वाचस्पत्यम्
पिप to पीव
links:
Menu अ–ह
Prev पि–पिन
Next पु–पुथ
पिप
पिश
पिष्ट
पीठ
पीठक
पीतप
पीन
UpasanaYoga
.org

पिपतिषत् = त्रि० पतितुमिच्छति पत–सन्–शतृ। १ पतितुमि च्छति। २ खगे मेदि०।

पिपतिषु = त्रि० पतितुमिच्छुः पत–सन उ। १ पतितुमिच्छौ २ खगे राजनि०

पिपासा = स्त्री पातुमिच्छा पा–पाने सन् भावे अ। पातुमिच्छायाम् सा च प्राणवृत्तिः ऊर्मिभेदः “बभुक्षा च पिपासा च प्राणस्य, मनसः स्मृतौ। शीकमोहौ, शररस्य ज्वरामृत्यू षडूर्मयः” शा० यि०। तद्वेतुः पित्तमेदस्तच्छब्दे दृश्यम्। तारका० इतच्। पिपासित संजातपिपासे त्रि०।

पिपीतक = पु० ब्राह्मणभेदे येन पिपीतकीद्वादशीव्रतमाचरितम्

पिपीतकी = स्त्री पिपीतको ब्राह्मणभेदः स प्रवर्त्तकतयास्त्यस्य अच गौरा० ङीष्। वैशाखशुक्लद्वादश्याम् तद्विधानं भविव्यपु० “वैशाखे शुक्लपक्षस्य द्वादशी वैष्णवी तिथिः। तस्यां सुशीतलजलैः स्नापयेत् केशवं प्रभुम्। पूजयेद्गन्धपुष्पाद्यैर्धूपदीपैर्विधानतः। नैवेद्यैर्विविधैश्चैव ताम्बूलैरथ वाससा। जप्त्वा तु वैष्णवं मन्त्रं दण्डवत् प्रणमेत्ततः। दद्याद्विजेभ्यो विधिवत् कुम्भा~स्तोयसमन्वितान्। प्रघमेऽव्दे चतुःकुम्भान् दद्याल्लवणसंयुतान्। मालाभिरङ्कितग्रीवान् सुशीतलजलान्वितान्। शुक्लवस्त्रावृतमुखानुपवीतसुसंयुतान्। धनुर्वाणसमायुक्तान् सभोज्यदक्षिणान्वितान्। द्वितीयेऽष्टौ घटान् दद्याद्दधिशर्करसंयुतान्। तृतीये द्वादश घटान् तिलमोदकसंयुतान्। चतुर्थे षोडश घटान् दुग्धलड्डुकसंयुतान्। दद्यात् संपूज्य देवेशं द्विजातिभ्यः प्रयत्नतः। दक्षिणां शक्तितो दद्यात् भोज्यञ्चैव विशेषतः” पिपीतकव्रह्मणं प्रति यमोपदेशः। तत्कालस्तु ति० त० उक्तः द्वादशीशब्दे ३७९९ पृ० दृश्यः। अधिकं तत्कथायां दृश्यम्।

पिपीलक = पु० अपि–पील–ण्वुल् अल्लोफ। (डेओपिप्पडा) ख्याते १ कीटे (क्षुदेपिप्डा) २ ख्यात कीटे स्त्री टाप्। हेमच०। अच्–पिपीलोऽप्यत्र शब्दच० गौरा० ङीष् पिपीलीत्यप्यत्र हेम०। क्षुद्रकीटे राजनि०।

पिपीलिकामध्य = न० पिपीलिकायामध्यमिव मध्यमस्य। चान्द्रायणभेदे पुंस्त्री० चान्द्रायणशब्दे ३९। ३ पृ० दृश्यम्।

पिप्पक = पुंस्त्री० शरव्यादेवतोद्देशन आलभ्ये पक्षिणि अजादि० टाप्। स्त्रीपक्षिभेदे स्त्री यजु० २४। ४०।

पिप्पटा = स्त्री खाद्यमेदे त्रिका०।

पिप्पल = न० पा–अलच् पृषो०। १ जले निघण्टुः २ वस्त्रखण्डभेदे च मेदि० ३ अश्वत्थवृक्षे अमरः ४ बन्धनशून्ये षक्षिणि च पु० शब्दच०। ५ कणायां (पिपुल) स्त्री गौरा० ङीष ह्रस्वः पिप्पलिः पिप्पली चात्र। तस्याः फलम् अण् हरीतक्या० तस्य लुप्। तत्फलेऽपि स्त्री। अस्त्यर्थे उत्करादि० छ। पिप्पलीय तद्युते त्रि०। रेवत्यां जाते ६ मित्रपुत्रभेदे पु० भाग० ६। १८। ६

पिप्पलाद = पु० ऋषिभेदे भाग० १। १९। ९

पिप्पलायन = पु० भरतानुजे भागवतप्रघाने नृपमेदे भाग० ५। ४। ११

पिप्पलीघृत = न० चक्रदत्तोक्ते घृतभेदे “पिप्पलीगुडसंसिद्धं छागक्षीरयुतं घृतम्। एतदग्निविवृद्यर्थं सपिश्च क्षयकासिनाम्”।

पिप्पलीश्रोणि = स्त्री नदोभेदे मार्क० पु० ५७ अ०

पिप्पलीमूल = न० पिप्पल्या इव मूलमस्य। (पिपुलमूल)ख्याते वृक्षे राजनि० “दीपनं पिप्पलीमूलं कटूष्णं पाचनं लघु। रूक्षं पित्तकरं भेदि कफवातोदरापहम्। आमाहप्लीहगुल्मघ्नं कृमिश्वासक्षयापहम्” भावप्र०। ततः मत्वर्थे उत्करा० छ। पिप्पलमूलीय तद्युते त्रि०।

पिप्पलु = पु० ऋषिभेदे तस्य गोत्रापत्यं गर्गा० यञ्। यैप्पलव्य तद्गोत्रापत्ये पुंस्त्री०।

पिप्पल्याद्य = न० चक्रदत्तोक्ते तैलभेदे “पिप्पलीं मधुकं विल्वं शताह्वां मदनं वचाम्। कुष्ठं शटीं पुष्कराख्यं चित्रकं देवदारु च। पिद्वा तैलं विपक्तव्यं द्विगुणक्षीरसंयुतम्। अर्शसां मूढवातानां तच्छेतमनुवासनम्। गुदनिःसरण शूलं मूत्रकृच्छ्रं नवाहिकाम्। कट्यूरुपृष्ठदौर्वल्यमानाहं वङ्क्षणाश्रयम्। पिच्छास्रावं गुदे शोथं वातवर्च्चोविनिग्रहम्। उत्थानं बहुदोषञ्च जयेच्चैवानुवासनात्”।

पिप्पिका = स्त्री दन्तमले हेमच०।

पिप्पीक = पुंस्त्री० खगभेदे वृ० सं० ८६ अ० तस्य दक्षिणदिक्स्थत्वे शुमसूचकत्वमुक्तम्।

पिप्रु = पु० असुरभेदे ऋ० १। ५१। ५ भा०।

पिप्लु = पु० अपि + प्लु–डु अपेरल्लोपः। जटुले अमरः।

पिब्दमाना = स्त्री अपि + शब्द–शानच् पृषो०। शब्दायमाने

पिब्दन = त्रि० अपि + शब्द–ल्युट् पृषो०। अव्यक्तं शब्दायमाने २ रक्षोभेदे पु० ऋ० ६। ४६। ३

पियारु = पी–हिंसावा बा० आरुक्। हिंस्रे अ० १। १९०। ५ “पीयतिर्हिंसाकर्मेति” निरु० ४। २५

पियाल = पु० पी–पाने कालन्। पीतसाले (पेयासाल) (मुरगा) वृक्षभेदे अमरः “पियालस्तु खरःस्कन्धसारो बहुलवल्कलः। राजादनस्तापसेष्टः सन्नकद्रुर्द्धनुष्पटः। सारः पित्तकफास्रघ्नस्तत्फलं मधुरं मुरु। स्निग्धं सरं मरुत्पित्तदाहज्वरतृषापहम्। पियालमज्जा मधुरो दुष्यः पित्तानिलापहः। हृद्योऽतिदुर्ज्वरः स्निग्धो विष्टम्भी चामवर्द्धनः” भावार०।

पिल = प्रेरण चु० उभ० सक० षेट्। पेलयति ते अपीविलत्–त।

पिलिप्पनी = स्त्री चिक्कणायां भुवि। यजु० २३। १२ “श्रीर्वै पिलिप्पनी” शत० ब्रा० १३। २६। ११ “श्रयत्येनामिति श्रीशब्देन पृथिवीति” वेददीपः।

पिलु = पु० अपि + ला–बा० डु। पीलुवृक्षे शब्दरत्नावली।

पिलुनी = स्त्री अपि + ला ना० डुन गौरा० ङीष्। मूर्वायां रत्नमाला।

पिलुपर्णी = स्त्री पीलोरिव पर्णमस्याः ङीप् पृषो०। मोरटालतायां रत्नमाला।

पिल्ल = न० क्लिद–ल पिलादेशः। १ क्लिन्नचक्षुषि। २ तद्युते त्रि० अमरः।

पिल्लका = स्त्री पिल्ला इव कायति कै–क। हस्तिन्यां शब्दमा०

पिव = सेचने भ्वा० पर० सक० सेट् इदित्। पिन्वति अपिन्वीत्। पिपिन्व पिन्व्यते। पिन्वनम्

पिश = अवयये समूहस्यांशभावे अक० दीपनायां सक० तुदा० मुचा० पर० सेट्। पिंशति घटः समूहीभवतीत्यर्थः। “त्वष्टा रूपाणि पिंशतु” ऋ० १०। १८४। १ दीपयतु इत्यर्थः अपेशीत् पिपेश।

पिश(स) = त्रि० पिश–क। १ पापनिर्मुक्ते २ बहुरूपे न०।

पिशङ्ग = पु० पिश–अङ्गच् किच्च। पद्मधूलितुल्ये १ पिङ्गलवर्णे २ तद्वति त्रि० अमरः।

पिशङ्गक = पु० पिशङ्ग + स्वार्थे क। १ पिशङ्गशब्दार्थे पिशङ्गेव कायति कै–क। २ विष्णौ ब्रह्मपु०।

पिशङ्गभृष्टि = त्रि० भ्रसज–कर्मणि क्तिच् पिशङ्ग शव भृष्टिः सारभूतोऽस्य। शुद्धपिङ्गलवर्णे ऋ० १। ३३। ५ भा०।

पिशङ्गराति = त्रि० पिशङ्गः बहुरूपो रातिर्धनमस्य। बहुधनखामिनि ऋ० ६। ३१। २ भा०।

पिशङ्गिला = स्त्री पिशं बहुरूपं गिलति ख मुम्। रीतौ पित्तले।

पिशाच = पु० पिशितमाचामति आ + चम–बा० ड पृषो०। १ देवयोनिभेदे २ प्रेते च अमरः “अन्तरीक्षचरा ये च भूतप्रेत पिशाचकाः। वर्जयित्वा रुद्रनणांस्ते तत्रैव चरन्ति हि। नोर्द्ध्वं विक्रमणे शक्तिस्तेषां सम्भृतयाव्मनाम्। अत ऊर्द्ध्वं हि विप्रेन्द्र! राक्षसा ये कृतैनसः। ते तु सूर्य्यादधः सर्वे विहरन्त्यूर्द्धवर्जिताः” इति पाद्मे खर्गखण्डे १५ अ०। प्रेते यथा “अशौचान्ताद्वितीयेऽह्नि यस्य नोत्सृज्यत वृषः। पिशाचत्वं भवेत्तस्य दचैः श्राद्धशतैरपि” शु० त०। तन्निवारणे कुशलः आकर्षा० कन्। पिशाचक तन्निबारणकुलमे त्रि० स्वार्थे पर्श्वा० अण्। पैशाच तदर्थे पिशाच इव कायति कै–क। पिशाचतुल्ये यक्षगुह्यकादौ।

पिशाचकिन् = पिशाचकः यक्षादिरस्त्यस्य स्वत्वेन पिनाचक + इनि। यक्षेश्वरे कुवेरे हेमच०।

पिशाचद्रु = पु० पिशाचप्रियः चनान्धकारत्वात्द्रुः शा० त० शाखीटवृक्षे त्रिका०

पिशाचमोचन = न० स्वनामख्याते तीर्थभेदे स्कन्दपुराणम्।

पिशाचसभ = न० ६ त० क्लीवता। पियाचानां सभायाम

पिशाची = स्त्री पिशाचजातिः स्त्री ङीष्। १ पिशाचजाति स्त्रियां तद्वगन्धयुक्तायां ३ गन्धमांस्यां राजनि०।

पिशिक = पु० देशभेदे स च वृ० सं० १४ कूर्भविभागे दक्षिणस्यामुक्तः।

पिशित = न० पिश–क्त। १ मांसे अमरः। २ जटामांस्यां स्त्री वा ङीप् मेदि०।

पिशितभुज् = त्रि० पिशितं भुङ्क्ते भुज–क्विन्। क्रव्यादे राक्षसादौ पिशिताशादयोऽप्यत्र।

पिशी = स्त्री पिश–क गौरा० ङीष्। जटामांस्यां राजनि०।

पिशील = न० पिस–बा० ईल। शरावे मृण्मयपात्रे शत० ब्रा० २। ५। ३। ६ भा०। कात्या० ५। ३। ४३ कर्कः।

पिशुन = न० पिश–उनन् किच्च। १ कुङ्कुमे अमरः। २ नारदे ३ काके च पु० ४ सूचके ५ क्रूरे च त्रि० (पिडिङ्) ६ शाकभेदे स्त्री० टाप् मेदि०।

पिष = चूर्णने रु० पर० सक० अनिढ्। पिनष्टि ऌदित् अपिषत् पिपेष पेष्टा पिष्टः पेषः पेषणम्। “शुष्कचूर्णरूक्षेषु पिघः” पा० एषूपपदेषु कर्मसु णमुल् कसा० यथाविध्यनुप्रयोगः “शुष्कपेषं पिनष्मुर्वीम्” भट्टिः “स्नेहने पिषः” पा० स्नेहसाधने करणे उपपदे णमुल्। उदपेषम् पिनष्टि उदकेन पिनष्टीत्यर्थः पेषमादिपरे उदकस्योदादेशः।

पिष्ट = न० पिष–क्त। १ सीसके रत्नमाला २ पिष्टके पु० न० “अन्नादष्टगुणं पिष्टं पिष्टादष्टगुणं पयः। पयसोऽष्टगुणं र्मासं मांसादष्टगुणं घृतम्। घृतादष्टगुणं तैलं मर्दनान्न च भक्षणात्” वैद्य० अस्य गुणाः “पिष्टं प्राणकरं रूक्षं विदाहि गुरु दुर्जरम्। शालिपिष्टमया भक्ष्याः कफपित्तविनाशनाः। वैदला गुरवो भक्ष्या विष्टम्भिसृष्टमारुताः। सगुडाः सतिलाश्चैव सक्षौद्रक्षारशर्कराः। मक्ष्या बल्याश्च हृद्याश्च गुरवोवृंहणा परम्। सस्नेहाः स्नेहसिक्ताश्च भक्ष्मा गोधूमसम्भवाः। गुरवस्तर्पणा हृद्या वलोपचयवर्द्धनाः। मर्दितां समितां क्षीर नारिकेलघृतादिभिः। अवग्राह्य घृते पक्त्वा घृतपूरोयमुच्यते। घृतपूरो गुरुर्वृष्यः कफकृद्रक्तमांसदः। रक्तपित्तहरो हृद्यः स्वादुः पित्तहरोऽग्निदः”। गोधूमचूर्णं समिता। “समिता मधुदुग्धेन खण्डैलामरिचादिभिः। एते पक्ता क्षिपेत् खण्डे संयावो वृंहणो गुरुः। समिता वेष्टिता मध्ये मधु दत्त्वा घृते शृता। मधुमस्तकमुद्दिष्टं तदृष्यं गुरु दुर्जरम्” राजवल्लभः। ३ रूपे न० निघण्टुः ४ चूर्णिते त्रि०। ५ ऋषिभेदे पु०। तस्यापत्यम शिवा० अण्। पैष्ट तदपत्ये पुंस्त्री०। ततः गोत्रप्रत्ययस्य बहुत्वे मुन्ते अद्वन्द्वे च उपषा० लुक्।

पिष्टक = त्रि० पिष्टस्य विकारः कन्। १ पिष्टस्य विकारभेदे संज्ञायां कन्। २ अपूपे अस्त्री अमरः। कृतान्नशब्दे मावप० वाक्यं दृश्यम्। ३ तिलचूर्णे न० राजनि०। ४ नेत्ररोगभेदे मेदि० “श्लेष्मा मारुतकोपेन शुक्ले पिष्टसमन्नतम्। विष्टवत् पिष्टकं विद्धि मलाक्तादर्शसन्निभम्” माधवकरः।

पिष्टप = न० विश्यत्यत्र विश–कप निपा०। मुवने अमरः।

पिष्टपचन = न० पिष्टं पच्यतेऽनेन पच–करणे ल्युट्। पिष्टकपाकपात्रे कटाहादौ अमरः।

पिष्टपशु = पु० पिष्ठमयः पशुः। यज्ञे पशुस्थाने पिष्टमये पशौ तथा हि पिष्टपशुमीमांसायाम् अनिष्टसाधनस्यापि हिंसाया वैदिकमन्त्रद्वारा संस्कारविशेषे जनिते इष्टसाधनत्वं यथा विषादेरनिष्टसाधनस्यापि वैद्यकोक्तसंस्कारभेदे कृते इष्टसाधनत्वम्। एवञ्च वैद्यकोक्तविषसंस्कारस्य किञ्चिदङ्गवैगुण्ये यथा नेष्टसाधनत्वमेवं वैदिकप्रयोगे मन्त्रादीनां यथोक्तस्वरादिवैगुण्येऽपि न हिंसाया इष्टसाधनत्वम्। विशेषतः सांख्यमते हिंसाया इष्टसाधनत्वेऽपि अनिष्टान्तरसाधनत्वमुररीकृतम्। तथा च वेदोच्चारणादौ सामर्थ्यहीनानामिदानीन्तनानां सुतरां पशुयागादौ पिष्टपशुनैव यागो विधेयः न तु साक्षात् पशुनेति व्यवस्थापितम्। मनुनापि “कुर्य्यात् घृतपशुं सङ्गे कुर्य्यात् पिष्टपशुं तथा इत्यनेन कामनारूपासत्तौ पिष्टपशोरेव विधानमुक्तम्। एतन्न्यायानुसारेणैव भा० आश्व० ९१ अ० “आलम्भसमये तस्मिन् गृहीतेषु पशुष्वथ। सहर्षयो महाराज! बभूवुः कृपयान्विताः। ततो दीनान् पशून् दृष्ट्वा ऋषयस्ते तपोधनाः। ऊचुः शुक्रं समागम्य नायं यज्ञविधिः शुभः। अपरिज्ञानमेनतत्ते महान्तं धर्ममिच्छतः। न हि यज्ञे पशुगणा विधिदृष्टः पुरन्दर!। धर्मोपधातकस्त्वेष समारम्भस्तव प्रभो!। नायं धर्मकृतो यज्ञो न हिसा धमे उच्यये। आगमेनैव ते यज्ञं कुर्वन्तु यदि चेच्छसि। विधिदृष्टेन यज्ञेन धर्मस्ते सुमहान् भवेत्। यज वीजैः सहस्राक्ष! त्रिवर्षपरमोषितैः। एष धर्म्मो महान् शक्र! महागुणफलोदयः”। ४३९२ पृष्ठस्थपुष्यस्नानशब्दात् परत्र परिशिष्टम्।

पिष्टपाककृत् = न० पिष्टस्य पाकं करोति आधारस्य कर्तृत्वविवक्षायां कृ–कर्त्तरि क्विप् तुक् च। १ पिष्टपाकाधारे पात्रे हेमच० कर्त्तरि किप्। २ पिष्टपाचके त्रि०।

पिष्टपूर = पु० पिष्ट इव पूर्य्यते पूरि–कर्मणि अच। वटके घार्त्तिके हेमच०।

पिष्टपाकभृत् = न० पिष्टपाकं निभर्त्ति भ–क्विप। पिष्टपाकपात्रे हेमच०।

पिष्टमय = त्रि० पिष्टस्य विकारः भयट्। पिष्टविकारे भस्मादौ सि० कौ०।

पिष्टमेहिन् = पु० पिष्टमिव मेहति मिह–णिनि। सुश्रुतोक्ते प्रमेहभेदरोगयुते “पिष्टरसतुल्यं पिष्टमेही मेहति” सुश्रुतः।

पिष्टवर्त्ति = पु० पिष्टं वर्त्तयति वर्त्ति–इन्। मुद्गमाषादिचूर्णे (धूमसी) हेमच०।

पिष्टसौरभ = न० पिष्टस्येव सौरभमस्य। चन्दने हारा०।

पिष्टात = पु० पिष्टमितातति अत–अच्। १ पटवासे पटवासनार्थे सुगन्धद्रव्ये (आवीर) ख्याते २ पदार्थे च अमरः।

पिष्टिक = न० पिष्टमस्त्यस्य उत्पत्तिसाधनत्वेन ठन्। तण्डुलचूर्णभवे द्रवात्मके (पिठालि) ख्याते पदार्थे राजनि० (पिठी) प्रसिद्धायां पिष्टद्विदले स्त्री “दालिः संस्थापिता तोये ततोऽपहृतकञ्चुका। शिलायां साधु संपिष्टा पिष्टिका कथिता बुधैः” भावप्र०।

पिष्टोडी = स्त्री श्वेताम्लिकायां राजनि०।

पिष्टोदक = न० पिष्टमिश्रितमुदकं शात० त०। चूर्णतण्डुलमिश्रितजले भा० आ० १३१ अ०।

पिस = गतौ भ्वा० पर० सक० सेट्। पेसति अपेसीत् पिपेस ऋदित् अपिपेसत्–त।

पिस = दीप्तौ वा चु० उभ० पक्षे भ्वा० पर० अक० सेट् इदित्। पिंसयति ते अपिपिंसत् त। पक्षे पिंसति अपिंसीत्।

पिस = वासं बले च अक० बधे दाने गतौ च सक० चु० उम० सेट्। पेसयति–ते अपीसिसत् त।

पिसङ्ग = पु० पिस–अङ्गच् किच्च। पिशङ्गशब्दार्थे

पिहित = त्रि० अपि + धा–क्त अपेरल्लोपः। १ तिरोहिते २ आच्छादिते च हेमच०।

पी = पागे दि० सक० आत्म० अनिट्। पीयते अपेष्ट। ल्यप् “निपीक्ष यस्य क्षितिरक्षिणः कथाम्” नैषधः पिबतेस्तु निपाय इत्येव।

पीठ = पु० न० पीयते पिठ्यते वा अत्र पा–ठक् पिठ–क वा पृषो० दीर्घः। (पी~डे) १ आसनभेदे अमरः। २ व्रतिनामासने त्रिका० तत्रार्थे स्त्री रत्नमाला गौरा० ङीष्। पीठलक्षणादिकं युक्तिकल्पतरो दर्शितं यथा “घातुपाषाणकाष्ठैश्च पीठस्त्रिविध उच्यते। घातवश्च शिलाश्चैव काष्ठानि विविधानि च। तदत्र संप्रवक्ष्यामि यद्येषामुपयुज्यते”। तस्य मानम् “हस्तद्वयञ्च दैर्घ्येण तदर्द्धे परिणाहतः। तदर्द्धेनोन्नतः पीठः सुख इत्यभिधीयते। हस्तद्वयद्वयाधिक्यात् पञ्च पीठा भवन्ति हि। सुखो जयः शुभः सिद्धिः सम्बच्चेति यथाक्रमम्। धनभोगमुखैश्वर्य्यवाञ्छितार्थप्रदायकः। समदीर्घे सुखा वाप्तिर्विषमे विषमापदः। आयामपरिणाहाभ्यां हस्तद्वयमितो हि यः। अर्द्धहस्तोन्नतः पीठो जारको नाम विश्रुतः। दैर्व्योलतिपरीखाहैश्चतुर्हस्तमितो हि यः। राजपीठ इति ज्ञेयः सकलार्थप्रसाधकः। अत्राभिषेकमिच्छन्ति क्षितिपस्य पुराविदः। दैर्घ्योन्नतिपरीणाहैः षढस्तसंमितो हि यः। राज्ञां चित्तप्रसादार्थं केलिपीठाभिधानकः। दैर्घ्योन्नतिपरीणाहैरष्टहस्तमितो हि यः। अङ्गपीठो ह्ययं नाम्ना भवेत् स च सुखप्रदः। कानको राजपीठः स्याज्जयो वा राजतः सुखः। राज्ञामेवोपयोक्तव्यो लक्षवश्चोत्तरोत्तरम्। राजपीठे चिरायुः स्याज्जये सर्वां महीं जयेत्। जारको जाययेच्छत्रून् सुखे सुखमवाप्नुयात्। राजतः कीर्त्तिजननो धनवृद्धिकरः परः। तामः प्रतापजननो विपक्षक्षयकारकः। लौहस्तूच्चाटने सार्वः सर्वकर्मसु युज्यते। त्रपुसीसकरङ्गाद्याः शत्रुक्षयफलप्रदाः” इति धातु पीटाः। अथ शिलापीठाः “वज्रपीठो वज्रप्राणेरेव नान्यस्य दृश्यते। पद्मरागो दिनेशस्य चान्द्रकान्तो विघोरपि। राहोर्मारकतः पीठः शनेर्नीलसमुद्भवः। गोमेदकस्तु सौम्बख स्फाटिकस्तु वृत्तुस्फतेः। शुक्रस्य वैदूर्यमवः प्रायालो भङ्गलस्य हि”। पुराणप्रसिद्धाः। “यो यस्य हि दशाजातः पीठस्तस्य हि तन्मयः। स्फटिकस्तु महीन्द्राणां सर्वेषामेव युज्यते। अभिषेके च यात्रायामुत्सवे जयकर्मणि। अयस्कान्तोपघटितः संग्रामे पीठ इष्यते। गरुडोद्गाररचिते वर्षासु नृपतिर्वसेत्। शुद्धरत्नमयं पीठं भजते घनगर्जिते। सामान्यः प्रास्तरः पीटो विलासाय महीभुजाम्। एषां मानं गुणाश्चापि विज्ञेया चातुपीठवत्”। काष्ठपीठानां मानं पूर्ववदेव। “सम्पत्तिसुखवृद्ध्यर्थं सम्भारजनितो जयः। जारको रोगनाशाथ सुखः शत्रुविनाशनः। सिद्धिः सर्वार्थसंसिद्ध्यै विजयाय च वैरिणाम्। शुभः स्यादभिषेके च सम्पद्वैरिनिवारिणी। पालाशो जारकः पीठः सुखसम्पत्तिकारकः। जयः स्यादभिषेके च शुभः शत्रुविनाशनः! सुखो रोगविनाशाय सिद्धिः सर्वार्थदायिका। सम्पदुच्चाटनविधौ विज्ञेया पीठलक्षणम्। चान्दनस्त सुखः पीठो अभिषेके महीभुजाम्। जयः स्वाद्रोगनाशाय शुभः सौख्यं प्रयच्छति। जारको ग्रहतुष्ट्यर्थमन्ये तु रतिदुष्कराः। यत्नतो निर्मितास्ते तु साम्नाज्यफलदायकाः। कालेयकी जायको हि भूमुजामभिषेचने। पीठानगुरुकादीनामन्ये चन्दनवद्विदुः। बाकुलस्तु शुभः पीठो भूमुजाममिषेचने। जयो रोगविनाशाय सुखः सम्पत्तिकारकः। सिद्धिः सिद्धिप्रदा सम्पत् संग्रामे विजयप्रदा। जारको जरणाय स्यादिति भोजस्य सम्मतम्। एवं सुगन्धिकुसुमाः ससारा ये च पादपाः। बाकुलेम समः कार्य्य एवं पीठस्य निर्णयः। ये शुष्ककाष्ठा वृक्षास्तु मृदवो लघवोऽथ वा। गाम्भरोसदृशः पीठस्तेषां कार्थ्यस्तथा गुणः। फलिनश्च ससाराश्च रक्तसाराश्च ये नगाः। तेषां पानसवत् पीठस्तथैव गुणमावहेत्”। अथ निषिद्धपीठाः “विज्ञेयो निन्दितः पीठो लौहोत्थः सर्वधातुजे। शिलोत्थः शार्करो वर्ज्यः कर्करश्च विशेषतः। काष्ठजेषु च पीठेषु नासारा नातिसारिणः तथा च “आम्रजम्बुकदम्बानामासनं वशनाशनम्” भोजस्त्वाह “गुरुः पीठो गौरवाय लमुर्लाघवकारकः” पराशरस्तु “नाग्रन्थिर्नातिग्रन्थिश्च नागुरुर्नातुमाकृतिः। पीठः स्यात् सुखसम्पत्त्यै नातिदीर्घो न वामनः। ये चान्ये पीटसदृशा दृश्याः शिल्पिविनिर्मिताः। गुणान् दोषांच मानञ्च तेषां पीठवदादिशेत्। वितार्य्यामेन विघिना यः शुद्धं पीठमाचरेत्। तस्य लक्ष्मीः स्वयं वेश्म कदाचिन्न विमुञ्चति। अज्ञानादथ वा मोहाद्योऽन्यथा पीठमाचरेत्। एतानि तस्य नश्यन्ति लक्ष्मोरायुर्बलं कुलम्”। ३ कंसामात्ये पु० हरिवं० १६१ अ०। ४ असुरभेदे पु० भा० द्रो० १७ अ०। ५ देवतामूर्त्तिस्थापनाधारे पिण्डिकायां स्त्री ङीप् स्वार्थे क पीडिका तत्रार्थे पिण्डिकाशब्दे तृश्यम्। ६ देवतापूजनाङ्गे हृदयरूपे आघारे तत्र पूज्यपदार्थाः पूज्यदेवताञ्च तन्त्रसारे उक्ता यथा “पीठपूजां ततः कुर्य्यात् आधारशक्तिपूर्वकम्। प्रकृतिं कमठञ्चैव शेषं पृथ्वीं तथैव च। सुधाम्बुधिं मणिद्वीपं चिन्तामणिगृहं तथा। श्मशानं पारिजातञ्च तन्मूले रत्नवेदिकाम्”। शारदायाम् “अनन्तं हृदये पद्मं तस्मिन् सूर्य्येन्दुपावकान्। एषु खखकलां न्यस्य नामाद्यक्षरपूर्वतः। सत्त्वादीन् त्रिगुणान्न्यस्य यथैवात्र गुरूत्तभः। आत्मानमन्तरात्मानं परमात्मानमेव च। ज्ञानात्मार्न प्रविन्यस्य न्यसेत् पीठमनुन्ततः”। पीठशक्तयश्च देवताभेदे इच्छाज्ञानादयस्तत्तत्कल्पोक्ताः शारदादो दृश्याः। ७ मन्त्रसिद्ध्यर्थजपस्थानभेदे तत्रापि विष्णुचक्रेण विभक्तस्य सतीदेहस्य तत्तदङ्गभेदपतनात् तत्तत्स्थानस्य पूज्यता तत्र पीठानि अङ्गप्रत्यङ्गभेदपतनं च तन्त्रचुडामणावुक्तं यथा “एकपञ्चाशच्च पीठाः शक्तिर्मैरवदेवताः। अङ्गप्रत्यङ्गपातेन विष्णुचक्रक्षतेन च। ममास्य वपुषो देव! हिताय त्वयि कथ्यते। ब्रह्मरन्धं हिङ्गलायां भैरवो भीमलोचनः। कीट्टरीशा महादेव! त्रिगुणा या दिगम्बरी। १ करवीरे त्रिनेत्रं मे देवी महिघर्मर्द्दिनी। क्राधीशो भेरवस्तत्र २, सुगन्धायाञ्च नासिका। देवस्त्र्यम्बकनामा च सुनन्दा तत्र देवता ३ काश्मीरे कण्ठदेशश्च त्रिसन्ध्येश्चरभैरवः। अहामाया भगवती गुणातीता वरप्रदा ४। ज्वालामुख्यां महाजिह्वा देव उन्मत्तभैरवः। अम्बिका सिद्धिदानाम्नी ५, स्तनो जालान्धरे मम। मीषणो भैरवस्तत्र दवौ त्रिपुरमालिनौ ६। हृद्यपीठं वैद्यनाथे यैद्यनाथस्तु भैरवः। देवता जयदुर्गाख्या ७, नेपाले जानु म क्षिव!। कपाजी भेरवः श्रीमान् महामाया च देवता ८। मालवे दक्षहस्तो मे देवी दाक्षायणी हर!। अमरो भैरवस्तत्र सर्वसिद्धिप्रदायकः ९। उत्कले नाभिदेशस्तु विरजाक्षेत्रमुच्यते। विमला सा महादेवी जनन्नाथस्तु भेरवः। भण्डक्यां गण्डपातश्च तत्र सितिर्न सशयः। तत्र सा गण्डकी चण्डी चक्रपाणिस्तु भैरवः ११। बहुलायां नामवाहुर्बहुलाख्या च देवता। भीसको भैरवस्तत्र सर्वसिद्धिप्रदायकः १२। उज्जयिन्यां कूर्परञ्च माङ्गल्यकपिलाम्बरः। भैरवः सिद्धिदः साक्षाद्देवी मङ्गलचण्डिका १३। चट्टले दक्षबाहुर्मे भैरवश्चन्द्रशेखरः। व्यक्तरूपा भगवतो भवानी तत्र देवता। विशेषतः कलियुगे वसामि चन्द्रशेखरे १४। त्रिपुरायां दक्षपादो देवी त्रिपुरसुन्दरी। भैरवस्त्रिपुरेशश्च सर्वाभीष्टप्रदादयकः १५। त्रिस्नोतायां वामपादो भ्रामरो भैरवेश्वरः १६। योनिपीठं कामगिरौ कामाख्या तत्र देवता। यत्रास्ते त्रिगुणातीता रक्तपाषाणरूपिणी। यत्रास्ते माधवः साक्षादुमानन्दोऽथ भैरवः। सर्वदा विहरेद्देवा तत्र मुक्तिर्न संशयः। तत्र श्रीभैरवी देवी तत्र च क्षेत्रदेवता। प्रचण्डचण्डिका तत्र मातङ्गी त्रिपुरात्मिका। वगला कमला तत्र भुवनेशी सभूमिनी। एतानि नवपीठानि शंसन्ति नव भैरवाः १७। अङ्गुल्यश्चैव हस्तस्य प्रयागे ललिता भवः १८। जयन्त्यां वामजङ्घा च जयन्ती क्रमदीश्वरः १९। भूतधात्री महामाया भैरवः क्षीरकण्ठकः। युगाद्या सा महामाया दक्षाङ्गुष्ठः पदो मम २०। नकुलीशः कालिपीठे दक्षपादाङ्गुली च मे। सर्वसिद्धिकरी देवी कालिका तत्र देवता” २१। भुवनेशी सिद्धिरूपा किरीटस्था किरीटतः। देवता बिमलानाम्नी संवर्त्तो भैरवस्तथा २२। वाराणस्यां विशालाक्षी देवता कालभैरवः। मणिकर्णीति विख्याता कुण्डलञ्च मम श्रुतेः २३। कन्याश्रमे च मे पृष्ठं निमिषो भैरवस्तथा। सर्वाणी देवता तत्र २४, कुरुक्षेत्रे च गुलफतः। स्थाणुर्गाम्ना च सावित्री २५ मणिवेदिकदेशतः। मणिबन्धे च गायत्री सर्वानन्दस्तु भैरवः २६। श्रीशैले च मम ग्रीवा महालक्ष्मीस्तु देवता। भेरवः संवरानन्दो देशेदेशे व्यवस्थितः २७। काञ्चीदेशे च कङ्कालो भैरवो रुरुनामकः। देवता देवगर्भाख्या २ ८ नितम्बः कालमाधवे। मैरवश्चासिताङ्गश्च देवी काली सुसिद्धिदा २९। दृष्ट्वा दृष्ट्वा नमस्कृत्य मन्त्रसिद्धिमवाप्नुयात्। शोणाख्ये भद्रसनस्तु नर्मदाख्या नितम्बकम् ३०। रामगिरौ तथा नाला शिवानी चण्डभैरवः ३१। वृन्दावन कशजाले उमानाम्नी च दवता। भूतशो भैरवस्तत्र सर्वसिद्धिप्रदायकः ३२। संहाराख्य उर्द्ध्वदन्ते देवी नारायणी शुचौ ३३ अधोदन्ते महारुद्रो वाराही पञ्चसागरे ३४। करतोयातटे तल्पं वामे वामनभैरवः। अपर्णा देवता तत्र ब्रह्मरूपा करोद्भवा ३५। श्रीपर्वते दक्षगुल्फं तत्र श्रीसुन्दरी परा। सर्वसिद्धीश्वरी सर्वा सुनन्दानन्दभैरवः ३६। कपालिनि भीमरूपा बामगुल्फविभागतः। भैरवश्च महादेव! सर्वानन्दः शुभप्रदः ३७। उदरञ्च प्रभासे मे चन्द्रभागा यशखिवी। वक्रतुण्डो भैरवश्चो ३८ र्द्धोष्ठो भैरवपर्वते। अवन्त्याञ्च महादेवी लम्बकर्णस्तु भैरवः ३९। चिबुके भ्रामरी देवी विकृताख्या जलेस्थले। भैरवः सर्वसिद्धीशस्तत्र सिद्धिरनुत्तमा ४०। गण्डोगोदावरीतीरे विश्वेशी विश्वमातृका। दण्डपाणिर्मेरवस्तु ४१ वामगण्डे तु राकिणी। भैरवो वत्सनागस्तु तत्र सिद्धिर्न संशयः ४२। रत्नावल्यां दक्षस्कन्धे कुनारी भैरवः शिवः ४३। मिथिलायां महादेवी वामस्कन्धे महोदरा ४४। नलाहाट्यां नलापातो योगीशो मैरवस्तथा। तत्र सा कालिका देवी सर्वसिद्धिपदायिका ४५। कर्णाटे चैव कर्णोमे त्वभीरुर्नाम भैरवः। देवता जयदुर्गाख्या नानाभोगप्रदायिनी ४६। वक्रेश्वरे मनःपातो वक्रनाथस्तु भैरवः। नदी पापहरा तत्र देवी महिपमर्द्दिनी ४७। यशोरे पाणिपद्मञ्च देवता यशोरेश्वरी। चण्डव भैरवस्तत्र यत्र सिद्धिमवाप्नुयात् ४८। अट्टहासे चौष्ठपातो देवी सा फुल्लरा स्मृता। विश्वेशो मैरवस्तत्र सर्वाभीष्टप्रदायकः ४९। हारपातो नन्दिपुरे मैरवो नन्दिकेश्वरः। नन्दिनी सा महादेवी तत्र सिद्धिर्न मंशयः ५०। लङ्कायां नुपूरञ्चैव भैरवो राक्षसेश्वरः। इन्द्राक्षी देवता तत्र इन्द्रेणोपासिता पुरा ५१ विराटदेशमध्ये तु पादाङ्गुलिनिपातनम्। भैरवश्चामृताख्यश्च देवी तत्राम्बिका स्मृता ५२। मागधे दक्षजङ्घा मे व्योमकेशस्तु भेरवः। सर्वानन्दकरी देवी सर्वानन्द फलपदा ५३”। (पुस्तकान्तरपाठसंवादात् पीठद्वयाधिक्यं लिपिकरप्रमादात् पीठद्वयस्य निर्मूलता तत्र कयार्निर्मूलता तन्न शक्नुमोविवेचयितुम्)। एतास्ते कथिताःपुत्र! पीठनाथाधिदेवताः। क्षेत्राधीर्श विना देव। पूजयेच्चान्यदेवताम्। भैरवैर्ह्रियते सर्वं जपपूजादिसाधनम्। अज्ञात्वा भैरवं पीठे पीठशक्तिञ्च शङ्कर!। प्राणनाथ! न सिध्येत् तु कल्पकोटिजपादिभिः”। अन्यान्यपि सिद्धपीठानि कुन्धिकातन्त्रे ७ पटलोक्तानि यथा “श्रूयतां सावधानेन सिद्धपीठं पतिव्रते!। यस्मिन् साधनमात्रेण सर्वसिद्धीप्वरी भवेतु। मायावती मधुपुरी ताशी गोरक्षचारिणी। हिङ्गला च महापीठं तथा जालन्धरं पुनः। ज्वालामुखी महापीठं पीठ नगरसम्भवम्। रामभिरिर्महापीठं तथा गोदावरी प्रिये!। नेपालं कर्णसूत्रञ्च महाकर्णं तथा प्रिये। अयोध्या च कुरुक्षेत्रं सिंहलाख्यं मनोरमम्। मखिपुरं हृशीव शं पयागञ्च तपोवनम्। वदरी च महापीठमम्बिका अर्द्धनालकम्। त्रिवेणी च महापीठं गङ्गासागरसङ्गमम। नारिकेलञ्च विरजा उड्दीयानं महेश्वरी। कमला विमला चैव तथा माहेष्मती पुरी। वाराही त्रिपुरा चैव वाग्मती नीलवाहिनी। गोवर्द्धनो विन्ध्यगिरिः कामरूपं कलौ पुगे। घण्टाकर्णोऽक्षयग्रीवो माधवश्च सुरेश्वरि!। क्षीरग्रामं वैद्यनाथं जानीयाद्वामलोचने!। कामरूपं महापीठं सर्वकामफलप्रदम्। कलौ शीघ्रफलं देवि! कामरूपे जपः स्न तः”। “पीठप्रसङ्गाद्देवेशि! पीठानि शृणु भैरवि!। शृणु तानि महाप्राज्ञे। श्रेष्ठस्थानानि यानि च। सिद्धिप्रदानि साधूना सहद्भिः सेविनानि च। पुष्करञ्च गयाक्षेत्रं अक्षयाख्यवटस्तथा। वराह पर्षतश्चैव तीर्धञ्चामरकण्टकम्। नर्मदां यमुनां पिङ्गां गङ्गाद्वारं तथा प्रिये!। यङ्गासागरसङ्गञ्च कुशावर्त्तल बिल्वकम्। श्रीनीलपर्वतञ्चैव कलम्बकुब्जिके तथा। भृगुतुङ्गञ्च केदारं शर्वपियमहाचलम्। ललिता च सुगन्धा च शाकम्भरीपुरप्रियम्। कर्णतीर्थं लहारङ्गा तण्डिकाश्रम एव च। कुमाराख्यप्रभासौ च तथा धन्या सरस्वती। अगस्त्याश्रममिष्टं मे कन्थाश्रममतःपरम्। कौशिकी करयूशोणज्योतिः सरः पुरःसरम्। कालादकं प्रियं श्रीमत मियमुत्तरमानमम्। मतङ्गवापी सप्तार्चिर्महाविष्णु पदं महत्। वैद्यनार्थं महातीर्थं प्रियः काजञ्जरो गिरिः। रामोद्भेदं गङ्गोद्भेदं हरोद्भेदं महावनम्। भदेश्चरमहांतीर्थं लक्ष्मणोद्भेदमेव च। जानीहि प्रियश्रेष्ठा च कावेरी कपिलोदका। सोमेश्वरं शुक्लतीर्यं कृष्णवेण्वाप्रभेदकम्। पाटला च महाबोधिर्नगतीर्थं गदन्तिके। पुण्यं रामेश्वरं देवि। तथा मेघवनं हरेः। ऐलेयकवगञ्चैव गोवर्द्धनमजप्रियम्। हरिश्चन्द्रं पुरश्चन्द्रं पृथूदकमथ प्रिये। इन्द्रनीलं महानादं तथैव प्रियमैनकम्। पञ्चाप्सरः पञ्चवटी वटी पर्वटिका तथा। गङ्गाविऌपसङ्गश्च प्रियनादिवटं तथा। गङ्गारामाचलञ्चैव तथैव ऋणनोचनम्। गौतमे श्वरतीर्थञ्च यशिष्ठतीर्थमेव च। हारीतञ्च तथा देवि। ब्रह्मावर्त्त शिवप्रियम्। कुशावर्त्तमभिश्रेष्ठं” हंसतीर्थं तथैव च। पिण्डारकवनं ख्यातं हरिद्वारं तथव च। तथैव वदरीतीर्थं रामतीर्थं तथैव च। जयन्तो विजयन्तञ्च सर्वकल्याणदं प्रिये!। विजया सारदातीर्थं भद्रकालेश्वरं तथा। अश्वतीर्थं सुविख्यातं तथा देवि! शिवप्रियम्। ओथवती नदी चैव तीर्थमश्वप्रदं तथा। छागलिङ्गमातृगणं करवीरपुरं तथा। सप्तगोदावरं तीर्थं लिङ्गाख्यं सर्वमोहनम्। किरीटमुत्तरे तीर्थं दक्षिणे तीर्थमुत्तमम्। विशालतीर्थं काल्याश्च वनं वृन्दावनं तथा। ज्वालामुखी हिङ्गुला च महातीर्थं गणेश्वरम्। जानीहि सर्वतीर्थानां हेतुस्थानानि सुन्दरि!। अत्र सन्निहिता नित्यं सर्वदेवा महर्षयः। पितरो योगिनश्चैव ये ये सिद्धिपरायणाः। आशु सिद्ध्यन्ति कर्माणि श्रद्धाभक्तिमतां प्रिये!। पुण्यकाले पठेद्यस्तु तत्पुण्यमक्षयं भवेत्। श्राद्धकाले पठेद्यस्तु जुहुयाद्वापि भक्तितः। अक्षयं तद्भवेत् सर्वं पितॄणां परमं सुखम्। अस्मिन् स्थाने पठेद्यस्तु सिद्धिर्भवति तत्क्षणात्। अथ वक्ष्ये महेशानि! यत्र या देवता शृणु। यत्र ते यानि नामानि कथायष्यामि तत् शृणु। मग्नोऽहं परमानन्दे तत्कथामृतवारिधौ। पुष्करे कमलाक्षी च भयायाञ्च गवेश्वरी। अक्षया चाक्षयवटेऽमरेशोऽमरकण्टके। वराहपर्वते च त्वं वराही घरणीप्रिया। नर्मदा नर्मदायाञ्च कालिन्दी यमुनाजले। शिवामृता च गङ्गाया मश्वा देहलिकाश्रमे। शारदा सरयूतीरे शोणे च कनकेश्वरी। अप्रकाशा सदा देवी ज्योतिर्मय्यब्धिसङ्गमे। श्रोनामा श्रीगिरौ चैव काली कालोदके तथा। महोदरी महातीर्थे मीला चोत्तरमानसे। मातङ्गिनी मतङ्गे च गुप्तार्चिर्विष्णुपादके। स्वर्गदा स्वर्गभार्गे च गोदावर्व्यां गवेश्वरी। विमुक्तिश्चैव गोमत्यां विष्टाशायां महाबला। शतद्र्वां शतरूपा च चन्द्रभागा च तत्र वै। ऐरावत्याञ्च ईर्नाम सिद्धिदः सिद्धितीरके। दक्षा पञ्चनदे चैव दक्षिणा त्व प्रकीर्त्तिता। औजसे वीर्य्यदा च त्वं सङ्गमा तीर्थसङ्गमे। बाहुदायामवन्ता त्वं कुरुक्षेत्रेऽरुणेक्षणा। तपस्विनी पुण्यतमा भारती भारताश्रमे। सुकथा नैमिषारण्ये पाण्डौ च पाण्डरानना। विशालायां विशालाक्षी मुण्डपृष्ठे शिवात्निका। श्रद्धा कन खले तीर्थे शुद्धबुद्धिर्मुनीश्वरी। मुवेशा सुमना गौरी मानसे च सरोवरे। नन्दापुरे सहानन्दा ललिता लसितापुरे। ब्रह्माणी तह्मशिरणि म हादायककाद्धिनां पूर्णिमा चेन्दुमत्याञ्च सिन्धौरतिप्रिया सदा। जाह्नवीसङ्गमे वृत्तिः स्वधा च पितृतुष्टिदा। पुण्या बहुसितायाञ्च प्रपायां पापनाशिनी। शङ्खसंहरणे चैव थोररूपा महोदरी। स्वर्गोद्भेदे महाकाली प्रवला च महावने। भद्रा च भद्रकाली च भद्रेश्वरी शिवप्रिया। भद्रेश्वरे रमा विष्णुप्रिया विष्णुपदे तथा। दारुणा नर्मदोद्भेदे कावेर्य्यां कपिलेश्वरी। भेदिनी कृष्णवेण्वायां सभेद शुभवाविनी। श्रद्धा च शुक्रतीर्थे च प्रभासे श्वेश्वरी तथा। महाबोधौ महाबुद्धिर्पाटले पाटलेश्वरी। सुबला नागतीर्थे च नागेशी नागवन्दिता। मदन्तौ च मदन्ती च प्रमदा च मदन्तिका। मेघस्वना मेघवासे विविद्युत्सौदामनीच्छदा। रामेश्वरे महाबुद्धिर्वीरा चैलापुरे सती। पियालमार्गके दुर्गा सुवेशा सुरसुन्दरी। काव्यायनी महादेवी गोवर्द्धनेऽखिलात्मिका। शुभेश्वरी हरिश्चन्द्रे, पुरश्चन्द्रे पुरेश्वरी। पृथूदके भहावेगा मैनाकेऽखिलवर्द्धिनी। इन्द्रनीले महाकान्ता रत्नवेशा सुशोभता। माहेश्वरी महानादे, महातेजा महांवने। पञ्चाप्सरसि सारङ्गा पञ्चवट्यां तपस्विनी। वटीशी वटिकायाञ्च सर्ववर्णे सुरङ्गिर्णा। सङ्गमे विन्ध्यगङ्गाख्या, विन्ध्ये श्रीविन्ध्यवासिनी। महानन्दा नन्दवटे, गङ्गवाटाचले शिवा। आर्य्यावर्त्ते महार्य्या त्वं, विमुक्तिरृणमोचने। अट्टहासे च चामुण्डा, तन्त्रे श्रीगौतमेश्वरी। वेदमयी ब्रह्मविद्या वाशिष्ठे त्वमरुन्धती। हारीते हरिणाक्षी च ब्रह्मावर्त्ते व्रजेश्वरी। गायत्नी चैव साबित्री कुशावर्त्ते कुशप्रिया। हंसेश्वरी महातीर्थे परहंसेश्वरेश्वरी। पिण्डारकबने धन्या सुरसा सुखदामिनी। नारायणी वैष्णवी च गङ्गाद्वारे विमुक्तिदा। श्रीविद्या वदरीतीर्थे, रामतीर्थे महाधृतिः। जयन्ती च जयन्ते त्वं, विजयन्तेऽपराजिता। विजया च महाशुद्धिः सारदायाञ्च सारदा। सुभद्रे भद्रदा, भव्या भद्रकालेश्वरे तथा। महाभद्रा महाकाली हयतीर्थे गवीश्वरी। वेददा वेदमाता च विदेशे वेदमस्तके। युवत्याञ्च महाविद्या, महानद्यां महोदया। चण्डा च त्रिपदे चैब छागलिङ्गे बलिप्रिया। मातृदेशे जगन्माता, करवीरपुरे सती। मालवे रङ्गिणी रामा परमा परमेश्वरी। सप्तगोदावरे तीर्थे देवर्षावश्चिलेश्वरी। अयोध्यायां भवानी च जयदा जयमङ्गला। माधवी मथुरायाञ्च देवकी याद्रवेश्वरो। वृब्दागोपेश्वरी राधा रासवृन्दावने रमा!। कात्यायनी महामाया भद्रकाली कलावती। चन्द्रमाला महायोगा महायोगिन्यधीश्वरी। वज्रेश्वरी यशोदेति वज्रश्रीगोकुलेश्वरी। काञ्च्यां कगकमाञ्ची स्यादवन्त्यामतिपावनी। विद्या विद्यापुरे चैव विमला नीलपर्वते। रामेश्वरी सेतुबन्धे, विमला पुरुषोत्तमे। विरजा नागपूर्थ्याञ्च भद्राश्वे भद्रकर्णिका। तमोलिप्ते तसोघ्नी च स्वाहा सागरसङ्गमे। कुलश्रीर्वंशवृद्धिश्च माधवी माधवप्रिया। मङ्गला मङ्गले कोटे, राढे मङ्गलचण्डिका। ज्वालामुखी शिवापीठे मन्दरे भुवनश्वरी। कालीघाटे गुह्यकाली, किरीटे च महेश्वरी। किरीटेश्वरी महादेवी लिङ्गाख्ये लिङ्गवाहिनी। साक्षात् सर्वत्र भक्तानाम भक्ताना कुतोऽपि न। अथान्यत्संप्रवक्ष्यामि सिद्धस्थानानि सुन्दरि!। सर्वपापविनाशार्थं सर्वसिद्धिप्रदं नृणाम्। निर्मितानि शिवेनेह सिद्धस्थानानि यानि च। श्रुत्वा मनसि भाव्यानि प्रकाश्यान्यधिकारिषु। अमरेश महापीठे कुशतुङ्गारसंज्ञकः। तत्र दुर्गाद्वयं नाम चण्डिका च महेश्वरी। प्रभासे सोमनाथोऽसौ देवी च पुष्करक्षणा। देवदेवाधिष शम्भुर्नैमिषे च महेश्वरः। तत्र प्रज्ञा च देवी च शिवानी लिङ्गधारिणी। पुष्करे च राजगन्धिः पुरहूता महेश्वरी। श्रीपर्वते श्रिया नाम्ना शङ्करस्त्रिपुरान्तकः। मायावी शङ्करी तत्र मक्तानामखिलार्थदा। जप्येश्वरे महास्थाने शङ्करी च त्रिशूलिनी। त्रिशूली शङ्करस्तत्र सर्वपापविमोचकः। आम्रातकेश्वरे सूक्ष्मः सूक्ष्माख्या परमेश्वरी। गखक्षेत्रे मङ्गलाख्या शिवो यः प्रपितामहः। कुरुक्षेत्रे शिवःस्थाणुः शिवा स्थाणुप्रिया परा। इष्टनाभे स्वयम्भूश्च देवी स्यायम्भुवा मता। उग्रः कनखले प्रोक्तः शिवोऽग्रे शिववल्लभा। विमलेश्वरे विश्वशम्भुरिष्टा विश्वप्रिया सदा। अट्टहावे महानन्दो महानन्दा महेश्वरी। महान्तको महेन्द्रे च पार्वती च महान्तका। भीमेश्वरो भीमपीठे शिवा भीमेश्वरी तथा। वस्त्रपादे भवो नाम भवानी मवनेश्वरी! अद्रिकूटे महायोगी रुद्राणी परमेश्वरी। अविमुक्ते महादेवो विशालाक्षी शिवा परा। महामाये हरोरुद्रो महाभागा शिवा तथा। महाबलश्च गोकर्णे शिवमद्रा च चण्डिका। भद्रकर्णे मडादेवो भद्रा च कर्णिका तथा। सुपर्णाख्ये सहस्राक्षः उत्पला परमेश्वरी। स्थाणुसंज्ञे शिवः स्थाणुरीशस्था श्रीघरा शिवा। कलासये महास्थाने कमलाख्यो महेश्वरः। कमलाक्षी मांशानी सकलार्थप्रदायिनी। छागला तु कपर्दी च प्रसमा च महेश्वरी। जर्द्ध्वरेता अरण्ये च सन्ध्याख्या परमेश्वरी। साकोटे च महाकोटः शिवा च मुण्डकेश्वरी। मातुलेश्वरपीठे च करवीरार्च्य शेखरा। श्रीमद्व्याघ्रपुरे साक्षाद्धरनामा सभापतिः। शिवः सभापतिर्नाम यत्र नृत्यति शङ्खरः। आत्मानन्दमहानाद पूर्णानन्दमहार्खवम्। नृत्यन्तं यत्र देवेशं देवेशी परिपश्यति। तत्र चाशु महादेवो भक्तानां वरदो भवेत्। नृत्यन्तं यत्र सर्वेशं वीक्ष्य लोको विमुच्यते। पुण्यख्यानेषु सर्वेषु स्थानमेतन्मनोरमम्। यद्यत्कर्माणि सर्वाणि अक्षयाणि भवन्ति वै। तस्मिन् महोत्तमे स्थाने शिवगङ्गाख्यनद्भुतम्। तडागमस्ति तत्तीरे दक्षिणे नृत्यतीश्वरः। तटाकेऽस्विन् वलन् खात्वा समानाथं समीक्ष्य च। अष्टोत्तरसहस्रन्तु जपेच्छुद्धोमुदान्वितः। यानि ते कथितान्यत्र सदा तिष्ठन्ति देवताः। पिवतः सिद्धगन्धर्वा सिद्धयः सर्वसिद्धिदाः। अत्र दत्तं हुतं जप्तं स्नानमक्षयपुण्यदम्। यद्वत् प्रकीर्त्तित नाम तैरेव परिपूज्य च। प्रणवादिहृदन्तेन लमतेऽभीष्टमुत्तमग्। पोजयेद्ब्राह्मणान् योऽत्र अक्षयं फलमश्नुते। इह नानासुखं भुक्ता हरगौरीपुरं व्रजेत्। शीकदुःखविनाशोऽयं करुणानिधिरीश्वरः। निर्ममे सर्वसग्यत्त्यै पुण्यक्षेत्राणि भूतले। अकाले पुण्यशुद्धानामनेकपुण्यसाधनैः। आ स्तिकानां भवेदत्र निवासः साधनं प्रति। तस्काद्यत्नेन कर्त्तव्यमत्र साधनमुत्तमैः”। कालिकापु० १९ अ० एकपञ्चाशत्पीठोत्पत्तिर्द्वश्या।

पीठकेलि = पु० पीठमर्द्दे नायकसहायसेदे त्रिका०।

पीठगात्र = न० लेख्यव्रताङ्गाष्टदलकमलाययवभेदे ब्रत० त०।

पीठचक्र = न० पीठ इव चक्रमस्य। शकटादौ “पीठचक्रेण गोयुक्तेनेत्येके” आश्व० गृ० ४। २। ६ “गोयुक्तेन पीठचक्रेण शकटादिना” नारा०।

पीठन्यास = पु० पीठे न्यासः। पीठदेवतानां आधारशक्तिप्रकृत्यादीनां प्रणवादिनमीऽन्तेन हृदये न्यासभेदे तन्त्रसारः

पीठभू = स्त्री प्राकारसमीपस्थे भूभागे वप्रे हेमच०।

पीठमर्द्द = पु० नायकसहायभेदे “दूरावर्त्तिनि स्यात् तस्य प्रासङ्गिकेतिवृत्ते तु। किञ्चित्तद्गुणहीनः सहाय एवास्य पीठमर्दाख्यः”। “तस्य नायकस्य बहुव्यापिनि प्रसङ्गागतेतिवृत्तेऽनन्तरोक्तैर्नायकसामान्यगुणै किञ्चिदूनः पीठमर्दनामा सहायो भवति। यथा राम- चन्द्रादीनां सग्रीवादयः” साहित्यदर्पणे उक्तम्।

पीठसंर्प = त्रि० पीठे सर्पति सृप–अच्। खञ्जे भा० व० ३५ अ०। णिनि पीठसर्पिन् तत्रार्थे हारा०।

पीड = बधे विलोडने च चु० उभ० सक० सेट्। पीडयति ते ऋदित् अपिपीडत् त। पीडा पीडनम्। धान्यादेर्मर्दने च। आ + भूषणे सक०। आपीडयति आपीडा। अवादिपूर्वकस्तु तत्तदुपसर्गद्योत्यार्थयुक्ते विलोडने।

पीडन = न० पीड + भावे ल्युट्। १ दुःखोत्पादने २ शस्यादीनां मर्दने (माडा) (देपा) ३ व्यापारभेदे “गर्भोऽभिघातविषमाशनपीडनाद्यैः पक्वं द्रुमादिव फलं पतति क्षणेन” माधवकरः।

पीडा = स्त्री पीड–भावे भिदा० अङ्। १ व्यधायां २ दुःखे च ३ कृपायां ४ शिरोमालायां ५ सरलवृक्षे च मेदि०।

पीडित = त्रि० पीड–क्त। १ व्यथिते २ मर्दिते ३ स्त्रीणां करणभेदे मेदि० “सहखार्णाधिका मन्त्रा दण्डकाः पीडिता ह्वयाः” तन्त्रसारोक्ते ४ मन्त्रभेटे पु० भावे क्त। ५ पीडायां न०।

पीत = त्रि० पा–कर्मणि क्त। १ पानकर्मणि भावे क्त। २ पाने न० पिवति वर्णान्तरं पा–ऊणा० कर्त्तरि क्त। ३ वर्णभेदे पु० ४ तद्वति त्रि० अमरः। ५ हरिताले न० मेदि०। पीतं पानमस्त्यस्य अच्। ६ पानकर्त्तरि त्रि० “वनाय पीत प्रतिबद्धवत्साम्” रघुः। काव्ये वर्णनीयपीतवर्णद्रव्याणि कविकल्पलतायामुक्तानि यथा “पीतानि ब्रह्म १ जीवे २ न्द्र ३ गरुडे ४ श्वरदृ ५ ग्जटाः ६। गौरी ७ द्वापर ८ गोमूत्र ९ मधु १० वीररसा ११ रजः १२। हरिद्रा १३ रोचना १४ रीति १५ गन्धके १६ दीप १७ चम्पके १८। किञ्जल्क १९ वल्कले २० शालि २१ हरिताल २२ मनःशिलाः २३। कर्णिकावं २४ चक्रवाक २५ वानरौ २६ शारिकामुखम् २७। केशवांशुक २८ मण्डूक २९ सराग ३० कनकादयः ३१।

पीतक = त्रि० पीत + स्वार्थे क। १ पीतशब्दार्थे संज्ञायां कन्। २ हरिताले अमरः ३ कुसुम्भें जटाघरः। ४ असुरभेदे ५ पद्मकाष्ठे ६ रीतौ पित्तले ७ माक्षिके ८ पीतचन्दने न० राजनि० ९ नन्दीवृक्षे १० पीतशाले च पु० रत्नमाला। ११ श्योनाकभेदे १२ हरिद्रुवृक्षे १३ अशोकवृक्षे च पु० राजनि०। पीतेन हरितालेन रक्तं “तेन रक्तं रागात्” सा० इत्यधिकारे “पीतात् कन्” वार्त्ति० कन्। १४ हरितालेन रक्ते त्रि०। १५ अव्यक्तराशैः संज्ञाभेदे वीजगणितम्। अव्यक्तशब्दे दृश्यम्।

पीतकदली = स्त्री नित्यकर्म०। स्वर्णकदल्याम् (चा~पाकला) राजनि०।

पीतकद्रुम = पु० नित्यकर्म०। हरिद्रुवृक्षे राजनि०।

पीतकन्द = न० पीतः कन्दो यस्य। गर्जरे (गा~जर) राजनि०

पीतकरवीरक = पु० नित्यकर्म०। स्वार्थे क। पीतवर्णकरवीरवृक्षे राजनि०।

पीतकावेर = न० कुत्सितं वेरं कावेरं पीतं कावेरं यस्मात् यस्य वा। कुत्सिताङ्गं पीतं कुर्वति १ कुङ्कुमे २ पित्तले च मेदि०।

पीतकाष्ठ = न० नित्यकर्म०। पीतचन्दने पीतागुरुणि राजनि०।

पीतकाला = स्त्री पीता अथ च काला। आवर्त्तकलतायां राजनि०।

पीतकुष्ठ = न० नित्यकर्म०। पीतवर्णकुष्ठरोगे “भगिनी गमने चैव पीतकुष्ठं प्रजायते” शाता०।

पीतगन्ध = न० पीत्यमघच गन्धं गन्धयुक्तम्। पीतचन्दगे राजनि०

पीतघोषा = स्त्री नित्यकर्म०। पीतपुष्पवत्यां घोषातक्याम् राजनि०।

पीतचन्दन = न० नित्यकर्म०। कालेयकेतिप्रसिद्धे चन्दनभेदे राजनि०।

पीतचम्पक = पु० पीतः चम्पक इव। प्रदीपे जटा०।

पीततण्डुल = पु० पीतस्तण्डुलो यस्य। (काङ्गनी) १ घान्यभेदे हेमच०। २ क्षीरिकावृक्षे स्त्री टाप्। राजनि०।

पीततुण्ड = पु० पीतं तुण्डमस्य। कारण्डवखगे त्रिका० स्त्रियां ङीष्।

पीततैला = स्त्री पीतं तैलं यस्याः। १ ज्योतिष्मतीलतायां जटा० २ महाज्योतिष्मतीतलायां राजनि०। पीतं तैलं येन राजद० वा परनि०। पीततैल तैलपीत वा तैलपायिनि त्रि०

पीतदारु = न० नित्यकर्म०। १ सरलवृक्षे रत्नमाला २ देववारुणि ३ हरिद्रुवृक्षे च राजनि०। तस्य विकारः रजतादि० अञ्। पैतदारव तद्विकारे त्रि० स्त्रियां ङीप्।

पीतदुग्धा = स्त्री पीतं दुग्धं यस्याः। वृद्धिपरिवर्त्तनेन वृद्धिरूपेण यस्या दुग्धमुत्तमर्णेन पीयते तस्याम् गवि आहितगव्यां धेनुष्यायां हेमच०।

पीतद्रु = पु० नित्यकर्म०। १ सरलवृक्षे २ दारुहरिद्रायाञ्च अमर।

पीतन = न० पीतं करोद्धि पीत–णिच्–ल्यु। १ कुङ्कुमे २ हरिताले ३ पीतदारुणि च मेदि०। ४ प्लक्षे ५ आम्रातके च पु० मेदि० स्वार्थे क। आखातके (आमडा) पु० राजनि०।

पीतनील = पु० “वर्णो वर्णेन” पा० कर्म०। १ नीलपोतमिश्रिते हरिद्वर्थ्ये हेमच०। २ तद्वति त्रि०।

पीतपर्णी = स्त्री पीतं पर्णं यस्याः ङीप्। (विछिटी)कतायाम् शब्दच०।

पीतपाणि = पु० पीतः पाणिरस्य। रोगभेदेन पोतवर्णहस्तयुक्ते “मार्जारे निहते ऐव पीतपाणिः प्रजावते” प्राता-

पीतपादा = स्त्री पीतौ पादौ यस्याः। शारिकाखगे हेमच०।

पीतपुष्प = त्रि० पीतं पुष्पमस्य। १ पीतवर्णपुष्पयुक्ते २ कर्णिकारवृक्षे पु० शब्दच०। ३ चम्पकवृक्षे पु० राजनि०। ४ पी तझिण्ट्यां ५ पिण्डातकभेदे पु० रत्नमाला। पीतं पुष्प सस्त्यस्याः अच् टाप्। ६ इन्द्रवारुण्यां ७ झिञ्जरिकाक्षुपे ८ आढक्यां च स्त्री राजनि०। पीतं पुष्पं यस्याः जातित्वात् ङीष्। ९ शङ्खपुष्यां १० सहदेव्यां ११ मर्हाकोपातक्यां १२ त्रपुष्याञ्च स्त्री राजनि०।

पीतप्रसव = पु० पीतः प्रसवः पुष्पमस्य। पीतकरवीरे राजनि०

पीतफल(क) = पु० पीतं फलं यस्य वा कप्। १ शाखोटवृक्षे राजनि० २ कर्मारवृक्षे त्रिका०।

पीतबालुका = स्त्री पीता बालुकेव चूर्णतात्। हरिद्रायाम् त्रिका०।

पीतबी(वी)जा = स्त्री पीतं वी(वी)जमस्याः। मेथिकायां राजनि०।

पीतभृङ्गराज = पु० कर्म०। (पीलाकेशरिया) ख्याते पीतवर्णयुक्ते मृङ्गराजभेदे राजनि०।

पीतमणि = पु० नित्यकर्म०। पुष्परागमणौ राजनि०।

पीतमस्तक = पु० पीतं मस्तकं यस्य। खगभेदे मेदि०।

पीतमाक्षिक = न० नित्यकर्म०। माक्षिके राजनि०।

पीतमुद्ग = पु० कर्म०। (सोनामुग) मुद्गमेदे हेमच०।

पीतमूलक = न० पीतं मूलमस्य कप्। (गा~जर) गर्जरे राजनि०

पीतयूथी = स्त्री नित्यकर्म०। स्वर्णयूथ्यां राजनि०।

पीतरक्त = न० “वर्णो वर्णेन पा० कर्म०। १ रक्तयर्णे अथच पोतवर्णे च पीतेन रक्तं कृतरागम्। २ पुत्परागमणौ न० राजनि०।

पीतराग = न० पीतो रागो वर्णो यस्य। १ किञ्जल्के २ सिक्थे च कर्म०। ३ पीतवर्णे पु० ४ तद्वति त्रि०।

पीतरोहिणी = स्त्री पीता सती रोहति रुह–णिनि ङीप्। काश्मर्य्याम् भावप०।

पीतल = पु० पीतं वर्णान्तरं लाति ला–क। १ पीतवर्णे २ तद्युते त्रि०।

पीतलक = न० पीतलेन वर्णेन कायते कै–क। पित्तले राजनि०

पीतलीह = न० नित्यकर्म० पित्तले राजनि०

पीतवासम् = पु० पीतं वासो लस्य। १ श्रीकृष्णे० हला० २ हरिद्राभवस्त्रयुते त्रि०

पीतवृक्ष = पु० नित्यकर्म०। श्योनाकभेदे राजनि०।

पीतशाल = पु० पीतं फलं शलति याति शल–अच् उपस०। असनवृक्षे (पियासाल) अमरः।

पीतसार = न० पीतं सारं यस्य। १ पीतवर्णचन्दनकाष्ठे मलयक्षे शब्दच० २ हरिचन्दने च ३ गोमेदसणौ पु० मेदि० ४ अङ्काटवृक्षे जटा० ५ तुरस्के वीजके च पु० राजनि०। कप्। पीतसारक निम्बे शब्दच०।

पीतसारि = न० पीतं सारयति सृ–णिच्–इन्। स्रोतोऽञ्जने शब्दच०।

पीतसालक = पु० कर्म० संज्ञायां कन्। (पेयासाल) पियालवृक्षे अमरः।

पीतस्कन्ध = पु० पीतः स्कन्धोयस्य। हरिद्राभस्कन्धयुक्ते वृक्षभेदे शब्दार्थकल्प०।

पीतस्फटिक = पु० नित्यकर्म०। पुष्परागमणौ राजनि०।

पीतहरित = पु० “वर्णो वर्णेन” पा० १ पीतवर्णे अथच हरिद्वर्णे २ तद्युते त्रि० हेमच०।

पीताङ्ग = पु० पीतमङ्गमस्य। १ श्योनाकभेदे राजनि०। २ हरिद्राभगात्रे त्रि स्त्रियां ङीष्।

पीताब्धि = पु० पीताऽब्धिः समुद्रो येन। अगस्त्यमुनौ हेमच० तत्कथा भा० व० १०५ अ० दृश्या।

पीताम्बर = पु० पीतमम्बरं यस्य। १ श्रीकृष्णे अमर २ शैलूषे नटे च मेदि० ३ हरिद्राभवस्त्रयुक्ते त्रि० कर्म०। ४ पीतेवसगे न०।

पीतारुण = पु० “वर्णो वर्णेन” प्रा० कर्म०। १ पीतरक्तमिश्रितवर्णयुक्ते २ तद्वति त्रि०।

पीताश्मन् = पु० नित्यकर्म०। पुष्परासमणौ राजनि०।

पीति = पु० पा–क्तिच्। १ घाटके अमरः पा–भावे क्तिन्। २ पाने ३ गतौ च करणे क्तिन्। ४ शुण्डायाम् मेदि०।

पीतिका = स्त्री पीतैव स्वार्थे क अतैत्त्वम्। १ दारुहरिद्रायां रत्नमाला २ स्वर्णयूथ्यां जटा०।

पीतिन् = स्त्री पीतमनेन इष्टादित्वादिनि। घोटके रावमुकुटः

पीतु = पु० पा–पाने पा–रक्षणे वा तन् किच्च। १ वह्नौ २ दिवाकरे च उज्ज्वलद० सूर्य्येण रश्मिभिर्जलस्य पानात् वह्निना स्वदह्यमामायोयुक्तजलस्य पानात्तथात्वम्। ३ यूथपतौ सक्षिप्तसारः।

पीतुदारु = पु० पीतुरिव अग्नितुल्यं सूर्य्याभं वा दारु यस्य। १ उदुम्बरे शत० ब्रा० ३५२१५ माधवः। २ देवदारुणि कात्या० श्रौ० २४ ३ १२ कर्कः।

पीत्वास्थिरक = त्रि० पीत्वा स्थिरः मयू० स०। पानोत्तरं स्थिरीभूते।

पीथ = न० पा–पाने कर्मणि थक्। १ घृते २ जले च ३ सूर्य्ये ४ वह्नौ च पु० उज्ज्वलद०।

पीथि = पु० पीति + पृषो०। घोटके क्षीरस्वामी

पीन = त्रि० प्याय–क्त सप्रसारणे दीर्घः। १ स्थूले २ वृद्धे सम्पन्ने च अमरः। भावे क्त। ४ स्थूलतायां न०। पीनस्यादूरदेशादि अश्मादि० र। पीनर पीनस्य सन्निकृष्टदेशादौ त्रि०।

पीनस = पु० पीनं पीनतां स्यति सो–क। १ नासिकारोगभेदे प्रतिश्याये अमरः तद्रोगस्य निदानादि माघवकरीक्तं यथा

“आनह्यते यस्य विशुष्यते च प्रक्लिद्यते घूप्यति चैव- नासा। न येत्ति यो गन्धरसांश्च जन्तुर्जुष्टं व्यवस्येत् खलु पीनसेन। तञ्चागिकश्लेष्ममवं विकारं ब्रूयात् प्रतिश्यायसमानलिङ्गम्”। आमपीनसलक्षणं यथा “शिरोगुरुत्वमरुचिर्नासास्रावस्तनुस्वरः। क्षामः ष्ठीवति क्षाभीक्ष्ममाभपीनसलक्षणम्”। पक्वपीनसलक्षणं यथा “आमलिङ्गाग्वितः श्लेष्मा घनः खेषु निमज्जति। स्वरवर्णविशुद्धिश्च पक्वपीनसलक्षणम्”। २ कर्कठ्यां स्त्री राजनि० गौरा० ङीष्।

पीनोध्नी = स्त्री पीनमूधोऽस्याः ङीप् अनङन्तादेशः। पीवरो धस्कायां गवि अमरः।

पीपर = याच्ञायां भ्वा० सक० पर० सेट्। पीपरति निघण्ठुः।

पीपरि = पु० अपि + पृ–इन् अल्लोपः दीर्घः। ह्रस्वप्लक्षेराजनि०

पीय = प्रीणने सौ० पर० सक० सेट्। पीयति अपीयीत् पिपीय। अयं हिंसायां निरु० ४ २५

पीयत्नु = त्रि० पीय–हिंसायां बा० कत्नु। हिंसाशीले शत्रौ ऋ० ८ २ १५

पीयु = पु० पा–पाने कु नि०। १ काले २ काके च उज्ज्वल०। ३ रवौ ४ घूके च मेदि०।

पीयूक्षा = स्त्री प्लक्षभेदे ततः चतुरर्थ्यां काशा० इल। पीयूक्षिल तत्सन्निकृष्टदेशादौ त्रि०। तस्याः विकारः ताला० अण्। पैयूक्ष तद्विकारे त्रि०। एतत्परस्य वनस्य णत्वं पीयूक्षावणम्।

पीयूष = न० पीय–ऊषन्। देवानां पेयभेदे १ अमृते। नवप्रसूतायाः गोः आसप्तरात्रभवे २ दुग्धे च अमरः। तत्रपेयूषमपि

पीयूषमहस् = पु० पीयूषमिव आह्लादकं महो यस्य। सुधाकरे १ चन्द्रे शब्दरत्ना० २ कर्पूरे च। पीयूषरुचिप्रभृतयोऽप्यत्र।

पीयूषवर्ष = पु० पीयूषं वर्षति करद्वारा वृष–अण् उप० स०। १ चन्द्रे २ कर्पूरे ३ चन्द्रालोकालङ्कारग्रन्थकारे विद्वद्भेदे च

पील = रोधे भ्वा० पर० सक० सेट्। पोलति अपीलीत् पिपील।

पीलक = त्रि० पील–ण्वुल्। १ रोधके २ पिपीलिकायां हेमच०।

पीला = स्त्री पीलनाम्न्यां स्त्रियाम् तस्या अपत्यं “पीलाया वा” पा० अण् पक्षे “ह्यचः” इति ढक्। पैलपैलेय तदपत्ये पुंस्त्री०।

पीलु = पु० पील–उ। १ परमाणौ पीलुपाकः इति वैशेषिकादयः। पीलुपाकप्रकारः कणादसूत्रोपस्करवृत्तौ ७ ६ सूत्रे दृश्यः औलुक्यशब्दे सर्वदर्शसंग्रहोक्तं १५८७ पृ० दर्शितम्। २ गजे ३ अस्थिखण्डे ४ तालकाण्डे ५ कुसुमे च मेदि० ६ शरे ७ कृमौ चरणिः। कोङ्कणदेशख्याते ८ गुडफलवृक्षे राजनि०। तस्यगुणाश्च राजनि० उक्ता यथा “पीलुः श्लेष्म वायुगुल्मनाशनः पित्तदी मतः। यत् स्यादु तिक्तं तन्नोष्णं त्रिदोषहरणं फलम्” तस्वफलमण् तस्य लुक्। ९ तत्फले न०।

पीलुक = पु० पीलुरिव कायति कै–क। कृमिभेदे हेमच० स च त्रीन्द्रियः “कृमिपीलुकलूताद्याः स्युर्द्धित्रिचतुरिन्द्रियाः” हेमच०।

पीलुकुण = न० पीलूनां पाकः पील्वादि० कुणच्। पीलुपाके तस्येदम् उत्सा० अञ्। पैलुकुण तत्सम्बन्धिनि त्रि०।

पीलुनी = स्त्री पील–उन गौरा० ङीष्। मूर्वायाम् रत्नमा०।

पीलुपत्र = पु० पीलुयुक्तं कृमिकलितं पत्रं यस्य। मोरटालतायां राजनि०।

पीलुपर्णी = स्त्री पीलुकलितानि पर्णान्यस्याः ङीप्। १ मूर्वायाम् २ विम्बिकायाम् ३ ओषधिभेदे च मेदि०।

पीलुमूल = न० ६ त०। १ पीलोर्मूले २ शतमूल्यां स्त्री रत्नमाला ३ शालपर्ण्यां भावप्र० ४ तरुण्यां गवि च संक्षिप्तसारः। ५ अश्वगन्धायां ६ शतावर्य्यां च स्त्री टाप् राजनि०। तत्र दीयते व्युष्टा० अण्। पैलुमूल। तत्र देये। “तेनैकदिक्” पा० अधिकारे तसिः। पोलमूलतस् पीलुमूलैकदिशि अव्य०।

पीलुवह = त्रि० पीलुं वहति वह–अच् पील्वादीनां पर्युदासात् “इको वहे” पा० न दीर्घः। पीलुवाहिनि जलादौ।

पील्वादि = पु० पाके कुणच्पत्ययनिमित्ते शब्दगणे स च पा० ग० सू० उक्तो यथा “पीलु कर्कन्धू शमी करीर कुवल वदर अश्वत्थ खदिर”।

पीव = स्थौल्ये भ्वा० पर० अक० सेट्। पीवति अपीवीत् पिपीव।

पीवन् = त्रि० प्यै–क्वनिप् सम्प्र० दीर्घः। १ स्थूले अमरः। २ वलवति त्रि० ३ वायौ पु० संक्षिप्तसारः।

पीवर = त्रि० प्यै–ष्वरच् सम्प्र० दीर्घः। १ स्थूले उपचितावयवयुक्ते (मोटा) अमरः स्त्रियां ङीष्। तामसमन्वन्तरे २ सप्तर्षिभेदे पु० मार्क० पु० ७४ अ०।

पीवस् = त्रि० पीव–स्थौल्ये असुन्। स्थूले। पीवान् पीर्वासौ इत्यादि।

पीवा = स्त्री पी–पाने बा० व। जले सक्षिप्तसारः।

पीवीपवसन = त्रि० पीवसः उपवसनं समीपस्थितिरस्य पृषो० सलोपः। सूक्ष्मे यजु० २१ ४१ वेददीपः।

***