प्रत्याकार = प्रतिकृत आकारः खड्गाकारो येन प्रा० व०। खड्गकोषे त्रिका०।
प्रत्याख्यात = त्रि० प्रति + आ + ख्या–कर्मणि क्त। १ निराकृते २ दूरीकृते अमरः।
प्रत्याख्यान = न० प्रति + आ + ख्या–मावे ल्युट्। निराकरणे अमरः।
प्रत्यागति = स्त्री प्रति + आ + गम–भावे क्तिन्। प्रत्यागमने(फिरे आशा)हरिवं० ३२५ अ०।
प्रत्यागम = पु० प्रति + आ + गम–भावे अप्। (फिरे आशा) यस्मात् गतस्तस्मिन् पुनरागमने “तीर्थात् प्रत्यागमेऽपि च प्रा० त०। भावे ल्युट्। प्रथागमन तत्रार्थे न०।
प्रत्यादिष्ट = त्रि० प्रति + आ + दिश–कर्मणि क्त। निरस्ते अमरः
प्रत्यादेश = पु० प्रति + आ + दिश–भावे घञ्। १ निराकरणे अमरः भक्तान् प्रति आदेशः। २ भक्तान् प्रति अभीष्टसिद्ध्यर्थं देवानादेशे च।
प्रत्याधान = न० प्रतिपत्त्या धीयते प्रति + आ + धा–कर्मणि ल्युट्। १ मस्तके “यो ह वै शिशुं साधानं प्रत्याधानम्” शत० ब्रा० १४। ५। २। १ भाष्यम्। “मस्तकस्य सर्वदेहेष्ववयवेषु आधीयमानत्वात् तथात्वम्। भावे ल्युट् प्रा० स०। २ द्वितीयाधाने न०।
प्रत्याध्यान = पु० वातव्याधिमेदे। तस्य लक्षणमाह “विसुक्तपाश्व हृटयं तदवामाशयोत्थिनम्। प्रत्याध्म नं विं जानीयात् कफव्याकुलितानिलम्”। विमुक्तपाश्चहृदयं पार्श्वे हृदयं च विहाय जातं तदेवाध्मानम्। कफव्याकु लितानिलं कफेनावकणवातम” भावप्र०।
प्रत्यापत्ति खी = प्रति + आ + पद–भाके क्तिन्। विराग्ये भा० शा० २९३ अ० शीलकण्ठः। २ पुनरागमने च
प्रत्याम्नान = त्रि० प्रतिरूपतया आम्नायते प्रति + आ + म्नाकर्मणि ल्युट्। प्रतिनिधौ “यजमानकर्त्तृत्वेन विधीयन्ते प्रत्याम्नानाश्च ऋत्विजी निवर्त्तन्ते” कात्या० श्रौ० १। ६। १३ पद्धतौ।
प्रत्याम्नाय = पु० प्रतिरूपतया आम्नायते प्रति + आ + म्नाकर्मणि घञ्। प्रतिनिधित्वेन विधीयमाने।
प्रत्यायक = त्रि० प्रति + इ–ण्वुल्। १ विश्वासकारके २ बोधके च।
प्रत्यायन = न० प्रति + आ + इ–णिच् “णौ गमिरबोधने” पा० उक्तेः न गमादेशः भावे ल्युट्। १ बोधने २ विश्वासजनने भा० अनु० २४४८ श्लो०।
प्रत्यारम्भ = पु० प्रतिरूप आरम्भः प्रा० स०। आरम्भात् पश्चत् आरम्भे गलग्रहशब्दे २५६२ पृ० दृश्यम्।
प्रत्यालीढ = न० धन्विनां युद्धार्थमवस्थितिभेदे आलीढविपरीतरूपतया स्थितौ आलीढशब्द ८२४ पु० दृश्यम्।
प्रत्यावर्त्तन = न० प्रति + आ + वृत–णिच्–वा भावे ल्युट्। १ प्रतिनिवृत्तौ २ प्रतिनिवारणे च।
प्रत्याशा = स्त्री किञ्चित् वस्तु प्रति + आशा प्रा० स०। किञ्चिद्वस्तु प्रति वाञ्छायाम्।
प्रत्याश्राव = पु० प्रति + आ + श्रु–णिच्–अच्। १ उद्दिश्य श्रावणे कर्मणि अच्। २ अस्तुश्रौषडिति शब्दे यजु० १९। २४ वेददी०
प्रत्याश्रावण = न० प्रति + आ + श्रु–णिच् भावे ल्युट्। अग्नीध्रकर्त्तृके अध्वर्युं प्रति मन्त्रविशेषस्य आश्रवणे शत० ब्रा० १२। २। ९ भाष्ये दृश्यम्।
प्रत्याश्वासन = न० प्रति + आ + श्वस–णिच्–भावे ल्युट्। सान्त्वनार्थमाश्वासने।
प्रत्यासत्ति = स्त्री प्रति + आ–सद–भावे क्तिन्। १ नैकट्ये न्यायमते २ अलौकिकप्रत्यक्षजनके सम्बन्धमात्रे “आसत्तिराश्रयाणान्तु” भाषा० “आसत्तिः प्रत्यासत्तिः” सि० मु०।
प्रत्यासन्न = त्रि० प्रति + आ + द–क्त। १ अतिनिकटस्थे जटा० २ सम्बद्धे च।
प्रत्यास(सा)र = पु० प्रति + आ + सृ–आधारे घञ् अप् वा। अबन्तः १ सैन्यपश्चाद्भागे घञन्तः तत्रार्थे अमरः। यत्र व्यूहस्य पश्चाद्व्यूहान्तरं क्रियते २ तत्रार्थे भरतः।
प्रत्यास्वर = पु० प्रत्यास्वरति प्रति + आ + स्वॄ–अच्। १ प्रत्यागते अस्तभावात् पुनः २ प्रत्यागते आदित्ये च “स्वर इतीमं (प्राणम्) आचक्षते स्वर इति प्रत्यास्वर इति आसुम्” (आदित्यम्) छा० उ०। “किञ्च स्वर इतीमं प्राणमाचक्षते कअयन्ति तथा स्वर इति प्रत्यास्वर इति चामुं सवितारम्। यस्मात् प्राणः स्वरत्येव न पुनर्मृतः प्रत्यागच्छति। सविता त्वस्तमित्वा पुनरप्यहन्यहनि प्रत्यायच्छति। अतः प्रत्यास्वरोऽस्माद्गुणतो नामतश्च समानमितरेतरं प्राणादित्यौ” भा०।
प्रत्याहरण = न० प्रति + आ + हृ–भावे ल्युट्। १ चित्तेन्द्रियादेः विषयेभ्यो निवारणे।
प्रत्याहार = पु० प्रति + आ + हृ–भावे घञ्। चित्तेन्द्रियादेः विषयेभ्यो निवारणे योगाङ्गभेदे तल्लक्षणं च अष्टाङ्गयोग शब्द ५२४ पृ० उक्तं तत्कालमानञ्च “प्राणायामाद्वषट् केन प्रत्याहार उदाहृतः” काशीख० ४१ अ० उक्तम्। “स्वविषयाऽसम्प्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः” पात० सू० “स्वविषयसम्प्रयोगाभावे चित्तस्वरूपानुकार इवेति चित्तनिरोधे चित्तवन्निरुद्धानीन्द्रियाणि नेतरेन्द्रियजयवदुपायान्तरमपेक्षन्ते। यथा मधुकरराज मक्षिका उत्पतन्तमनूत्पतन्ति निविशमानमनुविशन्ते तथे न्द्रियाणि चित्तनिरोधे निरुद्धानीत्थेष प्रत्याहारः” भा०। “ततः परमा वश्यतेन्द्रियाणाम्” पात० सू० शब्दादिष्व व्यसनमिन्द्रिवजय इति केचित् शक्तिर्व्यसनं व्यस्यत्येनं श्रेयस इति अविरुद्धा प्रतिपत्तिर्न्याय्या शब्दादिसम्प्रयोगः स्वेच्छयेत्यन्ये रागद्वेषाभावे सुखदुःखशून्यं शब्दादिज्ञानमिन्द्रियजय इति केचित् चित्तैकाग्र्यादप्रवृत्तिरेवेति जैगीषव्यः। ततश्च परमा त्वियं वश्यता यच्चित्तनिरोधे निरुद्धानीन्द्रियाणि नेतरेन्द्रियजयवत् प्रत्यत्नकृतमुपायान्तरमपेक्षन्ते योगिनः इति” भा०। अत्र चित्तस्यैव प्रत्थाहारेऽन्येन्द्रियस्य प्रत्याहारोऽर्थसिद्ध इति बोध्यम् तत्फलञ्च। मनुना उक्तम् “प्रत्याहारेण संसर्गान् ध्यानेनानीश्वराम् गुणान्”। प्रत्याह्रियन्ते संक्षिप्य गृह्यन्ते वर्णां अनेन प्रति + आ + हृ–करणे घञ्। “आदिरन्त्येन सहता” पा० सूत्रेण २ कृतसंज्ञायां च यथा “अण इति अ इ उ इति वर्णानां ग्रहणम् एवं सुप् तिङप्रभृतिष्वपि स्वादीनां तिबादीनाञ्च ग्रहणमिति। “प्रत्याहारेष्वितां न ग्रहणमिति” तेन् अच् प्रत्याहारे णकङचां न ग्रहणम् बोध्यम्। भावे घञ्। ३ उपादाने पु० अमरः।
प्रत्युक्त = त्रि० प्रति + वच–कर्मणि क्त। १ उत्तरिते प्रतिवावाक्येन २ निराकृते च।
प्रत्युक्ति = स्त्री प्रति + वच–भावे क्तिन्। प्रतिवाक्यकथने शब्दर०
प्रत्युज्जीवन = न० प्रति + उद् + जीव–भावे ल्युट्। पुनर्जीवने मरणोत्तरं पुनर्जीवने। “रसविच्छेदहेतुत्वात् मरणं नैव वर्ण्यते। वर्ण्यतेऽपि यदि प्रत्युज्जीवनं स्याददूरतः” सा० द०। यथा कादम्बरीग्रन्थे तद्वर्णनम्।
प्रत्युत = अव्य० प्रति–उत द्व०। १ स्वपक्षस्थापनाय परपक्षनिराकरणाय वा उक्तस्य तद्वैपरीत्यभावे २ वैपरीत्यमात्रे च “न दोषः पुनरुक्ताऽपि प्रत्युतेयमलङ्क्रिया” काव्याद०।
प्रत्युत्क्रम = पु० प्रति + उद् + क्रम–घञ् न वृद्धिः। १ युद्धार्थोद्योगे २ प्रधानप्रयोजनोद्देशेनाप्रधानारम्भे च अमरः। क्तिन्। पत्युत्क्रान्ति तत्रार्थे स्त्री क्षीरस्वामी।
प्रत्युत्तर = न० प्रतिरूपमुत्तरस्य प्रा० स०। उत्तरस्योत्तरवाक्ये वादिनोपन्यस्तपक्षस्य तद्विरुद्धपक्षप्रतिपादके वाक्ये।
प्रत्युत्थान = न० प्रति + उद् + स्था–ल्युट्। अभ्युत्थाने आगतस्य सम्माननार्थमासनादुत्थितौ “प्रयुत्थानाभिवादभ्यां पुनस्तत्प्रतिपद्यते” अनुः।
प्रत्युत्पन्नमति = त्रि० प्रत्युत्पन्ना तत्कालाचिता मतिर्यस्य। १ तत्कालोचितबुद्धौ हेमच०। २ प्रतिभान्विते जटा०। अनागतविधातृशब्दे १५४ पृ० दृश्यम्।
प्रत्युदाहरण = न० प्रतिकूलमुदाहरणं प्रा० स०। उदाहरणस्य वैपरीत्येन उदाहरणे। “अन्तर्वत्पतितोर्नुक्” पा० सू० वृत्तौ अन्तर्वत्नी पतिवत्नीत्युदाहृत्य “प्रत्युंदाहरणन्तु अन्तरस्त्यस्यां शालायां घटः। पतिसती पृथिवी” सि० कौ०।
प्रत्युद्गम = पु० प्रति + उद् + गम–घञ् न वृद्धिः। १ प्रत्युत्थाने (आवाडायाओया) प्रतिगमने २ च भावे ल्युट्। प्रत्युद्गमन तत्रार्थे न०।
प्रत्युद्गमनीय = न० प्रति + उद् + गम–अनीयर्। १ धौतयस्त्रयग्मो अमरः “गृहीतप्रत्युद्गमनीयवस्त्रा” इति कुमारे पाठान्तरं प्रह्रे वेति न गुरुत्वम्। २ सुमुपस्यानयोग्ये पूजनिये च त्रि०
प्रत्युन्नमन = न० प्रतिकूतमुन्नमन प्रा० स०। उन्नमनप्रतिकूले अवनमने। “अङ्गुल्याऽवपीडिते प्रत्युन्नभनम्” सुश्रुतव्रणचिकित्साङ्गक्रियोक्तौ।
प्रत्युपकार = पु० प्रतिरूपः उपकारः पा० स०। १ कृतापकारेण कृते उपकारकस्य उपकारातुरूपे हिताचरणे।
प्रत्युपदेश = पु० प्रतिरूपः उपदेशः प्रा० स०। १ उपदेशकस्य प्राप्तोपदेशेन कृते शिक्षाभेदे कुमा० १। ३४
प्रत्युपहार = पु० प्रतिरूप उपहारः प्रा० स०। अनुरूपे उपहारे उपढोकनोये द्रव्ये।
प्रत्युरस = अव्य० उरसि विभक्त्यर्थेऽव्ययी०। “प्रतेरुरसः सप्तमीस्थात्” पा० अच् समा०। उरसीत्यर्थे। सप्तमीस्थादित्युक्तेः लक्षणाद्यर्थ प्रतेर्न अच्। प्रत्युरस् इत्येब।
प्रत्युलूक = पु० प्रतिकूल उलूकस्य प्रा० स०। १ काके भाग० १। १४। १४। “प्रत्युलूकः काकः” श्रीधरः। प्रतिरूपः उलूको यस्य कप्। प्रत्युलूकक उलूकानुरूपे पक्षिभेदे “उलूका प्रत्युलूककान्” हरिवं० ३ अ०।
प्रत्युष = पु० प्रति + उष–दाहे आधारस्य कर्तृत्वविवक्षायां क। प्रातः काले मथुरेशः।
प्रत्युषस् = न० प्रति + उष–आधारे कसुत्। प्रातःकाले अमरः। “याति व्यक्तिं पुरस्तादरुणकिसलये प्रत्युषः पारिजातः” सूर्य्यशतकम्।
प्रत्यूष = पु० प्रत्यूषति रुजति कामुकान् प्र + ऊष–रुजायां क। १ प्रभाते अमरः “प्रत्यूषपवनासारै हरिवं० ८३ अ०। अष्टवसुमध्ये २ वसुभेदे च जटा०। धरशब्दे ३८४७ पृ० दृश्यम्। ३ सूर्य्ये शब्दर०।
प्रत्यूषस् = न० प्रति + ऊष–रुजायाम् असुन् असि वा। प्रभाते अमरः “स्नानमत्यधिकं कार्य्यं प्रत्यूषस्यात्मनी जले” हरिवं० १४ अ०।
प्रत्यूह = पु० प्रति + ऊह–घञ्। विघ्ने अमरः तस्य ऊहां प्रति प्रतिबन्धकत्वात्तथात्वम्।
प्रत्यृच = अव्य० ऋचमृचं प्रति वीप्सायाम् अव्ययी० अच् समा०। एकैकस्यामृचौ आश्व० ६। ४
प्रत्येक = अव्य० एकमेकं प्रति वीप्सायामव्ययी०। एकैकस्मिन् वीप्सायुते एकशब्दार्थे।
प्रत्योकबुद्ध = पु० बुद्धभेदे त्रिका०।
प्रत्वक्षस = त्रि० प्र + त्वक्षू–तनूकरणे असुन्। प्रकर्षेण तनूकारके शत्रुधातिनि ऋ० १। ८१। १ भा०।
प्रथ = ख्यातौ भ्वा० आ० अक० सेट्। प्रथते अप्रयिष्ट घाटा० णिच् प्रथयति। भावे अङ् प्रथा।
प्रथ = ख्यातौ अक० विक्षेएपे सक० चुरा० उभ० सेट् घटा०। प्रथयतिते अपप्रशत् त।
प्रथम = त्रि० पथ–अमच्। १ प्रधाने २ आद्ये च अमरः। जसि वा सर्वनामतास्य प्रथमे प्रथमाः। तस्य भावः ष्यञ्। प्राथम्य आद्यत्वे प्राधान्ये च न०।
प्रथमज = त्रि० प्रथमं जायते जन–ड। १ पूर्वजाते २ प्रथमगर्भजाते पुं स्त्री० यजु० १६। २५ जन–क्त। प्रथमजात त्रत्रार्थे त्रि०
प्रथमवयसिन् = त्रि० प्रथमवयोऽस्त्यस्य या० इति सान्तत्वात् न पदात्वम्। प्रथमवयोयुक्ते शत० ब्रा० १३। १। ७। ८ स्त्रियां ङीप।
प्रथमवित्ता = स्त्री प्रथमं वित्ता विन्ना लब्धा। प्रथमपरिणीतायां स्त्रियां महिष्यां कात्या० १६। ३। २१। ५
प्रथमसाहस = पु० “पणानां द्वे शते सार्द्धे प्रथमः साहसः स्मृतः” विष्णु० उक्ते सार्द्धशतपणद्वयरूपे दण्डभेदे
प्रथमाङ्गुलि = पुंस्त्री० कर्म०। वृद्धाङ्गुष्ठे “शब्दमयं महा० प्राणं प्रथमाङ्गलियोगतः” प्रथमाङ्गुलिर्वृद्धाङ्गुलिः तन्त्रसारः
प्रथमाश्रम = पु० न० कर्म०। ब्रह्महर्य्याश्रमे “शरीरवन्धः। प्रथमाअमो यथा” कुमा०।
प्रथा = स्त्री प्रथ–घटा० भावे अङ्। ख्याती अमरः।
प्रथित = त्रि० प्रथ–क्त। १ ख्याते अमरः। २ खारोचिषमनोः पुत्रभेदे पु० हरिवं० ७ अ०। ३ विष्णौ पु० “अच्युतः ष्र० थितः प्राणः” विष्णुस०।
प्रथिमन् = पु० पृथोर्भावः पृथु + इभनिच् प्रथादेशः। पृथुत्वे स्थूलत्वे। अतिशयेन पृथुः इमनिच्। अतिशयेन पृथुत्वयुते
प्रथिमिनो = स्त्री प्रथिमाऽस्त्यस्याः “संज्ञायां मन्माभ्याम्” पा० इनि टिलोपः। पृथुत्वयुतस्त्रीभेदे। असंज्ञायां तु मतुप् मस्य वः। प्रथिमवत् इत्येव स्त्रियां ङीप्।
प्रथिवी = स्त्री पृथिवी + पृषो०। पृथिव्यां भा० वि० ४४ अ०।
प्रथिष्ठ = त्रि० अतिशयेन पृथु–इष्ठन् प्रथादेशः। पृथुतरे। तत्रार्थे ईयसुन् प्रथीयस् पृथुतमे स्त्रियां ङीप्।
प्रथु = पु० प्रथते प्रथ–उन्। विष्णौ “प्राणदः प्रणवः पथः” विष्णुस०।
प्रथुक = पु० प्रथ–बा० उक। वृथुके चिपिटके रायमुकुटः।
प्रदक्षिण = न० प्रगतो दक्षिणाम् अत्या० स०। दक्षिणपार्श्वानुगते देवेभ्यः स्वदक्षिणदर्शनेनं प्रणामभेदे तल्लक्षेणफलादिकं यथा “प्रसार्य्य दक्षिणं हस्तं स्वयं नम्रशिराः पुनः। दक्षिणं दर्शयन् पार्श्वं मनसापि च दक्षिणः। सकृत्त्रिर्वा वेष्टयेत्तु देव्याः प्रीतिः प्रजायते। स च प्रदक्षिणी ज्ञेयः सर्वदेवौघतुष्ठिदः। अष्टोत्तरशतं यस्तु देव्याः कुर्य्यात् प्रदक्षिणम्। सवान् कामान् समासाद्य पश्चान्मोक्षमवाप्नुयात्। मनसापि च यो दद्याद्देव्यै भक्त्या प्रदक्षिणम्। प्रदक्षिणाद्यमगृहे नरकाणि न पश्यति” कालिकापु० ७० अ०। “एकं देव्यां रवौ सप्त त्रीणि कुर्व्याद्विनायके। चत्वारि केशवे कुर्य्यात् शिवे चार्द्ध प्रदक्षिणम्” कर्मलोचनम्। “दक्षिणाद्वायवीं गत्वा दिशं तस्याश्च शाम्मवीम्। तनश्च दक्षिणां गत्वा नमस्कारस्त्रिकोणवत्। अर्द्धचन्द्रं महेशस्य पृष्ठतश्च समीरितम्। शिवप्रदक्षिणे मन्त्री अर्द्धचन्द्रक्रमेण तु। सव्यासव्यक्रमेणैव सोमसूत्रं न लङ्घयेत्”। सोमसूत्रं जलनिःसरणस्थानम्। “प्रसार्य्य दक्षिंणं हस्तं स्वयं नग्नशिराः पुनः। दर्शयेद्दक्षिणं पार्श्वं मनसापि च दक्षिणः। त्रिया च वेद्धयेत् सम्यक् देवतायाः प्रदत्तिणम्” तन्त्रसारः।
प्रदक्षिणित् = न० प्रदक्षिण + पृषो०। प्रदक्षिशब्दार्थे ऋ० २। ४३। १। भाष्ये दृश्यम्।
प्रदत्त = त्रि० प्र + दा–कर्मणि क्त वा तादेशाभावे दद्भावः। प्रदत्ते प्रकर्षेण दत्ते।
प्रदर = पु० प्र + दॄ–भावादौ अप्। १ भङ्ग दारणसाधने २ बाणे अमरः। ३ विदारे ४ स्त्रीणां योनिरोगभेदे मेदि० तन्निदानकर्म च भृगुभारतोक्तं कर्मविंपाकशब्दे १७६९ पृ० दर्शितम्। स च असृग्दराख्यः स्त्रीणां योनिरोगभेदः। तल्लक्षणादि माधवनिदाने उक्तं यथा
“विरुद्धमद्याध्यशनादजीर्णाद्गर्भप्रपातादतिमैथुनाच्च। व्यानाध्वशोकादतिकर्षणाच्च भाराभिधाताच्छयनाद्दिवा च। असृग्दरं भवेत् सर्वं साङ्गमर्द्दं सवेदनम्। तस्यातिवृद्धौ दौर्बल्यं श्रमो मूर्च्छा मदस्तृषा। दाहः प्रलापः याण्डुत्वं तन्द्रा रोगाश्च वातजाः”। स च चतुर्विधो यथा “तं श्लोष्मपित्तानिलसन्निपातैश्चतुःप्रकारं प्रवदन्ति वैद्याः। आमं सपिच्छापतिमं सपाण्डु पुलाकतोयप्रतिमं कफात्तु। सपीतनीलासितरक्तमुष्णं पित्तार्त्तियुक्तं भृशवेगि पित्तात्। रूक्षारुणं फेनिलमल्पमल्पं वातार्त्ति वातात् षिशितोदकाभम्। सक्षौद्रसर्पिर्हरितालवर्णं लाजप्रकाशं कुणपं त्रिदोवात्। तच्चाप्यसाध्यं प्रवदन्ति तज्ज्ञा न तत्र कुर्वीत भिषक् चिकित्साभ्”।
प्रदल = पु० प्रकर्षेण दलति प्र + दल–अच्। बाणे जटा०
प्रदव = पु० दुनीति दु–अच् “दुन्तोरनुपसर्गे” पा० अनुसर्गे इत्युक्तुः न ण। १ प्रकृष्टतापके। भावे अप्। २ प्रकृततापे पु०
प्रदव्य = पु० प्रदवाय हितं बा० यत्। १ दावाग्नौ कात्या० श्रौ० २५। ४। ३२ कर्कः।
प्रदा = स्त्री प्र + दा–भावे अङ्। प्रकृष्टदाने। कर्त्तरि क। २ प्रकृष्टदायके त्रि०।
प्रदान = न० प्र + दा–भावे ल्युट्। प्रकृष्टदाने “प्रदानं स्वाम्यकारणम्” मनुः।
प्रदि = लि० प्र + दा–“उपसर्गे घोः कि” पा० कि। प्रदानकर्त्तरि
प्रदिग्ध = स्त्रि० प्र + दिह–कर्मणि क्त। १ लिप्ते २ भर्जनविशेषयुते मांसे न० “मासं वहवृतैर्भृष्टं सिक्त्वा चोष्णाम्बुना मुहुः। जीरताद्यैः समायुक्तं परिरास्कं तदुच्यत। तदेव घृत तक्राढ्यं प्रदिग्धं सत्वियातकस्” शब्दव०।
प्रदिव् = त्रि० प्रकर्पेण दीव्यनि प्र + दिप–किण्। १ प्रकर्षेण द्योतमाने क० २। २८२ म०। २ प्रकृष्टदिने स्त्री ३ पूर्वदिने २। ४७। १। ४ पुरातने निघण्टुः बहुव
प्रदिश् = स्त्री० दिशोरन्तरालं प्रगता दिक पा० स०। विदियि दि परणरालदिशि णटा०
प्रदीप = पु० प्र + दीप–अच्। दीपे अमरः। दीपशब्दे ३६०५ पृ० दृश्यम्। तत्र हितः अपूपा० छ। प्रदीपीय तद्धिते त्रि० पक्षे यत्। प्रदीप्य तत्रार्थे
प्रदीपन = पु० प्रदीप्यते प्र + दीप–ल्यु। १ स्थावरे २ विषभेदे तल्लक्षणं राजनि० उक्तं यथा “वर्णतो लोहितो यः स्यात् दीप्तिमान् दहनप्रभः। महादाहकरः पूर्वैः कथितः स प्रदीपनः”। णिच–ल्यु। ३ प्रकाशके त्रि०।
प्रदुह् = त्रि० प्र + दुह–सत्सूद्विषेत्यादिना क्विप् पा० प्रकर्षेण दोग्धरि पदत्वेऽस्य हस्य षत्वे दस्य धः। प्रधुक् प्रधुग्भ्यामित्यादि।
प्रदेश = पु० प्रा० स०। १ एकदेशमात्रे राजनि० २ स्थाने तर्ज्जन्यकूष्ठमिते देशे ३ भित्तौ च मेदि०।
प्रदेशन = न० प्र + दिश–भावादौ ल्युट्। १ उपदेशे कर्मणि ल्यट्। २ राजादेरुपढौकने उपहारे (भेटि) द्रव्ये अमरः
प्रदेश(शि)नी = स्त्री प्रदिश्यतेऽनया प्र + दिश–करणे ल्युट् ङीप्। तर्जन्थां तया हि वस्तु निर्दिश्यते। प्रदेशः अङ्गुष्ठादिमध्यस्थाबमस्त्यस्य इनि ङीप्। अत्रैव अमरः।
प्रदेह = पु० प्र + दिह–भावे घञ्। १ प्रलेपे ब्रणाद्युंपशमार्थं द्रव्यविशेषस्य व्रणादौ २ लेपन सुश्रुतः।
प्रदोष = पु० प्रक्रान्ता दोषारात्रिरत्र काले प्रा० स०। रात्रेः। प्रथमभागभेदे तिथिभेदस्य प्रदोषेऽनध्यायः ति० त० उक्तो यथा “सारस्वतादिप्रदोषमाह स्मृतिः “त्रियोदश्याश्चतुर्थ्याश्च सप्तम्या द्वादशीतिथेः। प्रदोषेऽध्ययनं धीमान् न कुर्वीत यथाक्रमम्। सारस्वतो माणपतः सौरश्च वैष्णवस्तथा” प्रदोषशब्दोऽत्र प्रथमप्रहर इति हेमाद्रिः। रात्रिपर इति निर्णयामृतकृद्। तथा व्रतभेदे रात्रिप्रथमयाम परता हेमाद्रौ व्रत० उक्ता “त्रयोदश्यां तथा रात्रौ सोपहारं त्रिलोचनम्। इष्ट्वेशं प्रथमे यामे मुच्यते सर्वपातकैः”। इदं प्रदोषव्रतमिति हेमाद्रिः। शिवरात्रिव्रते तु “ष्रदोषव्यापिनी ग्राह्या शिवरात्रिचतुर्दशी” हेमाद्रि० स्मृतिः। तत्रैव वताः “प्रदोषोऽस्तमयादूर्द्ध्वं घटिकाद्वयमिष्यते”। घटिकादण्डद्वयम् “त्रयोदश्यस्तगे सूर्य्ये चतसृष्वपि नाडिषु। भूतविद्धा तु सा तत्र शिवरात्रिव्रतं चरेत्” ति० त० बायुपु० वाक्यैकवाक्यत्वात्। तथा च प्रदीषशबद्स्य रात्रिमात्रं रात्रेः प्रथमयामः प्रथमदण्डचतुष्टयं चार्थः कर्मभेदे तस्य ग्राह्यता। तत्रानध्यागे शर्वरीमात्रपरता प्रदोषव्रते प्रथमयामपरता शिवरात्रिव्रतादी दण्डचतुष्टयपरतेति विवेकः। “पृदोषोरजनीमुखम् इव्यमरोक्तिः रात्रेः प्रथमप्रहरप्रथमदण्डचतुष्ट- यपरत्वाभिप्रायेण रात्रिमात्रे भक्त्येति बोध्यम्।
प्रदोषक = त्रि० प्रदोषे भवः कालात् ढञं बाधित्वा पूर्वाह्णे त्यादिना बुन्। प्रदोषकालभवे।
प्रद्युम्न = पु० प्रकृष्टं द्युम्णं बलं यस्य। १ कन्दर्पे अमरः। स च वासुदेवस्य रुक्मिण्यां जातः हरिवं० ११८ अ०। सनत्कुमारंशजातश्च भा० आ० ६७ अ०। २ वैष्णवागमोक्ते चतुर्व्यूहात्मकविष्णोरंशभेदे च अनिरुद्धशब्दे १६२ पृ० चतुर्व्यूहशब्दे २८७९ पृ० च दृश्यम्। मनोर्नङ्बलायां जाते ३ पुत्रभेदे पु० भाग० ४। १३। १४
प्रद्यो = त्रि० प्रकृष्टा द्यौर्दिन यत्र। प्रकृष्टदिने क्लीवत्वे ह्रस्वः प्रद्युतस्य क्लीव एव ह्रस्वत्वेने गन्तत्वेऽपि भाषितपुं स्कत्वा भावात् टाद्यचि न पुंवत् प्रद्युना इत्यादि सि० कौ० मुग्ध० प्रद्यकाप्रद्युनेत्युदाहृतं तच्चिन्त्यम्।
प्रद्योत = पु० प्र + द्यु त–अच्। १ रश्मौ हला०। २ यक्षभेदे पु० भा० स० १९ अ०।
प्रद्योतन = पु० प्र + द्युत–“अनुदात्तेतश्च हलादेः” पा० युच्। १ सूर्य्य हला०। २ द्योतनशीले त्रि०। भावे ल्युट्। ३ दीप्तौ न०।
प्रद्रव = पु० प्रकृष्टो द्रवः प्रा० स०। पलायने अमरः।
प्रद्राणक = त्रि० प्र + द्रा–कुत्सितायां गतौ क्त स्वार्थे क। कुत्सितां गतिं प्राप्त अन्त्यावस्थां प्राप्ते “उषस्तिर्ह चाक्रायण इभ्यग्रामे प्रदूणकौवास” छा० उ० “प्रद्राणकः कुत्सितां गतिं गतोऽन्त्यावस्थां प्राप्त इत्यर्थः” भा०।
प्रद्राव = पु० प्र + “प्रद्रुस्तुश्रुवः” पा० अपं बाधित्वा घञ्। पलायने अमरः। थाथादि० अन्तोदात्ततास्य।
प्रद्राविन् = त्रि० प्र + द्रु–ताच्छील्ये णिनि। पलायनशीले।
प्रद्वार = न० प्रगतं द्वारं प्रा० स०। द्वारप्रान्तभागे
प्रधन = न० प्र + धा–क्यु। १ युद्धे अमरः। प्रकृष्टं धनमस्य। २ प्रकृष्टधनयुक्ते त्रि०। निधण्टौ संग्रामनामसु सङ्गमे इत्यत्र प्रधने” पाठान्तरम्। एदन्तमव्ययं तत्रार्थे।
प्रधमन = न० प्र + सौ० धम–ध्वाने भावे ल्युट्। मुखमारुतव्यापारभेदे सुश्रुतः।
प्रधा = स्त्री प्र + धा–भावे अङ्। १ निधाने २ दक्षसुतायां कश्य पपत्नीभेदे भा० आ० ६५ आ०। प्रधाया अपत्यं ढञ्। प्राधेय तदपत्ये पुंस्त्री०। “प्राधेयास्तपसांगणाः” मार्क० तत्कन्याश्च अलम्बुसादयोऽप्सरसः भा० आ० ६५ अ०।
प्रधान = न० प्र + धा–ल्युट्। सांख्यमतसिद्धायाम् सत्त्वरजस्तमोरूपगुणत्रयात्मिकायां १ प्रकृतौ प्रकृतिशब्दे दृश्यम्। वत्कार्य्ये २ कुद्धितत्त्वे ३ परमात्मनि ४ प्रशस्ते ५ सचिवे च। ६ सेनापत्यध्यक्षे पु० ७ श्रेष्ठे त्रि० अमरः “सेनाध्यक्षः प्रधानः स्यात्” अस्य पुंस्त्वमिति वोपालितः।
प्रधानधातु = पु० कर्म०। चरमधातौ वीर्य्ये शुक्रे त्रिका०। शुक्रस्य चरमधातुत्वम् असृक्करशब्दे ५५८ पृ० उक्तं दृश्यम्
प्रधि = पु० प्रधीयन्ते काष्ठान्यत्र प्र + धा–आधारे कि। चक्रावयवकाष्ठासञ्जनस्थाने रथनाभौ अमरः।
प्रधी = त्रि० प्रकृष्टा धीर्यस्य। १ प्रकृष्टबुद्धियुक्ते प्रा० स०। २ प्रकृष्टायां बुद्धौ स्त्री। प्रकृष्टं ध्यायति ध्यै–कर्त्तरि क्विप्। ३ प्रकृष्टध्यानकर्त्तरि त्रि०। तत्र तृतीयार्थे गतिपूर्वकत्वात् यण् प्रध्यः प्रध्या इत्यादि आद्ययोस्तु प्रशब्दस्य कृषधातु प्रत्येवोपसर्गत्वस्त म यण् किन्तु इयङ्। प्रधिया इत्यादीत्यन्ये सि० कौ० तु “वृत्तिकरादीनां मते लक्ष्मीवद्रूपम् पदान्तरां विनाऽपि स्त्रियां वर्त्तमानत्वं नित्यस्त्रीत्वमिति स्वीकारात् लिङ्गान्तरानभिधायकं तदिति कैमटमते–पुंवद्रूपम् प्रकृष्टा धीरिति विग्रहे तु लक्ष्मीवत् अमि शशि च प्रध्यं प्रव्य इति विशेषः” इत्युक्तम्।
प्रधूपित = त्रि० प्र + धूप–क्त। सन्तापिते “व्यसनप्रधूपिताम्” इति कुमारः। ज्योतिषोक्तायां २ सूर्य्यगन्तव्यायां दिशि स्त्री। तत्र प्रधूमिता इति पाठान्तरम्।
प्रध्वंस = पु० प्र + ध्वन्स–भावे घञ्। १ नाशे सांख्यमते २ अतीतावस्थायाञ्च।
प्रध्वस्त = त्रि० प्र + ध्वन्सक्त। १ नाशप्रतियोगिनि २ अतीते च ३ मन्त्रभेदे पु० “एकोनविंशत्यर्णो वा यो मन्त्रस्तारसंयुतः। हृल्लेखाङ्कुशवीजाढ्यं प्रध्वस्तं तं प्रचक्षते” तन्त्रसा०।
प्रनप्तृ = पु० प्रगतो नप्तार जनकतया अत्या० स०। पौत्रपुत्रे प्रपौत्रे उज्ज्वलद०।
प्रनर्द्दक = त्रि० घ्र + नर्द–ण्वुल् णोपदेशत्वाभावात् न णत्वम्। प्रकर्षेण नर्द्दनकर्त्तरि।
प्रनष्ट = त्रि० प्र + नश–क्त शान्तत्वाभावात् न णत्वम्। नाशप्रतियोगिनि “प्रनष्टस्वामिकं द्रव्यं राजा त्र्यव्दं निधापयेत्” मनुः।
प्रना(णा)यक = त्रि० प्रकृष्टो नायकोऽस्य प्रशब्दस्य नयतिं प्रति उपसर्गत्वाभावात् न णत्वम्। प्रकृष्टनायकयुक्ते। प्र + नी–ण्वुलि तु णत्वम्। प्रणयकारके इति भेदः।
प्रपक्ष = पु० प्रगतः पक्षम् अत्या० स०। पक्षाग्रे भा० द्रो० २० अ०।
प्रपञ्च = पु० प्र + पचि–आधारे घञ्। १ विस्तारे २ वैपरीत्ये ३ पतारणे। कर्त्तरि पचा० अच्। ४ स सारे च अमरः। तत्र वैपरीत्यं भ्रमो भाया वेति स्वामी।
प्रपञ्चित = प्र + पन्च–णिच–कर्मणि क्त। १ विस्तारिते २ प्रतारिते भ्रान्तिज्ञानविषयतया ३ सम्पादिते च भाग० १०। १४ अ०
प्रपतन = न० प्रपतत्यस्मात् प्र + पत–भीमा० अपादाने ल्युट्। १ पतनापादाने वृक्षादौ। भावे ल्युट्। प्रकर्षेण २ पाते तत्प्रयोजनमस्य छ। प्रपतनीय प्रपातसाधने त्रि०।
प्रपथ = पु० प्रकृष्टः पन्था प्रकृष्टः पन्था यत्र वा अच्समा०। १ प्रकृष्टमार्गे २ तद्युक्ते त्रि० ऋ० १। १६६। ९
प्रपथ्य = त्रि० प्रकृष्टं पथ्यं प्रा० स०। १ अत्यन्तहिते २ हरीतक्यां स्त्री राजनि०।
प्रपद = न० प्रारब्धं पदम् प्रा० स०। पादस्याग्रभागे अमरः। प्रपदं व्याप्नोति ख। प्रपदीन पादाग्रव्यापके त्रि० आप्र पदीनशब्दे माघः ३। १२ उदा० दृश्यम्।
प्रपन्न = त्रि० प्र + पद–क्त। शरणागते “प्रपन्नार्त्तिहरे! देवि!” इति चण्डी।
प्रपन्नाड = पु० प्रपन्नान् अलति भूषयति अल–अण् उप० स० लस्य डः। १ चक्रमर्दे रत्नमा०। तस्य दद्रुरोगिभिः सेवने तेषां रोगनिवारणेन भूषकत्वात्तथात्वम्।
प्रपा = स्त्री प्रपीयतेऽस्यां प्र + पा–घञ्र्थे क। पानीयशालायाम्। पानीयशालिकाशब्दे ४३०६ पृ० दृश्यम्।
प्रपाठक = पु० प्रकृष्टः पाठोऽत्र कप्। १ वेदस्याध्यायांशभेदे २ श्रौतग्रन्थांशभेदे च।
प्रपाणि = पु० प्रकृष्टः पाणिः प्रा० स०। करस्याधोभागे पाणितले राजनि०।
प्रपात = पु० प्रपतत्यस्मात् पत–अपा० घञ्। १ तटरहिते २ निरवलम्बे ३ पर्वतस्थानभेदे अमरः। ४ निर्झरे ५ कूले च मेदि० यस्मात् पतने अवस्थानाय क्रियाभेदो न भवति ६ तादृशे स्थाने। भावे घञ्। ७ अवस्कन्दे हेमच०।
प्रपानक = न० प्रकृष्टं पानमस्य कप्। खण्डमरिचादिमिश्रिते पानीयद्रव्यमेदे “प्रपानकरसन्यायाच्चर्व्यमाणो रसो भवेत्” यथा खण्डमरिचादीनां सम्मेलनादपूर्व इव कश्चिदाखादः प्रपानकरसे सञ्जायते विभावादिसम्मेलनादिहापि तथेत्यर्थः” सा० द०। कृतान्नशब्दे २०८४ पृ० दृश्यम्।
प्रपापूरणीय = त्रि० प्रपापूरणं प्रयोजनमस्य “छप्रकरणे विशि पूरिपतिरुहिप्रकृतेरनात्” वार्त्ति० छ। प्रपापूरणप्रयोजनके।
प्रपावन = न० प्रपेव कामपूरकं वनम्। कामारण्ये वनभेदे शब्दमाला।
प्रपितामह = पु० प्रगतः पितामहं कार्यत्वेन अत्या० स०। १ पितामहपितरि अमरः। तस्य पत्नी ङीष् २ प्रपितामही तत्पत्न्यां स्त्री “स्वेन भर्त्त्रा सह श्राद्धं माता भुङ्क्ते स्वधामयम्। पितामही च स्वेनैव स्वेनैव प्रपितामही” दायभागधृतवचनम्। पितामहस्य प्रजापतिजनकस्य चतुर्मुखब्रह्मणः जनके ३ परब्रह्मणि “भूर्भुवः स्वस्तरुस्तारः स पिता प्रपितामहः” विष्णुस०। “यो वै ब्रह्माणं विवदधाति पूर्वम्” श्रुतेस्तस्य पितामहब्रह्मस्रष्टृत्वात्तथात्वम्। “सोऽभिध्याय शरारात् स्वात् सिसृक्षुर्विविधाः प्रजाः। अप एव ससर्जादौ तासु वीजमवासृजत्। तदण्डमभवद्धैमं सहस्रांशुसमप्रभम्। तस्मिन् जज्ञे स्वयं व्रह्मा सर्वलोकपितामहः” मनुना सर्वपितामहस्यापि तेन सृष्टत्वात्तस्य तथात्वम्।
प्रपित्वे = अव्य० उत्तरायणे निघण्टुः।
प्रपुन्नाड(ट) = पु० पुमांसं नाटयति नडयति नड–भ्रंशे नटअवस्यन्दने वा अण् प्रकृष्टः पुन्नाडः (पुन्नाटः) प्रा० स०। १ चक्रमर्दे (चाकुन्दा) वृक्षे। डस्य लत्वे प्रपुन्नालोऽप्यत्र। २ दद्रुमर्दने अमरः। पृषो० प्रपुनाड (पुपुन्नड) इत्येता वपि तत्रार्थे अमरे पाठान्तरम्।
प्रपूरिका = स्त्री प्रकर्षेण पूर्य्यते कण्टकैः पूर–कर्मणि घञ स्वार्थे क टाप् कापि अत इत्त्वम्। १ कण्टकार्य्याम् हेमचन्द्रः २ प्रकर्षेण पूरके त्रि०।
प्रपूर्वग = पु० प्रकृष्टः पूर्वगः पूर्ववर्त्ती प्रा० स०। सृष्टेः प्राग्वर्त्तिनि १ परमेश्वरे “सदेव सौम्येदमग्र आसीदेकमेवाद्वितीयमिति श्रुतेः तस्य तथात्वम्। तद्रूपेण ध्येये २ अश्विनीकुमारद्वये द्वि० व०। भा० आ० ३ अ० अश्विनीकुमारस्तुतिः।
प्रपौण्डरीक = पु० पुण्डरीक + स्वार्थेऽण् प्रकृष्टं तदिव पुष्पं यस्य। गजमनुष्याणां चक्षुर्हितकारके शालपर्णीतुल्यपत्रके क्षुपभेदे अमरः।
प्रपौण्डरीकाद्य = न० “प्रपौण्डरीकमधुकपिप्यलीचन्दनीत्पलैः। सिद्धं धात्रीरसे तैलं नस्येनाभ्यञ्जनेन वा। सर्वानूर्द्ध्वगदान् हन्ति पलितानि च शीलितम्” चक्रपाणिदत्तोक्ते तैलभेदे।
प्रपौत्र = पुं स्त्री० पगतः कारणतया पौत्त्रम् अत्या० स०। पौत्त्रस्य १ पुत्रे तत्कन्यायां स्त्री ङीप्।
प्रफर्वी = स्त्री प्रकृष्टं पर्व नितम्बस्थानं यस्याः स्त्रिया ङीप् पृषो०। प्रशस्तनितम्बायां स्त्रियां ऋ० १०। ८५। १२ भा०। फर्वति गतिकर्मा इति वेददीपः। २ प्रकृष्टगतियुक्ते त्रि० यजु० १२। ७६ वेददीपः।
प्रफुल्त(ल्ल) = त्रि० प्र + फल–क्त आदित्त्वात् इटोऽभावे अत इत्त्वम् प्र + फुल्ल–विकाशे अच् वा (लद्वययुतः)। विकाशयुते अमरः। “लौध्रद्रुमं सानुमतः प्रफुल्त(ल्ल)म्” रघुटीकायां मल्लिनाथेन द्विधापाठः समर्थितः।
प्रबन्ध = पु० प्र + बन्ध–भावे घञ। १ सन्दर्भे ग्रन्थादेः २ रचने च त्रिका०।
प्रबन्धन = न० प्र + वन्ध–भावे ल्युट्। प्रकर्षेण ग्रन्यने बन्धने
प्रबन्धकल्पना = स्त्री ६ त०। “प्रबन्धकल्पनां स्तोकसत्यां प्राज्ञाः कथां विदुः” इत्युक्तलक्षणायामल्पसत्यायां बहुमिथ्याकथायाम् अमरः।
प्रब(व)र्ह = त्रि० प्र + बर्ह स्तुतौ (वृह) बद्धौ वा अच्। प्रधाने अमरः।
प्रबल = त्रि० प्रकृष्टं बलमस्य। १ प्रकृष्टबलयुते। प्रकृष्टं बलति बल–धान्यावरोधे अच्। २ पल्लवे शब्दमाला ३ प्रसारिश्च्यां लतायां स्त्री राजनि०।
प्रबल्हिका = स्त्री प्रबल्ह–आच्छादने ण्वुल्। प्रहेलिकायाम् अम० अयमोष्ठ्यादिः इन्। प्रबल्हि वा ङीप् प्रबल्ही च तत्रार्थे।
प्रबाल = न० प्र + बल–धान्यावरोधे ज्वलादि० ण। १ किसलये नवपल्लवे २ वीणादण्डे च अमरः। ३ रत्नभेदे पु० किं रत्नं कस्य ग्रहस्य पीतिकारित्वे न दोषहरं भवतीति प्रश्ने तदुत्तरमाह ज्यो० रत्नमालायां “माणिक्यन्तरणेः तुजातममलं, मुक्ताफलं शीतगोर्माहेयस्य तु विद्रुमो निगदितः, सौम्यस्य गारुत्मतम्। देवेज्यस्य च पुष्पराग मसुराचार्य्यस्य वज्रं, शनेर्नीलं निर्भलमन्ययोर्निगदिते गोमेदवैदूर्य्यके”। “पुंसि क्लीवे प्रबालः स्यात् पुमानेव तु विद्रुमः” भावप्र० अत्रार्थेऽस्य पुंनपुंसकत्वमुक्तं रत्नानां गुणास्तत्रोक्ता यथा “रत्नानि भक्षितानि स्युर्मधुराणि सराणि च। चक्षुष्याणि च शीतानि विषघ्नानि धृतानि च। मङ्गल्यानि मनोज्ञानि ग्रहदोषहराणि च”। युक्तिकल्पतरौ तस्योत्पत्त्यादिकं भेदादिकञ्चोक्तं यथा “सूत उवाच आदाय शेषस्तस्यान्त्रं यमाशाकम्बलादिषु। चिक्षेप तत्र जायन्ते विद्रुमाः सुमहागुणाः। तत्र प्रधानं शशलोहिताभं गुञ्जाजवापुष्पनिभं प्रदिसरागम्। सनीसकं देवकरोमकञ्च स्थानानि तेषु प्रभवं परागम्। अन्यत्र जातञ्च न तत् प्रधानं मूल्यं भवेच्छिल्पिविशेषयोगात्। प्रसन्नं कोमलं स्निग्धं सुरागं विद्रुमं हि तत्। धनधान्यकरं लोके विषार्त्तिभयनाशनम्। परीक्षा पुलहेनोक्ता रुधिराख्यस्य वैमणेः। स्फटिकस्म विद्रुमस्य रत्नज्ञानाय शौनक!” इति गारुडे ८ अ०। “श्चेतसागरमध्ये तु जायते वल्लरी तु या। विद्रुमा नाम रत्नाख्या दुर्लभा वज्ररूपिणी। पाषाणं प्रभजत्येषा प्रयत्नात् क्वथिता सती। विद्रुमं नाम यद्रत्नमामनन्ति मनीषिणः। ब्रह्मादिजाति भेदेन तच्चतुर्विधमुच्यते। अरुणं शशरक्ताख्यं कोमगं रिग्धमेव च। प्रवालं विप्रजातिः स्यात् सखवेध्यं मनोरमम्। जवावन्दूकसिन्दूरदाडिमीकुसुमप्रभम्। कठिनं स्निग्धदुर्वेधं क्षत्रजातिः तदुच्यते। पलाशकुसुमाभासं तथा पाटलसन्निभम्। बैश्यजातिर्भवेत् स्निग्धं वर्णाद्यं मन्दकान्तिभम्। विद्रुमं शूद्रजातिः स्याद्वायु वेध्यं तथैव च। रक्तता स्निग्धता दार्ढ्यं चिरद्युति सुवर्णता। प्रबालानां गुणाः प्रोक्ता धनधान्यकराः पराः। हिमाद्रौ यत्तु संजातं तद्रक्तमतिनिष्ठुरम्। तत्र लिप्तो भवेन्निम्बकल्कोऽतिमधुरः स्थितः। तस्य धारणमात्रेण विषवेगः प्रशाम्यति। विवर्णता तु खरता प्रबाले दूषणद्वयम्। रेखा काकपदी विन्दुर्यथा वज्रेषु दोषकृत्”। तथा प्रबाले सर्वत्र वर्जनीयं विचक्षणैः। रेखा हन्याद्यशो, लक्ष्मीमावर्त्तः कुलनाशनः। पट्टलो रोगकृत् ख्यातो विन्दुर्धनविनाशकृत्। त्रासः संजनयेत् ग्रासं नीलिका मृत्युकारिणी। मूल्यं शुद्धप्रबालस्य रूप्यद्विगुणमुच्यते। धारणेऽस्यापि नियमो जातिभेदेन पूर्ववत्”। तथा हि “विरूपजातिं विषमं विबर्णं खरप्रबालं प्रवहन्ति ये ये। ते मृत्युमेवात्मनि वै वहन्ति सत्यं वदत्येष कृती मुनीन्द्रः”। तस्य शुभाशुभलक्षणे राजनि० उक्ते यथा “शुद्धं दृढं घनं वृत्तं स्निग्धं पात्रसुरङ्गकम्। समं गुरु सिराहीनं प्रवालं धारयेत् शुभम्। गौरं रङ्गजलाक्रान्तं रक्तसूक्ष्मं सकोटरम्। रूक्षकृष्णं लधुश्वेतं प्रबालमशुभं त्यजेत्”।
प्रबालक = पु० यक्षभेदे भा० स० १० अ०।
प्रबालफल = न० प्रबाल इव रक्तं फलमस्य। रक्तचन्दने भावप्र० तत्फलस्य प्रबालतुल्यरक्तत्वात् तथात्वम्।
प्रबालाश्मन्तक = पु० प्रबाल इवाश्मन्तकः रक्तत्वात्। रक्ताश्मन्तकवृक्षे सुश्रुतः।
प्रबालिक = पु० प्रबालो नवपल्लवोऽस्त्यस्य भूम्मा ठन्। जीबशाके राजनि०।
प्रबाहु = पु० प्रगतो बाहुम् अत्या० स०। बाहुमूले वृ० सं० ५८ अ०।
प्रबाहुक = अव्य० प्रकृष्टो बाहुरत्र कप् स्वरादि०। १ समकाले २ ऊर्द्ध्वार्थे च मनोरमा। पृषो० प्रयाहुक् प्रबाहुम् पाठान्तरम् तत्रार्थे अव्य० “प्रबाहुग् जुहोति” तैत्ति० २। ६१।
प्रबुद्ध = त्रि० प्र + बुध–कर्त्तरि क्त। १ प्रयोधयुते २ पशि त ३ प्रफुल्ले पुष्पादौ च हेमच०। ४ जागरिते स्वापरहिते ५ भागवतधर्मप्रधाने ऋषभदेवपुत्रभेदे पु० भाग० ५। ४। ११
प्रबोध = पु० प्र + बुध–भावाधारादौ घञ्। १ निदूपगमे तसा प्रकृष्टज्ञानाधारत्वात् तथात्वम्। २ यथार्थज्ञाने च।
प्रबोधन = न० प्र + बुध–भावे ल्युट्। १ यथार्षज्ञाने २ निद्धा- पगमे। प्र + बुध–णिच्–भावे ल्युट्। ३ प्रकृष्टवोधने ४ उद्दीपने ५ पूर्वगन्धस्य न्यूनतायां पुनः सौगन्ध्योत्पादनाय व्यापारभेदे अमरः।
प्रबोधनी = स्त्री प्रबोध्यते हरिरत्र प्र + बुध–णिच् आधारे ल्युट् ङीप्। कार्त्तिकशुक्लैकादश्याम् तत्र शयितस्य हरेरुत्थापनानुकूलव्यापारस्याचरणात्तस्यास्तथात्वम्। उत्थानैकादशीशब्दे तस्याः खण्डभेदस्य ग्राह्यता दर्शिता। तन्माहात्म्यं च पद्मपु० उ० ख० १२६ अ० उक्तं यथा “ब्रह्मोवाच प्रबोधन्याश्च माहात्म्यं पापघ्नं पुण्यबर्द्धनम्। मुक्तिदं शुद्धबुद्धीनां शृणुष्व मुनिसत्तम!। तावद्गर्जन्ति तीर्थानि पुण्यान्यायतनानि च। यावत् प्रबोधनी विष्णोस्तिथिर्नायाति कार्त्तिके। अश्वमेधसहस्राणि वाजपेयशतानि च। एकेनैवोपवासेन प्रबोधन्यां भवन्ति हि। मेरुमन्दरतुल्यानि पापानि सुबहून्यपि। भस्म० सात् कुरुते मर्त्यो हरिबोधन्युपासनात्। पूर्वजन्मसहस्रेषु यत्पापं समुपार्जितम्। जागरणं प्रबोधन्यां दहते तूलराशिवत्। उपवासं प्रबोधन्यां यः करोति समाहितः। विधिवच्च मुनिश्रेष्ठ! यथोक्तं लमते फ लम्। यानि कानि च तीर्थानि त्रैलोक्ये संवसन्ति वै। तानि तस्य गृहे सम्यक् कृता येन प्रवोधनी। किं तस्य बहुभिः पुण्यैः सुरलोकसुखप्रदैः। ऊर्जे सन्तोषिता येन संपूणां हरिबोधनी। बोधनीं समुपोष्यैव मुक्तिभागी भवेन्नरः। प्रबोधन्यां नरश्रेष्ठ! न पुनर्गर्भमादिशेत्। स्नानं दानं जपो होमः समुद्दिश्य जनार्दनम्। नरैर्यत् क्रियते ऊर्जे प्रबोधन्यां तदक्षयम्। येऽर्चयन्ति नरास्तस्यां भक्त्या विष्णुं जगत्पतिम्। उषित्वा वाधनीं ते तु प्रभवेयुर्द्दिवौकसः। महाव्रतमिदं पुत्र! महापापौधनाशनम्। प्रबोधन्यां मुने! विष्णोर्विधिवत् समुपोषणम्। स ज्ञानी च स यीगी च स तपस्वी जितेन्द्रियः। स्वर्गमोक्षौ च तस्यास्तां य उपास्ते प्रवोधनीम्। यत्तु जन्मकृतं पापं स्वल्पं वा यदि वा बहु। करोति भस्मसाद्विष्णुः प्रवोधन्यां प्रपूजितः। हरिपूजा विधातव्या कार्त्तिके बोधवासरे। गीतशास्त्रविनोदेन प्रबोधन्यान्तु जागरात्। चन्द्रसूर्य्योपरागे च यत् फलं परिकीर्त्तितम्। तस्मात् सहस्रगुणितं प्रबोधन्यां हि जागरात्। स्तानं दानं जपो होपः स्वाध्यायश्चार्चनं हरेः। एतस्मात् कोटिगुणितं प्रबोधन्यां हि जागरात्”। स्कान्दे प्रभृति यत्पुण्यं नरेणोपार्जितं भुवि। वृथा भवति तत्सर्वं न कृत्वा बोधवासरम्”। “प्रबोधन्याश्च माहात्म्यं पापघ्नं पुण्यवर्द्धनम्। मुक्तिदं कृतबुद्धीनां शृणु त्वं मुनिसत्तम!। तावद्गर्जति विप्रेन्द्र! गङ्गाभागीरथी क्षितौ। यावन्नायाति पापघ्नी कार्त्तिके हरिबोधनी। तावद्गर्जन्ति तीर्थनि आसमुद्रसरांसि च। यावत् प्रबोधनी विष्णोस्तिथिर्नायाति कार्त्तिके। वाजपेयसहस्राणि अश्वमेधशतानि च। एकेनैवोपवासेन प्रबोधन्यां लभेन्नरः। दुर्लभञ्चैव दुष्प्रापं त्रैलोक्ये सचराचरे। तदापि प्रार्थितं विप्र! ददाति हरिबोधनी। ऐश्वर्य्यं सन्ततिं प्रज्ञां राज्यञ्च सुखसम्पदः। ददात्युपोषिता विप्र! हेलया हरिबोधनी। मेरुमन्दरतुल्यानि पापान्यत्यूर्जितान्यपि। एकेनैवोपवासेन दहते हरिबोधनी। पृथिव्यां यानि दानानि दत्त्वा यत् फलमाप्नुते। एकेनैवोपवासेन ददाति हरिबोधनी” हरि० वि०।
प्रभञ्जन = न० प्रभञ्जात तृणादीन् प्र + भन्ज–युच्। वायौ अमरः।
प्रभद्र = पु० प्रकृष्टं भद्रमस्मात् ५ ब०। १ निम्बवृक्षे २ प्रसारिण्यां लतायां स्त्री राजनि०।
प्रभद्रक = न० “भवति नजौ भजौ रसहितौ प्रभद्रकम्” वृ० र० उक्ते पञ्चदशाक्षरपादके छन्दोभेदे।
प्रभर्मन् = पु० भृ–भावे कर्त्तरि वा मनिन् प्रकृष्टं भर्म भरणं प्रकृष्टो भर्म्मा भर्त्ता ऋत्विक् वा यस्मिन्। १ यज्ञे ऋ० ८। ८२। १ भाष्ये दृश्यम्। प्र + भृ–भावे मनिन्। २ प्रकर्षेण भरणे सम्पादने न० ऋ० १। ७९। ७
प्रभव = पु० प्रभवत्यस्मात् “भुवः प्रभवः” पा० भूकर्त्तुरपादने वाच्ये अप्। १ प्रथमप्रकाशस्थाने २ अन्यतः सिद्धस्य प्रथमोपलम्भस्थाने हेमच० ३ मूले ४ मुनिभेदे ५ जन्म० हेतौ। भावे अप्। ६ जन्मनि। करणे अप्। ७ पराक्रमे मेदि०। ८ षष्टिवत्सरमध्ये वत्सरभेदे तत्फलमुक्तं ज्यो० त० भविष्यपु० “बहुतोयास्तथा मेघा बहुशस्या च मेदिनी। बहुक्षीरास्तथा गावी व्याधिरोग विवर्जिताः। प्रशान्ताः पार्थिवाश्चैव प्रभवे परिकीर्त्तिता”। ९ विष्णौ पु० “संभवो भावनो भर्त्ता प्रभवः प्रभुरीश्वरः” विष्णुस०
प्रभवादि = पु० प्रभव आदिर्येषाम्। प्रभवप्रभृतिषष्टिसंवत्सरेषु स च गुरुमध्यभोगात् गणनीयः। “ज्योतिर्विद इज्य सध्यात् प्रभवादेश सम्भवम्। उचुस्तद्वत् समाद्यादि वर्षाणामपि सम्भवम्” ज्यो० त०। ते च ज्यो० त० फलस हिताः दर्शिता तच्छब्दे तद्वाक्यमुक्तं वक्ष्यते च तदानयनञ्च ज्यो० त० “शकेन्द्रकालः पृथगाकृति २२ घ्नः शशाङ्कनन्दाश्वियुगैः ४२९१ समेतः। शराद्रिवस्विन्दु १८७५ हृतः स लब्धः षष्ट्यावशिष्टाः प्रभवादयोऽव्दाः। वर्षवर्जन्तु यच्छेषं सूर्य्यैः १२ संपूर्य्य खीर्मिभिः ६०” (भक्तम्)। प्रभवादिवर्षाण्युपक्रम्य “आद्या तु विंशतिर्ब्राह्मी द्वितोया वैष्णवी स्मृता। तृतीया रुद्रदैवत्या श्रेष्ठा मध्याधमा भवेत्”। वृ० सं० ८ अ० अन्यथोक्तं गुरुवर्षशब्दे २६२२ पृष्ठादावुक्तम्।
प्रभविष्णु = त्रि० प्र + भू–शीलार्थे इष्णुच्। १ प्रभावशीले २ विष्णौ पु० भा० अनु० ७१ अ०।
प्रभा = स्त्री प्र + भा–भावे अङ्। १ दीप्तौ राजनि०। प्र + भा–क। २ प्रदीप्तियुते त्रि० ३ कुवेरपूर्य्यां स्त्री हेमच०। ४ दुर्गायां स्त्री “प्रभा प्रभानशीलत्वात् ज्योत्स्ना चन्द्रार्कमालिनी” देवीपु० तन्नामनिरुक्तौ। ५ सूर्य्यपत्नीभेदे “विवस्वान् कश्यपात् पूर्वमदित्यामभवत् पुरा। तस्य पत्नीत्रय तद्वत् संज्ञा राज्ञी प्रभा तथा। रेवतस्य सुता राज्ञी रेवन्तं सुषुवे सुतम्। प्रभा प्रभावं सुषुवे त्वाष्ट्री संज्ञा तथा मनुम्” मत्स्यपु० ११ अ०। ६ स्वर्भानोः कन्याभेदे नहुषमातरि हरिवं० ३ अ०। ७ अप्सरोभेदे भा० अनु० १४२५ श्लो० ८ गोपीभेदे “दृष्टस्त्वं प्रभया गोप्या युक्तो वृन्दावने वने। प्रभा देहं परित्यज्य जगाम सूर्य्यमण्डलम्” ब्रह्मबै० प्र० ख० ९ अ०।
प्रभाकर = पु० प्रभां करोति कृ–ट।। १ सूर्य्ये २ वह्नौ ३ चन्द्रे ४ समुद्रे च शब्दर०। ५ अर्कवृक्षे अमरः। ६ मीमांसकभेदे स च गुरुत्वेन प्रसिद्धः। अत्रिवंश्ये ७ मुनिभेदे हरिवं० ३१ अ०। ८ कुशद्वीपस्थे वर्षभेदे भा० भी० १२ अ०। अष्टममन्वन्तरे ९ देवगणभेदे मार्क० पु० ८० अ०।
प्रभाकीट = पु० प्रभान्वितः कीटः शा० त०। खद्द्योते राजनि०।
प्रभाञ्जन = पु० शोमाञ्जने त्रिका०।
प्रभात = न० प्र + भा–भावे क्त प्रकृष्टं मातमत्र वा। १ प्रातःकाले अमरः। प्र + भा कर्त्तरि० क्त। २ प्रभायुक्ते त्रि० ३ वसुभेदे पु०। प्रभास इत्यत्र प्रभात इति मिता० पाठः। धरशब्दे ३८४७ पृ० दृश्यम्। प्रभातकाले दृश्या उक्ता राजवल्लभेन “वैद्यः पुरोहितो मन्त्री दैवज्ञीऽथ चतुर्थकः। प्रभातकाले द्रष्टव्यो नित्यं स्वश्रियमिच्छता” छन्दोगपरि० तत्र दृश्यादृश्यानाह यथा “श्रोत्रियं सुभगामग्निं गाञ्चैवाग्निचितन्तथा। प्रातरुत्थाय यः पश्येदापद्भ्यः स विमुच्यते। पापिष्ठं दुर्भगां मद्यं नग्नमुत्कृत्तनासिकम्। प्रातरुत्थाय यः पश्येत्तत् कलेरुपलक्षणम्”। प्रभातकाले स्मरणीयाः काशीखण्डे ३५ अ० दर्शिता यथा “स्वहितं चिन्तयेत् प्राज्ञस्तस्मिंश्चोत्थाय सर्वदा। नजास्यं संस्मरेदादौ तत ईशं सहाम्बया। श्रीकान्तं श्रीसमेतं तु ब्रह्माण्या कमलोद्भवम्। इन्द्रादीन् सकलान्देवान् वशिष्ठादीन् मुनीनपि। गङ्गाद्या सरितः सर्वाः श्रीशैलाद्याखिलान् गिरीन्। क्षीरोदादीन् समुद्रांश्च मानसादिसरांसि च। वनानि नन्दनादीनि धेनूः कामदुघादिकाः। कल्पवृक्षादिवृक्षांश्च धातून् काञ्चनमुख्यतः। दिव्यस्त्रीरुवंशीमुख्या गरुडादीन् पतत्त्रिणः। नागांश्च शेषप्रमुखान् गजानैरावतादिकान्। अश्वानुच्चैःश्रवो मुख्यान् कौस्तुभादीन् मणीन् शुभान्। स्मरेदरुन्धती मुख्याः पतिव्रतवतीर्बधूः। नैमिषादीन्यरण्यानि पुरीः काशीपुरीमुखाः। विश्वेशादीनि लिङ्गानि वेदानृक्प्रमुखानपि। गायत्रीपमुखान् मन्त्रान् योगिनः सनकादिकान्। प्रणयादिमहाबीजं नारदादींश्च वैष्णवान्। शिवभक्तांश्च वाणादीन् प्रह्लादादीन् दृढव्रतान्। वदान्यांश्च दधीच्यादीन् हरिश्चन्द्रादिभूपतीन्। जननी चरणौ स्मृत्वा सर्वतीर्थात्तमोत्तमौ। पितरं च गुरुञ्चापि हृदि ध्यत्वा प्रसन्नधीः। ततश्चावश्यकं कर्तुं नैरृतं दिशमाश्रयेत्”। “प्रभातायां तु शर्वर्य्याम्” भार० नानास्थाने।
प्रभातीर्थ = तीर्थभेदे शिवपु०।
प्रभातीर = पु० नागभेदे भा० आ० ३५ अ०।
प्रभाव = पु० प्र + भू–घञ्। राज्ञां काषदण्डजाते १ तेजसि अमरः २ तजसि ३ सामर्य्य हेमच० ४ विक्रमे ५ शान्तौ ६ उद्भवे च मेदि०। ७ स्वारोचिषमनोः पुत्रभेदे मार्क० पु० ६६ अ०। ८ वसुभेदे प्रभास इत्यत्र पाठान्तरम् ९ प्रभागर्भजाते सूर्य्यपुत्रभेदे प्रभाशब्दे दृश्यम्।
प्रभावज = न० प्रभावात् जायते जन–ड। प्रमुशक्तिभेदे कोषदण्डाभ्यां साध्ये तेजसि।
प्रभावत् = त्रि० प्रभा + अस्त्यर्थे मतुप मस्य वः। १ दीप्तियुक्ते स्त्रियां ङीप्। सा च वज्रनाभासुरस्य २ कन्याभेदे। प्रद्युम्नेन तस्याहरणकथा च हरिवं० १५२ अध्यायादौ दृश्या। ३ तापसीभेद भा० व० २८४ अ०। ४ कुमारानुचरमातृभेदे भा० श० ४७ अ०। ५ अङ्गेश्वरस्य चित्तरथस्य भार्य्यायाम् भा० अनु० ४२ अ०। ६ मरुत्तनृपस्य पत्न्यां विदर्भराजदुहितरि मार्क० १३२३ अ०। ७ मणिनामकोनविंशवृत्तार्हन्मातरि ८ गणानां वीणायाञ्च स्त्री हेमच०। ९ त्रयोदशाक्षरपादके छन्दोभेदे “यस्यां प्रिये प्रथमकमक्षरद्वयं तुर्य्यन्तथा गुरु- नवमं दशान्तिमम्। सान्त्यं मवेद्यतिरपि चेद्युगग्रहैः सा लक्षितामृतरुचिरे! ब्रभावती” इति श्रुतबोधः।
प्रभाष = पु० प्र + भाष–अच्। १ अष्टवसुमध्ये वसुभेदे २ प्रकृष्टकथके त्रि० जटा०। घरशब्दे ३८१ ७ पृ० दृश्यम्। तत्र षान्तत्वेन पाष्ठः जष्टाधरसम्मतः।
प्रभास = त्रि० प्रभासते प्र + भास–अच्। १ प्रकृष्टदीप्तियुते २ जैननणाधिपभेदे पु० हेमच०। ३ कुमारानुचरगणभेदे पु० भा० श० ४६ अ०। ४ ऋषिभेदे पु० भा० शा० १६६ अ०। ५ वसुभेदे पु० हरिवं० ३ अ० सान्ततंया पाष्ठः। अष्टममन्वन्तरे ६ देवगणभेदे पु० मार्क० पु० ८० अ०। ७ सोमतीर्थभेदे त्रिका० “पुण्यं प्रभासं समुपाजगाम यत्रोडुराट् यक्ष्मणा क्लिश्यमानः” इत्युपक्रमे एवं तु तीर्थप्रवरं पृथिव्यां प्रभासनात्तस्य तु सः प्रभासः” इत्यादिना तत्तीर्थोत्पत्तिमाहात्म्यादिकथा भा० श० ३६ अ० आदौ दृश्या।
प्रभासन्त = पु० प्र + भास–बा० झ। १ परमेश्वरे २ रुद्रे च हरिवं० १३१ अ०।
प्रभिन्न = त्रि० प्र + भिद–क्त। १ प्रकृष्टभेदयुक्ते प्रभिन्नकटादिस्थलत्वात् क्षरन्मदे २ गजे पु० अमरः।
प्रभु = त्रि० प्र + भू–डु। १ स्वामिनि २ कार्य्यसम्पादशक्तियुते “निग्रहानुग्रहे शक्तः प्रभुरित्यभिधीयते” इत्युक्ते ३ निग्रहानुग्रहसमर्थे ४ विष्णौ पु० “प्रभवः प्रभुरीश्वरः” विष्णुसं० “कामः कामप्रदः प्रभुः” तत्रैव नामान्तरं तत्र प्रक र्षेण भवनात् प्रभुरितिति भाष्योक्तेः “सर्वासु क्रियासु सामर्थ्यातिशयात् प्रभुः” भाष्योक्तेश्च व्युत्पत्तिभेदात् नामद्वयम्। ५ अष्टमन्वन्तरे देवगणभेदे मार्क० पु० ८० अ०।
प्रभुत्वाक्षेप = पु० अर्थालङ्कारभेदे “धनञ्च बहु लभ्यं ते सुखं क्षेमञ्च वर्त्मनि। न च मे प्राणसन्देहस्तथापि प्रिय! मा स्म गाः। इत्याचक्षाणया हेतून् प्रिवयात्रानुबन्धिनः। प्रमुत्वेनैव रुद्धस्तत् प्रभुत्वाक्षेप उच्यते”। “हे प्रिय! ते विदेशगमने इति अध्याहार्य्यं बहुधनं सुखञ्च तथा बर्त्मनि पथि क्षेमं कुशलञ्च लभ्यम्। अत्र च मे प्राणसन्देहः न तव शीघ्रंप्रत्यागमनस्य बहुधनलाभस्य च सम्भवादिति भावः। तथापि मास्म गाः मा गच्छ अत्र “प्रिययात्रायाः प्रियस्य विदेशगमनस्य अनुबन्धिनः पोषकान् हेतून् आचक्षणया कीर्त्तयन्त्या कयाचित् स्वाधीन पतिकयेति शेषः प्रभुत्वेन स्वाधीनतया एव पतिः रुद्धः विदेशगमनात् निवर्त्तितः तस्मात् एषः पुभुत्वाक्षेप उच्यते” प्रेम० टीका।
प्रभुभक्त = त्रि० ७ त०। १ स्वाम्बनुरक्ते। “बह्राशी स्वल्पसन्तुष्टः सुनिद्रः शीघ्रचेतनः। प्रभुभक्तश्च शूरश्च ज्ञातव्याः षड्गुणाः शुनः” चाणक्यः। कुलीने उत्तमे २ धोटके पु० शब्द च०।
प्रभूत = त्रि० प्र + भू–क्त। १ प्रचुरे अमरः २ उद्गते मेदि० ३ भूते ४ उन्नते च शब्दर०। ततः गोषदा० अस्त्यर्थे वुन्। प्रभूतक प्रचुरबलादियुक्ते त्रि० प्रभूतमाह “आहौ प्रभूतमादिभ्यः” वार्त्ति० ठक्। घ्राभूतिक प्रचुरवक्तरि त्रि०। द्वितीयान्तात् प्रभूतशब्दात् आहौ परे धातुनिर्देशे इक् ठक्। एवम् आदिपदात् पर्य्यप्तमाह पार्य्याप्तिक तद्वक्तरि त्रि०।
प्रभूति = स्त्री प्र + भू–भावे क्तिन् नित्तकारादिप्रत्यये परे पस्य गतेः प्रकृतिस्वरः। प्रकर्षेण भवने।
प्रभूवन् = त्रि० प्र + भू–क्वनिप्। सामर्थ्ययुते स्त्रियां ङीप् “वनीर च” पा० नस्य रः। प्रभूवरी यजु० २३। ३३
प्रभूष्णु = त्रि० प्र + भू–गस्नु। १ प्रभावशीले २ क्षमे समर्थे
प्रभृति = अव्य० प्र + भृ–क्तिच्। तदारभ्येत्यर्थे। वहु० समासे उत्तरपदस्थः। तदादिके त्रि० अमरः।
प्रभृथ = त्रि० प्र + भृ–बा० थक्। प्रकृष्टभरणे ऋ० १। १५२। १२
प्रभेद = पु० प्रभिद्यतेऽनेन प्र + भिद–घञ्। १ प्रकारे विशेषे। भावे घञ्। २ भेदे अमरः।
प्रभेश्वर = पु० तीर्थभेदे शिवपु०।
प्रभ्रंशथु = पु० “प्रभ्रश्यते नासिकयैव यश्च सान्द्रो विदग्धो लबणः कफस्तु। प्राक्सञ्चितो मूध्नि च पित्ततप्तं प्रभ्रंशथुं व्याधिमुदाहरन्ति” सुश्रुतोक्ते नासागतरोगभेदे।
प्रभ्रष्ट = त्रि० प्र + भ्रन्श–क्त। भ्रंशयुक्ते संज्ञायां कन्। शिखावलम्बिमाल्ये चूडातोलम्बमानमाल्ये अमरः।
प्रमगन्द = पु० द्वेगुण्यादिलक्षणवृद्धियुतोर्थो मामेव गमिष्यतीति बुद्ध्या परेषामर्थं ददातीति मगन्दो बार्द्धुषिकः निरु० प्रगतो मगन्दं कारणतया अत्या० स०। बार्द्धुषिकपुत्रे ऋ० ३। ५३। १४ भा०।
प्रमण(न)स् = त्रि० प्रकृष्टं मनोऽस्य संज्ञात्वे णत्वम् अन्यत्राणत्वम्। १ हर्षयुते अमाः०। २ सुमनर्स्क च।
प्रमति = पु० प्रतीचीश्वरसुनयनृपस्य पुरोहिंते कश्यपवंश्ये १ ऋषिभेदे मार्क० पु० ११८ अ०। २ च्यबनर्षेः पुत्रभेदे भा० आ० ५ अ०। गृद्समदर्षिवंश्ये वागिन्द्रर्षेः ३ पुत्रे ऋषिभेदे भा० अनु० ३० अ०। नृगस्य पुत्रे ४ नृपभेदे। तद्वंश्ये वत्सप्रीतेः ५ पुत्रे नृपभेदे भाग० ९। २। १६। ६ प्रकृष्टमतियुक्ते त्रि०।
प्रमत्त = त्रि० प्र + मद–क्त। १ अनवधानतायुक्ते प्रमादयुक्ते कर्त्तव्येऽकर्त्तव्यताज्ञानेन अकर्त्तव्ये वा कर्त्तव्यताधिया तत्रावधानशून्ये “मत्तं प्रमत्तसुन्मत्तं सुप्तं बालं स्त्रिशं जडम्। प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्मवित्” भाग० १। ७ अ० “मत्तं मद्यादिना, प्रमत्तमनवहितम्” उन्मत्तं ग्रहवातादिना जडम् अनुद्यमम्। प्रपन्नं शरणागतम्, विरर्थ भानरथम्” श्रीधरस्वामी। “सुप्तां मत्तां प्रमत्तां वा रही यत्रोपगच्छति” मनुः। “सन्ध्या पूजाविहीनश्च प्रमत्तः परिकीर्त्तितः” ब्रह्मव० पु० ७ अ० उक्ते २ सन्ध्यादिहीने च।
प्रमत्तगीत = न० प्रमत्तेन गीतम् तत्र “इत्थम्भूतेन कृतमिति च” पा० क्तान्तमुत्तरपदमन्तोदात्तम्। प्रमत्तेनं गीते।
प्रमथ = पु० प्रमथ्नाति प्र + मथ–अच्। १ धृतराष्ट्रपुत्रभेदे भा० आ० ११७ अ०। २ घोटके ३ शिवपारिषदभेदे च शब्दरत्ना० तत्स्वरूपसंख्यादि यथा
“नानारूपधरा ये वै जटाचन्द्रार्द्धमण्डिताः। ते सर्वेसकलैश्वर्य्ययुक्ता ध्यानपरायणाः। योगिनो मदमात्सर्य्य दम्भाहङ्कारवर्जिताः। क्षीणपापा महाभागाः शम्भोः प्रीतिकराः पराः। न ते परिग्रहं रागं काङ्क्षन्ति स्म कदाचन। संसारविमुखाः सर्बे यतयो यीगतत्पराः। ध्यानावस्थं महादेवं परिवार्य्य धृतव्रताः। कृत्वा परि षदं रुच्या तिष्ठन्ति विगतक्लमाः। यदैव परमं ज्योतिः चिन्तयत्यम्बिकावतिः। तदैव ते पारिषदाः सर्वे सवेष्टयन्ति तम्। ते षोडश समाख्याताः कोटयोवै धृतघ्रताः। सिंहव्याघ्रादिसारूव्या अणिमादिसमायुताः। अपरे कामिनः शम्भोः सुनर्म्मसचिवाः स्मृताः। विचित्ररूपाभरणा जटाचन्द्रार्द्धमण्डिताः। हरस्य तुल्याः रूपेण विशदा वृषभघ्वजाः। उमासदृशरूपाभिः प्रमदाभिः समागताः। विचित्रमाल्याभरणा दिव्यस्रग्गन्ध भूषणाः। उमाहहायं क्रीडन्तमनुगच्छन्ति भूतिताः। शृङारवेशाभरला अष्टौ ते कोटयो नणाः। अद्धैमारीश्वराश्चान्ये ह्यर्द्धनारोश्वरं हरम्। अनुयान्ति महाभागास्तुल्यरूपा हरस्य ये। उमासहायो हि यदा रनते स्म सुण हरः। अर्द्धनारीशरीरास्तु द्वारपाला भवन्ति ते। आकाशमार्शे गच्छन्तमनुगच्छन्ति नित्यशः। ध्यानस्थं परिचर्य्यन्ति सलिलादिभिरीश्चरम। नानाशस्त्रधराः शम्भीर्गणास्तु प्रमथाः स्मृताः। प्रमथ्नन्ति च युद्धेषु युध्यमानान्महाबलानः ते वे स हावलाः शूराः संख्याता बसुलोटयः। श्वरे ब्रामनास्तालकदङ्गपणपावाभिः। मृस्यन्ति वाद्यं कुर्वन्तो मावन्ति सत्तुरस्यरम्। नानारूपधरास्ते वै संख्यया कोटयस्त्रिकाः। सततं चा- नुनच्छन्ति विचरन्तं महेश्चरम्। सर्वे नायाविनः शूराः सर्वे शास्तार्थपारगाः। सर्वे सर्बत्र सर्वज्ञाः सर्वे सर्वत्रगाः सदा। मुहूर्त्तात् सर्वभुवनं मत्वाऽऽयान्ति पुनःपुनः। अणिमाद्यष्टकैश्वर्व्ययुक्तास्तेवै महावसाः। अपरे रुद्रनामानो जटाचन्द्रार्द्धमखिताः। देवेन्द्रस्व नियोगेन वर्त्तन्ते त्रिदिवे सदा। तेषां संख्या चैककोटिस्ते सर्वे बलवत्तमाः। कुर्वन्ति हि सदा सेवां हरस्य सततं गणाः। विध्वं सयन्ति पापिष्ठान् धर्मिष्ठान् पालयन्ति च। अनुगृह्णन्ति सततं धृतपाशुपतव्रतान्। बिघ्नांश्च सततं हन्ति योगिन वयतात्मनाम्। षटत्रिंशत् कोटयश्चैते हरस्य सकला गणाः” कालिका पु० २९ अ०। तेषामुत्पत्ति कथा तत्रैवाध्याये दृश्या। ४ हरीतक्यां स्त्री मेदि०।
प्रमथन = न० प्र + मथ–भावे ल्युट्। १ यधे २ क्लेशने ३ पिलोडने च अमरः।
प्रमथाधिप = पु० ६ त०। शिवे अमरः प्रमथपत्यादयोऽप्यत्र।
प्रमथित = न० प्रकर्षेण मथितम्। १ निर्जलतक्रे राजनि०। २ प्रकर्षेण मधिते त्रि०।
प्रमद = पु० प्र + मद–अप्। १ हर्ष अमरः। प्रमाद्यत्यनेन करणे अप्। २ धुस्तूरफले न० शब्दच०। कर्त्तरि अच्। ३ प्रमत्ते त्रि० मेदि०। ४ दैत्यभेदे पु० हरिवं० ३ अ०। तृतीयमन्वन्तरे वासिष्ठे ५ सप्तर्षिभेदे पु०।
प्रमदक = पु० “प्रमदको योऽयमेव लोकोऽस्ति न परः” इति प्रप्सुरिति निरु० ६। ३२ उक्ते परलोकासत्त्ववादिनि नास्तिकभेदे।
प्रमदकानन = न० प्रमद्यतेऽनेन प्र + मद–करणे घञ्। प्रा० स०। ६ त० “ङ्यापोः संज्ञाच्छन्दमो” पा० ह्रुस्तो वा। प्रमदावने राज्ञामन्तःपुरोचिते उद्याने भरतः प्रमदावनादयोऽप्यत्र अमरः।
प्रमदा = स्त्री प्रमाद्यत्यनया प्र + मद–करणे अप्। १ उत्तमयोषिति अमरः। “नजसजला गुरुश्च भवति प्रमदा” वृ० र० उक्ते एकादशाक्षरपादके २ वर्णवृत्तभेदे।
प्रमदाकानन = न० प्रमदोचित काननं वन शा० त०। १ राज्ञामन्तःपुराचतवने भरत। २ प्रमदावन तत्रार्थे शब्दरत्ना०
प्रमद्वरा = स्त्री शुमकर्षिमातरि रुरोर्मार्य्ययां भा० आ० ५ अ०।
प्रमन्थु = पु० प्रिथव्रतवंश्ये वीरव्रतस्य भोजायां भार्य्यायां जाते पुत्रे नृपभेदे भाग० ५। १५। १५
प्रमय = पु० प + मी–वधे–भावे अच्। वधे हेमच०।
प्रमयु = त्रि० प्र + मी–वये सर्त्तरि उन। हिंसके अष० ८। १। १६।
प्रमर्दन = त्रि० प्रमृद्गाति + प्र + मृद–ल्यु। १ प्रकर्षेस्व मर्दके २ दैत्यभेदे पु० हरिवं० १६४ अ०। ३ विष्णौ पु० “लोहिताङ्गः प्रवर्दनः” विष्णुसं०। तत्र प्रतर्दन इति पाठान्तरं तत्रार्थे “प्रलये सर्वभूतानां नाशकत्वात्” भाष्योक्तेस्तस्य तथात्वम्। “तुषित! महातुषित! प्रमर्दन” भा० शा० ३४ अ० विष्णुस्तुतौ।
***