कुन्द = पु० कुन्द इव श्वेतत्वात्, कूं पृथिवीं कश्यपाय ददाति दा–क वा। १ विष्णौ तस्य कुन्दोपमाङ्गत्वात् स्वच्छतया स्फकवन्निर्मलत्वात् “श्वेतारक्तस्तथा पीत इदानीं कृष्णतां गतः” इत्युक्तेः युगावतारे सत्ययुगे श्वेतत्वाद्वा, परशुरामायतारे कश्यपाय भूमिदानाद्वा तथात्वम्। यथाह हरिवंशे “सर्व्वपापविशुद्ध्यर्थं वाजिमेधेन चेष्टवान्। तस्मिन्यज्ञे महादाने दक्षिणां भृगुनन्दनः। मारीचाय ददौ प्रीतः कश्यपाय वसुन्धराम्”। कुं भूमिभुनत्ति उन्दअण् शक०, कौतेः अव्दा० दन् मुमच् वा। २ कुन्दरुनामगन्धद्रव्ये ३ भ्रमियन्त्रभेदे (कु~द) ४ कुवेरस्य निधिभेदे च पु० मेदि० ५ करवीरवृक्षे पु० राजनि० स्वनामख्याते ख्याते ६ पुष्पप्रधानवृक्षे पुंन० पुष्पे न० अमरः। “कुन्दं शीतं लघु श्लेष्मशिरोरुग्वातपित्तहृत्” भावप्र०। “कुन्दकुद्मला ग्रदतः स्मितैः” माघः। “कुन्देन्दुसुन्दररुचिः” सा० द०। “शङ्कराय न दातव्याः कुन्दशेफालिकाजवाः” पुरा०। ७ पद्मे च कुन्दिनी त्रिका०। शाल्मलद्वीप्रस्थे ८ वर्ष पर्व्वतभेदे। शाल्मलद्वीपवर्ण्णने भाग० ५, २० अ०। “तेषु वर्षेष्वद्रयो नद्यश्च सप्तैवाभिज्ञाताः सुरसः शतशृङ्गो वामदेवः कुन्दः कुमुदः पुष्पवर्षः सहस्रस्रुतिरिति”। विष्ण्पु० तु एषां नासान्तराणि दृश्यन्ते “कुमुदश्चोन्नतश्चैव तृतीयश्च वलाहकः। द्रोणोयत्र महौषध्यः स चतुर्थो महीधरः। कुन्दस्तु पञ्चमः षष्ठो महिषः सप्तमस्तथा। कुमुद्वान् पर्व्वतवरः” अनयोः कल्पभेदादविरोधः।

कुन्दक = पु० कुन्द + संज्ञायां कन्। १ कुन्दरुवृक्षे राजनि० स्वार्थे क। २ कुन्दशब्दार्थे

कुन्दम = पुंस्त्री० कुन्देन मीयते शुभ्रवर्ण्णत्वात् मा–घञर्थे क। विडाले त्रिका० स्त्रियां जातित्वात् ङीष्। तस्य च पाणिभिन्नषष्ठ्यन्तात् परस्य चूर्णां० तत्पुरुषे आद्युदात्ततातत्र गणे मुकुन्द इति पाठान्तरम्। तेन सह श्रेण्यादित्वात् तत्पुरुषः।

कुन्दमाला = स्त्री ग्रन्थभेदे सा० द०।

कुन्दर = पु० कुन्दवत् शुद्धानि धर्म्मानुबन्धीनि फलानि राति ददाति रा–क, कुं धरां दारयति हिरण्याक्षजिघांसया वराहरूपावतारे दृ–अच् पृषो० सुम्। १ विष्णौ। “कुमुदः कुन्दरः कुन्दः” विष्णुस०। कुं भूमिं दारयति अन्तर्भूतण्यर्थे दृ–अच् पृषो०। कलिङ्गेषु (कुन्दरा) विख्याते २ तृणभेदे पु० राजनि०। तस्य पर्य्यायोक्तिद्वारा लक्षणं राजनि० दर्शितम्। “कण्डुरो दीर्घपत्रः खरच्छदः रसालक्षेत्रसंभूतः मृगवल्लभः”। “ज्ञेयं कुन्दरमूलन्तु स्थौल्यशैत्योपकारकम्। पित्तातिसारनाशि स्यात् गोधनानां प्रशस्यते। बलपृष्टिकरञ्चैव” राजनि० तद्गुणा उक्ताः।

कुन्दिनी = स्त्री कुन्दानां पद्मानां समूहः खला० इनि। पद्मसमूहे त्रिका०।

कुन्दु = पु० कुं भूमिं दृणाति दृ बा० डु। १ मूषिके शब्दरत्ना०। २ कुन्दुरुनाम गन्धद्रव्ये स्त्री।

कुन्दुर = पु० कुं भूमिं दारयति दृ–विदारे उरन् पृषो०। कुन्दुरुनामगन्धद्रव्ये भरतः।

कुन्दुरु = पुंस्त्री कुं भूमिमुनत्ति उन्द–जत्र्वा० नि०। स्वनामख्याते गन्धद्रव्यभेदे अमरः। “कुन्दुरुर्मधुरस्तीक्ष्णस्तिक्त स्त्वच्यः कटुर्हरेत्। ज्वरस्वेदग्रहालक्ष्मीमुखरोगकफानिलान्” भावप्र०। स्वार्थे क। तत्रैव पुंस्त्री राजनि०। स च तुश्रुते एलादिगणे पठितः। स च गणो यथा

“एलातगरकुष्ठमांसीध्यामकत्वक्पत्रनागपुष्पप्रियङ्गुहरेणुका व्याघ्रनखशुक्तिचण्डास्थौणेयकश्रीवेष्टकचोचचोरकबालकगुग्गुलुसर्जरसतुरष्क्रकुन्द रुकाऽगुरुस्पृक्को शीरभद्रदारुकुङ्कुमानि पुन्नागकेशरञ्चेति। एलादिको वातकफौ निहन्याद्विषमेव च। वर्ण्णप्रसादनः कण्डूपिटकाकोठनाशनः”।

कुप = आच्छादने इदित् वा चुरा० उभ० पक्षे भ्वादि० पर० सक० सेट्। कुम्पयति ते कुम्पति अचुकुम्पत् त अकुम्पीत्। कुम्पयाम् बभूव आस चकार–चक्रे। चुकुम्प। प्रनि कुम्प्यात्

कुप = द्युतौ चुरा० उभ० अक० सेट्। कोपयति ते अचूकुपत् त। कोपयाम् बभूव आस चकार चक्रे। कुपितः कोपः कोपनम् कुपित्वा प्रकुप्य। “प्रोचुः प्राञ्जलयो विप्राः प्रहृष्टाः कुपितत्वचः” भाग० ३, १६,

कुप = रोषे दिवा० सक० प० सेट्। कुप्यति इरित् अकुपत् अकोपीत् चुकोप। “यस्मिन् यस्मिन् ऋतौ ये ये दोषाः कुप्यन्ति देहिनाम्” सुश्रु०। “तस्य तद्ववनं श्रुत्वा रूक्षं रूक्षाक्षरं बहु। चुकोप बलिनां श्रेष्ठः” भा० स० ४१ अ०। “कुपितकपिकपोलक्राडताम्रस्तमांसि। उद्भटः “द्रुह्य कुप्यसि याचके” भा० आ० ७८ अ०” अस्य आर्षे पदव्यत्ययोऽपि दृश्यते। “नन्दते कुप्यते चापि तथा हुङ्गारयत्यपि” भा० आनु० १४ अ०। “न च कुप्ये महासर्प! न चात्मानं विगर्हये” भा० ब० १७९ अ०। उपसर्गपूर्ब्बकस्य तत्तदुपसर्गद्योत्यार्थपरत्वम् यथा प्रकोपः संकोपः अतिकोषः इत्यादि। “क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः” पा० कर्म्मणः सम्प्रदानता।

कुपथ = पु० कुत्सितः पन्थाः कुगतिसमा० अच् समा०। १ कुत्सिते पथि शब्दरत्ना०। “स्वधर्म्म पथमकुतोभयम् विहाय कुपथपाषण्डमसमञ्जसं संप्रवर्त्तयिष्यति” भाग० ५, ६, १० श्लो। स सेव्यत्वे नास्त्यस्य अर्श० अच्। २ असुरभेदे “प्रमदो मयश्च कुपथोहयग्रीवश्च वीर्य्यवान्” हरि० ३ अ० “तथा निकुम्भः कुपथश्च दानवः” हरि० २४१ अ०। सएव सुपार्श्वनृपरूपेण द्वापरे आविर्भूतः “कुपथस्तु महावीर्य्यः श्रीमान् राजन्! महासुरः। सुपार्श्व इति विख्यातः क्षितौ जज्ञे महीपतिः” भा० आ० ६७ अ०।

कुपन = पु० कुप–क्यु। हिरण्याक्षसैन्यस्थे असुरभेदे “शरभः शलभश्चैव कुपनः कोपनः क्रथः” हरिवं० ४२ अ०।

कुपय = त्रि० गुप–क्यप् पृषो०। गोपंनीये। “आ साच्यं कुपयं वर्द्धनं पितुः” ऋ० १, १४०, ३, “कुपयं गोपनीयम्” भा०

कुपाणि = त्रि० कुत्सितः पाणिरस्य। वक्रहस्ते बाहुकुण्ठे (कोपा)। जटा०

कुपिञ्जल = पुंस्त्री कुत्सितः पिञ्जल इव पुच्छोऽस्य। पक्षिभेदे स्त्रियां ङीष् ततः शिवा० अण्। कौपिञ्जल तदपत्ये पुंस्त्री०।

कुपिनिन् = पु० कुपिनी मत्स्यधानी अस्त्यस्य व्रीह्या० इनि। मत्स्यधारके कैवर्त्ते त्रिका०।

कुपिनी = स्त्री गुप्यते मत्स्योऽत्र गुप–वा० इनि किच्च ङीप् पृषो०। (माछेरखालुइ) मत्स्याधारे पात्रभेदे शब्दरत्ना०।

कुपिन्द = पुंस्त्री कुप–किन्दच्। तन्तुवाये उणादिको०।

कुपीलु = पु० कुत्सितः पीलुः कुगतिस०। (माकडातेन्दु) काकेन्दुवृक्षे मावप्र०। यस्य फलं (कुचिला) इतिख्यातम्। तत्पर्यायगुणादि मावप्र० उक्तं यथा “तिन्द को यस्तु कथितो जलदो दीर्घपत्रकः। कुपीलुः कुलकः कालस्तिन्दुकः कालपीलुकः। काकेन्दुर्विषतिन्दुश्च तथा मर्कटतिन्दुकः। कुपीलु शीतलं तिक्तं वातलं मदकृल्लघु। पादव्यथाहरंग्राहि कफपित्तास्रनाशनम्”।

कुपुत्र = पु० कुत्सितः पुत्रः कुगतिस०। कुत्सिते पुत्रे १ “तादृशं फलमाप्नोति कुपुत्रैः सन्तर~स्तमः” मनुः। ब० व्री०। २ कुत्सित पुत्रयुक्ते त्रि०। भावे कर्म्मणि च ततो मनोज्ञा० वुञ्। कौपुत्रिका तद्भावे स्त्री। कोः पृथिव्याः पुत्रः। ३ मङ्गलग्रहे ४ नरकासुरे च।

कुपूय = त्रि० कुत्क्तितं पूयते पूय–विसरणे अच्। जात्याचारादिनिन्दिते अमरः

कुप्य = न० गुप–क्यप् नि०। स्वर्णरूप्याभ्यामन्यस्मिन् १ तेजसादौ धातौ, अमरः (दस्ती) इति ख्याते २ धातौ च

कुप्यशाला = स्त्री कुप्यस्य तत्पात्रादिनिर्म्माणस्य शाला। (का~सारिर दोकान) कांस्यादिपात्रनिर्म्माणगृहे हेमच०।

कुप्रिय = त्रि० कु + प्री–क। जघन्येहला०।

कुप्लव = पु० कुगतिस०। तृणादिनिर्म्मिते उडपे शब्दचि०। “यादृशं फतमाप्नोति कुप्लवैः सन्तरन् जलम्” मनुः

कुब = स्तृतौ (आच्छादने) इदित् वा चुरा० उभ० पक्षे भ्वा० पर० सक० सेट्। कुम्बयति ते कुम्बति अचुकुम्बत् त अकुम्बीत्। कुम्बयाम्–बभूव आस चकार चक्रे चुकुम्ब। कुम्बा

कुबल = त्रि० कुत्सितं बलमस्य। निन्दितबलयुक्ते।

कुबलाश्व = त्रि० कुबलोऽश्वोऽस्य। १ दुर्वलाश्वयुक्ते सूर्य्यवंश्ये २ नृपभेदे तस्यधुन्धुमारसंज्ञाप्राप्तिः भा० व० २०१ अ० उक्ता यथा “मार्कण्डेय उवाच। इक्ष्वाकौ संस्थ्यिते राजन्! शशादः पृथिवीमिमाम्। प्राप्तः परमधर्म्मात्मा सोऽयोध्यायां नृपोऽभवत्। शशादस्य तु दायादः ककुत्स्थो नाम वीर्य्यवान्। अनेनाश्चापि काकुत्स्थः पृधुश्चानेनसः सुतः। विष्वगश्वः पृथोः पुत्रस्तस्मादद्रिश्च जज्ञिवान्। अद्रेश्च युवनाश्वस्तु श्रावस्तस्यात्मजोऽभवत्। तस्य श्रावस्तकोज्ञेयः श्रावस्ती येन निर्म्मिता। श्रावस्तस्य तु दायादो वृहदश्वो महाबलः। वृहदश्वस्य दायादः कुबलाश्व इति स्मृतः। कुबलःश्वस्य पुत्राणां सहस्राण्येकविंशतिः। सर्वे विद्यासु निष्णाता बलवन्तः सुदारुणाः। कुबलाश्वश्च पितृतो गुणैरभ्यधिकोऽभवत्। समये तं पिता राज्ये वृहदश्वोऽभ्यषेचयत्। कुबलाश्वं महाराज। शूरमुत्तमधार्म्मिकम्। पुत्रसंक्रामितश्रीस्तु वृहदश्वो महीपतिः। जगाम तपसे धीमांस्तपोवनममित्रहा”। इत्युपक्रम्य मधुकैटभयोःसमुत्पत्तिबधकथान्ते २०३ अ० “मार्कण्डेयौवाच। धुन्धुर्नाम महाराज! तयोः पुत्रोःमहाद्युतिः। स तपोऽतप्यत महत् महावीर्य्यपराक्रमः। अतिष्ठदेकपादेन कृशो धमनिसन्ततः। तस्मै ब्रह्मा ददौ प्रीतो वरं वव्रे स च प्रभुम्। देवदानवयक्षाणां सर्पगन्धर्वरक्षसाम्। अबध्योऽहं भवेयं वै वर एष वृतो मया। एवं भवतु गच्छेति तमुवाच पितामहः। स एवमुक्तस्तत्पादौ मूर्द्ध्नाऽऽस्पृश्य जगाम ह। स तु धुन्धुर्वरं लब्ध्वा महावीर्य्यपराक्रमः। अनुस्मरन् पितृबधं द्रुतं विष्णुमुपागमत्। स तु देवान् सगन्धर्वान् जित्वा धुन्धुरमर्षणः। बबाधे सर्वानसकृद्विष्णुं देवांश्च वै भृशम्। समुद्रे बालुकापूर्णे उज्जालक इति स्मृते। आगम्य च स दुष्टात्मा तं देशं भरतर्शभ!। वाधते स्म परं शक्त्या तमुतङ्काश्रमं विभो!। अन्तर्भू मिगतस्तत्र बालुकान्तर्हितस्तथा। मधुकैटभयोः पुत्रो धुन्धुर्भीमपराक्रमः। शेते लोकविनाशाय तपोबलमुपाश्रितः। उतङ्कस्याश्रमाभ्यासे निःश्वसन् पावकार्च्चिषः। एतस्मिन्नेव काले तु राजा सवलवाहनः। उतङ्कविप्रसहितः कुबलाश्वो महीपतिः। पुत्रैः सह महीपालः। प्रययौ भरतर्षभ!। सहस्रैरेकविंशत्या पुत्राणामरिमर्द्दनः। कुबलाश्वो नरपतिरन्वितो बलशालिनाम्। तमाविशत्ततो विष्णुर्भगवांस्तेजसा प्रभुः। उतङ्कस्य नियो गेन लोकानां हितकास्यवा। तस्मिन् प्रयाते दुर्द्धर्षे दिवि शब्दो महानभूत्। एष श्रोमानबध्योऽद्य धुन्धुमारो भविष्यति। दिव्यैश्च पुष्पैस्तं देवाः समन्तात् पर्य्यवाकिरन्। देवदुन्दुमयश्चापि नेदुः स्वयमनीरिताः। शीतश्च वायुः प्रववौ प्रयाणे तस्य धीमतः। विपांशुलां महीं कुर्वन् ववर्ष च सुरेश्वरः। अन्तरीक्षे विमानानि देवतानां युधिमिर!। तत्रैव समवृश्यन्त धुन्धुर्यत्र महासुरः। कुबलाश्वस्य धुन्धोश्च युद्धं कौतूहलान्विताः। देवगन्धवसहिताः समवैक्षत्महर्षयः। नारायणेन कौरव्य! तेजसाप्यायितस्तदा। स गतो न्रपतिः क्षिप्रं पुत्रैस्तैः सर्वतो दिशम्। अर्णवं खानयामास कुबलाश्वोमहीपतिः। कुबलाश्वस्य पुत्रैश्च तस्मिन् वै बालुकार्णवे। सप्तभिर्द्दिवसैः खात्वा दृष्टो धुन्धुर्म्महाबलः। आसीद्घोरं वपुस्तस्य बालुकान्तर्हितं महत्। दीप्यमानो यथा सूर्य्यस्तेजसा भरतर्षभ!। ततो धुन्धुर्म्महाराज! दिशमावृत्य पश्चिमाम्। सुप्तोऽभूद्राजशार्द्दूल! कालानलसमद्युतिः। कुबलाश्वस्य पुत्रैस्तु सर्वतः परिवारितः। अभिद्रुतः शरैस्तीक्ष्णैर्गदाभिर्म्मुसलैरपि। पट्टिशैः परिघैः प्रासैः खड्गैश्च विमलैः शितैः। स बध्यमानः संक्रुद्धः समुत्तस्थौ महाबलः। क्रुद्धश्चाभक्षयत्तेषां शस्त्राणि विविधानि च। आस्याद्वमन् पावकं स संवर्त्तकसमं तदा। तान् सर्वान्नृपतेः पुत्रानदहत् स्वेन तेजसा। मुखजेनाग्निना क्रुद्धो लोकानुद्वर्त्तयन्निव। क्षणेन राजशार्द्दूल! पुरेव कपिलः प्रभुः। सगरस्यात्मजान् क्रुद्धस्तदद्भुतमिवाभवत्। तेषु क्रोधाग्निदग्धेषु तदा भरतसत्तम!। तं प्रबुद्धं महात्मानं कुम्भकर्ण मिवापरम्। आससाद महातेजाः कुबलाश्वो महीपतिः। तस्य वारि महाराज! सुस्राव बहु देहतः। तदापीयत तत्तेजो राजा वारिमयं नृप!। योगी योगेन वह्निञ्च शमयामास वारिणा। ब्रह्मास्त्रेण च राजेन्द्र! दैत्यं क्रूरपराक्रमम्। ददाह भरतश्रेष्ठ! सर्वलोकाभयाय वै। सोऽस्त्रेण दग्ध्वा राजर्षिः कुबलाश्वो महासुरम्। सुरशत्रुममित्रघ्नं त्रैलोक्येशैवापरः। धुन्धोर्बधात्तदा राजा कुबलाश्वो महामनाः। धुन्धुमार इति ख्यातो नाम्नाऽप्रतिरथोऽभवत्”।

कुवे(बे)र = पु० कुम्बति धनम् कुबि–एरक् नि० नलोपश्च कुत्सितं वेरमस्य इति वा। १ धनदे यक्षराजे अमरः “कुत्सायां क्वितिशब्दोऽयं शरीरं वेरमुच्यते। कुवेरः कुशरीरत्वात् नाम्ना तेनैव सोऽङ्कितः” वायुपु०। “कुवेरोभव नाम्ना त्वंमम रूपेर्व्यया सुत!” काशीख० देवीशापोक्तेस्तस्य तथात्वम्। “कुवेरस्य मनःशल्यं शंसतीव पराभवम्” कुमा०। तस्येदमण्। तत्सम्बन्धिनि त्रि० स्त्रियां ङीप् “कौवेरदिग्भगमपास्य मार्गम्” मावः। क्षुभ्ना० पाठात् कुवेरवनमित्यादौ न णत्वम् वाकप्। कुवेरकोऽप्यत्रार्थे कुगतिस०। २ निन्दितदेहे न०।

कुबेराक्षी = स्त्री कुवेरस्याक्षीव पिङ्गलं पुष्पमस्याः षच् समा० ङीष्। १ पाटलविक्षे २ लताकरञ्जे च राजनि०।

कुबे(वे)राचल = पु० ६ त०। कैलासपर्वते जटा० तस्य कुवे- रावासत्वात्तथात्वम्। कुवे (वे) राद्रिप्रभृतयोऽप्यत्र।

कुब्ज = पु० ईषत् उब्जमार्ज्जावं यत्र शक०। १ अपामार्गे राजनि० २ खड्गे शब्दमा०। (कुज) ३ हृदयपृष्ठरोगे पु० “हृदयं यदि वा पृष्ठमुन्नतं क्रमशः सरुक्। क्रुद्धो वायुर्य्यदा कुर्य्यात् तदा तं कुब्जमादिशेत्” माधवोक्तं तल्लक्षणम्। ४ तद्युक्ते (कुजो) त्रि०। “कुब्जा नीचतयैव यान्ति शनकैरात्मेक्षणाशङ्किनः” रत्ना०। सच राज्ञामन्तः पुरसहायभेदो यथाह सा० द० तद्वदवरोधे इत्युपक्रमे “वामनषण्डकिरातम्लेच्छाभीराः शकारकुब्जाद्याः” अवरोधाधिकारिकुब्जलक्षणमुक्तं वृह० स० ६९ अ० “पञ्चापरे वामनको जघन्यः कुब्जोऽपरो मण्डलकोऽथ सामी। पूर्वोक्तभूपानुचरा भवन्ति सङ्कीर्णसंज्ञाः शृणु लक्षणैस्तान्”। “कुब्जो नाम्ना यः स शुद्धो ह्यधस्तात् क्षीणः किञ्चित् पूर्ब्बकाये नतश्च। हंसासेवी नास्तिकोऽर्थैरुपेतो विद्वान् शूरः सूचकः स्यात् कृतज्ञः। कलास्वभिज्ञः कलहप्रियश्च प्रभूतभृत्यः प्रमदाजितश्च। सम्पूज्य लोकं प्रजहात्यकस्मात् कुब्जोऽयमुक्तः सततोद्यतश्च”।

कुब्जक = पु० कौ उब्जति उब्ज–ण्वुल शक०। अतिसुरभिपुष्पे वृक्षभेदे “चम्पकात् पुष्पशतकादशोकं पुष्पमुत्तमम्। अशोकपुष्पसाहस्रात् सेवतीपुष्पमुत्तमम्। सेवतीपुष्पसाहस्रात् कुब्जकं पुष्पमुत्तमम्” शब्दचि०। नरसि० पुरा० “कुब्जकः सुरभिः स्वादुः कषायानुरसः सरः। त्रिदोषशमनो वृष्यः शीतहर्त्ता च स स्मृतः” इति भावप्र०।

कुब्ज कण्टक = पु० कुब्जः कण्टकोऽस्य। श्वेतखदिरे राजनि०

कुब्जा = स्त्री कंसभवनस्थे सैरिन्ध्रीभेदे यां पद्भ्यामाक्रम्य कृष्णः सुरूपां चकार तत्कथा भाग० १० स्क० ४१ अ० यथा “अथ व्रजन् राजपथेन माधवः स्त्रियं गृहीताङ्गविलेसभाजनाम्। विलोक्य कुब्जां युवतीं वराननां पप्रच्छयान्तीं प्रहसन्रसप्रदः। का त्वं वरोर्वे! तदुहानुलेपनं कस्याङ्गने! वा कथयस्व साधु नः। देहावयोरङ्गविलेपमुत्तमं श्रेय स्ततस्ते नचिराद्भविष्यति। स्वैरिन्ध्र्युवाच। दास्यस्म्यहं सुन्दर! कंससम्मता त्रिवक्रनामा ह्यनुलेपकर्म्मणि। मद्भावितंभोजपतेरतिप्रियं विना युवां कोन्यतमस्तद र्हति। रूपपेशलमाधुर्य्यैर्हसितालापवीक्षिता। धर्षितात्मा ददौ सान्द्रमुभयोरनुलेपनम्। ततस्तावङ्गरागेण सुवर्णेतरशोभिना। संप्राप्तपरभागेण शुशुभाते सुरञ्जितैः। प्रसन्नोभगवान् कुब्जां त्रिवक्रां रुचिराननाम्। ऋज्वीं कर्त्तुं मनश्चक्रे दर्शयन् दर्शने फलम्। पद्भ्यामाक्रम्य प्रपदे द्व्यङ्गुलोत्तानपाणिना। प्रगृह्य चिवुकेऽध्यात्ममुदनीनमदच्युतः। सा तदर्जुसमानाङ्गी वृहच्छ्रोणिपयोधरा। मुकुन्दस्पर्शनात् सद्योबभूव प्रमदोत्तमा”।

कुब्जाम्रक = न० भारतप्रसिद्धे तीर्थभेदे “ततः कुब्जाम्रके गच्छेत् तीर्थसेवी नराधिप!। गोसहस्रमवाप्नोति स्वर्गलोकं च गच्छति” भा० व० ८४ अ०। तच्च तीर्थं ब्रह्मावर्त्तसमीपस्थं तत्रैव विवृतिः।

कुब्जिका = स्त्री १ अष्टवर्षामां कन्यायाम्। “अष्टवर्षा च कुब्जिका” अन्नदाकल्पः कालसङ्कर्षाशब्दे २००४ पृ० विवृतिः। २ देवीभूर्त्तिभेदे तस्याः पूजादिविधायकं तन्त्रं कुब्जिका तन्त्रत्वेन प्रसिद्धम् तन्त्रसारे तत्प्रमाणं दृश्यम्।

कुब्र = न० कुबि–आच्छादने रन् ऋज्रेन्द्रेत्यादिना नि०। अरण्ये उज्ज्वलदत्तः। २ कुण्डे ३ कुण्डले ४ तन्तौ ५ शरणे ६ शकटे च संक्षिप्तसारवृत्तिः।

कुब्र(व्र)ह्म = पु० कुत्सितो ब्र(व्र)ह्मा वा टच्। कुत्सिते ब्र(व्र)ह्मणि टजभावपक्षे कुब्र(ब्र)ह्मन्शब्दोऽप्यत्र।

कुभ = उन्दने भ्वा० पर० सक० सेट्। कोभति अकोभीत् चुकोभ। ऋ० भा० माधवसंमतोऽयम्।

कुभ = न० कुभ–क। उदके ऋ० भा० माधवः। कुभन्युशब्दे विवृतिः।

कुभन्यु = त्रि० कुभ–कर्म्मणि घञर्थे क कुभमुदकमिच्छति क्यच् वा० अनङ् छन्दसि उ। आत्मनः सेकमिच्छति उदकस्य सेक्तरि “छन्दस्तुभः कुभन्यवः ऋ० ५, ५२, १२, कुभन्यवः कुभिरुन्दनकर्म्मा” भा०।

कुभा = स्त्री कोः पृथिव्याः भा। पृथिवीच्छायायाम् “राहुः कुभामण्डलगः शशाङ्कम्” ज्योति०। उपरागशब्दे १२८५ पृ० विवृतिः। कुगतिस०। २ कुत्सितदीप्तौ। “मा वोरसानितभा कुभा” ऋ० ५, ५३, ९, “कुभा कुत्सित दीप्तिः” भा०। ३ तद्युक्ते त्रि०।

कुभृत् = पु० कुं पृथिवीं बिभर्त्ति भृ–क्विप्। १ भूधरे शैले २ सप्तसंख्यायाम्। एकादिशब्दे १५०८ पृ० विवृतिः कुभृद्रेस्रिकं सप्तशालाकचक्रम् ज्योति०।

कुमार = केलौ अद० चुरा० उभ० अक० सेट्। कुमारयति ते अचुकुमारत् त। कुमरयाम् बभूव आस चकार चक्रे।

कुमार = पु० कुमारयति क्रीडोत, कुत्सितो मारो यस्मात्, कौमारयति दुष्टान् मृ–णिच्–अच् वा। १ कार्त्तिकेये, नाट्यीक्तौ २ युवराजे, अम० ३ शुके पक्षिणि ४ अश्ववारके, ५ वरुणवृक्षे ६ पञ्चवर्षीये, बालके च मेदि०। “कौनारं पञ्चमाब्दान्तं पौगण्डं दशमावधि” भाग० १० श्रीधर धृतवचनम्। स्त्रियां वयोवाचित्वात् ङीष्। “त्रीणि वर्षाण्युदीक्षेत कुमार्य्युतुमती सती” मनुः। ७ सिन्धुनदे शब्दर०। ८ अर्हदुपासकभेदे हेमच०। ९ शाकद्वीपेश्वरपुत्रभेदे १० तदीयवर्षभेदे च विष्णुपु० “शाकद्वीपेश्वरस्यापि भवस्य सुमहात्मनः। सप्तैव तनयास्तेषां ददौ वर्षाणि सप्त च। जलदश्च कुमारश्च सुकुमारो मणीवकः। कुमुदोदः, समोदाकिः सप्तमश्च महाद्रुमः। तत्संज्ञान्यपि तान्येव सप्तवर्षाण्यनुक्रमात्”। ११ शुक्तिमत्पर्व्वतोद्भवे ऋषिकुल्याभेदे “ऋषिकुल्याः कुमाराद्याः शुक्तिमत्पादसम्भवाः” विष्णुपु०। १२ सुन्दरे त्रि०। १३ अविवाहितावस्थायामुपचारात्। “कौमारा पूर्ब्बबचने” पा०। “अनेकानि सहस्राणि कुमारव्रह्मचारिणाम्। दिबं गतानि विप्राणामकृत्वा कुलसन्ततिम्” मनुः। अतएव अन्नदाकल्पे “एकवर्षा भयेत्सन्ध्या इत्यादिना षोडशवर्षान्ताया अपि कुमारीत्व मुक्तम्। तत्र बालके “कुमारं माता बिभर्त्ति” ऋ० ५, २, १, कुमारस्य रेतः सिक्तं न सम्भवति” “शत० ब्रा० १, ४, ५, ७, “कन्यानां संप्रदानञ्च कुमाराणाञ्च रक्षणम्” मनुः नाट्योक्तिं विनापि काव्ये राजदारके कुमारशब्दः प्रयुज्यते। “आप्तः कुमारानयनोत्सुकेन भोजेन दूतोरघवे विसृष्टः”। “कुमारसैन्यं सपदि स्थितं च तत्” रघुः “तदानुजग्मतुः स्थाणुं कुमाराविव पाचकी” रामा०। विश्वसारोक्ते १५ मन्त्रमेदे पु० १६ विद्यायां स्त्री ङीप्। मन्त्रविशेषाणां संज्ञाभेदाश्च तन्त्रसारे दर्शिता यथा

विश्वसारे निबन्धे च। “छिन्नोरुद्धः शक्तिहीनः पराङ्मुख उदीरितः। बधिरोनेत्रहीनश्च कीलितः स्तम्भितस्तथा। दग्धःस्रस्तश्च भीतश्च मलिनश्च तिरस्कृतः। भेदितश्च सुषुप्तश्च मदोन्मत्तश्च मूर्च्छितः। हृतवीर्य्यश्च भीमश्च प्रध्वस्तोबालकः पुनः। कुमारश्च युवा प्रौढोवृद्धो निस्त्रिंशकस्तथा। निर्व्वीजः सिद्धिहीनश्च मन्दः कूटस्तथा पुनः। निरंशकः सत्वहीनः केकरोजीवहीनकः। धूमितालिङ्गितौ स्यातां मोहितश्च क्षुधार्त्तकः। अतिदीप्तोऽङ्गहीनः स्यादतिक्रुद्धः समीरितः। अतिक्रूरश्च सुब्रीडः शान्तमानस एव च। स्थानभ्रष्टश्च विकलोनिःस्नेहः परिकीर्त्तितः। अतिवृद्धः पीडितश्च वक्ष्याम्येषन्तु लक्षणम्। मनोर्यस्वादिमध्यान्तेष्वानिलं वीजमुच्यते। संयुक्तं वा वियुक्तं वा पुराक्रान्तस्त्रिधा पुनः। चतुर्द्धा पञ्चधा वापि स मन्त्रश्छिन्नसंज्ञकः। आदिमध्यावसानेषु भूवीजद्वयलाञ्छितः। रुद्धमन्त्रः स विज्ञेयोभ- क्तिमुक्तिविवर्जितः। मायात्रितयश्रीवीजराकाहीनस्तु योमनुः। शक्तिहीनः स कथितो यस्य मध्ये न विद्यते। कामवीजं मुखे माया शिरस्यङ्कुशमेव च। असौ पराङ्मुखः प्रोक्तोहकारो विन्दुलाञ्छितः। आद्यन्तमध्ये विन्दुर्व्वा न भवेद्बधिरः स्मृतः। पञ्चवर्णोमनुर्यःस्याद्रेफार्केन्दुविवर्ज्जितः। नेत्रहीनः स विज्ञेयो दुःखशोकामयप्रदः। आदिमध्यावसानेषु हंसप्रासादवाग्भवौ। हकारोविन्दुमान् जीवो वावश्चापि चतुःकलः। माया नमामि च पदं नास्ति यस्मित् स कीलितः। एकं मध्ये द्वयं मूद्ध्नि यस्मिन्नस्त्रपुरन्दरौ। न विद्येते स मन्त्रस्तु स्तम्भितः सिद्धिवर्ज्जितः। वह्निर्वायुसमायुक्तो यस्य मन्त्रस्य मूर्द्धनि। सप्तधा दृश्यते तन्तु दग्धमन्त्रं प्रचक्षते। अस्त्रंद्वाभ्यां त्रिभिः षड्भिरष्टभिर्दृश्यतेऽक्षरैः। स्रस्तः सोऽभिहितो यस्य मुखे न प्रणव स्मृतः। शिवोवा शक्तिरथ वा भीताख्यः स प्रकीर्त्तितः। आदौ मध्ये तथा चान्ते यस्य मार्ण्णचतुष्टयम्। सएव मलिनो मन्त्रः सर्वविघ्नसमन्वितः। यस्य मध्ये दकारोऽस्ति कवचं मूर्द्धनि द्विधा। अस्त्रं तिष्टति मन्त्रः स तिरस्कृत उदाहृतः। द्योद्वयं हृदये शीर्षे वषट्वौषट् तु मध्यमे। सएव भेदितोमन्त्रः सर्वशास्त्रविवर्ज्जितः। त्रिवर्ण्णो हंसहीनोयः स सुषुप्तौदाहृतः। मन्त्रोवाप्यथ वा विद्या सप्ताधिकदशाक्षरा। फट्कारपञ्चकादिर्योमदोन्मत्त उदाहृतः। तद्वदस्त्रं स्थितं मध्ये यस्य मन्त्रः स मूर्च्छितः। विरामेऽङ्गस्य यो मन्त्रो हृतवीर्य्यः स उच्यते। आदौ मध्ये तथा चान्ते चतुरस्रयुतोमनुः। ज्ञातव्योभीम इत्येष यःस्यादष्टादशाक्षरः। एकोनविंशत्यर्ण्णो वा योमन्त्रस्तारसंयुतः। हृल्लेखाङ्कुशवीजाढ्यं प्रध्वस्तं तं प्रचक्षते। सप्तवर्ण्णो भवेद्बालः कुमारोऽष्टाक्षरःस्मृतः। पोडशार्ण्णो युवा प्रौढश्चत्वारिंसल्लिपिर्म्मनुः। त्रिंशदर्णश्चतुःषष्टिवर्णोमन्त्रः शताक्षरः। चतुःशताक्षरश्चापि वृद्धः स परिकीर्त्तितः। नवाक्षरो ध्रुवयुतो मनुर्निस्त्रिंश ईरितः। यस्यावसाने हृदयं शिरोमन्त्रौ च मध्यतः। शिखा वर्म्म च न स्यातां वौषट्फट्कार एव वा। शिबशक्त्यर्ण्णहीनो वा स निर्वीजः उदाहृतः। एषु स्थानेषु फट्कारः षोढा यस्मिन् प्रदृश्यते। स मन्त्रः सिद्धिहीनःस्या न्मन्दःपङ्क्त्यक्षरोमनुः। कूट एकाक्षरो मन्त्रः स एवोक्तोनिरंशकः। द्विवर्ण्णः सत्वहीनः स्याच्चुतर्व्वर्ण्णस्तु केकरः। षडक्षरोजीवहीनः सार्द्धसप्ता- क्षरोमनुः। सार्द्धद्वादशवर्णो वा धूमितः स तु निन्दितः। सार्द्धवीजत्रयस्तद्वदेकविंशतिवर्णकः। विंशदर्णस्त्रिशदर्ण्णोवःस्यादालिङ्गितः स्मृतः। द्वाविंशत्यक्षरो मन्त्रो मोहितः परिकीर्त्तितः। द्वात्रिंशदर्णो मन्त्रोयः सप्तविंशतिवर्णकः। क्षुधार्त्तः स तु विज्ञेयश्वतुर्विंशतिवर्णकः। एकादशाक्षरोवाऽपि पञ्चविंशतिसंख्यकः। त्रयोविंएतिवर्णो वा मन्त्रोऽतिदीप्तईरितः। षड्विंशत्यक्षरोमन्त्रः षट्त्रिंशदर्णकस्तथा। त्रिंशदेकोनवर्णो वा त्वङ्गहीनः स एव हि। अष्टाविंशत्यक्षरोय एकत्रिंशदथापि वा। अतिक्रुद्धः स विज्ञेयो निन्दितः सर्वकर्म्मसु। त्रिंदशदक्षरकोमन्त्रस्त्रयस्त्रिंशदथापि वा। अतिक्रूरः स सिज्ञेयो निन्दितः सर्वकर्म्मसु। चत्वारिंशत्तमा विद्या त्रिषष्टिर्यावता भवेत्। तावत्संख्या निगदिता म न्त्राः सदसंज्ञकाः। पञ्चषडक्षरा ये स्युर्मन्त्रास्ते शान्तमानसाः। एकोनशतपर्य्यन्तं पञ्चषष्ठ्यक्षरादिति। ते सर्वे कथितामन्त्राः स्थानभ्रष्टा न शोभनाः। त्रयोदशाक्षरा ये स्युर्म्मन्त्राः पञ्चदशाक्षराः। विकलास्तेऽभिधीयन्ते शतंसार्द्धशतंतथा। शतद्वयंद्विनयतिरेकहीना तथापि वा। यावच्छतत्रयं संख्या निःस्नेहास्ते प्रकीर्त्तिताः। चतुःशतमथारभ्य यावद्वर्णसहस्रकम्। अतिवृद्धः स मन्त्रस्तु सर्वशास्त्रविवर्ज्जितः। सहस्रार्णाधिका मन्त्रा दण्डकाः पीडिताह्वयाः। द्विसहस्राक्षरामन्त्राः खण्डशःसप्तधा कृताः। ज्ञातव्यास्तोत्ररूपास्ते मन्त्राएते यथास्थिताः। तथा विद्याश्च वोद्धव्या मन्त्रिमिः सर्वकर्म्मसु। दोषानिमानविज्ञाय योमन्रं भजते बुधः। सिद्धिर्न जायते तस्य कल्पकोटिशतैरपि” अथ मन्त्राणां दोषशान्तिः तदुक्तं तत्रैव “छिन्नादिदुष्टाये मन्त्रास्तन्त्रेतन्त्रेनिरूपिताः। ते सर्वे सिद्धिमायान्ति मावृकार्णप्रभाघतः। मारकार्णैः पुटीकृत्य मन्त्रं विद्यां विशेषतः। शतमष्टोत्तरं पूर्वं प्रजपेत् फलसिद्धये। तदा मन्त्रोमहाविद्या यथोकफलदा भवेत्। मातृकापुटितं कृत्वा मध्ये वर्णान्निधाय च। मत्त्रवर्णांस्ततः कुर्य्याच्छोधनन्तत्र सम्मतम्। बद्ध्वा तु योनिमुद्रां तां संङ्कोच्याधारपङ्कजम्। तदुत्पन्नान् मत्त्रवर्णान् कुर्वतश्च गतागतान्। ब्रह्मरन्ध्रावधि ध्यात्वा वायुमापूर्य्य कुम्भयेत्। सहस्रं प्रजपेन्मन्त्रं मत्रदोषोपशात्तये”। तथा। “एषु दोषेषु प्राप्तेषु मायां काममथापि वा। क्षिप्वा चादौ श्रियं चैव तद्दूषणविमुक्तये”। तथा। “तारसंपुटितोवापि दुष्टम- न्त्रोऽपि सिध्यति। यस्य यत्र भवेद्भक्तिः सोऽपि मन्त्रोऽस्य सिध्यति” तथा। “प्रणवोमावृका देवी हृल्लेखेत्यमृतत्रयम्। अमृतत्रयसंयोगाद्दुष्टमन्त्रोऽपि सिध्यति” तत्र विद्यायां “कुमारी या च विद्येयं त्वया शप्ता पतिव्रते!। केवलं शिवरूपेण शक्तिरूपेण केबलम्” मुण्डमा०। १७ स्वरोदयेक्ते बालादिचक्रस्थे स्वरभेदे पु० चक्रशब्दस्थबालादिचक्रे विवृतिः। तत्र स्कन्दे “अग्ने पुत्रः कुमारस्तु श्रीमान् शरवणालयः” भा० आ० ६६ अ०। “कुमारमभिगम्याय वीराश्रमनिवासिनम्। अश्वमेधमवाप्नोति नरो नास्त्यत्र न संशयः” भा० व० ८४ अ०। तस्य कन्दर्पापेक्षयाधिकसौकुमार्य्यात्तथात्वम्। १८ वालोपद्रावकग्रहभेदे “स्कन्दः सृष्टो भगवता देवेन त्रिपुरारिणा। बिभर्त्ति चापरां संज्ञां कुमारः इति स ग्रहः” सुश्रुतः। १९ शुद्धसुवर्ण्णे न० मेदि०। संज्ञायां कन्। वरुणवृक्षे तिक्तशाके। स्वार्थे क। बालके हेमच०। तस्येदं तस्य भावो वा अण्। कौमार शिशुत्वे बाल्यावस्थायां “देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा” गीता।

कुमारकल्याण = न०। चक्रदत्तोक्ते घृतभेदे तल्लक्षणं यथा “शङ्खपुष्पी वचा ब्राह्मी कुष्ठं त्रिफलया सह। द्राक्षा सशर्करा शुण्ठी जीवन्ती जीरकं बला। शठी दुरालभा विल्वं दाडिमं सुरसः स्थिरा। मुस्तं पुष्करमूलञ्च सूक्ष्मैला गजपिप्पली। एषां कर्षसमैर्भागैर्धृतप्रस्थं विपाचयेत्। कषाये कण्टकार्य्याश्च क्षीरे तस्मिंश्चतुर्भुणे। एतत् कुमारकल्याणं घुतरत्नं सुखप्रदम्। बलवर्णकरं धन्यं पुट्यग्निबलवर्द्धनम्। छायासर्व्वग्रहालक्ष्मीक्रिमिदन्तगदापहम्। सर्वबालामयहरं दन्तोद्भेदं विशेषतः”।

कुमारघातिन् = त्रि० कुमारं हन्ति हन–णिनि। शिशुमारके।

कुमारजीव = पु० कुमारं जीवयति जीव–णिच् अण् उप० स०। (जियापोता) जीवपुत्रवृक्षे रत्नमा०।

कुमारदेष्ण = पु० कुमाराणां दाता दा–बा० इष्णच्। कुमार दातरि “कुमारदेष्णाः जयतः पुनर्हणः” “ऋ० १०, ३४, ७, कुमारदेष्णाः कुमाराणां दातारः, भा०

कुमारधारा = स्त्री भारतोक्ते तीर्थभेदे। “पितामहसरोगत्वा शैलराजसमीपतः। तत्राभिषेकं कुर्वाणोह्यग्निष्टोममवाप्तुयात्। पितामहस्य सरसः प्रस्रुता लोक पावनी। कुमारधारा तत्रैव त्रिषु लोकेषु विश्रुता। यत्र स्नात्वा कृतार्थोऽस्मीत्यात्मानमवगच्छति। षष्ठकालो- पवासेन मुच्यते भ्रूणहत्यया” भा० व० ८१ अध्याये स्थितम्

कुमारपालन = पु० कुमारेण पाल्यते कर्म्मणि पालि–ल्युट्। शालिवाहने १ नृपे हेमच०। कुमारं पालयति पालि + ल्यु उप० स०। २ बालकपालके त्रि०।

कुमारभृत्या = स्त्री भृ–क्यप् भृत्या भरणम् ६ त०। कुमाररक्षणोपायभूते सुश्रुतोक्ते कौमारभृत्याख्ये कौमारतन्त्रे। कुमारभृत्या अधिकृत्यम् प्रवृत्तं तन्त्रम् अण्। कौमारभृत्य कुमाररक्षणोपायज्ञापके तच्छास्त्रांशे। “शल्यं शालक्यं कायचिकित्सा भूतविद्या कौमारभृत्ये त्यादिना अष्टधाशास्त्रं विभज्य तल्लक्षणमुक्तं तत्रैव यथा “कौमारभृत्यं नाम कुमारभरणधात्रीक्षीरदोषसंशोधनार्थं दुष्टस्तन्यग्रहसमुत्थानाञ्च व्याधीनामुपशमनार्थम्।

विवृतमुत्तरत्र तत्रैव यथा “नवग्रहाकृतिज्ञानं स्कन्दस्य च निषेधनम्। अपस्मारशकुन्योञ्च रेवत्याश्च पुनःपृथक्। पूतनायास्तथान्धाया मण्डिका शीतपूतना। नैगमेयचिकित्सा च ग्रहोत्पत्तिः सयोनिजा। कौमारतन्त्रमित्येतच्छारीरेषु च कीर्त्तितम्”।

तत्प्रकारस्तत्रैव उत्तरतन्त्रे दर्शितो यथा “अथातो नवग्रहाकृतिविज्ञानीयमध्यायं व्याख्यास्यामः। वालग्रहाणां विज्ञान साधनञ्चाप्यनतरम्। ऊत्पत्तिं कारणञ्चैव सुश्रुतैकमनाः शृणु। १ स्कन्दग्रहस्तु प्रथमः २ स्कन्दापस्मार एवच। ३ शकुनी ४ रेवती चैव ५ पूतना चान्धपूतना ६। पूतना ७ शीतनामा च तथैव ८ मुखमण्डिका। नवसो ९ नैगमेयश्च यः पिष्टग्रहसंज्ञितः। धात्रीमात्रोःप्राक् प्रदिष्टापचाराच्छौचभ्रष्टान्मङ्गलाचारहीनान्। त्रस्तान् हृष्टांस्तर्ज्जितान् क्रन्दितान्वा पूजाहेतोर्हिंस्युरेते कुमारात्। ऐश्वर्य्यस्थास्ते न शक्या विशन्तो देहं दुष्टं मानुषैर्विश्वरूपाः। आप्तं वाक्यं तत्समीक्ष्याभिधास्ये लिङ्गान्येषां यानि देहे भवन्ति। शूनाक्षः क्षतजसगन्धिकः स्तनद्विड्वक्रास्यो हतचलितैकपक्ष्मनेत्रः। उद्विग्नः सुलुलितचक्षुरल्परोदी स्कन्दार्त्तो भवति च गाढमुष्टिवर्च्चाः १। निःसंज्ञो भवति पुनर्भवेद्विसंज्ञः संरब्धः करचरणैश्च नृत्यतीव। विण्मुत्रे सृजति विनद्य जृम्भमाणः फेनञ्च प्रसृजति तत्सखाभिपन्नः २। स्रस्ताङ्गो भयचकितो विहङ्गगन्धिः संस्राविव्रणपरिपीडितः समन्तात्। स्फोटैश्च प्रतततनुः सदाहपाकैर्विज्ञेयो भवति शिशुः क्षतः शकुन्या ३। रक्तास्यो हरितमलोऽतिपाण्डुदेहः श्यावो वा ज्वरमुख- पाकवेदनार्त्तः। रेवत्या ४ व्यंथततनुश्च कर्णनासं मृद्नाति घ्रुवमभिपीडितः कुमारः। स्रस्ताङ्गः स्वपिति सुखं दिवा न रात्रौ विडमिन्नं सृजति च काकतुल्यगन्धिः। छर्द्यार्त्तो हृषिततनूरुहः कुमारस्तृष्णालुर्भवति च पूतनागृहीतः ५। यो द्वेष्टि स्तनमतिसारकासहिक्काच्छर्दीभिर्ज्वरसहिताभिरर्द्यमानः। दुर्वर्णः सततमधःशयोऽम्लगन्धिस्तं ब्रूयुर्वरभिषजोऽन्धपूतनार्त्तम् ६। उद्विग्नो भृशम तवेपते प्ररुद्यात् संलीनः स्वपिति च यस्य चान्त्रकूजः। विस्राङ्गो भृशमतिसार्य्यते च यस्तं जानीयाद्भिषगिह शीतपूतनार्त्तम् ७। म्लानाङ्गः सुरुचिरपाणिपादवक्त्रो बह्नाशी कलुषासरावृतोदरो यः। सोद्वेगो भवति च मूत्रतुल्यगन्धिः स ज्ञेयः शिशुरथ वक्त्रमण्डिकार्त्तः ८। यः फेनं वमति विनम्यते च मध्ये सोद्वेगं बिलपति चोर्द्ध्वमीक्षमाणः। जीर्य्येत प्रततमथो वसासगन्धि र्न्निःसंज्ञो भवति हि नैगमेयजुष्टः ९। प्रस्तब्धो यः स्तनद्वेषी मुह्यते चाविशन्मुहुः। तं बालं न चिराद्धन्ति ग्रहः स म्पूर्णलक्षणः। विरीतमतःसाध्यं चिकत्सेदचिरार्दितम्। गृहे पुराणहविषाभ्यज्य बालं शुचौ शुचिः। सर्षपान् प्रकिरेत्तेषां तैलैर्दीप्रञ्च कारयेत्। सदा सन्निहितञ्चापि जुहुयाद्ध्वव्यवाहनम्। सर्वगन्धौषधीवीजैर्गन्धमाल्यैरलङ्कृतम्। अग्नये कृत्तिकाभ्यश्च स्वाहा स्वाहेति संस्मरन्। नमः स्कन्दाय देवाय ग्रहाधिपतये नमः। शिरसा त्वाभिवन्देऽहं प्रतिगृह्णीष्व मे बलिम्। नीरुजो निर्विकारश्च शिशुर्म्मे जायतां ध्रुवम्। अथातः स्कन्दग्रहप्रतिषेधं व्याख्यास्यामः। स्कन्दग्रहोपसृष्टानां कुमाराणाञ्च शस्यते। वातघ्नद्रुमपत्राणांनिःक्वाथः परिषेचने। तेषां मूलेषु सिद्धञ्च तैलमभ्यञ्जने हितम्। सर्वगन्धसुरामण्डकैटर्य्यावापमिष्यते। देवदारुणि रास्नायां मधुरेषु द्रुमेषु च। सिद्धं सर्पिश्च सक्षीरं पानमस्मै प्रयोजयेत्। सर्षपा सर्पनिर्म्मोको वचा काकादनी घृतम्। उष्ट्राजाविगवाञ्चैव रोमाण्युद्धूपनं शिशोः। सोमवल्लीमिन्द्रवल्लीं शमीं विल्वस्य कण्टकान्। मृगादन्याश्च मूलानि ग्रथितान्येव धारयेत्। रक्तानि माल्यानि तथा पताका रक्ताश्च गन्धा बिविधाश्च भक्ष्याः। घण्टा च देवाय बलिर्न्निवेद्यः सकुक्कुटः स्कन्दगृहे हिताय। स्नानं त्रिरात्रं निशि चत्वरेषु कुर्य्यात्पुनः शालियवैर्न्नवैस्तु। अद्भिश्च गायत्र्यभिमन्त्रिताभिः प्रज्वालनं चाहुतिभिश्च वह्नेः। रक्षामतः प्रवक्ष्यामि बालानां फाप- नाशिनीम्। अहन्यहनि कर्त्तव्या या भिषग्मिरतन्द्रितैः। तपसां तेजसां चैव यशसां वपुषां तथा। निधानं योऽव्ययो देवः स ते स्कन्दः प्रसीदतु। ग्रह सेनापतिर्देवो देवसेनापतिर्बिभुः। देवसेनापरिपुहरः पातु त्वां भगवान् गुहः। देव देवस्य महतः पावकस्य च यः सुतः। गङ्गोमाकृत्तिकानाञ्च स ते शर्म्म प्रयच्छतु। रक्तमाल्याम्बरः श्रीमान् रक्तचन्दनभूषितः। रक्तदिब्यवपुर्द्देवः पातु त्वां क्रौञ्चसूदनः” १। “अथातः स्कन्दापस्मारप्रतिषेधं व्याख्यास्यामः। विल्वः शिरीषो गोलोमी सुरसादिश्च यो गणः। परिषेके प्रयोक्तव्यः स्कन्दापस्मारशान्तये। सर्वगन्धविपक्वन्तु तैलमभ्यञ्जने हितम्। क्षीरवृक्षकषाये च काकोल्यादौ गणे तथा। विपक्तव्यं घृते वापि पानीयं पयसान्वितम्। उत्सादनं वचाहिङ्गुयुक्तं स्कन्दग्रहे हितम्। गृध्रोलूकपुरीषाणि केशाहस्तिनखा घृतम्। वृषभस्य च रोमाणि योज्यान्युद्धूपनेऽपि च। अनन्तां कुक्कुटीं विम्बीं मर्क्कटीञ्चापि धारयेत्। पक्कापक्कानि मांसानि प्रसन्नं रुधिरं पयः। घृतोदनो निवेद्यश्च स्कन्दापस्मारिणोऽवटे। चतुःपथे च कर्त्तव्यं स्नानमस्य यतात्मना। स्कन्दापस्मारसंज्ञोयः स्कन्दस्य दयितः सखा। विशाखसंज्ञश्च शिशोः शिवोऽस्तु विकृताननः” २। “अथातः शकुनीप्रतिषेधं व्याख्यास्यामः। शकुन्यभिपरीतस्य कार्य्यो वैद्येन जानता। वेतसाम्रकपित्थानां निःक्वाथः परिषेचने। कषायमधुरैस्तैलं कार्य्यमग्थञ्जने शिशोः। मधुकोशीरह्रीवेरशारिवोत्पलपद्मकैः। रोध्रप्रियङ्गुमञ्जिष्ठागैरिकैः प्रदिहेच्छिशुम्। व्रणेषूक्तानि चूर्णानि पथ्यानि विविधानि च। स्कन्दग्रहे धूपनानि तानीहापि प्रयोजयेत्। शतावरीमृगैर्वारुनागदत्तीनिदिग्धिकाः। लक्ष्मणां सहदेवीञ्च वृहतीञ्चापि धारयेत्। तिलतण्डुलकं माल्यं हरितालं मनःशिला। बलिरेष करञ्जेषु निवेद्यो नियतात्मना। निकुञ्चे च प्रयोक्तव्यं स्नानमस्य यथाविधि। स्कन्दग्रहोपशमनं घृतं तच्चेह पूजितम्। कुर्य्याच्च विविधां पूजां शकुन्याः कुसुमैः शुभैः। अन्तरिक्षचरा देवी सर्वालङ्कारभूषिता। अवोमुखी तीक्ष्णतुण्डा शकुनीते प्रसीदतु। दुर्द्दर्शना महाकाया पिङ्गाक्षी भैरवस्वना। लम्बोदरी शङ्कुकर्णी शकुनी ते प्रसीदतु” ३। “अथातो रेवतीप्रतिषेधं व्याख्यास्वामः। अश्वगन्न्धाजशृङ्गी च शारिवा सपुनर्न्नवा। सुहे विदारी च तथा कषायाः सेचने हिताः। तैलमभ्यञ्जने कार्य्यं कुष्ठे सर्ज्जरसेऽपि वा। धवाश्वकर्णककुभधातकीतिन्द कीषु च। काकोल्यादिगणे चैवं पानीयं सर्प्पिरिष्यते। कुलत्थाः शङ्खचूर्णञ्च प्रदेहाः सर्वगन्धिकाः। गृध्रोलूकपूरीषाणि यवा यवफखी घृतम्। सन्ध्ययोरुभयोः कार्य्यमेतदुद्ध्वूपर्ने शिशोः। वरुणारिष्टकमयं रूचकं सेन्दुकं तथा! सततं धारयेच्चापि कृतं वा पौत्रजीविकम्। शुक्लाः सुमनसो लाजाः पयः शाल्योदनं तथा। बलिर्न्निवेद्यो गोतीर्थे रेवत्यै प्रयतात्मना। सङ्गमे च भिषक्स्नानं कुर्य्याद्वात्रीकुमारयोः। नानावस्त्रधरा देवी चित्रमाल्यानुलेपना। चलत्कुण्डलिनी श्यामा रेवती ते प्रसीदतु। लम्बा कराला विनता तथैव बहुपुत्रिका। रेवती सततं माता सा ते देवी प्रसीदतु” ४। “अथातः पूतनाप्रतिषेधं व्याख्यास्यामः। कपोतवङ्काऽरलुको वरुणः पारिभद्रकः। आस्फोता चैव येज्याः स्युर्व्वालानां परिषेचने। वचा व्यस्था गोलोमी हरितालं मनः शिला। कुष्ठं सर्ज्जरसश्चवि तैलार्थे वर्ग इष्यते। हितं घृतं तुगाक्षीर्य्यां सिद्धं मधुरकेषु च। कुष्ठतालीशखदिरं चन्दनस्यन्दने तथा। देवदारुवचाहिङ्गुकुष्ठं गिरिकदम्बकः। एलाहरेणवश्चापि योज्या उद्धूपने सदा। गन्धनाकुलिकुम्भीकामज्जानो वदरस्य। कर्कटास्थि घृतञ्चैव धूपनं सर्षपैः सह। काकादनीं चित्रफलां विम्बीं गुञ्जाञ्च धारयेत्। मत्स्यौदनञ्च कुर्व्वीत कृशरं पललं तथा। शरावसम्पुटे कृत्वा बलिं शून्यगृहे हरेत्। उच्छिष्टेनाभिषेकेण शिरसि स्नानमिष्वते। पूज्या च पूतना देवी बलिभिः सोपहारकैः। मलिनाम्बरसंवीता मलिना रूक्षमूर्द्धजा। शून्यागाराश्रिता देवी दारकं पांतु पूतना। दुर्द्दर्शना सुदुर्गन्धा कराला मेघका लिका। भिन्नागाराश्रया देवी दारकं पातु पूतना” ५।

“अथातोऽन्धपूतनाप्रतिसेधं व्यास्थास्यामः। तिक्तकद्रु मपत्राणां कार्य्यंः क्वाथोऽवसेचने। सुरासौवीरकं कुष्ठं हरितालं मनःशिला। तथा सर्ज्जरसश्चैव तैलार्थमुपदिश्यते। पिप्पलः पिप्पलीमूलं वर्गो मधुरको मधु। शालपर्णी वृहत्यौ च घृतार्थमुपदिश्यते। सर्व्वगन्धैः प्रदेहश्च गात्रेष्वक्ष्णोश्च शीतलैः। पूरीषं कौक्कुटं केशांश्चर्म्म सर्पत्वचन्तथा। जीर्णाञ्च भिक्षुसङ्घाटीं धूपनायोपकल्पयेत्। कुक्कुटीं मर्कटीं शिम्बीमनन्ताञ्चापि धारयेत्। मांसमामं तथा पक्वं शोणितञ्च चतुःपथे। निवेद्यमन्तश्च मृहे शिशोरक्षानिमित्ततः। शिशोश्च स्नपनं कुर्य्यात् सर्व्व गन्धादिकैः शुभैः। कराला पिङ्गला मुण्डा कषायाम्बरबासिनी। देवी बालमिमं प्रीता संरक्षत्वन्धपतना” ६। “अथातः शीतपूतनाप्रतिषेमं व्याख्यास्यामः। कपित्थं सुवहां विम्बीन्तथा विल्वं प्रचीबलम्। नन्दीं भल्लातकीञ्चापि परिषेके प्रयोजयेत्। वस्तमूत्रं गवां मूत्रं सुस्तञ्च सुरदारु च। कुष्ठञ्च सर्व्वगन्धञ्च तैलार्थमवचारयेत्। रोहिणीसर्ज्जखदिरपलाशककुभत्वचः। निःक्वाथ्य तस्मिन्निःक्वाथे सक्षीरं विपचेत्ततः। गृध्रोलूकपूरीषाणि वस्तगन्धामहेस्त्वचः। निम्बपत्राणि मधुकं धूपनार्थे प्रयोजयेत्। धारयेदपि लम्बाञ्च गुञ्जां काकादनीं तथा। नद्यां मुद्गकृतैश्चान्नैस्तर्पयेच्छीतपूतनाम्। देव्यै देयश्चोपहारो वारुणीरुधिरं तथा। जलाशयान्ते बालस्य स्नपनं चोपदिश्यते। मुद्गौदनाशना देवी सुराशोणितपायिनी। जलाशयालया देवी पातु त्वां शीतपूतना” ७।

“अथातोमुखमण्डिकाप्रतिषेधं व्याख्यास्यामंः। कपित्थविल्वतर्क्कारीमांसीगन्धर्वहस्तकाः। कुवेराक्षी च योज्याः स्युर्बालानां परिषेचने। सरसैर्भृङ्गवृक्षाणां तथाजहरिगन्धयोः। तैलं वसाञ्च संयोज्य पचेदभ्यञ्जने शिशोः। मधूलिकायां पयसि तुगाक्षीर्य्याङ्गणे तथा। मधुरे पञ्चमूले च कनीयसि वृतं पचेत्। वचासर्ज्जरसः कुष्ठं सर्पिश्चोद्धूपने हितम्। धारयेदपि जिह्वाश्च चाषचीरल्लिसर्प्पजाः। वर्णकं चूर्ण्णकं माल्यमञ्जनं पारदं तथा। मनःशिलाञ्चोपहरेद्गोष्ठमध्ये बलिं तथा। पायसं सपुरोडाशं बल्यर्थ मुपहारयेत्। मन्त्रपूताभिरद्भिश्च तत्रैव स्नपनं हितम्। अलङ्कृता रूपवती सुभगा कामरूपिणी। गोष्टमध्यालयरता पातु त्वां मुखमण्डिका” ८। “अथातो नैगमेयप्रतिषेधं व्याख्यास्यामः। विल्वाग्निन्थिपूतीकाः कार्य्याः स्युः परिषेचने। सुरासौवीरधात्याम्लैः परिषेकश्च शस्यते। प्रियङ्गुसरलानन्ताशतपुष्फाकुटन्नटैः। पचेत्तैलं सगोमूत्रैर्दधिमन्त्वम्लकाञ्जिकैः। पञ्चमूलद्वयक्वाथे क्षीरे मधुरकेषु च। पचेद्घृतञ्च मेधावी खर्ज्जूरीमस्तकेऽपि च। वचां वयस्थां गोलोभों जटिलां चापि धारयेत्। उत्सादनं हितं चात्र स्कन्दापस्मारनाशनम्। सिद्धार्थ कवचाहिङ्गुकुष्ठञ्चेंवाक्षतैः सह। भल्लातकाजमोदाश्च हितमुद्धूपनं शिशोः। मर्क्कटोलूकगृध्राणां पूरीषाणि नवग्रहे। धूपः सुप्ते जने कार्य्योबालस्यहितमिच्छता। तिलतण्डुलकं माल्यं भक्ष्यांश्च विविधानपि। कुमारपितृमेधाय वृक्षमूले निवेदयेत्। अधस्ताद्वटवृक्षस्य स्नपनं चोपदिश्यते। बलिं न्यग्रोधवृक्षेषु तिथौ षष्ठ्यां निवेदयेत्। अजाननश्चलाक्षिभ्रूः कामरूपी महायशाः। बालं पालयिता देवो नैगमेयोऽभिरक्षतु” ९। “अथातोग्रहोत्पत्तिमध्यायं व्याख्यास्यामः। नव स्कन्दादयः प्रोक्ता बालानां य इमे ग्रहाः। श्रीमन्तो दिव्यवपुषो नारीपुरुषविग्रहाः। एते गुहस्व रक्षार्थं कृत्तिकोमाग्निशूलिभिः। सृष्टाः शरवणस्थस्य रक्षितस्यात्मतेजसा। स्त्रीविग्रहा ग्रहा वे तु नानारूपा मयेरिताः। गङ्गोमाकृत्तिकानाञ्च ते भागा राजसा मताः। नैगमेयस्तु पार्व्वत्या सृष्टो मेषाननो ग्रहः। कुमारधारो देवस्य गुहस्यात्मसमः सखा। स्कन्दापस्मारसंज्ञो यः सोऽग्निनाग्निसमद्युतिः। स च स्कन्दसखो नाम विशाख इति चोच्यते। स्कन्दःसृष्टो भगवता देवेन त्रिपुरारिणा। बिभर्त्ति चापरां संज्ञां कुमार इति स ग्रहः। बाललीलाधरो योऽयं देवो रुद्राग्निसम्भवः। मिथ्याचारेषु भगवान् स्वयं नैष प्रवर्त्तते। कुमारः स्कन्दसामान्यादत्र केचिदपण्डिताः। गृह्लन्तीत्यल्पविज्ञाना ब्रुवते देहचिन्तकाः। ततो भगवति स्कन्दे सुरसेनापतौ कृते। उपतस्थुर्ग्रहाः सर्व्वे दीप्तशक्तिधरं गुहम्। उचुः प्राञ्जलयश्चैनं वृत्तिं नः संविधत्स्व वै। तेषामर्थे ततः स्कन्दः शिवं देवमचोदयत्। ततो ग्रहांस्तानुवाच भगवान् भगनेत्रहृत्। तिर्य्यग्योर्नि मानुषञ्च दैवञ्च त्रितयं जगत्। परस्परोपकारेण वर्त्तते धार्य्यतेऽपि च। देवा मनुष्यान् प्रीणन्ति तैर्य्यग्योनींस्तथैव च। वर्त्तमानैर्य्यथाकालं शीतवर्षोष्णमारुतैः। इज्याञ्जलिनमस्कारजपहोमव्रतादिभिः। नराः सम्यक् प्रयुक्तैश्च प्रीणन्ति त्रिदिवेश्वरान्। भागधेयं विभक्तञ्च शेषं किञ्चिन्न विद्यते। तद्युष्माकं शुभा वृत्तिर्ब्बालेष्वेब भविष्यति। कुलेषु येषु नेज्यन्ते देवाः पितर एव च। व्राह्मणाः साधवश्चैव गुरवोऽतिथयस्तथा। निवृत्ताचारशौचेषु परपाकोपभोजिषु। उच्छन्नबलिभिक्षेषु भिन्नकांस्योपमोजिषु। गृहेषु तेषु ये बालास्तान् गृह्णीध्वमशङ्गिताः। तत्र वो विपुला वृत्तिः पूजा चैव भविष्यति। एवं ग्रहाः समुत्पन्ना बालान् गृह्णन्ति चाप्यतः। ग्रहोपसृष्टा बालास्तु दुश्चिकत्स्यतमा मताः। वैकल्यं मरणं चाशु ध्रुवं स्कन्दग्रहे मतम्। स्कन्द- ग्रहोत्य ग्रतमः सर्वेष्वेव यतःस्मृतः। अन्योवा सर्वरूपस्तु न साध्यो ग्रह उच्यते”। “कुमारभृत्याकुशलैरनुष्ठिते भिषग्वराप्तैरथ गर्भभर्मणि” रघुः।

कुमारयु = पु० कुमारं कौमारं याति या–कु मित्रय्वादि० नि०। युवराजे उज्ज्वलदत्तः

कुमारललिता = स्त्री “कुमारललिता ज्स्गाः” वृत्त० र० उक्ते १ सप्ताक्षारपादके छन्दोभेदे। कुमारं सुन्दरं ललितं चेष्टितं, तादृशं ललितं, वा यस्य। २ सुकुमारचेष्टायां न०। ३ तद्युक्ते त्रि०।

कुमारवाहिन् = पु० कुमारं स्कन्दं वहति वह–णिनि। मयूरे शब्दरत्ना०। कुमारवाहनत्वात्तस्य तथात्वम्। बह–स्वार्थे णिच् ल्युट् ६ त०। कुमारवाहनमप्यत्र न०।

कुमारसम्भव = न० कुमारस्य कार्त्तिकेयस्य सम्भवमधिकृत्य कृतोग्रन्थः अण् आख्यायिकायां तस्य लुक्। कालिदास प्रणीते महाकाव्यभेदे।

कुमारसू = स्त्री कुमारं स्कन्दं सूते सू–क्विप् ६ त०। १ गङ्गायाम् २ हैमवत्याञ्च हेमच०। तयोस्तदुत्पत्तिस्थानत्वात् तथात्वम् कुमारजनन्यादयोऽप्यत्र

कुमारहारित = पु० यजुर्वेदसम्प्रायप्रवर्त्तके ऋषिभेदे “कुमारहारितात् कुमारहारितः” शत० ब्रा० १४, ५, ५, २२,

कुमारिका = स्त्री कुमारी–स्वार्थे क संज्ञायां कन्, कुमारण्वुल् वा। १ अनूढकन्यायाम् २ नवमल्लिकायां ३ स्थूलैलायां रत्नमा०। ४ घृतकुमार्य्यां ५ कुमारीशब्दार्थे। भारतवर्षस्य नवसु खण्डेषु ६ खण्डभेदे यथाह सि० शि०। “ऐन्द्रं कशेरुशकलं किल ताम्रपर्ण्णमन्यद्गभस्तिमदनश्च कुमारिकाख्यम्। नागञ्च सौम्यमिह वारुणमन्त्यखण्डं गान्धर्व्वसंज्ञमिति भारतवर्षमध्ये। वर्ण्णव्यवस्थितिरिहैव कुमारिकाख्ये शेषेषु चान्त्यजजनाः निवसन्ति सर्वे” कशेरुशब्दे १८३५ पृ० विवृतिः

कुमारिन् = त्रि० कुमारोविद्यतेऽस्य इनि। कुमारयुक्ते “पुत्रिणा ता कुमारिणाः ऋ० ८, ३१, ८ कुमारिणौ दम्पती इत्यर्थः सुपां सुबित्यादिना पा० औस्थाने आच्।

कुमारिल = पु० मीमांसकभेदे “साधु कुमारिल स्वामिन्! साधु” प्रबोधच०

कुमारी = स्त्री कुमार + प्रयमवयोवचनत्वात् स्त्रियां ङीष्। १ अनूढकन्यायां वर्षभेदेन तन्नामभेदाः कालसङ्खर्षाशब्दे उक्ताः तन्त्रसारे तत्पूजाफलसहितानाममेदा अन्यथा उक्ता यया “होमादिकन्तु सकलं कुमारीपूजनं विना। परिपूर्णफलं न स्यात् पूजया तत्द्भवेद्धुवम्। कुमारीपुजया देवि! फल कोटिगुणं भवेत्। पुष्पं कुमार्य्यै यद्दत्तं तन्मेरुसदृशं भवेत्। कुमारी भोजिता येन त्रैलोक्यं तेन भोजितम्”। तत्र कुमारीनिर्णयः जामले “एकवर्षा भवेत् सन्ध्या द्विवर्षा च सरखती। त्रिवर्षा त्रिविधा मूर्त्तिश्चतुर्वर्षा च कालिका। सुभगा पञ्चवर्षा तु। षड्वर्षा च उमाभवेत्। सप्तभिर्म्मालिनी साक्षादष्टवर्षा च कुब्जिका। नवभिः कालसङ्कर्षा दशभिश्चापराजिता। एकादशे च रुद्राणी द्वादशाब्दे तु भैरवी। त्रयोदशे महालक्ष्मी द्विसप्ता पीठनायिकाः। क्षेत्रज्ञा पञ्चदशभिः षोडशे चाम्बिका स्मृता। एबं क्रमेण संपूज्या यावत्पुष्पं न दृश्यते। प्रतिपदादिपूर्णिमान्तं वृद्धिभेदेन पूजयेत्। महापर्व्वसु सर्वेषु विशेषाच्च पवित्रके। महानवम्यां देकेशि! कुमारीञ्च प्रपूजयेत्। “कुमारिका ह्यहं नाथ! सदा त्वंहि कुमारिका। अष्टोत्तरशतं वापि एकां वापि प्रपूजयेत्। पूजिताः प्रतिपूज्यन्ते निर्दहन्त्यवमानिताः। कुमारी योगिनी साक्षात् कुमारी परदेवता। असुरा दुष्टनागाश्च ये च दुष्टग्रहा अपि। भूतवेतालगन्धर्व डाकिनीयक्षराक्षसाः। याश्चान्याः देवताः सर्वा भूर्भुवःखःस्थभैरवाः। पृथिव्यादीनि सर्वाणि व्रह्माण्डं सचराचणम्। ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः। ते तुष्टा सर्वदेवाश्च यस्तु कन्यां प्रपूजयेत्। विधियुक्तं कुमारीश्च भोजयेच्चैव भैरवीम्। पाद्यमर्घ्यन्तथा धूपं कुङ्गुमञ्चन्दनं शुभम्। भक्तिभावेन संपूज्य कुमारीभ्योनिवेदयेत्। प्रदक्षिणत्रयं कुर्य्यादादौ मध्ये तथान्ततः। पश्चाच्च दक्षिणा देया रजतंखर्णमौक्तिकैः। दक्षिणाश्च कुमारीभ्योदद्यात् प्रक्रमतस्ततः। विवाहयेद्यस्तु कन्यां ब्रह्महत्यां विनश्यति। गोहत्या च स्त्रीहत्या च सर्कपापं प्रणश्यति। यो यच्च पुण्यकाले च कन्यादानं प्रकल्पयेत्। वालुकासागरं ज्ञेयं तावद्वद सहस्रकम्। एकैकं कुलमुद्दिश्य रुद्रलोके महीयते” कन्यादानन्तु तत्तदेवताप्रीतये इति सम्प्रदायः। वस्तुतस्तु तत्तद्वर्षायाः कन्यायास्तत्तद्देवताबुद्ध्या शिवरूपत्वं सम्पदानीये विभाव्य दद्यादिति रहस्मार्थः” कृष्णानन्दः। “सं प्राप्ते द्वादशे वर्षे कुमारीत्यभिधोबते इति स्मृत्युक्तायां २ द्वादशवर्षी यकत्यायाम् ३ पार्वत्याम् ४ नवमल्लिकायां ५ नदीभेदे ६ घृतकुमार्य्याम् तत्पर्य्यायगुणादि भावप्रकाशे उक्तं यथा “कुमारी गृहकन्या च कन्या वृतकुमारिका कुमारी भेदिनी शीता तिक्ता नेत्र्या रसायनी। मधुरा वृंहणी बल्या वृष्या वातविषप्रणुत्। गुल्मप्लीहयकृद्वृद्धिकफज्वरहरी, हरेत्। ग्रन्थ्यग्निदग्धविस्फोटपलितत्वत्वगामयान्”। ७ अपराजितायां ८ जम्बुद्वीपांशभेदे कुमारिकाखण्डे ९ सहायां मेदि०। १० सीतायां हेमच० ११ बन्ध्याकर्कट्याम् १२ स्थूलैलायां १३ मोदिनीपुष्पे। १४ तरुणीपुष्पे १५ श्यामापक्षिणि राजनि०।

कुमारीक्रीडनक = न० कुमारीभिः क्रीड्यतेऽनेन क्रीड–करणे ल्युट् ततः यावादि० स्वार्थे क। कुमारीक्रीडासाधने द्रव्ये

कुमारीपुत्र = पु०। १ कानीने कन्याकालोत्पन्ने पुत्रे स च मातामहपुत्रः कानीनशब्दे विवृतिः। ततः प्रकारवचने स्थूलादि० कन्। कुमारीपुत्रक तत्सदृशे त्रि०

कुमारीश्वशुर = पु० ६ त०। विवाहात् पूर्ब्बं धर्षितकन्यायाः भर्त्तुः पितरि। ततः प्रकारे स्थूला० कन्। तत्सदृशे त्रि०

कुमाल = केलौ अद० चुरा० उभ० अक० सेट्। कुमालयति ते अचुकुमालत् त। कुमालयां बभूव आस चकार चक्रे

कुमालक = पु० कुमाल–ण्वुल्। सौवीरदेशे हेमच०।

कुमुद् = न० कौ मोदते मुद–क्विप् ७ त०। १ कैरवे मेदि० २ रक्तोत्पले त्रिका०। कुत्सिता मुदस्य। ३ कृपणे त्रि० मेदि०। ४ अप्रीते च त्रि० शब्दर०। कुगतिस०। ५ कुत्सितमोदे स्त्री

कुमुद = न० कौ मोदते कुद–क ७ त०। (सु~दि) कैरवे अमरः। “कुमुदान्येव शशाङ्कः सविता बोधयति पङ्कजान्येव” पञ्चत०। “कुमुदं पिच्छिलं स्निग्धं मधुरं ह्रादि शीतलम्” भाव० प्र० तद्गुणा उक्ताः। २ रक्तपद्मे मेदि० ३ रूप्ये हेमच०। ४ कर्पूरे पु० राजनि० अयमर्द्धचादि ५ शाल्मलिद्वीपस्थे वर्षपर्वतभेदे। कुन्दशब्दे उदा०। ६ दक्षिणदिग्गजे अमरः तस्य श्वेतोत्पलनिभत्वात्तथात्वम्। कु भूमि मोदयति मुद–अन्तर्भूतण्यर्थेक। ७ विष्णौ “कुमुदः कुन्दरः कुन्दः पर्जन्यः पावकोऽनिलः” विष्णुस०। ८ पद्मे न० त्रिका०। “यस्य बाला बहुव्यासा दीर्घलाङ्गूलमाश्रिताः। ताम्राः पीता शीताश्चैव प्रकीर्ण्णा घोरकर्म्मणः” रामा० उक्त लक्षणे ९ वानरभेदे। “मुषेणमैन्दद्विविदैः कुमुदेनाङ्गदेन च” भा० व० २८८ अ०। १० विष्णुपारिषदभेदे। “प्रहस्यानुचरा विष्णोः प्रत्यपेधन्नुदायुधाः” इत्युपक्रमे कुमुदः कुमुदाक्षश्च विष्यक्सेनः पतत्त्रिराट्” भाग० ८, २१, १०। ११ मेरोरुपष्टम्भगिरिभेदे पु०। “मन्दरोमेरुमन्दरः सुपार्श्वः कुमुद इत्ययुतयोजनविस्तारोन्नतामेरोश्चतुर्द्दिशमवष्टम्भगिरय उपक्लप्ताः” भा० ५, १६, १ “एवं कुमुदनिरूढोयः शतवल्लोनाम वटस्तस्य स्कन्धेभ्योनीचानाः पयोदधिमधुगुडान्नाद्यम्बरमद्यासनाभरणादयः सर्व्वएव कामदुवा नदाः कुमुदाग्रात् पतन्तस्तदुत्तरेणावृतमुपयोजयन्ति” तत्रैव १२ सर्पभेदे कुमुद्घतीशब्दे रघुवाक्यम्। “कुमुदः कुमुदाक्षश्च तित्तिरः इलिकस्तथा० भा० आ ३५ अ० १३ दैत्यभेदे च। ततः कुमुदा० चतुरर्थ्यां ष्ठक्। कौमुदिक तत्सन्निकृष्टादौ त्रि०। तत्रार्थे ष्ठच्। कुमुदिक तत्रार्थे त्रि०

कुमुदखण्ड = न० कुमुदानां समूहः कमला० खण्डच्। १ कैरवसमूहे। ६ त०। २ कुमुदस्य भागे

कुमुदगन्ध्या = स्त्री कुमुदस्येव गन्धमर्हति ष्यङ्। कुमुदगन्धयुक्तायां स्त्रियां ततः करीषगन्ध्याशब्ददर्शितं कार्य्यम्।

कुमुदघ्नी = स्त्री सुश्रुतोक्ते क्षीरविषवृक्षभेदे। यथा “कुमुदघ्नी स्रुही जालक्षीर्य्याणि त्रीणि क्षीरविषाणि”।

कुमुदनाथ = पु० ६ त०। चन्द्रे तस्य प्रकाशेन कुमुदस्य प्रकाशात्तस्य तथात्वम्। कुमुदपत्यादयोऽप्यत्र

कुमुदबन्धु = पु० ६ त०। चन्द्रे तत्प्रपाशकत्वात्तस्य तथात्वम् कुमुदसुहृत्कुमुदबान्धवादयोऽप्यत्र।

कुमुदवती = स्त्री कुमुदानि सन्त्यस्यां मतुप् मस्य वः। कुमुदिन्याम् भरतः।

कुमुदा = स्त्री कुत्सितं मीदते मुद–क टाप्। १ कुम्भिकायां (पाना) २ गाम्भारीवृक्षे मेदि०। ३ शालपर्ण्णीवृक्षे ४ कट्फले राजनि०। संज्ञायां कन्। कट्कले अमरः। गौरा० ङीष्। कुमुदी कट्फले स्त्री शब्दरत्ना०।

कुमुदाकर = पु० ६ त०। कुमुदस्थाने ह्रदादौ “कुमुद्वतीनां कुमुदाकरैरिव” मावः

कुमुदाक्ष = पु १ नागभेदे २ विष्णुपारिषदभेदे च कुमुदशब्दे उदा०

कुमुदादि = पु० पाणिन्युक्ते चतुरर्थ्यां ष्ठच्प्रत्ययनिमित्ते शब्दगणभेदे स च गणः “कुमुद शर्करा न्यग्रोध इक्कट सङ्कट कङ्कट गर्त्त वीज परिवाप निर्यास शकट कच मधु शिरीष अश्व अश्वत्थ वल्वज यवास कूप विकङ्कट दशग्राम”। कुमुदिक कुमुदसन्निकृष्टदेशादौ त्रि० स्त्रिर्या षित्त्वात् ङीष्। तत्रैवोक्ते तदर्थे ष्ठक्प्रत्ययनिमित्ते २ शब्दगणभेदे स च गणः। “कुमुद गोमय रथकार दशग्राम अश्वत्थ शाल्मलि शिरीष मुनिस्थल कुण्डल कुट मधुकर्ण्ण घास कुन्द शुचिकर्ण्ण”। कौमुदिक तत्सन्नि कृष्टदेशादौ त्रि० स्त्रियां षित्त्वात् ङीष्।

कुमुदाभिख्य = न० कुमुदस्येवाभिख्या शोभा यस्य श्वेतत्वात्। रौप्ये रजते धातौ शब्दचि०

कुमुदावास = पु० कुमुदानामावासः। १ कुमुदप्राये देशे हेमच० २ कुमुदाधारस्थाने च

कुमुदिका = स्त्री कौ मोदते मुद–हर्षे क ७ त०। कट्फले अमरः

कुमुदिनी = स्त्री कुमुदानि सन्त्यत्र देशे पुष्क० इनि। १ कुमुदयुक्तदेशे पुष्करिण्यादौ २ कुमुदलतायां भरतः। “कुमुदिनीकुलकेलिकलालसः” भ्रमराष्टकम्। “पद्मिन्यां ये गुणाः प्रोक्ताः कुमुदिन्याञ्च ते स्मृताः। सा तु मूलादि सर्व्वाङ्गैः रक्ता समुटिता बुधैः” भावप्र० तद्गुणा उक्ताः कुमुदानां समूहः खलादेराकृतिगणत्वात् इनि। ३ कुमु दसभूहे च। “वीक्षन्तेऽन्यमितः स्फुटत्कुमुदिनीफुल्लो ल्लसल्लोचनाः” पञ्चत०

कुमुदिनीनायक = पु० ६ त०। चन्द्रे तदुदये कुमुदसंघप्र काशात्तस्य तथात्वं कुमुदिनीपत्यादयोऽप्यत्र पु०

कुमुदेश = पु० ६ त०। चन्द्रे कुमुदेश्वरादयोऽप्यत्र पु०

कुमुद्वत् = त्रि० कुमुद + चतुरर्थ्यां ड्मतुप् झय इति मस्य वः। १ कुमुदयुक्तदेशादौ “हंसश्रेणीषु तारासु कुमुद्वत्सु च वारिषु” रघुः स्त्रियां ङीप्। साच २ कुमुदलतायाम्। “ग्लपयति यथा शशाङ्कं कुमुद्वतीं न तथाहि दिवसः” शकु० “कुमुद्वती भानुमतीव भावम्” रघुः “वाप्ये वैदूर्य्यसोपानपद्मोत्पलकुमुद्वतीः” भा० ४। ९। ६४ कुमुदस्यास्ति मतुप्। २ कुप्रीतियुक्ते त्रि० स्त्रियां ङीप् “प्रभातवाताहतिकम्पिताकृतिः कुमुद्वतीरेणुपिशङ्ग विग्रहम्। निरास भृङ्गं कुपितेव पद्मिनी न मानिनीशं सहतेऽन्यसङ्गमम्” भट्टिः मानिनीपक्षे कुमुद्युक्त स्त्रीपरत्वम्। ३ कुमुदनागस्य भगिन्यां “इमा स्वसारञ्च यवीयसीं मे कुमुद्वतीं नार्हसि नानुमन्तुम्। इत्युप क्रमे “संयोजयां विधिवदास समेतबन्धःकन्यामयेन कुमुदः कुलभूषणेन”। “अतिथिं नाम काकुतस्थात् पुत्रमा प कुमुद्वती” रघुः

कुमुद्वतीश = पु० ६ त०। चन्द्रे कुमुद्वतीनाथतदीशादयोऽप्यत्र पु०

कुमुद्वतीवीज = न० ६ त०। (वेरा) इतिख्याते कुमुदिनीवीजे “भवेत् कुमुद्वतीवीजं स्वादु रूक्षहिमं गुरु” भावप्र०

कुमोदक = पु० मोदयति मुद–णिच्–ण्वुल् ६ त०। १ विष्णौ हेमच० सहि त्राणेन भारावतारणेन च पृथिव्या मोदक इति तस्य तथात्वम्। तस्येदमण् ङीप्। कौमोदकी तद्गदायाम् स्त्री

कुम्ब = त्रि० कुवि–अच्। बाहुकुण्ठे (कोपा) जटा० “कुरीर मस्य शीर्षणि कुम्बं चाधिनिदध्मसि” अथ० ६, १३८, ३

कुम्बा = स्त्री कुबि–भावे अङ्। १ सुगहनायामावृतौ दृढ वेष्टने अमेध्यादिदृष्टिवारणाय वैदिके २ वेष्टनभेदे च “तस्मिन्नुदीचीनकुम्बां शम्यां निदधाति” त्रैत्ति०। कुम्बयति आच्छायति अच्। ३ स्थूलशाटके स्त्री त्रिका०

कुम्ब्या = स्त्री कुबि–यत्। एकार्थप्रतिपादके विध्यर्थवादात्मके वेदैकदेशब्राह्मणवाक्य भेदे माधवः। “तस्मादृत्तं वा यजुर्वा साम वा गाथां वा कुम्ब्यां वाऽभिव्याहारेद् व्रतस्वाध्यायाव्यवच्छेदाय” शत० ब्रा० ११। ५। ७। १०।

***