कुर्कुट = पुंस्त्री० कुरित्यव्यक्तं शब्दं कुटति कुट–क। कुक्कुटे हारा० “श्वानः कुर्कुटचण्डालाः समस्पर्शाः प्रकीर्त्तिताः। रासभोष्ट्रौ विशेषेण तस्पात्तान्नैव संस्पृशेत्” पञ्चत० स्त्रियां जातित्वात् ङीष्

कुर्कुटाहि = पु० कुर्कुटतुल्यमहति अह–इन्। कुर्कुटा भे खगे स्त्रियां ङीष्

कुर्कुर = पुंस्त्री० कुरित्यव्यक्तंशब्दं कोरति कुर–क। कुक्कुरे रायमुकुटः “कुर्कुराविव कूजन्तौ” अथ० ७, ९५, २, “उपकर्त्तुमपि प्राप्तं निःस्व मन्वन्ति कुर्कुरम्” पञ्चत०।

कुर्चिका = स्त्री कूर्चिका पृषो०। कूर्चिकाशब्दार्थे अमरटीका

कुर्ण्णज = पु० कुलञ्जनवृक्षे गन्धमूले राजनि०।

कु(कू)र्द्द = क्रीडायां भ्वा० आत्म० अक० सेट्। कु(कू)र्द्वते अकु(कू)र्द्दष्ट चुकु(कू)र्द्दे। अर्थवत्परिभाषया नकुरछुरामिति निषेधाप्रवृत्तावपि दीर्घमध्यान्तरपाठसामर्थ्यात् रेफे परे न दीर्घः इति सूचितम्। तेन कुर्द्दनमित्यादौ न दीर्घः।

कु(कू)र्दन = न० कु(कू)र्द्द–भावे ल्युट्। क्रीडायां (कोदा) अमरः।

कु(कू)र्पर = पु० कुर–क्विप् कुः पिपर्त्ति अच् परः कर्म्म०। १ जानुनि, २ कफोणौ च। भेदि० दीर्घमध्यपाठान्तरे नि० दीर्घः

कु(कू)र्पास = पुंन० कुर्परे अस्यते आस्ते का घञ् पृ०। स्त्रीणां कञ्चुलिकायां (कांचुली) स्वार्थे क। तत्रैवार्थे। “प्रस्वेदवारिसविशेषविषक्तमङ्गे कु(कू)र्पासकं क्षतनखक्षतमुत्क्षिपन्ती” माघः। “मनोज्ञकु(कू)र्पासकपीडितस्तना” रत्ना०

कुर्व्वत् = पुंस्त्री कु–शतृ। १ चर्म्मकारे २ भृत्ये त्रि० विश्वः ३ कर्त्तरि त्रि०। स्त्रियां ङीप्।

कुर्व्वद्रूप = पु० कुर्वत् फलोन्मुखं रूपं यस्य। बौद्धमतसिद्धे फलजननाय योग्ये धान्यादौ वीजे। स च वौद्धमते अतिशयात्ना सहकारिभिराधीयते इति स्थितम् यथा “अथ भावादभिन्नोऽतिशयः सहकारिभिराधीयते इत्युभ्युपगम्यते तर्हि प्राचीनभावोऽनतिशयात्मा निवृत्तः अम्यश्चातिशयात्मा कुर्व्वद्रूपादिपदवेदनीयो जायत इति” सर्व्वदर्शनसं०। क्षणिकशब्दे बौद्धशब्दे च विवृतिः।

कुर्व्वाण = त्रि० कृ–शानच्। १ भृत्ये २ कारके च शब्दचि०।

कुर्व्वादि = पु० अपत्ये ण्यप्रत्ययनिमित्ते पाणिन्युक्ते शब्दगणभेदे “सच गणः कुरु गर्गर मङ्गुष अजमार रथकार वावदूक (सम्राजः क्षत्रिये) कवि विमति कापिञ्जलादि वाक् वामरथ पितृमत् इन्द्रलाजी एजि वातकि दाभोष्णीषि गणकारि कैशोरि कुट शलाका मुर पुर एरका शुभ्र अभ्र दर्भ केशिनी (वेणा छन्दसि) शूर्प णाय श्यावनाय श्यावरथ श्यावपुत्र सत्यङ्कार वडभीकार पथिकार मूढ शकन्धु शङु शाकम् शाकिन् शालीन कर्त्तृ हर्त्तृ इन पिण्डी (वामरथस्य कण्वादिवत् खरवर्जम्) कौरव्य

कुल = बन्धे संहतौ च भ्वा० पर० अक० सेट्। कोलति अकोलीत् चकोल। कुलम्। वंशेएवास्य प्रयोग इति वदन् दुर्गादासः आकुलः सङ्गुलैत्यादिप्रयोगमपश्यन् परास्तः। आ + व्यग्रतायाम् चञ्चलतायाम्। आकोलति “किमेतदित्याकुलमीक्षितं जनेः” माषः “उदपतद्दिवमाकुल लोचनैः” भट्टिः। सम् + सङ्कीर्ण्णतायाम् सङ्कुल युद्धम् भा० द्रो० प०। “अलिकुलसंकुलकुसुमनिराकुलेत्यादि” जयदेवः। “शङ्खकुलाकुलेन” माघः।

कुल = न० कुल–क, कुङ् शब्दे कर्म्मणि बा० लक्, कुंभूमिं लाति ला–क, कौ भूमौ लीयते “अन्येभ्योऽपि” पा० ड० यथायथम् व्युत्पत्तिः। १ जनपदे देशे। मध्यमहलद्वयेन यावती भूमिः कृष्यते तावत्यां २ भूमौ “दशी कुलन्तु भुञ्जीत” मनुः। “अष्टागवं धर्म्महलं षड्गवं जीवितार्थिनाम्। चतुर्गवं गृहस्थानां द्विगवं ब्रह्मघातिनाम्” हारीतस्मरणात् “षड्गवं मध्यमं हलमिति तथाविष- हलद्वयेन यावती भूमिः कृष्यते तावद्भूमिः कुलमित्युच्यते कुल्लू०। ३ गोत्रे ४ वंशे। ५ सजातिगणे विप्रकुलम् पक्षिकुलम्। स्वगकुलाय कुलायनिलायिताम् माघः तत्र सत्कुलधर्म्माश्च “आचारो विनयो विद्या प्रतिष्ठातीर्थदर्शनम्। निष्ठा वृत्तिस्तपोदानं नवधा कुललक्षणम्”। अभियुक्तोक्ताः तस्य नाशकधर्म्माश्च कूर्म्म पु० १५ अ० उक्ता यथा “गोभिश्च घोटकैर्विप्र! कृष्या राजोपसेवया। कुलान्यकुलतां यान्ति यानि हीनानि वृत्ततः। कुविवाहैः क्रिया लोपैर्वेदानध्ययनेन च। कुलान्यकुलवां यान्ति ब्राह्मणा तिक्रमेण वै। अनृतात् पारदार्य्याच्च तथाऽभक्ष्यस्य भक्षणात्। अश्रौतधर्म्माचरणात् क्षिप्रं नश्यति वै कुलम्। अश्रोत्रियेषु वेदानां वृषलेषु तथैव च। विहिताचारहीनेषु क्षिप्रं नश्यति वै कुलम्”।

मनुना तु कुलनासवृद्ध्योः कारणमुक्तं यथा “शोचन्ति जामयो यत्र विनश्यत्याशु तत् कुलम्। न शोचन्ति तु यत्रैता वर्द्धते तद्धि सर्वदा। जामयो यानि गेहानि शपन्त्यपतिपूजिताः। तानि कृत्याहतानीव विनश्यन्ति समन्ततः। तस्मादेताः सदा पूज्या भूषणाच्छादनाशनैः। भूतिकामैर्नरैर्नित्यं सत्कारेषूत्सवेषु च। सन्तुष्टो भार्य्यया भर्त्ता भर्त्रा भार्य्या तथैव च। यस्मिन्नेव कुले नित्यं कल्याणं तत्र वै ध्रुवम्। यदि हि स्त्री न रोचेत पुमांसं न प्रमोदयेत्। अप्रमोदात् पुनः पुंसः प्रजन न प्रवर्त्तते। स्त्रियान्तु रोचमानायां सर्वं तद्रोचते कुलम्। तस्यान्त्वरोचमानायां सर्व्वमेव न रोचते। कुविवाहैः क्रियालोपैर्वेदानध्ययनेन च। कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च। शिल्पेन व्यवहारेण शूद्रापत्यैश्च केबलैः। गोभिरश्वैश्च यानैश्च कृष्या राजोपसेवया। अयाज्ययाजनैश्चैव नास्तिक्येन च कर्म्मणाम्। कुलान्याशु विनश्यन्ति यानि हीनानि मन्त्रतः। मन्त्रतस्तु समृद्धानि कुलान्यल्पधनान्यपि। कुलसङ्ख्याञ्च गच्छन्ति कर्षन्ति च महद् यशः”। कुलरक्षार्थंविवाह विषये त्याज्यकुलानि मनुनोक्तानि यथा “महान्त्यपि समृद्धानि गोऽजाविधनधान्यतः। स्त्रीसम्बन्धे दशैतानि कुलानि परिवर्ज्जयेत्। हीन क्रियं निष्पुरुषं निश्छन्दोरोमशार्शसम्। क्षय्यामयाव्यपस्मारिश्वित्रि कुष्ठिकुलानि च”। ६ गृहे ७ देहे च ८ श्रेष्ठे त्रि० मेदि०। “जीवप्रकृतितत्त्वञ्च दिक्कालाकाशमेव च। क्षित्यप्तेजो वायवश्च कुलमित्यभिधीयते” तन्त्रोक्तेषु ९ जीवादिषु १० कु- लिके शिल्पिकुलप्रधाने पु० भरतः। कुले भवः यत् कुल्य ख। कुलोन, दृकञ्। कौलेयक कुलोद्भवे त्रि० अश्वादि० चतुरर्थ्या यः। कुल्यकुलसन्निकृष्टदेशादौ त्रि० बलादि० देशे मत्प मस्य वः। कुलवत् कुलयुक्ते त्रि० स्त्रियां ङीप् कुलवती तत्र सजातीयसंघे “यस्याश्चलद्वारिधिवारिवीचिच्छटोच्छलच्छङ्खकुलाकुलेन” माघः अलिकुलसङ्कुलेत्यादि जयदेवः पृथिव्याधारे मूलाधारे लीयते–ली + ड। ११ कुलकुण्डल्यां स्त्री उपचारात् तदुपासके तन्त्रोक्ते १२ आचारविशेषयुक्ते कुलाचाराधिकारेणैव कुलचन्द्रिका कुलक्रमदीपिका कुलचूडामणिकुलार्ण्णवादयवस्तन्त्रग्रन्थाः १३ भूमिलग्ने च त्रि०। १४ तन्त्रोक्ते तिथिनक्षत्रवारभेदे त्रि० कुलतिथिकुलनक्षत्रकुलवारशब्दे कुलाचारशब्दे च विवृतिः।

कुलक = न० कुल–क कौ लीयते ली–ड वा ततः संज्ञायां कन्। १ पटोललतायां २ परस्परसंवद्धश्लोकपञ्चके च मेदि० “कलापकं चतुर्भिश्च पञ्चभिः कुलकं मतम्” सा० द०। ३ काकेन्दौ पु० अमरः ४ वल्मीके पु० ५ कुलश्रेष्ठे त्रि० मेदि० ६ मरुवकवृक्षे पु० रत्नमा०। ७ हरितसर्थे पुंस्त्री० राजनि०। ८ कुपीलौ पु० मावप्र०। ९ शिल्पिकुलप्रधाने त्रि० भरतः।

कुलकर्कटी = स्त्री नित्यकर्म्म०। चीनकर्कट्यां राजनि०।

कुलकुण्डलिनी = स्त्री कौ पृथिवीतत्त्वाधारे मूलाधारे लीयते ली–ड कर्म्म०। तन्त्रोक्ते मूलाधारे सर्पीवदवस्थिते शिवशक्तिभेदे कुलकुण्डलीत्यप्यत्र स्त्री। तत्स्वरूपादिकं शारदायामुक्तम् यथा “ततश्चैतन्यरूपा सा सर्व्वगा विश्वरूपिणी। शिवसन्निधिमासाद्य नित्यानन्दगुणोदया। दिक्कालाद्यनवच्छिन्ना सर्व्ववेदार्थगा शुभा। परापरविभागेन परशक्तिरियं स्मृता। योगिनां हृदयाम्भोजे नृत्यन्ती नित्यमञ्जसा। आधारे सर्व्वभूतानां स्फुरन्ती विद्युदाकृतिः। शङ्खावर्त्तक्रमाद्देवी सर्व्वमावृत्य तिष्ठति। कुण्डलोभूतसर्पाणामङ्गश्रियमुपेयुषी। गुणिता सर्व्वगात्रेषु कुण्डली परदेवता। विश्वात्मना प्रबुद्धा सा सूते मन्त्रमयं जगत्। सर्व्वदेवमयी देवी सर्व मन्त्रमयी शिवा। सर्वतत्त्वमयी सालात् सूक्ष्मा सूक्ष्मतरा विभुः। त्रिधामजननी देवी सोमसूर्य्याग्निरूपिणी। त्रिभेदनेजसां कर्त्री शब्दब्रह्मस्वरूपिणी। द्विचत्वारिंशद्वर्ण्णामा पञ्चाशद्वर्ण्णरूपिणी”। विवृतमेतत् पदार्थादर्शे राघवभट्टेन यथा “कुण्डलिनोत उत्पत्तिमाह ततश्चैतत्येति। तदुक्तं “मूलाधारात् प्रथममुदितोयस्तु शब्दः पराख्यः पश्चात् पश्यन्त्यघ हृटयगोबुद्धियुग् मध्यमाख्यः। वक्त्रे वैखरर्य्यथ रुरुदिषोरस्य जन्तोः सुषुम्णाबद्धस्तस्माद्भवति पवनप्ररितोवर्णसंघः”। ततः शरीरोत्पत्त्यनन्तरं चैतन्यरूपा अतएव शब्दब्रह्मयी सा देवी कुण्डली परदेवता सर्वगात्रेण गुणिता अतएव विश्वात्मना सर्वात्मना प्रबुद्धा जातप्रबोधा मन्त्रमयं जगत् सूत इति दूरेण सम्बन्धः। तत्र मूलाधारे कुण्डलीभूतसर्पवन्नाडीवर्त्तते तन्मध्ये वायुवशादस्याः सङ्करणमेव गुणनम्। चैतन्यरूपेति स्वरूपाख्यानं सा प्रसिद्धा सर्वमावृत्य तिष्ठतीत्यनेन कर्त्तृव्याप्तिर्दर्शिता विश्वरूपिणीत्यनेन विषयव्याप्तिः। शिवसन्निधिमासाद्य स्थितेति शेषः अनेन शैवसिद्धान्ते शक्तिशब्दवाच्येयमित्युक्तं सन्निधिशब्दोऽप्यौपचारिवः तन्मते शिवशक्त्योरभेदात् तदुक्तमभिनवगुप्तपादाचार्य्यैः “शक्तेश्च शक्तिमद्रूपाद्व्यतिरेकंन वाच्छति। तादात्म्यमनयोर्नित्यं वह्नि “हनयोरिव”। यद्वा सम्पस्यङ्निधिस्वरूपं शिवस्वरूपं प्राप्येत्यर्थः वक्ष्यति च “पिण्डम्भवेत् कुण्डलिनी शिवात्मेति” गुणानां सत्वरजस्तमसामुदयोयस्याः सा नित्यानन्दा चासौ गुणोदया च सा नित्यानन्दगुणोदया तेन कुण्डलिनीस्वरूपमुक्त गुणोदयेत्यनेन साङ्ख्यमते प्रकृति वाच्येयमित्युक्तं यदाहुः “प्रधानमिति यामाहुर्या शक्तिरिति कथ्यते” इति इदानीमध्यात्माधिभूताधिदैवादि विषयादिज्योतिषक्रमेण तस्या व्याप्तिमाह दिक्वालेति सर्व्वदेहानुगेति देहव्याप्तिः परापरविभागेन काचन परा शक्तिः काचनापरा तद्विभागेनापीयं परशक्तिरेव यदाहुः “भूमिरापोऽनलोवायुः खंमनोबुद्धिरे व च। अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा। अपरेयमितस्त्वन्यां प्रकृतिं विद्वि मे पराम् जीवभूतां महावाहो। ययेदं धार्प्यते जगत्” (गीता)। यद्वा परः स्थूलः अपरः महास्थूलः महदादिः तद्विभागेन परशक्तिः स्थूला शक्तिः स्थूलात्स्थूलेत्युक्तेः। अनेन महदादिव्याप्तिः यद्वा सव्व देहानुगेत्यनेन प्राकृतशब्दतोर्थ तश्व पुंस्त्रीनपुं सकलिङ्गव्याप्तिर्द्दर्शित शब्दतो यथा शिव इत्युच्यते कण्डलिनीत्युच्यते प्रधानमिति एवंभूतापि सा स्त्रीत्वेनैव निर्द्दिश्यत इव्याह परापरेति परा पुंप्रकृतिः अपरं नपुंसकप्रकृतिस्तद्विभागेन इयं परशक्तिःस्मृता अयमर्थः यद्यपि लिङ्गत्रयवाच्या तथापि तूर्णमेवाचलभक्तिभारपरिश्रान्तमक्तजनसमस्ताकाङ्क्षाकल्पबल्ली परशक्तिषब्दवाच्येति। अत एव शुभा रमणीया यदाहुराचार्य्याः” पुंनपुंसकयोस्तुल्याप्यङ्गनायां वि- शिष्यत” इति नित्यक्लिन्नाम्नायेऽपि “सर्व्वत्रावच्छिताप्येषा कामिनीषु विशेषतः। प्रकाशते ततस्तासामतिवृत्तिं न कारयेदिति” अञ्जसा तत्त्वं न योगिनां हृदयाम्भोजे नृत्यन्तीत्यस्य तैरेव गुरूपदेशेन ज्ञायते इत्यर्थः। “दृश्या तैरेव सा देवी सदा देशकदेशितैरित्युक्तेः सर्वभूतानाम् आधारे मूलाधारचक्रे स्फुरन्ती अनेन स्थाननिर्देशः विद्युदाकृतिरित्यनेन ध्यानमुक्तं यदाहुः “तडित्कोटिप्रख्यां स्वरुचिजितकालानलरुचिमिति” अथ बानेन अनेकशब्दोत्पत्तिहेतुत्वेनानेकधा भवतीत्युक्तं ङ्खमध्ये य आवर्त्तः स यथा शङ्खमध्यमावृत्य तिष्ठति तद्वदियमपि देवीत्यर्थः। इदमवान्तरवाक्यं भिन्नमेव शङ्खेति कुण्डलीत्यनयोर्हे तुहेतुमद्भावेन योजना। कुण्डलीभूता कुण्डलाकारतां प्राप्ता ये सर्पा तथाभूता। केचन कुण्डलीति भिन्नं पदं वर्णयन्ति भूतानि सर्पाश्च ते यथा कुटिलगतयस्तद्वदियमपीत्यर्थः इति तत्र कुण्डली परदेवतेत्यनेन पुनरुक्तिः। सर्व्वदेवमयीति देवव्याप्तिः दीव्यतीति देवी तेजोरूपेत्यर्थः अनेन तेजोव्याप्तिः। सर्वमन्त्रमयीति मन्त्रव्याप्तिः। शिवा शिवरूपेत्यर्थः यद्वा शिवा कल्याणरूपा। साक्षात् सर्वतत्त्वमयीति तत्त्वव्याप्तिः। सूक्ष्मा सूक्ष्मतरा विमुरिति विरोधः परिहारस्तु सूक्ष्मा स्वरूपतः सूक्ष्मतरा दुर्ज्ञाना यद्वा सूक्ष्मात् त्रसरेणोरपि सूक्ष्मतरा अणुतरा अनेना ण्वादिव्याप्तिर्द्दर्शिता तदुक्तं “बालाग्रस्य सहस्रधा विदलितस्यैकेन भागेन या सूक्ष्मत्वात् सदृशी त्रिलो जन नीति” विभुः इयत्तया ज्ञातुमशक्या। त्रिधामेति सूर्यसोमाग्निरूपा। यद्वा त्रिधामेति स्थानत्रयं पातालभूखर्गरूपा अनेन स्थानव्याप्तिर्दर्शिता द्विचत्वारिंशद्वर्ण्णात्मा भूतलि पिमन्त्रमयी पञ्चाशद्वर्णरूपिणीति मातृकामयी”। तस्या ध्यानादिकमुक्तं प्रयोगसारे यथा “मूलाधारे कुण्डलिनीं ध्यात्वा संपूजयेन्नरः। ध्यानं तस्याः प्रवक्ष्यामि येन योगी प्रजायते। प्रसुप्तभुजगाकारां स्वयम्भूलिङ्गमाश्रिताम्। विद्युत्कोटिप्रभां देवीं विचित्रवसनान्विताम्। शृङ्गारादिरसोल्लासां सर्व्वदा कारणप्रियाम्। एवंध्यात्वा कुण्डलिनीं ततोयजेत् समाहितः। मनसा गन्धपुष्पाद्यैः संपूज्य वाग्भवं जपेत्। ततोवै तोषयेत्ताञ्च स्तवेनानेन साधकः। “रुद्रजामले” अथ प्रातः समुत्थाय पशुरुत्तमपण्डितः। गुरूणां चरणाम्भोजं मङ्गलं शीर्षपङ्कजे। विभाव्य पुनरेवं हि श्रीपदं भावयेधृदि। पूजयित्वा च विविधैरुपचारैर्नमेत् स्तवैः। त्रैलोक्यं तेजसा व्याप्तां मण्डलस्थां महात्सवाम्। तडित्कोटिप्रभादी प्तिंचन्द्रकोटिसुशीतलाम्। सार्द्धत्रिबलयाकारां स्वयम्भूलिङ्गवेष्टिताम्। उत्थापयेन्महादेवीं महावक्त्रां मनोन्मनीम्। श्वासोच्छ्वासादुद्गच्छन्तीं द्वादशाङ्गुलरूपिणीम्। योगिनीं खेचरी वायुरूपां मूलाम्बुजस्थिताम्। चतुर्व्वर्णस्वरूपां तां वकारादिकसान्तकाम्। कोटिकोटिसहस्रार्ककिरणोज्ज्वलमोहिनीम्। महासूक्ष्मपथप्रान्तरन्तरान्तरगामिनीम्। त्रैलोक्यरक्षितां वाक्य देवतां शब्दरूपिणीम्। महाबुद्धिप्रदां देवीं सहस्रदल गामिनीम्। महासूक्ष्मपथेतेजोमयीं मृत्युस्वरूपिणीम्। कालरूपां ब्रह्मरूपां सर्वत्र सर्वचिन्मयीम्। ध्यात्वा पुनःपुनः शीर्षे सुधाब्धौ विनिवेशिताम्। सुधापानंकारयित्वा पुनःस्थाने समानयेत्। समानयनकाले तु सुषुण्मामध्यमध्यके। अमृताभिप्लुतां कृत्वा पुनःस्थानेषु पूजयेत्। ऊर्द्ध्वोद्गमनकाले तु महातेजोमयींस्मरेत्। प्रतिप्रयाण काले तु सुधाधाराभिराप्ल्ताम्। कुलकुण्डलिनीं देवी ममृतानन्दविग्रहाम्। ध्यात्वा ध्यात्वा पुनर्ध्यात्वा सर्वसिद्धीश्वारोभवेत्। तस्मिन् स्थाने महादेवौ विभाव्य किरणोज्ज्वलाम्। अमृतानन्दमूर्त्तिं तां पूजयित्वा शुभां मुदा। मानसोच्चारवीजेन मायां वा कामवीजकम्। पञ्चाशद्वर्णमालाभिर्जत्वानुलोमतस्तथा। विलोमेन पुनर्जत्वेति”

कुलक्क = पु० कु + लक्क–आप्तौ भावे घञ्। करताल्याम् हारा०।

कुलक्षया = स्त्री कुलस्य क्षयोयस्याः। १ शूकशिम्ब्या शब्दचि० ६ त०। २ कुलनाशे पु०। “कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्”। “कुलक्षये प्रणश्यन्ति कुलधर्म्माः सनातनाः” गीता।

कुलघ्न = त्रि० कुलं हन्ति हन–टक्। वंशधातके। “सङ्करोनरकायैव कुलघ्नानां कुलस्य च। पतन्ति पितरोह्येषां लुप्तपिण्डोदकाक्रयाः। दोषरतः कुलघ्नानां वर्णसङ्कर कारकैः। उत्साद्यन्ते जातिधर्म्माः कुलधर्म्माश्च शाश्वताः। उत्सन्नकुलधर्म्माणां मनुष्याणां जनार्द्दन!। नरके नियतं वासोभवतीत्यनुशुश्रुमः” गीता। तत्र यथोत्तरंकार्य्य मुक्तं तत्रैव “कुलक्षये प्रणश्यन्ति कुलधर्म्माः सनातनाः। धर्म्मे नष्टे कुलं कृत्स्नमधर्म्मोऽभिमवत्युत। अधर्म्माभि भवात् कृष्ण! प्रदुष्यन्ति कुलस्त्रियः। स्त्रीषु दुष्टासु वार्ष्णेय! जायते वर्णसङ्करः। सङ्कशेनरकायैव कुलघ्नानां कुलख च” एतदुत्तरं कुलघ्नशब्दे दर्शितम्

कुलज = त्रि० कुले सत्कुले जायते जन–ड। १ सत्कुलोद्भवे। २ कुलपालिकायां स्त्री टाप् शब्दरत्ना०

कुलञ्ज = पु० कुं पृथिवीं रञ्जयति रञ्ज–णिच् अण् रस्य लः। कुलञ्जनवृक्षे राजनि० नन्द्या० ल्यु। कुलञ्जनोऽप्यत्र “कुलञ्जनः कुटुस्तिक्तः उष्णश्च दोपनस्तथा। मूत्रदोषविनाशी च” राजनि० तद्गुणा उक्ताः

कुलटा = स्त्री० कुलात् कुलान्तरं व्यभिचारार्थमटति अट–अच् शक०। व्यभिचारिण्यां स्त्रियाम्। या तु भिक्षार्थं कुलमटति सा कुलाटा इति तत्र न शक०। इति भेदः

कुलटी = स्त्री कुत्सितं रट्यते रट–भाषणे घञर्थे क गौरा० ङीष् रस्य लः। मनःशिलायां रत्नमाः

कुलतन्तु = पु० कुलस्य तन्तुरिव। कुलावलम्बने “मया च सत्यवत्या च कृष्णेन च महात्मना। समवस्थापितं भूयोयुस्माहु कुलतन्तुषु” भा० आ० ११० अ०

कुलतिथि = स्त्री द्वितीयाषष्ठीदशमीभिन्नासु समतिथिषु चतुर्थ्यष्टमीद्वादशीचतुर्द्दशीषु यथोक्तं तन्त्रसा० “द्वितीया दशमी षष्ठी कुलाकुलमुदाहृतम्। विषमाश्चाकुलाः सर्व्वाः शेषाश्च तिथयः कलाः”

कुलत्थ = पु० कुलं भूलग्नं सत् तिष्ठति स्था–क पृषो०। १ कलायभेद (कुलत्थकलाइ) २ वनकुलत्थे स्त्री टाप् रत्नमा०। तत्पर्य्यायादि भावप्र० उक्तं “कुलत्थिका कुलत्थश्च कथ्यन्ते तद्गुणा अथ। कुलत्थः कटुकः पाके कषायः रक्तपित्तकृत्। लघुर्विदाही वीर्य्योष्णः श्वासकासकफानिलान्। हन्ति हिक्काश्मरीशुक्रदाहानाहान् सपीनसान्। स्वेदसंग्राहको मेदोज्वरकृमि हरः परः।” भावप्र० कुलत्थिकेति निर्द्देशात् स्त्रीत्वमपि सा च उपचारात् ३ तदुत्थाञ्जने ४ वनकुलत्थायां च स्त्री राजनि० “कुलाली लोचनहिता चक्षुष्या कुम्भकारिका लुलत्थिकेति” राजनि० वनकुलत्थापर्य्यये उक्तेः। स्वार्थे क। तत्रैवार्थे राजनि० कुलत्थे भावप्र० संज्ञायां कन्। कुलत्थाञ्जनाकारप्रस्तरभेदे अमरः।

कुलत्थाञ्जन = न० कुलत्थया कृतमञ्जनम्। अञ्जनभेदे “प्रलापहारि चक्षुष्यं कषायं कटुकं हिमम्। विषविष्फोटकण्डूनां नाशकं व्रणदोषहृत्” राजान० तद्गुणा उक्ताः

कुलदीप = पु० कुले कुलाचारे विहितोदीपः तन्त्रसारोक्ते कुलाचाराङ्गे १ दीपभेदे “अर्केन्दुसितवाट्यालतूल निर्म्मि तवर्त्तिकम्। प्रदीपं तत्र संस्थाप्य अस्त्रैस्तत्र प्रपूजयेत्। हते तस्मिन् कुलदीपे विघ्नौश्च परिभूयते। तदचश्चास्त्रमन्त्रेण निखनेत् कुलदीपकम्” कुलं दीपयति अण् उप० स०। २ कुलप्रकाशके कुलश्रेष्ठे त्रि०

कुलदेवता = स्त्री० कुले पूज्या देवता। १ कुलक्रमेणोपास्य देवतायाम् गौर्य्यादिषु षोडशसु मातृषु मध्ये २ मातृभेदे च। ताश्च गृह्यपरिशिष्टे उक्तायथा “गौरी पद्मा शची मेधा सावित्री विजया जया। देवसेना स्वधा स्वाहा मातरो लोकमातरः। शान्तिः पुष्टिर्धृतिस्तुष्टिरात्मदेवतया सह। आदौ विनायकः पूज्यो अन्ते च कुलदेवता”

कुलदेवी = स्त्री कुलैः कुलाचारैरुपास्या देवी। १ तन्त्रोक्ते देवीभेदे कुलदेवताश्च तन्त्ररा० उक्तायथा “त्रिपुरा त्रिपुरेशी च सुन्दरी पुरसुन्दरी। श्रीमालिनी च सिद्धात्मा महात्रिपुरसुन्दरी। प्रकटास्या तथा गुप्ता तथा गुप्ततरा परा। सम्प्रदायाकुला कोला रहस्यातिरहस्यगा। परस्पररहस्या च तथा कामेश्वरी शुभा। भगमाली नित्यक्लिन्ना भैरवी वह्निसुन्दरी। महाविद्येश्चरी दूती त्वरिता कुलसुन्दरी। नित्या नीलपताका च विजया सर्वमङ्गला। ज्वालांशुमालिनी चित्रा वशिनी शुभगाकुला। पूर्ण्णाख्या च तथा वत्सा कामेशी मोहिनी तथा। विमला वरुणा देवी जयिनी कूलभैरवी। सर्वेश्वरी तथा कौली वागिशी सर्वकामिनी। सिद्धेश्वरी तथा चोग्रा दुर्गा महिषमर्द्दिनी। स्वप्नावती शूलिनी च मातङ्गी सुरसुन्दरी। महाकाली महोग्राच चित्ररूपा महोदरी। प्राणविद्या तथैकाक्षी चैकपादा महाङ्कुशा। वामा शिवा तथा ज्येष्ठा सुरूपा चारुहासिनी। त्रिखण्डा त्रिशिरा गौरो विन्ध्याचलनिवासिनी। क्षोभिणी मोदिनी भद्रा ललिता बहुरूपिका। सर्व्वसम्पत्करी तारा भवानी विश्वहारिणी। कुलेश्वरी महाविद्या कथिता तव भैरव!”। कुलैः कुलजैरुपास्या देवी २ वंशपरम्परया उपास्ये देवीभेदे च

कुलद्रुम = पु० “श्मेष्मान्तकः करञ्जश्च विल्वाश्वत्थकदम्बकाः। निम्बो वटोडुम्बरौ च धात्री चिञ्चा दश स्मृताः” इत्युक्तेषु श्मेष्मान्तकादिषु दशसु

कुलधारक = पु० कुलं धारयति स्थिरीकरोति धृ–णिच्–ण्वुल्। वंशरक्षके पुत्रे त्रिका०

कुलधुर्य्य = त्रि० कुलेषु धुर्य्यः अग्र्यः। कुलश्रेष्ठे

कुलनक्षत्र = न० “वारुणार्द्राभिजिन्मूलं कुलाकुलमुदाहतम्। कुलानि समधिष्ण्यानि शेषाणि चाकुलानि वै” तन्त्रसा० उक्तेषु साभिजित्काष्टाविंशतिनक्षत्रमध्ये आर्द्राभिन्नसमसंख्यक्रेषु नक्षत्रेषु तत्फलमुक्तं तत्रैव “तिथिवारे च नक्षत्रे अकुले स्थायिनोभयम्। कुलाख्ये जयिनो नित्यम् साम्यञ्चैव कुलाकुले”

कुलनायिका = स्त्री० तन्त्रोक्ते कुलैः सेव्ये नायिकामेदे। शक्तिसाधनतन्त्रे १ पटले तद्भेदादिकमुक्तं यया “नटी कापालकी वेश्या रजकी नापिताङ्गना। ब्राह्मणी शूद्रकन्या च तथा गोपालकन्यका। मालाकारस्यकन्याच नव कन्याः प्रकीर्त्तिताः। विशेषवैदग्ध्ययुताः सर्वाएव कुलाङ्गनाः। रूपयौवनसम्पन्ना शीलसौभाग्यशालिनी। पूजनीया प्रयत्नेन ततः सिद्धिर्भवेद्ध्रुवा”। अत्र विशेषयति निरुक्ततन्त्रे १४ पटले। “नटी कापालिकी वेश्या रजकी नापिताङ्गना। योगिनी श्वपची शुण्डी भूमीन्द्रतनया तथा। गोपिनी माल्यकारस्य कन्या कार्यविभेदतः। चतुर्वर्णोद्भवा रम्या कापाली सा प्रकीर्त्तिता। पूजाद्रव्यं समालोक्य वेशाचरणमिच्छति। चतुर्वर्णोद्भवा रम्या सा वेश्या परिकीर्त्तिता। पूजाद्रव्यं समालोक्य रजोऽवस्थां प्रकाशयेत्। सर्ववर्णोद्भवा रम्या रजकी सा प्रकीर्त्तिता। पूजाद्रव्यं समालोक्य कुलजा वीरमाश्रयेत्। संत्यज्य पशुभर्त्तारं कर्म्म चाण्डालिनी स्मृता। विपरीतरता पत्यौ पात्रं या परिपृच्छति। सर्ववर्णोद्भवा रम्या सा शौण्डी परिकीर्त्तिता। सर्बदा यन्त्रसंस्कारो यस्याश्च परिजायते। भूमीन्द्रजा तु रम्याऽसौ सर्ववर्णोत्भवा प्रिथे!। आत्मानं गोपयेद्या च सर्वदा पशुसङ्कटे। सर्ववर्णोद्भवा रम्या गोमिनी सा प्रकीर्त्तिता। पूजाद्रव्यं समालोक्य या मालां परिकीर्त्तयेत्। सर्ववर्णोद्भवा रम्या मालिनी सा प्रकीर्त्तिता”। वेश्यायाविशेषस्तु तत्रैवोक्तः। “गुप्तवेश्या महावेश्या कुलवेश्यामहोदया। राजवेश्या देववेश्या ब्रह्मवेश्या च सप्तधा। कुलजा गुप्तवेश्या स्यात् निर्लजा मदनातुरा। पशुभर्त्राश्रिता लोके गुप्तवेश्या प्रकीर्त्तिता। कुलजा कुलवेश्या स्यात् महावेश्या प्रकीर्त्तिता। भगलिङ्गकलाभिश्च चुम्बयेच्च पुनः पुनः। एवंविधा कुलीना चेत् ब्रह्मवेश्या प्रकीर्त्तिता। दिव्यशक्तिर्वीरशक्तिस्तासां सङ्गे प्रकीर्त्तिता। चतुर्वर्णोद्भवानाञ्च शङ्गिताः परिभाषिताः। वेश्यावद्भ्रमते यस्मात् तस्माद्वेश्या प्रकीर्त्तिता। वर्णसङ्करतो जाता सर्ववेश्या प्रकीर्त्तिता”। कुलकामिन्यादयोऽप्यत्र

कुलनाश = पु० ६ त०। १ कुलर्ध्वसे तत्कारणं कुलशब्दे उक्तम् तदभावकारणञ्च “यावच्च वेदधर्म्माः स्युर्यावत् स्वाच्छङ्करार्च्चनम्। यावत् स्याच्छुचि कृत्यञ्च तावन्न कुलनाशनम्। कुलं भूलग्नं नाश्राति न + अश + अच् सुप् सुपेति समासः। २ उष्ट्रे पुंस्त्री० हेमच० तस्योन्नतकन्धरतया उन्नत प्रदेशस्थकण्ठकार्देभूक्षणाद्भूलग्नादेरभक्षर्णन तथात्वम् स्त्रियां जातित्वात् ङीष्।

कुलनाशन = न० कुलं नाशयत्यनेन नश–णिच्–करणे ल्युट्। वंशध्वंससाधने। “मुसलं कुलनाशनम्। यथा च मुसलेन वृष्णिप्रभृतिकुलनाशनं तथा भा० सौ० १ अ० उक्तं यथा “विश्रामित्रञ्च कण्वञ्च नारदञ्च तपोधनम्। सारणप्रमुखा वीरा ददृशुर्द्वारकां गतान्। ते तान् शाम्बं पुरस्कृत्य भूषयित्वा स्त्रियं यथा। अव्रुवन्नुपसङ्गम्य दैवदण्डनिपीडिताः। इयं स्त्री पुत्रकामस्य बभ्रोरमिततेजसः। ऋषयः साधु जानीत किमयं जनयिष्यति। इत्युक्तास्ते तदा राजन् विप्रलम्भप्रधर्षिताः। प्रत्युब्रुवस्तान्मुनयो यत्तच्छृणु नराधिप!। वृष्ण्यन्धकविनाशाय मुसलं वोरमायसम्। वासुदेवस्य दायादः शाम्बोऽयं जनयिष्यति। येन यूयं सुदुर्वृत्ता नृशंसा जातमन्यवः। उच्छेत्तारः कुलं कृत्स्नमृते रामजनार्द्दनौ। समुद्रं यास्यति श्रीमांस्त्यक्त्वा देहं हलायुधः। जरा कृष्णं महात्मानं शयानं भुवि भेत्स्यति। इत्यब्रुवंस्ततो राजन्! प्रलब्धास्तैर्दुरात्मभिः। मुनयः क्रोधरक्ताक्षाः सभीक्ष्याथ परस्परम्। तथोक्त्वा मुनयस्ते तु ततः केशवमभ्ययुः। अथाब्रवीत्तदा वृष्णीन् श्रुत्वैवं मधुसूदनः। अन्तज्ञो मतिमांस्तस्य भवितव्यं तथेति तान्। एवमुक्त्वा हृषीकेशः प्रविवेश पुरन्तदा। कृतान्तमन्यथा नैच्छत् कर्त्तुं स जगतः प्रभुः। श्वोभूतेऽथ ततः शाम्बो मुसलं तदसूत वै। येन वृष्ण्यन्धककुले पुरुषा भस्मभात्कृताः। वृष्ण्यन्धकविनाशाय किङ्करप्रतिमं महत्। असूत शापजं घोरं तच्च राज्ञे न्यवेदयन्। विषण्णरूपस्तद्राजा सूक्ष्मं चूर्णमकारयत्। तच्चूर्णं सागरे चापि प्राक्षिपन् पुरुषा नृप!”

चूर्णीकृतस्य तर्स्यसमुद्रे एरकाभावमुक्त्वा एरकाभूतेन सुसलेन ३ अ० परस्परनाशोवर्णितः यथा “ते तु पानमदाविष्टाश्चोदिताः कालधर्मणा। युयुधानमथाभ्यघ्नन्नुच्छिष्टैर्भाजनैस्तदा। हन्यमाने तु शैनेये क्रुद्धो रुक्मिणिनन्दनः। तदनन्तरमागच्छन्मोक्षयिष्यत शिनेः सुतम्। स भोजैः सह संयुक्तः सात्यकिश्चान्धलैः सह। व्यायच्छमानौ तौ वीरौ बाहुद्रविणशालिनौ। बहुत्वान्निहतौ तत्र उभौ कृष्णस्य पश्यतः। हतं दृष्ट्वा तु शैनेयं पुत्रञ्च यदुनन्दनः। एरकाणान्तदा मुष्टि कोपाज्जग्राह केशवः। तदभून्मुसलं घोरं वज्रकल्पमयोमयम्। जघान कृष्णस्तांस्तेन ये ये प्रमुखतोऽभवन्। ततोऽन्धकाश्च भोजाश्च शैनेया वृष्णयस्तथा। जघ्नुरन्योन्यमाक्रन्दे मुसलैः कालचोदिताः। यस्तेषामेरकां कश्चिज्जग्राह कुपितो नृष!। वज्रभूतेव सा राजन्नदृश्यत तदा विभो। तृणञ्च मुसलीभूतमपि तत्र व्यदृश्यत। ब्रह्मदण्डकृतं सर्वमिति तद्विद्धि पार्थिव!। अविध्यन् विध्यते राजन्! प्रक्षिपन्ति स्म यत्तृणम्। तद्वज्रभूतं मुसलं व्यदृश्यत तदा दृढम्। अबधीत् पितरं पुत्रः पिता पुत्रञ्च भारत!। मत्ताः परिपतन्ति स्म योधयन्तः परस्परम्। पतङ्गा इव चाग्नौ ते निपेतुः कुकुरान्धकाः। नासीत् पलायने बुद्धिर्बध्यमानस्य कस्यचित्। तत्रापश्यन्महाबाहुर्ज्जानन् कालस्य पर्य्ययम्। मुसलं मभवष्टभ्य तस्थौ स मधुसूदनः। शाम्बञ्च निहतं दृष्ट्वा चारुदेष्णञ्च सान्वयम्। प्रद्युम्नञ्चानिरुद्धञ्च ततश्चुक्रोध माधवः। गदं वीक्ष्य शयानञ्च भृशं कोपसमन्वितः। स निःशेषं तदा चक्रे शार्ङ्गचक्रगदाधरः। तं निघ्नन्तं महातेजा बभ्रुः परपुरञ्जयः। दारुकश्चैव दाशार्हमूचतुर्यन्निबोध तत्। भगवन्निहताः सर्वे त्वया भूयिष्ठशो नराः। रामस्य पदमन्विच्छ तत्र गच्छाम यत्र सः।” भावे ल्युट्। २ वंशनाशने च।

कुलन्धर = पु० कुलं वंशं धारयति धृ–बा० खच् मुम् च। वंश धरे “युधिष्ठिरोलब्धराज्योदृष्ट्वा पौत्रं कुलन्धरम्” भा० १, १३, १४,

कुलपति = पु० “मुनीनां दशसाहस्रं योऽन्नदानादिपोषणात्। अध्यापयति विप्रर्षिरसौ कुलपतिः स्मृतः” पुराणोक्त लक्षणे १ मुनिभेदे। “लोमहर्षणपुत्र उग्रश्रवाः सौतिः पौराणिको नैमिषारण्ये। शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे” भा० आ० १ अ० १ श्लो०। “ततोऽब्रवीत् कुलपतिं पादौ संगृह्य भारत!” भा० आनु० ९ अ० ३३०। २ वंशश्रेष्ठे च कुलनायकादयोऽप्यत्र। अश्वपत्या० अपत्यादिषु प्राग्दीव्यतीयेषु अर्थेषु अण्। कौलपत तदपत्याद्यर्थेषु।

कुलपत्र(क) = पु० कुलं भूमिलग्नं पत्रमस्य। दमनकवृक्षे राजनि०। वा कप्। तत्रार्थे। भावप्र० कुलपुत्रक इति क्वचित्पाठे पृषो०।

कुलपर्व्वत = “पु० माहेन्द्रोमलयः सह्यः शक्तिमानृक्षपर्वतः। विन्ध्यश्च पारियात्रश्च सप्तात्र कुलपर्व्वताः” विष्णुपु० उक्तेषु १ जम्बुद्वीपस्थवर्षसीमाकारकेषु माहेन्द्रादिषु सप्तसु वर्षाचलेषु पर्वतेषु। एतेषां यथा वर्षमर्य्यादाकारित्वं तथा इलावृतशब्दे ९८४ पृ० शि० सि० वाक्येनोक्तम्। प्लक्षादिद्वीपेषु कुलाचलाश्च विष्णुपु० दर्शिता यथा तत्र २ प्लक्षद्वीपे “मर्य्यादाकारकास्तेषां तथान्ये वर्षपर्वताः। सप्तैव तेषां नामानि शृणुष्व मुनिसत्तम! गोमेदश्चैव चन्द्रश्च नारदो दुन्दुमिस्तथा। सोमकः सुमनाः शैलो वैभ्राजश्चैव सप्तमः” शाल्मले। ३ “वर्षाचलेषु रम्येषु सर्वेष्वेतेषु चानघ!। तत्रापि पर्वताःसप्त विज्ञेया रत्नयोनयः। रसाभिव्यञ्जकास्तेषु तथा सप्तैक निम्नगाः। कुमुदश्चोन्नतश्चैव तृतीयश्च वलाहकः। द्रोणोयत्र महौषध्यः स चतुर्थो महीधरः। कङ्गश्च पञ्चमः षष्ठो महिषः सप्तमस्तथा। कुसुद्वान् पर्वतवरः”। ४ कुशद्वीपे “विद्रुमाह्वयशैलश्च द्युतिमान् पुष्पवांस्तथा। कुशेशयो हरिश्चैव सप्तमो मन्दराचलः। वर्षाचलास्तु सप्तैव तत्र द्वीपे महामुने”! ५ क्रौञ्चद्वीपे “तत्रापि देवगन्धर्वसेविताः सुमनोहराः। वर्षाचला महा बुद्धे! तेषां नामानि मे शृणु। क्रौञ्चश्च वामनश्चैव तृतीयश्चान्धकारकः। चतुर्थो हरशैलश्च स्वभाभिर्भासव न्नभः। देवावृत् पञ्चमश्चैव तथाश्वः पुण्डरीकभाज्। ६ शाकद्वीपे। “तत्रापि पर्वताः सप्त वर्षविच्छेदकारकाः। पूर्ब्बस्तत्रोदयगिरिर्जलाधारस्तस्तथाऽपरः। तथा रैवतकः श्यामस्तथैवास्तगिरिर्द्विजः!। आम्बिकेयस्तथा रम्यः केशरी पर्वतोत्तमः”। तत्तद्द्वीपस्थेषु उक्तेष्वपि सप्तसु वर्षाचलेषु ७ पुष्करद्वीपे तु एकएव मानसोत्तरशैलस्तादृक् यथाक्तं भा० ५०, २०, २१, तद्द्वीपमध्ये एक एवार्वाचीनवर्षयोर्मर्य्यादाकारकोऽ युतयोजनोच्छ्रायायामः”। विष्णुपु०। भागवतयोस्तेषां नामभेदः कल्पभेदादविरुद्धः। कुलगिरिकुलाचलवर्षाचलादयोऽप्यत्र। “माहेन्द्रशुक्तिमलयर्क्षकपारियात्राः। सह्यः सविन्ध्य इह सप्त कुलाचलाख्याः शि० सि० इह जम्बुद्वीपे।

कुलपालक = त्रि० कुलं पालयति पालि–ण्वुल् (कमला नेवु) १ कुरुम्बे पु० शब्दच० २ वंशपालके त्रि० स्त्रियां टाप् अतहत्त्वम्। सा च कुलस्त्रियाञ्च

कुलपालि = स्त्री कुलं पालयति पालि–इन्। कुलवत्यां स्त्रियां वा ङीप्।

कुलपुत्र = पु० कुलरक्षकः पुत्रः। वंशधरे पुत्रे ततः भावे कर्म्मणि च मनोज्ञा० वुञ्। कौलपुत्रक तद्भावे तत्कर्म्मणि च न०

कुलप्रसूत = त्रि० कुले सत्कुले प्रसूतः। सत्कुलजाते

कुलबधू = स्त्री कुले गेहे एव स्थिता बधूः। गृहमात्रस्थितायां योषिति। “ब्रूते ब्रूतां व्रजकुलबधूः कापि साध्वी ममाग्रे” उद्भटः कुलयोषिदाददयोऽप्यत्र” असंस्कृतप्रमीतानां त्यागिनां कुलयोषिताम्” मनुः

कुलभृत्या = स्त्री कुलैः वंशभवैः भृत्या भरणम् भृ–भावे क्यप् ६ त०। गर्भिण्या दीहदादिदानरूपायां परिचर्य्यायाम् जटा०। कुलस्य भृत्या। २ वंशभरणे च।

कुलम्पुन = न० कुलं पुनाति पू–बा० खश् मुम् च। भारतोक्ते तीर्थभेदे “कुलल्पुने नरः स्नात्वा पुनाति स्वकुलानि च भा० व० ८३ अ०

कुलम्भर(ल) = पु० कौ भूमौ रम्भे सन्धिकरणादिव्यपारे लीयते आसक्तः ली–बा० ड लस्य रः अन्तस्थस्यं तु वा रः। चौरे हारा०।

कुलर = त्रि० कुल + अश्मादि० चतुरर्थ्यां र। कुलसन्निकृष्ट देशादौ।

कुलवत् = त्रि० कुलं प्रहस्तकुलमस्त्यस्य बला० वा मतुप् मस्य वः। प्रशस्तकुलजे स्त्रियां ङीष्। सा च कुलस्त्रियां गृहमात्रावस्थितायां स्त्रियाम्।

कुलवर्ण्णा = स्त्री० कुलैः वैद्यकुलैः वर्ण्णो गुणोत्कीर्त्तनं यस्याः वर्ण्ण–भावे घञ् ३ त०। रक्तत्रिवृति (लालतेओडि) राजनि०।

कुलवार = पु० “रविश्चन्द्रो गुरुः सौरिश्चत्वारश्चाकुला इमे। “भौमशुक्रौ कुलाख्यौ तु बुधवारः कुलाकुलः” तन्त्रसा० उक्तयोः कुजशुक्रवारयोः।

कुलविद्या = स्त्री कुलक्रमागता विद्या। १ वंशक्रमागतविद्यायाम्। कुलैः स्वकुलैः शिक्षणीया विद्या। “२ आन्वीक्षिकीत्रयीप्रभृतिविद्यायाम् “तमादौ कुलविद्यानामर्थमर्थविदां वरः” रघुः

कुलविप्र = पु० कुलक्रमागतः विप्रः। वंशक्रमागते पुरोहिते क्षीरस्वामो कुलपुरोहितादयोऽप्यत्र

कुलव्रत = न० कुले चर्य्यं व्रतम्। कुलक्रमेण कर्त्तव्ये व्रते “गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम्” रघुः।

कुलश्रेष्ठिन् = त्रि० कुलेषु श्रेष्ठी। शिल्वकुलप्रधाने अमरः

कुलसंख्या = स्त्री कुले संख्या कीर्त्तिः। वंशमध्ये गणनायाम् वंशश्रेष्ठतायाम् “मन्त्रतस्तु समृद्धानि कुलान्यल्पधनानि च। कुलसंख्याञ्च गच्छन्ति कर्षन्ति च मह द्यशः” मनुः

कुलसत्र = न० कुलैः कुलजैरनुष्ठेयं सत्रम्। पित्रादिक्रमेणानुष्ठये सहस्रवर्षसाष्ये कार्ष्णाजिनिमतसिद्धे सत्रभेदे तच्च कात्या० श्रौ० १, ६, २३, दर्शितं यथा “कुलसत्रमिति कार्ष्णाजिनिः” सू०। “कार्ष्णाजिनि र्मुनिरित्याह एवं कथयति यत् कुलसत्रमेतत् सहस्रसंवत्सरं भवति कुलस्य पितृपुत्रपौत्रप्रपौत्रतत्पुत्रादिरूपस्य वंशस्येतत्भवति न त्वेकस्य कस्यचित् असम्भवात्। मनुष्याधिकारं चैतत् प्रारब्धं चावश्यं समापनीयं नचैकः शक्नोति समापयितुमिति यथा शक्यते तथा समापनीय मिति गम्यमाने ये वहवस्ते शक्नुवन्ति तेन तत्कुलीनाः क्रमेण कैश्चिदारब्धं कैश्चिन्मध्येऽनुष्ठितं केचित् समापयिष्यन्तीत्येवं कुलसत्रं कार्ष्णागिनिमन्यते” कर्कः वर्ष शब्दस्य दिनपरत्व कल्पनेन कात्यायनेनेदं दूषितम्।

कुलसम्भवः = कुलं सम्भवोऽस्य। वीज्ये कुलजाते अमरः।

कुलसाधक = त्रि० कुलेन कुलाचारेण साधकः। तन्त्रोक्ते कुलाचारेण साधकभेदेषु तेंच तन्त्रसारे दर्शिताः यथा “उपासकान्महादेव! शृणु चैकमनाः खयम्। मनुश्चन्द्रः कुवेरश्च मन्मथस्तदनन्तरम्। लोपामुद्रामुनिर्नन्दी शक्रः स्कन्दः शिवस्तथा। क्रोधभट्टो रुरुश्चैव पञ्चमश्च प्रकीर्त्तितः। दुर्व्वासा व्याससूर्य्यौ च वशिष्ठश्च पराशरः। और्व्वोवह्निर्यमश्चैव निरृर्तोवरुणस्तथा। वायुर्विष्णुः स्वयम्भूश्च भैरवो दानवस्तथा। अनिरुद्धो भरद्वाजो दक्षिणामूर्त्तिरेव च। गणपाः कुलपाश्चैव लक्ष्मीर्गङ्गा सरस्वती। रात्रीदेवः प्रमत्तश्च उन्मत्तः कुलभैरवः। क्षेत्रपालो हनूमांश्च दक्षो गरुड एव च। काश्यपः कौशकुन्तौ च जमदग्निर्भृर्गुस्तथा। वृहस्पतिर्यदुश्रेष्ठो दत्तात्रेयो युधिष्ठिरः। अर्जुनो भीमसेनश्च द्रोणाचार्य्यो वृषाकपिः। दुर्य्योधनस्तथा कुन्ती सीता च रुक्मिणी तथा। सत्यभामा द्रोपदी च उर्वशी च तिलोत्तमा। पुष्पदन्तो महाबुद्धो वाणः कालश्च मन्दरः। कैलासः क्षीरसिन्धुश्च उदधिर्हिमवांस्तथा। नारदश्च महावीराः कामतो वीरसाधकाः। महाविद्याप्रसादेन स्वस्वकर्म्मसमन्विताः। एतेषां वत्स! नामानि विद्या विद्योपसेविनाम्। प्रातःकाले शुचिर्भूत्वा यः पठेत् प्रयतात्मवान्। पूजायां वा शुचिर्भूत्वा प्रसीदामि कुलान्वये। अशुचिर्वानिरालम्ब्यमालम्ब्य च कुलान्तिके। नित्य पूजाफलं तस्य ददामि वरमीप्सीतम्।” कुलवीरकुलोपासकादयोऽप्यत्र

कुलसौरभ = न० कुलं श्रेष्ठं सौरभमस्य। मरुवकवृक्षे शब्दमा०

कुलस्त्री = स्त्री कुले गृहे स्थिता स्त्री। कुलपालिकायाम् अमरः

कुलहुण्डक = पु० कुलाय संघाय हुण्डते हुडि–संघे ण्वुल्। आवर्त्ते हारा० कुलहुण्डकोऽप्यत्र त्रि० पृषो०।

कुलाकुल = त्रि० तन्त्रोक्तेषु तत्संज्ञकतिथिवारनक्षत्रेषु। कुलाचारशब्दे विवृतिः

कुलाकुलचक्र = न० कुलञ्च अकुलं कुलाकुलम् तर्योविचारार्थं चक्रम्। तन्त्रोक्ते ग्राह्यमन्त्रस्य शुभाशुभताज्ञानार्थे चक्रभेदे तद्विवृतिः तन्त्रसारे “कुलाकुलस्य भेदं हि वक्ष्यामि मन्त्रिणामिह”। इत्युक्रम्य निबन्धे “वाय्वग्निभूजलाकाशपञ्चाशल्लिपयः क्रमात्। पञ्च ह्रस्वाः पञ्च दीर्घा विन्द्वन्ताः सन्धिसम्भवाः (यादया)। कादयः पञ्चशः षक्षलसहान्ताः समीरिताः”। अ आ एकचटतपयषा मारुताः। इ ई ऐ ख छ ट थ फ रक्षा आग्नेयाः। उ ऊ ओ ग ज ड द बललाः पार्थिवाः। ऋ ॠ औ घ झ ढ ध भ वसा वारुणाः। ऌ ॡ अं ङ ञ ण नमशहा नाभसाः। “साधकस्याक्षरं पूर्ब्बं मन्त्रस्यापि तदक्षरम्। यद्येकभूतदैवत्यं जानीयात् स्वकुलं हि तत्। भौमस्य वारुणं मित्रमाग्नेयस्यापि मारुतम्। मारुतं पार्थिवानाञ्च शत्रुराग्नेयमम्भसाम्”। चकारादाग्नेयं पार्थिवानां शत्रुः। तथाच रुद्रयामले “पार्थिवे वारुणं मित्रं तैजसं शत्रुरीरितः। ऐन्द्रवारुणयोः शत्रुर्मारुतं स प्रकीर्त्तितः। नाभसं सर्वमित्रं स्यात् विरुद्धे नैव शीलयेत्। मित्रे सिद्धिः समाख्याता उदासीने न किञ्चन। मृत्युर्व्याधिरमित्रे च स्वकुले सिद्धिरुत्तमा”।

कुलाङ्गार = न० कुलस्याङ्गारमिव उपमितस०। कुलाधमे वंशदृषके “धङ्क्ष्यति स्म कुलाङ्गारं चोदितो मे ततद्रुहम्” भाग० १। १४। ३७।

कुलाचार = पु० ६ त०। कुलोचिते धर्म्मे “जीवः प्रकृतितत्त्वञ्च दिक्कालाकाशमेव च। क्षित्यप्तेजीवायवश्च कुलमित्यभिधीयते। ब्रह्मबुद्ध्या निर्विकल्पमेतेष्व चरणञ्च यत्। कुलाचारः स एवोक्तो धर्म्मकामार्थमोक्षद” इत्युक्तरूपे सर्व्वत्र ब्रह्मदृष्टिसाधके २ ज्ञानभेदे तन्त्रोक्ते ३ आचार भेदे च तन्त्रसारे तदाचारप्रकारो दर्शितो यथा “कालीतन्त्रे “अथाचारं प्रवक्ष्यामि यत्कृतेऽमृतमश्नुते। सर्व्वभूतहिते युक्तः समयाचारपालकः। अनित्यकर्म्मसंत्यागी नित्यानुष्ठानतत्परः। मन्त्राराधन मात्रेण शिवभावेन तत्परः। परस्यान्देवतायान्तु सर्वकर्म्मनिवेदकः। अन्यमन्त्रार्च्चनश्रद्धा अन्यमन्त्रप्रपूजनम्। कुलस्त्रीवीरनिन्दाञ्च तद्द्रव्यस्यापहारणम्। स्त्रीषु रोषं प्रहारञ्च वर्ज्जयेन्मतिमान् सदा। स्त्रीमयञ्च जगत् सर्वं स्वयंभूवत् तथा भवेत्। पेयञ्चर्व्यं तथा चोष्यं भक्ष्यं लेह्यं गृहं सुखम्। सर्व्वञ्च युवतीरूपं भावयेन्मतिमात् सदा। कुलजां युवतीं वीक्ष्य नमस्कुर्य्यात् समाहितः। यदि भाग्यवशाद्देवि! कुलदृष्टिः प्रजायते। तदैव मानसीं पूजां तत्र तासां प्रकल्पयेत्”। तासां भगादिदेवीनाम्। तास्तु “भगिनीं भगचिन्ताञ्च भगास्यां भगमालिनीम्। भगदत्तां भगाङ्गाञ्च भगकर्ण्णां भगत्वचाम्। भगनासां भगस्तनीं भगस्थां भगसर्पिणीम्। संपूज्य ताभ्योगन्धाद्यै र्मानसैर्गुरुमेव च। नमस्कृत्य पुमानेवं क्षमखेति ततः सुधीः। वालां वा यौवनोन्मत्तां वृद्धां वा सुन्दरीं तथा। कुत्सितां वा महादुष्टां नमस्कृत्य विभावयेत्। तासां प्रहारं निन्दाञ्च कौटिल्यमप्रियन्तथा! सर्वथा न च कुर्य्यात्तु चान्यथासिद्धिरोधकृत्। स्त्रियोदेवाः स्त्रियः प्राणास्त्रियश्चैव विभूषणम्। स्त्रीसङ्गिना सदा भाव्यमन्यथा स्वस्त्रिया अपि। विपरीतरता सा तु भविता हृदयोपरि। तद्धस्तारचितं पुष्पं तद्धस्तारचितं जलम्। तद्धस्तारचितं द्रव्यं देवताभ्यो निवेदयेत्। स्त्रीद्वेषो नैव कर्त्तव्यो विशेषात् पूजनं महत्। जपस्थाने महाशङ्खं निवेश्योर्द्धं जपञ्चरेत्। स्त्रियं गच्छन् स्पृशन् पश्यन् विशेषात् कुलजां शुभाम्। भक्ष्यं ताम्बूलमन्यच्च भक्षद्रव्यं यथारुचि। भक्त्याप्यशेषभक्ष्याणि भुक्त्वा शेषं जपञ्चरेत्”। कालीतन्त्रे “दिक्कालनियमोतात्र स्थित्यादिनियमोन च। जपे न कालनियमोनार्चादिषु वलिष्वपि। स्वेच्छानियम उक्तश्च महामन्त्रस्व साधने। वस्त्रास्तरस्थान देहागारपुष्पादिवारिणः। शुद्धिं नचाचरेत्तत्र निर्व्विकम्पं मनश्चरेत्”। कुलार्ण्णवे “कुलाचारगृहङ्गत्वा भक्त्या पापविशुद्धये। याचयेदमृतं कौलं तदभावे जलं पिबेत्। कुलाचारेण यद्दत्तं कृत्वा पात्रेण भक्तितः। ममस्कृत्य च गृह्णीषादन्यथा नरकं व्रजेत्”। अन्यत्रापि “न वृथा गमयेत् कालं द्यूतक्रीडादिना सुधीः। गमयेद्देवतापूजाजपयामस्तवादिना। वीराणां जपयज्ञस्तु सर्वकाले प्रशस्यते। सर्वदेशे सर्वपीठे कर्त्तव्यो नात्र संशयः”। शिवागमे “शक्तिः शिवः शिवः शक्तिः शक्तिर्ब्रह्मा जनार्द्दनः। शक्तिरिन्द्रो रविः शक्तिः शक्तिश्चन्द्रो ग्रहा ध्रुवम्। शक्तिरूपं जगत् सर्वं योन जानाति नारकी”। वीरतन्त्रे “स्नानादि मानसं शौचं मानसं प्रवरोजपः। मानसं पूजनं दिव्यं मानसन्तर्पणादिकम्। सर्व्व एव शुभः कालो नाशुभोविद्यते क्वचित्। न विशेषोदिवा रात्रौ न सन्ध्यायान्तथा निशि। सर्वदा पूज- येद्देवीमस्नातः कृतभोजनः। महानिश्यशुचौ देशे वलिं मन्त्रेण दापयेत्”। यत्तु “रात्रायेव महापूजा कर्त्तव्यावीरन्दिवते!। न दिने सर्व्वथा कार्य्या शासनान्मम सुब्रते”! तत् पुनः कुलदेवताविषये। महानिशा तु तत्रैव “अर्द्धरात्रात् परं यच्च मुहूर्त्तद्वयमेव च। सा महारात्रिरुदिष्टा तद्दत्तमक्षयन्तु वै” गान्धर्व्वे, “पृथ्वीमुतुमतीं वीक्ष्य सहस्रं यदि नित्यशः। तदा वादी स्वसिद्धान्तहतः क्षितितलं विशेत्”। “पर्व्वते हस्तमारोप्य निर्भयोयतमानसः। कवितां लभते सोऽपि अमृतत्वञ्च गच्छति”। अत्रापि सहस्रमिति सम्बन्धः। पृथ्वीं स्त्रियं, नित्यश इति शोडशदिनं यावत्। पर्वतं स्तनम्। अन्यच्च नीलतन्त्रे “पद्मं दृष्ट्वा तथा विम्बं खञ्जनं शिखरन्तथा। चामरं रविविम्बञ्च तिलपुष्पं सरोरुहम्। त्रिशूलं वीक्ष्य जप्त्वा च शतशः शुद्धभावतः। सुसुखं प्रसादं सुखं सुलोचनं सुहास्यकम्। सुवेशं सुगतिं गन्धं सुगन्धं सुखमे व च। लभते च यथासंख्यं शृणु पार्वति! सादरम्”। पद्मं मुखं, विम्बमधरं, खञ्जनञ्चक्षुः, शिखरं मस्तकं, चामरं केशं, रविविम्बं सिन्दूरं, तिलपुष्पं नासिकां, सरोरुहं नाभिं, त्रिशूलं त्रिवेणीम्, सादृश्यत्वात्। भावचूडामणौ “एकाकी निर्जने देशे श्मशाने विजने वने। शून्यागारे नदीतीरे निःशङ्कोविहरेत् सदा। महाचीनद्रुमे देवीं ध्यात्वा तत्र प्रपूजयेत्। तद्द्रुमोद्भवपुष्पेण पूजयेद्भक्तिभावतः। स भवेत् कुलदेवश्च कुलद्रुमगतः शुचिः। ब्रह्मतरोर्म्महापीठे देवीं ध्यात्वा यथाविधि। तत्सुधारसधारेण तर्पयेन्मापृकाननम्। महाचीनद्रुमलतावेष्टितः साधकोत्तमः। रात्रौ यदि जपेन्मन्त्रं सवै कल्प द्रु मोभवेत्। तिथिक्रमेण संख्याभिर्लताभिर्वेष्टितो यदि। तदा मासेन सिद्धिः स्यात् सहस्रजपमानतः। अष्टम्याञ्च चतुर्द्दश्यां द्विगुणं यदि दृश्यते। तत्रैव महती सिद्धिर्द्देवतानां सुदुर्लभा”। कुलचूडामणौ “शृणु पुत्र! रहस्यं मे समयाचारसम्भवम्। येन हीना न सिध्यन्ति जन्मकोटिसहस्रतः। मानवः कुलशास्त्राणां कुलचर्य्यानुचारिणाम्। उदारचित्तः सर्वत्र वैष्णवाचारतत्परः। परनिन्दासहिष्णुः स्यादुपकाररतः सदा। पर्वते विपिने वापि निर्ज्जने शून्यमण्डपे। चतुष्पथे कला(स्त्री)मध्ये यदि दैवाद्गतिर्भवेत्। क्षणं स्थित्वा मनुंजप्त्वा नत्वा गच्छेद्यथासुखम्। गृध्रं वोक्ष्य महाकालीं नमङ्कुर्य्यादलक्षितम्। क्षेमङ्करीं तथा वीक्ष्य जम्बुकीं यमदूतिकाम्। कुस्वरश्येनभूकाकौ कृष्णमार्ज्जारमेव च”। दृष्ट्वा नमङ्कुर्य्यादिति शेषः। मन्त्रस्तु “कृशोदरि! महाचण्डे! मुक्तकेशि! वलिप्रिये!। कुलाचारप्रसन्नास्ये! नमस्ते शङ्करप्रिये!। श्मशानञ्च शवं दृष्ट्वा प्रदक्षिणमनुव्रजन्। प्रणम्यानेन मनुना मन्त्री सुखमवाप्नुयात्। घोरदंष्ट्रे! करलास्ये! किटिशब्दनिनादिनि!। घोरघोरवास्फाले! नमस्ते! चितिवासिनि!। रक्तवस्त्रं तथा पुष्पं विलोक्य त्रिपुरां तथा। प्रणमेद् दण्डवद्भूमौ इमं मन्त्रं पठेन्नरः। बन्धूकपुष्पसङ्काशे त्रिपुरे! भयनाशिनि!। भाग्योदयसमुत्पन्ने! नमस्ते वरवर्ण्णिनि!। कृष्णवर्ण्णं तथा पुष्पं राजानं राजपूरुषम्। हस्त्यश्वरथशस्त्राणि फलकान् वीरपूरुषान्। महिषं कुलदेवञ्च दृष्ट्वा महिषमर्द्दिनीम्। प्रणम्य जयदुर्गां वा स च विघ्नैर्न्नलिप्यते। जय! देवि! जगद्धात्रि०! त्रिवुराद्ये! त्रिदैवते! भक्तेभ्योवरदे! देवि! महिषघ्नि! नमोऽस्तु ते। मद्यभाण्डं ममालोक्य मत्स्यं मांसं वरस्त्रियम्। दृष्ट्वा च भैरवीं देवीं प्रणम्य विमृषेन्मनुम्। घोरविघ्नविनाशाय कुलाचारसमुद्भये!। नमामि! वरदे! देवि! कुण्डलाभ्यां विभूषिते!। रक्तधारासमाकीर्ण वदने! त्वां नमाम्यहम्। सर्वविघ्नहरे! देवि! नमस्ते हरवल्लभे!। एतेषां दर्शने चैव यदि नैवं प्रकुर्वते। शक्तिमन्त्रं षुरस्कृत्य तस्य सिद्धिर्न्न जायते” तथा कुलचूडामणौ “कुलवारे कुलाष्टम्यां चतुर्दश्यां विशेषतः। योगिनीपूजनन्तत्र प्रधानं कुलपूजनम्। यथा विष्णुतिथौ विष्णुः पूजितो वाश्छितप्रदः। तथा कुलतिथौ दुर्गा पूजिता वरदायिनी। कुलवारादिनियमोजामले “वरिश्चन्द्रो गुरुः सौरिश्चत्वारश्चाकुलाइमे। भौमशुक्रौ कुलाख्यौ हि बुधवारः कुलाकुलः। द्वितीया द्वादशी षष्ठी कुलाकुलमुदाहृतम्। विषमा श्चाकुलाः सर्व्वाः शेषाश्च तिथयः कुलाः” विषमाः प्रतिपत् तृतीया पञ्चमी सप्तमी नवमी एकादशी त्रयोदशी पञ्चदशी चकुलाख्या तद्भिन्नाः सर्व्वाः शेषाश्च तिथयः कुलाः। “वारुणार्द्राभिजिन्मूलं कुलाकुलमुदाहृतम्। कुलानि समधिष्ण्यानि शेषाणि च कुलानि च। तत्फलमाह तत्रैव “तिथिवारे च नक्षत्रे चाकुले स्थायिनो भयम्। कुलाख्ये जयिनो नित्यं साम्यञ्चैव कुलाकुले”। एवं कुलवारादिकं ज्ञात्वा साधकः कर्मकुर्य्यात्”। विवृतिश्च आगमे दृश्या।

कुलाचार्य्य = पु० कुलक्रमागतः आचार्य्यः। १ कुलगुरौ कुलस्य वंशस्य व्याख्यायामाचार्य्यः। आधुनिककुलख्यापके विप्रभेदे। (घटक)

कुलाट = पुंस्त्री कुलेन संधेनाटति अट–अच् ३ त०। क्षुद्रमत्स्य भेदे शब्दमा० स्त्रियां जातित्वात् ङीष्

कुलाय = पु० कुलं पक्षिसंघातोऽयतेऽत्र अय–वञ्। १ पक्षिनिलये नोडे, अमरः “खगकुलाय कुलायनिलायिताम्” माघः वेदे त्वस्य क्लीवत्वमपि कुलायिनीशब्दे ता–व्रा० वाक्ये उदा० दृश्यम्। २ स्थानमात्रे मेदि० कौ लायोगतिरस्मात्। ३ देहे न०।

कुलायस्थ = पुंस्त्री कुलाये नीडे तिष्ठति स्था–क ७ त०। नीडस्थे पक्षिमात्रे शब्दच० स्त्रियां जातित्वेऽपि संयोगोपधत्वात् टाप्। कुलायवासीत्यादयोऽप्यत्र स्त्रियां ङीप्

कुलायिका = स्त्री कुलायः पक्षिवासस्थानं विद्यतेऽस्याम् ठन्। पक्षिशालायां (चिडियाखाना)। त्रिका०।

कुलायिनी = स्त्री व्युत्पत्तिः मा० भाष्योक्ता। त्रिवृत्स्तोमस्य विष्टुतिभेदे तत्प्रकारादिकं ताण्ड्य० ब्रा० ३ अ० दर्शितं यथा। “अथ कुलायिनीं विष्टुतिन्दर्शयति” माधवभाष्यम् “तिसृभ्यो हिङ्करोति स पराचीभिस्तिसृभ्यो हिङ्करोति या मध्यमा सा प्रथमा, योत्तमा सा मध्यमा, या प्रथमा सोत्तमा, तिसृभ्यो हिङ्करोति योत्तमा सा प्रथमा, या प्रथमा सा मध्यमा, या मध्यमा सोत्तमा, कुलायिनी त्रिवृतो विष्टुतिः” ब्रा० “परिवर्त्तिन्याइव प्रथमः पर्य्यायः पराचीभिः। द्वितीये पर्य्याये तृचस्य या मध्यमा ऋक् सा प्रथमा कार्य्या। योत्तमा सा मध्यमा कार्य्या। या प्रथमा सोत्तमा कार्य्या। तृतीयः पर्य्यायः निगदसिद्धः। कुलायिनी कुलायो नीडं पक्षिणां निवासस्थानं तद्यथा व्यस्ततृणादिनिर्म्मितम् एवं व्यत्यासयुक्ता ऋचः कुलायास्तैस्तद्वती कुलायिनी एतत्संज्ञा त्रिवृत्स्तोमस्य विष्टुतिरियम्” “अस्यां विष्टुतौ कोऽधिकारीत्यत आह” भा० “प्रजाकामो वा पशुकामो वा स्तुवीत प्रजा वै कुलायम्पशवः कुलायङ्कुलायमेव भवति” ब्रा० “प्रजानाम्पशूनाञ्च कुलायवदवस्थितिहेतुत्वात् कुलायत्वेन स्तुतिः। कुलायिन्या स्तुवानोऽपि प्रजानां पशूनाञ्च कुलायमेव आश्रयभूतो भवत्येव”। “पुनरप्यधिकारिविशेषं दर्शयति” भा० “एतामेवानुजावराय कुर्य्यादेव तासामेवाग्रं परियतीनां प्रजानामग्रम्पर्य्येति” ब्रा० “अनु पश्चाज्जायत इत्यनुजः कनीयान् सहि निकृष्टः तस्मादप्यवरो निकृष्टः अनुजावरस्तादृशाय यजमानायेति। अग्रं परियतीनां लोके याः प्रजाः अग्रं वयोगुणादिभिः श्रेष्ठपदं परियन्ति परितो गच्छन्ति एतासामेव श्रैष्ट्यं परिगच्छन्तीनां प्रजानाम्मध्ये स यजमानः अग्रं श्रेष्ठं पदं पर्य्येति परिगच्छति सर्व्वोत्कृष्टो भवतीत्यर्थः” “सत्रेष्वहीनेषु च बहूनां यजमानानां फलसाम्यात् कुलायिनीं विधत्ते” भा० “एतामेव बहुभ्यो यजमानेभ्यः कुर्य्यात् यत्सर्वा अग्रिया भवन्ति सर्वा मध्या सर्वा उत्तमाः। सर्वानेवैनान् समावद्भाजः करोति नान्योन्यमपघ्नते सर्वे समावदिन्द्रिया भवन्ति” ब्रा० “एतामेव कुलायिनीन्त्रिवृतो विष्टुतिं बहुभ्यो यजमानेभ्यः उद्गाता कुर्य्यात् यत् यस्माद्धेतोः तृचगताः सर्वा ऋचः अग्रिया मुख्याः प्रथमा भवन्ति सर्वासु मध्ये वर्त्तमाना भवन्ति सर्वाश्चोत्तमा भवन्ति तद्यथा प्रथमे पर्य्याये प्रथमैव प्रथमा भवति। मध्यमे तु मध्यमा प्रथमा भवति। उत्तरे उत्तमा प्रथमा भवति। एवं सर्वासां प्राथम्यं जातम्। तथा प्रथमपर्य्याये मध्यमैव मध्यमा द्वितीये पर्य्याये उत्तमैव मध्यमा तृतीये पर्य्याये प्रथमैव मध्यमा। एवं सति तिस्रोऽपि मध्यमाः सम्पन्नाः। तथा प्रथमे पर्य्याये उत्तमोत्तमा भवति। द्वितीये पर्य्याये प्रथमैवोत्तमा भवति। तृतीये पर्य्याये मध्यमैवोत्तमा भवति। एवं सर्वा अप्युत्तमाः सम्पन्नाः। यस्मादेताः सर्वा ऋचः समानरूपाः ततो हेतोरनया विष्टुत्या सर्वानेवैनान् यजमानानुद्गाता समावद्भाजः समावच्छब्दः समपर्य्यायः समं फलं भजन्त इति समावद्भाजः साम्येन फलभाजः करोति। अतएव नान्योन्यमपघ्नते परस्परन्न हिंसन्ति। तथा सर्वे यजमानाः समावदिन्द्रियाः समावद्वीर्य्याः समानसामर्थ्या भवन्ति”। “फलान्तरमाह” भा० “वर्षुकः पर्ज्जन्यी भवतीमे हि लोकास्तृ चस्तान् हिङ्कारेण व्यतिषजति” ब्रा० “लोकस्थानीयानां तिसृणामृचामादौ प्रयुक्तेनैकेनैव हिङ्कारेण व्यतिषञ्जनात् संयोजनात् त्रयाणां लोकानां परस्परमुपकार्य्योपकारकभावो न वाधित इति पर्ज्जन्यो वर्षणशीलो भवतीत्यर्थः”। “अस्यामपि विष्टुतौ बहुदोषाः सम्भवन्तीत्याह” भा० “पापवसीयसन्तु भवति” ब्रा० “तुशब्दः फलवैलक्षण्यद्योतनार्थः। पापं प्रसिद्धं वसीयः पुण्यं तदुभयमेकाश्रयं भवति। इतरत् उद्यतीवाक्यशषवत् व्याख्येयम्। नञः भावोत्र विशेषः। इत्थं विष्टुतयस्तिस्रो विहिताः, तिसृष्वपि तासु फलविशेषश्रवणान्निन्दादर्शनाच्च समानफलत्वात्सर्वानित्याः, यत्र विशेषादेशः क्रियते निमित्तं वा कामो वा श्रूयते ततोऽन्यः नित्यः। प्रयोगे आद्याभिरेताभिरेव स्तुतिभिः स्तोमसम्पादनं कार्य्यं, तदाह सून्नकृत्। “प्रथमाभिर्विष्टुतिभिः स्तोमविधानमनादेशे ताः पक्षाः सर्वाभिप्रायाश्चेति”। पुनरपि यथाशिषं वा विदध्यादित्यादिना खण्डशेषेण बहवः पक्षाः सूत्रकृतोपन्यस्ताः ते तत्रैव बोद्धव्याः। नन्वेतास्वपि प्रत्येकं निन्दादर्शनात् कथमासां नित्यत्वम्। नैष दोषः, उद्यत्यान्तावत् यो दोष उक्तः अवर्षुकः पर्ज्जन्यो भवतीति, स कुलायिनीपरिग्रहे परिह्रियते। यत्र हि वर्षुकः पर्ज्जन्यो भवतीत्याम्नातम्। यत्तु कुलायिन्यां दोषदर्शनं पापवसीयसन्तु भवत्यधरोत्तरमित्यादि तदुद्यतीप्रयोगेण विहृतं तत्र हि पापवसीयसो विधृतिरिति सा श्रूयते श्लक्ष्णेव तु पापवसीयसन्तु भवति”। “अधरोत्तरमपावगतो रुध्यतेवगच्छत्यपरुद्धः पापीया च्छ्रेयांसमभ्यारोहति जनता जनतामभ्येत्यन्योन्यस्य प्रजा आददते न यथा क्षेत्रं कल्पन्ते” ब्रा० “प्रथमाया मध्यमायाश्चान्ते प्रयोग इति यदस्ति तदेतदधरोत्तरमनुष्ठानं यस्मिन् देशे क्रियते तत्र वा ईश्वरा पशून्निर्मृज इति परिवर्त्तिन्यां यदपशुलक्षणं दोषदर्शनं तदुद्यत्यां परिहृतं भवति। एषा वै प्रतिष्ठिता विष्टुतिरिति, तत्र हि वाक्यशेषः प्रजापशुसमृद्ध्या हि प्रतिष्ठितो भवतीति”। एतत्सामयोनिः सूक्तविशेषः। तत्पाठप्रकारः साम संहिताभाष्य उक्तोयथा “सामगानामुत्तराग्रन्थे तृचात्मकानि सूक्तान्याम्नातानि यथा “उपान्मै गायता नर” इत्याद्यं सूक्तं “दविद्यतत्या ऋचा” इति द्वितीयं “पवमानस्य ते कव” इति तृतीयम्” तच्च उद्यतीशब्दे ११८३ पृ० दर्शितम्। एवमुद्यती विष्टुतिमुक्त्वा “एवं परिवर्त्तिनी कुलायिनीति द्वे विष्टुती भवतः “इति इत्युक्त्वा परिवर्त्तिन्या विष्टुतेः प्रकारमुक्त्वा कुलायिव्याः प्रकारकथनाय प्रागुक्तं ता० व्रा० वाक्यमुदाहृत्य व्याख्यातम्। अत्र प्रथमसूक्ते “पराचीभिः अनुक्रमेणाम्नाताभिः। तेन पाठक्रमएव। द्वितीये पर्य्याये मव्यमोत्तमप्रथमाः। तृतीयेतूत्तमाप्रथमामध्यमा इत्येवं व्यत्यासेन” मन्त्राः (पूर्वोक्ताः) बोध्याः २ कुलाययुक्ते त्रि० “ऊर्ण्णावन्तं प्रथमः सीद योनिम्। कुलायिनं घृतवन्तम् सवित्रे” ऋ० ६। १५। १६। “कुलायिनं गुग्गुल्वादिसंभरणोपेतम् तथा च श्रूयते “कुलायमिव ह्येतद्यज्ञे क्रियते यत् पैतदारवाः परिधयो गुग्गुलूर्ण्णास्तुकासुगन्धितेजनानि” ऐत० ब्रा०” भा०।

कुलाल = पुंस्त्री कुल–कालन, कुलमलति अल–अण्, कुलमालाति आ + ला–क–वा। १ कुम्भकारे, (कुमार) अमरः “कुलालजनकीऽपरः भाषा० “नमः कुलालेभ्यः कर्म्भारेभ्यश्च” यजु० १६। २७। २ कुक्कुभपक्षिणि मेदि० जातित्वात् स्त्रियां ङीष्। ततः तेन कृतमित्यर्थे संज्ञायां कुलाला० वुञ्। कौलालक तत्कृते शरावादौ त्रि०

कुलालादि = पु० संज्ञायां तेन कृतमित्यर्थे वुञ्प्रत्ययनिमित्ते पाणिन्युक्ते शब्दगणभेदे स च गणः “कुलाल वरुड चण्डाल निषाद कर्म्मार सेना सिरिन्ध्र सैरिन्ध्र देवराज परिषत् बधू मधु रुरु रुद्र अनडुह् ब्रह्मन् कुम्भकार श्वपाक” कौलालकं वारुडकम् इत्यादि

कुलाली = स्त्री कुलमलति अल–अण् ङीप्। १ नीलोपलभेदे, कपित्थाञ्जनप्रस्तरभेदे, अमरः २ आरण्यकुलत्थिकायाम्, राजमि० ३ कुम्भकारभार्य्यायांञ्च। स्वार्थे क ह्रस्वः। कुलालिकाप्यत्र हेमच०

कुलाह = पुंस्त्री० कुलमाहन्ति आ + हन–ड। ईषत्पीतवर्णे कृष्णजानौ अश्वे हेमच० ततः संज्ञायां कन्। २ कृकलासे, (राङ्गाकुलेखाडा) इति ख्याते ३ शाकभेदे शब्दमाला। “आमवातरक्तवातरोगनाशी कुलालकः” राजवल्लभः

कुलाहल = पु० कुलमाहलति स्पर्द्धते अच्। (कुकुरसोङ्गा) वृक्षभेदे रत्नमाला

कुलि = पु० कुल–इन् किच्च। १ हस्ते त्रिका०। २ कण्टकारि कायां स्त्री शब्दरत्ना० कृदिकारान्तत्वात् वा ङीप्।

कुलिक = त्रि० कुलमधीनत्वेन प्राशस्त्येन वास्त्यस्य ठन्। १ कुलश्रेष्ठे मेदि० २ शिल्पिकुल, प्रधाने अमरः। (कुलेखाडा) इति प्रसिद्धे ३ शाकभेदे पु० मेदि० महानागान्तर्गते ४ नागभेदे पु० “शेषः पद्मो महापाद्मः कुलिकः शङ्खपालकः। वासुकिस्तक्षकश्चैव बालियोमणिभद्रकः। ऐवावतो धृतराष्ट्रः कर्कोटकधनञ्जयौ” तिथित० पु० “ततोऽधस्तात् पाताले नागलोकपतयो वासुकिप्रमुखाः शङ्खकुलिकमहाशङ्ख श्वेतधनञ्जयधृतराष्ट्रशङ्खचूडकम्बलाश्वतरदेवदत्तादयो महाभोगिनो महामर्षा निवसन्ति” भाग० ५। २४। ३। “कुलिकोऽर्द्धचन्द्रमौलिर्ज्वालाधूमसमप्रभः” हेमा० तद्रूपमुक्तम्। तन्त्रे तु तस्य पाटलतोक्ता। उग्रताराशब्दे १०५६ पृ० तद्वाक्यमुक्तम्ः “भुजेषु नागः कुलिकोऽङ्गदोमतः”। तस्य उग्रताराङ्गदभूषणत्वमुक्तम्। रव्यादिवारेषु दिवारात्र्योः ५ दुष्टमु० हूर्त्तभेदे यथाह मुहु० चि० “शक्रार्कदिग्वसुरसाब्ध्यश्विन्यः कुलिका रवेः। रात्रौ निरेकास्तिथ्यंशाः शनौ चान्त्योऽपि निन्दितःः”। रविमारभ्य सर्ववारेषु क्रमादुक्तसंख्यास्तिथ्यं शामुहूर्त्ताः कुंलिकाः स्युः। यथा रवौ दिने १४, मुहूर्त्तः चन्द्रे १२, मङ्गले १०, बुधे ८, गुरौ ६, शुक्रे ४, शनौ २ कुलिकः रात्रावेते निरेकाः कार्य्याः। यथा रवौ १३, चन्द्रे ११, भौमे ९, बुधे ७, गुरौ ५, शुक्रे ३, शनौ १, शनौ तु अन्त्यः पञ्चदशदशमुहूर्त्तोऽपि कुलिकः। एते निन्दिताः। अस्यापवादमाह गुरुः “वारेशे सबले चापि बलाट्ये लग्नगे शुभे। कुलिकोद्भवदोषस्तु विनश्यति न संशयः। शुभे केन्द्रगते चन्द्रे शुभांशे वा शुभेक्षिते। लग्नगे सबले वापि कलिकस्तु विलीयते” अन्यत्र दोषमाह वशिष्ठः “निधनं प्रहरार्द्धे तु निःस्वत्वं यमवण्टके। कुलिके सर्वनाशः स्यात् रात्रायेते न दोषदाः” रात्रावेते न दोषदा इत्यस्यापवादो रत्नकोषे “तमस्विनीगन्धमुपेत्य वारदोषास्तथा शक्तिमनाप्नुवन्तः। अल्वं समासाद्य विलासिनीनां कटाक्षवाणाइव निष्फलाः स्युः” न वारदोषाः प्रभवन्ति रात्रौ देवेज्यदैत्येज्यदिवाकराणाम्। दिवा शशाङ्कार्कजभूसुतानां सर्व्वत्र निन्द्यो बुध० वारदोषः”। शुभकृत्यानामावश्यकत्वे देशभेदेनापवादमाह गर्गः। “विन्धस्योत्तरकूले तु यावदातुहिनाचलम्। यमघण्टकदोपोऽस्ति नान्यदेशेषु विद्यते। मत्स्याङ्गमगधान्ध्रेषु यमवण्टस्तु दोषकृत्। काश्मीरे कुलिकं दुष्टमर्द्धयामस्तु सर्व्वतः”। कुलिकस्य विशेषप्रयोजनन्तु “जपित्वा सितगुञ्जानां कुडकं कुलिकोदये” शारदायाम् नवदुर्गाभिचारकर्म्माङ्गतयोक्तम्। तट्टीकायां राघवभट्टेन च “मन्वर्कदिग्वस्वृतुवेदपक्षैरर्कान्मुहूर्त्तैः कुलिका भवन्ति। दिवा निरेकैरथ यामिनीषु ते गर्हिताः कर्म्मसु शोभनेषु” इत्युक्तम् निरेकैः पूर्व्वोक्तमन्वादिमुहूर्त्तैरे- कोनैरित्यर्थः” “न्यूनाधिमासकुलिकप्रहरार्द्धपातविष्कुम्भवज्रघटिकात्रयमेव वर्ज्यम्” मुहु० चि० तस्य सर्वकर्म्मणि वर्ज्जनीयतामाह

कुलिङ्ग = पु० कौ पृथिव्यां लिङ्गति चरणार्थं गच्छति अच्। १ चटके, शब्दचि० २ धूम्याटे, (फिङ्गा) अमरः भूमिप्रत्यासन्नतया धान्यादिस्थलचारिणि ३ खगमात्रे च। ४ कुत्सितलिङ्गे न०। ब०। ५ तद्वति त्रि०। ६ कर्कटशृङ्ग्याम् स्त्री गौरा० ङीष्। स्वार्थे क। कुलिङ्गक चटके हेमच०।

कुलिङ्गाक्षी = स्त्री० कुलिङ्गं कुत्सितलिङ्गमक्षी वफलमस्याः षच् समा० ङीष्। (पेटारी) पटिकावृक्षे रत्नमाला

कुलिज = त्रि० कुलौ हस्ते कण्टकारिकायां वा जायते जन–ड ७ त०। १ हस्तजाते नखादौ “कुलिजकृष्टे दक्षिणतोऽग्ने सम्भारमाहरति” गृह्यम् २ कण्टकारीजाते च ततः “कुलजात् लुक्खौ च” पा० तदन्तात् द्विगोः सम्भवति अवहरति पचति वेत्यर्थेषु ठञ् तस्य लुक् वा ष्ठञ ख वा। द्विकुलज द्वैकुलजिक द्विकुलजिक द्विकुलजीन। तत्र सम्भवति, (कुलिजं स्वस्मिन् समावेशयति) तदपहारके तत्पाचके च त्रि०। ष्ठञि स्त्रियां ङीष् अन्यतः टाप्।

कुलिन् = पु० कुल + अस्त्यर्थे बला० पक्षे इनि। १ पर्व्वते शब्दचि०। २ सत्कुलवति त्रि० स्त्रियां ङीप्।

कुलिन्द = पु० भूम्नि १ देशभेदे “कुलिन्दाः कालवाश्चैव कुण्ठकाः करटास्तथा” भा० भी० ९ अ० जनपदकथने। २ तद्राजेषु च “शूरसेनाः भद्रकारा बोधाः शाल्वाः पटच्चराः। सुस्थलाश्च मुकुट्टाश्च कुलिन्दाः कुन्तिभिः सह” भा० स० १३ अ०। “पूर्ब्बं कुलिन्दविषये वशेचक्रे महीपतीन्। धनञ्जयो महाबाहुर्नातितीव्रेण कर्म्मणा”। “आनर्त्तान् कालकूटांश्च कुलिन्दांश्च विजित्य सः” भा० स० १३। २५ अ० अयञ्च देशः वृहसं० कूर्म्मविभागे १४ अ० ऐशान्यामुक्तः “वनराजकिरातचोनकौलिन्दाः” कुलिन्द + स्वार्थे अण्” कौलिन्दाः।

कुलिर = पु० कुल–वा० इरन् + किच्च। १ कर्कटे शब्दरत्ना०। मेषादिषु २ चतुर्थे राशौ च

कुलिश = पुंन० कुलौ हस्ते शेते शी–ड, कुलिनः पर्वतान् श्यति शो–ड वा ईषत् लिशति कु + लिश–क–कौ लिशति लिश–क वा यथायथं व्युत्पत्तिः। १ इन्द्रायुधे वज्रे अशनिशब्दे ५७४ पृ० तदुत्पत्त्यादिकमुक्तं तत्स्वरूपादिकं हेमा० परि० ख० लक्षणसमुच्चये औशन सधनुर्वेदोक्तवक्तं तस्य तत्रैव दृश्यम् विस्तरभयान्नोक्तम् “असयः शक्तिकुलिशपाशर्ष्टि कणषाः शराः” भा० व० २० अ०। “अवेदनाज्ञं कुलिशक्षतानाम्” कुमा० २ मत्स्यभेदे पु० त्रिका०। ३ अस्थिसंहारवृक्षे रत्नमा०।

कुलिशद्रुम = पु० कुलिश इव द्रुमः। स्नुहीवृक्षे शब्द चि०

कुलिशधर = पु० कुलिशं धरति धृ–अच्। वज्रधरे इन्द्रे कुलिशभृदादयोऽप्यत्र पु०

कुलिशनायक = पु० “स्त्रोपादद्वयमाकृष्य विमुमुक्षितलिङ्गकः। योनिञ्च पीडयेत् कामी बन्धः कुलिशनायकः” रतिमञ्जर्य्युक्ते शृङ्गारबन्धभेदे। कुलिशनामक इति पाठः साधुः

कुलिशपाणि = पु० कुलिशः पाणावस्य। इन्द्रे देवराजे

कुलिशाङ्गशा = स्त्री बौद्धानां विद्यादेवीभेदे हेमच०

कुलिशासन = पु० कुलिशमिब दृढमासनमस्य। शाक्यमुनौ त्रिका०

कुली = स्त्री कुल–क गौरा० ङीष्। १ कण्टकारिकायाम् अमरः २ वृहत्यां राजनि०। ३ पत्नीज्येष्ठभगिन्याम् (वडशाली) हेमच०

कुलीक = पुंस्त्री० कुल–बा० ईकन् किच्च। पक्षिमात्रे स्त्रियां जातित्वेऽपि टाप्। “सोमाय लवानालभते त्वष्ट्रे कौलीकान् गोषादीर्देवानां पत्नीभ्यः कुलीका देवजामिभ्यः” यजु० २४ २४ कुलीक + स्वार्थेऽण् कौलीकान् पक्षिणः” तिस्रः कुलीकाः पक्षिणीर्देवाजामिभ्य देवबधूभ्यः” वेद दी०।

कुलीन = पुंस्त्री० कुले जातः ख। १ सत्कुलजे हये स्त्रियां ङीष्। तन्त्रोक्ते २ कुलाचारयुक्ते ३ उत्तमकुलजाते त्रि०। कौ पृथिव्यां लीनः। ४ भूमिलग्ने त्रि०। संज्ञायां कन्। कुलीनक वनमुद्गे पु० हेमच०

कुलीनस = न० कुलिलीनं भूलग्नं स्यति सो–अन्तकर्म्मणि क। जले हेम०।

कुलीपय = त्रि० जलचरजन्तुभेदे “मित्राय कुलीपयान्, वरुणाय नक्रान्” यजु० २४, २१। “कुलीपयान् जलजान् मित्राय” वेददी०। नाक्रोमकरःः कुलीपयस्तेऽकूपारस्य” यजु० २४। ३५ “नाक्रः मकरः कुलीपयस्ते त्रयः जलचर विशेषाः” वेददी०

कुलीर = पुंस्त्री० कुल–संस्त्याने ईरन् किच्च। १ कर्कटे(के~कडा) जलचरजन्तुभेदे अमरः स्त्रियां ङीष्। २ कर्कटराशौ च। कर्कटशब्दे विवृतिः।

कुलीरशृङ्गी = स्त्री कुलीरः कुलीरावयव इव शृङ्गमस्याः गौरा० ङीष्। (का~कडा शिङ्गा) वृक्षे रत्नमा० कुलीरविषाणीत्यप्यत्र स्त्री

कुलीराद् = पु० कुलीरमत्ति अद्–क्विप्। ककर्टशिशौ तस्योत् पत्त्यैव स्वप्रसूतिगर्भविनाशनेन तद्भक्षकत्वात्तथात्वम्

कुलीश = पुंन० कुलिश + पृषो०। वज्रे–सारमुन्दरी

कुलुक = न० कुल–बा० उलच् किच्च। जिह्वामले हेमच०

कुलुक्कगुञ्जा = स्त्री कौ भूमौ लुक्का गुप्ता गुञ्जेव। उल्काम्मौ हारा०।

कुलुङ्ग = पुंस्त्री कुरङ्ग + पृषो०। हरिणभेदे स्त्रियां टाप। “सोमाय कुलुङ्ग आरण्योऽजो नकुलः शकाः” यजु० २४ ३२। “कुलुङ्गः कुरङ्गः हरिणः” वेददी० “साध्येभ्यः कुलुङ्गान्” यजु० २४। २७

कुलुञ्च = त्रि० कुं भूमिं क्षेत्रगृहादिरूपां लुञ्चति हरति, कुत्सितं लुञ्चति वा लुन्च–अण्। चौरभेदे “उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमः” यजु० १६। २२।

कुलूत = पु० भूम्नि देशभेदे सच देशः वृं० सं० कूर्म्मविभागे वायव्यामैशन्याञ्च उक्तः यथा “दिशि पश्चिमोत्तरस्याम्” इत्युपक्रमे “अश्मककुलूतलहडस्त्रीराज्यनृसिंहवनस्थाश्च” “ऐशान्यां मेरुकनष्टराज्यमित्युपक्रमे “अभिसारदरदतङ्गणकुलूतसैरिन्ध्रवनराष्ट्राः”। तेन कुलूतदेशोद्विधा। तत्र भवः अण्। कौलूत तत्र भवे त्रि० बहुषु तस्य लुक् कुलूताः। तेषां राजा अण्। कौलूत तद्राजे वहुषु तस्य लुक्। कुलूता तद्राजाः।

कुलेचर = पु० कुले जलसमीपे चरति चर–अच् अलुक्स०। उद्भिदे शाकभेदे “क्षवककुलेचरवंशकरीरप्रभृतीनि कफहराणि सृष्टमूत्रपूरोषाणि” सुश्रुतः।

कुलेश्वर = पु० ६ त०। १ शिवे २ वंशपतौ च शब्दमा०

कुलेय = त्रि० कुले भवः वा० ढ। कुलजाते “बभूव तत् कुलेयानां द्रव्यकार्य्यमुपस्थितम्” भा० आ० १७८ अ०

कुलोत्कट = पुंस्त्री० कुलेन उत्कटः। १ कुलीनाश्वे शब्दच० २ उत्कृष्टकुलजाते त्रि०

कुलोद्वह = त्रि० कुलं वंशभारं रक्षणादिकमुद्वहति उद् + वह–अच्। कुलपालके कुलस्रेष्ठे “पुत्रोममानुरूपश्च शूरश्चेति कुलोद्वहः” भा० वि० ३५ अ०

कुल्फ = पुंन०। कल–संख्यांने फक् अस्य उच्च। १ रोगभेदे २ गुल्के च उज्ज्वलद०। “अष्ठीवन्तौ परि कुल्फौ च देहत्” ऋ० ७, ५०, २, “अयमेवादक्षिण ऊरुर्वरुणप्राघास” इत्युपक्रमे “कुल्फावेवैन्द्राग्नं हविः” शत० व्रा० ११। ५। २। ३। “अयमेवोत्तरऊरुरित्युपक्रमे “कुल्फावेवैन्द्राग्नं हविः तस्मादिमौ द्वौ कुल्फाविति च” ११। ५। २। ५। “जानुदघ्नोद्वितीयः कुल्फदघ्नस्तृतीयः” शत० व्रा० १२। २। १। ३०।

कुल्मल = न० कुश–क्मलच् लश्चान्तादेशः। १ पापे उज्ज्वलद०। “तत्र मे गच्छताद्धवं शल्य इव कुल्मलं यथा” अथ० २ ३०, ३०। २ तद्वति त्रि० “अपाष्ठाच्छृङ्गात् कुल्मलान्निरवोचमहं विषम्” ऋ० ४, ६, ५, जिह्वा ज्या भवति कुल्मलम् ५, १८, ८,

कुल्माष = पु० कोलति कुल–क्विप् कुल् भाषोऽस्मिन् ७ ब०। “अर्द्धस्विन्नाश्च गोधूमा अन्येच चणकादयः। कुल्माषा इति कवन्ते इत्युक्तेषु १ अर्द्धस्विन्नगोधूमादिषु वैद्यकम् “कुल्माषा गुरवो रूक्षा वातला भिन्नवर्च्चसः” भावप्र० “सक्तून् विलेपीं कुल्माषं जलञ्चापि शुभं पिबेत्” सुश्रु०। “वलाकां वारुणीकुल्माषाभ्याम्” (नाश्नीयात्)। सुश्रु०। “कणपिन्याकफलीकरणकुल्माषस्थालीपुरीषादीन्यमृतबदव्यवहरति” भाग० ५, ९, १०,। कुत्सिता माषाः पृषो०। २ निन्दितमाषे च “स हेभ्यं कुल्माषान् खादन्तं बिभिक्षे” छान्द० उ० “कुल्माषान् कुत्सितान् माषान्” शा० भाष्यम्। ३ सूर्य्यस्य पारिपार्श्विकभेदे ४ शूकधान्ये यवादौ च शब्दचि०। ५ काञ्जिके ६ मसीपरिणामे च न० शब्दचि०। “कुलमाषाः कुलेषु सीदन्तीति” निरुक्तोक्ते ७ कुत्सितार्थे त्रि० “कुल्माषांश्चिदाहवेत्यवकुत्सिते” निरुक्तकारः। कुल्माषाः प्रायेणान्नमस्याः अञ् स्त्रियां ङीप्। कौल्माषी पूर्ण्णिमा। ८ माषादिमिश्रार्द्धभ्रष्टभक्ते (खेचडी) भरतः। ९ रोगभेदे शब्दरत्ना० १० वनकुलत्थे रत्नमा०।

कुल्माषाभिषुत = न० ३ त०। काञ्चिके क्षीरस्वामी।

कुल्मास = न० कुल्माष + पृषो०। कुल्माषशब्दार्थे भरतः।

कुल्य = न० कुल–क्यप्। १ अस्थ्नि अमरः। २ अष्टद्रोणपरिमाणे शूर्पे ३ आमिषे च मेदि०। कुले भवः यत्। ४ कुलजाते ५ मान्येच त्रि० मेदि०। कुल + चतुरर्थ्या बला० य। ५ कुलसन्निकृष्टदेशादौ त्रि०। कुलाय हितं यत्। ६ कुलहिते त्रि० “वृत्तीश्च कुल्याः पशुभूतवर्गान्” भाग० ७। ६। १३। कुल्यायां भवः यत् यलोपः। ९ कुल्याभवे त्रि० “नमः कुल्याय त्व सरस्याय च” यजु० १६, ३७ कृत्रिमेऽल्पे १० सरिद्भेदे स्त्री अमरः ११ पयःप्रणाल्याम् १२ जीवन्त्यामौषधौ १२ नदीमात्रे च स्त्री० मेदि० “मैन्धवारण्यमासाद्य कुल्यानां कुरु दर्शनम्” भा० व० १०४०८ श्लो०। “घृतकुल्याश्च दघ्नश्च नद्यो बहुशतास्तथा” भा० व० ८५३० श्लो०। ऋषिकुल्या घृतकुल्या दधिकुल्या मधुकुल्या इत्यादि।

कुल्यासन = न० कुलाय कुलाचारायहितं यत् कुल्यमासनम्। “अथकुल्यासनं वक्ष्ये यत् कृत्वा कुलिको भुवि। एकहस्तो मास्तकस्थोऽधःशीर्षा नाभिगे करे” इति रुद्रयामलोक्ते आसनभेदे

कुल्लूक = पु० मन्वर्थमुक्ताबलीनामटीकाकारकविद्वद्भेदे “श्रीमद्भट्टदिवाकरस्य तनयः कुल्लूकभट्टोऽभवत्” तट्टीकोपक्रमः।

कुल्व = कुल–उल्वा० नि० १ लीमराहित्यरूपे। (टाक) रोगभेदे २ तद्युक्ते त्रि० “अथैतानष्टौ विरूपानालमते अतिदीर्घं चातिह्रस्वं चातिस्थूलं चातिकृशं चातिशुक्लं चातिकृष्णं चातिकुल्वं चातिलोमशं च अशूद्रा अब्राह्मणास्ते प्राजापत्याः” यजु० ३०। २२। “अतिकुल्वं रोमरहितम्” वेददी०

***