कुम्भ = पु० कुं भूमिं कुत्सितं वा उम्भति उन्भ–पूरणे अच् शक०। १ घटे, २ ह्रदोगभेदे, ३ हस्तिशिरःस्थमांसपिण्डद्वये, “तैः किं मत्तकरीन्द्रकुम्भकुहरे नारोपणीयाः कराः” प्रसन्नराघवम्। ४ कुम्भकर्णस्य पुत्रे, ५ वेश्यापतौ, मेदि० ६ प्राणायामाङ्गे श्वासरोधके चेष्टाभेदे, “दशद्रोणा भवेत् खारी कुम्भस्तु द्रोणविंशतिरित्युक्ते ७ परिमाणभेदे “धान्यं दशभ्यः कुम्भेभ्योहरतोऽभ्यधिकं बधः” मनुः। ज्योतिषप्रसिद्धे मेषावधिके ८ एकादशराशौ च। ९ गुग्गुलौ, १० त्रिवृति च न०। तत्रघटार्थककुम्भलक्षणमुक्तं हेमा० दा० परिभाषाप्र०” “विष्णुधर्म्मोत्तरे “हैमराजतताम्रा वा मृण्मया लक्षणान्विताः। यात्रोद्वाहप्रतिष्ठादौ कुम्भाः स्युरभिषेचने। पञ्चाशाङ्गुलवैपुल्या उत्सेधषोडशाङ्गुलाः। द्वादशाङ्गुलकं मूलं मुखमष्टाङ्गुलं भवेत्”। “पञ्चाशाङ्गुलेति आशा दिशः, ताश्च, दशसंख्यावाचकत्वेन ज्योतिःशास्त्रादौ प्रसिद्धाः पञ्च च आशाश्च पञ्चाशाः तावन्ति अङ्गुलानि वैपुल्यं येषां ते तथाभूताः। मध्यप्रदेशे तिर्य्यग्मानेन पञ्चदशाङ्गुला इत्यर्थः। अथवा बाह्यप्रदेशे बलयाकृतिना सूत्रेण नीयमाना मध्यस्थाने पञ्चाशदङ्गुला इत्यर्थः। अस्मिन् पक्षे पञ्चाशाङ्गुलेति छान्दसः प्रयोगः” हेमा०। तान्त्रिकमानन्तु तन्त्रसा० गौतमीये “हैमं रौप्य तथा ताम्रं मार्त्तिक्यं वा स्वशक्तितः। वित्तशाठ्यं न कुर्वीत कृते निष्फलमाप्नुयात्। षट्त्रिंशदङ्गुलं कुम्भं विस्तारो न्नतिशालिनम्। षोडशं द्वादशं वापि ततोन्यूनं न कारयेत्”। प्राणायामाङ्गकुम्भकपरकुम्भप्रकारः विधा० पा० उक्तोयथा “कुम्भकः पूरकोरेचः प्राणायामस्त्रिलक्षणः। पूरकं पूरणं वायोः, कुम्भकः स्थापनं क्वचित्। बहिर्निःसारणं तस्य रेचकः परिकीर्त्तितः। दक्षिणे रेचयेद्वायुं वामेन पूरितोदरः। कुम्भेन धारयेन्नित्यं प्राणायामं विदुर्बुधाः। अङ्गष्ठेन पुटं ग्राह्यं नासाया दक्षिणं पुनः। कनिष्ठानामिकाभ्याञ्च वासं प्राणस्य संग्रहे। अङ्गुष्ठतर्ज्जनीभ्यान्तु ऋग्वेदी सामगायनः। अङ्गुष्ठानामिकाभ्यां तु ग्राह्यं सर्व्वैरथर्वभिः” याज्ञ० “दक्षिणे रेचकं कुर्य्यात् वामेनापूर्य्य चोदरम्। कुम्भकेन जपं कुर्य्यात् प्राणायामस्य लक्षणम्” शङ्ख्यः। विवृतमेतत् पात० सू० भाष्यविवरणेषु यथा “तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः” सू० “सत्यासनजये बाह्यस्य बायोराचमनं श्वासः। कोष्ठस्य वायोर्निःसारणं प्रश्वासः तयोर्गतिविच्छेद उभयाभावः प्राणायामः” भाष्यम् “आसनानन्तरं तत्पूर्ब्बकतां प्राणायामस्य दर्शयन् तल्लक्षणमाह रेचकपूरककुम्भकेष्वस्ति श्वासप्रश्वासयोर्गतिविच्छेद इति प्राणायामसामान्यलक्षणमेतदिति तथाहि यत्र बाह्यवायुराचम्यान्तर्धार्य्यते पूरके। तत्रापि श्वासप्रश्वासयीर्गतिविच्छेदः यत्रापि कोष्ठोवायुर्विरेच्य वहिर्धार्य्यते रेचके तत्रास्ति श्वासप्रश्वासयोर्गतिविच्छेदः एवं कुम्मकेऽपि इति तदेतद्भाष्ये णीच्यते। सत्यास नेति” वाचस्पतिविवरणम्।

“वाह्याभ्यन्तरस्तम्मवृत्तिर्देशकालसंङ्ख्याभिः परिदृष्टोदीर्घसूक्ष्मः” सू०

“यत्र प्रश्वासपूर्ब्बको गत्यभावः स आभ्यन्तरः तृतीयस्तम्भवृत्तिर्यत्रोभयाभावः सकृत्प्रयत्नाद् भवति यथा तप्ते न्यस्तमुपले जलं सर्वतः सङ्गोचमापद्यते। तथा द्वयोर्युगपद्गत्यभावैति त्रयोऽप्येते देशेन परिदृष्टाः, इयानस्य विषयो देश इति कालेन परिदृष्टाः क्षणानामियत्तावधारणेनावच्छिन्ना इत्यर्थः। सङ्ख्याभिः परिदृष्टाः एतापद्भिः श्वासप्रश्वासैः प्रथम उद्घात स्तद्वन्निगृहीतस्यैतावद्भिः द्वितीय उद्घातः” एवं तृतीय एवं मृदुरेवं मध्य एवं तीव्र इति सङ्ख्यापरिदृष्टः स खत्वयमेवमभ्यस्तो दीर्घसूक्ष्मः” भाष्यम्

“प्राणायामविशेषत्रयलक्षणपरं सूत्रमवतारयति यत्रेति। वृत्तिशब्दः प्रत्येकं संबध्यते। रेचकमाह यत्र पश्वासेति। पूरकमाह यत्र श्वासेति। कुम्भकमाह तृतीय इति। तदेव स्फुटयति यत्रोभयोः श्वासप्रश्वासयोः सकृदेव विधारकात् प्रयत्नादभावो भवति न पुनः पूर्ब्बवदापूरणप्रयत्नौधप्रविधारकप्रयत्नो नापि रेचकप्रयत्नौवविधारणप्रयत्नोऽपेक्ष्यते किन्तु यथा तप्ते उपले निहितं जलं परिशुष्यत् सर्वतः संकोचमापद्यते एवमयमपि मारुतो वहनशीलो बलवद्विधारकप्रयत्ननिरुद्धक्रियः शरीरएव सूक्ष्मीभूतोऽवतिष्ठते न तु पूरयति येन पूरकः, न तु रेचयति येन रेचक इति। इयानस्य देशो विषयः प्रदेशः। वितस्तिहस्तादिपरिमितो निवाते प्रदेशे ईशीकातूलादिक्रियानुमितो बाह्य एव नान्तरीऽप्यापादतलमामस्तकं पिपीलिकास्पर्शसदृशेनानुमितः स्पर्शननिमेषक्रियावच्छिन्नस्य कालस्य चतुर्थो भागः क्षणस्तेषामियत्तावधारणेनावच्छिन्ना स्वजानुमण्डलं पाणिना त्रिः परामृश्य छोटिकावच्छिन्नः कालोमात्रा। ताभिः षट् त्रिंशन्मात्राभिः परिमितः प्रथम उद्घातो मन्दः। स एव द्विगुणीकृतो द्वितोयोमध्यमः स एव त्रिगुणीकृतस्ततीय स्तीव्रः तममिमं सङ्ख्यापरिदृष्टं प्राणायाममाह सङ्ख्याभिरिति। स्वस्थस्य हि पुंसः श्वासप्रश्वासक्रियावच्छिन्नेन कालेन यथोक्तं छोटिकाकालसमानः प्रथमोद्घातकर्म्मतां नीतः उद्घातो विजितो वशीकृतो निगृहीतः क्षणानामियत्ताकालो विवक्षितः श्वास प्रश्वासेयत्तासं ख्येति कथञ्चिद्भेदः। स खल्वयं प्रत्यहमभ्यस्तो दिवसपक्षमासादिक्रमेण देशकालप्रचयव्यापितया दीर्घः परमनैपुण्यं समधिगमनीयः तया च सूक्ष्मो नतु मन्दतया” विव० “बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः” सूत्रम् “देशकालसङ्क्याभिर्वाह्यविषयः परिदृष्ट आक्षिप्तः। तथाभ्यन्तरविषयः परिदृष्ट आक्षिप्तः। उभयथा दीर्घसूक्ष्म तत्पूर्व्वको भूमिजयात्। क्रमेणोभयोर्गत्यभावश्चतुर्थः प्राणायामः। तृतीयस्तु विषयोनालोचितो गत्यभावः सकृदारब्ध एव देशकालसष्ट्याभिः परिदृदो दीर्घसूक्ष्मश्चतुर्थस्तु श्वासप्रश्वासयोर्विषयावधारणात् क्रसेण भूमिजयादुभयाक्षेपपूर्बको गत्यभावचतुर्थः प्राणायामः इत्ययं विशेषैति” भाष्यम् “एवं त्रयोविशेषा लक्षिताः चतुर्थं लक्षयति बाह्येति व्याचष्टे देशकालसङ्ख्यामिरिति आक्षिप्तोत्भ्यासवशीकृतादूपादवरोपितः सोऽपि दीर्घसूक्ष्म एवं तत्पूर्वको बाह्याभ्यन्तरविषयः प्राणायामो देशकालसंख्यादर्शन पूर्ब्बकः, न चासौ चतुर्थः तृतीयैव सकृत्प्रयत्नादह्नाय जायते किन्त्वभ्यस्यमानस्तां तामवस्थामापन्नः तत्तदवस्था विजयानुक्रमेण भवतीत्याह भूमिजयादिति”। “ननूभयोर्गत्यभावस्तम्भवृत्तावप्यस्तीति कोऽस्मादस्य विशेष इत्यत आह। तृतीय इति अनालोचनपूर्व्व सकृत्प्रयत्ननिर्वर्त्ति तस्तृतीयश्चतुर्थस्त्वालोचनपूर्वोबहुप्रयत्ननिर्वर्त्तनीय इति विशेषः। तयोः पूरकरेचकयोर्विषयो नालोचितोऽय तु देशकालसङ्ख्याभिरालोचित इत्यर्थः” विवरणम् “ततः क्षीयते प्रकाशावरणन्” सू० “प्राणायाममभ्यस्यतोऽस्य योगिनः क्षीयते विवेकज्ञानावरणीयं कर्म्म यत्तदाचक्षते। महामोहभयेन इन्द्रजालेन प्रकाशशीलं सत्वमावृत्य तदेवाकार्य्ये नियुङ्क्ते इति तदस्य प्रकाशावरणं कर्म्म संसारनिबन्धनं प्राणायामाभ्यासात् दुर्बलं भवति प्रतिक्षणं च क्षीयते। तथाचोक्तम् “तपो न परं प्राणायामात्ततो विशुद्धिर्मलानां दीप्तिश्च ज्ञानस्येति” किञ्च धारणासु च योग्यता मनसः प्राणायामाभ्यासादेव। “प्रच्छर्द्दनविधारणाभ्यां वा प्राणस्येति” वचनात्” भाष्यम् “प्राणायामस्यावान्तरप्रयोजनमाह ततैति। आव्रियतेऽनेन बुद्धिसत्वप्रकाशैत्यावरणं क्लेशः पाप्मा च। व्याचष्टे प्राणायाममिति। ज्ञायतेऽनेनेति ज्ञानं बुद्धिसत्वप्रकाशः विवेकस्य ज्ञानं विवेकज्ञानमावृणोतीति विवेकज्ञानावरणीयं भव्योयप्रवचनीयादीनां कर्त्तरि निपातनस्य प्रदर्शनार्थत्वात् कोपनीयरञ्जनीयवत् अत्रापि कर्त्तरि कृत्यप्रत्ययः। कर्मशब्देन तज्जन्यमपुण्यं तत्कारणं क्लेशं लक्षयति अत्रैवागमिनामनुमतिमाह यत्तदाचक्षत इति। महामोहोरागः तदविनिर्भागवर्त्तिन्यविद्याऽपि तद्ग्रहणेन गृह्यते। अकार्य्यमवर्म्मः। ननु प्राणायामश्चेत् पाष्मानं क्षिणोति कृतं तर्हि तप्रसेत्यतआह दुर्बलं भवतीति न तु सर्वथा क्षीयते अतस्तत्प्रक्षयाय तपोऽपेक्ष्याते इति अत्राप्यागमिनामनुमतिमाह तथा चोक्तमिति। मनुरप्याह “प्राणायामैर्द्दहेद्दोषानिति” प्राणायामस्य योगाङ्गता विष्णुपुराणोक्ता “प्राणाख्यमनिलं वश्यमभ्यासात् कुरुते तु यः। प्रणायामः स विज्ञेयः सवीजोऽवीजएव च। परस्परेणाभिभवं प्राणापानौ यदाऽनिलौ। कुरुतस्तद्विधानेन तृतीयं संयमात्तयोः” इति किञ्च व्यासः “प्राणायामोहि मनः स्थिरीकुर्वन् धारणासु योग्यं करोति” विवरणम्” प्राणायामशब्दे विवृतिः कुम्भमानमुक्तं हेमा० दा० ख० परिभाषाप्रकरणे भविष्यपुराणे “पलद्वयंतु प्रसृतं द्विगुणं कुडवो मतः। चतुर्मिःकुडवैः प्रस्थः प्रस्थाश्चत्वार आढकः। आढकैस्तैश्चतुर्भिश्च द्रोणस्तु कथितोबुधैः। कुम्भो द्रोणद्वयं शूर्पः खारी द्रोणास्तु षोडश”। विष्णु धर्म्मोत्तरे “पलञ्च कुडवः प्रस्थ आढको द्रोण एव च। धान्यमानेषु बोद्धव्याः क्रमशोऽमी चतुर्गुणाः। द्रोणैः षोडशभिः खारी विंशत्या कुम्भौच्यते। कुम्भैस्तु दशभिर्वाधो धान्यसंख्याः प्रकीर्तिताः”। वैद्यकपरिभाषायां कर्षशब्दे दर्शितं “चतुर्भिराढकैर्द्रोणः कलसोनुल्वणोऽर्म्मणः। उन्मानञ्च घटोराशिर्द्रोणपर्य्याय संज्ञितः। द्रोणाभ्यां शूर्पकुम्भौ च चतुःषष्टिशरावकः” भाव० प्र० वाक्यम्। कुम्भराशिस्तु धनिष्ठाशेषार्द्धशतभिषापूर्व्वभाद्रपदात्रिपादाद्मकः स च ३६० अंशैर्विभक्तस्य राशिचक्रस्य ३०० त्रिशतोत्तरत्रिंशदंशात्मकः। तस्य स्वरूपादिकमुक्तं नील० ता० “कुम्भोऽपदो ना दिनमध्यसङ्गप्रसूः स्थिरः कर्वूरवर्ण्णवायुः। सिग्धोष्णखण्ड स्वरतुल्यधातुः शूद्रः प्रतीची विषमोदयश्च”। तस्य स्वामी शनिः। स च स्थिरराशिः “चरस्थिरद्व्यात्मकनामधेया मेषादयोऽमी क्रमशः प्रदिष्टा” इत्युक्तेः। स च पुष्कराख्यः “पुण्यश्च पुष्करश्चैव आधानाख्यस्तथैव च। श्रुथावृत्त्या भवन्त्येते नित्यं द्वादश राशयः” ज्यो० त०। स च द्विपदराशिः। “मिथुनतुलाघटकन्या द्विपदाख्याश्चापपूर्व्वभागश्च” तत्रोक्तेः “द्विपदवशगाः सर्वे सिहं विहाय चतुष्पदाः, सलिलनिलया वश्या भक्ष्याः सरोसृपजातयः” तत्रैवोक्तेः तद्राशेः सिंहं विना सर्वे राशयोवश्या जलजरा भक्ष्याः। स च राहोर्मूलत्रिकोणम्। “उच्चं नृयुग्मं घटभं त्रिकोणम्” इत्युक्तेः। तत्र तुलादितो नवांणा ग्राहाः “चराणां सत्रिकोणानां तच्चराद्या नवांशका” इत्युक्तेः कुम्भापेक्षया तुलाराशेर्नवमत्वात्तस्य चरत्वाच्च तथात्वम् तस्य लङ्कायामुदयमानं उदयशब्दे ११३० पृ० दर्शितम्। देशभेदे तु भिन्नकालेनेति लग्नकालशब्दे विवृतिः। ११ प्रह्लादपुत्रभेदे “प्रह्लादस्य त्रयः पुत्राः ख्याताः सर्व्वत्र भारत!। विशेषतश्च कुम्भश्च निकुम्भैति नामतः” भा० आ० ६५ अ० “प्रह्लादोऽश्वशिराः कुम्भः संह्रादोग गनप्रियः” हरिवं० ४२ अ०

कुम्भक = पु० कुम्भ + स्वार्थे क० कुम्भ इव कायति प्रकाशते निश्चलत्वात् कै–क वा। प्राणयामाङ्गे वायुरोधन ध्यापारभेदे कुम्भशब्दं विवृतिः। “कुम्भकोनिश्चल श्वासः” या० स्मृ०।

कुम्भकर्ण = पु० कुम्भ इव कर्णावस्य। रावणानुजे राक्षसभेदे स च विश्रवसः केकस्यां जातः तदुत्पत्तिकथा रामा० उत्त० का० सुमालिकन्यया केकस्या अग्निहोत्रकाले सन्ध्यासमये पुत्रमभिलष्यन्त्या प्रार्थितेन विश्रवसा राक्षस योनिपुत्रप्राप्ति रूपो वरोदत्तः। यथा “दारुणायां तु वेला यां यस्मात्त्वं मामुपस्थिता। शृणु तस्मात् सुतान् भद्रे! यादृशान् जनयिष्यसि। दारुणान् दारुणाकारान् दारुणा भिजनप्रियान्। प्रसविष्यसि सुश्रोणि! राक्षसान् क्रूरकर्म्मण” इत्युपक्रमे “एवमुक्ता तु सा कन्या राम! कालेन केनचित्। जनयायास बीभत्सं रक्षोरूपं सुदारुणम्। दशग्रीवं महादंष्ट्रम् नीलाञ्जन वयोपमम्। ताम्रोष्ठं विंशतिभुजं महास्यं दीप्तमूर्द्धजम्” इति रावणोत्पत्तिमुक्त्रा “तस्य त्वनन्तरं जातः कुम्भकर्ण्णो महाबलः। प्रमाणात् यस्य विपुलं प्रमाणं नेह विद्यते। ततः शूर्पनखा नाम संजज्ञे विकृतानना। विभीषणस्तु धर्म्मात्मा केकस्याः पश्चिमः सुतः” इति। भा० व० १७४ अ० तु पुष्पोत् कटातस्तस्योत्पत्तिरुक्ता” यथा “पुलस्त्यस्य तु यः क्रोधादर्द्धदेहोऽभवन्मुनिः। विश्रवा नाम सक्रोधः स वैश्रणमैक्षत। बुबुधे तन्तु सक्रोधं पितरं राक्षसेश्वरः। कुवेरस्तत्प्रसादार्थं यतते स्म सदा नृप!। स राजराजो लङ्कायां निवसन्नरवाहनः। राक्षसीः प्रददौ तिस्रः पितुर्वै परिचारिकाः। ताः सदा तं महात्मानं सन्तोषयितुमुद्यताः। ॠषिं भरतशार्द्दूल! नृत्यगीतविशारदाः। पुष्पोत्कटा च राका च मालिनी च विशाम्पते!। अन्योन्यस्पर्द्धया राजन्! श्रेयस्कामाः सुमध्यमाः। तासां स भगवांस्तुष्टो महात्मा प्रददौ वरान्। लोकपालोपमान् पुत्रानेकैकस्या यथेप्सितान्। पुष्पोत्कटायां जज्ञाते द्वौ पुत्रौ राक्षसेश्वरौ। कुम्भकर्णदशग्रीवौ वलेनाप्रतिमौ भुवि। मालिनी जनयामास पुत्रमेकं विभीषणम्। राकायां मिथुनं जज्ञे खरः शूर्पणखा तथा। विभीषणस्तु रूपेण सर्वेभ्योऽभ्यधिकोऽभवत्। स बभूव महाभागो धर्म्म गोप्ता क्रियारतिः। दशग्रीवस्तु सर्वेषां श्रष्ठो राक्षसपुङ्गबः। महोत्साहो महावीर्य्यो महासत्वपराक्रमः। कुम्भकर्णो बलेनासीत् सर्वेभ्योऽभ्यधिको युधि। मायावी रणशौण्डश्च रौद्रश्व रजनीचरः”। तस्य ब्रह्मतोवरप्राप्तिरुक्ता रामा० उ० का० १० सर्गे यथा “इत्युक्त्वा कुम्भकर्णाय वरंदातुमवस्थितम्। जापप्रतिं सुराःसर्वे वाक्यंप्राञ्जलयोऽब्रुवन्। न तावत् कुम्भकर्णाय प्रदातव्योवरस्त्वया। जानौषे हि यथा लोकांस्त्रासयत्येष दुर्मनाः। नन्दनेऽप्सरसः सप्त महेन्द्रानुचरा दश। अनेन माक्षिता ब्रह्मन्नृषयोमानुषास्तथा। अलब्धवरपूर्णेन यत् कृतं राक्षसेन तु। यद्येष वरलब्धःस्याद्भक्षयेद्भुवनत्रयम्। वरव्याजेन मोहोऽस्मैदीयताममितप्रभ!। लोकानां स्वस्ति चैवं स्याद्भवेदस्य च संमतिः। एवमुक्तः सुरैर्ब्रह्माऽचिन्तयत्पद्मसम्भवः। चिन्तिता चोपतस्थेऽस्य पार्श्वे देवी सरस्वती। प्राञ्जलिः सा तु पार्श्वस्था प्राह वाक्यं सरस्वती। इयमस्म्यागता देव! किं कार्यंकरवाण्यहम्। प्रजापतिस्तु तां प्राप्तां प्राह वाक्यं सरस्वतीम्। वाणि! त्वं राक्षसेन्द्रस्य भव वाग् देवतेप्सिता। तथेत्युक्ता प्रस्थिता सा प्रजापतिरथाब्रवीत्। कुम्भकर्ण! महाबाहो! वरंवरय योमतः। कुम्भकर्णस्तु तद्वाक्यं श्रुत्वावचनमब्रवीत्। स्वप्तुंवर्षाण्यमेकानि देवदेव! ममेप्सितम्। एवमस्त्विति तञ्चोक्त्वा प्रायात् ब्रह्मासुरैः समम्। देवी सरस्वती चैव राक्षसं तं जहौ पुनः। ब्रह्मणा सह देवेषु गतेषु च नभस्तलम्। विमुक्तोऽसौ सरस्वत्या स्वां संज्ञां च ततोगतः। कुम्भकर्णस्तु दुष्टात्मा चिन्वयामास दुःखितः। ईदृशं किमिदं वाक्यं ममाद्य वदनाच्च्युतम्। अहं व्यामोहितो देवैरिति मन्ये तदागतैः” स च रामेण हत इति रामा० स्थितम् भारते तु लक्ष्मणेन निहत इति स्थितम् यथा भा० वन० २८६ अ० “कुम्भकर्णो महेष्वासः प्रगृहीतशिलायुधः। अभिदुद्राव सौमित्रिमुद्यम्य महतीं शिलाम्। तस्यापि पततस्तूर्णं क्षुराभ्यामुच्छ्रितौ करौ। चिच्छेद निशिताग्राभ्यां स बभूव चतुर्भुजः। तानप्यस्य भूजान् सर्वान् प्रगृहीतशिनायुधान्। क्षुरैश्चिच्छेद लघ्वुस्त्नं सौमित्रिः प्रतिदर्शयन्। स बभूवातिकायश्च बहुपादशिरोभुजः। तं ब्रह्मास्त्रेण सौमित्रिर्ददाराद्रिचयोपमम्। स पपात महावीर्य्यो दिव्यास्त्राभिहतो रणे। महाशनिविनिर्दग्धः पादपोऽङ्कुरवानिव। तं दृष्ट्वा वृत्रसङ्काशं कुम्भकर्णं तरस्विनम्। गतासुं पतितं भूमौ राक्षसाः प्राद्रवन् भयात्”। उत्पत्तौ बधे च विरोधस्तु कल्पभेदात् समाधेयः। स च विष्णुपारिषदविजयावतारः सनत्कुमारादिमुनिशापात् आसुरभावमापेदे तत्कथा भाग० अनुसन्धेया।

कुम्भकामला = स्त्री कुम्भाख्या कामला। भावप्र० उक्ते कामलारोगभेदे। “कामला बहुपित्तैषा कोष्ठशाखा ग्रया मता” तत्र कोष्ठाश्रयां कामलामाह “कालान्तरात् खरीभूता कृच्छ्रा स्यात् कुम्भकामला” अधिकं कामलाशब्दे १८९९ पृ० उक्तम्। सुश्रुते तु कुम्भाह्वयमित्युक्तं यथा “मकामलापालकिपाण्डुरोगकुम्भाह्वयो लाघरकोऽलसाख्यः” इत्युपक्रम्य “वक्ष्यामि लिङ्गान्यथ कामलायाः” इत्युक्त्वा कामलालक्षणादिकमुक्त्रा च “भेदांस्तु तस्याः शृणु कुम्भसाह्वं शोको महांस्तत्र च पर्वभेदैः” तेन कम्भैत्येव तस्या नामान्तरम्।

कुम्भकार = पुंस्त्री कुम्भं करोति कृ–अण् उप० स०। (कुमार) १ जातिभेदे अमरः। सा च जातिः “वैश्यायां विप्रतश्चौरात् कुम्भकारः सौच्यते” उसनसोक्ता ब्रह्मवैवर्त्तेतु “मालाकारात् चर्म्मकार्य्यां कुम्भकारोव्यजायत” इति “पट्टिकाराच्च तैलिक्यां कुम्भकारो बभूवह” इति पुराणान्तरं तेन उत्तमाधमवर्ण्णसङ्करत्वात् जाति भेदस्तु देशभेदेन व्यवस्थाप्यः। जातित्वात् स्त्रियां ङीष्। २ कुम्भकारके त्रि० स्त्रियां टाप् सि० कौ० मुग्धबोधमते ततोऽपि ईप् तन्मते षण्प्रत्ययविधानात्। “यत् कुम्भकारपयनोपरिपङ्कलेपस्तापाय केबलमहो न च तापशान्त्यै” उद्भटः ३ कुक्कुभविहगे पुंस्त्री० हेम० स्त्रियां ङीष्।

कुम्भकारिका = स्त्री कुम्भस्येव कार आकारोयस्याः कप् अतैत्त्वम्। १ कुलत्थायाम् (कुरथि कलाइ) राजनि० तस्यास्तदाकारत्वात् तथात्वम्। कुम्भंकरोति कृ–ल्वुल्। कुम्भकारक कुम्भकर्त्तरि त्रि० स्त्रियां टाप् अतैत्त्वम्।

कुम्भकारी = स्त्री कुम्भस्येव कार आकारोऽस्याः गौरा० ङीष्। १ कुलत्थायाम् राजनि० २ मनःशिलायां जटाध० कुम्भकारस्य कुलालस्य पत्री ङीष् ३ कुलालभार्य्यायाञ्च।

कुम्भकेतु = पु० कुम्भः केतौ ध्वजे यस्य। शम्बरासुरसेनापतिभेदे “कुम्भकेतुः सुदंष्ट्रश्च केशिरित्येवमादवः” हरि० १६३ अ०

कुम्भचक्र = न० नर० ज० उक्ते चक्रभेदे। चक्रशब्दे विवृतिः।

कुम्भज = पु० कुम्भाज्जायते जन–ड ५ त०। १ अगस्त्ये मुनौ कुम्भयोनिशब्दे विवृतिः। २ वशिष्ठे मुनौ ३ द्रोणाचार्य्ये च ४ घटजाते त्रि० कुम्भजन्मकुम्भजातादयोऽप्यत्र।

कुम्भतुम्बी = स्त्री कुम्भ इव तुम्बी। अलाबूभेदे राजनि० तद्गुणास्तत्रैवोक्तायथा “मधुरा कुम्भतुम्बी तु शीता पित्तहरा मता। रस्या ज्वरापहा प्रोक्ता श्वासकासकफास्रमुत्”

कुम्भदासी = स्त्री कुम्भिकायां (पाना) शब्दरत्ना०

कुम्भनाभ = पु० कुम्भैव नाभिरस्य अच्समा०। बलिदैत्यपुत्रभेदे “बलेः पुत्रशतं त्वासीत् वाणज्येष्ठं नराधिप!। धृतराष्ट्र श्च सूर्य्यश्च चन्द्रमाश्चेन्द्रतापनः। कुम्भनाभो गर्द्दभाक्षः कुक्षिरियेवमादयः” हरिव० २ अ०

कुम्भपद्यादि = बहुब्रीहौ पादशब्दान्त्यलोपङीष्निपातन निमित्ते शब्दगणभेदे स च गणः “कुम्भपदी एकपदी जलपदी शूलपदी मुनिपदी गुणपदो शतपदी सूत्रपदी गोधापदी कलशीपदी विपदी तृणपदी द्विपदी त्रिपदी षट्पदी दासीपदी शितपदी विष्णुपदी सुपदी निष्पदी आर्द्रपदी कुनिपदी कृष्णपदी शुचिपदी द्रुपदी सूकरपदी शकृत्पदी अष्टपदी स्थूणपदी अपदी सूचीपदी”।

कुम्भपाद = त्रि० कुम्भ इव स्फीतः पादोऽस्य कुम्भपद्या० स्त्रीत्वेन विशेषोक्तेर्नान्त्यलोपः। घटतुल्यपादयुक्ते श्लीपदरोगयुते स्त्रियां कुम्भपद्या० अन्त्यलोपः ङीष् च। कुम्भपदी इतिभेदः।

कुम्भमण्डूक = पु० कुम्भे मण्डूक इव। कुम्भमात्रगम्यदेशतया निन्द्ये। पात्रेसमितादित्वात् क्षेपेऽस्य समासः तेन नास्य समासान्तरघटकता। युक्त्यारोह्यादित्वात् आद्युदात्तोऽयम्

कुम्भमुद्रा = स्त्री “दक्षाङ्गुष्ठं पराङ्गुष्ठे क्षित्वा हस्तद्वयेन तु। सावकाशामेकमुष्टिं कुर्य्यात्” कुम्भमुद्रिका सा तन्त्र सारोक्ते मुद्राभेदे कलसमुद्रादयोऽप्यत्र स्त्री

कुम्भयोनि = पु० कुम्भः योनिरुत्पत्तिस्थानमस्य। १ अगस्त्ये मुनौ “प्रससादोदयादम्भः कुम्भयोनेर्महौजसः” रघुः। २ वशिष्ठे मुनौ। तयोः यथा च ततौत्पत्तिस्तथाह रामा० उ० का० ९३ अ० “अशरीरः शरीरस्य कृते न्यस्य महामुनिः। वसिष्ठस्तु महातेजा जगाम पितुरन्तिकम्। सोऽभिवाद्य ततः पादौ देवदेवस्य धर्मवित्। पितामहमथोवाच वायुभूतैदं वचः। भगवन्निमिशापेन विदेहत्वमुपागमम्। देवदेव! महादेव! वायुभूतोऽहमण्डज!। सर्वेषां देहहीनानां महद्दुःखं भविष्यति। लुप्यन्ते सर्वकार्य्याणि हीनदेह स्य वै प्रभो!। देहस्यान्थस्य सद्भावे प्रसादं कर्तुमर्हसि। तमुवाच ततोव्रह्मा स्वयंभूरमितप्रभः। मित्रावरुणजन्तेज आविशत्वं महायशः!। अयोनिजस्त्वं भवितातत्रापि द्विजसत्तम!। धर्मेण महता युक्तः पुनरेष्यसि मे वशम्। एवमुक्तस्तु देवेन अभिवाद्य प्रदक्षिणम्। कृत्वा पितामहं तूर्णं प्रययौ वरुणालयम्। तमेव कालं मित्रीऽपि वरुणत्वमकारयत्। क्षीरोदेन सहोपेतः पूज्यमानः सुरेश्वरैः। एतस्मिन्नेव काले तु उर्वशी परमाप्सराः। यद्र- च्छया तमुद्देशमागता सखोभिर्वृता। तां दृष्ट्वा रूपसपन्नां क्रीडन्तीं वरुणालये। तदाऽऽविशत्परो हर्षो वरुणं चोर्वशीकृते। स तां पद्मपलाशाक्षीं पूर्णचन्द्रनिभाननाम्। वरुणोवरयामास मैथुनायाप्सरोवराम्। प्रत्युवाच ततः सा तु वरुणं प्राञ्जलिः स्थिता। मित्रेणाहं वृता साक्षात्पूर्व मेव सुरेश्वर!। वरुणस्त्वव्रवीद्वाक्यं कन्दर्पशरपीडितः। इदं तेजः समुत्स्रक्ष्ये कुम्भेऽस्मिन्देक्निर्मिते। एव मुत्सृज्य सुश्रोणि! त्वय्यहं वरवर्णिनि!। कृतकामोभविष्यामि यदि नेच्छसि स गमम्। तस्य तल्लोकनाथस्य वरुणस्य सुभाषितम्। उर्वशी परमप्रीता श्रुत्वा वाक्यमुवाच ह। काममेतद्भवत्वेवं हृदयं मे त्वयि स्थितम्। भावश्चाप्यधिकं तुभ्यन्देहो मित्रस्य तु प्रभो!। उर्वश्या एवमुक्तस्तु रेतस्तन्महदद्भुतम्। ज्वलदग्निसमप्रख्यं तस्मिन् कुम्भे न्यवासृजत्। उर्वशी त्वगमत् तत्र मित्रोवै यत्र देवता। तान्तु मित्रः सुसंक्रुद्धौर्वशीमिदमब्रवीत्। मयाऽभिमन्त्रिता पूर्वं कस्मात्त्वमवसर्जिता। पतिमन्यं वृतवती किमर्थं दुष्टचारिणि!। अनेन दुष्कृतेन त्वं मत्क्रोधकलुषीकृता। मनुष्यलोकमास्थाय कञ्चित्कालश्रिवत्स्यिसि” इति तस्य तस्यां शापमुक्त्वा “यः स कुम्भो रघुश्रेष्ठ! तेजःपूर्णोमहात्मनोः। तस्मिंस्तेजोमयौ बिप्रौ सम्भूताघृषिसत्तमौ। पूर्वं समभवत्तत्र अगस्त्योभगवानृषिः। नाहं सुतस्तवेत्युक्त्वा मित्रं तस्मादपाक्रमत्। तद्धि तेजस्तु मित्रस्य उर्वश्याः पूर्वमाहितम्। तस्मिन् समभवत्कुम्भे तत्तजोयत्र वारुणम्। कस्यचित्त्वय कालस्य मि त्रावरुनसंभवः। वसिष्ठस्तेजसा युक्तो जज्ञे इक्ष्वाकुदैवतम्”। अत्रैवमाख्यायिका प्रथममुर्वशीं मित्रो दृष्ट्वा तामागन्त्रितवान् तयाच त्वन्निवासमागमिष्यामीत्युक्तस्तदा वरुणलोकस्थ एव मित्रस्तद्दर्शनाद्धटस्खलितं निजतेजः कुम्भे उत्सृज्य स्वन्निवास जगाम पश्चाद्वरुणोऽपि तां दृष्ट्वा स्खलितं तेजः कुम्भे व्यसृजत् ततोमित्रनिवासंगता मित्रेण शप्ता चेति। रामा० श्लोकस्यायमर्थः नाहं सुतस्तवेति यद्यपि मित्रेणापि कुम्भे रेत उत्सृष्टं तथापि तवैकस्य पुत्रो न भवामीत्युक्त्वाऽपाक्रामत्। एवमुक्तौ वीजमाह तद्धि तेजैति अगस्त्योत्पत्तिहेतुभूतं मित्रस्व तेजः पूर्वमुर्वशीनिमित्तवरुणवीर्यविसर्गात्पूर्ब माहितं यस्मिन् कुम्भे तस्मिन्नेव कुम्भे वारुणं तेजः समभवत् संगतमभवत् यत्र कुम्भे मित्रस्व तेज आसीत् अतस्तेजोन्तरसंगमादुत्प- त्तेर्नैकस्य तव सुत इत्युक्तमगस्त्येन मित्रं प्रति। “अगस्त्यश्च वशिष्ठश्च मित्रावरुणयोरृषी। रतः सुषिचतोः कुम्भे उर्वश्याः सन्निधौ तथा” भाग० ६। १८। ५। ३ अप्सरोभेदेस्त्री “गोपाली सहजन्या च कुम्भयोनिः प्रजागरा” भा० व० ४३ अ०। ४ द्रोणाचार्य्ये पु० तदुपत्तिकथा द्रोणशब्दे वक्ष्यते ५ द्रोणपुष्पीवृक्षे पु० राजनि०

कुम्भरेतस् = पु० अग्निभेदे। “हविषा यो द्वितीयेन सोमेन सह युज्यते। रथप्रभूरथाध्वा च कुम्भरेताः सौच्यते” भा० व० २१८ अ० अग्निवंशवर्णने। कुम्भस्थितं रेतः कारणमस्य। २ अगस्त्ये ३ वसिष्ठे मुनौ तयोर्यथा तथात्वं तथा कुम्भयोनिशब्दे उक्तम्

कुम्भला = स्त्री कुम्भं कुम्भाकारं लाति ला–क। (मुण्डिरी) मुण्डीरिकालतायाम् रत्नमा०

कुम्भबि(ब)ल = न० ६ त०। कुम्भस्थे गर्त्ते अन्तोदान्तोऽयम्

कुम्भवीज = पु० कुम्भ इव वीजसस्य (रोठा) करञ्ज भेदे राजनि०

कुम्भशाला = स्त्री कुम्भपाकार्थं शाला। (पोयान) (कुमारशाला) कलसपाकार्थे गृहे हेमच०

कुम्भसन्धि = पु० कुम्भयोर्हस्तिशीर्षस्थमांसपिण्डयोः सन्धिः। आरक्षाख्ये हस्तिकुम्भमध्यस्थाने त्रिका०

कुम्भसम्भव = पु० संभवत्यस्मात् सम् + भू–अपादानेऽप् कम्भः सम्भवोऽस्य। १ अमस्त्ये २ वसिष्ठे ३ द्रोणाचर्य्येच तत्रागस्त्यवशिष्ठयोस्ततौत्पत्तिकथा कुम्भयोनिशब्दे उक्ता

कुम्भसर्पिस् = न० सुश्रुतोक्ते कलसे एकादशशतव सरोषिते घृतभेदे “पुराणं तिमिरश्वासपीनसज्वरकासनुत्। मूर्च्छाकुष्ठविषोन्मादग्रहापस्मारनाशनम्। एकादशशतञ्चैव वत् सरानुषितं घृतम्। रक्षोघ्नं कुम्भसर्पिः स्यात् परतस्तु महाघृतम्”।

कुम्भा = स्त्री कुत्सित वृत्त्या उम्भा पूर्त्तिरस्याः शक०। वेश्यायां शब्दभा०

कुम्भाण्ड = पु० कुम्भैवाण्डोऽस्य। वाणासुरस्य मन्त्रिभेदे “इत्येवमुक्तः प्रहसन् कुम्भाण्डमिदमब्रवीत्” हरिव० १७५ अ० “एतस्मिन्नन्तरे तत्र कुम्भाण्डाय महात्मने कुम्भाण्ड! मन्त्रिणां श्रेष्ठ। प्रीतोऽस्मि तव सुव्रत!। एतद्दत्त्वाऽभयं तस्मै कुम्भाण्डाय महात्मने। विवाहमकरोत् तत्र सोऽनिरुद्धस्य वीर्यवान्” हरिव० १८८ अ०। स्वार्थे क। तत्रैव। सच कुष्माण्डे न० गौरकुष्माण्ड्याम् स्त्री राजनि०

कुम्भाधिप = पु० ६ त०। शनिग्रहे तस्य तदधिपत्वात् कुम्भातीशादयोऽप्यत्र पु०

कुम्भिका = स्त्री कुम्भस्तदाकारोऽस्त्यस्याः ठन्। (पाना) जलो रेजाते तृणभेदे अमरः। तत्पर्य्यायादि भावप्र० उक्तं यथा “वारिपर्णी कुम्मिका स्याच्छैवालं शैवलञ्च तत्। वारिपर्णो हिमा निक्ता लघ्वी स्वाद्वी सरा कटुः। दोशत्रयहरी रूक्षा शोणितं ज्वरशोषहृत्”। २ पाटलावृक्षे ३ द्रोणपुष्प्याञ्च राजनि०। “वर्त्मान्ते पिडका ध्माता भिद्यन्ते च स्ववन्ति च। कुम्भिकावीजसदृशा कुम्भिकाः सन्निपातजाः” माधवोक्ते ४ नेत्रवर्त्मस्थरोगभेदे सुश्रुते दीर्घमध्यत्वेनायं पठितः यथा “पृथग्दोषाः समस्ताश्च यदा वर्त्मव्यपाश्रयाः। सिरा व्याप्यावतिष्ठन्ते वर्त्मस्वधिकमूर्च्छिताः। विवर्द्ध्य मांसं रक्तञ्च तदा वर्त्मव्यपाश्रयान्। विकारान् जयन्त्याशु नामतस्तान्निबोधत। उत्सङ्गिन्यथ कुम्भीका पोथक्यो वर्त्मशर्करा” इत्युपक्रम्य कुम्भीकवीजप्रतिमाः पिडकाः पक्ष्मवर्त्मनोः। आध्मायन्ते तु भिन्ना याः कुम्भीकपिडकास्तु ताः”। तेन माधवग्रन्थे दीर्घमध्यपाठः समुचितः। कुम्भीक पिडकेत्यत्र पुंवद्भावआर्षः। कुम्भा–स्वार्थे क। ५ वेश्यायाम् शब्दमाला ६ कट्फले भावप्र० कट्फलशब्दे तद्वाक्यादि

कुम्भिन् = पुंस्त्री० कुम्भोऽस्त्यस्य इनि। १ हस्तिनि २ कुम्भीरे हेमच० स्त्रियां ङीप्। ३ गुग्गुलौ जटा०। ४ कल सरधारिणि त्रि० स्त्रियां ङीप् “उदकं कुम्भिनीरिव” ऋ० १। १९१। १४। ङीवन्तः। ५ जयपालवृक्षे राजनि० कुम्भिवीजं जयपालवीजमित्युक्तेः ६ पृथिव्यां “गौरिलाकम्भिनी क्षप्रेति” मा० २०, ५४ श्लो० व्या० मल्लिनाथधृतकोषात्।

कुम्भिपाकी = स्त्री कुम्भिना पाकोयस्याः गौरा० ङीष्। कट्फले भावप्र० शब्दकल्पद्रुमः भावप्र० कट्फलपर्य्याये कट्फलशब्दे दर्शिते तद्वाक्ये कुम्भिकाऽपिचेत्येव पाठः क्वचित् कुम्भिपाक्यपीति पाठः तन्मूलं मृग्यम्।

कुम्भिमद = कुम्भिनः गजस्य मदः। हस्तिमदे गन्धद्रव्यभेदे राजनि०

कुम्भिल = पु० कु–उम्भ–इलच् शक०। १ चौरे २ श्लोकांर्थचौरे ३ शालमत्स्ये ५ श्याले च हेमच०

कुम्भी = स्त्री कुम्भ + अल्पार्थे ङीष्। १ क्षुद्रे कुम्भे तदाकृतित्वात् २ उखायां ३ पाटलावृक्षे ४ कुम्भिकायां वरिपर्ण्ण्याम् (पाना) ५ कट्फले च हेमच० कोङ्कणे प्रसिद्धे कुम्भीपुष्पे ६ पर्पटवृक्षे। अस्य शुणाः “कुम्भी वातकफहरी” राजनि० ७ दन्तीवृक्षे राजनि०। तत्र जातादि कत्र्या० ढकञ्। कौम्भेयक तत्र जातादौ त्रि०। कर्ण्णादि० चतुरर्थ्यां फिञ्। ५ कौम्भायनि तत्सन्निकृष्टदेशादौ त्रि०।

कुम्भीक = पु० कुम्भीव कायति कै–क। १ पुन्नागवृक्षे। रत्नमा० २ कुम्भिकायां (पाना) कुम्भीकवीजप्रतिमाः” सुश्रुतः सुश्रुते अयं प्रियङ्ग्वादिगणे उक्तः यथा “प्रियङ्गुसमङ्गाघातकीपुन्नागरक्तचन्दनचन्दननोचरसरसाञ्जनकुम्भीकस्रोतोऽञ्जनपद्मकेसरयोजनवल्ल्यो दीर्घमूला चेति”। तत्र पुन्नागस्य पृथक्कीर्त्तनात् कुम्भिकापरत्वम्। सुश्रुते नेत्ररर्त्मस्थे ३ रोगभेदे कुम्भिकाशब्दे तद्वाक्यमुदाहृतम् तत्रोक्ते ४ शूकरोगोपद्रवभेदे च यथा “अथातः शूकदोषनिदानं व्याख्यास्यामः। लिङ्गवृद्धिमिच्छतामक्रमप्रवृत्तानां शूकदोषनिमित्ता दश चाष्टौ च व्याधयो जायन्ते। तद्यथा सर्षपिका, अष्ठीलिका, ग्रथितम्, कुम्भीका, अलजी, मृदितम्, सम्मूढपिडका, अवमन्थः, पुष्करीका, स्पर्शहानिः, उत्तमा, शतपोनकः, त्वक्पाकः, शोणितार्वुदम्, मांसार्वुदम्, मांसपाकः, विद्रधिः, तिलकालकश्चेति” इति विभज्य तल्लक्षणमुक्तं यथा “कुम्भीका तक्तपित्तोत्था जाम्बवास्थिनिभाऽशुभा” “कुम्भिका रक्तपित्ताभ्यामिति भावप्र० ह्रस्वमध्यपाठस्तु लिपिकरप्रमाद्यत्। ततः समूहे खलादि० इनि। तद्रोगसमूहे स्त्री “कुम्भीकिनीं शर्कराञ्च तयैवोत्सङ्गिनीमपि” “कुम्भीकिनी सह शर्करया लेख्या” सुश्रुतः सुश्रुतोक्ते क्लीवभेदे पु० “स्वे गुदे ब्रह्मचर्य्याद्यः स्त्रीषु पुंवत् प्रवर्त्तते कुम्भीकः सच विज्ञेयः। इत्युक्त्वा” “आसेक्यश्च सुगन्धी च कुम्भीकः सेर्ष्यकस्तथा। अरेतसैपे ज्ञेया अशुक्रः पण्डसंज्ञितः” तल्लक्षणं तत्रोक्तम्।

कुम्भीधान्य(क) = कुम्भीमितं धान्यमस्य वा कप्। वर्षभोग्यसञ्चितधान्ये गृहस्थमेदे “कुशूलधान्यको वा स्यात् कुम्भीधान्यक एव वा।” मनुः “वर्षनिर्व्वाहोचितधान्यादिधनः कुम्भीधान्यः” “प्राक् सोमिकीः क्रियाः कुर्य्यात् यस्यान्नं वार्षिकं भवेदिति” याज्ञबल्क्येन गृहस्थस्य वार्षिकसञ्चयाभ्यनुज्ञानात्। मनुरपि यदा वानप्रस्थस्यैव “समानिचयएव वा” इत्यनेन समासञ्चयं वक्ष्यति तदपेक्षया बहुपोष्यवर्गस्य गृहिणः समुचितः संवत्सरसञ्चयः” कुल्लू०। मेधातिथिस्तु यावता धान्यादिधनेन बहुभृत्यदारादिमतः त्रिसंवत्सरस्थितिर्भवति तावत् सुवर्णादिधनवानपि कुशूलधान्यक इत्यभिधाय कुम्भी उष्ट्रिका षाण्मासिकधान्यादिनिचयः कम्भीधान्यक इति व्याख्यातवान्। गोविन्दराजस्तु कुशूलधान्यक इत्येतद्व्याचक्षाणः धान्यकोष्ठसञ्चयो वा स्यात् द्वादशाहमात्रपर्य्याप्तधनः इति कुम्भीधान्यक इत्येतद्व्याचष्टे। उष्ट्रिकाप्रमाणधान्यादिसञ्चयोवा षडहमात्रपर्य्याधनः इति”। तेन २ तदर्थयोरपि

कुम्भीनस = पु० कुम्भीव नसा नासायस्या। १ क्रूर सर्पे मेदि० २ रावण मातृष्वस्रेय्यां लवणासुरजनन्यां स्त्री ङीष्। तदुत्पत्तेः तस्या मधुदैत्येन हरणस्य च कथा रामा० उत्तर० का० २५ अ० “विभीषणस्तु संक्रद्धो भ्रातरं वाक्यमब्रवीत्। श्रूयतामस्य पापस्य कर्म्मणः फलमागतम्। मातामहस्य योऽस्माकं ज्येष्ठोभ्राता सुमालिनः। माल्यवानिति विख्यातोवृद्धः प्राज्ञोनिशाचरः। पितृज्येष्ठो जनन्या नोह्यस्माकं चार्य कोऽभवत्। तस्य कुम्भीनसी नाम दुहितुर्दुहिताऽभवत्। मातृष्वसुरथास्माकं सा च कन्याऽनलोद्भवा। भवत्यस्माकमेवैषा भ्रातॄणां धर्मतःस्वसा। सा हृता मधुना राजन्नसुरेण बलीयसा। यज्ञप्रवृत्ते पुत्रे तु मयि चान्तर्जलोषिते। कुम्भकर्णे महाराज! निद्रामनुभवत्यथ। निहत्य राक्षसश्रेष्ठानमात्यानिह संमतान्। धर्षयित्वा हृता राजन्! गुप्ताप्यन्तः पुरे तव। श्रुत्वापि तन्महाराज! क्षान्तमेव हतोन सः। यस्मादवश्यं दातव्या कन्या भर्त्रे हि भ्रातृभिः। तदेतत्कर्मणो ह्यस्य फलं पापस्य दुर्मतेः। अस्मिन्नेवाभिसंप्राप्तं लोके विदितमस्तु ते। विभीषणवचः श्रुत्वा राक्षसेन्द्रः स रावणः। दौरात्म्येनात्मनोद्धूतस्तप्ताम्भा इव सागरः। ततोऽब्रवीद्दशग्रीवः क्रुद्धः संरक्तलोचनः। कल्प्यतां मे रथः शीघ्रं शूराः सज्जीभवन्तुनः। भ्राता मे कुम्भकर्णश्च ये च मुख्या निशाचराः। वाहनान्यधिरोहन्तु नानाप्रहरणायुधाः। अद्य तं समरे हत्वा मधुं रावणनिर्भयम्। सुरलोकं गमिष्यामि युद्धाकाङ्क्षी सुहृद्वृतः। अक्षोहिणीसहस्राणि चत्वार्यग्य्राणि रक्षसाम्। नानापहरणान्थाशु निर्ययुर्युद्धकाङ्क्षिणाम्। इन्द्र जित्त्वग्रतः सैन्यात्सैनिकान् परिगृह्य च। जगाम रावणो मध्ये कुम्भकर्णश्व पृष्ठतः। विभीषणश्च धर्म्मात्मा लङ्कायां धर्म्ममाचरत्। शेषाः सर्वे महाभागा ययुर्मधुपुरं प्रति। खरैरुष्ट्रैर्हयैर्दृप्तैः शिशुमारैर्महोरगैः। राक्षसाः प्रययुः सर्वे कृत्वाऽऽ काशं निरन्तरम्। दैत्याश्च शतशस्तत्र कृतवैराश्च दैवतै। रावणं प्रेक्ष्य गच्छन्तमन्वगच्छन् हि पृष्ठतः। स तु गत्वा मधुपुरं प्रविश्य च दशाननः। न ददर्श मधुं तत्र भगिनीं तत्र दृष्टवान्। सा च प्रह्वाञ्जलिर्भूत्वा शिरसा चरणौ गता। तस्य राक्षसराजस्य त्रस्ता कुम्भीनसो तदा। तां समुत्थापयामास न भेतव्यमिति ब्रुवन्। रावणो राक्षसश्रेष्ठः किं चापि करवाणि ते। साऽब्रवीद्यदि मे राजन्! प्रसन्नस्त्वं महाभुज!। भर्तारं न ममेहाद्य हन्तुमर्हसि मानद!। नहीदृशं भय किं चित्कुलस्त्रीणामिहोच्यते। भयानामपि सर्वेषां वैधव्यं व्यसनं महत्। सत्यवाग्भव राजेन्द्र! मामवेक्षस्व याचतीम्। त्वयाप्युक्त “महाराज! न भेतव्यमिति स्वयम्। रावणस्त्वब्रवीद्धृष्टः स्वसारं तत्र संस्थिताम्। क्व चासौ तव भर्त्ता वै मम शीघ्रं नितेव्यताम्। सह तेन गमिष्यामि सुरलोकं जयाय हि। तव कारुण्यसौहार्दान्निवृत्तोऽस्मि मधोर्बधात्” तस्याः पतिपुत्रयोश्चरितवर्णनं रामा० उत्त० ६१ अ० यथा “पूर्वं कृतयुगे राजन्दैतेयःसुमहामतिः। लोलापुत्रोऽभवज्ज्येष्ठो मधुर्नाम महासुरः। ब्रह्मण्यश्च शररण्यश्च बुद्ध्या च परिनिष्ठितः। सुरैश्च परमोदारैः प्रीतिस्तस्याऽतुलाऽभवत्। स मधुर्वीर्यसंपन्नो धर्मे च सुसमाहितः। बहुमानाच्च रुद्रेण दत्तस्तस्याद्भुतोवरः। शूलं शूलाद्विनिष्कृष्य महावीर्य्यं महाप्रभम्। ददौ महात्मा सुप्रीतो वाक्यंचैतदुवाच ह। त्वयाऽयमतुलो धर्मोमत्प्रसादकरः श्रुभः। प्रीत्या परमया युक्तोददाम्यायुधमुत्तमम्। यावत् सुरैश्च विप्रैश्च न विरुध्येर्महासुर!। तावच्छूलं तवेदं स्यादन्यथा नाशमेष्यति। यश्च त्वामभियुञ्जीत युद्धाय विगतज्वरः। तं शूलोभस्मसात्कृत्वा पुनरेष्यति ते करम्। एवं रुद्राद्वरं लब्ध्वा भूयएव महासुरः। प्रणिपत्य महादेवं वाक्यमेतदुवाच ह। भगवन्! मम वंशस्य शूलमेतदनुत्तमम्। भवेत्तु सततं देव। सुराणामीश्वरोह्यसि। तं ब्रुवाणं मधु देवः सर्वभूतपतिः शिवः। प्रत्युवाच महादेवोनैतदेवं भविष्यति। मा भूत्ते विफला वाणी मत्प्रसादकृता शुभा। भवतः पुत्रमेकं तु शूलमेतद् गमिष्यति। यावत् करस्थः शूलोऽयं भविष्यति सुतस्य ते। अबध्यः सर्वभूतानां शूलहस्तो भविष्यति। एवं मधुर्वरं लब्ध्वा देवात् सुमहदद्भुतम्। भवनंसोऽ सुरश्रेष्ठः कारयामास सुप्रभम्। तस्य पत्नी महाभागा प्रिया कुम्मीनसीति या। विश्वावसोरपत्यं साप्यन लायां महाप्रभा। तस्याः पुत्रो महावीर्योलवणोनाम दारुणः। बाल्यात् प्रभृति दुष्टात्मा पापान्येव समाचरत्। तं पूत्रं दुर्विनीतं तु दृष्ट्वा कोधसमन्वितः। मधुःस शोकमा पेदे न चैनं किञ्चिदब्रवात्। संविहाय इमं लोकं प्रवि- ष्टोवरुणालयम्। शूलं निवेश्य लवणे वरं तस्मै न्यवेदयत्। स प्रभावेण शूलस्य दौरात्म्ये नात्मनस्तथा। सन्तापयति लोकास्त्रीन्विशेषेण च तापसान्”। सचासुरः शत्रुघ्नेन हतः तत्कथा रामा० उत्त०। ६३ अ०। स (शत्रुत्नः) मुमोच महावाणं लवणस्य महोरसि। उरस्तस्य विदार्य्याशु प्रविवेश रसातलम्”।

कुम्भीनसि = पु० बलिदानवे “शम्बरस्य च या माया या माया नमुचेरपि। बलेः कुम्भीनसेश्चैव सर्व्वास्तायोषितोविदुः” भा० आ० २२३८ अ

कुम्भीपाक = पु० नरकभेदे कारणसहितं तत्स्वरूपमुक्तं भाग० ५ २६ १६ “महारौरवः कुम्भीपाकः कालसूत्र ञ्चेत्यादिना नरकान् विभज्य “यस्त्विह वा उग्रः पशून् पक्षिणो वा प्राणे उपरन्धयति तमपकरुणं पुरुषादैरपि गर्हितममुत्र यमानुचराः कुम्भीपाके तप्ततैलै उपरन्धयन्ति” “करम्भवालुकातापान् कुम्भी पाकांश्च दारुणान्” मनुः। “स्तुतिवादमिपं मत्वा कुम्भीपाके महीयते” प्रा० त०।

कुम्भीर = पुंस्त्री० कुम्भिनं हस्तिनमपोरयति ईर–अण्। जलजन्तुभेदे नक्रे अमरः स्त्रियां ङीष्। “संवत्सग्न्तु कुम्भी रस्ततोजायेत मानवः” भा० आनु० १११ अ०। कर्म्मविपाकशब्दे विवृतिः।

कुम्भीरमक्षिका = स्त्री कुम्भीरोपपदा मक्षिका शाक० त०। (कुमीरे पोका) कीटभेदे हारा०।

कुम्भीरासन = न० “अथ वक्ष्ये महादेव! कुम्भीरासनमुत्तमम्। पादोपरि पदं दत्त्वा शीर्षोपरि करद्वयम्। तिष्ठेद्दण्डाकृतिर्भूमौ कुम्भीरासनमुच्यते” रुद्रया० उक्ते आसनभेदे

कुम्भील = पुंस्त्री कुम्भीर + रस्य लः। कुम्भीरे अमरम ला स्त्रियां ङीष्। संज्ञायां क। चौरभेदे कुम्भिलशब्दार्थे

कुम्भीवीज = न० ६ त०। जयपालवृक्षवीजे राजनि०।

कुम्भोदर = पु० शिवपारिषदभेदे। “कुम्भोदरं नाम निकुम्भमित्रम्” रघुः। कुम्भतुल्यमुदरमस्य। तथोदरे त्रि० स्त्रियां ङीष्

कुयव = पु० कुत्सितेन यौति यु–अच्।” असुरभेदे “कुत्साय शुष्णं नि बर्हीः प्रपित्वे अह्नः कुयवं सहस्रा” ऋ० ४।१६। १२। “कुयवं कुयवनामासुरम्” भा० “श्रुष्णं पिप्रुं कुयवं वृत्तमिन्द्र। यदाबधीः” ऋ० १, १०३, ८। कुगतिस०। २ कुत्सिते धान्ये “क्षीरेण स्नातः कुयवस्य योषे” ऋ० १। १०४। ३। “पूर्ण्णतरञ्च मे कुयवञ्च मे” “यजु० १८। ११ “कुयवं कुधान्यम्” वेददी प०

कुयवाच् = पु० असुरभेदे “नि दुर्योणे कुयवाचमृधि श्रेत्” ऋ० १। १७४। ७। “कुयवागित्येतन्नामानमसुरम्” भा०

कुर = शब्दे तुदा० पर० अक० सेट्। कुरति अकोरीत्। चुकोर कुरटः।

कुरका = स्त्री कुर–क सैव कायति कै–क। सल्लकीवृक्षे राजनि०।

कुरङ्कुर = पुंस्त्री कुरं शब्दं करोति कृ–अच् पृ० मुम्। सारसपक्षिणि हेमच० स्त्रियां ङीष्।

कुरङ्कुर = पुंस्त्री० कुरमित्यव्यक्तं शब्दं कुरति कुर–क। सारसखगे हारा० स्त्रियां ङीष्।

कुरङ्ग = पुंस्त्री० कौ रङ्गति–अच्। “कुरङ्ग ईषत्ताम्रः स्याद्धरिणाकृतिको महान्” इत्युक्तचिह्ने १ मृगभेदे २ मृगमात्रे अमरः स्त्रियां ङीष्। “कुरङ्गमातङ्गपतङ्गभृङ्गमीना हताः पञ्चभिरेव पञ्च। एकः प्रमादी स कथं न हन्यते यः सेवते पञ्चभिरेव पञ्च” भाग० व्या० श्रीधरः तन्मांसगुणा भावप्र० यथा “कुरङ्गो वृंहणोबल्यः शीतलः पित्तहृद्गुरुः। मधुरोवातहृत् ग्राही किञ्चित् कफकरोमतः। हरिणस्य गुणैस्तुल्यः कुरङ्गः कथितोबुधैः” २ तारलोहे ३ तीर्थभेदे न० “करतोयां कुरङ्गे च त्रिरात्रे पोषितोनरः। अश्वमेधमवाप्नोति विगाह्य प्रयतः शुचिः भा० आनु० २५ अ०। स्यार्थे क। कुरङ्गक तत्रार्थे

कुरङ्गनयना = स्त्री कुरङ्गस्येव नयनमस्याः। सुन्दरनेत्राय स्त्रियां “किन्त्वेका यमुना कुरङ्गनयनानेत्राम्बु भिर्वर्द्धते” उद्भटः। कुरङ्गाक्ष्यादयोप्यत्र “कुरङ्गाक्षीवृन्दं तमनुसरति प्रेम तरलम्” कर्पूरस्तवः।

कुरङ्गनाभि = पु० ६ त०। मृगमदे गन्धद्रव्ये राजनि० तस्य तन्नाभेर्जातत्वादभेदोपचारात्तथात्वम् कस्तूरीशब्दे गुणाद्युक्तम्।

कुरङ्गम = पुंस्त्री० कौ रङ्गं मिमीते मा–ड। हरिणमेदे कुरङ्गे मृगे त्रिका० स्त्रियां ङीष्।

कुरङ्गिका = स्त्री कौ–रङ्गोऽस्त्यस्य ठन्। मुद्गपर्ण्याम् राजनि०

कुरचिल्ल = पुंस्त्री० कुरे शब्दे चिल्लति चिल्ल–शैथिल्ये अच्। कर्कटे हेमच० स्त्रियां टाप्।

कुरट = पुंस्त्री० कुर–अटन् किच्च। चर्म्मकारे त्रिका० स्त्रियां जातित्वात् ङीष्

कुरण्ट(क) = पु० कुर्य्यते शब्द्यते कुर–कर्म्मणि अण्टक्। पोतझिण्टाम् स्वार्थे क। तत्रार्थे अमरः।

कुरण्ड = पु० कुर–अण्डक् १ साकरुण्डवृक्षे राजनि०। २ अण्डवृद्धिरोगे हेमच० तन्निदानादि माधवनिदानोक्तं यथा“क्रुद्धोऽनूर्द्धगतिर्वायुः शोथशूलकरश्चरन। मुष्कौ –वङ्क्षणतः प्राप्य फलकोपाभिवाहिनोः। प्रपीड्य धमनी र्वृद्धिं करीति फलकोषयोः। दोषास्रमेदोमूत्राम्भोभिर्वृद्धः सप्तधा गदः। मूत्रान्द्रजातावनिलाद्धेतुभेदश्च केवलम्। वातपूर्णाङ्गतस्पर्शे रूक्षोवातादहेतुरुक्। पक्वोडुम्बरसङ्काशः पित्ताद्दाहोष्मपाकवान्। कफाच्छीतो गुरुः स्निग्धः कण्डूमान् कठिनोऽल्परुक्। कृष्णस्पोटावृतः पित्तवृत्तिलिङ्गश्च रक्तजः। कफवन्मेदसा वृत्तिर्मृदुस्तालफलोपमः। मूत्रवारणशीलस्य मूत्रजः स तु गच्छतः। अम्भोभिः पूर्णदृतिवत् क्षोभं याति सरुङ्मृदुः। मूत्रकृच्छ्रमधः स्याच्च चालयन् फलकोषयोः। वातकोपिभिराहारै, शीततोयावगाहनैः। धारणे रण भाराध्वविषमाङ्गप्रवर्त्तनैः। क्षोभणैः क्षुभितश्चान्यैः क्षुद्रान्त्रावयवं यदा। पवनो विगुणीकुत्य स्वनिवेशादधोनयेत्। कुर्य्याद्वङ्क्षणसन्धिस्थो ग्रन्थ्याभं श्वयथुं तथा। उपेक्षमाणस्य च मुष्कवृद्धिमाध्मानरुक् स्तममवतीं स वायुः। प्रपीडितोऽन्तःस्वनवान् प्रयाति प्रध्मापयन्नेति पुनश्च मुक्तः। अन्त्रवृद्धिरसाध्योऽयं वातवृद्धिसमाकृतिः”

कुरण्डक = पु० कुरण्टक + पृषो०। कुरण्टकवृक्षे रायमुकुटः

कुरर = पुंस्त्री० कुड् शब्दे क्ररन। (कुरल) विहगे अमरः स्त्रियां जातित्वात् ङीष्। “तत्र मामनयद्रक्षः क्रोशन्तीं कुररोमिव” भा० व० अ० ९१०८ “देवीं रोरूयमाणां कुररीमिवार्त्ताम्” भा० स० २३५१ ङीषन्तः २ मेष्यां हेमच०।

कुरराङ्घ्रि = पु० कुररस्याङ्घ्रिरिव। देवसर्षपे राजनि०

कुररोरुता = स्त्री० “कुररोरुता नजभजैर्लगयुक्” इत्युक्त लक्षणे चतुर्द्दशाक्षरपादके वर्ण्णवृत्तभेदे। “अनतिचिरोज्झितस्य जलदेन चिर स्थितबहुबुद्बुदस्य पयसोऽनुकृतिम्” मावः।

कुरल = पुंस्त्री० कुरर + रस्य लः। स्वनामख्याते पक्षिभेदे स्त्रियां जातित्वात् ङीष्। २ चूर्ण्णकुन्तले पु० धरणिः।

कुरव = पु० अल्पमकरन्दवत्त्वादलीनामीषद् रवो यत्र। १ रक्तभिण्ट्याम्, २ कुरवके, शब्दर० ३ सितमन्दारे च। कुगतिस०। ४ कुत्सितशब्दे। बहु०। ५ तथाशब्दयुक्ते त्रि०। ततः स्वार्थे क। तेष्वेवार्थेषु(कुडचि) इति ख्याते ६ पुष्पवृक्षे। “कुरवकस्तवकव्यतिषङ्गिणीति” माघः।

कुरस = पु० कुत्सितोरसोऽत्र। १ मद्यभेदे बहु०। २ कुत्सितरसयुक्ते त्रि०। ३ गोजिह्वालतायां स्त्री टाप्। कुगतिस०। २ कुत्सिते रमे पु०।

कुराह = पुंस्त्री० कुलाह + लस्य रः। ईषत्पाण्डुवर्ण्णे कृष्णजङ्घे अश्वभेदे हेमच०।

कुरी = स्त्री कुं भूमिं राति रा–क गौरा० ङीष्। तृणधान्यभेदे राजनि०।

कुरीर = न० “कुञ उच्च” उणा० कीरन् उच्च। १ मैथुने उज्ज्वदत्तः। २ शीर्षावयवमेदे च। “कुरीरमस्य शीर्षणि” अथ० ६, १३८, ३, “स्तोमा आसन् प्रतिधयः कुरीरं छन्द ओ पसः ऋ० १०, ८५, ८,

कुरु = पु० कृ–क उच्च। १ चन्द्रवंश्ये आजमीढनृपप्रपौत्रे १ राजभेदे “योऽजमीढसुतस्त्वन्य ऋक्षः संवरणस्ततः। तपत्यां सूर्य्यकन्यायां कुरुक्षेत्रपतिः कुरुः। परीक्षित् सधमुर्जह्नुर्निषधश्च कुरोः सुताः” भाग० ९, २२, ३, यथा च तस्य तपत्यामुद्भयः तथोक्तं भा० आ० १३४ अ० “एवमासीन् महाभागा तपती नाम पौर्व्विकी। तव वैवस्वती पार्थ! तापत्यस्त्वं यया मतः। तस्यां सञ्जनयामास कुरु संवरणो नृपः। तपत्यां तपतां श्रेष्ठ! तापत्यस्त्वं” ततोऽर्ज्जुन!”। कुरोर्निवासः जनपदे अणोलुप् लुपि व्यक्तिवद्वचनता। २ तदीयनिवासदेशभेदे पु० भूम्नि। “कुरून् स्वपिति” सि० कौ०। स च देशः वृह० स० १४ अ० कूर्म्मविभागे “साकेतकुरुकालकोटिकुकुराश्च पारिपात्रनगः। औदुम्बरकापिष्ठलगजाह्वयाश्चेति मध्यमिदम्” मध्यस्थतयोक्तं तत्सीमादि च “हस्तिनापुरमारभ्य कुरुक्षेत्रस्य दक्षिणे। पञ्चालपूर्ब्बभागे तु कुरुदेशः प्रकीर्त्तितः, इति शक्तिसङ्कमतन्त्रे उक्तम्। “आ मत्स्येभ्यकुरुपाञ्चालदेश्याः” भा० क० २०८ श्लोकः। तेषां राजनि अण बहुषु तस्य लुक्। ३ तद्देशराजे पु० भृस्नि “कुरूणां सृञ्जयानाञ्च पुरोहित आस” शत० व्रा० २, ५, “उवाच पार्थ। पश्यैतान् समवेतान् कुरूनिति” गीता। “श्रियः कुरूणामधिपस्य पालनीम्” किरा० तस्येदम् अण्। कौरव तदपत्ये पुंस्त्री “ऋक्षात् स वरणो जज्ञे कुरुः संवरणात्तथा। यः प्रयागमतिक्रस्य कुरुक्षेत्रञ्चकार ह। पुण्यञ्च रमणोयञ्च पुण्यकृद्भिर्निषेवितम्। तस्यान्ववायः सुमहान् यस्य नाम्ना स्थ कौरवाः” हरिवं ०३३ अ० कुर्या० अपत्येण्य। कौरव्य तदपत्ये पुंस्त्री बहुषु तस्य लुक्। क्वचिन्न “कौरव्याः पशवः प्रियापरिभवक्ले शोपशान्तिः फलम्” वेणीसं०। कौरव्ये साधवः अण्। कौरव्या इति तु माधवः। “स्त्रियामवन्तिकुन्तिकुरुभ्यः” इति स्त्रियां लुकि नृजतित्वादृङ् कुरूः। ४ ओदने मेदि०। ५ कण्ठकारिकायां शब्दच० पियव्रतराजपौत्रे ६ आग्नीध्रराजपुत्रभेदे “तस्यासुह वा आत्म- जान् स राजवर आग्नीध्रोनाभिकिंपुरुषहरिवर्षे लावृतरम्यकहिरण्मयकुरुभद्राश्वकेतुमालसंज्ञान्नव पुत्रानजनयत्” भाग० ५ स्क० २८ अ० १९ श्लो० तत्पुत्रकुरुराज्यत्वेन ७ उत्तरकुरुनामके तद्वर्षे च। तत्प्रमाणञ्च उत्तरकुरुशब्दे १० ९४ पृ० दर्शितम्। पुराणसर्व्वस्वे विष्णुपु० “नाभिञ्च प्रथमं बर्षं ततः किंपुरुषं स्थितम्। हरिवर्षं तथैवान्यत् मेरोर्दक्षिणतः स्थितम्। रम्यकञ्चोत्तरं वर्षं तथैवानु हिरण्मयम्। उत्तराः कुरुवश्चैव यथा वै भारतं तथा। इलावृतञ्च तन्मध्ये सौवर्ण्णोमेरुत्तमः” इति। अतस्तत्पुत्रनवकनाम्ना नवानां वर्षाणां ख्यातिरिति। तत्सन्निवेशादिकं तत्रैवोक्तं यथा “भद्रा तथोत्तरगिरीनुत्तरांश्च तथा कुरून्। अतीत्योत्तरसम्भोधिं समभ्येति महामुने!। वङ्क्षुश्च पश्चिमगिरीनतीत्य सकलांस्ततः। पश्चिमं केतुमालाख्यं वर्षमभ्येति सार्णवम्। तथा चालकनन्दापि दक्षिणेनेत्य भारतम्। प्रयाति सागरं भृत्वा सप्तभेदा महामुने। आनील निषधायामौ माल्यवद्गन्धमादनौ। तयोर्नध्यगतो मेरुः कर्णिकाकारसांस्थितः। भारताः केतुमालाश्च भद्राश्वाः कुरवस्तथा। पद्मानि लोकपद्मस्य मर्य्यादाश्चैव बाह्यतः। जठरोदेवकूटश्च मर्य्यादापर्व्वातातुभौ। तौ दक्षिणोत्तरायामावानीलनिषधायतौ। मेरोः पश्चिमदिग्भागे यथापूर्व्वौ तथा स्थितौ। त्रिशृङ्गोजारुधिश्चैव उत्तरे वर्षपर्व्वतौ। पूर्व्व पश्चायतावेतावर्णवान्तव्यवस्थितौ। इत्येते मुनिवर्योक्ता मर्य्यादापर्व्वतास्तवः। जठराद्याः स्थितामेरोर्येषां द्वौ द्वौ चतुर्द्दिशम्। मेरोश्चतुर्द्दिशं ये तु प्रोक्ताः केशरपर्वताः। शीतान्त्याद्या मुने! तेषामतीपेह मनोरमाः। शैलानामन्तरद्रोण्यः सिद्धचारणसेविताः। सुरम्याणि तथा तेषु काननानि पुराणि च। लक्ष्मोविष्णूग्निसूर्य्यादि देवानां मुनिसत्तम!। तान्यायतनरम्याणि जुष्टानि वरकिन्नरैः। गन्धर्व्वयक्षरक्षांसि तथा दैतेयदानवाः। क्रीडन्ति तासु रम्यासु शैलद्रोणीष्वहर्निशम्। भौमाह्येते स्मृताः स्वर्गा धर्मिणामालया मुने!। नैतेषु पापकर्माणो यान्ति जन्मशतैरपि। भद्राश्वे भगवान् विष्णुरास्त हयशिरा द्विज!। वराहः केतुमाले तु भारते कूर्मरूपधृक्। मत्स्यरूपश्च गोविन्दः कुरुष्वास्ते सनातनः। विश्वरूपेण सर्व्वत्र सर्व्वः सर्व्वेश्वरोहरिः। सर्वस्याधारभूतोऽसौ मैत्रेयास्तेऽखिलात्मकः। यानि किंपुरुषाद्यानि वर्षास्यष्टौ महामुने!। न तेषु शोकोनोनोहो नोद्वेगः क्षुद्भयादिकम्। सुस्थाःप्रजा निरातङ्काः सर्व्वदुः खविवर्जिताः। दशद्वादशवर्षाणां सहस्राणि स्थिरायुषः। न तेषु वर्षवर्य्येषु भौमान्यम्भांसि तेषु वै। कृतत्रेतादिका नैव तेषु स्थानेषु कल्पना। सर्वष्वेतेषु वर्षेषु सप्त सप्त कुलाचलाः। नद्यश्च शतशस्तेभ्यः प्रसूता या द्विजोत्तम!”। विजित्य यः प्राज्यमयच्छदुत्तरान् कुरूनकुप्यं वसु वासवोपममः” किरा० ८ यज्ञादिकर्त्तरि त्रि० कुरुश्रवणशब्देउदा०।

कुरुकन्दक = पुंन० कुरव इव विस्तीर्ण्णः कन्दोऽस्य कप्। मूलके (मूलो) शब्दमाला।

कुरुकुल्ला = स्त्री श्यामाशक्तिभेदे “काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी” श्यामाकवचम्

कुरुक्षेत्र = न० कुरुणा चन्द्रवंश्यनृपभेदेन कृष्टं क्षेत्रम्, करुदेशान्तरगतं वा क्षेत्रम् शाक० मध्यपदलोपः। तीर्थभेदे तद्विवृतिः भा० शल्य० ५३ अ० “ऋषय ऊचुः। प्रजापतेरुत्तरवेदिरुच्यते सनातनी राम! समन्तपञ्चकम्। समीजिरे तत्र पुरा दिवौकसो वरेण सत्रेण महावरप्रदाः। पुरा च राजर्षिवरेण धीमता बहूनि वर्षाण्यमितेन तेजसा। प्रकृष्टमेतत् कुरुणा महात्मना ततः कुरुक्षेत्रमितीह पप्रथे। राम उवाच। किमर्थं कुरुणा कृष्टं क्षेत्रमेतन्महात्मना। एतदिच्छाम्यहं श्रोतुं कथ्यमानं तपोधनाः!। ऋषय ऊचुः। पुरा किल कुरुं नाम कर्षन्तं सततोत्थितम्। अभ्येत्य शक्रस्त्रिदिवात् पर्य्यपृच्छत कारणम्। इन्द्र उवाच। किमिदं वर्त्तमे राजन्! प्रयत्नेन परेण च। राजर्षे। किमभिर्मतं येनेयं कृत्यते क्षितिः। कुरुरुवाच। इह ये पुरुषाः क्षेत्रे मरिष्यन्ति शतक्रतो!। ते गमिष्यन्ति सुकृतान् लोकान् पापविवर्ज्जितान्। अवहस्य ततः शक्रो जगाम त्रिदिवं पुनः। राजर्षिरप्यनिर्विण्णः कर्षत्येव वसुन्धराम्। आराभ्यागम्य चैवैनं भूयो भूयोऽवहस्य च। शतक्रतुरनिर्विण्णः पृष्ट्वा पृष्ट्वा जगाम ह। यदा तु तपसोग्रेण चकर्ष वसुधां नृपः। ततः शक्रोऽब्रवीद्देवान्राजर्षेयच्चिकीर्षितम्। एतच्छ्रुत्वाऽब्रुवन्देवाः सहस्राक्षमिदं वचः। वरेण च्छन्द्यतां शक्र! राजर्षिर्यदि शक्यते। यदि ह्यत्र प्रमीता वै स्वर्गं गच्छन्ति मानवाः। अस्मानमिष्ट्वा क्रतुभिर्भागो नो न भविष्यति। आगम्य च ततः शक्रस्तदा राजर्षिमब्रवीत्। अलं खेदेन भवतः क्रियतां वचनं मम। मानवा ये निराहारा देहं त्यक्ष्यन्त्यतन्द्रिताः। युधि वा निहताः सम्यगपि तिर्य्यग्गता नृप!। ते स्वर्गभाजो राजेन्द्र! भविष्यन्ति महामते!। तथाऽस्त्विति ततो राजा कुरुः शक्रमुवाच ह। ततस्तमभ्यनुज्ञाप्य प्रहृष्टेनान्तरात्मना। जगाम त्रिदिवं भूयः क्षिप्रं बलनिसूदनः। एवमेतद्यदुश्रेष्ठ! कृष्टं राजर्षिणा पुरा। शक्रेण चाभ्यनुज्ञातं ब्रह्माद्यैश्च सुरैस्तथा। नातः परतरं पुण्यं भूमेः स्थानं भविष्यति। इह तप्स्यन्ति ये केचित् तपः परमकं नराः। देहत्यागेन ते सर्वे यास्यन्ति ब्रह्मणः क्षयम्। ये पुनः पुण्यभाजो वै दानं दास्यन्ति मानवाः। तेषां सहस्रगुणितं भविष्यत्यचिरेण वै। ये चेह नित्यं मनुजा निवत्स्यन्ति शुभैषिणः। यमस्य विषयं ते तु न द्रक्ष्यन्ति कदाचन। यक्ष्यन्ति ये च क्रतुभिर्महद्भिर्मनुजेश्वराः। तेषां त्रिविष्टपे वासो यावद्भूमिर्धरिष्यति। अपि चात्र स्वयं शक्रो जगौ गाथां सुराधिपः। कुरुक्षेत्रनिबद्धां वै तां शृणुष्व हलायुध!। पांशवोऽपि कुरुक्षेत्राद्वायुना समुदीरिताः। अपि दुष्कृतकर्माणं नयन्ति परमां गतिम्। सुरर्षभा व्राह्मणसत्तमाश्च तथा नृगाद्या नरदेवमुख्याः। इष्ट्वा महार्हैः क्रतुभिर्नृसिंह! संत्यज्य देहान् सुगतिं प्रपन्नाः। तरन्तुकारन्तुकयोर्यदन्तरं रामह्रदानान्तु मचक्रकस्य। एतत् कुरुक्षेत्रसमन्तपञ्चकं प्रजापतेरुत्तरवेदिरुच्यते। शिवं महापुण्यमिदं दिवौकसां सुसंमतं सर्वगुणैः समन्वितम्। अतश्च सर्वे निहता नृपा रणे यास्यन्ति पुण्यां गतिमक्षयां सदा। इत्युवाच स्वयं शक्रः सह ब्रह्मादिभिस्तथा! तच्चानुमोदितं सर्वं ब्रह्मविष्णुमहेश्वरैः। “कुरुक्षेत्रे परीणहि स्थलेऽप्यग्न्याधेयमन्वारम्भणीयान्तं भवति” कात्या० २४। ६। ३४। कुरुक्षेत्रं च ब्रह्मर्षिदेशः। “कुरुक्षेत्रञ्च मत्स्याश्च पञ्चालाः शूरसेनकाः। एष ब्रह्मर्षिदेशो वै ब्रह्मावर्त्तादनन्तरः” मनूक्तेः। इदं संवरसुतकुरुनृपराज्यान्तर्गतमत स्तन्नाम्ना पथितम् अतएव कुरुशब्ददर्शिते भाग० वाक्ये “कुरुक्षेत्रपतिं कुरुमित्युक्तम्। भा० आ० ९४ अ०। “ततः संवरणाद्देवी तपती सुषुवे कुरुम्। राजन्नेतं प्रजाः सर्वा धर्म्मज्ञ इति मेनिरे। तस्य नाम्नाऽभि विख्यातं पृथिव्यां कुरुजाङ्गलम्। कुरुक्षेत्रं च तपसा पुण्यं चक्रे महातपाः” इति। कुरुक्षेत्रस्थतीर्थमहात्म्यं भा० व० ८३ अ० उक्तं यथा “ततो गच्छेत राजेन्द्र! कुरुक्षेत्रमभिष्टुतम्। पापेभ्यो यत्र मुच्यन्ते दर्शनात् सर्वजन्तवः। कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम्। य एबं सततं ब्रूयात् सोऽपि पापैः प्रमुच्यते। पांशवोऽपि कुरुक्षेत्रे वायुना समुदीरिताः। अपि दुष्कृतकर्म्माणं नयन्ति परमां गतिम्। दक्षिणेन सरस्वत्यादृषद्वत्युत्तरेण च। ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिपिष्टपे। तत्र मासं वसेद्वीर! सरस्वत्यां युधिष्ठिर!। यत्र व्रह्मादयो देवा ऋषयः सिद्धचारणाः। गन्धर्व्वाप्सरसो यक्षाः पन्नगाश्च महीपते!। ब्रह्मक्षेत्रं महापुण्यमभिगच्छन्ति भारत!। मनसाप्यभिकामस्य कुरुक्षत्रं युधिष्ठिर!। पापानि विप्रणश्यन्ति ब्रह्मलोकञ्च गच्छति। गत्वा हि श्रद्धया युक्तः कुरुक्षत्रं कुरूद्वह!। फलं प्राप्नोति च तदा राजसूयाश्वमेधयोः। ततो मङ्कणकं नाम द्वारपालं महाबलम्। यक्षं समभिवाद्यैव गोसहस्रफलं लभेत्। ततो गच्छेत धर्म्मज्ञो विष्णोः स्थानमनुत्तमम्। सततं नाम राजेन्द्र! यत्र सन्निहितो हरिः। तत्र स्नात्वा च नत्वा च त्रिलोकप्रभवं हरिम्। अश्वमेधमयाप्नोति विष्णुलोकञ्च गच्छति। ततः परिप्लवं गच्छेत्तोर्थं त्रैलोक्यविश्रुतम्। अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति भारत!। पृथिवीतीर्थमासाद्य गोसहस्रफलं लभेत्। ततः शालूकिनीं गत्वा तीर्थसेवी नराधिप!। दशाश्वमेधे स्नात्वा च तदेव फलमाप्नुयात्। सर्पदेवीं समासाद्य नागानां तीर्थमुत्तमम्। अग्निष्टोममवाप्नोति नागलोकञ्च विन्दति। ततो गच्छेत धर्म्मज्ञो द्वारपालं तरन्तुकम्। तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत्। ततः पञ्चनदं गत्वा नियतो नियताशनः। कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत्। अश्विनोस्तीर्थमासाद्य रूपवानभिजायते। ततो गच्छेत धर्म्मज्ञो वाराहं तीर्थमुत्तमम्। विष्णुर्वराहरूपेण पूर्वं यत्र स्थितोऽभवत्। तत्र स्नात्वा नरश्रेष्ठ! अग्निष्टोमफलं लभेत्। ततो जयन्त्यां राजेन्द्र सोमतीर्थं समाविशेत्। स्नात्वा फलमवाप्नोति राजसूयस्य मानवः। एकहंसे नरः स्नात्वा गोसहस्रफलं लभेत्। कृतशौचं समासाद्य तीर्थसेवी नराधिप। पुण्डरीकमयाप्नोति कृतशौचो भवेच्च सः। ततो मुञ्जवटं नाम स्थाणोः स्थानं महात्मनः। उपोष्य रजनीमेकां गाणपत्यमवाप्नुयात्। तत्रैव च महाराज! यक्षिणीं लोकविश्रुताम्। स्नात्वाभिगम्य राजेन्द्र! सर्व्वान् कामानवाप्नुयात्। कुरुक्षेत्रस्य तद्द्वारं विश्रुतं भरतर्षभ!। प्रदक्षिणमुपावृत्य तीर्थसेवी समाहितः। सम्मितं पुष्कराणाञ्च स्नात्वाच्चर्य पितृदेवताः। जामदग्न्येन रा- मेण कृतन्तत् सुमहात्मना। कृतकृत्यो भवेद्राजन्नश्वमेधञ्च विन्दति। ततो रामह्रदात् गच्छेत् तीर्थसेवी समाहितः। तत्र रामेण राजेन्द्र! तरसा दीप्ततेजसा। क्षात्त्रमुत्साद्य वीरेण ह्रदाः पञ्च निवेशिताः। पूरयित्वा नरव्याघ्र! रुधिरेणेति विश्रुतम्। पितरस्तर्षिताः सर्वे तथैव प्रपितामहाः। ततस्ते पितरः प्रीता राममूचुर्नराधिप!। पितर ऊचुः। राम! राम! महाभाग! प्रीताः स्म तव भार्गव!। अनया पितृभक्त्या च विक्रमेण च ते प्रभो!। वरं वृणीष्व भद्रं ते किमिच्छसि महाद्युते। एवमुक्तः स राजेन्द्र। रामः प्रहरतां वरः। अब्रवीत् प्राञ्जलिर्व्वाक्यं पितॄन् स गगनेस्थितान्। भवन्तो यदि मे प्रीता यद्यनुग्राह्यता मयि। पितृप्रसादमिच्छेयं तप आप्यायनं पुनः। यच्च रोषाभिभूतेन क्षत्त्रमत्सादितं मया। ततश्च पापान्मुच्येयं युष्माकं तेजसाप्यहम्। ह्रदाश्च तीर्थीभूता मे भवेयुर्भुवि विश्रुताः। एतच्छ्रुत्वा शुभं वाक्यं रामस्य पितरस्तदा। प्रत्यूचुः परमप्रीता रामं हर्षसमन्विताः। तपस्ते वर्द्धतां भूयः पितृभक्त्या विशेषतः। यच्च रोषाभिभूतेन क्षत्त्रमुत्सादितं त्वया। ततश्च पापान्मुक्तरत्वं निहतास्ते स्वकर्म्मभिः। ह्रदाश्च तव तीर्थत्वं गमिष्यन्ति न संशयः। ह्रदेष्वेतेषु यः स्नात्वा पितॄन् सन्तर्पयिष्यति। पितरस्तस्य वै प्रीत दास्यन्ति भुवि दुर्लभम्। ईप्सितञ्च मनःकामं स्वर्गलोकञ्च शाश्वतम्। एवं दत्त्वा वरान्राजन्! रामस्य पितरस्तदा। आमन्त्र्य भार्गवं प्रीत्या तत्रैवान्तर्हितास्ततः। एवं रामह्रदाः पुण्या भार्गवस्य महात्मनः। स्नात्वा ह्रदेषु रामस्य ब्रह्मचारी शुभव्रतः। राममभ्यर्च्च्य राजेन्द्र! लभेद्बहु सुवर्णकम्। वंशमूलकमासाद्यतीर्थसेवी कुरूद्वह!। स्ववेशमुद्धरेद्राजन्! स्नात्वा वै वंशमूलके। कायशोधनमासाद्य तीर्थं भरतसत्तम!। शरीरशुद्धिः स्नातस्य तस्मिं स्तीर्थे न संशयः। शुद्धदेहश्च संयाति शुभाल्लो काननुत्तमान्। ततो गच्छेत धर्म्मज्ञ! तीर्थं त्रैलोक्यविश्रुतम्। लोका यत्रोद्धृताः पूर्बं विष्णुना प्रभविष्णुना। लोकोद्धारं समासाद्य तीर्थं त्रैलोक्यपूजितम्। स्नात्वा तीर्थ वरेराजन्! लोकानुद्धरते स्वकान्। श्रीतोर्थञ्च समासाद्य स्नात्वा नियतमानसः। अर्च्चयित्वा पितॄन् देवान् विन्दते श्रियमुत्तमाम्। कपिलातीर्थमासाद्य ब्रह्मचारी समाहितः। तत्र स्नात्वार्च्च यित्वा च पितॄन् स्वान् दैवतान्यपि। कपिलानां सहस्रस्य फलं विन्दात मानवः। सूर्य्यतीर्थं समासाद्य स्नात्वा नियतमानसः। अर्च्चयित्वा पितॄन् देवानुपयासपरायणः। अग्निष्टोममवाप्नोति सूर्य्यलोकञ्च गच्छति। गवां भयनमासाद्य तीर्थसेवी यथाक्रमम्। तत्राभिषेकं कुर्व्वाणो गोसहस्रफलं लभेत्। शङ्खिनीतीर्थ मासाद्य तीर्थसेवी कुरूद्वह!। देव्यास्तीर्थे नरः स्नात्वा लभते वीर्य्यमुत्तमम्। ततो गच्छेत राजेन्द्र! द्वारपालं करन्तुकम्। तच्च तीर्यं सरस्वत्यां यक्षेन्द्रस्य महात्मनः। तत्र स्नात्वा नरो राजन्नग्निष्टोमफलं लभेत्।।” “धर्म्मक्षेत्रं कुरुक्षेत्रं द्वादशयोजनावधि” हारा० २ देवयजनस्थाने “कुरुक्षेत्रेऽमी देवा यज्ञं तन्वते” शत० व्रा० ४। १। ५। १३। “तेषां कुरुक्षेत्रं देवयजनं यस्मादाहुः कुरुक्षेत्रं देवानां देवयजनं तस्माद्यत्र क्व च कुरुक्षेत्रस्य निगच्छति तदेव मन्यते इदं देवयजनमिति तद्धि देवानां देवयजनम्” शत० व्रा० १४। १। १। २ अस्मिन् पक्षे च कुरु देवयज्ञाधारभूतं क्षेत्रम् आधारे कर्त्तृत्वोपचारात् कर्त्तरि कुप्रत्यय इति मन्त्रव्यम्। ३ अविमुक्ते क्षेत्रे च। देवयजनपरताऽविमुक्तपरता चास्य “धर्म्मक्षेत्रे कुरुक्षेत्रे” इति गीताव्या० नीलकण्ठेन समर्थिता यथा “तत्र वेदे तेषां कुरुक्षेत्रं देवयजनमासेति” कर्भकाण्डप्रसिद्धं कुरुक्षेत्रमन्यत् “अविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्म सदनम्” इत्यविमुक्ताख्यं ब्रह्मप्राप्तिस्थानभूतं कुरुक्षेत्रमन्यत् ब्रह्मसदनत्वं चास्य “अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृती भूत्वा मोक्षी भवतीति” वाक्यशेषेण व्युत्पादितम् एतद्व्यावृत्त्यर्थं धर्मक्षेत्रे इति विशेषणं कुरुदेशान्तरगतं हि कुरुक्षेत्रं धर्मक्षेत्रमेव न तु तत् ब्रह्मसदनं प्रवर्ग्यकाण्डे तस्य धर्मक्षेत्रत्वमात्रश्रवणात्”

कुरुक्षेत्रीयोग = पु० एकस्मिन् सावने तिथिनक्षत्रयोगाना क्षयरूपे ज्यो० उक्ते १ योगभेदे। २ कुरुक्षेत्रे मृत्युसूचके ग्रहयोगभेदे च। “पञ्चग्रहयुते मृत्यौ लग्नसंस्थे वृहस्पतौ। सौम्यक्षेत्रगते लग्ने कुरुक्षेत्रे मृतिर्भवेत्” जातकामृते योगाध्यायः।

कुरुजाङ्गल = न० जङ्गलमेव जाङ्गलं कुरुषु जाङ्गलम्। १ कुरुक्षेत्रे “तस्य नाम्नाऽभिविख्यातं पृधिव्यां कुरुजाङ्कलम्। कुरुक्षेत्रं स(कुरुः) तपसा पुण्यं चक्रे महातपाः” भा० आ० ९४ अ० “यदा परीक्षित् कुरुजाङ्गले वसन्” भाग० १, १६, ११, कुरवश्च जाङ्गलाश्च द्व०। “कुरुदेशे जाङ्गलदेशे च पुं भूम्नि “कथमालक्षितः पौरैः संप्राप्तः कुरुजाङ्गुलान्” भाग० १, ४, ७, कुरवो जाङ्गलाश्च देशभेदाः” श्रीधरः”। कुरवश्च लाङ्गलञ्च “विशिष्टलिङ्गो नदीदेशोऽग्रामतः” पा० समा० एकवद्भावे कुरुजाङ्गलम्। ३ तत्समाहारे न०

कुरुट = पु० कुत्सितं रोटति रुट–दीप्तिप्रतिषाते क। सितावरकशाके राजनि०।

कुरुण्ट = पु० कुत्सितं रुण्टति रुटि–स्तेये अच्। पीतझिण्ट्याम् पीताम्लाने मेदि०। स्वार्थे क। तत्रार्थे अमरः

कुरुण्टी = स्त्री कु + रुटि–स्तेये अच् गौरा० ङीष्। १ दारु पुत्तलिकायां मेदि०। २ ब्राह्मण्यां जटा०

कुरुत = पु० कुर–बा० उतक्। वंशनिर्मिते वृहदाकारे पात्रभेदे सैव पादोऽस्य हस्त्या० नान्त्यलोपः। कुरुतपादैत्येव।

कुरुतीर्थ = न० भारतप्रसिद्धे तीर्थभेदे तच्च तीर्थं “यत्र ब्रह्मादिभिर्देवैरृषिभिश्च तपोधनैः। सैमापत्येन देवानामभिषिक्तो गुहस्तदा। तैजसस्य च पूर्व्वेण कुरुतीर्थं कुरूद्वह! कुरुतीर्थे नरः स्रात्वा ब्रह्मचारी जितेन्द्रियः। सर्व्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते” भा० व० ६८ अ० उक्तम्।

कुरुनदिका = स्त्री यथाल्पिका नदी कुरुनदिकेत्युच्यते इत्युक्तायामल्पायां नद्याम्।

कुरुपिशङ्गिला = स्त्री कुरु इत्यनुकरणशब्दकरणेन मूलावयवभक्षिकायां गोधायाम् “कईभरे पिशङ्गिला कईं कुरुपिशङ्गिला” इति प्रश्ने “अजारे पिशङ्गिला श्वावित् कुरुपिशङ्गिला” यजु० २३। ५५। ५६। उत्तरम् “श्वावित् गोधा कुरुपिशङ्गिला। कुरुशब्दाऽनुकरणे पिश–अवयवे इति धातोरिगुपधेति कप्रत्ययः कुरु इति शब्दानुकुर्व्वाणा पिशान् मूलाद्यवयचान् गिलति। पिशङ्गिला मूलानि शतं कुक्षौ स्थापयति शतञ्च भक्षयतीति गोधायाः स्वभावः” वेददीपः।

कुरुम्ब = न० कुर–बा० उम्बच। (कमलालेषु) १ कुलपालके जम्बीरभेदे शब्दच०। २ द्रोणपुष्प्यां स्त्री० ठाप् राजनि० गौरा० ङीष्। सैंहलीवृक्षे राजनि०। स्वार्थे व तत्रार्थे

कुरुराज् = पु० कुरुषु राजते राज–क्विप्। दुर्योधने त्रिका० कुरूणां राजा टच्समा०। कुरुराजोऽप्यत्र

कुरुल = पु० कुर + उलक्। ललाटस्थे चूर्ण्ण कुन्तले हेमच०

कुरुवक = पु० कु + रु–क–कुत्सितं रुवोभ्रमरो यत्र कष्। १ रक्तझिण्ट्याम् अमरः २ पीतझिण्ट्यां हेम०

कुरुवर्ष = न० कुरुसंज्ञकं वर्षम्। जम्बुद्वीपस्थे उत्तरकुरुसंज्ञके वर्षभेद उत्तकुरुशब्दे १०९४ पृ० विवृतिः

कुरुविन्द = पु० कुरून् मूलकारणत्वेन विन्दति विद–श मुचा० मुम्। १ मुस्तायाम् अमरः २ माषे राजनि० ३ काचलवणे ४ माणिक्यरत्ने न० राजनि०। ५ कुरुविल्वरत्ने ६ कुष्माषे ब्रीहिभेदे मेदि० ७ दर्पणे ८ हिङ्गुले च न० शब्दचि०

कुरुविल्व = पु० कुरुषु विल्वैव। १ पद्मरागमणौ त्रिका० संज्ञायां क। कुरुविल्वक कुल्माषे (वनकुरथि) रत्नमा०

कुरुविस्त = पु० कुरुषु विख्यातः विस्तः। स्वर्ण्णपले अमरः

कुरुवृद्ध = पु० कुरूणा जनपदानां राजानः तद्राजस्य तद्धितस्य बहुषु लुक् तेषु कुरुषु वृद्धः। भीष्मे। “तस्य संजनयन् हर्षं कुरुवृद्धः पितामहः” गीता।

कुरुश्रवण = त्रि० कुरवः यज्ञकर्त्तारः तेषां श्रवणः स्तोतॄणां श्रोता श्रु–नन्द्या ल्यु। ऋत्विजां स्तुतिश्रोतरि “कुरुश्रबण मावृणि राजानं त्रासदस्यवम् ऋ० १०, ३३ अ० “कुरुश्रवण! ददतोमवानि” ऋ० १०। ३२। ९। हे कुरुश्रवण! कुरवः ऋत्विजः तेषां स्तुतीनां श्रोतः!” भा०

कुरूटिनी = स्त्री किरीटिनी + वेदे पृषो०। किरीटयुक्तायां सेनायाम् “बाहिनी विश्वरूपा कुरूटिनी अथ० १०, १, १५

कुरूप्य = न० ईषत् रूप्यं शुभ्रत्वेन सादृश्यात्। १ रङ्गनामके धातौ राजनि० कोः पृथिव्याः कुस्थानात् वा आगत० रूप्यप्। पृथिव्याः कुस्थानाद्वा २ आमते त्रि०

***