पुंयोग = पु० ६ त०। पुरुषयोगे “लक्ष्मीः पुंयोगमाशंसुः”।

पुंराशि = पु० कर्म०। विषमे राशौ मेघमिथुनसिंहादौ।

पुंलिङ्ग = न० ६ त०। १ पुरुषचिह्ने शिश्ने। पुंस इव लिङ्गमस्य। २ पुंस्त्वबोधके शब्दभेदे पु०।

पुंवत् = अव्य० पुंसैव वति। पुंसा तुल्ये। तस्य भाव। पुंवद्भाव पुंलिङ्गस्य शब्दस्येव भावे पुंसैव रूपे।

पुंवत्स = पु० कर्म०। १ पुरुषरूपे वत्से। पुमान् वत्सो यस्याः। २ पुंरूपवत्सवुक्तायां गव्यादौ स्त्री लात्या० श्रौ० ४। १४। १

पुंवृष = पु० पुमानिव वर्षति वृष–क। छछून्दरे (छु~छा) शब्दमा०

पुंश्चली = स्त्री पुंसो भर्त्तुः सकाशात् चलति पुरुषान्तरं गच्छति अच् मौरा० ङीष् पुंसोन्त्यलोपे अम्परे खयिरुस्तस्य “संपुंकानाम् सः” बा० सः श्चुत्वम्। १ असत्यां स्त्रियाम् अमरः। उपचारात् ३ पारदारिकपुरुषेऽपि। “अरेखेणायुर्नवतिर्विच्छिन्नाभिश्च पुंश्चलाः” गरुडपु० ६६ अ०। पुंश्चसौनिन्दा ब्रह्मवै० पु० श्रीकृष्णजन्मख० २३। २४। ३२ अ० यथा “अहो कोवेद भुवने दुर्ज्ञेयं पुश्चसीमनः। पुंश्चल्यां यो हि विंश्वस्तो विघिना स विडम्बितः। नहिष्कृतश्च यशसा धर्मेण स्वकुलेन च। वाञ्चितं तूतमं प्राप्य विसुञ्चति पुरातनम्। सदा स्वकर्मासाध्या सा को वा तस्याः प्रियोऽप्रियः। दैवे कर्मणि पैत्रे च पुत्रे बन्धौ च भर्त्तरि। दारुणं पुंश्चलीचित्तं सदा शृङ्गार कर्मणि। प्राणाधिकं रतिज्ञं साऽमृतदृष्ट्या हि पुंश्चली। रत्नप्रदं रत्यविज्ञं विषदृष्ट्या हि पश्यति। सर्वेषां स्थलमस्त्येव पुंश्चलीनां म कुत्रचित्। दारुणा पुंश्चली जातिर्नरजातिभ्य एव च। निष्कृतिः कर्मभोगान्ते सर्वेषामस्ति निश्चितम्। न पुंश्चलीना विप्रेन्द्र! यावच्चन्द्रदिवाकरौ। अन्यासां कामिनीनाञ्च कीटं हन्तुञ्च ता दया। सा भास्ति पुंश्चलीनान्तु कान्तं हन्तुं पुरातनम्। रतिज्ञं भूतनं प्राप्य विषतुल्यं पुरातनम्। कान्तं दृष्ट्वा हिनस्त्येव सोपायेनावलीलया। पृथिव्यां यानि पापानि पुंश्चलीष्वेव भारते। तिष्ठन्ति ताभ्यो न पराः पापिष्ठाः सन्ति केचन। पुंश्चसीपरिपकान्नं सर्ब पातकमिश्रितम्। दैवे कर्मणि पैत्रे च देयं न च तथा जलम्। अन्नं विष्ठा पयो मूत्रं पुंश्चलीनाञ्च निश्चितम्। दत्त्वा पितृभ्यो देवेभ्यो भुक्त्वा च नरकं व्रजेत्। शनवर्षं कालसूत्रे पचत्येव सुदारुणे। घोरान्धकारे कृमयस्तददन्ति दिवानिशम्। पुंश्चल्यन्नञ्च यो भुङ्क्ते दैवाद्यदि नराघमः। सप्तजन्मकृतं पुण्य तस्य नश्यति निश्चितम्। आयुःश्रीयशसां हानिरिह लोके परत्र च। तस्माद्यत्राद्रक्षणोयं पाकपात्रं कलत्रकम्। पुंश्चलीदर्शने पुण्यं यात्रासिद्धिर्भवेद्ध्रुवम्। स्पर्शच्चे च महापापं नीर्थस्यानाद्विशुद्ध्यति। स्नानं दानं व्रतञ्चैव जपश्च देवपूजनम्। निष्फलं पुंसलीनाञ्च मारते जीवनं तथा”। “अहो सर्वै परित्याज्या पुंश्चली च विश- षतः। धनायुःप्राणयशसां नाशिनी दुःखदायिनी। स्वकार्य्यतत्परा शश्वत् परकार्य्यविघातिनी। निष्ठुरा नरघातिभ्यः सर्वापद्वीजरूपिणी। विद्युद्दीप्तिर्जले रेखा लोभान्मैत्री यथा भवेत्। परद्रोहाद्यथा सम्पत् कुलटा प्रेम तत्परम्। सर्वेभ्यो हिस्रजन्तुभ्यो विपद्बीजा सदैव सा। योविश्वसेत्तां संमूढो विपत्तस्य पदे पदे”।

पुंश्चलू = स्त्री पुंपश्चलति चल–कू पुंश्चलीवत् सन्धिकार्यम्। पुंश्चल्यां स्त्रियाम् “कामस्य पुंश्चलूम्” यजु० ३०। ५० वेददी०

पुंश्चिह्न = न० ६ त० पुंश्चलीवत् सन्धिकार्यम्। पुरुषचिह्ने शिश्ने हेमच०।

पुंस = मर्दे चु० उभ० सक० सेट्। पुंसयति ते अपुपुंसत् त।

पुंसवन = न० पुमान् सूयते अनेन सू–करणे ल्युट्। स्त्रीणां गर्भपात्रसंस्कारभेदे तच्च कर्म द्विविधम् यथाह ज्यो० त० गोभिलः “तृतीयस्य गर्भमासस्यादिमदशे पुंसवनस्य कालः”। गर्भे सति तृतीयमासस्य आदिमदशे दशमदिनाभ्यन्तरे ज्योतिःशास्त्रोक्तकाले पुंसवनं कार्य्यम्। “प्रातः सशिरस्काप्लुता पश्चादग्नेरुदगग्रेषु कुशेषु प्राच्युपविशति” गो०। आप्लुवा स्नाता पश्चात् प्रश्चिमदिशि प्राङ्मुखी उपविशति “पत्युर्दक्षिणतः पाणिग्राहकस्योपविशति” इत्यन्यत्र दर्शनात्। पश्चादित्यभिधानात् अग्निस्थापनं लभ्यते। तत् सार्थकत्वाय “आज्वं द्रव्यमनादेशे जुहोतिषु विधीयते। मन्त्रस्य देवताऽलाभे प्रजाषतिरिति स्थितिः” इति छन्दोगपरिशिष्टोक्तद्रव्यादि लभ्यते। जुहोतिषु हवनेषु मन्त्रस्यानादेशे प्रजापतिः प्राजापत्थोमन्त्रः। स च मन्त्रः व्याहृत्यात्मकः। ततश्च विरूपाक्षजपान्तां कुशण्डिकां समाप्य समित्प्रक्षेपादिमहाव्याहृतिमिर्होमं कृत्वा प्रजापतिदेवताकसमस्तपहाव्याहृतिहोमं कुर्य्यात्। ततः प्रकृतं कर्म। तत्र गौभिणः “पश्चात् पतिरवस्थाय दक्षिणेन पाणिना दक्षिणमंसमन्ववमृष्यानाहितं नाभिदेशमभिस्पृणेत् पुमासौ मित्रावरुणावित्येतयर्च्चा”। उपविष्टाया बध्याः पश्चिमदेशं गत्वानुपविष्टः पतिर्दक्षिणहस्तेन तूष्णीं तस्या दक्षिणस्कन्धमवमृव्य वस्त्राद्यव्यवहितं नाभिं पुंमासाविति मन्त्रेण स्पृशेत्। अथ अनन्तरं वामदेव्यगानान्तं समापयेत्। यदि त्वशक्तेर्देशाचारात् कुलाचाराद्वा एकस्मिन् दिने द्वितीयपुंसवनमपि क्रियते तदा गणेष्वेकं परिसमहनम “इष्मो वर्हिःपर्युक्षणमाज्यभागः सर्वेभ्यः समवदोय सक्लदेव पौनिष्टिकृतं प्रुहोतीति” गोमिलसूत्रान्तरात्। उभय- कर्मान्ते वामदेव्यगानाद्युदीच्यं कर्म कर्त्तव्यम्। अतएव सरलायां दिनद्वये भट्टभाष्यभवदेवयोरेकदिने उभयकरणं लिखितम्। “अथापरम्” गो० अथ प्रथमपुंसवनसमाप्तिकालानन्तरं तदानीमपरमन्यत् पुंसवनं कार्य्यम् “प्रागुदीच्यां दिशि न्यग्रोधशुङ्गामुभयतःफलामम्लानामकृमिपरिमृष्टां त्रिःसप्तभिर्यवैर्माषैर्वा परिक्रीय उत्थापयेत्। यद्यसि सौमी सोमाय त्वा वह्ने परिक्रीणामि, यद्यसि वारुणी वारुणाय त्वा वह्ने परिक्रीणामि, यद्यसि वसुभ्यः वसुभ्यस्त्वापरिक्रीणामि, यद्यसि रुद्रेभ्यो रुद्रेभ्यस्त्वा परिक्रीणामि, यद्यसि आदित्येभ्य आदित्येभ्यस्त्वा परिकीणामि, यद्यसि मरुद्भ्यो मरुद्भ्यस्त्वा परिक्रीणामि, यद्यसि विश्वेभ्यो देवेभ्यस्त्वापरिक्रीणामि ओषधयः सुमनसो भूत्वा अस्यां वीर्य्यं समाधत्त इयं कर्म करिष्यतीत्युत्थाप्य तृणैः परिधायाहृत्य वैहायसीं निदध्यात्” सू०। वटतरोः पूर्वस्यां दिशि शुङ्गा मुकुलितप्लवः। “लताग्रस्यप्लवो गूढः शुङ्गेति परिकीर्त्त्यते। पतिव्रता व्रतवती ब्रह्मबन्धुस्तथाऽश्रुतः” इत्युक्तेः। अश्रुतो वेदहीनः तां फलयुगलयुतामम्लानां कृमिभिरव्याप्तां त्रिरावृत्तैः सप्तभिर्यवैर्माषैर्वा त्रिरावृत्तैः क्रीत्वा गृह्णीयात्। क्रयश्च वृक्षस्वामिनी, न वृक्षात् तेन वृक्षस्वामिने यवा माषा वा देदाः यद्यसीत्यादि सप्तभिर्मन्त्रैः। प्रतिमन्त्रञ्च गुडकत्वयम् दद्यात्। ओषधय इति मन्त्रेणीत्थाप्य च तृणैर्वेष्टयित्वा आनीयाकाशस्थां निदध्यात्। दृशदं प्रक्षाल्य ब्रह्मचारोवतवती वा ब्रह्मबन्धुः कुमारी वा अप्रत्याहरन्ती पिनष्टि दृशदं शिलां पेषणार्थत्वेन सपुत्रां कुमारी अनूढा व्रतवती पतिव्रता अप्रत्याहरन्ती तिर्य्यक्पुत्र केण पेषणमकुर्वती किन्तूच्छ्रितपुत्रकेण पुनःपुनः मषणं कुर्वती प्रातःसशिरस्काप्लुता उदगग्रेषु कुशेषु प्राक्शिराः संविशति शेते शेषं सुगमम्। “पश्चात् पतिरवस्याय दक्षिखस्य प्राणेरङ्गुष्ठेनोपकनिष्ठयाऽङ्गुल्या अभिसगृह्य दक्षिणनासिकाग्रेण तस्या नयेत्। पुनानग्निः पुमानिन्द्र इत्येतयर्च्चा” सू०। पश्चाद्बध्वाः पश्चिमदिशि उपकनिष्ठयानामिकया तेनाङ्गुष्ठानामिकाभ्याम्। पिष्टां शुङ्गां वस्त्रबद्धां गृहीत्वा निष्पीड्य दक्षिणनासारन्धे क्षिपेत् पुमानग्निरिति मन्त्रेण। अथ अन न्वरं दाक्षणाद्युदीच्यं कर्म कुर्य्यात्। पुंसवनकर्माधानकर्तुरसन्निधानेऽन्येनापि कर्त्तव्यम् “अष्टौ संस्कारकर्माणि गर्भाधानमिव खयम्। पिता कुर्य्यातदन्थो वा तस्याभावेऽपि तत्क्रमात्” इति स्मृतेः। मुजयये “सुफलञ्च करे कृत्वा स्थिरे तत्रासने तथा। गृह्योदितेन होमञ्च शान्तिञ्चैव च कारयेत्। ऊर्णासूत्रेण संग्रथ्य जीबं जातीञ्च विक्रमम्। गुवाकं रजतं हेम दद्यात् स्तन तटान्तरे। तत्प्रभृति नदीतीरं देवखातोदकं त्यजेत्। सन्ध्याटनं तरोर्मूखं तथा देवगृहं त्यजेत्”। पुंसवन मुहूर्त्तादिकं मु० चि० पी० उक्तं यथा “पूर्वोदितैः पुंसवनं विधेयं मासे तृतीये त्वथ विष्णुपूजा” मु० चि० “पूर्वोदितैरिति। पूर्वं सीमन्तोन्नयने उदितैः प्रोक्तैस्तिथिवारनक्षत्रलग्नैरुपलक्षिते तृतीये मासि पुंसवनाख्यं कर्म विधेयम्। पुमान् सूयतेऽनेन कर्मणेति व्युत्पत्त्या पुंसवनकर्मणा पुंस्त्वहेतुना। यदाह शौनकः “व्यक्ते वर्भे तृतीये तु मासे पुंसवनं भवेत्। गर्भेऽव्यक्ते तृतीये चेत् चतुर्थे मासि वा भवेत्” नृसिहः “सीमन्तोन्नयनस्योक्ततिथिवासरराशिषु। पुंसवं कारयेद्विद्वान् सहैवैकदिनेऽथ वा” इति। विशेषमाह वसिष्ठः “कुर्य्यात्पुंसवनं प्रसिद्धविषये गर्भे तृतीयेऽथ वा मासि स्फीततनौ तुषारकिरणे पुष्येऽक्ष वा वैष्णवे। हित्वा कर्कटकं नृयुग्ममवलामन्येष्वरिक्ते तिथौ शुद्धे नैधनधाम्नि शुक्र शशभृद्विन्मन्धिणां वासरे” इति। नैधनधास्नि अष्टमस्थाने शुद्धे सर्वग्रहरहिते। यदाह वसिष्ठः “अष्टमस्था ग्रहाः सर्वे नेष्टास्तेऽस्ते शुभावहाः। एवं सम्यक् परीक्ष्यैव कुर्य्यात्पुंसवनक्रियाम्” इति। वारास्त्वत्र सौम्यग्रहाणामुक्ता। वृहस्पतिरप्यत्र विशेषमाह “गुरुशुक्रबुधेन्दूनां देष्काणदिवसांशकाः। तेषामुदयहोराश्च पुंसवेऽतिशुभावहाः” इति अन्यैस्तु श्रीपत्यादिभिः पुंवारा एव प्रशस्ता अभिहितास्तत्फलान्याह गर्गः “सौम्ये गृतपन्ता मन्दे मृत्युर्बन्ध्या च भार्गवे। सोमे दुग्धविहीना स्यात् शेषाः सर्वार्थसिद्धिदा” इति। अत्र वचनद्वय ग्रामाण्याद्विकल्यः। केचित्तु यदा तृतीये मासि पुंसवनं चिकीर्षितं तदा सौम्ववारा एव ग्राह्याः। यदा तु चतुर्थे मासि गर्भस्य व्यक्तत्वात् पुंसवनं चिकीर्षितं तदा पु वारा एव ग्राह्या इत्याहुः। नक्षत्राणि ह्यत्र पुंनामानि ग्राह्याणि तानि “श्रवणः सकर” इति श्रीपतिनोक्तानि। वसिष्ठेन तु पुंनामान्यभिहितानि यथा “पुंनाम श्रवणं विष्यः स्वाती हस्तः पुनर्वसुः। मूणं प्रोष्ठपदं चानुराधा मृगशिरोऽश्विनी”। बिशेषमाह ऋक्षोच्चयः। “हस्तार्द्रातिष्यमूलानि सौम्यी विष्णुः पुन- र्वसुः। प्रोष्ठपदाद्वयं प्रोक्तमाषाढद्वयमेव च। श्रेष्ठानि कथितान्येव धिष्ण्याग्येकादशैव तु। स्वातौ तथा मचायां च रेवत्यां फल्गुनीद्वये। अश्विन्यां चैव नक्षत्रे यदा पुंसवनं मवेत्। नरः सम्पद्यते दैवाद्यदा स्याद्गुरुतल्पगः। लुव्योह्वखतनुः क्रूरो नारी चेत् कुलटा मवेत्। शेषाणि दश धिष्ण्यानि निन्दितानि विशेषतः” तदेतयोर्द्विरुद्धार्थयोर्वाक्ययोर्देशाचारतो व्यवस्था। तत्र वसिष्ठवाक्येन दाक्षिणात्याप्यवहरन्ति। प्राच्यास्तु ऋक्षोच्चयवाक्येन। अथ लग्नशुद्धिमाह ऋक्षोच्चयः “मीनवृश्चिककुम्भेषु चापगोसिंहकन्यकाः। उक्ताः पुंसवनाद्येषु सुखपुत्रादिवाञ्छया। केन्द्रत्रिकोणभवनेषु शुभस्थितेषु पापेषु षट्त्रिदशलामगृहस्थितेषु। जीवेन्दुभानुभृगुभूमिजमन्दिरेषु लग्नेषु लग्नपरिशुद्धशुर्भाशकेषु”। अत्रापि स्त्रीपुंसयोश्चन्द्रवलमावश्यकमित्याह नृसिंहः “अपि पुंसवनं कार्यं दम्पत्योरनुकुलभे। जन्मादि वर्जयेद्राशिं चांशकं विपदादिषु” इति पी० धा०।

“कुर्य्यात् पुंसवनं सुयोगकरणे नन्दे सभद्रे तिथौ भाद्राषाढनृभेश्वरेषु नृदिने वेधं विनेन्दौ शुभे। अक्षीणे नवपञ्चकण्टकगते सौग्ये शुभे वृद्धिषु स्त्रीशुद्ध्या घटयुग्म सूर्य्यगुरुभेषूद्यत्सु मासत्रये” ज्यो० त०। नृदिने पुं ग्रहवारे। वेधो दशयोगभङ्गः। वृद्धिरुपचयनस्थानम्। अप्। पुंसवोऽप्यत्र पु०। पुंसवनव्रतञ्च भाग० ६ स्कन्धे १९ अ० “शुक्ले मार्गशिरे पक्षे योषिद्भर्त्तृरनुज्ञया। आरभेत व्रतमिदं सार्वकामिकमादिशेत्” इत्युपक्रम्योक्तं दृश्यम्।

पुंसानुज = पु० पुंसानुजः अलुक्स०। यस्यानुज पुमान् तस्मिन् सि० कौ०।

पुंस्कामा = स्त्री पुमांसं कामयते कामि–अण् पुंसोऽन्तलोपे रुत्वे “संपुंकामामिति” बा० रोः सः। पुरुषकामायां स्त्रियाम।

पुंस्कोकिल = पु० कर्म०। पुंस्कामावत् सन्धिकार्यम्। पुरुषकोकिले कुमा० ३। ३२।

पुंस्त्व = न० पुंसोभावः त्व रुतुषत्थे। १ पुरुषत्वे तदुपनिक्षिते २ शुक्रे वीर्य्ये हेमच०।

पुंस्त्वविग्रह = पु० पुंस्त्वल शुक्रस्येव विग्रहोऽस्य। भूतृणे राजनि०।

पुक = पु० पु–बा० कक्। पवित्रे तस्यादूरदेशादि प्रेक्षा० इनि। पुकिन् तत्सन्निकृष्टदेशादौ।

पुक्कश(स) = पुंस्त्री० पुक् कुत्सितं कसति कस–गतौ अच् पृषो० वा शः। १ चण्डाले २ अधमे त्रि० अमरः “नृपायां शूद्रसंसर्गाज्जातः पुक्कश(स)उच्यते” उशनसोक्ते ३ संकीर्ण- जातिभेदे स्त्रियां जातित्वात् ङीष्। ङीषन्तः ४ कालिकायां ५ नील्यामोषधौ च मेदि०।

पुंक्षीर = न० पुंप्रियं क्षीरम् शा० त० खयः अम्परत्वाभावात् न रुः। पुरुषप्रिये क्षीरे।

पुङ्ख = पु० न० पुमांसं खनति खन–ड। १ बाणमूले २ पुष्कले अमरः।

पुङ्खतीर्थ = न० रामकृते तीर्थभेदे शिवपु०।

पुङ्ग = पु० पूग–पृषो०। समूहे शब्दच०।

पुङ्गव = पु० पुमान् गौः कर्म + षच् समा०। १ वृषे २ ऋषभौषधौ च मेदि० उत्तरपदस्थः श्रेष्ठचकः। यथा नरः पुङ्गवृ इव उपमितसमासवाक्यम्। नरपुङ्गव नरश्रेष्ठार्थे।

पुङ्गवकेतु = पु० पुङ्गवः वृषः केतुरस्य। वृषध्वजे शिवे।

पुच्छ = प्रसादे भ्वा० पर० अक० सेट्। पुच्छति अपुच्छीत् पुपुच्छ रायमुकुटः।

पुच्छ = पु० न० अर्द्धर्च्चा०। पुच्छ–अच्। १ लाङ्गूले अमरः। २ पश्चाद्भागे न० मेदि० ३ लोमवक्काङ्गूले ४ कलाषे च पु० उणादि० बहुव्रीहौ एतदन्तात् ङीष् कवरपुच्छी।

पुच्छकण्टक = पु० पुच्छे कण्टको यस्य। वृक्षिके हेमच०।

पुच्छटि(टी) = स्त्री पुच्छ–अटि वा ङीप्। अङ्गुलिमोटने (आङ्गुलमट्कान) त्रिका०।

पुच्छदा = स्त्री पुच्छकिव दायति दै–क। लक्ष्मणाकन्दे राजनि०

पुच्छण्डक = पु० तक्षकवंश्ये नागभेदे भा० आ० ५७ अ०

पुच्छिन् = पु० पुच्छ + अस्त्यर्थे इनि। १ कुक्कुटे शब्दच० २ अर्कवृक्षे च राजनि०। ३ लाङ्गूलयुक्ते त्रि०।

पुञ्ज = पु० षिजि–अच् पृषो०। उन्नत्या पुमांसं जयति जिड वा। राशौ चये अकरः।

पुञ्जातुक = पु० वृक्षभेदे हारा०।

पुञ्जि = पु० पिञ्जयति पिजि–हिसाबलदाननिकेतने इन् पृषो०। समूहे। तत्र तिष्ठति स्था–क। अम्बाग्येत्यादिना षत्वम्। पुञ्जिष्ठा सक्षिपुञ्जघातके यजु० १६। २७।

पुञ्जिकास्तना = स्त्री अप्सरोभेदे मार्क० पु० ५४ अ०।

पुञ्जिकास्थला = स्त्री अप्सरोभेदे यजु० १५। १५ वेददी०।

पुञ्जिल = पु० पिजि–बा० इल पृषो०। पिञ्जले (पा~ज) तैत्ति० ६। १। १। ८।

पुट = दीप्तौ अक० चूर्णने सक० चुरा० उभ० सट्। पोटयति–ते पुषोट।

पुट = श्लेषे तु० कु० पर० सक० सेट्। पुटात अपुटीत् पुपोट।

पुट = संसर्गे अद० चु० उभ० सक० सेट्। पुटयति ते अपुपुटत् त।

पुट = न० पुट–क। १ जातीफले राजनि० २ उपर्य्यघोभावापन्नेन मृदादिकपासद्वयेन गिर्मिते ओषधपाकषात्रभेदे च प० ३ अश्वक्षुरे पु० न० शब्दर०। ४ मिथःसम्यन्थे ५ आच्छादगे चंपुटभेदनमित्यमरव्याख्यायां सुकुटः। ६ पत्त्रादिरचिते दुग्धादिपानपात्रे त्रि० (दोना) स्त्रियां ङीष्। औषधपाकपात्रप्रकारः भावप्र० उक्तो यथा

“धात्वादिमारणोपयुक्तान् पुटप्रकारानाह रसप्रदीपे “लोहादेरपुनर्भावस्तद्गुणत्वं गुणाढ्यता सलिले तरणञ्चापि तत्सिन्निः पुटनाद्भवेत्। गम्भीरे विस्तृते कुण्डे द्विहस्ते चतुरस्मके। वनोपणसहस्नेण पूरितं पुनरौषधम्। कीष्ठे रुद्धे प्रयत्नेन गोविष्ठोपरि धारयेत्। वनोपलसहस्रार्द्धं कोष्ठिकोपरि निःक्षिपेत्। वह्निं विनिःक्षेपेत्तत्र महापुटमिति स्मृतम्”। कोष्ठं मृण्मूषा गोविष्ठा (गोइटा)। महापुटम्। “सपाद हस्तमानेन कुण्डे निम्ने तथायते। वनोपलसहस्नेण पूर्णे मध्ये विधारयेत्। पुटनद्रव्यसंयुक्तां कोष्ठिकां मुद्रितां मुखे। अथार्द्धानि करण्डानि अर्द्धान्धुपरि निःक्षिपेत्। एतद्गजपुटं प्रोक्तं ख्यातं सर्वपुटोत्तमम्”। हस्तश्चतुर्भिंशत्यङ्गुलप्रभाखः स सपादः तेन त्रिंशदङ्गलप्रमालेनेत्यर्थः अतएवोक्तम् “साघारखनराङ्गुल्या त्रिंशदङ्गलको गजः” इति गजपुटम्। “अरत्निमात्रके कुण्डे पुटं वाराहमुच्यते। वितस्तिमात्रके खाते कथितं कौक्वुटं पुटम्”। अरत्रिस्तु “निष्कनिष्ठेन मुष्टिना” इत्यमरः। निःसृतकनिष्टया मुष्ट्योपलक्षितो हस्तोऽरत्निरित्यर्थः। “षोडशाङ्गुलके खाते कस्यचित् कौक्कुटं पुटम्। यत्पुटं दीयते खाते अष्टसंख्यैर्वनोपलैः। कपोतपुटमेतत्तु कषितं पुटपण्डितैः। गोष्ठान्तर्गोस्वुरक्षुणं शुष्कं चूर्णितगोमयम्। गोवरं तत्समाख्यातं वरिषं रसलाधने। वृहद्भाण्डख्यितैर्यत्र गोवरैर्दीयते पुटम्। तद्गोवरपुटं प्रोक्तं भिषग्भिः सूतमखनि। वृहद्भाण्डे तुषैः पूर्णे मध्ये मूषां विधारयेत्। क्षिप्त्वाग्निं मुद्रयेत् भाण्डं तद्भाण्डं पुटमुच्यते”। “वसुयुगविरतिर्नौ भ्यौ पुटोऽयम्” वृ० र० उक्ते उद्वादणाक्षरपादके छन्दोभेदे पु०

पुटक = न० पुट इव कायति कै–क। १ पद्मे शब्दरत्ना० “पुटके पुटके मधु” भा० द्रो० ६९ अ०। ततः पुष्करा० इति। पुटकिनी तत्समूहे पद्मिन्याञ्च। स्वार्थे क। २ पुटशब्दार्थे।

पुटकन्द = पु० पुटमिव कन्दोऽस्य। कोसकन्दे राजनि०।

पुटग्रीव = पु० पुटमिव ग्रीवाऽस्य। १ गर्गर्य्यां। २ ताम्रकुम्भे च मेदि०।

पुटपाक = पु० पुटेन पाकः। पुटपात्रेण औषधपाखे तद्विधि भेदो भावप्र० उक्तो यथा “अथ पुटपाकविधिः। पुटपाकस्य कल्कस्य स्वरसां गृह्यते यतः। अतस्तु पुटपाकानां युक्तिरत्रोच्यते मया। पुटपाकेन पाकोऽयं लेपस्याङ्गारवर्णता। लेपञ्च द्व्यङ्गुलं स्थूलं कुर्य्याद्व्यङ्गुसमाव्यकम्। काश्मरीवटजम्बादिपत्रवेष्टनमुत्तमम्। पलमात्रो रसो ग्राह्यः कर्षमात्रं अधु क्षिपेत्। कल्कचूर्णद्रवाद्यास्तु देयाः कोलमिता बुधैः”। नेत्ररोगचिकित्सायामन्यस्तत्प्रकार उक्तस्यत्र दृश्यः। चक्रपाणिना तु अन्यथोक्तो यथा “हस्तप्रमाणवदनं श्वभ्रं हस्तैकखातसमगध्यम्। कृत्वा कटाहसदृशं तत्र करीषं तुर्षञ्च काष्ठञ्च। अन्तर्घनतरभर्द्धशुमिरं परिपूर्य्य दहनमायोज्य। पश्चादयसश्चूर्णं श्लक्ष्णं पङ्कोपनं कुर्य्यात्। त्रिफलाम्बुभृङ्गकेसरशतावरिकाकन्दमानसहजरसैः। भल्लातककरिकर्णच्छदमूलपुनर्नवास्वरसैः। क्षिप्त्वाथ लोहपात्रे मार्ह वा लौहमार्दपात्राभ्याम्। तुल्याभ्यां पृष्ठेनाच्छाद्यान्ये रन्ध्रमालिप्य। तत्पुटपात्रं तत्र श्वभ्रज्वलने निधाय भूयोभिः। माष्ठकरीषतुषैस्तत्संच्छाद्याहर्निशं दहेत् प्राज्ञः। एवं भवभिर्मेषजराजैः पचेत् पुटपाणं। प्रत्येकमेलमेभिर्मिलितै र्या त्रिचतुरान् वारान्। प्रतिपुटनं तत् पिंत्यात् ख्यालीपाकं विधाय तथैव। तादृशि दृशदि न पिंष्यात् विगलद्रजसा तु युज्यते यत्र। तदयसूर्णं पिष्टं दृष्टं घनसूक्ष्मवाससि श्लक्ष्णम्। यदि रजमा सदृशं स्यात् केतक्यास्तर्हि तद्भद्रम्। पुटने स्थालीपाकेऽधिकृतपुरुषे स्वभावरुगधिगमात्। कथितमपि हेयमौषधमुचितमुपादेयसन्धदवि”।

पुटभेद = पु० पुटं संह्णेषं भिनत्ति भिद–अख्। नद्यादेसक्राकारे २ जलावर्त्ते ३ पत्तमे ४ नगरे ५ आतोद्ये च मेदि०।

पुटभेदन = न० पुटानि पात्राणि मिद्यन्तेऽत्र गिद–आधारे ल्युट्। गगरे अमरः।

पुटापुटिका = स्त्री पूर्वं पुटा संश्चिष्टा पश्चात् अपुटिका शा० त०। पूर्वं संश्लिष्टायां पश्चात् असंश्चिश्चिष्टायाम्।

पुटालु = पु० पुट संश्लिष्ट आलुः। कोखकन्दे राजनि०।

पुटिका = स्त्री पुटमस्त्यस्याः ठन्। एलायां हारा०।

पुटित = त्रि० पुटोजातोऽस्य पुट + इतच्। आद्यन्तयोः मन्त्रमेदेन पुटाकारतां प्राप्ते १ मन्त्रभेदे यथा (अं राम अ) इत्यादि १ हस्तपुटे न० ३ पाटिते ४ स्यूते च त्रि० मेदि०।

पुटी = स्त्री पुट–क गौरा० ङीष्। १ पक्षादिरचिते पानपात्रभेदे (दोना) भरतः। २ कौपीने जठा०।

पुटोटज = न० पुटं संश्लिमुटजमिव। श्वेतच्छत्रे त्रिकाण्डशेषः।

पुटोदक = पु० पुटं सश्लिष्टमुदकं यत्र, पुटे कपालाकारपात्रभेदमध्ये उदकं वा यस्य। नारिकेले हारा०।

पुट्ट = अनादरे चु० उभ० सक० सेट्। पुट्टयति–ते अपुपुट्टत्–त।

पुड = मर्दने भ्वा० पर० सक० सेट् इदित्। पुण्डति अपुण्डीत्।

पुण = धर्माचरणे तु० पर० सक० सेट्। पुणति अपोणीत् पुपोण।

पुण्ड = पु० पुडि–अच्। तिलके जटा०।

पुण्डरिन् = पु० पुण्डं तिलकमृच्छति ऋ–णिनि शक०। (पुण्डरिया) ख्याते शालपर्णीतुल्यपत्रे क्षुपभेदे शब्दर०।

पुण्डरीक = न० पुडि–ईक नि०। १ श्वेतपद्मे २ अग्निकीणस्थे ३ दिग्गजे पु० ४ व्याघ्रे पुंस्त्री० अमरः स्त्रियां जातित्वात् ङीष्। ५ श्वेतपत्त्रे ६ भेषजे च न०। ७ आम्रे ८ राजिलसर्पे ९ हस्तिज्वरे पु० हेमच०। १० दमनकवृक्षे राजनि०। ११ कमण्डलौ १२ श्वेतवर्णे अनेकार्थकोषः १३ श्वेतवर्णवति त्रि० १४ कुष्ठभेदे पु०। “सश्वेतं रक्तपर्य्यन्तं पुण्डरीकदलोपमम्। सोत्सेधञ्च सरागञ्च पुण्डरोकं प्रचक्षते” माधवकरः। १५ कोषकारभेदे पु० मेदि०।

पुण्डरीकप्लव = पुंस्त्री० पुण्डरीकमिव प्लवते जले प्लु–अच्। सुश्रुतोक्ते संघातचारिणि खगभेदे स्त्रियां जातित्वात् ङीष्।

पुण्डरीकमुखा = स्त्री पुण्डरीकमिव मुखं यस्याः। निर्विषे जलायुकाभेदे सुश्रुतः।

पुण्डरीकाक्ष = पु० पुण्डरीकमिवाक्षि यस्य पच् समा० हृदय पुण्डरीकम् अक्ष्णोति अक्ष–व्याप्तौ अण् उप० स० वा। १ विष्णौ “अमोचः पुण्डरीकाक्षः” विष्णुसं० “हृत्पुण्डरीकपुरमध्यसंस्थितम्” श्रुतेस्तस्य तथात्वम् भाष्यम्। २ पुण्डर्य्ये (पुण्डरिया) ख्याते क्षपे शब्दच०।

पुण्डरीयक = न० पुण्डरीवाचरति पुण्डरिन् + आचारे क्यच् ततः ण्वुल्। १ स्थलपद्मे शब्दच० २ प्रपौण्डरीके राजनि०

पुण्डर्य्य = न० पुण्डयति पुडि–खण्डने अच् तस्यार्य्यं प्रधानम् शक०। (पुण्डरिया) ख्याते शालपर्णीतुल्यपत्त्रे क्षुपभेदे अमरः।

पुण्ड्र = पु० पुडि–भेदने रक्। (पु~डिया) १ इक्षुभेदे अमरः। इक्षुशब्दे दृश्यम् ऊर्द्ध्वपुण्ड्रकादौ इक्षुभेदतुल्याकारतया प्रयोगः २ देत्यभेदे ३ अतिमुक्तके ४ चित्रके ५ कृमौ ६ पुण्डरीके ७ देशभेदे पु० मेदि०। स च देशः वृ० १४ अ० उदयगिरिभद्र गौडकपौण्डोत्कलकाशिमेखलास्वष्ठाः” पूर्वस्यामुक्तः। तेन तस्य प्राक्स्थत्वात् नगरान्तत्वे द्विपदवृद्धिः पौण्ड्रनागर तत्र भवे त्रि० “पुण्ड्रः कलि- ङ्गश्च तथा बाले च क्षत्रमुच्यते” हरिवं० ३१८ अ० सोऽभिजनोऽस्य तस्य राजा वा अण्। पौण्ड्र पित्रादिक्रमेण तद्देशवासिनि तन्नृपे च। बहुत्वे तस्य लुक्। “सूतैर्मागधपुण्ड्रैश्च गीयमानस्ततस्ततः” हरिवं० ३११ अ०। ८ तिलकवृक्षे हेमच०। ९ ह्रस्वप्लक्षे राजनि०। स्वार्घे क। पुण्ड्रक माधवीलतायाम् अमरः। इक्षुभेदादौ च।

पुण्ड्रकेलि = पु० पुण्ड्रः इक्षुभेदः केलिः केलिसाधनमस्य गजे शब्दमाला। तस्य इक्षुप्रियत्वात् तथात्वम्।

पुण्य = न० पू–डुण्य। १ शुभादृष्टे धर्मे २ तद्वति त्रि० अमरः। ३ शोभनकर्मान्विते ४ पावने ५ सुन्दरे च त्रि० हेमच० ६ सुगन्धौ त्रि० जटाध०। लग्नावधिके ७ नवमस्थाने ज्यो० त० नील० ता० उक्ते वर्षकालीने ८ सहमभेदे पुण्यसहमशब्दे दृश्यम्। धर्मरूपपुण्यञ्च गङ्गास्नानादिजन्यं कर्मनाशाजलस्पर्शनाश्यञ्च। कीर्त्तनादपि तस्य नाश्यता

“इष्टं दत्तमधीतं वा विनश्यत्यनुकीर्त्तनात्। श्लाघानुशोचनाभ्याञ्च भग्नतेजो विभिद्यते। तस्मादात्मकृतं पुण्यं वृथा न परिकीर्त्तयेत्” शु० त० देवलोक्तेः। यागदानाध्ययनादीनामाशुविनाशित्वात् तज्जग्यं पुण्यमेव विनश्यतीति बोध्यम्। तस्मादात्मकृतं पुण्यमित्युत्तरत्र निर्देशाच्च। तत्र प्रारब्धभिन्नानामेव तत्त्वज्ञाननाश्यत्वम् प्रारब्धपुण्यानां तु भोगादेव क्षयः “क्षीणे पुण्ये मर्त्यलोकं विशन्ति” इति श्रुतेः “तद्यथेह कर्म्मजितो लोकः क्षीयते एवममुत्र पुण्यजिती लोकः क्षीयते” इति श्रुतेः। “पुण्यश्च पुष्करश्चैव आधानाख्यस्तथैव च। श्रुत्यावृत्त्या भवन्त्येते नित्यं द्वादश राशयः” ज्यो० त० उक्ते ९ मेषकर्कटतुलामकरणपे राशौ पु०।

पुण्यक = न० पुण्याय कायति कै–क। १ पुण्यार्थे उपवासादौ व्रते हरिवं० १३६ अ० उक्ते २ व्रतभेदे। अन्यच्च ३ ण्यकव्रतं ब्रह्मवै–पु० ३४ अ० उक्तम् दृश्यम्। २ विष्णौ पु० “पूर्णः पूरगिता पुण्यः” विष्णुस०। “स्मरणेन सर्वेषां पापनाशनेन पवित्रतासाघनत्वात् पुण्यः” भाष्यम्।

पुण्यकर्म्मन् = न० पुण्यजनकं कर्म। १ पुण्यजनके कर्मणि। पुण्यं कर्म यस्य। २ पुण्यकर्मकारिणि त्रि० भा० शा० २९९ अ०।

पुण्यकाल = पु० पुण्यनिमित्तं कालः कालगेदः। रवेः श्थिरसंक्रान्तौ रव्यादीनां चलसंक्रान्तो च विहितस्वानदानादौ पुण्यजगके कालभेदे तत्र रवेः स्थिरसंक्रान्तिपुण्यकालनिर्णवः सू० सि० रङ्ग० दर्शितो यथा “अर्कमानकलाः षष्ट्या गुणिताभुक्तिभाजिताः। तदर्द्धनाड्यः संक्रान्तेरर्वाक् पुण्यं तथापरे” सू० सि० “सूर्यस्य विम्बप्रमाणकलाः षष्ट्या गुणिताः सूर्यगत्या भक्तास्तस्य फलस्यार्द्धं तत्सङ्ख्याका घटिका इत्यर्थः। संक्रान्तेः सूर्यस्य राशिप्रवेशकालादित्यर्थः। अर्वाक् पूर्वं पुण्यं स्नानादिधर्मकृत्ये पुण्यघटिकाः पुण्यवृद्धिकारिकाः। अपरे संक्रान्त्युत्तरकाले तथा स्नानादिधर्मकृत्ये पुण्यवृद्धिदा इत्यर्थः। अत्रोपपत्तिः। सूर्यबिम्बकेन्द्रस्य राश्यादौ सञ्चरणकालः संक्रमणकालस्तस्य सूक्ष्मत्वेन दुर्ज्ञेयत्वात् स्थूलकालः कोऽप्यभ्युपेयः स तु राश्यादौ विम्बसञ्चरणरूपोऽङ्गीकृतो बिम्बसम्बन्धात्। अतः सूर्यगत्या यदि षष्टिसावनघटिकास्तदा सूर्यबिम्बकलाभिः का इत्यनुपातानीता विम्बघटिकाः संक्रान्तिकालः स्थूलः प्राङ्नेमिसञ्चरणकालात् पश्चिमनेनिसञ्चरणकालपर्यन्तं तदर्द्धघटिका व्यासार्द्धघटिका इति संक्रान्तिकालात् ताभिः पूर्वमपरत्र काले व्रागगरनेम्योः क्रमेण सञ्चरणात् पूर्वोत्तरकाले पुण्या इति” रङ्ग०। स च सौरमाणेन “सौरेण द्युनिशोर्वामम्” इत्युपक्ररे “संक्रान्तेः पुण्यकालता” इति तत्रोक्तेः। तत्र संक्रान्तिविशेषे कालविशेषस्य पुण्यपुण्यतरत्वादिकं सप्रपञ्चं कालमाधवीये निर्णीतं यथा शातावपः “संक्रान्तौ यानि दत्तानि हव्यकव्यानि दातृभिः। तानि नित्यं ददात्यर्कः पुनर्जन्मनि जन्मनि। रविसंक्रमणे पुण्ये न स्नायाद् यदि मानवः। सप्तजन्मसु रोगी स्याद्दुःखभागीह जायते” इति। स्नानदानाद्यङ्गभूते संक्रान्तिकाले मुख्यकल्पस्यासम्भवादनुकल्पएवादर्त्तव्यः। तदाह देवलः “संक्रान्तिसमयः सूक्ष्मो दुर्ज्ञेयः पिशितेक्षणैः। तद्योगादप्यधश्चोर्द्ध्वं त्रि शन्नाड्यः पवित्रता” इति देशाव्यवधानादत्यन्तसंश्लिष्टयोः पूवोत्तरराश्योर्मध्ये सूर्यः पूर्वराशिं परित्यज्य यावत्कालभेदेनोत्तरराशिं प्रविशति स लेशो योगदृष्टिं विना मांसदृष्ट्या दुर्लक्ष्यः। अतोऽनुष्ठाने मुख्यसंक्रान्तिकालासम्भवात् सक्रान्तिसम्बन्धिनौ पूर्वोत्तरकालौ ग्रर्हातव्यौ। संक्रान्तेः पूर्वोत्तरयोरेकैकस्मिंस्त्रिंशत् घटिकाः पुण्या इति सामान्थेनोक्तम् तत्र विशेषमाह वृद्धवसिष्ठः “अतीतानागते पुण्ये द्वे उदग्दक्षिणायने। त्रिंशत्कर्कष्टके नाड्यो मकरे विंशतिः स्मृताः” इति। उदगयनमतीतं सत्पुण्य भवति। दक्षिणायनमनागतं पुण्यं त्रिशदित्यादिना तदेव स्पष्टीक्रियते कर्कटाख्याद्दक्षि- णायनाद् प्राचीनास्त्रिंशद्घटिकाः पुण्याः। मकरा ख्यादुत्तरायणादूर्द्ध्वकालीना विंशतिघटिकाः पुण्याः। वृहस्पतिरपि “अयने त्रिंशतिः पूर्वा मकरे विंशतिः पराः। वर्त्तमाने तुलामेषे नाड्यस्तूभयतो दश” इति वचनात्। न चात्र त्रिंशद्घटिकावादिना सामान्यवचनेन विरोधः शङ्कनीयः सामान्यवचनस्याभ्यनुज्ञापरत्वात् विशेषवचनोक्तो घटिकासङ्कोच एव प्रशस्तः। “यायाः सन्निहिता नाड्यस्तास्ताः पुण्यतमाः स्मृताः” इति देवलेनोक्तत्वात्केनापि निमित्तेन सन्निहितघटिकास्वनुष्ठानासम्भवे त्रिंशद्वटिकाः परा अवधित्वेनानुज्ञायन्ते। षडशीतिषु ततोऽपि दीर्घमवधिमाह वृद्धबसिष्ठः “षडशीत्यामतीतायां षष्टिरुक्तास्तु नाडिकाः” इति। विष्णुपद्यां प्रशस्तकालं स एवाह “पुण्यायां विष्णुपद्यां च प्राक् पश्चादपि षोडश” इति संक्रान्तीनां पूर्वोत्तरौ पुण्यकालौ निर्णीतौ। ताश्च संक्रान्तयः कदाचिदह्नि भवन्ति कदाचिद्रात्रौ भवन्ति तद्भेदादनुष्ठानभेदमाह वृद्धवसिष्ठः “अह्नि संक्रमणे पुण्यमहः कृत्स्नं प्रकीर्त्तितम्। रात्रौ संक्रमणे भानोर्दिनार्द्धंस्नानदानयोः। अर्द्धरात्रादधस्तस्मिन् मध्याह्नस्योपरि क्रिया। ऊर्द्ध्वं संक्रमणे चोर्द्ध्वमुदयात् प्रहरद्वयम्। पूर्णे चेदर्द्धरात्रे तु यदा संक्रमते रविः। प्राहुर्दिनद्वयं पुण्यं मुक्त्वा मकरकर्कटौ” इति। अह्नि यदा संक्रान्तिर्भवति तदा कृत्स्नस्याह्नः पुच्यष्वम्। रात्रौ संक्रमणे पूर्वोत्तरदिनार्द्धयोः पुण्यत्वं विदधता वचनेनार्थाद्रात्रौ स्नानदानादिकं प्रतिषिध्यते। एवं सत्युदयानन्तरभाविनि दक्षिणायने पूर्वभागे प्राशस्त्यं वाधित्वोत्तरभागेऽनुष्ठानं भवति। अस्तमयप्राचीनक्षणभाविन्युत्तरायणे चोत्तरभागप्राशस्त्यं परित्यज्य पूर्वभागेऽनुष्ठातव्यम्। उत्तरभागप्राशस्त्यं तु मध्याह्नादिसंक्रमणबिषयम्। तत्राह न्येव हेयोपादेवयो पूर्वोत्तरभागयोः सम्भवात्, दअनेनैव न्यायेन कर्कटेऽपि मध्याह्नभाविनि पूर्वभागप्राशस्त्यं भवति अस्तमथप्राचीनभाविषु षडशीतिमुखेष्वप्युत्तरमागप्राशस्त्यं परित्यज्य मकरन्थायेन पूर्वमागप्राशस्त्यं विधातव्यम्। उदयानन्वरभाविषु वचनान्तराविरोधेनोश्चरभाग एवानुष्ठानसम्भवात् तद्धिरुद्धं पूर्वभागप्राशस्त्यं न विधीयते। उभयभानप्राशस्त्योपेतेषु विषुवद्विष्णुपदेषु मध्याह्वभाविषु पूर्वत्रोत्तरत्र वा स्वेच्छयानुष्ठातव्यम्। उदयानन्तरभाविषु तेषु पूर्वभागप्राशस्त्यं वाध्यते अस्त मयप्राप्तषु तेषु उत्तरप्राशस्त्यं वाध्यते इति विवेकः। एतद्वचनानुसारेण यस्य संक्रमणस्य यस्मिन् भागेऽनुष्ठानं तस्मिन्नेव भागे व्यवहिता नाद्ध्यः पुण्याः ईषत्सन्निहिताः पुण्यतराः अत्यन्तसन्निहिताः पुणतमा द्रष्टव्याः। यदा रात्रौ भानोः संक्रमणं भवति तदा तस्या रात्रेः पूर्वस्य चोत्तरस्य वा दिनस्यार्द्धप्रहरद्वयं स्लानदानयोः पुण्यम्। कुत्रपूर्वदिनं कुत्र परदिनमिति विचित्सायां तदु~भयमर्द्धरात्रादिति वचनेन व्यवस्थाप्यते। अर्द्धं रात्रेः अर्द्धरात्रः, द्वितीयप्रहरस्य चरमघटिका तृतीयप्रहरस्य प्रथमथटिकेत्येवं घटिकाद्वययुक्तः कालस्तस्मादर्द्धरात्रादधः संक्रमणे सति पूर्द्धदिनमध्याह्नस्योपरितने प्रहरद्वये क्रिया कार्या। अर्द्धरात्रादूर्द्ध्वं संक्रमणे सति उत्तरकालीनादुदयादूर्द्ध्वं प्रहरद्वयं पुण्यं पूर्णेऽर्द्धरात्रे षटिका द्वये संक्रान्तौ पूर्वोत्तरदिमद्वयं कृत्स्नं पुश्च्यम्। तदुक्तं भविष्योत्तरे “संक्रमस्तु विशीषे स्यात् षङ्यामाः पूर्वपश्चिमाः। संक्रान्तिकालो विज्ञेयस्तत्र स्नानादिकं चरेत्” इति। अत्वेयं व्यवस्था। अर्द्धरात्रे यदा षडशीतिस्तदानीमेतद्वचमानुसारेण पूर्वोत्तरदिनद्वयस्य पुण्यत्वात् यद्यप्यैच्छिको विकल्पः प्राप्नोति। तथाप्युत्तरदिने षष्टिघटिकाप्रतिपादकपातिस्विकवचमानुग्रहलाभा त्तत्रैवानुष्ठातव्यम्। विषुवतोविष्णु पदेषु च प्रातिस्विकवचनं न नियामकम्, तस्य वचनस्य पूर्वोत्तरभागयोः साम्येन प्राशस्त्यप्रतिपादकत्वात्। प्रकृतं वचनं पूर्वोत्तरदिन साम्येन विधत्ते। तस्मात् पूर्वण्डिन्नुत्तरस्मिन् वा स्तेच्छयानुष्ठानमिति विकल्प्यते। अयनयोऽस्तु प्रकारान्तरं वक्ष्यते। अयनव्यतिरिक्तासु दशसु संक्रान्तिषु मध्यरात्रःदूर्द्ध्वं प्रवृत्तासु परेद्युरनुष्ठानमित्यत्रापि नास्ति सन्देहः। थडशीत्यान्तु प्रकृतवचनेन पूर्वेद्युरनुष्ठानं प्राप्तम्। पष्टिघटिकाप्राशस्त्यप्रतिपादकप्रातिस्विकवचनेन परेद्युः प्राप्नोति। अतः सन्देहे सति पूर्वेद्यु रमुष्ठानमिति निर्णयो द्रष्टव्यः। कुतः “विष्णुपद्यां धनुर्मीननृयुक्कन्यासु वै तदा। पूर्वोत्तर्गतं रात्रौ भानोः संक्रमणं भवेत्। पूर्वाह्णे पञ्च नाड्यस्तु पुण्याः प्रोक्ता मनीषिभिः। अपराह्णे तु पञ्चैव श्रौते स्मार्त्ते च चर्मणि” इति स्मृतेः। यदा रात्रौ पूर्वभागभतं विष्णुपदी षडशीतिसंक्रमर्ण भवेत्। तदा पूर्वेद्युरपराह्णे पञ्च नाड्यः पुण्याः उत्तरभागगते संक्रमणे परेद्युः पूर्वाह्णे पञ्च नाड्य पुण्याः। न चैवं सति प्रहरद्ववपुण्य- त्वविरोघ इति वाच्यम्। पञ्चनाडिकावचनैषु पुण्याधिक्यस्य विवक्षितत्वात्। अतः प्रहरद्वयवाक्यं पुण्यमात्रामिप्रायम्। एतस्मिन्नेव विवये देवीपुराणे पुठ्यते “असंपूर्णेऽर्द्धरात्रे तु उदयेऽस्तमयेऽपि च। मानार्द्धं भास्करे पुण्यमपूर्णे शर्वरीदले। अर्द्धरात्रे त्वसपूर्णे दिवा पुण्यमनागतम्। सपूर्णे उभयोर्ज्ञेयमतिरिक्ते परेऽहनि” इति। भास्करशब्देन सूर्ययुक्तं दिनमपलक्ष्यते। यद्धा भास्करशब्दो न सूर्ये रूढः किन्तु तौगिकः भासं करोतीति व्युत्पत्तिसम्भवात्। तथा च सूर्य इव भास्करशब्दो दिनेऽपि मुख्यः तस्यापि भासं प्रत्यधिकरणकारकत्वेन कर्तृत्वात्। भास्करे दिवसे विद्यमानं प्रहरचतुष्टयं तस्यार्द्धं प्रहरद्वयम् आदित्यास्तमयस्योपरितन आगामिसूर्य्योदयात् प्राचीनः कालो रात्रिः। उदयोपरि अस्तमयात् प्राचीनः कालो दिनर। उदयास्तमयकालौ सन्धिरूपतया प्रोक्ताभ्यां रात्रिदिवसाभ्यां पृथगित्येके। रेस्यामात्रस्यापि सूर्यमण्डलांशस्य दृश्यमानतया दिवसान्तःपातिनावित्यपरे। सर्वथापि न रात्रौ तयोरन्तर्भावः। सा च रात्रिस्त्रेधा भिद्यते मध्यवर्त्तिघटिकाद्वयात्मक एको मागस्तस्मात् पूर्वोत्तक्षौ द्वौ भागौ। तत्र पूर्वभागे संपूर्णेऽर्द्धरात्र इत्यनेन विवक्ष्यते तस्मिन् यदा संक्रान्तिस्तदानीं सूर्य्यास्तमये प्रत्यासन्नं यत् पूर्वदिनस्योत्तरार्द्धं तत्पुण्यम्। अपूर्णे शर्वरीदल इत्यनेनार्द्धरात्रादनन्तरभावी रात्रिभागो विवक्षितः। पूर्वोत्तरदलयोरेकैकस्यापि वटिकाया अर्द्धरात्रकालार्द्धस्य पृथक् कृतत्वादसंपूर्त्तिरवगन्तम्बा। तस्मिन् घटिकाऽन्यूने परभागे यदा संक्रान्विस्तदानीं भाविसूर्योदये प्रत्यासन्नं दिनार्द्धं पुण्यम्। अयमेवाथो द्वितीयश्लोके प्रपञ्च्यते। घटिकान्यूनत्वेनासम्पूर्णार्द्धरात्रे पूर्वभागे यदा संक्रसणं भवति तदा यद्यपि दिवासंक्रमणमनागतं तथापि तस्य दिवसस्य उत्तरार्द्धे पुण्यं यदा सम्पूर्णेऽद्धरात्रे घटिकाद्वयात्मके निशीथे संक्रमणं मवेत्तदानीं पूर्वोत्तर्योर्दिनयोः पुण्यं ज्ञेयम्। अतिरिक्ते परभागे संक्रान्तौ परेऽहनि पूर्वार्द्धं पुण्यम्। देवलोऽपि “आसन्नसंक्रम पुण्यं दिनार्द्धं स्नानदानयोः। रात्रौ संक्रमणे भानीर्विषुवत्ययने दिने” इति। अयमर्थः। रात्रौ भानोः संक्रमणं विषुवन्नामके जाते सति संक्रमणप्रत्यासन्नदिनार्द्धं पुण्यम् पूर्वरात्रसंक्रापखे पूर्वदिनखोत्तरार्द्धं पुण्यम्। अपररा- त्रसंक्रमणे परदिनख पूवर्द्धिमित्यवगन्तव्यम्। अयने प्ययननामके भानोः संक्रमणे दिया जाते सति यथायोनं तद्दिनार्द्धं तु पुण्यं द्रष्टव्यम्। कर्कटे पूर्वार्द्धं मकरे उत्तरार्द्धम्। एतच्च मध्यंदिनायगविषयम्। उदयास्तमयप्रत्थासन्ने अयने पूर्वोत्तरभागप्राशस्त्ययाधया कृत्स्नदिवलपुण्यत्वनिर्णवः पूर्वमेवोक्तः। अयनव्यतिरिक्तेषु दशसु संक्रमणेषु रात्रिगतेषु यो निर्णयस्तं सर्वं पुर्युदसितुं तद्वचःशेषः “मुक्त्वा मकरकर्कटायिति वर्णितः। “यायाः सन्निहिता नाड्यस्तास्ताः पुण्यतमाः स्मृताः” इत्युक्तेन सामान्ववणनेन रात्रिसंक्रमणेषु राघावेबानुष्ठानं प्रसक्तं तदपोह्य दशसु संक्रान्तिषु दिवानुष्ठानं विधाय मकरकर्कटयोस्तत्पर्युदासे सति पूर्वप्रसक्तं रात्रावनुष्ठानमेव पर्य्यवस्यति। एवं सति रात्रौ स्नानमभ्युपगच्छतो याज्ञवल्क्यवचनस्यापि कश्चिद्विषयः सम्पद्यते। तथा च याज्ञवल्क्यः “राहुदर्शनसंक्रान्तिविवाहात्ययवृद्धिषु। स्नानदानादिकं कार्य्यं निशि काम्य प्रतेषु च” इति। सुमन्तुरपि “रात्रौ स्नानं न कुर्वीत दानं चैव विशेषतः। नैमित्तिकं च कुर्वीत स्नानं दानं च रात्रिषु। यज्ञे विवाहे यात्रायां तथा पुस्तकवाचने। दानान्येतानि शस्तानि रात्रौ देवालये तथा। ग्रहणोद्वाहसंक्रान्तियात्रार्त्तिप्रसवेषु च। श्रवणे चेतिहासस्य रात्रौ दानं प्रशस्यते” इति। ननु यथोक्तपर्युदासानुगृहीतैः पुण्यतमत्ववादिदेवलयाज्ञवल्क्यसुमन्तु वक्षनैर्मकरकर्कटयोर्निश्यनुष्ठानप्रापणं शास्त्रान्तरेण विरद्वम्। तथा च भविष्योत्तरे “मिथुने कर्कसंक्रान्तिर्यदि स्यादंशुमालिनः। प्रभाते वा निशीथे वा कुर्य्यादहनि पूर्वतः कार्मुकं तु परित्यज्य ऋषं (मकरम्) संक्रमते रविः। प्रदोषे चार्द्धरात्रे वा स्नानं दानं परऽहनि” इति। वृद्धगार्ग्वोऽपि “यदास्तमयवेलायां मकरं याति भास्करः। प्रदोषे चार्द्धरात्रे वा स्नानं दानं परेऽहनि” इति। “अर्द्धरात्रे तदूर्द्ध्वं वा संक्रान्तौ दक्षिणायने। पूर्वसेव दिनं ग्राह्यं यावन्नोदयते रविः” इति। भविष्योत्तरवृद्धगार्म्यवचनेषु रात्र्यनुष्ठानप्रतिषेषस्याप्रतीतेर्दिवसानुष्ठानप्रतिषेधकल्पने पर्युदासागुगृहीतवचनानामानर्थक्यं प्राप्नोति। तस्माच्छास्त्रद्वयेन विकल्पप्राप्तौ तत्तद्देशप्रसिद्धशिष्टाचारेण व्यवस्था द्रष्टव्या”। अयनसंक्रान्विशब्दे च ३४० पृ० रव्यादिग्रहाणां चलसंकान्तेः पुण्यकालता दर्शिता।

पुण्यकीर्त्तन = पु० पुण्यं पुण्यजनलं कीर्त्तनं यस्य। १ विष्णौ “पुण्यश्रवणकीर्त्तमः” विष्णुसं०। २ पुण्यजनसकीर्त्त नयुक्ते त्रि० ६ त०। ३ पुण्यकथने न०। पुण्यश्रवणोऽपि विष्णौ।

पुण्यकीर्त्ति = पु० पुण्या कीर्त्तिर्थस्य। १ पूर्ण्यष्मोके यस्य कौर्त्तने पुण्यं जायते तस्मिन्। कर्म०। २ पुण्यजनिकायां कीर्त्तौ च।

पुण्यकृत् = त्रि० पुण्यं कृतवान् कृ–भूते क्विप् “सुकर्मपापमन्त्रपुण्येषु कृञः” पा० त्रिविधः नियमः क्किवेवेति नियमात् कर्म कृतवानित्र्यत्राऽण् न। कृञ एवेति नियमान्मन्त्रमधीतवान् मन्त्राध्यायः अत्र न क्विप्। भूत एवेति नियमात् मन्त्रं करोति करिष्यति येति विवक्षायान्न क्विप्। स्वादिष्वेवेति नियमाभावादन्यस्मिन्नप्युपपदे क्विप्। शास्त्रकृत् भाष्यकृत्” सि० कौ०। धर्मं कृतवति।

पुण्यक्षेत्र = न० पुण्यस्य क्षेत्रम्। पुण्यभूमौ आर्य्यावर्त्ते हला०

पुण्यगन्ध = पुण्यः सुन्दरः गन्धो यस्य। चम्पके त्रिका०।

पुण्यगन्धि = त्रि० पुण्यः शुभावहः गन्धोलेशोऽस्य इत्समा०। शुभावहलेशयुक्ते भा० उ० १८२ अ०।

पुण्यजन = पुंस्त्री० पुण्यः विरुद्धलक्षणया पापी जनः कर्म०। १ राक्षसे अमरः। २ यक्षे मेदि० स्त्रियां जातित्पात् ङीष्। ३ सज्जने पु० मेदि० ४ दशसु प्राश्चेतसेषु पुत्रेषु “दश प्राचेतसाः पुत्राः सन्तः पुण्यजनाः स्मृताः” भा० आ० ४५ अ०।

पुण्यजनेश्वर = पु० ६ त०। कुवेरे अमरः।

पुण्यजित = पु० पुण्येन जितः आयत्तीकृतः। चन्द्रलोकादौ “एवममुत्र पुण्यजितो लोकः क्षीयते” श्रुतिः।

पुण्यतृण = न० नित्यकर्म०। श्वेतकुशे राजनि०।

पुण्यदर्शन = पुंस्त्री पुण्यं दर्शनमस्य। १ चाषखगे राजनि०। स्त्रियां जातित्वात् ङीष्। यस्य दर्शने पुण्यं भवति तस्मिन् २ देवप्रतिमादौ त्रि०।

पुण्यनामन् = पु० १ कुमारानुचरभेदे भा० श० ४६ अ०। २ पुण्यसाधननामके त्रि० स्त्रियां वा ङीप्।

पुण्यफल = पु० पुण्यानि शुभानि फलान्यस्य। १ लक्ष्म्यावासेवनभेदे शब्दमा० कर्म०। २ पुण्यरूपे फले न० मनुः ३९। ५

पुण्यभाज् = त्रि० पुण्यं भजते भज–ण्विल् उप० स०। पुण्ययुक्ते

पुण्यभूमि = स्त्री पुण्यस्य पुण्योत्पादनार्था भूमिः। आर्यावर्त्तदेशे अमरः। “आ समुद्रात्तु वै पूर्वादा समुद्रात्तु पश्चिमात। तयोरेवान्तरं गिर्योराय्यविर्त्तं विदुर्बुधाः” मनुना तरु सीमोक्ता। (तयोर्विन्ध्यहिमाचलयोः)। पुण्यभूप्रभृतयोऽप्यत्र।

पुण्यरात्र = पु० पुण्या रात्रिः अच् समा० रात्रान्तत्वात् पुंस्त्वम्। पुण्यायां रात्रौ।

पुण्यलोक = पु० पुण्यप्राप्योलोकः शा० त०। १ पुण्येनप्राप्ये चन्द्रलोकादौ कर्म०। २ धर्मिष्ठजने च।

पुण्यवत् = त्रि० पुण्य + भूमार्थे मतुप् मस्य वः। बहुपुण्ययुक्ते अमरः। स्त्रियां ङीप्।

पुण्यशकुन = न० पुण्यसूचकं शकुनम्। १ शुभसूचके शकुने साध्यतया तदस्यास्ति अच्। २ तत्साधने त्रि० “मयूराः पुण्यशकुनाः हंससारसचातकाः” भा० उ० १४२ अ०।

पुण्यशील = त्रि० पुण्यं शीलयति शील–अण् उप० स०। नियतपुण्यानुष्ठायिनि।

पुण्यश्लोक = त्रि० पुण्यः पुण्यदायकः श्लोको यशश्चरित्रं वा यस्य। “पुण्यश्लोको नलो राजा पुण्यश्लोको युधिष्ठिरः। पुण्यश्लोका च वैदेही पुण्यश्लोको जनार्द्दनः” इत्युक्तेषु १ नलादिषु। २ पुण्यचरितयुक्तमात्रे च ३ द्रौपद्यां स्त्री शब्दमा० ४ वैदेह्यां स्त्री।

पुण्यसम = अव्य० पुण्यं समं यत्र तिष्ठद्गुप्र० अव्ययी० तुल्यपुण्ये

पुण्यसहम = न० नील० ता० उक्ते सहमभेदे तदानयनप्रकारस्तत्रोक्तो यथा “सूर्योनचन्द्रान्वितमह्नि लग्नं रवीन्दुयुक्तं निशि पुण्यसंज्ञम्। शोध्यर्क्षशुद्ध्याश्रयभान्तराले लग्नं न चेत् सैकभमेतदुक्तम्”। “यत्राव्दे पुण्यसहमे शुभं सोऽव्दः शुभावहः”। अनिष्टेऽस्मिन् शुभं नेति पुण्यमादौ विचारयेत्”।

पुण्यस्थान = न० पुण्यनिमित्तं स्थानम्। १ पुण्योत्पादनसाधने स्थानभेदे २ लग्नावधिके नवमस्थाने च ज्यो०।

पुण्या = स्त्री पु–डुण्य। १ तुलस्यां शब्दमा०। २ पुण्यजनकस्त्रीमात्रे च।

पुण्यात्मन् = त्रि० पुण्य आत्मा यस्य। पुण्यस्वभावे तेषां परलोकगतिप्रकारः पद्मपु० क्रिया० उक्तो यथा “सुप्रज्ञोवाच शृणु विप्र! प्रवक्ष्यामि यत्त्वया श्रोतुमिष्यते। पुण्यात्मनां पापिनाञ्च पन्थानं सुखदुःखदम्। आदौ व्रवीमि पन्यानं नृणां पुण्यवतामहम्। शृणुष्व द्विजशार्दूल! शृण्वतां प्रीतिवर्द्धनम्। प्रस्तरैरिष्टकैर्बद्धो दिव्यवस्नैः समावृतः। भाति पुण्यात्मनां पन्थाः सर्वोपद्रपवर्जितः। क्वचिद्गन्धर्वकन्याभिर्गीयते गानमुत्त मम्। क्वचिन्मञ्जुशरीराभिरप्सरोभिश्च नृत्यते। क्वचिच्च वीणास्तणनं नानावाद्यं मनोहरभ्। क्वचित् कुसुमवृष्टिश्च क्वचिद्वायुः सुशीतलः। कचित् क्वचिद्दीर्घिकाश्च फुल्लषद्मसुशोभिताः। क्वचित्पुण्याः शीततोयाः कुत्रचित् भक्तशालिकाः। क्वचिद्देवाश्च गन्धर्वाः पठन्तस्तवमुत्तमम्। सुच्छायाः पादपाः क्वापि पुष्पिता वञ्जुलादयः। समस्तसुखसम्पन्ने पथि गच्छन्ति मानवाः। पुण्यात्मानो द्विजश्रेष्ठ! सुखमृत्युमवाप्य च। केचित्तुरङ्गमारूढा नानालङ्कारभुषिताः। उद्दण्डधवलच्छत्रैर्गच्छन्त्यावृत मस्तकाः। केचिद्यान्ति गजारूढा रथारूढाश्च केचन। यानारूढा जनाः केचित् सुखेन यममन्दिरम्। केचिद्देवाङ्गनाहस्तन्यस्तचामरवायुभिः। गच्छन्ति वीजिता मर्त्याः स्तूयमानाः सुरर्षिभिः। केचिद्दिव्याम्बरधराः सुचन्दनविभूषिताः। भुञ्जतो यान्ति ताम्बूलं पुण्यात्मानो यमालयम्। निजगात्रत्विषा केचिज्वालयन्तो दिशो दश। व्रजन्ति शमनागारं चलद्गृहनिवासिनः। केचिच्च पायसं दिव्यं भुञ्जन्तो यान्ति सत्तमाः सुधापानं प्रकुर्वन्तः पथि गच्छन्ति केचन। केचिद्दुग्धं पिबन्तश्च केचिदिक्षुरसं तथा। केचित्तक्रं पिवन्तश्च गच्छन्ति यममन्दिरम्। केचिद्दधीनि खादन्तः केचिन्नानाफलानि च। केचिन्मधु पिबन्तश्च पुण्यवन्तो व्रजन्ति वै। ताना गतांस्ततो दृष्ट्वा नरान् धर्मपरायणान्। भास्करिः प्रीति मासाद्य स्वयं नारायणो भवेत्। चतुर्बाहुः श्यामवर्णः प्रफुल्लकमलेक्षणः। शङ्खचक्रगदापद्मधारी गरुडवाहनः। स्वर्णयज्ञोपवीती च स्मेरचारुतराननः। किरीटी कुण्डली चैव वनमालाविभूषित। चित्रगुप्तो महाप्राज्ञश्चण्डाद्या यमकिङ्कराः। सर्वे नारायणाकारा वभूवुर्मधुरोक्तयः। ततः स्वयं धर्मराजस्तान् सर्वान् मनुजोत्तमान्। परमां प्रीतिमासाद्य सित्रवत् पूजयेद्द्विज!। दिव्यैर्वन्यैः फलैश्चैव तेषां पुण्यवतां नृणाम्। भोजनं कारयित्वा तु तानुवाचाथ भास्करिः। यम उवाच “यूयं सर्वे महात्मनो नरकक्लेशभीरवः। निजपुण्य प्रभावेन गम्यतां परमं पदम्। संसारे जन्म संप्राप्य पुण्यं यः कुरुते नरः। स मे पिता स मे भ्राता स मे बन्धुः स मे सुहृत्। इत्युक्ता धर्मराजेन ते सर्वे द्विजसत्तम!। दिव्यं रथं समारुह्य नारायणपुरं ययुः”।

पुण्याह = न० पुण्यमहः टच् समा० अहान्तत्वेऽपि पुण्यसुदिनाभ्यामहः” अमरोक्तेः क्लीवता। पुण्यदिने

पुण्याहवाचन = न० ६ त०। पुण्यदिनस्य विप्रद्वारा वाचने तत्प्रकारः “पुण्याहवाचनं दैवे ब्राह्मणस्य विधीयते। एतदेव निरोऽङ्कारं कुर्य्यात् क्षत्रियवैश्ययोः। सोङ्गारं ब्राह्मणे व्रूयात् निरोङ्कारं महीपतौ। उपांशु च तथा वैश्ये शूद्रे स्वस्ति प्रयोजयेत्” उद्वा० त० यमोक्तः।

पुण्योदका = स्त्री पुण्यजनकं स्नानदानावुदकं यस्याः। नदीभेदे भा० अनु० १३० अ०।

पुत् = न० “निपरणाद्वा पुत्” निरु० पृ–बा० डुति पृष्०। नरकभेदे पुन्नामन्शब्दे तद्धेतुर्दृश्यः।

पुत्त = गतौ सौ० भ्वा० पर० सक० सेट्। पुत्तति अपुत्तीत् पुपुत्त।

पुत्तलक = पु० पुत्त–वा० ल स्वार्थे क। पत्रादिनिर्मिते शवादि प्रतिमूर्त्तिभेदे पर्णनरशब्दे दृश्यम् शुद्धि० त०।

पुत्तली = स्त्री पुत्त–ल गौरा० ङीष्। वस्त्रपत्रमृदादिनिर्मिते (पु~तुल) ख्याते पदार्थे “अमावास्यां समासाद्य मध्यरात्रे बिचक्षणः। पुत्तलीं मृण्मयीं कृत्वा दीपादिभिरलङ्कृताम्” उत्तरकामाख्यातन्त्रम्। स्वार्थे क अतैत्त्वम्। पुत्तालका तत्रार्थे स्त्री।

पुत्तिका = स्त्री पुत् इति शब्दं तनोति तन–ड स्वार्थे क ह्रस्वः अत इत्त्वम्। क्षुद्रमक्षिकायाम् अमरः।

पुत्र(त्त्र) = पु० पू–क्त्र ह्रखश्च पुतो नरकभेदात् त्रायते त्रै–क वा। १ स्वजन्यपुरुषे २ स्वजन्यायां स्त्रियां स्त्री ङीष्। निरुक्ते तु २ ११ अन्या व्युत्पत्तिरुक्ता “पुत्र पुरु त्रायते निपरणाद्वा पुत् नरकं तस्मात् त्रायते वा” पृषो०। “पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुतः। तस्मात् पुत्र इति पोक्तः” मनुः। तेनास्य एकतकारता द्वितकारता च। तस्यापत्यं विदा० अञ्। पात्र तदपत्ये पुंस्त्री० हरितादि० यूनि फक्। पौत्रायण पुत्रस्य यून्थपत्ये पुंस्त्री० राजदन्ता० पतिपशुशब्दाभ्यां समासे पतिपशुशब्दयोः परनि०। पत्युःपुत्रः पुत्रपतिः पशोः पुत्रः पुत्रपशुः। स च गौणमुख्य भेदेन द्वादशविधः द्वादशपुत्रशब्दे १८०१ पृ० दृश्यम् अन्यथापि ते चतुर्विधाः यथा “ऋचसम्बन्धिनः केचित् केचिन्न्यासापहारकाः। रिपवश्च प्रियाश्चेति स्वकर्मवशवर्त्तिनः। मेदैश्चतुर्भिर्जायन्ते पुत्रा मित्राः स्त्रियस्तथा। भार्या पिता च माता च भृत्याः स्वजनबान्धवाः। स्वेन स्वेन हि जायन्ते सम्बन्धेत महीतले। न्यासापहरणं पूर्वं यस्य यस्य कृतं भुवि। न्यासस्वामी भवेत् पुत्रो गुणवान् रूपवान् भूवि। येन चापहृतो न्यासस्तस्य गेहे न संशयः। न्यासापहरणाद्दुःखं स दत्त्वा दारुणं गतः। न्यासस्वामी स पुत्रोऽभून्न्यासापहारकस्य च। गुणवान् रूपवाश्चैव सर्वलक्षणसयुतः। मक्तिञ्च दर्शयेत्तस्य पुत्रो भूत्वा दिने दिने। प्रियवाक्यधरो वापि वहुस्नेहं प्रदर्शयेत्। स्वीयं द्रव्यं समुद्राद्यं प्रीतिमुत्पाद्य चातुलाम। भुक्त्वा तु पोषणात्तेन तदादाय पुनर्व्रजेत्। यथा तेन प्रदत्तं तन्न्यासापहरणात् पुरा। दुःखमेवं महत् कृत्वा दारुणं प्राणनाशनम्। तादृशं तस्य दद्यात् स पुत्रो भूत्वा महागुणैः। अल्पायुषस्तथा भूत्वा मरणं यान्ति ते तथा। दुःखं दत्त्वा प्रयान्त्येवं प्रकृत्यैवं पुनः पुनः। यदाह पुत्र पुत्रेति प्रलापं हि करोति सः। तदा हास्यं करोत्येष कः स पुत्रो हि कस्य च। अनेनापि हृतो न्यासी मदीयः परिचारिणा। द्रव्यापहारोऽपि पिता पूर्वमद्यैव तस्य च। पिशाचत्वं मया दत्तमद्यैव हि दुरात्मनः। द्रव्यापहरणेनापि मम प्राणा गताः किल। दुःखेन महता चैव यथाहं पीडितः पुरा। तथा दुःखं प्रदत्त्वाहं द्रव्यं मुद्राड्यमुत्तमम्। भोगेन सर्वमादाय चिराद्विश्वास्य सौम्यवत्। गतोऽस्मि स्वगृहञ्चाद्य कस्याहं सुत ईदृशः। न चैषोऽपि पिता पूर्बमद्यैव न च कस्यचित्। पिशाचत्वं मया दत्तमद्यैव च दुरात्मनः। एवमुक्त्वा प्रयात्येव तं प्रहस्य पुनः पुनः। प्रयात्यनेन मार्गेण दुःखं दत्त्वा सुदारुणम्। एवं न्यासस्य सम्बन्धात् पुत्राः केचित् भवन्ति वै। संसारे दुःखबहुला दृश्यन्ते यत्र तत्र हि १। ऋणसम्बन्धिनः पुत्रान् प्रवक्ष्यामि तवाग्रतः। ऋणं यस्य गृहीत्वा यः प्रयाति मरणं किल। अतस्तस्य सुतो भूत्वा म्राता वाथ पिता प्रियः। मित्ररूपेण वर्त्तेत अन्तर्दुष्टः सदैव सः। गुणं नैव प्रपश्येत स क्रूरो निष्ठुराकृतिः। जल्पते निष्ठुरं वाक्यं सदैव स्वजनेषु च। नित्यमिष्टं समश्नाति भोगान् भुञ्जीत नित्यशः। द्यूतकर्मरतो नित्यं चौरकर्मणि नित्यशः। गृहाद्द्रव्यं बलाद्धर्त्ता वार्यमाणः प्रकुप्यति। पितरं मातरञ्चैव कुत्सते च दिने दिने। द्रावकस्त्रासकञ्चैव वहु निष्ठुरजल्पकः। वञ्चयित्वैव मुद्राञ्च हृत्वा सुखेन तिष्ठति। जातकर्मादिभिर्बाल्ये द्रव्यं गृह्णाति दारुणः। पुनर्विवाहसंयोगान्नानाभेदैरनेकधा। एवं संक्षीयते द्रव्यं नैवमेतद्ददात्यपि। गृहक्षेत्रादिकं सर्वं ममैव हि न संशयः। पितरं मातरञ्चैव वदत्येवं दिने दिने। सुदण्डैर्मूषलैश्चैव कषाघातैस्तु दारुणैः। मृते तु तस्मिन् पितरि तथा मातरि निष्ठुरम्। निःस्नेहो निर्घृणश्चैव जायते नात्र संशयः। एवांविधास्ततः पुत्रा भवन्ति च महीतले २। रिपुपुत्रं प्रवक्ष्यामि तवाग्रं द्विजपुङ्गव!। बाल्ये वयसि सम्प्राप्ते रिपुवद्वर्त्तते सदा। पितरं मातरञ्चैव क्रीडमानो हि ताडयेत्। ताडयित्वा प्रयात्येवं प्रहस्यैव पुनःपुनः। पुनरायासितं तत्र पितरं मातरं पुनः। सक्रोघो वर्त्तते नित्यं नैरकर्मणि सर्वदा। पितरं मारयित्वा तु मातरञ्च पुनःपुनः। प्रयात्येवं स दुष्टात्मा पूर्णवैरामुभावतः ३। अयातः संप्रवक्ष्यामि यस्माल्लभ्यं भवेत् प्रियम्। जातमात्रः प्रियं कुर्य्याद्गाल्ये गमनक्रीडनैः। वयः प्राप्य प्रियं कुर्य्यान्नातापित्रोरनन्तरम्। भक्त्या सन्तोषयेत् नित्यं तावुभौ परिपालयेत्। स्नेहेन वचसा चैष प्रियसम्भाषणेग च। मृतौ गुरू समाज्ञाय स्नेहेनरुदते पुनः। श्राद्धकर्माणि सर्वाणि पिण्डदानादिकां क्रियाम्। करोत्येवं सुदुःखार्त्तस्तेभ्यो यात्रां प्रयच्छति। ऋणत्रयान्वितः स्नेहान्निर्यापयति निश्चितः। यस्माल्लभ्यं भवेत् कान्तं प्रयच्छति न संशयः। पुत्रो भूत्वा महाप्राज्ञ अनेन विधिना किल ४। उदासीनं प्रवक्ष्यामि तवाग्रे द्विज। साम्प्रतम्। उदासीनेन मावेन स दैव परिवर्त्तते। ददाति नैव गृह्णाति न क्रुध्यनि न तुष्यति। नैवोपयाति संत्यज्य उदासीनो द्विजोत्तम!। तवाग्रे कथितं सर्वं पुत्राणां गतिरीदृशी। यथा पुत्रास्तमा मार्य्या पिता माताथ बान्धवाः। भृत्याश्चान्ये समाख्याताः पशवस्तुरगास्तथा। गजामहिष्यो दास्यश्च ऋणसम्बन्धिनस्त्वमी” पाद्मे भूमिख० ११। १२। तत्रैव १८। २० अ० सुपुत्रलक्षणं यथा “पुत्रस्य लक्षणं पुण्यं तवाग्रे प्रवदाम्यहम्। पुण्यप्रसक्तो यस्यात्मा सत्यधर्मरतः सदा। बुद्धिमान् ज्ञानसम्पन्नस्तंपस्वी वाग्विदांवरः। सर्वकर्मसु सन् धीरो येदाध्ययन तत्परः। सर्वशास्त्रप्रवक्ता च देवब्राह्मणपूजकः। याजकः सर्वयज्ञानां दाता त्यागी प्रियंवदः। विष्णुध्यानपरो नित्यं शान्तो दान्तः सुहृत् पियः। पितृमातृपरो निर्त्य सर्वस्वजनवत्सलः। कुलख तारको विद्वान् कुलस्य परिपोषकः। एवं गुणैः सुसंयुक्तः सुपुत्रः सुखदायकः”।

वैष्णवपुत्रस्य पूर्वपुरुषत्रातृत्वं यथा “वैष्णवो यदि पुत्नः स्यात् त्रायते हि स पूर्वजान्। पितॄनधस्तनान् वंशास्तारयन्ति च पावनाः” कुपुत्रजनने पितृणां नरकगमनं यथा “तथा यदि कुपुत्रः स्यात्तेन मज्जन्ति पूर्वजाः। सुघोरे नरके दीनाः शपन्ति च सहुर्मुहुः। यथा जले कुप्लवेन तरन्मज्जति मूढधीः। तथा पिता कुपुत्रेण तमस्यन्थे निमज्जति। जातमात्रे कुले जन्तो संशेरते पितामहा। किमेषोऽधो नयेदस्यानूर्णं वा वैष्णवो भवन्”। ३ लन्नावपिके सञ्चमस्थाते नीस० ता० वर्षक्षा- लीने ४ सहमभेदे च। पुत्रसहवशब्दे दृश्यम्।

पुत्रक = पु० पुत्त्र + अनुकम्बायां संज्ञायां वा कन् स्वार्थे क वा। १ अनुकम्पितपुत्रे २ पुत्रमात्रे च अष्टापदे ३ शरभे पशुभेदे पुंस्त्री०। ४ धूर्त्ते ५ शैलभेदे ६ वृक्षभेदे च मेदि० ७ पतङ्गे ८ अनुकम्प्यजने च शब्दरत्ना०।

पुत्रकन्दा = स्त्री पुत्र इव स्निग्धत्वात् कन्दोऽस्याः। लक्ष्मणाकन्दायां राजनि०।

पुत्रका = स्त्री पुत्र इव कायति कै–क। औरसतुल्याया पुत्रिकायां शब्दरत्ना०।

पुत्रकाम = त्रि० पुत्रं कामयते कामि–अच् उप० स०। पुत्राभिलाषयुक्त।

पुत्रकाम्या = स्त्री आत्मनः पुत्त्रमिच्छति पुत्र + काम्यच्–भावे अ। आत्मनः पुत्रेच्छायाम् भट्टिः ३। ४२

पुत्रकृथ = पु० कृ + बा० भावे थक् ६ त०। पुत्रस्योत्पादने ऋ० ५। ६१। ३।

पुत्रघ्नी = स्त्री पुत्रं हन्ति हन–टक्। सुश्रुतीक्ते योनिरोगभेदे “स्थितं स्थितं हन्ति गर्भं पुत्रघ्नी रक्तसंस्ववात्”।

पुत्र(त्त्र)जग्धी = स्त्री पुत्रो जग्धोयया ङीष्। “वा हतजग्धयोः” वार्त्ति० तकारस्य वा द्वित्वम्। पुत्रभक्षणकर्त्त्यां स्त्रियां तथा पुत्र(त्त्र)हतीशब्देऽपि वा तस्य द्वित्वं ङीप् च। सा च पुत्रहन्त्यां स्त्रियां स्त्री।

पुत्रजीव = पु० पुत्त्रं गर्भं जीवयति जीव–अण् उप० स०। (जि~यापुता) वृक्षे “पुत्त्रजीवो हिमो वृष्यः श्लेष्मदो गर्भजीवनः। चक्षुष्यः पित्तशमनः दाहतृष्णानिवारकः” राजनि० “पुत्त्रजीवो गुरुर्वातकारी वृक्षो मतो बुधैः। सृष्टमूत्रमलः स्वादुः पटुः कटुरपि स्मृतः” भावप्र०।

पुत्रञ्जीवक = पु० पुत्रं गर्भं जोवयति जीव + बा० ण्वुल्। पुत्रजीववृक्षे रत्नमा०।

पुत्रदा = स्त्री पुत्रं गर्भं ददाति सेवनात् दा–क। १ बन्ध्याकर्मट्यां २ लक्ष्मणाकन्दे च राजनि० गर्भधारके त्रि०।

पुत्रदात्री = स्त्री पुत्त्रं ददाति दा–तृच् ङीप्। माकवे प्रसिद्ध लताभेदे “पुत्रदात्री वातकफकटूखनाशिनी मता। सुरमिः सर्वदा पथ्या बन्ध्यादोषविनाशिनी” राजनि०।

पुत्रपौत्र = न० गवाश्वादि० समा० द्व०। पुत्रपौत्रयोः समाहारे तदनुभवति ख। पुत्त्रपौत्त्रीण पुत्रपौत्रपर्य्यन्तगामिनि भट्टिः ५।१५।

पुत्रप्रदा = स्त्री पुत्त्रं प्रददाति प्र + दा–क। १ क्षविकायां क्षुपभेदे राजनि० २ पुत्रदातृमात्रे त्रि०।

पुत्रप्रिय = पु० ६ त०। अगभेदे भा० व० १०८ अ०।

पुत्रभद्रा = स्त्री पुत्रस्य भद्रं यस्याः ५ ब०। वृहज्जीवन्त्याम् लतायां राजनि०।

पुत्रभाव = पु० पुत्रस्य भावः। १ पुत्रत्वे ज्योतिषोक्ते २ पञ्चमे भावे द्वादशभावशब्दे ३८०२ पृ० दृश्यम्। तत्र ग्रहादिस्थित्यादिफलादि जातकपद्धतातुक्त यथा “शुभखगवसतिः सुतालयश्चेच्छुभसहितः शुभवीक्षितोऽपि वा स्यात्। कथयति शुभसन्ततिं नराणां स च विपरीतफलः खलस्य योगात्। चन्द्राद्विलग्नादपि पुत्रभावे वर्गी यदैकोऽपि च गीष्पतेः स्यात्। तदा वदेदौरसमेव पुत्रं बलावलोकस्य हि तारतम्यात्। तनौ धने वा सहजे विलग्ननाथे सुतः स्यात् प्रथमं चतुर्थे। पुत्री भवेत्तत्परतश्च पुत्रात् द्विकन्यकानां जननप्रदः स्यात्। चन्द्रभौमभृगवोद्विदेहगा आदिमे वयसि सन्ततिप्रदाः। ते पुनर्धनुषि नान्तिमे तथा प्राचि सन्ततिकरा मता विदाम्। सन्तानभावे ग्रहदृष्टियोगो नवांशयोगोऽप्यथ वाङ्कयोगः। यावन्मितः स्यात् खलु तत्प्रसंख्या स्यात् सन्ततिस्तत्पनवांशतो वा। अपत्यसंख्या सुतभे नवांशाद्वाच्या द्विनिघ्ना शुमदृष्टियोगात्। शुभांशतो जीववती च कष्टा पापांशतः पापखगप्रदृष्टेः। कलिवित्क्रूरकवयः कर्माम्बुद्विकलत्रगाः। क्रमात् कुर्वन्ति मनुजं तोककौतुकवर्जितम्। कविकलानिघिवर्गयुते सुते कविकलानिघियुक्तनिरीक्षिते। समभवर्गगते खलु कन्यका विषमभे तु सुतान् प्रदिशन्ति हि। दासीभवान्यपत्यानि सितांशे सुतभावगे। सितदृष्टे च केचित्तु चन्द्रादप्येवमूचिरे। शनिगणाः शनिभं सुतभे यदा शशिसुतेन दृशा प्रविलोकितम्। गुरुकुजार्कदृशा न युतं तदा प्रतनुते तनयं निजभूमिजम्। सुतमं शनिभं चेत्स्याच्छनियुक् शनिनेक्षितम्। दत्तात्मजाप्तिकृद्बोध्यं तद्वच्चेत् क्रीतपुत्रदम। सन्तानभावे कुजसप्तमांशे मन्दान्वितेऽन्यग्रहदृष्टिहीने। पुत्रो मवेत् कृत्रिमकोऽथ कुण्डः पापैर्युते पापगृहे सुतर्क्षे। चन्द्रे कुजांशे सुतगे प्रदृष्टे मन्देन नान्यैः खलुग्ढजातः। शन्यंशगे सूर्य्यनिरीक्षते च कुजे सुतस्थे च सुतोऽपविद्धः। शनिवर्गगते चन्द्रे शनियुक्ते च पञ्चमे। प्रदृष्टे रविशुक्राभ्यां भवेत् पौनर्भवः सुतः। रविचन्द्रमसोर्वर्गः मुतभे च तयोर्युतिः। शुक्रेण केवलं दृष्टे सहोदः कथितः सुतः। सुतालये भूसुतसंस्थितिश्चेत् संजातसंजातसुत क्षतिः स्यात्। यदा न दृष्टिर्गुरुदैत्यगुर्वोर्दृष्ट्या तयोः स्यात् प्रथमोत्थनाशः। सन्तानभावे नवमांशका यः पापैः प्रदृष्टः खलु यन्मितेः स्यात्। गर्भा विनश्यन्ति हि तत्प्रमाणा यदा न दृष्टिः शुभखेचराणाम्। काव्ये कुजे नीचरिपोर्नवांशे पराजिते वापि मृतप्रजः स्यात्। स्त्री स्वेटभांशे तु सुताप्रजः स्यादन्यांशकस्थे पुमपत्यभाक् ना। पापैः सुतस्थानगतैर्धनैः स्वजनैः सुखैर्ना रहितः कुजे तु। वैकृत्यभाग् व्याधियुतः शनौ तु शुभग्रहैः पुत्रधनैः प्रपूर्णः”। वर्षलग्नतः पुत्रभावफलं नी० ता० उक्तं यथा

“पुत्रायगो वर्षपतिर्गुरुश्चेत् सूर्य्यारसौम्योशनसोऽथ चेत्थम्। सत्पुत्रसौख्याय खलार्द्दितास्ते दुःखप्रदाः पुत्रत एव चिन्त्याः। पुत्रे सुतस्य सहमे सबले सुताप्तिः सौम्येक्षितेऽप्यतिसुखं यदि तत्र वर्षे। सौम्येक्षिते शुभगृहे सकुजो बुधश्चेत् पुत्रायगः सुतसुखं विबले सुतार्त्तिः। जीवो जन्मनि यद्राशावव्देऽत्र सुतगोबली। पुत्रसौख्याय भौमो ज्ञो वर्षेशोऽत्र सुताप्तिदः। यत्रेज्यो जनुषि गृहे विलग्नमेतत् पुत्राप्त्यै बुधसितयोरपीत्थमूह्यम्। यद्राशौ जनुषि शनिः कुजश्च सोऽव्दे पुत्रार्त्तिं तनुसुतगः करोति नूनम्। पुत्रे पुण्यस्य सहमं पुत्राप्त्यौ शुभदृष्टियुक्। लग्नपुत्रेश्वरौ पुत्रे पुत्रदौ वालनौ यदि। चन्द्रो जीवोऽथ वा शुक्रः स्वोच्चगः सुतदः सुते। वक्री भौमः सुतस्थश्चेदुत्पन्नसुतनाशनः। सुताधिपो जन्मनि भार्गवोऽव्दे पुत्रे विढग्नाधिपतीत्थशालः। पुत्रप्रदो मन्दगृहस्थपुत्रे पापाधिकारीक्षित आत्मजार्त्तिः। यद्राशिगोग्रहः सूतौ स राशिस्तत्पदा भिघः। बली जन्मोत्थसौख्याय वर्षे तद्दुःखदोऽन्यथा”

पुत्रवल = त्रि० पुत्रोऽस्त्यस्य “अन्वत्रापि दृश्यते” वार्त्ति० वलच्। पुत्त्रयुक्ते पक्षे मतुप् मस्य वः। पुत्रवत् तथार्थे त्रि० स्त्रियां ङीप्।

पुत्रशृङ्गी = स्त्री पुत्रं पवित्रं शृङ्घमिव पुष्पमस्याः ङीप्। अजशृङ्ग्यां राजनि०। इयं सुश्रुते श्यामादिगणे पठिता।

पुत्रश्रेणी = स्त्री पुत्रा पवित्रा श्रेणिरत्र ङीप्। मूपिककर्ण्यां रत्नमाला।

पुत्रसङ्करिन् = पु० पुत्त्रे पुत्त्रोत्पादने सङ्करी। भिन्नवर्णायां स्त्रियां पुत्रोत्पादनेन वर्णसङ्करकारके भा० क० ४४ अ०।

पुत्रसहम = न० नील० ता० उक्ते सहमभेदे। तदानयनञ्च तत्र दर्शितं यथा “सुतोऽहर्निशमिन्दुमीज्यात्”। स्फुटजीवादिन्दुं त्यक्त्वा दिवारात्रौ लग्नयीगे पुत्रसहम भवति तत्र च पुण्यसहमवत् सैकतादि ज्ञेयम्।

पुत्रसू = स्त्री पुत्रं सूते सू–क्विप्। पुत्रप्रसवकर्त्त्र्याम्।

पुत्राचार्य्य = पु० पुत्र आचार्य्योऽध्यापको यस्व। पुत्रतोध्यायिनि। मनुः ३। ६६२

पुत्रा(त्त्रा)दिन् = पु० पुत्रमत्ति अद–णिनि आक्रोशे गम्ये तकारस्य वा द्वित्वम्। (वेटाखेक) पुत्रभक्षकत्वेन आक्रुश्यमाने १ पुरुषे २ तथाभूतायां स्त्रियां स्त्री ङीप्।

पुत्रान्नद = पु० पुत्रस्य पुत्रोपहृतमन्नमत्ति अद–अण् उप० स०। कुटीचके सन्न्यासिमेदे त्रिका० कुठीचकशब्दे दृश्यम्।

पुत्रिक = त्रि० पुत्रोऽस्त्यस्य ठन्। पुत्रयुक्ते। ततः पुरोहिता० भावे यक्। पौत्रिक्य तद्युक्तत्वे न०।

पुत्रिका = स्त्री पुत्री + स्वार्थे क। १ कन्यायाम् शब्दर०। २ पुत्तल्यां ३ यावकतूले च मेदि०। अपुत्रेण समयभेदेन ४ कृतायां सुतायां स्त्री। स च समयः तद्विभागादिश्च मनुनोक्तो यथा “अपुत्रोऽनेन विधिना सुतां कुर्वीत पुत्रिकाम्। यदपत्यं भवेदस्यां तन्मम स्यात् स्वधाकरम्। अनेन तु विधानेन पुरा चक्रेऽथ पत्रिकाः। विवृद्ध्यर्थं स्वर्वशस्य स्वयं दक्षः प्रजापतिः। ददौ च दश धर्माय, कश्यपाय त्रयोदश। सोमाय राज्ञे सत्कृत्य प्रीतात्मा सप्तविंशतिम्। यथैवात्मा तथा पुत्र पुत्रेण दुहिता समा। तस्यामात्मनि तिष्ठन्त्यां कथमन्या धनं हरेत्” “दोहित्रो ह्यखिल रिक्थमपुत्रस्य पितुर्हरेत्। स एव दद्याद्द्वौ पिण्डौ पित्रे मातामहाय च। पौत्रदौहित्रयोर्लोके न विशेषोऽस्ति धर्म्तः। तयोर्हि मातापितरो सम्भूतौ तस्य देहतः। पुत्रिकायां कृतायान्तु यदि पुत्रोऽनुजायत। समस्तत्र विभागः स्याज्ज्यंष्ठता नास्ति हि स्त्रियाः” “मातुः प्रथमतः पिण्डं निर्वपेत् पुत्रिकासुतः। द्वितीयन्तु पितुस्तस्यास्तृतीयं तत्पितुःपितुः”। अधिकं पुत्रिकापुत्रशब्दे दृश्यम्।

पुत्रिकापुत्र = पु० पुत्रिकैव पुत्रः ६ त० वा। १ पुत्रिकारूपपुत्रे २ पुत्रिकायाः पुत्रे च यथाह वशिष्ठः “अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलङ्कृताम्। अस्यां यो जायते पुत्रः स मे पुत्रो भवेदिति”। “अथ वा पुत्रिकैव सुतः पुत्रिकासुतः सोऽप्यौरससम एव पित्रवयवानामल्पत्वान्मात्रबयवानां वाहुल्याच्च यथाह वशिष्ठः “द्वितीयः पुत्रिकैवेति। द्वितीयः पुत्रः कन्यैवेत्यर्थः इति, मिताक्षरा। अत्र बिशेषो दायभागोक्तो यथा “तत्र पुत्रिकौरसयोस्तुल्यांशित्वं न पुनः पुत्रिकाया ज्येष्ठत्वेन विंशोद्धारार्हता तदाह मनुः “पुत्रिकायां कृतायान्तु” (इत्यादि अनुपदमुक्तम्) खतो ज्येष्ठपुत्रकार्यकरणात् स्वपुत्रद्वारेण पुत्रिकायाः पिण्डदातृत्वात्। तदाह मनुः “अपुत्रोऽनेन विधिना” (इत्यादि उक्तम्)। न च पुत्रिकायामेव प्रथमं पुत्रे जाते तदनन्तरमौरसपुत्रोत्पत्तौ पुत्रिकापुत्रस्य ज्येष्ठाशता भवेदिति वाच्यं तस्य पौत्रत्वात् तदाह मनुः “अकृता वा कृता वापि यं विन्देत् सदृशात् सुतम्। पौत्री मातामहस्तेन दद्यात् पिण्डं हरेद्धनम्”। पुत्रिका हि पुत्रस्तस्याः पुत्रः पौत्र एव भवति तद्वांश्च पौत्री भवति न च ज्येष्ठत्वेन पौत्रस्यांशातिरेकः श्रुतोऽस्ति”। यत्तु वशिष्ठवचनम् “अभ्रातृकां प्रदास्यामि” (इत्यादि उक्तम्)। पुत्रिकापुत्रस्यैव पुत्रत्वं वदति तेन पुत्रिकायास्तत्पुत्त्रस्य च पुत्त्रत्वं तन्न मनुविरोधात् पिण्डदानमात्रयोगात् पुत्त्रत्वमस्य गौणं तद्द्वारेणैव पुत्रिकायाः पिण्डदातृत्वात् एकस्य स्वतोऽन्यस्य तद्योगात्। पुत्रिकौरसयोस्तु सवर्णत्वे सति पूर्वोक्तविभागो बोद्धव्यः असवर्णत्वे तयोरसवर्णौरसपुत्त्रवदेव विभागः पुत्रिकौरसयोः समानत्वात्। यदि च कृतापि पुत्त्रमनुत्पाद्यैव विधवा भूता बन्ध्यात्वेनवाऽवधृता तदा तस्याः पितृधनेऽनधिकारः स्वधाकरपुत्त्रार्थं पुत्रिकायाः कृतत्वात् तदभावे दुहित्रन्तरतुल्यत्वात्” दा० भा०। व्याकृतं चैतत् श्रीकृष्णेन “ज्येष्ठता श्रेष्ठता सा च पुन्नामनरकत्राणनिबन्धना तदभावात् श्रेष्ठत्वाभाव इत्याह स्वत इति साक्षादित्यर्थः। ज्येष्ठत्वेनेति। ज्येष्ठपुत्रकार्यं पुन्नामनरकत्राणं तदकरणात्। तर्हि पुत्रिकाकरणं किमर्थमत आह स्वपुत्रद्वारेणेति। स्वधाकरं त्रिविधक्रियाकरम् अन्यथा स्वधाकरशब्दस्य श्राद्धकरणमात्रार्थत्वे दौहित्रान्तरसाधारण्यात् पुत्रिकाकरणवैयर्थ्यापत्तेः। एतेन पुत्रिकापुत्रसत्त्वेऽपि पुत्रिकाया एव प्रेतकृत्याधिकार इति मतमपि निरस्त मिति वेदितव्यं तथा च परम्परयोपकारार्थमेव पुत्रिकापुत्रकरणमिति भावः। ज्येष्ठांशतेति। तस्य साक्षादेव ज्येष्ठपुत्रकार्यकरणादिति भावः। पौत्रत्वादिति आतिदेशिकपौत्रत्वादित्यर्थः। मनुविरोधादिति। न च विनिगमनाविरहः किं मनुविरोधात् वशिष्ठोक्तं पुत्रत्वं गौणं, किं वा वशिष्ठविरोधात् मनूक्तं पौत्रत्वमेव गौणमिति वाच्यं मनुस्मृतेः सर्वस्मृतिप्रवलत्वस्यैव विनिगमकत्वात्। पुत्रत्वं पुत्रव्यपदेशः। गौणमिति पिण्डदातृत्वस्य मुख्यपुत्रगुणस्य योगात् गौणता वोध्या। पिण्डदानयोगमेवोपपादयति तद्द्वारेणैवेति। एकस्य पुत्रिकापुत्रस्य, अन्यस्य पुत्रिकास्वरूपस्य तद्योगात् पुत्रत्वयोगात्। न च परम्परया पिण्डदानापेक्षया साक्षात् पिण्डदानस्य बलवत्त्वेन पुत्रिकापुत्रस्यैव पुत्रत्वं न्यार्य्य न तु पुत्रिकाया इति वाच्यं पुत्रिकाया अङ्गजत्वात् तदधीनजन्मतया च तत्पुत्रस्य पिण्डदानयोगात् तस्या एवोत्कर्षेण पुत्रत्वौचित्वात्। एतन्न्यायादेव अपुत्रिकाया अपि दुहितुरभाव एव दौहित्रस्यैव प्रागधिकारोपपत्तिः। अतएव समस्तत्नेत्यनेन पुत्रिकौरसयोरेव सगभागिता मनूक्ता न तु तस्याः पुत्रस्य औरससमगिता केनाप्युक्तेति। इत्थञ्च “पुत्रिकापुत्र एव चेति” द्वादशविधपुत्रगणनायां कर्मधारयो न तु तत्पुरुष इति विभावनीयम्। पूर्वोक्तविभाग इति समभाग इत्यर्थः”। अपत्यधनाधिकारे च दाय० मा० कश्चिद्विशेष उक्तो यथा “यतएव स्वपुत्त्रद्वारेण पिंण्डदातृतया दुहितुः पितृधनाधिकारः अतएव पुत्रिकाया अपि पित्रुपरमजातघनसम्बन्धायाः पश्चाद्बन्ध्यात्वेन तद्भ्र्त्तुर्वा प्रसवासामर्य्येन विपर्य्यस्त पुत्त्राया मरणे तद्धनं न भर्तुः। यथा शङ्खलिखितौ “प्रेतायाः पुत्रिकायास्तु न भर्त्ता द्रव्यमर्हत्यपुत्त्रायाः”। तथा पैठीनसिः “प्रेतायां पुत्रिकायान्तु न भर्त्ता द्रव्यमर्हति। अपुत्त्रायां, कुमार्य्या वा स्वस्रा ग्राह्यं तदन्यया”। ततः कुमार्य्या स्वस्रा अन्यया वा पुत्त्ववत्या सम्भावितपुत्त्रया स्वस्रा तद्धनं ग्राह्यम्। अतः स्त्यधिकारे व्यावृत्तिरन्याधिकारस्य। यत्तु मनुवचनम् “अपुत्त्रायां मृतायान्तु पुत्रिकायां कथञ्चन। धनं तत् पुत्रिकाभर्त्ता हरेतैवाविचारयन्”। तदविपर्य्यस्तपुत्त्राया अनुत्पन्नमृतपुत्त्रायाः पुत्त्रिकाया मरणे वेदितव्यम्” “विपर्य्यस्तपुत्त्रायाः पुत्त्रात्यन्ताभाववत्याः। तद्धनं ग्राह्यमिति। तदपि पत्न्यभावे कुमार्य्यादौनां पत्नीबाध्यत्वादिति बोध्यम्। अत इति उक्तोभयसूत्राभ्यां वि पर्य्यस्तपुत्त्रायाः पुत्त्रिकायामरणे कुमार्य्यादीनामधिकारे प्राप्ते भर्तुरधिकारस्य व्यावृत्तिरिति समग्रोपसंहारः। प्राञ्चस्तु यतः पुत्त्रिकाया एव विपर्य्यपुत्त्रायामरणे न तत्संक्रान्तदाये भर्तुरधिकारोऽतः स्त्र्यधिकारे अन्यासां दुहित्रादीनामप्यधिकारेऽनन्तरं विपर्य्यस्तपुत्त्राणां तासां मरणे भर्तुरधिकारस्य व्यावृत्तिरिति व्याचक्रः। तदविपर्य्यस्तपुत्त्राया इति। एतस्यैव बिवरणम् अनुत्पन्नमृतपुत्त्राया इति। अत्र पक्षान्तराभावात् चकारः क्वाचित् कः पाठः प्रामादिकः। अथात्र शङ्खलिखितादिवचनमेव उत्पन्नमृतपुत्त्राविषयं मनुवचनन्तु अनुत्पन्नपुत्त्राविषयमिति वैपरीत्यमेव न कुतः? उत्पन्नपुत्त्राया, इवाविपर्य्यस्तपुत्त्रायाः पुत्त्रात्पत्त्यैव पितुः पुन्नामनरकनिवर्त्त- कत्वेन कृतोपकारकतया स्वामित्वे निर्व्यूढे पितुरितरापेक्षया तस्या एवाधिकोपकारित्वात् तद्भर्तुरधिकारो युक्तः अतएव “दौहित्रस्य मुखं दृष्ट्वा किमर्थमनुशोचसि” इत्यनेन दौहित्रमुखदर्शनस्यापि नरकनिस्तारकतेति। पुत्त्रानुत्पत्तौ तु पित्रु पकाराभावात् तस्या एव न स्वामित्वं कुतस्तत्पत्य रिति तत्पितृधनाधिकारिणां कन्यादीनामेव तदानीं तत्राधिकारस्य न्याय्यत्वात्। यद्यपि बन्ध्यात्वेनावधृतायां जीवन्त्यामप्येवमुचितं तथापि प्रेताया इति ग्रहणात् न जीवन्त्यां तस्याम् अन्यदुहित्रादीनामधिकार इति” श्रीकृष्णव्याख्या।

पुत्रिन् = पुंस्त्री पुत्त्र + अस्त्यर्थे इनि। पुत्त्रयुक्ते स्त्रियां ङीप्

पुत्री = स्त्री पुत्र + गीरा० ङीष्। १ कन्यायां २ वृक्षभेदे हला०।

पु(त्रीय)त्र्य = त्रि० पुत्त्रस्य निमित्तं संयोग उत्पातो वा “पुत्त्राच्छ च” पा० छ पक्षे यत्। १ पुत्त्रनिमित्ते संयोगे २ तदीयोत्पाते च। पुत्रस्येदम् छ। ३ पुत्त्रसम्बन्धिनि त्रि०। “धन्यं यशस्यं पुत्रीयमायुष्यं विजयाय च” भा० आ० ६७ अ०। ४ इष्टिभेदे स्त्री रामा० अयो० १५। ३

पुत्रेष्टि = स्त्री पुत्त्रकाम कर्त्तव्या इष्टिः शा० त०। पुत्त्रकासकार्य्ये इष्टिभेदे सच आश्व० श्रौ० २। १०८ सूत्रादौ दृश्यः। “गृहीत्वा पञ्चवर्षीयं पुत्रेष्टिं प्रथमं चरेत्” दत्तकमी मांसाधृतवाक्यम्। स्वार्थे क। तत्रार्थे जटाध०।

पुत्रैषणा = स्त्री ६ त०। पुत्रेच्छायां शत० ब्रा० १४। ६१४। १

पुथ = हिंसे दि० पर० सक० सेट्। पुथ्यति अपोथीत्। पुपोथ।

पुथ = वधे सक० क्लेशे अक० भ्वा० पर० सेट् इदित्। पुन्थति अ पुन्थीत् पुपुन्थ पुन्थ्यते।

पुथ = दीप्तौ चु० उम० सक० सेट्। पोथयति ते अपूपुथत्–त।

***