सत्त्वाग्रहणम् एवम् आदकस्य सत्त्वग्रहणात् प्रस्थादिसत्त्वग्रहणम्” उक्तम्। तद्वृत्तौ च “अविनाभाववृत्त्या च सम्बद्धयोः समुदायसमुदायिनोः समुदा येन इतरस्य ग्रहणं सम्भवः तच्चानुमानमेव” इत्युक्तम्।

सम्भव्य = पु० सम् + पू–कर्त्तरि यत्। १ कपित्ये शब्दच० २ सम्य ग्भाविनि त्रि०।

सम्भार = पु० सम् + भू–घञ्। १ परिपूर्णतायां त्रिका० २ सम्भूतौ ३ समूहे ४ सामग्र्यां च मेदि०।

सम्भावन = न० सम् + मू–णिच्–ल्युट्। १ अर्थालङ्कारभेदे अल ङ्कारशब्दे ४०७ पृ० दृश्यम्। २ व्याकरणोक्ते क्रियासु योम्यताध्यसाये २ लिङर्थभेदे ३ उत्कटकोटिकसंशयरूपे ४ ज्ञानभेदे च गदाधरः। युच्। सम्भवनापि उक्ताथं स्त्री

सम्भावित = त्रि० सम् + भू–णिच्–क्त। सम्भवयुक्ते पदार्थे।

सम्भाषण = न० सम् + भाष–ल्युट्। १ सम्यक्कथने २ परस्परकथने च।

सम्भिन्न = त्रि० सम् + भिद–क्त। १ विदलिते २ भेदान्विते ३ सम्यण्विकसिते च “करैरिन्दोरन्तश्चरित इव सम्भिन्नसुकुलः” इति वेणीसंहारः।

सम्भूति = स्त्री सम् + भू–क्तिन्। १ विभवे २ ईश्वरस्यैश्वर्य्यभेदेश्च “सम्भूतिं य उपासते” इति श्रुतिः।

सम्भूयसमुत्थान = न० सम्भूय मिलित्वा सम्यमुत्तिष्ठन्त्यनेन सम् + उद् + स्था–करणे ल्युद्। १ मिलित्वा बणिजां वाणिज्यादिकर्मकरणे २ तद्विषयके विवादमेदे च तत्खरूपादिकं वीरमि० उक्तं यथा “अथ सम्भूयसमुत्थानाख्यव्यवहारपदम्। तस्य स्वरूपसाह नारदः “बणिक्वभृतयो यत्र कर्म सम्भूय कुर्वते। तत् सम्भूयसमुत्थानं व्यवहारपद स्मृतम्” इति। वणिक्प्रभृतय इत्यनेन ऋत्विङ्गटनर्त्तककर्षकादीनां ग्रहणम्। यद्यपि फलभूतस्य स्वर्गस्य ऋत्विग्गामित्वामावादात्मनेपदस्यानुपपन्नत्वेन प्रभृतिशब्देन ऋत्विग्ग्रहणमनुचितम्। तथापि आत्मनेपदाऽविवक्षयेदमुक्तन्न च ऋत्विङ्मात्रे आत्मनेपदाविवक्षणे अन्यांशे च विवक्षणे वैरूप्यप्रसङ्ग इति वाच्यम्। सम्भूयकर्त्तृत्वमात्रस्य लक्षणत्वेनान्यत्र वास्तवतत्सत्त्वेऽपि लक्षणवैयर्थ्यप्रसङ्गाभावात्। न च चिन्तामणिकृता कत्नभिप्राय इत्यस्य कर्त्रभिप्रायविषये कर्त्रिच्छाविषये क्रियाफल इति व्याख्यातत्वादृत्विजामपि सफलं यजमानस्य कर्म भवत्विति वेतनोपरागेणेच्छा सम्भवत्येवेत्यात्मनेपदविवक्षायामपि का क्षतिरिति वाच्यम्। कर्त्रमिप्राये कर्तृगामिनीत्यस्यैव व्याख्यानस्य सहाभाष्याद्यनेकग्रन्थसम्मतत्वेनान्यादृशव्याख्यानस्य महाभाष्यादिविरुद्धत्वात्। सह वणिज्यादिकरणे अधिकारिणो दर्शयति वृहस्पतिः “कुलीनदक्षानलसैः प्राज्ञैर्नाणकवेदिसिः। आयव्ययज्ञैः शुचिमिः शूरैः कुर्य्यात् सह क्रियाम्” इति। क्रियां क्रतुकृषिशिल्पस्तेयबाणिज्यरूपाम्। नाणकविज्ञानं बाणिज्यक्रियान यामुपंयुज्यते। आयव्ययज्ञानमात्रं कृषिक्रियायाम्। शिल्पिक्रियायां सङ्गीतक्रियायां च प्राज्ञत्वम्। क्रतो कुलीनत्वप्राज्ञत्वशुचित्वानि। स्तेये तु शूरत्वमात्रमुपयुज्यते। दक्षत्वानलसत्वे सर्वत्रोपयुज्येते। अतएवादक्षादीन्निषंधयति स एव “असक्तालसरोगार्त्तमन्दभाग्या निराश्रयाः। बाणिज्याद्याः सहैतैस्तु न कर्त्तव्या बुधैः क्रियाः” इति। निराश्रयाः मूलधनरहिताः। ये तु सम्भूय बाणिज्यादिक्रियां कुर्वन्ति ते द्रव्यानुरोधेन लाभादिभाजो भवन्तीत्याह नारदः “समोऽतिरिक्तो हीनो वा तत्रांशा यस्य यादृशः। क्षयव्ययो तथा वृद्धिस्तत्र तस्य तषाविधा” इति। वृहस्पतिरपि “प्रयोगं कुर्वते ये तु हेमघान्यरसादिना। समन्यूनाधिकैरंशैर्लाभस्तेषां तथाविधः। समो न्यूनोऽधिको वांशो येन क्षिप्तस्तथैव सः। व्ययं दद्यात् कमंकुर्य्याल्लाभं गृह्णीत चैव हि” इति। यत्र पुनरस्य द्वौ भागौ अस्यैक इति संवित् कृता तत्र तदनुरोधेन व्ययलाभौ प्रकल्प्यावित्याह याज्ञवल्क्यः “समवायेन बणिजां लाभार्थं कर्म कुर्वताम्। लाभालाभौ यथाद्रव्यं यथा वा संविदा कृतो” इति। सम्भूयकारिणां कर्त्तव्यमाह व्यासः “समक्षमसमक्षं वाऽवञ्चयन्तः परस्परम्। नानापण्यानुसारास्त्रे प्रकुर्युः क्रयविक्रयौ। अगोपयन्तो भाण्डानि दद्युः शुल्कञ्च तेऽध्वनि। अन्यथा द्विगुणं दाप्याः शुल्कस्थानाद्बहिःस्थिताः” इति। नारदोऽपि “भाण्डपिण्डव्ययोद्धारसारासारत्ववीक्षणम्। कुर्युस्तेऽव्यभिचारेण समये स्वे व्यवस्थिताः” इति। अथ वा सर्वानुज्ञया सर्वेषां कार्य्यमेक एव कुर्य्यात्। अतएव वृहस्पतिः “बहूनां सम्मतो यस्तु दद्यादेको धनन्नरः। करणं कारयेद्वापि सर्वेणैव कृतं भवेत्” इति। करणं केण्यादिकम्। सम्भूयकारिणाम्मिथोविवादे निर्णयप्रकारनाह स एव “परीक्षकाः साक्षिणश्च त एवोक्ताः परस्परम्। सन्दिग्धेऽर्थे वञ्चनाया न चेद् विद्वेषसंयुतः” इति। यदा तु विद्वेषसंयुक्तास्तदाप्याह स एव “यः कश्चिद्वञ्चकस्तेषां विज्ञातः क्रयविक्रये। शपथैः सोऽपि शोध्यः स्यात् सर्ववादेष्वयं विधिः” इति। सर्ववादेऽपि वञ्चनरहितवादेऽपि। वञ्चकत्वे सिद्धे सति किं कार्य्यमित्यपेक्षिते आह याज्ञवल्क्यः “जिह्मं त्यजेयुर्निर्लाभम्” इति। जिह्मं वञ्चकन्निर्लाभं कृत्वा त्यजेयुर्वहिः कुर्युरितरे सम्भूयकारिण इत्यर्थः। सम्भूयकारिष्वसमर्थं प्रत्याह स एव “अशक्तोऽन्येन कारयेत्” इति। स्वांशानुरूपं कर्मेति शेषः। दैप्रराजकृतद्रव्यहानिविषये सर्वान् प्रत्याह वृहस्पतिः “द्रव्यहानिर्यदा तत्र दैवराजकृता भवेत्। सर्वेषामेव सा प्रोक्ता कल्पनीया यथांशतः” इति। सम्भूयकारिभिः सर्वैरिति शेषः। क्षयहानिरिति पाठे क्षयायैव हानिः क्षयहानिरुपचय्यार्थव्यतिरिक्ता हानिरित्यर्थः। प्रातिस्विकदोषेण द्रव्यनाशे स एवाह “अनिर्दिष्टो वार्य्यमाणः प्रमादाद्यस्तु नाशयेत्। तेनैव तद्भवेद्देयं सर्वेषां समवायिनाम्” इति। अनिर्दिष्टः समवाय्यननुज्ञातः। याज्ञवल्क्योऽपि “प्रतिषिद्धमनादिष्टं प्रमाद्राद्यच्च नाशितम्। स तद् दद्यात्”। पालने त्वाह स एव “विप्लवाच्च रक्षिताद्दशमांशभाक्” इति। वृहस्पतिरपि “दैवराजभयाद् यस्तु स्वशक्त्या परिपालयेत्। तस्यांशं दशमं दत्त्वा गृह्णीयुस्तेऽशतोऽपरम्” इति। तस्य तस्मौ दशममंशन्ते समवायिद्रव्यमिति शेषः। प्रतिपालयेत् समाहरेत् स्वशक्त्या प्रत्याहरेदित्यर्थः। नारदोऽपि “दैवतस्करराजाग्निव्यसने समुपस्थिते। यस्तत् स्वशक्त्या रक्षेत तस्यांशो दशमः स्मृत” इति। यस्तु समवायिद्रव्यं समवायिभिः सह प्रतियाचनादिना न साधयति तस्य लाभहानिरित्याह वृहस्पतिः “समवेतैस्तु यद्दत्तं प्रार्थनीयं तथैव तत्। न याचते च यः कश्चिल्लाभात् स परिहीयते” इति। “योचनग्रहणं येन यत्कर्म स्वांशानुरूपं कर्त्तव्यं तस्याप्युपलक्षणार्थं तेन तत्कर्माकरणेऽपि लाभहानिरित्यस्वादेव वचनात् प्रतिपत्तव्यमिति” स्मृतिचन्द्रिकायाम्। सम्भूयकारिणामृत्विजां कर्त्तव्यमाह मनुः “ऋत्विजः समवेतास्तु यत्र सत्रे निमन्त्रिताः। कुर्युर्यथार्हं तत्कर्म गृह्णीयुर्दक्षिणां तथा” इति। अत्र सत्रशब्दो थज्ञमात्रविवक्षया प्रयुक्तो न पुनर्बहुयजमान कसत्राख्ययज्ञविशेषविवक्षया। तत्र यजमानानामेवाध्वर्यवादिकर्मकारित्वे दक्षिणार्हाणामृत्विजामभावात्। तथा कर्मानुसारेण दक्षिणां गृह्णीयुरित्यर्थः। तथा च स एव “सम्भूय स्वानि कर्माणि कुर्बद्भिरिह मानवैः। अनेन कर्मयागेन कर्त्तव्यांशप्रकल्पना” इति। स्वानि कर्माणि याजमानव्यतिरिक्तानीति शेषः। इयं चांशकल्पना द्वादशशतं गावो दक्षिणेत्येवं क्रतुसम्बन्धित्वेन विधीयमानायां दक्षिणायामेव न ऋत्विग्विशेषोल्लेखनेन विहितायास्तद्विधायकश्रुतिविरोधापत्तेः अतएवाहतुर्मनु वृहस्पती “रथं हरेद् तथःध्वर्युर्व्रह्माधाने च वाजिनम्। होता निविद्धरं चाश्वमुद्गाता चाप्यनः क्रये” इति। निविद्वरं निविच्छंसनलब्धं वरम्। उद्गातृशब्देनोद्गातृगणमध्यस्थः सुब्रह्मण्यो गृह्यत इति मदनरत्ने। अनः शकटम् क्रये सोमक्रये। दक्षिणांशकल्पनायाः प्रकारमाहतुः मनुवृहस्पती “सर्वेषामर्द्धिनो मुख्यास्तदर्द्धेनार्द्धिनोऽपरे। तृतीयिमस्तृतीयांशाश्चतुर्थांशाश्च पादिनः” इति। सर्वेषां षोडशानामृत्विजां मध्ये ये मुख्या गणस्याग्राः होतृ ब्रह्माध्यर्यूद्गातारस्तेऽर्द्धिनः उक्तदक्षिणायाः किञ्चित् न्यूनमर्द्धं ४८ गृह्णीयुः समग्रार्द्धग्रहणे वक्ष्यमाणविभासकल्पनाविरोधः स्यात्। अपरे द्वितीया मैत्रावरुणप्रतिप्रस्थातृब्राह्मणाश्छंसिप्रस्तोतारस्तदर्द्धेन २४ मुख्यभागार्द्धेनार्द्धिनोऽद्धंग्राहिणः, तृतीयिनोऽच्छावाकाग्नीध्रोन्नेतृप्रतिहर्त्तारो मुख्यभागस्य तृतीयांश १६ भाजः। पादिनोऽन्त्याः ग्रावस्तोतृपोतृनेष्टृसुब्रह्मण्याख्या मुख्यभागस्य चतुर्थांश १२ ग्राहिण इत्यर्थः। मुख्यानां चतुर्णां मिथोविभागश्च समः एवं द्वितीयादीनामपि स एव विभागः। तथा च गोशतं दक्षिणेति पक्षमाश्रित्य कात्यायनसूत्रम् “द्वादश द्वादश मुख्येभ्यः षट्षट् द्वितीयेभ्यश्चतस्रश्चतस्रस्तृतीयेभ्यस्तिस्रस्तिस्र इतरेभ्यः” इति। संगृहीतमेत्रद्बौधायनकारिकायामपि “पञ्चविंशतिधा कृत्वा वर्गीया दक्षिणा क्रमात्। द्वादशैवाथ षट्कं च चत्रास्तिस्र एव चेति” द्वादशाधिकनोशतरूपाया दक्षिणायाः प्रथमञ्चत्वारो भागाः कर्त्तव्याः। तत्रैको भागो होतृवर्गस्यापरो भागो ब्रह्मवर्गस्यापरोऽध्वर्युवर्गस्यापर उद्गातृवर्गस्य। पुनरेकैकस्य भागस्य पञ्चविंशतिर्भागाः कर्त्तव्याः। तेष्वाद्यानां होत्रादीनां द्वादश भागाः, द्वितीयानां षट्, तृतीयानां चत्वारश्चतुर्थानां त्रय इत्यर्थः पशुबन्धादौ तु विषमविभागानभिधानात् “समं स्यादश्रुतत्वादिति” न्यायेन समत्वेनैव विभाग इति मन्तव्यम्। स्वकीयकर्मकलापांशकर्तृषु कृतानुसारेण भागो देय इत्याह मनुः “ऋत्विग्यदि वृतो यज्ञे स्वकर्म परिहापयेत्। तस्य कर्मानुरूपेण देयोऽंशः सह कर्तृभिः” इति। सहकर्त्तृभिः सम्भूयकारिभिरित्यर्थः। यद्वा कर्तृभिः सह देयः दक्षिणाकाले देयो यजमाननेनेत्यर्थः। अथ वा कर्म परिंत्यक्तं सह कर्तृभिरित्यर्थः। यदा तु ऋत्विक् कर्मैकदेशं दक्षिणादानानन्तरं त्यजति तदाऽवशिष्टं तद्गणवर्त्तिनां मध्ये सन्निहितेनान्येन कारयेदित्याह स एव “दक्षिणासु च दत्तासु स्वकर्म परिहापयेत्। कृत्स्ममेव लभेतांशमन्येनैव च कारयन्” इति। कर्ममध्ये ऋत्विङ्मरणे कर्त्तव्यमाह नारदः “ऋत्विजां व्यसनेऽप्येवमन्येन कर्म निस्तरेत्। लभेत दक्षिणादानं स तस्मात् सम्प्रकल्पितम्” इति। अन्येन स्वस्वगणमध्यवर्त्तिनां मध्ये प्रत्यासन्नेन, येन केनचिदन्येन कार्यमाणे त्वध्वर्य्यादि समाख्याबाधापत्तेरिति ध्येयम्। यत्तु शङ्खलिखितयोर्वचनम् “अथ चेदनुप्राप्ते सवने ऋत्विक् म्रियते तस्य सगोत्रोऽथ शिष्यो वा तत्कार्य्यमनुपूरयेत्”। अथ चेदबान्धवस्ततोऽन्यमृत्विजं वृणुयात्” इति। यच्च वृह- स्पतिवचनम्। “एवं क्रियाप्रवृत्तानां यदा कश्चिद्विपद्यते। तद्वन्धुना क्रिया कार्य्या सर्विर्वा सहकासिभिः” इति। तदेकान्तगणरहितर्त्विक्कर्तृकदर्शपौर्णमासादियागविषयमित्यभिहितं स्मृतिचन्द्रिकायाम्। जीवत्येव तु ऋत्विजि यजमानेन ऋत्विगन्तरकरणे कस्य दक्षिणेति वीक्षायामाह शङ्खः “अथ ऋत्विजि वृते पश्चादन्यं वृणुयात्पूर्वाहूतस्यैव दक्षिणा पश्चादाहूतः किञ्चिल्लभते” इति। यदा त्वकारणमृत्विग् याज्य त्यजति याज्यो वा ऋत्विजं, तदा तयोर्दण्डमाह मनुः ऋत्विजं यस्त्यजेद् याज्यो याज्यमृत्विक् त्यजेद् यदि। शक्तं कर्मण्यदुष्टञ्च तयोर्दण्डः शतं शतम्” इति। नारदोऽपि “ऋत्विक् च त्रिविधो दृष्टः पूर्वैर्जुष्टः स्वयंकृतः। यदृच्छया च यः कुर्य्यादार्त्विज्यं प्रीतिपूर्वकम्। ऋत्विग्याज्यमदुष्टं यस्त्यजेदनपकारिणम्। अदुष्टञ्चर्त्विजं याज्यो विनेयौ तावुभावपीति”। ये कृषिसाधने स्वसमानास्तैः सह कृषिःकार्य्येत्याह वृहस्पतिः “वाह्यकर्षकवीजाद्यैः क्षेत्रोपकरणेन च। ये समानास्तु तैः सार्द्धं कृषिः कार्य्या विजानता” इति। वाह्याः लाङ्गलादिवाहकाः वलीवर्दाः। कर्षकाः कृष्यर्थं स्वीकृताः पुरुषाः आदिशब्देन कृषिसाधनानामन्येषां ग्रहणम्। सम्भूयकारिणां कृषकाणां कर्त्तव्यमाह वृहस्पातः “पर्वते नगराभ्यासे तथा राजपथस्य च। ऊषरं मूषकव्याप्तं क्षेत्रं यत्नेन वर्जयेत्” इति। पर्वते पर्वतसमीपे कल्पतरुकृता तु विवीत इति पठित्वा विवीतशब्देन यवमाद्यर्थं रक्षितः प्रदेश इति व्याख्यातम्। नगराभ्यासे नगरसमीपे। राजपथस्य समीप इति शेषः। एतदुक्तं भवति पवताद्यासन्नमनासन्नमपि ऊषरं मूषकव्याप्नञ्च क्षेत्रं वर्जयेदिति। वाह्येष्वपि वर्जनीयानाह स एव “कृशातिवृद्ध क्षुद्रञ्च रोगिणं प्रपलायिनम्। काणं खञ्जञ्च नादद्याद्वाह्यं प्राज्ञः कृषीवलः” इति। काणः एकाक्षः खञ्जः भग्नचरणः। क्वचिदत्रैकस्यैव हानिमाह स एव “वाह्यवीजात्ययाद्यस्य क्षेत्रहानिः प्रजायते। तेनैव सा प्रदातव्या सर्वेषां कृषिजीविनामि” ति। सम्भूयकारिणामिति शेषः। वाह्यवीजग्रहणं कृषिसाधनानामुपलक्षणार्थम्। सम्भूयकारिणा शिल्पिनां स्वरूपं दर्शयंस्तेषां लाभविभागेऽंशपरिकल्पनाप्रकारमाह स एव “हिरण्यकुप्यसूत्राणां काष्ठपाषाणचर्मणाम्। संस्कर्त्ता तत्कलाभिज्ञः शिल्पी प्रोक्तो मनीषिभिः। हेमकारादयो यत्र शिल्पं सम्भूय कुर्वते। कर्मानुरूपं निर्वेशं लभेरंस्ते यथांशतः” इति। कुप्यं हेमरूप्यव्यतिरिक्तत्रपुसीसादिकम्। हेमरूप्ये इति प्रस्तुत्य ताभ्यां यदन्यत्कुप्यमित्यमरसिंहेनोक्तत्वात्। निर्वेशो भृतिः। कात्यायनोऽपि “शिक्षकाभिज्ञकुशला आचार्याश्चेति शिल्पिनः। एकद्वित्रिचतुर्भागान् हरेयुस्ते यथोत्तरम्” इति। हर्म्यादिनिर्मातॄणां मध्ये मुख्यस्य भागद्वयमाह वृहस्पतिः “हर्म्यं देवगृहं वापि वाटिकोपस्कराणि च। सम्भूय कुर्वतां तेषां प्रमुख्यो द्व्यंशसर्हति” इति। नर्त्तकेष्वपि मुख्यस्यांशद्वयभागित्वमतिदिशन् विशेषान्तरमाह स एव “नर्त्तकानामेष एव धर्मः सद्भिरुदाहृतः। कालज्ञो लभतेऽध्यर्द्धं गायनास्तु समांशिनः” इति। अध्यर्द्धम् अर्द्धाधिकमेकमंशम्। सम्भूयकारिणाञ्चौराणां लाभभागेऽंशपरिकल्पनाप्रकारमाह कात्यायनः “परराष्ट्राद्धनं यत् स्याच्चोरैः स्वाम्याज्ञया हृतम्। राज्ञे दशांशानुद्धृत्य विभजेरन् यथाविधि। चौराणां मुख्यभूतस्तु चतुरोऽंशांस्ततो हरेत्। शूरोऽंशांस्त्रीन् समर्थो द्वौ शेषास्त्वेकैकमेव च” इति। एतद्धनं दुर्बलवैरिदेशादाहृतविषयम् प्रवलवैरिदेशादाहृते त्वाह वृहस्पतिः “स्वाम्याज्ञया तु यच्चौरैः परदेशात् समाहृतम्। राज्ञे दत्त्वा तु षड्भागान् भजेयुस्ते यथांशतः। चतुरोऽंशान् भजेन्मुख्यः शूरस्त्र्यंशमवाप्नुयात्। समर्थस्तु हरेत्द्व्यंशं शेषास्त्वन्ये समांशिनः” इति। समर्थः शक्तः। एतेषां हानिरप्येवमेवेत्याह कात्यायनः “तेषां चेत् प्रसृतानाञ्च ग्रहणं सममाप्नुयात्। तन्मोक्षणार्थं यद्दत्तं वहेयुस्ते यथांशतः” इति। इयमंशपरिकल्पना ऋत्विग्भिन्नसम्भूयकारिणां समयाभावविषया कृते तु समये तदनुसारेणैव। अतएव तेनैवोक्तम् “वणिजां कर्षकाणाञ्च चौराणां शिल्पिनान्तथा। अनियम्यांशकर्तृणां सर्वेषामेष निर्णयः” इति। अनियम्य लाभहान्योः समयेन प्रतिपुरुषमशमकृत्वेत्यर्थः”।

सम्भृति = स्त्री सम् + भृ–क्तिन्। सम्यक् पोषणे।

सम्भेद = पु० संभिद्यते संश्लिष्यतेऽत्र सम् + भिद–आधारे घञ्। १ नद्योः सङ्गमस्थाने अमरः। भावे घञ्। २ सङ्गमे ३ सम्यग्भेदने ४ स्फुटने ५ मिलने मेदि० ६ ऐकरूप्ये च “सम्भेदे नान्यतरवैयर्थ्यम्” इति मीमांसायां न्यायः।

सम्भोग = पु० सम् + भुज–घञ्। १ सम्यग्भोगे २ सुरते २ मित्र शासनभेदे मेदि० ४ हर्षे शब्दच० ५ केलिनागरे जटा० “दर्शनस्पर्शनादीनि निषेवेते विलासिनौ। यत्रानुरक्तावन्योन्यं सम्भोगः स उदाहृतः” उक्तलक्षण ६ शृङ्गारस्यावस्थामेदे सा० द०।

सम्भ्रम = पु० सम् + भ्रम–घञ् न वृद्धिः। १ भयादिजनिते वेगे अमरः। २ त्वरायां ३ तद्धेतुके ४ मये ५ आदरे मेदि०। ७ अतिशयभ्रमे ७ सूत्रे अजयः।

सम्मति = स्त्री सम् + मन–क्तिन्। १ अनुमतौ २ अभिलाषे च मेदि०। ३ आत्मज्ञाने अजयः।

सम्मद = पु० सम् + मद–घञर्थे क। १ हर्षे अमरः। कर्त्तरि अच् २ हर्षयुक्ते त्रि०।

सम्मर्द = पु० संमृद्यतेऽत्र सम् + मृद–आधारे घञ्। १ युद्धे। भावे घञ्। २ अन्योन्यसंघर्षे च।

सम्मातुर = पु० समीच्याः सत्या मातुरपत्यम् अण् उत् रपरः बा० न वृद्धिः। सतीतनये भाद्रमातुरे हेमच०।

सम्मान = पु० सम् + मन–घञ्। आदरे।

सम्मानित = स्त्री सम + मन–णिच्० क्त। १ कृतगौरवे २ समादृते च।

सम्मार्जन = स्त्री सम् + मृज–ल्यु। संशोधने रत्नमा०।

सम्मार्जनी = स्त्री संमृज्यतेऽनया सम् + मृज–करणे ल्युट् ङीप्। धूल्याद्यपसारणार्थे पदार्थे (झा~टा) अमरः। ण्वुल्। सम्मार्जक तत्रार्थे पु० शब्दर०।

सम्मित = त्रि० सम् + मा–क्त। १ सदृशे २ तुल्यपरिमाणे च जटा०

सम्मुख = त्रि० सङ्गतं मुखं येन प्रा० ब०। अभिमुखागते त्रिका०।

सम्मुखीन = त्रि० सम्मुख पतति ख। अभिमुखे पातिनि।

सम्मूर्च्छज = न० सम्मूच्छात् जायते जन–ड। तृणादौ हेमच०

सम्मूर्च्छन = न० सम् + मूर्च्छ–ल्युट्। १ सम्यगविस्तारे अमरः। २ उन्नतौ ३ मोहे च मेदि०। ४ सम्यक्मूर्च्छने खरभेदे।

सम्मूर्जनोद्भव = पु० सम्मूर्जनादुद्भवति उद् + भू–अच् ५ त०। मत्स्ये हेमच०।

सम्मृष्ट = त्रि० सम् + मृज–क्त। १ कृतमार्जने अमरः। मक्षिकाद्यपसारणेन २ शोधितेऽन्नादौ च भरतः।

सम्मोद = पु० सम् + मुद–घञ्। १ हर्षे २ प्रीतौ च शब्दच०।

सम्यच् = अव्य० सम् + अन्च–क्विप् सम्यादेशः। १ शोभने २ सङ्गते ३ मनोज्ञो च मेदि०। ४ सत्यवाक्ये न० भरतः ५ तद्वति त्रि० भत्वे समीच इत्यादि। स्त्रियां ङीप् समीची।

सम्राज = पु० सम्यक् राजते राज–क्विप् नानुस्वारः। कृतराजसूययज्ञे सर्वमूमीश्वरे नृपतौ अमरः।

सय्य~म = पु० सम् + यम–करणे घञ् समो वा परसवर्णोऽनुनासिको य~ः पक्षे संयमः। पात० सू० परिभाषिते धारणाध्यानसमाधित्रये “त्रयमेकत्र संयमः” पात० सू० “तदेतस्य धारणाध्यानसमाधित्रयस्यैकत्र संयमः एकविषयाणि त्रीणि साधनानि संयम इत्युच्यते तदस्य त्रयस्य तान्त्रिकी परिभाषा संयमः इति” भा०।

***