पि = गतौ तु० सक० पर० अनिट्। पियति। अपैषीत्। पिपाय। पिप्यतु।

पिक = पुंस्त्री० अपि कायति कै–क अपेरतोलोपः। कोकिले अमरः स्त्रियां ङीष्।

पिकप्रिया = स्त्री ६ त०। महाजम्ब्य्वाम् राजनि०।

पिकबन्धु = पु० ६ त०। आम्रवृक्षे त्रिका०।

पिकराग = पु० पिकोरज्यतेऽत्र रन्ज–आधारे घञ् कुत्वम्। आम्रवृक्षे राजनि०।

पिकवल्लभ = पु० ६ त०। आम्रवृक्षे भावप्रकाशः।

पिकाक्ष = पु० पिकस्याक्षीवास्त्यस्य ममानवर्णत्वात् अच्। १ रोचन्याम् शब्दच० पिकस्याक्षीवाक्षि अस्य षच् समा०। २ पिकतुल्यरक्तनेत्रयुक्ते त्रि० स्त्रियां षित्त्वात् ङीष्।

पिकाङ्ग = पुंस्त्री० पिकस्याङ्गमिवाङ्गमस्य। पक्षिभेदे शब्दच०।

पिकानन्द = पु० पिकमानन्दयति आ + नन्दि–अण् उप० स०। वसन्तकाले राजनि०।

पिकेक्षणा = स्त्री पिकस्येक्षणं तद्वर्णोऽस्त्यस्याः अच्। १ कोकिलाक्षे करवीरभेदे राजनि०। पिकस्येक्षणमिवेक्षणमस्य। २ रक्तनेत्रे त्रि० स्त्रियां स्वाङ्गत्वेऽपि बह्वच्कत्वात् न ङीष् किन्तु टाप्।

पिक्क = पु० पिक इव कायति कै–क पृषो०। १ हस्तिशावके शब्दमा०। २ मुक्तापरिमाणमेदे स्त्री वृ० सं० ८१ अ०।

पिङ्ग = पु० पिजि–वर्णे–अच् न्यङ्का० कुत्वम्। १ मूषिके मेदि० स्त्रियां ङीष्। २ दीपशिखाभे वर्णे पु० “पिङ्गो दीपशिखामः स्यात् पिङ्गलः पद्मधूलिबत्”। ३ तद्वति त्रि० अमरः गौरा० पाठात् स्त्रियां ङीप्। कडारा० पाठात् अस्य पूर्वनिपातः। ४ ऋषिभेदे पु० तेन प्रोक्तः कल्पः णिनि पैङ्गिन् तत्प्रोक्ते कल्पे। पिङ्ग + अस्त्र्यर्धे सिध्मा० वा लच्। प्रिङ्गल तद्वर्णयुते त्रि० पक्षे मतुप् मस्य वः। पिङ्गवत् तत्रार्थे त्रि० स्त्रियां ङीप्।

पिङ्गकपिशा = स्त्री पिङ्गा च कपिशा च “वर्णोवर्णेन” पा० स०। १ तैलपायिकायां स्त्री हेमच० २ पिङ्गवर्णयुते अथच कपिशबर्णयुते त्रि०।

पिङ्गचक्षुस् = पु० पिङ्गं चक्षुरस्य। कूम्भीरे हेमच०। २ पिङ्गनेत्रे त्रि०।

पिङ्गजट = पु० पिङ्गा जटाऽस्य। शिवे हेमच०।

पिङ्गतीर्थ = न० तीर्थभेदे भा० व० ८२ अ०।

पिङ्गल = पु० पिङ्ग + सिध्मा० लच् पिङ्गं लाति–क वा। १ नीलपीतमिश्रितवर्णे ३ तद्वति त्रि० अमरः। अस्मिन् परे घोषा० पूर्वपूर्वपदमाद्युदात्तम्। प्राकृतभाषयाच्छन्दोग्रन्थकारके ३ नागभेदे ४ रुद्रे ५ सूर्यपारिपार्श्विकभेदे ६ निधिभेदे ७ वानरे नकुले ८ स्थावरविषभेदे च हेमच०। ९ क्षुद्रोलूके राजनि० “देशभङ्गोऽथ दुर्भिक्षं समासात् कथयाम्यहम्। पिङ्गले चारुपद्माक्षि! दुर्भिक्षं नर्मदातटे” इति ज्यो० त० उक्ते प्रभवादिबर्षमध्ये १० वर्षभेदे च। ११ नागराजभेदे भा० आ० ३५ अ०। १२ यक्षभेदे भा० व० २३० अ०। १३ रीतौ पित्तले १४ शिंशपायां च स्त्री राजनि०। १५ वामनदिग्गजस्य स्त्रियां कुमुदस्य १६ करिण्यां मेदि०। १७ कर्णिकायां तन्त्रोक्ते १८ नाडीभेदे हेमच०। इडाशब्दे दृश्यम्

पिङ्गलक = पु० पिङ्गल + स्वार्थे क। पिङ्गलशब्दार्थे २ यक्षभेदे पु० भा० स० १० अ०। ततः उपका० द्वन्द्वे अद्वन्द्वे च गोत्रप्रत्ययस्य बहुत्वे वा लुक्।

पिङ्गला = स्त्री १ वेश्याभेदे संज्ञायां कन्। कापि अतैत्त्वम्। पिङ्गलिका बलाकायां त्रिका०

पिङ्गललौह = न० नित्यकर्म०। पित्तले राजनि०।

पिङ्गसार = पु० पिङ्गं सारमस्य। हरिताले राजनि०।

पिङ्गस्फटिक = पु० नित्यकर्म०। गोमेदमणौ राजनि०।

पिङ्गा = स्त्री पिङ्ग–अस्त्यर्थे अच्। १ गोरोचनायां २ हिङ्गौ ३ नालिकायां ४ चण्डिकायां मेदि० ५ हरिद्रायां शब्दच० ६ वंशरोचनायां राजनि०।

पिङ्गाश = पुंस्त्री० पिङ्गं वर्णमश्नुते अश–व्याप्तौ अण्। (पाङ्गाश) १ मत्स्यभेदे स्त्रियां ङीष्। २ पल्लीपतौ ३ उत्तमखर्णे न० मेदि० ४ नीलिकायां स्त्री मेदि०।

पिङ्गास्य = पुंस्त्री पिङ्गमास्यमस्य। (पाङ्गाश) मत्स्यभेदे शब्दच०। स्त्रियां योगधत्वात् टाप्। २ पिङ्गमुखयुक्ते त्रि०

पिङ्गाक्ष = पु० पिङ्गे अक्षिणी यस्य षच्समा०। १ शिये काशी० ख० १२ अ० उक्ते २ व्याधभेदे। ३ पिङ्गवर्णनेत्रयुक्ते त्रि० स्त्रियां ङीष्। २ कुमारानुरमातृभेदे स्त्री भा० श० ४७०

पिङ्गी = स्त्री पिङ्ग + अस्त्यर्थे अच् गौरा० ङीष्। शमीवृक्षे मेदि०।

पिङ्गोक्षण = पु० पिङ्गमीक्षणमस्य। १ शिये हेमच०। २ पिङ्गनेत्रयुक्ते त्रि०।

पिचण्ड = पु० अपि + चम–ड तस्य तेत्त्वम् अपेरल्लोप। १ उदरे २ पशोरवयवे च हेमच०। पृषो० इत्त्वम्। पिचिण्डोऽप्यत्र ततः तुन्दादि० इलच्। पिचण्डिल वृद्धोदरे तुन्दिले त्रि० पक्षे ठन्। पिचण्डिक तत्रार्थे त्रि०। “भोगाढ्या समजठरा निःस्वाः स्युर्घटसन्निभाः। सर्पोदरा दरिद्राः स्युः गरुडे तस्याशुभसूचकत्वत्वमुक्तम्।

पिचण्डक = त्रि० पिचण्डे कुशलः आकर्षा० कन्। औदरिके उदरपूर्त्तौ कुशले उदरम्भरौ।

पिचव्य = पु० पिचवे तूलाय साधुः यत्। कार्पासवृक्षे हेमच०।

पिचु = पु० पच–उ पृषो०। १ कार्पासतूले (तूला) अमरः २ कुष्ठभेदे ३ कर्षे ४ असुरभेदे मेदि० ५ भैरवे ६ शस्यभेदे विश्वः।

पिचुक = पु० पिचुरिव कायति कै–क। १ मदनवृक्षे (मयना) रत्नमाला। ततः अस्त्यर्थे उत्करा० छ। पिचुकीय तद्युते देशादौ त्रि०।

पिचुतूल = न० ६ त०। तूले (तुला) त्रिका०।

पिचुमन्द(र्द्द) = पु० पिचुं कुष्ठं मन्दयति मृद्गाति वा अण् उप० स०। निम्बवृक्षे (र्दान्तः) अमरः (न्दान्तः) हेमच०।

पिचुल = पु० पिचुं लाति ला–क। १ झावुकवृक्षे (झाउ) २ इज्वले ३ जलवायसे च मेदि० ४ तूले अमरटीका।

पिच्च = छेदे चु० उभ० सक० सेट्। पिच्चयति ते अपिपिच्चत् त।

पिच्चट = न० पिच्च–अटन्। १ सीसके २ रङ्गे ३ नेत्ररोगभेदे पु०

पिच्चा = स्त्री मुक्तापरिमाणभेदे वृ० सं० ८१ अ०।

पिच्चिट = पु० कीटभेदे कीटशब्दे २०५८ पृ० सुश्रुतवाक्यम्।

पिच्चित = न० सुश्रुतोक्ते काण्डभग्नभेदे “पिच्चितं पृथुतां गतमनल्पशोफम्” इति तल्लक्षणम्।

पिच्छ = बाधे तु० पर० सक० सेट। पिच्छति अपिच्छीत् पिपिच्छ

पिच्छ = न० पिच्छ–अच्। १ मयूरपुच्छे २ चूडायां ३ लाङ्गूले पु० मेदि० ४ शाल्मलीवेष्टे स्त्री अमरः। ५ पूगे ६ छटायां ७ कोषे ८ मोचायां ९ पङ्क्तौ १० भक्तमण्डे ११ हयपदामये च स्त्री मेदि० १२ कोलिकायां १३ फणिनालायां हारा०। १४ शिंशपावृक्षे च स्त्री शब्दच०

पिच्छबाण = पु० पिच्छं वाण इव यस्य। श्येनखगे राजनि०

पिच्छल = पु० वासुकिवंश्ये सर्पभेदे भा० आ० ५७ अ०।

पिच्छलदला = स्त्री पिच्छ–कलच् तादृशं दलमस्याः। वदरीवृक्षे त्रिका०।

पिच्छादि = अस्त्यर्थे इलच्प्रत्ययनिमित्ते शब्दगणे यथा “पिच्छा उरस् धुवक् ध्रुवक (जटाघटाकालाः क्षेपे) वर्ण उदक पङ्क प्रज्ञा”।

पिच्छितिका = स्त्री पिच्छ–भावे क्तिन् तया कायति कै–क। शिंशपावृक्षे शब्दच०।

पिच्छिल = त्रि० पिच्छ–बा० इल। (पिचल) १ पदार्थे २ भक्त३ मण्डे तद्युक्ते च ३ स्निग्धसूपादौ। पिच्छा + अस्त्यर्थे पिच्छा० इलच्। ४ चूडायुक्ते त्रि० ५ श्लेष्मातकवृक्षे पु० राजनि० संज्ञायां कन्। पिच्छिलक धन्वनवृक्षे पु० राजनि०।

पिच्छिलच्छदा = स्त्री पिच्छिलः च्छदोऽस्याः। उपोदक्यां राजनि०।

पिच्छिलत्वच् = पु० पिच्छिला श्लक्ष्णा त्वच् यस्य। नागरङ्गवृक्षे त्रिका०।

पिच्छिलसार = पु० पिच्छिलः सारोऽस्य। मोचरसे राजनि०

पिच्छिला = स्त्री पिच्छ–इल पिच्छा + अस्त्यर्थे इलच् वा। १ पोतिकायां २ शिंशपायां ३ शाल्मलौ ४ सिन्धुभेदे मेदि० ५ कोकिलाक्षे ६ वृश्चिकाक्षुपे ७ अतस्यां ८ शूलीतृणे च राजनि० ९ कटुकायां शब्दच०।

पिज = दीप्तौ वासे बले (सामर्थ्ये) च अक० हिंसायां दाने च सक० चु० उभ० सेट् इदित्। पिञ्जयति ते अपिपिञ्जत् त।

पिजवन = पु० स्पर्द्धनीयजये विश्वामित्रयाज्ये नृपभेदे निरु० २। २४ दृश्यम्।

पिज्वल = पु० ऋषिभेदे ततः अश्वा० गोत्रे फञ्। पैज्वलायन तद्गोत्रापत्ये पुंस्त्री०।

पिञ्छ = न० पिच्छ–पृषो०। पिच्छशब्दार्थे हेमच०।

पिञ्ज = न० पिजि–अच्। १ बले २ व्याकुले त्रि० मेदि० ३ वधे अमरः ४ कर्पूरभेदे पु० ५ तूले ६ हरिद्रायां स्त्री मेदि० ७ हिंसायां स्त्री त्रिका०। भावे अच्। ८ छटायां स्त्री रत्नमाला।

पिञ्जट = पु० पिजि–अटन्। नेत्रमले (पि~चुटी) शब्दरत्ना०।

पिञ्जन = न० पिजि–करणे ल्यु। तूलस्फोटने १ यन्त्रभेदे। भावे ल्युट्। २ तूलादेः स्फोटने।

पिञ्जर = न० पिजि–अरच्। १ हरिताले अमरः २ स्वर्णे मेदि० ३ नागकेशरे राजनि० ४ विहगादिबन्धनस्थाने ५ देहास्थिवृन्दे च रामाश्रमः। ६ अश्वभेदे पु० ७ पीतरक्तवर्णे ८ पीतवर्णे च पु० हेमच०। ९ तद्वति त्रि० १० सर्पभेदे पु० भा० आ० ३५ अ०। स्वार्थे क। पिञ्जरक तत्रार्थे न०।

पिञ्जल = न० पिजि–कलच्। १ हरिताले २ कुशपत्रे च धरणिः ३ अत्यन्ताकुलसैन्यादौ पु० अमरः ४ कुशान्तरवेष्टिते साग्रकुशपत्रद्वये स्त्री ङीप्। “एतदेव पिञ्जल्या लक्षणं समुदाहृतम्” कर्मप्रदीपे तत्र पवित्रलक्षणातिदेशात्तथात्वम्।

पिञ्जाल = न० पिजि–बा० आलच्। स्वर्णे राजनि०।

पिञ्जिका = स्त्री पिजि–ण्वुल् अतैत्त्वम्। तूलनालिकायां (पा~इज) त्रिका०।

पिञ्जूल = पु० पिजि–ऊलच्। १ कुशवर्त्तिकायाम् उज्ज्वलद०। संज्ञायां कन्। पिञ्जूलक २ ऋषिभेदे ततः। उपका० गोत्रप्रत्ययस्य बहुत्वे द्वन्द्वे अद्वन्द्वे च वा लुक्।

पिञ्जूष = पु० पिजि–बा० ऊषन्। कर्णमले हेमच०।

पिञ्जेट = पु० पिञ्जे अटति अट् अच् अलुक्स०। नेत्रमले शब्दरत्ना०।

पिञ्जोला = स्त्री पिजि–बा० ओल। पत्रशब्दे हारा०

पिट = संहतौ ध्वनौ च भ्वा० पर० अक० सेट्। पेटति अपेटीत् पिपेट।

पिट = न० पिट–क। १ चाले त्रिका० (पेटारा) २ पेटके पु० धरणिः

पिटक = पु० पिट–बा० क्वुन्। (पेटरा) वेत्रादिनिर्मिते समुद्गकाकारे पदार्थे अमरः। तेन हरति उत्ससङ्गा० ठञ्। पैटकिक पेटकेन हारिणि त्रि०। २ स्फोटके पु० मेदि०। देहजातस्फोटशुभाशुभादिकं वृ० सं० ५२ अ० उक्तं यथा

“सितरक्तपीतकृष्णा विप्रादीनां क्रमेण पिटका ये। ते क्रमशः प्रोक्तफला वर्णानामग्रजादीनाम्। सुस्निग्धव्यक्तशोभाः शिरसि धनचयं मूर्ध्नि सौभाग्यमाराद्दौर्भाग्यं भ्रूयुगोत्थाः प्रियजनघटनामाशु दुःशीलतां च। तन्मध्योत्थाश्च शोकं नयनपुटगता नेत्रयोरिष्टदृष्टिं प्रव्रज्यां शङ्खदेशेऽश्रुजलनिपतनस्थानगाश्चातिचिन्ताम्। घोणागण्डे वसनसुतदाश्चोष्ठयोरन्नलाभं कुर्युस्तद्वच्चिवुकतलगा भूरि वित्तं ललाटे। हन्वोरेवं गलकृतपदा भूषणान्यन्नपाने श्रोत्रे तद्भूषणगणमपि ज्ञानमात्मस्वरूपम्। शिरःसन्धिग्रीवाहृदयकुचपार्श्चोरसि गता अयोघातं घातं सुततनयलाभं शुचमपि। प्रियप्राप्तिं स्कन्धेऽप्यटनमथ भिक्षार्थमसकृद्विनाशं कक्षोत्था विदधति धनानां बहुसुखम्। दुःखशत्रु निचयस्य विघातं पृष्ठबाहुयुगजा रचयन्ति। संयमं च मणिबन्धनजाता भूषणाद्यमुपबाहुयुगोत्थाः। धनाप्तिं सौभाग्यं शुचमपि कराङ्गुल्युदरगाः सुपानान्नं नाभौ तदथ इह चौरैर्धनहृतिम्। धनं धान्य नस्तौ युवतिमथ मेढ्रे सुतनयान् धनं सोभाग्यं वा गुदवृषणजाता विदधति। ऊर्वोर्यानाङ्गनालाभं जान्वोः शत्रुजनात् क्षतिम्। शस्त्रेण जङ्घयोर्गुल्फेऽध्वबन्धक्लेशदायिनः। स्फिक्पार्ष्णिपादजाता धननाशागम्यगमनमध्वानम्। बन्धनमङ्गुलिनिचयेऽङ्गुष्ठे च ज्ञातिलोकतः पूजाम्। उत्पातगण्डपिटका दक्षिणतो वामतस्त्वभीघाताः। धन्या भवन्ति पुंसां तद्विपरीतास्तु नारीणाम्। इति पिटकविभागः प्रोक्त आमूर्द्धतोऽयं व्रणतिलकविभागोऽप्येवमेव प्रकलप्यः। भवति मशकलक्ष्मावर्तजन्मापि तद्वन्निगदितफलकारि प्राणिनां देहसंस्थम्”।

पिटक्या = स्त्री पिटकानां समूहः पाशा० य। पिटकसमूहे

पिटङ्कोकी = स्त्री पिटं कोकते कु–वा० ख मुम्। इन्द्रवारुण्यां रत्नमाला।

पिटाक = पु० पिट–बा० काक। १ मुनिभेदे ततः शिवा० अण पैटाक तदपत्ये पुंस्त्री०। २ पेटके च तेन हरति उत्सङ्गा० ष्ठन्। पैटाकिक तेन हारिणि त्रि०। संघार्थे पाशा० य। पिटाक्या तत्समूहे स्त्री।

पिट्टक = न० पिट–ण्वुल् पृषो०। दन्तकिट्टके शब्दर०।

पिट्ट = कुटनभेदे (पेटा) कुट्टनेनाधःप्रवेशने चु० उभ० सक० सेट्। पिट्टयति त अपिपिट्टत त। कात्या० श्रौ० ६। ३। ११ कर्कः।

पिट्टिक = त्रि० पिट्ट–इन् स्वार्थे क। कुट्टनेन अधःप्रवेशिते मेदि०।

पिठ = क्लेशे अक० वधे सक० भ्वा० पर० सेट्। पेठति अपेठीत् पिपेठ।

पिठर = पु० पिठ–करन्। १ गृहभेदे त्रिका० २ मुस्तायां ३ म न्थानदण्डे च न० मेदि०। ४ स्थाल्यां पुंस्त्री० स्त्रीत्वे ङीप्। अमरः। ५ दानवभेदे पु० भा० स० ९ अ०। संज्ञायां कन्। पिठरक ६ नागभेदे पु० भा० आ० ३५ अ०। पीलुपाकशब्दे दृश्यम्।

पिठीनस् = पु० ऋषिभेदे ऋ० ६। २६। ६ भा० तस्यापत्यम् इञ पैठीनसि तदपत्ये उपस्मृतिकारके ऋषिभेदे।

पिड = राशीकरणे भ्वा० आत्म० सक० सेट् इदित्। पिण्डते अपिण्डिष्ट। अय चुरादिरपि तत्रार्थे उभ०। पिण्डयति ते अपिपिण्डत् त।

पिडका = स्त्री पीडयति पीड–ण्वुल् क्षिपकादि० नि० कुष्ठाधिकारे पीडादायके क्षुद्रस्फोटके भावप्रका०। सुश्रु तादौ रोगभेदे नानाविधैव पिडका उक्ता तत्र भगन्दरे “अपक्वाः पिडकाः पक्वास्तु भगन्दराः” इत्युपक्रमे पित्तादिपिडका उक्ता यथा “पित्तन्तु प्रकुपितमनिलेनाधःप्रेरितं पूर्ववदवस्थितं रक्ता तन्वीमुच्छितामुष्ट्रग्रीवा- कारां पिडकां जनयति। सास्य चोषादीन् वेदनाविशेषान् जनयत्यप्रतिक्रियमाणा च पाकमुपैति व्रणश्चाग्निक्षाराभ्यामिव दह्यते दुर्गन्धमुष्णमास्रावं स्रवति” “श्लेष्मजालक्षणादिकं तु परिस्रोविन्शब्दे दर्शितम् वायुजालक्षणादि तत्रोक्तं यथा “वायुः प्रकुपितः प्रकुपितौ पित्तश्लेष्माणौ परिगृह्यापो गत्वा पूर्ववदवस्थितः पादाङ्गुष्ठप्रमाणां सर्वलिङ्गां पिडका जनयति सास्य तोददाहकण्ड्वादीन् वेदनाविशेषान् जनयत्यप्रतिक्रियमाणा च पाकमुपैति व्रणश्च नानाविधवर्णमास्रावं स्रवति पूर्णनदीशम्बूकावर्त्तवच्चात्र समुत्तिष्ठन्ति वेदनाविशेषाः”। मेहजास्तु भावप्र० उक्ता यथा “शराविका कच्छपिका जालिनी विनताऽलजी। मसूरिका सर्षपिका पुत्रिणी सविदारिका। विद्रधिश्चेति पिडकाः प्रमेहापेक्षर्यां दश। सन्धिमर्मसु जायन्ते मांसलेषु च धामसु। अन्तोन्नता च तद्रूपा निम्रमध्या शराविका १। सदाहा कूर्मसंस्थाना ज्ञेया कच्छपिका २ बुधैः। जालिनी ३ तीव्रदाहा तु मांसजालसमावृता। अविमाढरुजाक्लेदा पृष्ठे वाप्युदरेऽपि वा। महती पिडका नीला सा वुवैर्विनता ४ स्मृता। रक्ताऽसिता स्फोटचिता विज्ञेया त्वलजी ५ बुधैः। मसूरदलसंस्थाना विज्ञेया तु मसूरिका ६। गौरसर्षपसंस्थाना तत्प्रमाण। च सर्षपी ७। महत्यल्पचिता ज्ञेया षिडकापि च पुत्रिणी ८। विदारीकन्दवद्वृत्ता कठिना च विदारिका ९। विद्रधेर्लक्षणैर्युक्ता ज्ञेया विद्रधिका तु सा। ये यन्मयाः स्मृता मेहास्तेषामेतास्तु तन्मयाः। विना प्रमेहमप्येता जायन्ते दुष्टमेदसः। तावच्चैता न लक्ष्यन्ते यावद्वास्तु परिग्रहः। गुदे हृदि शिरस्यंसे पृष्ठे मर्मसु चोत्थिताः १०। सोपद्रर्वा दुर्बलाग्नेः पिडकाः परिवर्जयेत्। तृट्च्छासमांससङ्कोचमेहहिक्कामदज्वराः। विसर्पधर्मसंरोधाः पिडकानामुपद्रवाः”।

कुष्ठाधिकारे भावप्र० पिडकानां वृहत्त्वे स्फोटत्वम् क्षुद्रत्वे पिडकत्वमुक्त्वा तद्भेदा उक्ता यथा “यवाकारा सुकठिना ग्रथिता मांससंश्रिता। पिडका श्लेष्मवाताभ्यां यवप्रख्येति १ सोच्यते। घनामवक्रो पिडकामुन्नतां परिमण्डलाम् २। अन्त्रालजीमल्पपयां तां विद्यात् कफवातजाम्। विवृतास्यां महादाहां पक्वोडुम्बरसन्निभाम्। परिमण्डलां पित्तकृतां विवृता ३ नाम तां विदुः। ग्रथिताः पञ्च वा षड्वा दारुणाः कच्छ- पोपमाः। कफानिलाभ्यां पिडका ज्ञेयाः कच्छपिका ४ बुधैः। ग्रीवांसकक्षाकरपाददेशे सन्धौ गले वा त्रिभिरेव दीषैः। ग्रन्थिः स वल्मीकवदक्रियाणां जातः क्रमेणैव गतप्रवृद्धिः। मुखैरनेकैः श्रुतितोदवद्भिर्विसर्पवत् सर्पति चोन्नताग्रैः। वल्मीक ५ माहुर्भिषजोविकारं निष्प्रत्यनीकं चिरजं विशेषात्। पद्मकर्णिकवन्मध्ये पिडकाभिः सदाचिताम् १ इन्द्रवृद्धान्तु ६ तां विद्याद्वातपित्तोत्थितां भिषक्। मण्डलं वृत्तमुत्सन्नं स रक्तं पिडकाचितम्। रुजाकरीं गर्दभिकां ७ तां विद्याद् वातपित्तजाम्। वातश्लेष्मसमुद्भूतः श्वयथुर्हनुसन्धिजः। स्थिरो मन्दरुजः स्निग्धो ज्ञेयः पाषाणगर्दभः ८। कर्णस्याभ्यन्तरे जातां पिडकामुग्रवेदनाम्। स्थिरां पनसिका९ न्तान्तु विद्यादन्तःप्रपाकिनीम्। विसर्पवत् सर्पति यः शोथस्तनुरपाकवान्। दाहज्वरकरः पित्तात् स ज्ञेयो जालगर्दभः १०। पिडकामुत्तमाङ्गस्थां वृत्तामत्युग्ररुग्ज्वराम्। सर्वात्मिकां सर्वलिङ्गां जानीयादिरिवेल्विकाम् ११। बाहुपार्श्वांसकक्षेषु कृष्णस्फोटां सवेदनाम्। पित्तप्रकोप्रसम्भूतां कक्षा १२ मित्यभिनिर्दिशेत्। एकामेतादृशीं दृष्ट्वा पिडकां स्फोटसन्निभाम्। तद्गतां पित्तकोपेन गन्धनामां १३ प्रचक्षते। कक्षभागेषु ये स्फोटा जायन्ते मांसदारुणाः। अन्तर्दाहज्वरकरा दीप्तपावकसन्निभाः। सप्ताहाद्द्वादशाद्वा पक्षाद्वा घ्नन्ति मानवम्। तामग्निरोहिणीं १४ विद्यादसाध्या सन्निपाततः। नखमांसमधिष्ठाय वातपित्तञ्च देहिनाम्। कुरुते दाह पाकौ च व्याधिन्तं चिप्य १५ मादिशेत्। तदेवाल्पतरैर्दोषैः कुनखं परुषं १६ वदेत्। गम्भीरामल्पसंरम्भां सवर्णामुपरिस्थिताम्। पादस्यानुशयीं १७ तान्तु विद्यादन्तःप्रपाकिनीम्। विदारीकन्दवद्वृत्तां कक्षावङ्क्षणसन्धिषु। विदारी १८ मिति तां विद्यात् सर्वजां सर्वलक्षणाम्”।

पिण्ड = त्रि० पिडि–अच्। १ संहते २ घने च ततः गौरा० स्त्रियां ङीष्। तस्या अपत्यं कुर्वा० ण्य। पैण्ड्य संहतायाः स्त्रिया अपत्ये पुंस्त्री०। ३ वोले ४ बले ५ देहैकदेशे ६ गृहैकदेशे ७ देहमात्रे ८ अन्नादिमये पितृभ्यो देये गोलाकारे ९ पदार्थे १० गोले ११ सिह्लके १२ जवापुष्पे च पु० मेदि० १३ वृन्दे (अव्दिपिण्डम्) १४ कवले पु० हेमच० १५ गजकुम्भे १६ अमरः १७ मदनवृक्षे पु० राजनि०। १८ आजीवने १९ अयसि न० मेदि०। तत्र श्राद्धशेषद्रव्यान्नादिनिर्मिते पदार्थे सामगानां पुंस्त्वेन प्रयोगः “पिण्डानोद्वाहनात्तेषाम्” छन्दोगपरिशिष्टे पुंस्त्वेन प्रयोगात्। यजुर्वेदिभिः “असावेतत्ते पिण्डंस्यधेति” यजुःश्राद्धप्रयोगात् क्लीवत्वम्। “तेभ्यःपिण्डं मया दत्तमक्षय्यमुपतिष्ठताम्” वा युपु० प्रयोगः यजुर्वेदिविषयः। तत्र देयद्रव्यादि श्रा० त० निरूपितं यथा “यावदन्नमुपादाय हविषोऽर्भकमर्भकम्। चरुणा सह सन्नीय पिण्डदानमुपक्रमेत्”। श्राद्धार्थाद्धविषोऽन्नादेः सकाशाद् यावत् भक्ष्यमोदनव्यञ्जनादि ततोऽल्पाल्पं गृहीत्वा अग्नौकरणचरुशेषेण सह मिश्रीकृत्य पिण्डदानमारभेदित्यर्थः। एकस्मिन् पात्रेऽन्नं मध्वादिद्रव्येण मिश्रयेत्। “मध्वाज्यतिलसंयुक्तं सर्वव्यञ्जनसंयुतम्। उष्णमादाय पिण्डन्तु कृत्वा बिल्वफलोपमम्। दद्यात् पितामहादिभ्यो दर्भमूले यथाक्रमम्” इति ब्रह्मपुराण वचनात्। अत्र पितामहपदं पितृपरं वचनान्तरैकवाक्यत्वात्। “स्वपित्रे प्रथमं पिण्डं दद्यादुच्छिष्टसन्निधौ। पितामहाय चैवाथ तत्पित्रे च ततःपरम्। दर्भमूले लेपभाजस्तर्पयेल्लेपघर्षणैः”।

अत्र पिण्डमात्रस्य विल्वफलोपमत्वश्रुतेः छन्दोगपरिशिष्टे च पित्रादीन् मातामहादीनुपक्रम्य “अवनेजनवत् पिण्डान्कृत्वा बिल्वप्रमाणकानिति” श्रुतेश्च सामग यजुर्वेदिनोर्विल्वप्रमाणकत्वम् “पृथङ्मातामहानाञ्च केचिदिच्छन्ति सत्तमा। त्रीन् पिण्डानानुपूर्व्येण साङ्गुष्ठ मुष्टिवन्धनात्” इति वायुपुराणीयं शाख्यान्तरीयं श्रा० त०। वायवीये “मधुसर्पिस्तिलयुतांस्त्रीन् पिण्डान्निर्वपेद्बुधः। त्रिस्थली सेतौ “तिलमन्नं च पानीयं धूपं दीषं पयस्तथा। मधु सर्पिः खण्डयुक्तं पिण्डमष्टाङ्गमुच्यते”। याज्ञवल्क्यः “सर्वमन्नमुपादाय सतिलं दक्षिणामुखः। उच्छिष्ट सन्निधौ पिण्डान् दद्याद्वै पितृयज्ञवत्”। केचित्तु पिण्डेषु माषान् वर्जयन्ति “माषाः श्राद्धेषु वै ग्राह्या वज्यांश्चैवाग्निपिण्डयोः। व्राह्मणेषु यथा मद्यं तथा माषोऽग्नि पिण्डयोः” इति। स्मृतिसारात् “माषान् सर्वत्र वै दद्यात् पिण्डेऽग्नौ च विवर्जयेत्” इति स्मृतेश्च। अथ पिण्डप्रमाणभेदः हेमाद्रावङ्गिराः “कपित्थविल्वमात्रान् वा पिण्डान् दद्याद् विधानतः। कुक्कुटाण्डप्रमाणान् वामलकैर्बदरैः पुमान्” इति। तत्रैव धूम्रः “कपित्थस्य प्रमाणेन पिण्डान् दद्यात् समाहितः। तत्समं विकिरं दद्यात् पिण्डान्ते तु षडङ्गुलैः”। अन्त्येष्टिपद्धतौ भट्टास्तु “एकोद्दिष्ट सपिण्डे तु कपित्थन्तु विधीयते। नारिकेलप्रमाणन्तु प्रत्यव्द मासिके तथा। तीर्थे दर्शे च सप्राप्ते कुक्कुटाण्डप्रमाणतः। महालये गयाश्राद्धे कुर्य्यादामलकोपमम्” इत्याहुः कलिकायामाचार्य्यः “यत्र स्युर्वहवः पिण्डास्तत्र विल्वफलोपमाः। यत्र चैको भवेत् पिण्डस्तत्र लाङ्गलिसन्निभः”। प्रेतपिण्डस्तु दैर्घ्येण द्वादशाङ्गुल उच्यते” इति। वायवीये “पत्नी पिण्डांस्तु मृद्गीयात् त्रिवर्गस्य सहायिनी”। हेमाद्रौ लौगाक्षिः “महालये गयायां च प्रेतश्राद्धे दशाहिके। पिण्डशब्दप्रयोगः स्यादन्नमन्यत्र कीर्त्तयेत्” नि० सि० पिण्डदानद्रव्यभेदाः आग्नेये उक्ता यथा “पायसेनाज्य युक्तेन सक्तुना चरुणा तथा। पिण्डदानं तण्डुलैश्च गोधूमैस्तिलमिश्रितैः” इति। देवीपुराणे च “सक्तुभिः पिण्डदानञ्च संयावैः पायसेन च। कर्त्तव्यमृषिभिः प्रोक्तं पिण्याकेन गुडेन वा” अथ प्रेतपिण्डसंख्या यद्यपि हेमाद्रौ पारस्करेण “ब्राह्मणे दश पिण्डास्तु क्षत्रिये द्वादश स्मृताः। वैश्ये पञ्चदश प्रोक्ताः शूद्रे त्रिंशत् प्रकीर्त्तिता” इत्युक्तं तथापि “प्रेतेभ्यः सर्ववर्णेभ्यः पिण्डान् दद्याद्दशैव तु” इति। तेनैवोक्तेः सर्वेषां दशैव ज्ञेयाः। भदरत्नेऽप्येवम् तथा च हेमाद्रौ ब्राह्मपाद्मयोः “जात्युक्ताशौचतुल्यांस्तु वर्णानां क्वचिदेव हि। देशधर्मान् पुरस्कृत्य प्रेतपिण्डान् वपन्त्यपि” इत्युक्त्वा विप्राद्येषु दशमपिण्डोत्कर्षः उक्तः “देयस्तु दशमः पिण्डो राज्ञां बै द्वादशेऽहनि। वैश्यानां वै पञ्चदशे देयस्तु दशमस्तथा। शूद्रस्य दशमः पिण्डो मासे पूर्णेऽह्नि दीयते”। प्रेतपिण्डदानस्थानम् “असंस्कृतानां भूमौ पिण्डं दद्यात् संस्कृतानां कुशेषु” इति पाचेतसोक्तम् मिताक्षरायां “स्मृत्यन्तरे भूमौ माल्यं पिण्डं पानीयमुपले वा दद्युः” पिण्डं प्रेतपिण्डम्।

शुनःपुच्छः “फलमूलैश्च पयसा शाकेन च गुडेन च। तिलमिश्रन्तु दर्भेषु पिण्डं दक्षिणती हरेत्। तूष्णीं प्रसेकं पुष्पं च धूपं दीपं तथैव च। शालिनासक्तुभिर्वापि शाकैर्वाप्यथ निर्वपेत्। प्रथमे नियतं द्रव्यं तदेव स्याद्दशाहिकम्”। पिण्डशब्दस्य देहतदैकदेशपरता तु असपिण्डशब्दे उक्ता। दायभागमते तु निर्वाप्यषिण्डपरतेति। भावे अच्। २० संघाते पिण्डारकशब्दे दृश्यम्

पिण्डक = पु० पिण्ड इव कायति कै–क। १ पिण्डालौ स्वार्थे क। २ सिह्लकगन्धद्रव्ये ३ वोले ४ पिण्डमूले मूलभेदे राजनि०।

पिण्डकन्द = पु० पिण्डाकारः कन्दः। पिण्डालो राजनि०।

पिण्डखर्जूर = पु० पिण्डाख्यः खर्जूरः। स्वनामख्याते वृक्षे (छोहारा) प्रसिद्धे २ खर्जूरे स्त्री ङीप्। अथ पिण्डखर्ज्रीभेदः “सुनेपाली तु मृदुला बलिहीनकफला च सा। सुनेपाली श्रमभ्रान्तिदाहमूर्च्छास्रपित्तनुत्” भावप्र०। “पिण्डखर्जूरिका त्वन्या सा देशे पश्चिमे भवेत्। खर्जूरी गोस्तनाकारा पराद्द्वीपादिहागता। जायते पश्चिमे देशे सा च्छोहारेति कीर्त्त्यते। खर्जूरीत्रितयं शीतं मधुरं रसपाकयोः। स्निग्धं रुचिकरं हृद्यं क्षतक्षयहरं गुरु। तर्पणं रक्तपित्तव्नं पुष्टिविष्टम्भि शुक्रदम्। कोष्ठमारुतकृद्बल्यं बाह्यवातकफापहम्। ज्वराभिघातक्षुत्तृष्णाकासश्वासनिवारकम्। मदमूर्च्छामरुत्पित्तमद्योद्भूतगदान्तकृत्। महतीभ्यां गुणैरल्पं स्वल्पखर्जूरिका स्मृता। खर्जूरी तरुतोयन्तु मदपित्तकरं भवेत्। वातश्लेष्महरं रुच्यं दीपनं बलशुक्रकृत्”।

पिण्डगोस = पु० गां जलं सनोति सन–ड पिण्डः संहतो गोसः। गन्धरसे रमानाथः।

पिण्डतर्कुक = पु० पिण्डं तर्कयति तर्क–बा० उक। पिण्डलेपभागिषु वृद्धप्रपितामहादिषु त्रिषु “प्रपितामहाः दक्षिणतः पृष्ठतः पिण्डतर्कुकाः” गृह्यसाम०।

पिण्डतैलक = पु० पिण्डं संहतं तैलं यस्य कप्। तुरस्क गन्धद्रव्ये राजनि०।

पिण्डद = पु० पिण्डं ददाति दा–क। श्राद्धे पिण्डदातरि पुत्रादौ “पिण्डदोऽंशहरश्चैव पूर्वाभावे परः परः” याज्ञ० तृच् पिण्डदातृ तत्रार्थे “उभयोरप्यसौ रिक्थी पिण्डदाता च धर्मतः” मनुः।

पिण्डपद = न० पिण्डस्य संहतस्य पदम्। १ अङ्कभेदे ज्यो० ति० गृहशब्दे दृश्यम्। २ पिण्डस्थाने च।

पिण्डपाद = पुंस्त्री० पिण्ड इव पादोऽस्य। गजे त्रिका०। स्त्रियां जातित्वात् ङीष्।

पिण्डपितृयज्ञ = पु० पिण्डैः पितॄणां यज्ञः। साग्निकगृहस्थकर्त्तव्ये पित्र्युद्देश्यके पिण्डदानात्मके यज्ञभेदे आश्व० श्रौ० २ ६ सूत्रादौ कात्या० श्रौ० ४। १। १ सूत्रादौ च दृश्यम्। तत्कालश्च “अपराह्णे पिण्डपितृयज्ञश्चन्दादर्शनेऽमावास्यायाम्” तत्रत्यं प्रथमसूत्रम्।

पिण्डपुष्प = न० पिण्डं संहतं पुष्पम्। १ अशोकपुष्पे २ जवापुष्पे ३ पद्मपुष्पे ४ तगरपुष्पे च रेदि० शब्दच०।

पिण्डपुष्पक = पु० पिण्डेन संहतेन पुष्पेण कायति कै–क। वास्तूकशाके शब्दमाला।

पिण्डफला = स्त्री पिण्डमिव फलं यस्याः। कटुतुम्ब्याम् जटा०

पिण्डमुस्ता = स्त्री पिण्डा संहता मुस्ता। नागरमुस्तायाम् राजनि०।

पिण्डमूल = न० पिण्डमिव मूलमस्य। गर्जरे (गा~जर) राजनि०

पिण्डयज्ञ = पु० पिण्डेन यज्ञः। पिण्डदानरूपे यज्ञरूपे श्राद्धे याज्ञ० ३। १६ पिण्डपितृयज्ञे च।

पिण्डल = पिडि–बा० कलच्। सेतौ हारा०।

पिण्डलेप = पु० पिण्डस्य लेपः करसंलग्नांशभेदः। करसंस्थे पिण्डांशभेदे तद्भागिनश्च वृद्धप्रपितामहादयः त्रयः यथाह “लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः” मनुवाक्यम् “लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः। पिण्डदः सप्तमस्तेषां सापिण्ड्यं साप्तपौरुषम्” कुल्लू० धृत मात्स्यवचनम्।

पिण्डस = पु० पिण्डं सनति यस्मै सन–सम्भक्तौ सम्प्रदाने बा० ड। परपिण्डोपजीविनि भिक्षोपजीविनि शब्दर०

पिण्डसम्बन्ध = पु० पिण्डेन देहेन देयपिण्डेनवा सम्बन्धः। देहेन सह जन्यजनकतारूपे १ सम्बन्धे मिता० देयपिण्डस्य २ दातृत्वभोक्तृत्वान्यतरसम्बन्धे च दायभागादयः।

पिण्डसेक्तृ = पु० सर्पभेदे भा० अ० ५७ अ०।

पिण्डा = स्त्री पिण्डि–अच्। २ पिण्डायसे २ कस्तूरीभेदे च राजनि०। ३ वंशपत्र्यां भावप्र०।

पिण्डात = पु० पिण्ड इवातति अत–मातत्ये अच्। पिण्डं संहननं वा अतति + अत–गतौ अच्। सिह्लके पु०।

पिण्डान्वाहार्य्यक = न० पिण्डानां पिण्डपितृयज्ञानां पश्चादाह्रियते अनु + आ + हृ–ण्यत् स्वार्थे क। पार्वणश्राद्धे “पिण्डान्वाहर्य्यकं श्राद्धं कुर्य्यान्मासानुमासिकम्” मनुः।

पिण्डाभ = पु० पिण्डः संघात इवाभाति आ + भा क। सिह्लके रत्नमालायां पाठान्तरम्।

पिण्डाभ्र = न० अभ्रस्येदम् अण् आभ्रं पिण्डमिव घनमाभ्रम्। मेघजातकरकायाम् शब्दच०।

पिण्डायस = न० पिण्डं संहतमयः अच् समा०। तीक्ष्णायसे राजनि०।

पिण्डार = पु० पिण्डं संघातमृच्छति ऋ–अण्। १ विकङ्कत वृक्षे राजनि० २ क्षपणके ३ गोपे ४ महिषीरक्षके ४ द्रुमभेदे मेदि० ६ शाकभेदे न० “पिण्डारं शीतलं बल्यं पित्तनाशि रुचिप्रदम्। पाके लघु विशेषेण विषशान्ति करं मतम्” भावप्र०। ७ सर्पभेदे पु० भा० उ० १०२ अ० स्वार्थे क पिण्डारक तत्रार्थे ८ नागभेदे भा० आ० ३६ अ०। ९ वलरामानुजभेदे पु० हरिवं० ३६ अ० १० तीर्थभेदे न० “पिण्डारके नरः स्नात्वा लभेद्बहु सुवर्णकम्” भा० व० ८२ अ०।

पिण्डालु = पु० पिण्डाकार आलुः। (गोलआलु) राजनि०। १ कन्दभेदे २ कन्दगुडूच्याञ्च स्वार्थे क अत्रैव। “पिण्डालुर्मधुरः शीतः मूत्रकृच्छ्रविनाशनः। दाहशोषप्रमेहघ्नो वृष्यः सन्तर्पणो गुरुः” राजनि० संज्ञायां कन्। (चुवडि आलु) आलुभेदे न० “पिण्डालुकं कफहरं गुरु वात प्रकोपकृत्” राजवल्लभः।

पिण्डाह्वा = स्त्री पिण्डां कस्तुरीभेदमाह्वयते स्पर्दते गन्धेन आ + ह्वे–क। नाडीहिङ्गुनि राजनि०।

पिण्डि(ण्डी) = स्त्री पिडि–इन् वा ङीप् स्वार्थे क वा। सर्वकाष्ठासञ्जनाधारे रथचक्रमध्ये स्थाने १ रथनाभौ अमरः। २ पीठे जानुनोऽधःस्थे ३ मांसलप्रदेशे च हेमच० ४ श्वेताम्लौ राजनि० ५ देवादेः पीठिकाभेदे तल्लक्षणादि मत्स्यपु० २५२ अ० उक्तं यथा “पिण्डिकालक्षणं वक्ष्ये यथावदनुपूर्वशः। पीठोच्छ्रायं यथावच्च भागान् षोडश कारयेत्। भूमावेकः प्रविष्टः स्याच्चतुर्भर्जगती मता। वृत्तोभागस्तथैकः स्थात् वृत्त पट्टस्य भागतः। भागैस्त्रिभिस्तथा कण्ठः कण्ठपट्टस्त्रिभागतः। भागाभ्यामूर्द्ध्वपट्टश्च शेषभागेन पट्टिका। प्रविष्टं भागमेकैकं जगती यावदेव तु। निर्गमस्तु पुनस्तस्य यावद्वै शेषपट्टिका। वारिनिर्गमणार्थन्तु तत्र कार्या प्रणालिका। पीठिकानान्तु सर्वासामेतत्सामान्यलक्षणम्। विशेषान् देवताभेदान् शृणुध्वं द्विजसत्तमाः!। स्थण्डिला वाथ वापी वा यक्षी देवी च मण्डला। पूर्णचन्द्रा च वज्री च पद्मा वार्धशशी तथा। त्रिकोणा दशमी तासां सस्थानं वा निबोधत। स्थण्डिला १ चतुरस्रा तु वर्जिता मेखलादिभिः। वापी २ द्विमेखला ज्ञेया यक्षी ३ चैव त्रिमेखला। चतुरस्रायता वेदी ४ न तां लिङ्गेषु योजयेत्। मण्डला ५ वर्तुला या तु मेखलाभिर्गणप्रिया। रक्ता द्विमला मध्ये पूर्णचन्द्रा ६ तु मा भवेत्। मेखलात्रयसंयुक्ता षडस्रा वज्रिका ७ भवेत्। षोडशास्रा भवेत्पद्मा। ८ किञ्चिद्ध्रस्वा तु मूलतः। तथैव धनुराकारा सार्द्धचन्द्रा ९ प्रशस्यते। त्रिशूलसदृशी १० तद्वत् प्रशस्तलक्षणान्विता। परिवेषं त्रिभागेण निर्गमं तत्र कारयेत्। विस्तारं तत्प्रमाणञ्च भूले चाग्रे ततोऽर्द्धतः। जलमार्गश्च कर्त्तव्यस्त्रिभागेण सुशोभनः। लिङ्गस्यार्द्धत्रिभागेण स्थौल्येर समधिष्ठिता। मेखला तत्त्रिभागेण खातश्चैव प्रमाणत। अथ वा पादहीनन्तु शोभनं कारयेत्सदा। उत्तरस्थं प्रणालञ्च प्रमाणादधिकारयेत्। स्थण्डिलायामथारोग्यं घनं धान्यञ्च पुष्कलम्। गीप्रदा च भवेद्यक्षी वेदी सम्पत्प्रदा भयेत्। मण्डलायां भवेत्कीर्त्तिर्वरदा पूर्णचन्द्रिका। आयुःप्रदा भवेद्वज्री पद्मा सौभाग्यदा भवेत्। पुत्रप्रदार्द्धचन्द्रा स्यात्त्रिकोणा शत्रुनाशिनी। देवस्य यजनार्थन्तु पीठिका दश कीर्त्तिताः। शैले शैलमयीं दद्यात् पार्थिवे पार्थिवीं तथा। दारुजे दारुजां कुर्य्यात् मिश्रे मिश्रां तथैव च। नान्ययोंनिस्तु कर्तव्या सदा शुभफलेप्सुभिः। अर्च्चायामसमन्दैर्घ्यं लिङ्गायामसमन्तथा। यस्य देवस्य या पत्नी तां पीठे परिकल्पयेत्। एतत्सर्वं समाख्यातं समासात् पीठलक्षणम्”।

पिण्डित = त्रि० पिडि–क्त। १ संहते २ गणिते मेदि० ३ गुणिते ४ तुरस्के पु० राजनि०।

पिण्डिल = पु० पिण्ड + अस्त्यर्थे–इलच्। सेतौ शब्दच०। २ गणके त्रि० उणादि०।

पिण्डी = स्त्री पिडि–इन् ङीप्। १ पिण्डीतगरे २ अलाबुलतायां ३ खर्जूरभेदे (छोहारा) मेदि० ४ तत्त्वज्ञानार्थोपदेशे धरणिः।

पिण्डीजङ्घ = पु० ऋषिभेदे। तस्य गोत्रापत्यम् इञ्। पैण्डीजङ्घि तदपत्ये बहुत्वे तु अस्त्रियां यस्का० तस्य लुक्।

पिण्डीतक = पु० पिण्डीं स्वल्पपिण्डं फलपुष्पद्वारा तकति अनुकरोति तक–हासे अच्। १ मदनवृक्षे २ तगरे च अमरः ३ फणिज्झके विश्वः।

पिण्डीतगर = पु० पिण्ड्या स्वल्पपिण्डेनोपलक्षितस्तगरः। तगरवृक्षे त्रिका०।

पिण्डीपुष्प = पु० पिण्ड्या उपलक्षितं पुष्पमस्य। संहतस्तवकपुष्पे अशोकवृक्षे राजनि०।

पिण्डीर = पु० पिण्डं पिण्डाकारं फलमीरयति ईर–अण्। १ दाडिमवृक्षे त्रिका० २ नीरमे हारा०। ३ हिण्डीरे रायमु०

पिण्डीशूर = पु० पिण्ड्यां भोजने एव नान्यत्र शूरः। गेहेनर्द्दिनि युद्धादावसमर्थे हेमच०। भट्टिः ५। ८७ उदा०

पिण्या = स्त्री पण्यते स्तूयते रोगहन्तृत्वेन यत् पृषो० इत्त्वम् ज्योतिष्मतीलतायाम् अमरः।

पिण्याक = पु० न० पण–व्यवहारे आकन् नि०। १ तिलफाल्के २ हिङ्गुनि ३ वाह्नीके च। ४ सिह्लके पुंस्त्री० मेदि०। स्त्रीत्वे ङीप् तस्त व्रतार्थभक्षणे न दोषः मनुः ११। ९२ अन्यत्र दोषो यथा “पिण्याकं भक्षयित्वा तु यो वै मामुपसर्पति। तस्य वै शृणु मुश्रोणि! प्रायश्चित्तं मुशोभनम्। उलूको दश वर्षाणि कच्छ्रपस्तु समात्रयम्। जायते मानवस्तत्र मम कर्मपारायणः” वराहपु०।

पितरिशूर = पु० पात्रेसमिता० अलुक्स०। पिर्तृविषयेएव शूरे नान्यत्रेति। क्षेपेऽस्य प्रयोगः।

पितापुत्र = पु० द्वि० व० द्वन्द्वे पूर्वपदे आनङ्। पितरि पुत्रे च

पितामह = पु० पितुः पिता पितृ + डामह। पितुः पितरि पितृपित्रादयोऽप्यत्र। तत्पत्न्यां स्त्री० ङीप् अमरः।

पितु = पु० पा–रक्षणे तुन् पृषो०। अन्ने निघण्टुः। पातेवां पिबतेः पायतेर्वा” निरु० ९। २४। ऋ० १०। ७६। ५ उदा०।

पितुःपुत्र = पु० ६ त० अलुक्स०। विख्यातात् (वापेर मत वेटा) पितुरुत्पन्ने पुत्रे क्षेपे तु वा अलुक्स०।

पितुःस्व(ष्व)सृ = स्त्री ६ त० अलुक्स० वा षत्वम्। पितृभगिन्यां तस्या अपत्यं छ। पितुःस्व(ष्व)स्त्रीय तदपत्ये पुंस्त्री०।

पितृ = पु० पाति रक्षति पा–तृच् नि०। १ जनके। मात्रा स० होक्तौ पितृशेषः द्वि० व०। मात्रापित्रोः अमरः। पञ्चपितृशब्दे ४१८८ पृ० दृश्यम्। पितरः श्राद्ध्वदेवता इत्युक्तेः श्राद्धोद्देश्ये २ प्राप्तपितृलोकके। पितृलोकः पितृयाणम्

पितृक = त्रि० पैतृक + पृषो०। १ पितुरागते शब्दमा०। पितृदत्त एव ठच् वा दत्तलोपः। २ पितृदत्ते च।

पितृकर्मन् = न० पितॄनुद्दिश्य कर्म। श्राद्धादौ मनुः ३। २५२ श्लो०। पितृकार्य्यादयोऽप्यत्र।

पितृकल्प = पु० पितॄनुद्दिश्य कल्पो विधानम्। पितॄणाम् श्राद्धादिकर्मणि। हरिवं० १७ अ० उक्ते पितॄणामुत्पत्त्यादिज्ञापके २ ग्रन्थभेदे च हरिवं० २३ अ०। ईषदूने कल्पप्। ३ पितृतुल्ये च

पितृकानन = न० ७ त०। श्मशाने जटा०।

पितृकुल्या = स्त्री पितृकृता कुल्या। तीर्थभेदे भा० व० ५७ अ०।

पितृगण = पु० ६ त०। अग्निष्वात्तादिषु “मनोर्हैरण्यगर्भस्य ये मरीच्यादयः सुताः। तेषामृषीणां सर्वेषां पुत्राः पितृगणाः स्मृताः। विराट्सुताः सोमसदः साध्यानां पितरः स्मृताः। अग्निष्वात्ताश्च देवानां मारीच्या लोक विश्रुताः। दैत्यदानवयक्षाणां गन्धर्वोरगरक्षसाम्। सुपर्णानां नराणाञ्च स्मृता बर्हिषदोऽत्रिजाः। सोमपा नाम विप्राणां क्षत्त्रियाणां हविर्भुजः। वैश्यानामाज्यपा नाम शूद्राणान्तु सुकालिनः। सोमपास्तु कवेः पुत्रा हविष्मन्तोऽङ्गिरःसुताः। पुलस्त्यस्याज्यपाः पुत्रा वशिष्ठस्य सुकालिनः। अग्निदद्घानग्निदग्धान् काव्यान् वर्हिषदस्तथा। अग्निष्वात्तांश्च सौम्याश्च विप्राणामेव निर्दिशेत्। य एते तु गणा मुख्याः पितृणां परिकी- र्त्तिताः। तेषामपीह विज्ञेयं पुत्रपौत्रमनन्तकम्”। एते च दिव्यपितरः।

पितृगाथा = स्त्री पितृभिः पठिता गाथा। पितृभिः पठिते श्लोकसमुदाये मार्क० पु० ३२ अ० यथा “पितृगाथास्तथैवात्र गीयन्ते व्रह्मवादिभिः। या गीताः पितृभिः पूर्वमैलस्यासीन्महीपतेः। कदा नः सन्ततावग्र्यः कस्यचिद्भविता सुतः। यो योगिभुक्तशेषान्नो भुवि पिण्डं प्रदास्यति। गयायामथं वा पिण्डं खड्गमांसं महाहविः। कालशाकं तिलाढ्यं वा कृसरं मासतृप्तये। वैश्वदेवञ्च सौम्यञ्च खड्गमांसं परं हविः। विषाणवर्जं स्वर्गत्वा आसूर्यञ्चाश्नुवामहे। दद्यात् श्राद्धं त्रयोदश्यां मघासु च यथाविधि। मधुसर्पिः समायुक्तं पायसं दक्षिणायने”। अन्या अपि पितृगाथा शास्त्रान्तरे दृश्याः।

पितृगृह = न० ६ त०। श्मशाने हेमच०।

पितृग्रह = पु० स्कन्दानुचरे ग्रहभेदे ग्रहशब्दे २७४५ पृ० सुश्रुतवाक्ये १७७६ भारतवाक्ये च दृश्यम्।

पितृतर्पण = न० ६ त०। १ पितॄणां जलदानरूपे तृप्तिजननव्यापारभेदे। करणे ल्युट्। २ पितृतीर्थे शब्दच० ३ तिले राजनि०।

पितृतिथि = पुंस्त्री० पितृप्रिया तिथिः। अमाबास्यायाम्।

पितृतीर्थ = न० पितृप्रियं तीर्थम् शा० त०। “अन्तराङ्गुष्ठदेशिन्योः पितॄणां तीर्थमुत्तमम्” कूर्मपु० उक्ते १ तर्जन्यङ्गुष्ठमध्यस्थाने अमरः। २ गयादौ तीर्थे च यथोक्तं मत्स्यपु० २२ अ० “पितृतीर्थं गया१ नाम सर्वतीर्थवरं शुभम्। यत्रास्ते देवदेवेशः स्वयमेव पितामहः। तत्रैषा पितृभिर्गीता गाथा भागमभीप्सुभिः। एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत्। यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत्। तथा वाराणसी २ पुण्या पितॄणां वल्लभा सदा। यत्राविमुक्तसान्निध्यं भुक्तिमुक्तिफलप्रदम्। पितॄणां वल्लभं तद्वत् पुण्यञ्च विमलेश्वरम् ३। पितृतीर्थं प्रयाग ४ न्तु सर्वकामफलप्रदम्। वटेश्वर ४ स्तु भगवान् माधवेन समन्वितः। योग विद्राशयस्तद्वत् सदा वसति केशवः। दशाश्वमेधिकं ६ पुण्यं गङ्गाद्वारं ७ तथैव च। नन्दा ८ थ ललिता ९ तद्वत्तीर्थं मायापुरी १० शुभा। तथा मित्रपदं ११ नाम ततः केदार१२ मुत्तमम्। गङ्गासागर १३ मित्याहुः सर्वतीर्थमयं शुभम्। तीर्थं ब्रह्मसर १४ स्तद्वच्छतद्रुसलिले ह्रदे। तीर्थन्तु नैमिषं १५ नाम सर्वतीर्थफलव्रदम्। गङ्गोद्भेद १६ स्त गोमत्यां यत्रोद्भूतः सनातनः। तथा यज्ञवराह १७ स्तु देवदेवश्च शूलभृत्। यत्र तत्काञ्चनं द्वारमष्टादशभुजो हरः। नेमिंस्तु हरिचक्रस्य शीर्णा यत्राभवत्पुरा। तदेतन्नैमिषारण्यं १८ सर्वतीर्थनिषेवितम्। देवदेवस्य तत्रापि वाराहस्य तु दर्शनम्। यः प्रयाति स पूतात्मा नारायणपदं व्रजेत्। कृतशौचं महा पुण्यं सर्वपापनिषूदनम्। तत्रास्ते नारसिंहस्तु स्वयमेव जनार्द्दनः। तीर्थमिक्षुमती १९ नाम पितॄणां वल्लभं सदा। सङ्गमे यत्र तिष्ठन्ति गङ्गायाः पितरः सदा। कुरूक्षेत्रं २० महापुण्यं सर्वतीर्थसमन्वितम्। तथा च सरयूः २१ पुण्या सर्वदेवनमस्कृता। इरावती २२ नदी तद्वत् पितृतीर्थाधिवासिनी। यमुना २३ देविका २४ काली २५ चन्द्रभागा २६ दृषद्वती २७। नदी वेणुमती २८ पुण्या परा वेत्रवती २९ तथा। पितॄणां वल्लभा ह्येताः श्राद्धे कोटीगुणा मताः। जम्बूमार्गं ३० महापुण्यं यत्र मार्गो हि लक्ष्यते। अद्यापि पितृतीर्थं तत्सर्वकामफलप्रदम्। नीलकुण्डमिति ३१ ख्यातं पितृतीर्थं द्विजोत्तमाः!। तथा रुद्रसरः ३२ पुण्यं सरोमानस ३३ मेव च। मन्दाकिनी ३४ तथाऽच्छोदा ३५ विपाशा ३६ थ सरस्वती ३७। पूर्वमित्रपदं ३८ तद्वद्वैद्यनाथं ३९ महाफलम्। शिप्रा ४० नदी महाकाल ४१ स्तथाकालञ्जरं ४२ शुभम्। वंशोद्भेदं ४३ हरोद्भेदं ४४ गङ्गोद्भेदं ४५ महाफलम्। भद्रेश्वरं ४६ विष्णुपदं ४७ नर्मदाद्वार ४८ मेव च। गयापिण्डप्रदानेन समान्याहुर्महर्षयः। एतानि पितृतीर्थानि सर्वपापहराणि च। स्मरणादपि लोकानां किमु श्राद्धकृतां नृणाम्। ओङ्कारं ४९ पितृतीर्थञ्च कावेरी ५० कपिलीदकम् ५१। सम्भेद ५२ श्चण्डवेगायास्तथैवामरकण्टकम् ५३। कुरुक्षेत्राच्छतगुणं तस्मिन् स्नानादिकं भवेत्। शुक्रतीर्थ ५४ ञ्च विख्यातं तीर्थं सीमेश्वरं ५५ परम्। सर्वव्याधिहरं पुण्यं शतकोटिफलाधिकम्। श्राद्धे दाने तथा होमे स्वाध्याये जलसन्निधौ। कायावरोहणं ५६ नाम तथा चर्मण्वती ५७ नदी। गोमती ५८ वरुणा ५९ तत्तद्वत्तीर्थमौशनस ६० म्परम्। भैरवं ६१ भृगुतुङ्ग ६२ ञ्च गौरीतीर्थ ६३ मनुत्तमम्। तीर्थं वैनायकं ६४ नाम भद्रेश्वर ६५ मतःपरम्। तथा पापहरं ६६ नाम पुण्याथ तपती ६७ नदी। मूलतापी ६८ पयोष्णी ६९ च पयोष्णीसङ्गम ७० स्तथा। महाबोधिः ७१ पाटला ७२ च नागतीर्थ ७३ मवन्तिका ७४। तथा वेणा ७५ नदी पुण्या महाशालं ७६ तथैव च। महारुद्र ७७ महालिङ्गं दशार्णा ७८ च नदी शुभा। शतरुद्रा ७९ शताह्वा ८० च तथा विश्वपदं ८१ परम्। अङ्गारवाहिका ८२ तद्वन्नदौ च शोण ८३ वर्घरौ ८४। कालिका ८५ च नदी पुण्या वितस्ताऽ ८६ तो नदी तथा। एतानि पितृतीर्थानि शस्यन्ते स्नानदानयोः। श्राद्धमेतेषु यद्दत्तन्तदनन्तफलं स्मृतम्। द्रोणी ८७ वाटनदीं ८८ धारा ८९ सरित् क्षीरनदी ९० तथा। गोकर्णं ९१ गजकर्ण ९२ ञ्च तथा च पुरुषोत्तमः ९३। द्वारका ९४ कृष्णतीर्थञ्च ९५ तथार्बुदसरस्वती ९६। नदी मणिमती ९७ नाम तथा च गिरिकर्ण्णिका ९८ धूतपापं ९९ तथा तीर्थ समुद्रो १०० दक्षिणस्तथा। एतेषु पितृतीर्थेषु श्राद्धमानन्त्यमश्नुते। तीर्थं मेघकरं १०१ नाम स्वयमेव जनार्दनः। यत्र शार्ङ्गधरो विष्णुर्मेखलायाभवस्थितः। तथा मन्दोदरीतीर्थं १०२ तीर्थं चम्पा १०३ नदी शुभा। तथा मामलनाथ १०४ श्च महाशालनदी १०५ तथा। चक्रवाकं १०६ चर्मकोटं १०७ तथा जन्मेश्वरं १०८ महत्। अर्जुनं १०९ त्रिपुरं ११० चैव सिद्धेश्वर १११ मतःपरम्। श्रीशैलं ११२ शाङ्करं ११३ तीर्थं नारसिंह ११४ मतःपरम्। महेन्द्र ११५ ञ्च तथा पुण्यमथ श्रीरङ्गसंज्ञितम् ११६। एतेष्वपि सदा श्राद्धमनन्तफलदं स्मृतम्। दर्शनादपि चैतानि सद्यः पापहराणि वै। तुङ्गभद्रा ११७ नदी पुण्या तथा भीमरथी ११८ सरित्। भीमेश्वरं ११९ कृष्ण वेणा १२० कावेरी १२१ कुड्मला १२२ नदी। नदी गोदावरी १२३ नाम त्रिसन्ध्यातीर्थ १२४ मुत्तमम्। तीर्थं त्रैयम्बकं १२५ नाम सर्वतीर्थनमस्कृतम्। यत्रास्ते भगवानीशः स्वयमेव त्रिलोचनः। श्राद्धमेतेषु सर्वेषु कोटिकोटिगुणं भवेत्। स्मरणादपि पापानि नश्यन्ति शतधा द्विजाः!। श्रीपर्णी १२६ ताम्रपर्णी १२७ च जयाबीर्थ १२८ मनुत्तमम्। तथा मत्स्यनदी १२९ पुण्या शिवधारं १३० तथैव च। भद्रतीर्थ १३१ ञ्च विख्यातं पम्पातीर्थ १३२ ञ्च शाश्वतम्। पुण्यं रामेश्वरं १३३ तद्वदेलापुर १३४ मलम्पुर १३५ म्। अङ्गभूत १३६ ञ्च विख्यातमानन्दकमलं पुरम् १३७। आम्रातकेश्वरं १३८ तद्वदेकाम्रक १३९ मतःपरम्। गोवर्धनं १४०। हरिश्चन्द्रं १४१ कृपुचन्द्रं १४२ पृथूदकम् १४३। सहस्राक्षं १४४ हिरण्याक्ष १४५ तथा च कदली १४६ नदी। रामाधिवास १४७ स्तत्रापि तथा सौमित्रिसङ्गमः १४८। इन्द्रकीलं १४९ महा- नाद १५० न्तथा च प्रियमेलकम् १५१। एतान्यपि सदा श्राद्धे प्रशस्तान्यधिकानि तु। “एतेषु सर्वदेतानां सान्निध्यं दृश्यते यतः। दानमेतेषु सर्वेषु दत्तं कोटिशताधिकम्। बाहुदा १५२ च नदी पुण्या तथा सिद्धवनं १५३ शुभम्। तीर्थं पाशुपतं १५४ नाम नदी पार्वतिका १५५ शुभा। श्राद्धमेतेषु सर्वेषु दत्तं कोटिशतोत्तरम्। तथैव पितृतीर्थन्तु यत्र गोदावरी नदी। युता सिङ्गसहस्रेण सर्वान्तरजलावहा १५६। जामदग्म्यस्य तत्तीर्थं १५७ क्रमादायातमुत्तमम्। प्रतीकस्य भयाद्भिन्ना यत्र गोदावरी नदी। तत्तीर्थं हव्यकव्यानामप्सरोयुगसंज्ञितम् १५८। श्राद्धाग्निकार्य्यदानेषु तथा कोटिशताधिकम्। तथा सहस्रलिङ्ग १५९ ञ्च राघवेश्वर १६० मुत्तमम्। सेन्द्रफेना १६१ नदी पुण्या यत्रेन्द्रः पतितः पुरा। निहत्य नमुचिं शक्रस्तपसा स्वर्गमाप्तवान्। तत्र दत्तं नरैः श्राद्धमनन्तफलदं भवेत्। तीर्थन्तु पुष्करं १६२ नाम शालग्रामं १६३ तथैव च। सोमपान १६४ ञ्च विख्यातं यत्र वैश्वानरालयः। तीर्थं सारस्वतं १६५ नाम स्वामितीर्थं १६६ तथैव च। मलन्दरा १६७ नदी पुण्या कौशिकी १६८ चन्द्रिका १६९ तथा। वैदर्भा १७० वाथ वैरा १७१ च पयोष्णी १७२ प्राङ्मुखा परा। कावेरी १७३ चोत्तरा पुण्या तथा जालन्धरो १७३ गिरिः। एतेषु श्राद्धतीर्थेषु श्राद्धमानन्त्यमश्नुते। लोहदण्डं १७५ तथा तीर्थं चित्रकूट १७६ स्तथैव च। विन्ध्ययोग १६७ श्च गङ्गायास्तथा नदीतटं १७८ शुभम्। कुब्जाभ्र १७९ न्तु तथा तीर्थं उर्वशीपुलिनं १८० तथा। संसारमोचनं १८१ तीर्थं तथैव ऋणमोचनम् १८२। एतेषु पितृतीर्थेषु श्राद्धमानन्त्यमश्नुते। अट्टहासं १८३ तथा तीर्थं गौतमेश्वर १८४ मेव च। तथा वशिष्ठतीर्थ १८५ न्तु हारीतं १८६ तु ततःषरम्। ब्रह्मावर्तं १८७ कुशावर्त्तं १८८ हयतीर्थं १८९ तथैव च। पिण्डारकञ्च १९० विख्यातं शङ्खीद्धारं १९१ तथैव च। घण्टेश्वरं १९२ विल्वकञ्च १९३ नीलपर्वत १९४ मेव च। तथा च घरणीतीर्थं १९५ रामतीर्थं १९६ तथैव च। अश्वतीर्थ १९७ ञ्च विख्यातमनन्तं श्राद्धदानयोः। तीर्थं वेदशिरो १९८ नाम तथैवौघवती १९९ नदी। तीर्थं वसुप्रदं २०० नाम छागलाण्डं २०१ तथैव च। एतेषु श्राद्धदातारः प्रयान्ति परमं पदम्। तथा च वदरीतीर्थं २०२ गणतीर्थं २०३ तथैव च। जयन्तं २०४ विजय २०५ ञ्चैव शुक्रतीर्थं २०६ तथैव च। श्रीपतेश्च २०७ तथा तीर्थं तीर्थं रैवतकं २०८ तथा। तथैव शारदातीर्थं २०९ भद्रकालेश्वरं २१० तथा। वैकुण्ठतीर्थ २११ ञ्च परं मीमेश्वर २१२ मथापि वा। एतेषु श्राद्धदातारः प्रयान्ति परमा गतिम्। तीर्थं मातृगृहं २१३ नाम करवीरपुरं २१४ तथा। कुशेश्वर २१५ ञ्च विख्यातं गौरीशिखर २१६ मेव च। नकुलेशस्य २१७ तीर्थञ्च कर्दमालं २१८ तथैव च। दण्डिपुण्यकरं २१९ तद्वत् पुण्डरीकपुरं २२० तथा। सप्तगोदावरीतीर्थं २२१ सर्वतीर्थेश्वरेश्वरम् २२२। तत्र श्राद्धं प्रदातव्यमनन्तफलमीप्सुभिः”।

पितृदान = न० पित्रे दानम्। निवापे श्राद्धे अमरः स्वार्थे क। पितृदानक तत्रार्थे न० शब्दच०।

पितृदिन = न० ६ त०। १ अमावास्यायाम्। पक्षद्वयात्मके २ तत्सम्बन्धिदिने च “मानेनानेन यो मासः पक्षद्वयसमन्वितः। पितॄणां तदहोरात्रमिति कालविदो विदुः। कृष्णपक्षस्त्वहृस्तेषां शुक्लपक्षस्तु शर्वरी। कृष्णपक्षे त्वहः श्राद्धं पितृणां वर्त्तते नृप!” हरिवं० ७ अ०।

पितृपक्ष = पु० पितॄणां प्रियः पक्षः। गौणाश्विनकृष्णपक्षे “नभा वाथ नभस्यो वा मलमासो यदा भवेत्। सप्तमः पितृपक्षः स्यादन्यत्र तु च पञ्चमः” नागरख०। २ पितृकुलजे च “पितृपक्षः प्रभुः स्त्रियाः” दायभागे नारदः पार्वणादौ ३ पित्रादित्रिके च।

पितृपति = पु० ६ त०। यमे अमरः।

पितृपितृ = पु० ६ त०। पितामहे अमरः।

पितृप्रसू = स्त्री ६ त०। १ पितामह्याम् पितृणां प्रस्तूरिव। २ सन्ध्यायाम् अमरः। पितृकृत्ये सन्ध्यागामितिथेर्ग्राह्यत्वात् तस्याः प्रसूवत् पालकत्वात् तथात्वम्।

पितृप्रिय = पु० ६ त०। मृङ्गराजे राजनि०।

पितृबन्धु = पु० ६ त०। “पितुः पितुःस्वसुः पुत्राः पितुर्सातुः स्वसुःसुताः। पितुर्मातुलपुत्राश्च विज्ञेयाः पितृबन्धव” इत्युक्तेषु पितुः पितृष्वसृपुत्रादिषु।

पितृभोजन = पु० पितृभिर्भुज्यते कर्मणि ल्युट्। १ माषे श्राद्धे तद्दानस्य प्रशस्तत्वात् तथात्वम्। भावे ल्युट् ६ त०। २ पितृभक्षणे न० राजनि०।

पितृमघ = पु० कात्या० श्रौ० २१। ३२१ सूत्रादिषुक्ते पित्र्युद्देशके कर्ममेदे।

पितृयज = पु० पित्युद्देश्यको यज्ञः शा० त०। पञ्चमहायज्ञान्तर्गते पितृतर्पणे “पितृयज्ञस्तु तर्पणम्” मनुः।

पितृयाण = पु० पितरी यान्ति अनेन या–करणे ल्युट् संज्ञा- त्वात् णत्वम्। पितॄणां चन्द्रलोकगमनमार्गे। तत्प्रापककर्मरूपहेतुसहितः तद्यानप्रकारः छान्दो० ५। ३ उक्तो यथा “अथ य इमे ग्राम इष्टापूर्त्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति धूमाद्रात्रिं रात्रेरपरपक्षमपरपक्षाद्यान् षड्दक्षिणैति मासांस्तान् नैते संवत्सरमभिप्राप्नुवन्ति। मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति” उप“य इमे गृहस्थाः। ग्राम इति गृहस्थानामसाधारणं विशेषणमरण्यवासिभ्यो व्यावृत्त्यर्थम्। यथा वानप्रस्थपरिव्राजकानामरण्यं विशेषणं गृहस्थेभ्यो व्यावृत्त्यर्थ तद्वत्। इष्टापूर्त्ते इष्टमग्निहोत्रादि वैदिकं कर्म। पूर्त्तं वापीकूपतडागारामादिकरणम्। दत्तं च बहिर्वेदि यथाशक्त्यर्हेभ्यो द्रव्यसम्भागो दत्तम्। इत्येवंविधं परिचरणपरित्राणाद्युपासते इतिशब्दस्य प्रकारदर्शनार्थत्वात्। ते दर्शनजितत्वाद्धूमं धूमाभिमानिनीं देवतामाभिमुख्येन सम्भवन्ति प्रतिपद्यन्ते। तयाऽतिवाहिता धूमाद्रात्रिं रात्रिदेवतां, रात्रेरपरपक्षदेवताम् एवमेव कृष्णपक्षाभिमानिनीमपरपक्षाद्यान् षण्मासान् दक्षिणा दक्षिणां दिशमेति सविता। तान् माषान्, दक्षिणायन षण्मासाभिमानिनीर्देवताः प्रतिपद्यन्त इत्यर्थः। सङ्घचारिण्यो हि षण्मासदेवता इति मासानिति बहुवचनप्रयोगस्तासु। नैते कर्मिणः पुण्यकृतः संवत्सरं संवत्सराभिमानिनीं देवतामभिप्राप्नुवन्ति। कुतः पुनः सवत्सरप्राप्तिप्रसङ्गो यतः प्रतिषिध्यते। अस्ति हि संवत्सरस्य प्रसङ्गोह्येकम्यावयवमूते दक्षिणोत्तरायणे तत्रार्चिरादिमार्गप्रवृत्तानामुदगयनमासेम्योऽवयविन संवत्सरस्य प्राप्तिरुक्ता। अत इहापि तदवयवभूतानां दक्षिणायनमासानां प्राप्तिं श्रुत्वा तदवयविनः संवत्सरस्यापि पूर्ववत्प्राप्तिरापन्नेत्यतस्तत्प्राप्तिः प्रतिषिध्यते नैते संवत्सरमभिप्राप्नुवन्तीति। मासेभ्यः पितृलोकं पितृलाकादाकाशमाकाशाच्चन्द्रमसम्। कोऽसौ यस्तैः प्राप्यः चन्द्रमा य एष दृश्यतेऽन्तरीक्षे सोमो राजा ब्राह्मणानां तदन्नं देवानां तं चन्द्रमसमन्नं देवता इन्द्रादयो भक्षयन्ति। अतस्ते धमादिनो गत्वा चन्द्रभूताः कर्मिणो देवैर्मक्ष्यन्ते नन्वनर्थायेष्टादिकरणं यद्यन्नभूता देवैर्भक्ष्येरन् नैष दोषः अन्नमित्युपकरणमात्रस्य विवक्षितत्वात्। न हि ते कवलोत्क्षेपेण देवैर्भक्ष्यन्ते। किं तर्ह्युपकरणमात्रं ते देवाना भवन्ति स्त्रीपशुभृत्यादिवत्। दृष्टश्चान्नशब्द उपकरणेषु स्त्रियोऽन्नं पशवोऽन्नं विशोऽन्नं राज्ञामित्वादि। न च तेषां ख्यादीनां पुरुषोपमोग्यत्वेऽप्युपभोगो नास्ति। तस्मात्कर्मिणो देवतानामुपभोग्या अपि सन्तः सुखिनो देवैः क्रोडन्ते। शरीरञ्च तेषां सुखोपभोगयोग्यं चन्द्रमण्डले लाव्यमारभ्यते। तदुक्तं पुरस्ताच्छ्रद्धाशब्दा आपोद्युलोकाग्नौ हुताः सोमो राजा तम्भवतीति। ता आपः कर्मसमवायिन्य इतरैश्च भूतैरनुगताः द्युलोकं प्राप्य चन्द्रत्वमापन्नाः शरीराद्यारम्मिका इष्टाद्युपासकानां भवन्ति” शाङ्करमाष्यम्।

पितृराज = पु० ६ त० टच्समा०। यमे भा० स० ६ अ०।

पितृरूप = पु० ईषदूनः जनकः पिता पितृ + रूपम्। शिवे भा० अनु० १५० अ०। तस्य सर्वजनकत्वेन पितृतुल्यत्वात् तथात्वम्

पितृलोक = पु० ६ त०। चन्द्रलोकोपरिस्थे १ भुवनभेदे “विधूर्ध्वभागे पितरो वसन्तः स्वाधः सुधादीधितिमामनन्ति। पश्यन्ति तेऽर्कं निजमस्तकोर्ध्वे दर्शे यतोऽस्माद् द्युदलं तदैषाम्। भार्धान्तरत्वान्न विधोरधःस्थं तस्मान्निशीथः खलु पौर्णमास्याम्। कृष्णे रविः वक्षदलेऽभ्युदेति शुक्लेऽस्तमेत्यर्थत एव सिद्धम्” सि० शि०। पितृयाणशब्दे दृश्यम्। कर्म०। २ पितृरूपे लोके ३ अग्निष्वात्तादौ च।

पितृवन = पु० ६ त० प्रेतावासे श्मशाने शब्दार्थक०।

पितृवनेचर = त्रि० पितृवने चरति चर–ट। श्मशानवासिनि शिवे।

पितृवर्त्तिन् = पु० ब्रह्मदत्तनामके नृपभेदे हरिवं० २० अ०।

पितृव्य = पु० पितृर्णाता पितृ + व्यत्। ज्येघे कनिष्ठे वा पितुचांतरि।

पितृषदन = न० पितरः सीदन्ति उपविशन्त्यत्प सद–आघारे ल्युट् वेदे यत्वम्। कुशे यजु० ५। २६

पितृष्व(स्व)सृ = स्त्री ६ त० वा षत्वम्। पितुर्भगिन्याम्।

पितृष्वस्रीय = पु० स्त्री० पितुः स्वसुरपत्यम् छ। पितृष्वसुरपत्ये

पितृसन्निभ = पु० पित्रा गुरुणा सन्निभा तुल्यता यस्य। पितृतुल्ये गुरुतुल्याश्च प्रा० वि० देवकोक्ता यथा “आचाय्यश्च पिता ज्येष्ठो भ्राता चैव महीपतिः मातुलः श्वशुरस्त्राता मातामहयितामहौ। यर्णज्येष्ठो पितृव्यश्च पुंस्वेते गुरवो मताः”।

पितृसू = स्त्री पितरं सूते सू–किप्। १ पितामह्यां २ सव्यायां शब्दमाला।

पितृह = पु० “पितृहूर्दक्षिणः कर्ण उत्तरो देवहूः स्मृतः” भात० ४। १९ उक्ते दक्षिणकर्णे तस्य तथात्वञ्च समर्थितं “शास्त्रश्रवणकाले बलाधिक्यात् दक्षिणकर्सः प्रथसं प्रवर्त्तते। शास्त्रे च प्रथमं श्रोतव्यं कर्मकाण्यम् इत्येतावता साम्येन प्रवृत्तसंज्ञस्य कर्मकाण्डस्य दक्षिणमर्णेन अवण-” मिष्यते। अथ तदर्थमतुष्ठाय पितृभिराहूतः पितृलोकप्रापकं पितृयाणं प्रपद्यते। तदनेन प्रकारेण पितॄणामाह्वानं भवतीति पितृहूर्दक्षिणकर्णः” ४। १५। ४८ श्नीधरेख

पित्त = न० अपि + दो–क्त तादेशः अल्लोपः न दीर्घः। देहस्थे धातुभेदे तत्स्वरूपादि भावप्र० उक्तं यथा “पित्तमुष्णं द्रवं पीतं नीलं सत्त्वगुणोत्तरम्। सरं कटु र्लघु स्निग्धं तीक्ष्णमम्लन्तु पाकतः”। पीतन्निरामम् नीलं सामम्। एकं पित्तंवातवन्नानास्थानकर्मभेदैः पञ्चविधम्। तेषां पित्तानां नामान्याह “पाचकं रञ्जकञ्चापि साधकालोचके तथा। भ्राजकञ्चेति पित्तस्य नामानि स्थानभेदतः” अथ पाचकादीनां स्थानान्याह “अग्न्याशये यकृत्प्लीह्नोर्हृदये लोचनद्वये। त्वचि सर्वशरीरेषु पित्तं निवसति क्रमात्” अथ तेषां कर्माण्याह। “पाचकं तचते भुक्तं शेपाग्निबलवर्द्धनम्। रसमूत्रपुरीषाणि विरेचयति गित्यशः”। पाचकं पित्तमामपक्वाशयमध्यस्थं षड्विधनाहारं भोज्यं भक्ष्यं चर्व्यं लेह्यं चूष्यं पेयं पचति दोषरसमूत्रपुरीषाणि पृथर्क्करोति च। तदग्न्याशयस्थमेव स्वशक्त्या रसरञ्जनहृदयस्थकफतमोपनोदनरूपग्रहणप्रभाप्रकाशनाभ्यङ्गलेपादिपाचनाद्यग्निकर्मणां विशेषाणां पित्तस्थानानामनुग्रहं करोति। शेषाण्यपि पित्तस्थानानि यकृत्श्लीहादीनि भागेन गत्वा तत्र तत्र रसरञ्जनादिकर्ममिरुपकरोतीत्यर्थः। कथम्मूतं पाचकं पित्तं शेषाग्नियलवर्द्धनम् शेषा अग्नयः पृथिव्यादिमहाभूतगणाः। यत उक्तं चरकेण “भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनामसाः” इति। ऊष्माणः अग्नयः। यत उक्तं वाग्भटेम “दोषधातुमकादीनामूष्मेत्यात्रेयशासगम्” इति। दोषधातुमलादीनामूष्मैवाग्निरित्यर्थः। रसादिसप्तधातुगताः तेषां यलबर्द्धनम् यथा गृहे स्थापितानि रत्नानि सृद्योतवद्दूरभास्वराणि तान्यवि दीपज्योतिषा दूरप्रकाशकानि मवन्ति तथा अग्न्याशयस्थपाचकाग्नितेजसा सर्वे अग्नयो बलवन्तो भवन्ति तथा च वाग्भटः “अन्नस्य पक्ता सर्वेषां पक्तॄणामधिको मतः। तन्मूलास्ते च तद्वृद्धिक्षयवृद्धिक्षयात्मकाः” इति। ननु पित्तादन्योऽग्निराहोस्वित्पित्तमेवाग्नरिति सन्देहः। उच्यते पित्तस्योष्णादिगुणद्वाराहारपाचनरञ्जनदर्शनादिकर्माणि न खलु पित्तष्य तिरेकेणान्योऽग्निः। तस्मादग्निरूपस्यैव पित्तस्य स्थान भेदात्पाचकरञ्जकसाधकालोचकभ्राजकसज्ञाः। तथा च वाग्भटः “पाचकं तिलमानं स्यात् काठिन्यान्नास्य दोषता। अनुगृह्णात्यविकृतं पित्तं पाकोष्मदर्शनैः। क्षुत्तृट्रुचिप्रमामेधाधीशौर्य्यतनुमार्दवैः। पित्तं पञ्चात्मकं तच्च पक्वामाशयमध्यगम्। पञ्चभूतात्मकत्वेऽपि यत्तैजसगुणोदयम्। त्यक्तद्रवत्वं पाकादिकर्मणानलशब्दितम्। पचत्यन्नं विभजते सारकिट्टौ पृथक् तथा। तत्रस्थमेव पित्तानां शेषाणामप्यनुग्रहम्। करोति बलदानेन पात्तकं नाम तत्स्मृतम्। ननु यदि पित्ताग्न्योरभेदस्तदा कथं घृतं पित्तस्य शमकभग्नेर्दीप्रकमिति। तथा मत्स्याः पित्तं कुर्वन्ति न च तेऽग्निदीप्तिकरा इति। तथा समदोषः समाग्निश्चेत्यपि वक्तुं न युज्यते। तथा “द्रवं स्निग्धमधोगञ्च पित्तं वह्निरतोऽन्यथेति”। अत्रोच्यते। पित्तमग्नेः सन्तताधिष्ठानम्। तथा चोक्तं तन्त्रान्तरे “अग्निर्भिन्नगुणैर्युक्तः पित्तं भिन्नगुणैस्तथा। द्रवं स्निग्धमधोगञ्च पित्तं वह्निरतोऽन्यथा। तस्मात्तेजोमयं पित्तं पित्तोष्मा यः स शक्तिमान्। स सञ्चरति कुक्षिस्थः सर्वतो धमनीमुखैः। स कायाग्निः स कायोष्मा स पक्ता स च जीवनम्। अनन्यगतिरित्येवं देहे कायाग्निरुच्यते” अन्यच्च “वामपार्श्वाश्रितं नाभेः किञ्चित् सोमस्य मण्डलम्। मन्मध्ये मण्डलं सौर्य्यं तनम्ध्येऽग्निर्व्यवस्थितः। जरायुमात्रप्रच्छन्नः काचकोशस्थ दीपवत्”। तथा च मधुकोषे “द्रवतेजःसमुदायात्मकस्यापि पित्तस्य तेजो भागोऽग्निरिति”। तेन पित्तमप्यग्निवन्मन्यते अतितापितायोगोलकवत्। परमार्थतस्तु अग्निः पित्ताद्भिन्न एयेति सिद्धान्तः। अतएवाह रसप्रदीपे “जाठरो भगवानग्निरीश्वरोऽन्नस्य पाचकः। सौक्ष्म्याद्रसानाऽऽददानो विभक्तुं नैव शक्यते। नाभौ मध्ये शरीरस्य विशेषात् सोममण्डलम्। सोममण्डलमध्यस्थं विद्यात्सूर्य्यस्य मण्डलम्। प्रदीपवत्तत्र नॄणां स्थितो मध्ये हुताशनः। सूर्य्यो दिवि यथा तिष्ठं स्तेजोयुक्तैर्गभस्तिभिः। विशोषयति सर्वाणि पल्वलानि सरांसि च। तद्वच्छरीरिणां भुक्तं ज्वलनो नामिमाश्रितः। मयूखैः पचते क्षिप्रन्नानाव्यञ्जनसंस्कृतम्। स्थूलकायेषु सत्त्वेषु यवमात्रः प्रमाणतः। ह्रस्वकायेषु सत्त्वेषु तिलमात्रः प्रमाणतः। कृमकीटपतङ्गेष्र बालमात्रोऽवतिष्ठते” इति। पुनः प्रकृतमनुसरति “रञ्जकं नाम यत्पित्तं तद्रसं शोणितं नयेत्। यत्तु साधकसंज्ञं तत्कुर्य्याद् बुद्धि धृतिं स्मृतिम्”। धृतिं मेधाम् “यदालोचकसंज्ञं तद्रूपग्रहणकारणम्। “भ्राजकं का- न्तिकारि स्याल्लेपाम्यङ्गादिपाचकम” वातापत्तादिनिरूपणे। स्थानान्तरे तत्रैव पित्तप्रकृतिक उक्तो यथा “पित्तप्रकृतिको यादृक् तादृशोऽथ निगद्यते। अकालपलितो गौरः क्रोधी स्वेदी च बुद्धिमान्। बहुभुक् ताम्रनेत्रश्च स्वप्ने ज्योतींषि पश्यति। श्यामकेशः क्षमी स्थूलो बहुवीर्यो महावलः। पित्तं वह्निर्वह्निजं वा तदस्मात् पित्तोद्रिक्तस्तीव्रतृष्णो बुभुक्षुः। गौरोष्णाङ्गस्ताम्रहस्तोङ्घ्रिरक्तः शूरोमानी पिङ्गकेशोऽल्पलोमा”। पित्तस्योपशमहेतुरुक्तस्तत्रैव “तिक्तस्वादुकषायशीतपवनच्छायानिशावीजनज्योत्स्नाभूगृहयन्त्रवारिजलदस्त्रीगात्रसंस्पर्शनम्। सर्पिःक्षीरविरेकसेकरुधिरस्रावप्रदेहादिकं पानाहारविहारभेषजमिदं पित्तं प्रशान्तिं नयेत्”। पित्तप्रकोपकारणान्युक्तानि “कद्वम्लोष्णविदाहितीक्ष्णलवणक्रोधोपवासातपस्त्रीसम्भोगतृषाक्षुधाभिहननव्यायाममद्यादिभिः। भुक्तेऽजीर्य्यति भोजने च शरदि ग्रीष्मे तथा प्राणिनां मध्याह्ने च यथार्द्धरात्रसमये पित्तप्रकोपो भवेत्” भावप्र० “पित्तञ्च तिक्ताम्लरसञ्च सारकं तूष्णं द्रवं तीक्ष्णमिदं मधौ बहु। वर्षान्तकाले मृशमर्द्धरात्रे मध्यन्दिनेऽत्राप्युदिते च कुप्यति” राजनि०।

पित्तघ्न = त्रि० पित्तं हन्ति हन–ठक्। १ पित्तनाशकद्रव्ये स्त्रियां ङीप्। सा च २ गुडूच्यां शब्दच०

पित्तज्वर = पु० पित्तनिमिचो ज्वर० शाक० त०। शैत्तिके ज्वरे ज्वरशब्दे ३१७१ पृ० माघवकरोक्तं तल्लक्षणं दृश्यम्।

पित्तद्राविन् = पु० पित्तं द्रावयति द्रु–णिच् णिनि। मघुरजम्बीरे राजनि०।

पित्तधरा = स्त्री सुश्रुतोक्ते कलाभेदे “षष्ठी पित्तधरा गाम या कला परिकीर्तिता। पक्वामाशयमध्यस्था ग्रहणी सा प्रकीर्त्तिता”।

पित्तरक्त = न० पित्तसंसृष्टं रक्तम्। रक्तपित्ते रोगे राजनि० रक्तपित्तशब्द लक्षणादि दृश्यम्।

पित्तल = त्रि० पित्तमस्त्यस्याधिक्ये न सिध्मा० लच्। १ पित्त बहुले। पित्तं लाति ला–क। २ उपधातुभेदे रीतौ ३ भूर्जपत्रे शब्दमा० ४ तोयपिष्पल्यां स्त्री मेदि०। रीतिश्च द्विविधा यथोक्तं राजनि० “शुक्ला स्निग्धा मृदुः शीता सुरङ्गा सूत्रपत्रिणी। हेमोपमा शुभा खच्छा जात्या रीतिः प्रकीर्त्तिता”। “रीतिरप्य पधातुः स्यात्ताम्रस्य यसदस्य च। पित्तलस्य गुणा ज्ञेया स्वयोनिसदृशा जनैः। संयोगस्य प्रभावेन तस्यान्येऽपि गुणा स्मृताः। रीतिकायुगलं रूक्षं तिक्तञ्च लवणं रसे। शोधनं पाण्डुरो- गघ्नं कृमिघ्नं नातिलेखनम् भावप्र०। तन्मारणशोधनविधिः कांस्यशब्दे १८४२ पृ० दृश्यः।

पित्तातिसार = पु० पित्तजनितोऽतिसारः शाक० त०। पित्तजनिते अतिसाररीगभेदे अतिसारशब्दे १०७ पृ० दृश्यम्।

पित्ताभिष्यन्द = पु० पित्तकृतः अभिष्यन्दः शाक० त०। पित्तकृते नेत्रजलक्षरणरूपे रोगभेदे अभिष्यन्दशब्दे ३०४ पृ० दृश्यम्

पित्तारि = पु० ६ त०। १ पर्पटे (क्षेतपापडा) २ लाक्षायां ३ वर्वरे च राजनि०।

पित्र्य = त्रि० पितुः इदं प्रियं वा पितृत आगतं वा यत्। १ पितृसम्बन्धिनि। २ पितृतीर्थे तर्जन्यङ्गुष्ठयोर्मध्यस्थाने ३ मधुनि ४ मघानक्षत्रे च राजनि०। तस्य पितृदैवतत्वात्तत्सम्बन्धित्वम्। ५ पितृप्रिये माषे पु० ६ अमावास्यायां तिथौ स्त्री हेमच० ७ ज्येष्ठभ्रातरि पु० ८ पौर्णमास्यां स्त्री शब्दच०।

पित्र्यावत् = त्रि० पित्र्यः तत्सम्बन्धि अस्त्यस्य मतुप मस्य वः दीर्घः। १ पितृसम्बन्धियुक्ते २ कन्यायां स्त्री ङीप्। ऋ० ९। ४६। २ भा०।

पित्सत् = त्रि० पतितुमिच्छति पत–सन् इस् अभ्यासलोपः। १ पतितुमिच्छायुते २ खगे पुंस्त्री० अमरः।

पित्सल = पु० पतितुमिच्छत्यत्र पत–सन् पित्स + आधारे कलच्। पथि मार्गे उणादि०।

पिद्व = पु० मृगभेदे यजु० २४। ३२

पिधान = न० अपि + धा–ल्युट् अक्लोपः। १ छादने अमरः २ उदञ्चने च हेमच०।

पिधानक = पु० पिधानाय कायति कै–क। खड्गकोषे हेमच०

पिनद्ध = त्रि० अपि + नह–क्त अल्लोपः। परिहिते वस्त्रादौ हेमच०।

पिनाक = पु० न० पा–रक्षणे आकन् नुट् धातोरात इत्त्वम्। १ शिवधनुपि उज्ज्वलद०। २ शूलास्त्रे अमरः ३ दिश उत्तरनामसु निघण्टुः।

पिनाकिन् = पु० पिनाक + अस्त्यर्थे इनि। महादेवे अमरः पिनाकधृगादयोऽप्यत्र।

पिन्यास = न० अपिगतो न्यासोऽत्र प्रा० व० अल्लोपः। हिङ्गुनि जटा०।

***