प्रतियत्न = पु० प्रति+यत–नञ्। १ वाञ्छायाम् २ उपग्रहे ३ निग्रहादौ ४ वन्द्याम अमरटीकायां भरतमुकुटादयः। सतो गुणान्तराधानरूपे ५ संस्कारे मेदि० ६ ग्रहणे ७ प्रतिग्रहे च त्रिका०। प्रतिरूपो यत्नो यस्य घाब०। ८ प्रतियत्नयुक्ते त्रि०। ९ रचनायां जटाधरः।

प्रतियातना = स्त्री प्रति + यात्यतेऽनया चु० यत–युच्। १ प्रतिमायाम् प्रा० स०। २ तुल्यरूपयातनायाम् अमरः।

प्रतियायिन् = त्रि० प्रति + या–भविष्यति गम्या० णिनि। भावियानयुते भा० उ० ५७७१ श्लो०।

प्रतियोग = पु० प्रति + युज–भावे घञ्। १ विरोधे २ विरुद्धसम्वन्धे च।

प्रतियोगिन् = त्रि० प्रतिरूपं युज्यते प्रति + यूज–थनुण्। १ प्रातकूलमम्बन्धाति। यथा अभावस्य प्रतिकूलसम्बन्धवत्त्वात् घटादिस्तस्य प्रतियोगी। २ विरुद्धपक्षे विशिष्टबुद्धिनियामकसंसर्गस्य ३ सम्बन्धिभेदे यथा संयोगेन घटवद् भूतलमित्यादौ संयोगस्य घटः प्रतियोगी भूतलमनुयोगि। चन्द्रतुल्यमुखमित्यादौ सादृश्यस्य चन्द्रः प्रतियोगी मुखमनुयोगि। तत्र विशिष्टबुद्धौ प्रकारतया भासमानं संसर्गस्य प्रतियोगि विशेष्यतया भासमानं संसर्गस्यानुयोगीति भेदः। तस्य भावः त्व प्रतियोगित्व न० तल् प्रतियोगिता स्त्री तद्भावे। सा च “अभावविरहात्मत्वं वस्तुनः प्रतियोगिता” इत्याचार्योक्ता। स्वरूपसम्बन्धविशेषरूपा दीधितिकारः। यथा घटो नास्तीत्यादौ घटेऽभावप्रतियोगिता। यथा वा घटवद्भूतलमित्यादौ घटे भूतलानुयोगिकसंयोगसम्बन्धप्रतियोगिता। अखण्डोपाधिर्धर्मविशेष इति सम्प्रदायः। वित्तिवेद्यत्वसित्यन्ये यथा चन्द्रवन्मुखमित्यादौ चन्द्रस्य सादृश्यप्रतियोगित्वम्। अन्वयित्वमित्यपरे। यथा चैत्रस्य पुत्र इत्यादौ षष्ट्यन्तार्थस्य चैत्रे प्रतियोगिंत्वम्। घटाभावादिबुद्धेर्वैशिष्टवैशिष्ठ्यावगाहिबुद्धितया अभावबुद्धिः विशेष्यविशेषणसंसर्गावगाहिनी विशिष्टबुद्धित्वात् संयोगेन घटवद्भूतलमित्यादिबुद्धिवत् इत्यनुमानेन अभावे घटादिविशिष्टबुद्धौ सम्बन्धतया अतिरिक्तप्रतियोमितासिद्धिरिति नव्यनैयायकाः। श्रीहर्ष खण्डनादौ तस्य स्वरूपसम्बन्धविशेषरूपत्वेन प्रतियोगिस्वरूपत्वमनुयोगिस्वरूपत्वं वा स्वीकार्य्यं तेनैवोपपत्तौ नातिरिक्तपदार्थकल्पनेति स्थितम् विस्तरभयान्नोक्तम्।

प्रतियोगितावच्छेदक = त्रि० ६ त०। येन रूपेण यस्या भावादौ प्रतियोगिता १ तादृशे धर्मे यथा घटाभावे घटस्य घटत्वरूपेण प्रतियोगिता अतस्तत्र घटत्वं प्रतियोगितावच्छेदकं तच्च क्वचित् एकं क्वचिदनेकं तत्र वह्निर्नास्तीत्यत्र वह्नित्वमेकं महानसीयवह्निर्नास्तीत्यादौ महानसीयत्वं वह्नित्वञ्चेत्यादिकमनेकमित्याकरे दृश्यम्। येन सम्बन्धेन प्रतियोगितायाः अभावांशे भानं २ तादृशसम्बन्धे च यथा संयोगेन घटो नास्तीत्यादौ संयोगेन घटस्याभावांशे प्रतियोगिताभानं तत्र संयोगसम्बन्धः प्रतियोगितावच्छेदकसम्बन्ध एवमन्यत्राप्यूह्यम्।

प्रतिर = जठरे चिरकालावस्थाने ऋ० ८। ४८। १०।

प्रतिरथ = पु० प्रतिकूलो रथो यस्य प्रा० ब०। १ प्रतियोधे अनाधृष्यवंश्ये तंसुभ्रातरि नृपभेदे हरिवं० ३२ अ०। यदु- वंश्ये ३ वज्राश्वपुत्रे हरिवं० १६२ अ०। अव्ययी०। ३ प्रत्ये करथे अव्य०।

प्रतिरम्भ = पु० प्रतिलम्भ + लस्य रः। प्रतिलम्भे द्विरूषकोषः।

प्रतिरव = पु० प्रतिरुवन्ति प्रति + रु–कर्त्तरि अच्। १ प्राणेषु यजु० ३८। १५ “प्राणा वै प्रतिरवाः” शत० ब्रा० १४। २। २। ३४ भावे अप् प्रतिकूली रवः प्रा० स०। २ प्रतिकूलशब्दे मदीयं धनं न मोक्तव्यमनेन मदीयं धनं बलाद्भुज्यते इत्यादि लोकेषु उद्ध्वोषणं प्रतिरवः।

प्रतिरूप = न० प्रतिकृतं रूपम् प्रा० स०। १ तुल्यरूपे प्रतिमायाम् त्रिका०। २ दानवभेदे पु० भा० शा० २८७ अ०। ३ मेरुसावर्णेर्दुहितृभेदे स्त्री भाग० ५। २। २३ प्रतिकृतं रूपं येन प्रा० व०। ४ तुल्यरूपयुते त्रि० “रूपं रूपं प्रतिरूपो बभूव” श्रुतिः

प्रतिरूपक = न० प्रतिकृतं रूपं विम्बस्य येन प्रा० ब० कप्। प्रतिबिम्बे जटा०।

प्रतिरोध = पु० प्रति + रुध–भावे घञ्। १ निरोधे। स्वार्थे क। २ प्रतिबन्धे ३ तिरस्कारे भरतः। कर्त्तरि अच्। ४ प्रकृत साध्यानुमितिनिरोधके सत्पक्षदोषदुष्टे हेतौ “पक्षसाध्यसाधनाप्रसिद्धिस्वरूपासिद्धिबाधप्रतिरोधानां निरासः” दीधिति०। भावे घञ्। ५ हठचौर्य्ये।

प्रतिरोधक = पु० प्रति + रुध–ण्वुल्। १ प्रतिबन्धके (डाकायित) २ हठचौरे हेमच०। तस्य रोधनेन स्तेयकर्तृत्वात् तथात्वम्।

प्रतिरोधिन् = त्रि० प्रति + रुध–णिनि। १ प्रतिबन्धके २ प्रतिरुध्य हठहारिणि चौरे अमरः।

प्रतिलम्भ = पु० प्रति + लभ–अप् मुस्। लाभे “कथमदः प्रति–लम्भ” नैष०।

प्रतिलोम = त्रि० प्रतिगतं लोम आनुकूल्यमस्मात् प्रा० ब० अच् समा०। वामे विपरीते हेमच०।

प्रतिलोमज = पुंस्त्री० प्रतिलोमात् जातः जन–ड। उत्तमवर्णस्त्रियाम् अधमवर्णात् जाते सङ्कीर्णवर्णे ते च मनुनोक्ता १०। २५ षट्। तथा याज्ञ० “ब्राह्मण्यां क्षत्त्रियात् सूतो १ वैश्याद्वैदेहक २ स्तथा। शूद्राज्जातस्तु चण्डालः २ सर्वधर्मबहिष्कृतः। क्षत्त्रिया मागधं ४ वैश्याच्छूद्रात् क्षत्तार ५ गेव तु। शूद्रादायोगवं ६ वैश्या जनयामास वै सुतम्”। विष्णुना नामान्तरं वृत्तिश्चैषामुक्ता यथा “तत्र वैश्यापुत्रः शूद्रेणायोगवः १। पुक्वसमागधौ २। ३ क्षत्रियापुत्रौ वैश्यशूद्राभ्याम्। चाण्डालवैदेहकसूताश्च ४। ५। ६ व्राह्मणीपुत्राः शूद्रविट्क्षत्रियैः सङ्करसङ्कराश्चासंख्येयाः। रङ्गावतरणमायोगवानाम्। व्याधता पुक्वसानाम्। स्तुतिक्रिया मागधानाम्। बध्यथातित्वं चाण्डालानाम्। स्त्रीरक्षा तज्जीवनञ्च वैदेहकानाम् अश्वसारय्यं सूतानाम्। चाण्डालानां बहिर्ग्रामनिवसनं मृतचेलधारणमिति विशेषः”। कर्त्तरि क्त। प्रतिलोमजातोऽप्यत्र।

प्रतिवचन = न० प्रतिरूपं वचनम् प्रा० स०। १ प्रतिवाक्ये २ उत्तरे ३ विरुद्धवाक्ये च त्रिका०। प्रतिकथादयोऽप्यत्र स्त्री।

प्रतिवसथ = पु० प्रति + बस–आधारे अथ। ग्रामे संवसथे हेमच०।

प्रतिवस्तु = न० प्रतिरूपम् वस्तु प्रा० स०। तुल्यरूपे वस्तुनि।

प्रतिवस्तूपमा = स्त्री अर्थालङ्कारभेदे अलङ्कारशब्दे ४०० दृश्यम्

प्रतिवात = त्रि० प्रतिगतो वातो यतः प्रा० ब०। यस्मात् प्रदेशात् वायुः आगच्छति तस्मिन् देशे “प्रतिबातेऽनुवाते च” मनुः। अव्ययी०। २ वाताभिमुख्ये अव्य०।

प्रतिवाद = पु० प्रति + वद–भावे घञ्। वादिप्रयुक्तन्यायविरुद्धन्यायवाक्याप्रयोगे प्रतिवादिन्शब्दे दृश्यम्।

प्रतिवादिन् = त्रि० प्रतिकूलं वदति वद–णिनि। १ वादिप्रयुक्तन्यायवाक्यविरुद्धवाक्यवादिनि यथा पर्बतो वह्निमान् भूमादित्यादौ साध्यसिद्धये वादिना प्रयुक्ते येन पर्वतो न वह्निमान् पाषाणमयत्वात् इत्यादि वाक्यं प्रयुज्यते तस्मिन्। व्यवहारे २ प्रत्यर्थिनि(आसामी) “कारणे प्रतिवादिनि” याज्ञ०।

प्रतिवारण = त्रि० प्रति + वारि–कर्त्तरि ल्यु। १ निवारके २ दैत्यभेदे पु० भाग० ५। १८। ३९ भावे ल्युठ्। ३ निवारणे न

प्रतिवार्त्ता = स्त्री प्रा० स०। प्रत्युत्तरस्थानीये वृत्तान्तभेदे

प्रतिवासिन् = त्रि० प्रत्यासन्नं वसति प्रति + वस–णिनि। (पडसि) गृहासन्नवासिनि स्त्रियां ङीप्।

प्रतिवाह = पु० शफल्कपुत्रभेदे अक्रूरानुजे हरिवं० ३२ अ०।

प्रतिविधान = न० प्रति + वि + धा–ल्युट्। १ प्रतिकारे २ प्रकृतस्योपपादनाद्यर्थमुपायावलम्बने च।

प्रतिविन्ध्य = पु० १ युधिष्ठिरस्य पुत्रे २ क्षत्रियभेदे च भा० आ० ६३ अ०।

प्रतिविम्ब = प्रति + आचारे क्विप् नामधातुः पर० अक० सेट्। प्रतिविम्बति अप्रतिविम्बीत्। प्रत्यविन्मीत् इत्यपरे।

प्रतिविम्ब = पु० न० वी + गतौ उल्वा० नि० बन् नुट्न विम्बं प्रतिरूपं विम्बम् प्रा० स०। विम्बानुरूपे प्रातच्छायायुक्ते प दार्थे। तस्य विम्बः द्भेदोऽभेदो वेतिसंशये विवरणप्रमेयसं० निरणायि यथा “ननु जीवस्याहङ्कारस्थप्रातविम्बत्वे विम्बाद्धेदः स्यात् दर्पणगतमुखप्रतिबिम्मवत् तत्र हि ग्रीवास्वदर्णस्थयो र्मुखयोरन्योन्याभिमुखत्वे न भेदोऽनुभूयते, मैवं मदीयमिदं मु खमित्यैक्यप्रत्यभिज्ञया भेदानुभवस्य बाधात्। न च प्रत्यभिज्ञैवेतरेण बाध्येति वाच्यं सति भेदे प्रतिबिम्बासम्भवात् किं प्रतिबिम्बीनाम मुखलाञ्छितमुद्रा? उत दर्पणावयवा एव विम्बस्य सन्निधिवशात्तथा परिणमन्ते? नाद्यः दर्पणस्थमुखस्येतरस्मादल्पत्वात् यत्र तु प्रौढदर्पणे प्रोढं मुखसुपलभ्यते तत्रापि तस्य न मुद्रात्वम् दर्पणमुखयोः संयोगाभावात्। न द्वितीयः निमित्तकारणस्य विम्बस्यापायेऽपि तस्यावस्थानप्रसङ्गात् न हि तथाऽवतिष्ठते। तेनैव पुरुषेण दर्पणे तिर्य्यङ्निरीक्षिते पुरुषान्तरेण सम्यगवलोकिते वा तन्मुखानुपलम्भात्। न चैवं मन्तव्यं क्वचिन्निमित्तापाये कार्य्यामप्यपैति हस्तसंयीगजन्यस्य कटप्रसारणस्य हस्तसंयोगापायेऽपायदर्शनात्। न तत्र निमित्तापायात् कार्य्यापायः चिरकालसंवेष्टनाहितेन संस्कारेण संवेष्टनलक्षणविरुद्धकार्य्योत्पादात् अन्यथा चिरकालप्रसारणेन संबेष्टनसंस्कारे विनाशितेऽपि हस्तापाये प्रसारणमपेयात् न चैवमपैति। इह तु चिरकालबिम्बसन्निधावप्युत्पन्ने विम्बापाये प्रतिबिम्बोऽपि गच्छत्येवेति न विम्बः परिणामस्य निमित्तम्। अथ मन्यसे चिरकालस्थितोऽपि कम लविकाशः सवितृकिरणस्य निमित्तस्यापायेऽप्यपगच्छ तीति। तन्न तत्रापि प्राथमिकमुकुलत्वहेतुभिः पार्थिवैराप्यैश्च कमलावयवैः पुनरपि रात्रौ मुकुलत्वे विरुद्धकार्य्ये जनिते विकाशापायात् अन्यथा तादृशावयवरहिते म्लाने कमलेऽपि रात्रौ विकाशोऽपगच्छत्। आदर्शे तु मुखाकारपरिणते पुनः केन हेतुना समतलाकारपरिणामः स्यात् तदवयवानां कारुकर्मव्यतिरेकेणाकिञ्चित्करत्वात्। अतएव विम्बसन्निधिमात्रेण मादर्शावयवा मुखाकारेण परिणमेरन् अन्यथा दर्पणद्रव्ये प्रतिमामुखे कर्त्तव्ये सति लौकिका विम्बमेव सन्निधापयेयुः न तु कांस्यकारमंपेक्षरन्। दर्पणद्रव्यस्यान्याकारपरिणामे कारुकर्मापेक्षायामपि प्रतिबिम्बपरिणामे पुनःस्वरूपपरिणामे वा न तदपेक्षेति चेत् एवमपि न मुखप्रतिविम्बाकारपरिणामो युक्तिसहः चक्षुर्नासिकादिनिम्नोन्नतभागस्य स्पर्शेनानुपलम्भात् समातलमेव हि पाणिनास्पृश्यते। समतलेन व्यवहितं मुखमिति चेत् तर्हि चाक्षुषमपि न स्यात्। तत एतत् सिद्धं विमतः आदर्शोमुखव्यक्त्यन्तररहितस्तज्जन्मकारणशूम्यत्वात् यथा विषाण जन्मकारणशून्यं विषाणरहितं शशभस्तकमिति। ननु तर्हि शुक्तिरजतवन्मिथ्यात्वापत्तेर्न बिम्बैकत्वसिद्धिः प्रत्यभिज्ञा तु व्यभिचारिणी मिथ्यारजतेऽपि मदीयमिदं रजतमिति तद्दर्शनादिति चेत् विषमो दृष्टान्तः नेदं रजतमिति हि तत्र रजतस्वरूपबाधया रजताभिज्ञाया भ्रमत्वे तत्प्रत्यभिज्ञाया अपि भ्रमत्वमुचितम् अत्र न तथा नेदं मुखमिति स्वरूपबाधः किन्तु नात्र मुखमिति देशसम्बन्धमात्रबाधे सति उत्पन्ना मदीयमेव मुखमिति प्रत्यभिज्ञा कथं भ्रमः स्यात्। न च मुखावयवानामचाक्षुषत्वात् कथं प्रत्यभिज्ञानमिति वाच्यं नासाग्रादिकतिपयावयवदर्शनादपि घटादिवदयवविनश्चाक्षुषत्वोपपत्तेः। यः पुनर्दर्पणापगमे प्रतिबिम्बापगमः नासौ स्वरूपबाधः दर्पणेऽपि तत्प्रसङ्गात्। ननु तत्त्वमसिवाक्येन जीवरूपः प्रतिबिम्बो बाध्यते यथा स्थाणुरसौ न पुरुष इति वद्वाधायां सामानाधिकरण्यदर्शनात् संसार्य्यविनाशे च मोक्षानुपपत्तेः सोऽयं देवदत्त इति वदैक्यपरत्वेनापि सामानाधिकरण्यसम्भवात् विरुद्धांशबाधमात्रेण मोक्षोपपत्तेः कृत्स्नस्य जीवस्य बाधे मोक्षस्यापुरुषार्थत्वात्। यस्तु मन्यते प्रतिबिम्ब एव नास्ति दर्पणप्रतिफलिता नेत्ररश्मयः परावृत्य बिम्बमेव दर्पणादविविक्तं गृह्णतीति स्पष्टं प्रत्यङ्मुखत्वाद्यनुभवेनासौ निराकरणीयः। कथं तर्हि मूर्त्तद्रव्यस्य मुखस्यैकस्य भिन्नदेशद्वये युगपत् कात्स्न्येन वृत्तिः, दर्पणदेशवृत्तेर्मायाकृतत्वादिति ब्रूमः। न हि मायायामसम्भावनीयं नाम स्वशिरश्छेदादिकमपि स्वप्ने माया दर्शयति। नन्वेवमपि जलमध्येऽधीमुखस्य वृक्षप्रतिविम्बस्य तीरवृक्षेणैक्ये सति तीरस्थवृक्षोऽधिष्ठानं तत्र च मायया जलगतत्वमधोमुखत्वञ्चाध्यस्तमिति वक्तव्यं न चात्राध्यासहेतुरस्ति अधिष्ठानस्य साकल्येन प्रतीतेः तत्कयमसावध्यासः, उच्यते किमत्र वृक्षावरणाभावादध्यासाभावः? किं वा दोषाभावात्? उतोपदानामावात्? आहो स्विदध्यासविरोधिनोऽधिष्ठानतत्त्वज्ञानस्य सद्भावात्? नाद्यः चैतन्यावरणस्यैवाध्यासोपादानतया जडे पृथगावरणामुपयोगात्। एतेन तृतीयोऽपि निरस्तः। न द्वितीयः सोपाधिकभ्रमेषूपाधेरेव दोषत्वात्। न चतुर्थः निरुपाधिकभ्रमस्यैवाधिष्ठानतत्त्वज्ञानविरीधित्वात्। तर्हि सोपाधिकभ्रमस्य कर्तृत्वादेः नात्मतत्त्वज्ञानान्निवृत्तिः किन्तु अहङ्कारोपाध्यपगमादिति चेत् वाढं पारमार्थिकदर्पणाद्युपाध्रेस्तत्कृतभ्रसस्य च ज्ञानादनिवृत्तावप्यज्ञानज- न्योपाधेरहङ्कारस्य निरुपाधिकभ्रमरूपस्यात्मतत्त्वज्ञनान्नि वृत्तौ कर्तृत्वादेर्द्धानान्निवृत्तिरर्थात् सिध्यति। ननु कथं तत्त्वज्ञानं जीवोनाऽनात्मतादात्म्यं जानाति न विरुद्धात्मतामात्मनोऽवगन्तुमलं प्रतिबिम्बत्वात् दर्पणगतप्रतिबिम्बवदिति चेत् न अचेतनत्वस्योपाधित्वात्। यस्तु लोकायतः शरीरस्यैव चैतन्यं मन्यते तं प्रति दर्पणगत जाड्येन प्रतिरुद्धत्वात् प्रतिविम्बस्याचेतनत्वं सुसम्पादं चेतनत्वे तु विम्बचेष्टया विनापि स्वयं चेष्टेत जीवस्य तु प्रतिबिम्बत्वेऽपि नोपाधिजाड्येन प्रतिबन्ध इत्यनुभवसिद्धं, यद्यपि लोके बिम्बभूतस्यैव देवदत्तस्य भ्रमनिवर्त्त कतत्त्वज्ञानाश्रयत्वम् दृष्टम्। तथापि न तत्र विम्बत्वं प्रयोजकं किन्तु भ्रमाश्रयत्वं जीवश्च भ्रमाश्रयः अविद्यायाश्चिन्मात्राश्रयत्वेऽपि जीवपक्षपातित्वेन भ्रमोत्पादनात्। ननु ब्रह्म स्वस्य जीवैक्यं न जानाति चेत् असर्वज्ञं स्यात् जानाति चेत् जीवगतभ्रमं स्वगतत्वेन पश्येदिति चेत् न स्वमुखतत्प्रतिबिम्बयोरैक्यं जानतापि देवदत्तेन स्वमुखे प्रतिबिम्बगताल्पत्वमलिनत्वाद्य दर्शनात्। न च जीवस्य प्रतिविम्बत्वे मानाभावः श्रुतिस्मृतिसूत्रेभ्यस्तत्सिद्धेः “रूपं रूपं प्रतिरूपो बभूवेति” श्रुतिः “एकधा बहुधा चैव दृश्यते जलचन्द्रवत्” इति स्मृतिः। “अतएव चोपमा जलसूर्य्यकादिवदितिसूत्रम्। न चामूर्त्तस्य ब्रह्मणः प्रतिविम्बासम्भवः अमूर्त्तस्याप्याकाशस्य स्वाश्रिताभ्रनक्षत्रादिविशिष्टस्य जले प्रतिबिम्बभावदर्शनात्। जलान्तराकाश एवाभ्रादिप्रतिविम्बाधार इति चेत् न जानुमात्रेऽपि जले दूरविशालाकाशदर्शनात्। जीवो घटाकाशवदुपाध्यवच्छिन्ना न प्रतिविम्ब इति चत् न तथा सति जीवोपाधिमध्ये ब्रह्मणोऽपि सत्त्वे चैतन्यं तत्र द्विगुणं स्यात् न चैवमाकाशस्य घटे द्वैगुण्यं दृष्टं ब्रह्मणस्तत्रासत्त्वे च सर्वगतत्वनियन्तृत्वादिहानिः। उभयानुगतचिद्रूपाकारस्यैव सर्वगतत्वनियन्तृत्वादि न ब्रह्वण इति चेत् न “य आत्मानमन्तरो यभतीति” श्रुतौ प्रकरणलभ्यस्य व्रह्मण एव जीवमध्ये नियन्तृत्वेनावस्थानश्रवणात अतः शास्त्रे बर्वत्र घटाकाशदृष्टान्तोऽसङ्गत्वसाधको न जीवत्वसाधकः। प्रतिबिम्बपक्षे तु द्विगुणीकृत्य वृत्तिर्न दाषाय जलमध्ये स्मामाविकजानुमात्राकाशिस्य प्रतिविम्यिताविशाणाकाशस्य च वृत्तेः। तस्यादहङ्कारोपाधिकृतो ब्रह्मप्रतिविन्वो जोवः”

प्रतिविम्बन = न० प्रतिविम्ब + नामधातुः भावे ल्युट्। अनु- करणे “दृष्टान्तस्तु सधर्मस्य वस्तुनः प्रतिविम्बनम्” सा० द०

प्रतिविम्बवाद = पु० ६। जीवस्य ईश्वरप्रतिविम्यतास्थापनार्थे वादे। द्विधा हि वेदान्तिमते जीवश्वरयोर्विभागकल्पना प्रतिविम्बभावेन तत्तदवच्छिन्नमावेन च। तत्राद्यः पक्षः विवरणानुसारिभिर्मन्यते द्वितीयः पक्षीऽन्यैर्मन्यते तदेतत् सिद्धान्तलेशे प्रदर्शितं यथा विवरणानुसारिणस्त्वाहुः। “विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते। आत्मनो ब्रह्मणोभेदमसन्तं कः करिष्यतीति” स्मृत्या एकस्यैवाज्ञानस्य जीवेश्वरविभागोषाधित्वप्रतिपादनाद्विम्बप्रतिविम्बभावेन जीवेश्वरयोर्विभागः। नीभयीरपि प्रतिविम्बभाबेन उपाधिद्वयमन्तरेणोभयोः प्रतिविम्बत्वायोगात्। तत्रापि प्रतिविम्बो जीवः विम्बस्थानीय ईश्वरः। तथा सत्येव लौकिकविम्बप्रतिविम्बदृष्टान्तेन स्वातन्त्यमीश्वरस्य तत्पारतन्त्र्यं जीवस्य च गुज्यते। “प्रतिविम्बगताः पश्यन्नृजुवक्रादिविक्रियाः। पुमान् क्रीडेत् यथा ब्रह्म तथा जीवस्थविक्रियाः” इति कल्पतरूक्तरीत्या “लोकवत्तुलीलाकैवल्यमिति” सूत्रमपि संगच्छते। अज्ञानप्रतिविम्बे तस्य जीवस्यान्तःकरणरूपोऽज्ञानपरिणा मभेदोविशेषाभिव्यक्तिस्थानम् सर्वतः प्रसृतस्य सवितृप्रकाशस्य दर्पण इव। अतस्तस्य तदुपाधिकत्वव्यवहारोऽपि न तावताऽज्ञानोपाधिपरित्यागः। अन्तःकरणोपाधिपरिच्छिन्नस्यैव चैतन्यस्य जीवत्वे योगिनः कायव्यूहाधिष्ठानानुपपत्तेः। न च योगप्रभावाद्योगिनोऽन्तःकरणं कायव्यूहाभिव्यक्तियोम्यं वैपुल्यं प्राप्रोतीति तदवच्छिन्नस्य कायव्यूहाधिष्टानत्वं युज्यत इति वाच्यम्। “प्रदीपवदावेशस्तषा हि दर्शयतीति” शास्त्रोपान्त्याधिकरणभाष्यादिषु कायव्यूहे प्रतिदेहमन्तःकरणस्य चक्षुरादिवद्भिन्नस्यैव योगप्रभावात् सृष्टेरुपवर्णनात्। प्रतिविम्बे विम्बाभेदमात्रस्याध्यस्तत्वेन स्वरूपेण तस्य सत्यत्वात् न प्रतिविम्बरूपजीवस्य मुक्त्यन्वयासम्भव इति न तदतिरेबेण सुक्त्यन्वयावच्छिन्नरूपं जीवान्तरं वा प्रतिविम्बजीवातिरिक्तं जीवेश्वंरबिलक्षणं कूटस्थशब्दितं चैतन्यान्तरं कल्पनीयम् “अविनाशी वाऽरे अयमात्मेति” श्रवणाज्जीवस्य तदुषाधिनिवृत्तौ प्रतिविम्बभावाषगमेऽपि स्वरूपं न विनश्यतीत्येतत्परं, न तदतिरिक्तकूटस्थना मकचैतन्यान्तरपरम्। जीवोपाधिनाऽन्तःकरणादिनावच्छिन्नं चैतन्यं विम्बभूत ईश्वर एव “यो विज्ञाने तिष्ठकि त्यादि” श्रूत्वा ईश्ररस्यैव जीवसन्निधानेन तदन्तर्यामिभावेन विकारान्तरस्थानश्रवणादिति”। अता परमवच्छिन्नवादस्तत्र दशितः प्रसङ्गात् पूर्वमनुक्तत्वाच्चात्रोच्यते “अन्ये तु रूपानुपहितप्रतिविम्बो न युक्तः सुतरां नीरूपे गगन प्रतिविम्बोदाहरणमप्ययुक्तं गगनाभोगव्यापिनि सवितृकरमण्डले सलिले प्रतिविम्बिते गगनप्रतिविम्बत्वव्यवहारस्य भ्रममात्रमूलत्वात्। ध्वनौ वर्णप्रतिविम्बत्ववादोऽप्ययुक्तः व्यञ्जकतया सन्निधानमात्रेण ध्वनिधर्माणामुदात्तादिस्वराणां वर्णेष्वारोपोपपत्तेर्ध्वनेर्वर्णप्रतिविम्बत्वग्राहित्वकल्पनायानिःप्रमाणकत्वात्। प्रतिध्वनिरपि न पूर्वशब्दप्रतिविम्बः पञ्चीकरणप्रक्रियया पटहपयोनिधिप्रभृतिशब्दानां क्षितिसलिलादिशब्दत्वेन प्रतिध्वनेरेवाकाशशब्दत्वेन तस्यान्यशब्दप्रतिविम्बत्वायोगात्। वर्ण रूपप्रतिशब्दोऽपि न पूर्ववर्णप्रतिविम्बः वर्णाभिव्यञ्जकध्वनिनिमित्तकप्रतिध्वनेर्मूलध्वनिवदेव वर्णाभिव्यञ्जकत्वेनोपपत्तेस्तस्माद्घटाकाशवदन्तः करणावच्छिन्नं चैतन्यं जीवः तदनवच्छिन्नमीश्वरः। न चैवसण्डान्तवर्त्तिनश्चैतन्यस्य तत्तदन्तः करणोपाधिभिः सर्वात्मना जीवभावेनावच्छेदात्तदवच्छेदरहितचैतन्यरूपस्येश्वरस्याण्डाद्बहिरेव सत्त्वं स्यादिति “यो विज्ञाने विरुज्ञाने तिष्ठन्नत्यादावन्तर्यामिभावेन विकारान्तरवस्थानश्रवणं विरुध्यते। प्रतिविम्बपक्षे तु जलगतस्वाभाविकाकाशे सत्येव प्रतिविम्बाकाशदर्शनादेकत्र द्विगुणीकृत्य वृत्तिरुपपद्यत इति वाच्यम्। यतः प्रतिविम्बपक्षेऽपि उपाधावनन्तर्गतस्यैव चैतन्यस्य तत्र प्रतिविम्बो वाच्यः। न तु जलचन्द्रन्यायेन कृत्स्नप्रतिविम्ब तदन्तर्गतभागस्य तत्र प्रतिविम्बासम्भवात्। न हि मेघावच्छिन्नस्याकाशस्यालोकस्य वा जले प्रतिविम्बवज्जलान्तर्गतस्वापि तत्र प्रतिविम्बो दृश्यते। न वा मुखादीनां वहिःस्थितिसमय इव जलान्तर्निमज्जनेऽपि प्रतिविम्बोऽस्ति। अतो जलप्रतिविम्बं प्रति मेघाकाशादेरिबान्तःकरणाद्युपाघिपतिविम्बं प्रति तदनन्तर्गतस्यैव विम्बत्वं स्यादिति विंम्बभूतस्य विकारान्तरवस्थानायोगात् ईश्वरेऽन्तर्यामिव्राह्मणाञ्जस्याभावस्तुल्यः। एतेनावच्छिन्नस्य जीवत्वे कर्तृभोक्तृसमययोस्तत्र तत्रान्तःकरणाबच्छेद्यचेतन्यप्रदेशस्य भिन्नत्वात् कृतहानाकृताभ्यागमप्रसङ्ग इति मिरस्तम्। प्रतिविम्बपक्षेऽपि स्वानन्तर्गतस्य स्वसन्निहितसू चेतभ्यप्रदेशस्यान्तःकरणे प्रतिविम्यस्य बक्तव्यतया तत्र तत्रान्तःकरणस्य गमने विम्बभेदात् तत्प्रतिविम्बस्यापि भदावज्ञ्यम्भावेन दोषतौल्यात्। न चान्तःकरणप्रतिबिम्बो जीव इतिपक्षे दोषतौत्यल्येऽप्यविद्याप्रतिविम्बो जीवस्तस्य च तत्र गतिद्वारमन्तःकरणं जलाशयव्यापिनो महामेघमण्डलप्रतिविम्बस्य तदुपरि विसृत्वरस्फीतालोक इव तत्र विशेषाभिव्यक्तिहेतुरिति पक्षे नायं दोषः। अन्तःकरणवदविद्यायागत्यभावेन प्रतिविम्बभेदानापत्तेरिति वाच्यम्। तथैवावच्छेद पक्षेऽप्यविद्यावच्छिन्नो जीव इत्युपगमसम्भवात् तत्राप्येकस्य जीवस्य क्वचित्प्रदेशे कर्तृत्वं प्रदेशान्तरे भोक्तृत्वमित्येवंकृतहानाकृताभ्यागमदोषापनुत्तये वस्तुती जीवैक्यस्य शरणीकरणोयत्वेन तन्न्यायादन्तःकरणोपाधिपक्षेऽपि वस्तुतश्चैतन्यैक्यस्य तदवच्छेदकोपाध्यैक्यस्य च तत्राभ्युपगमेन दोषनिराकरणसम्भवात्। नं चावच्छोदपक्षे “यथाह्ययं ज्योतिरात्मा विवस्वानपो भिन्न बहुधैकोऽनुगच्छन्। उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोऽयमात्मा”। “अतएवोपमाजलसूर्यकादिवदिति” श्रुतिसूत्राभ्यां विरोधः। “अम्बुवदग्रहणान्न तथा त्वम्” इत्युदाहृत सूत्रानन्तरसूत्रेण यथा सूर्य्यस्य रूपवतः प्रतिविम्बोदययोग्यता ततो विप्रकृष्टदेशं रूपवज्जलं गृह्यते नैवं सर्वगतस्यात्मनः प्रतिविम्बोदययोग्यं किञ्चिदस्ति ततो विप्रकृष्टमिति प्रतिविम्बासम्भवसक्त्वा “वृद्धिह्रास भाक्त्वम अन्तर्भावादुभयसामञ्जस्यादेवमिति” तदनन्तरसूत्रेण यथा जलप्रतिविम्बितः सूर्य्यो जलवृद्धौ वर्द्धत इव जलह्रासे ह्रसतीव जलचलने चलतीवेति तस्याध्यासकतदनुरोधिवृद्धिह्रासादिभाक्त्वमित्येवं दृष्टान्तदार्ष्टान्तिकयोः सामञ्जस्यादविरोध इति स्वयंसूत्रकृतैवावच्छेदपक्षे तयोस्तात्पर्य्यकथनात्। “घटसंवृतमाकाशं नीयमाने यथा घटे। घटो नीयेत नाकाशं तद्वज्जीवो नभीपमः”। “अंशो नाना व्यपदेशादिति” श्रुतिसूत्राभ्यामवच्छेदपक्षस्यैव परिग्रहाच्च। तस्मात् सर्वगतस्य चैतन्यस्यान्तःकरणादिनावच्छेदोऽवश्यं भावीत्यावश्यकत्वादवच्छेदो जीव इति पक्षं रोचयन्ते”।

प्रतिविम्बित = त्रि० प्रतिविम्ब + तार० इतच्। जातप्रतिविम्बे दर्पणादौ–प्रतिफलिते प्रतिच्छायापन्ने मुखादौ।

प्रतिविषा = स्त्री प्रतिषिद्धं विषं यया प्रा० बा०। अतिविषायाम् (आतैच्) अमरः।

प्रतिविष्णुक = पु० प्रतिकूलो विष्णुर्यस्य प्रतिविष्णुः सुचुकुन्दनृपस्तन्नाम्मा कायति शब्दायते कै–शब्दे क। मुचकुन्दवृक्षे राजनि०।

प्रतिवेश = पु० प्रत्यामन्नो वेशः प्रा० स०। प्रव्यासन्ने प्रतिवासिगृहे शब्दरत्ना०। प्रति + विश–आधारे घञ् वा दीर्घः। तत्रार्थे।

प्रतिवेशिन् = त्रि० प्रत्यासन्नं विशति प्रति + विश–णिनि। प्रत्यासन्नगृहवासिनि स्त्रियां ङीप् “दृष्टिं हि प्रति वेशिनि! क्षणमिहाप्यस्यद्गृहे दास्यसि” सा० द०।

प्रतिव्यूह = पु० प्रतिरूपः व्यूहः प्रा० स०। बलविन्यासस्य ग्रतिरूपे व्यूहे भा० भी० ५० अ०।

प्रतिशब्द = पु० प्रतिरूपः शब्दः प्रा० स०। प्रतिध्वनौ शब्दानुरूपे शब्दजन्ये शब्दभेदे। प्रतिबिम्बवादशब्दे दृश्यम्।

प्रतिशयन = न० प्रति + शी–भावे ल्युट्। प्रतिस्वापे अभीष्टलाभाय प्रत्यादेशाशया देवोद्देशेन स्नानभोजनादिवर्जनपूर्वकस्वापे (हत्यादेओया) दशकु० ५ उ०।

प्रतिशयित = त्रि० प्रति + शी + क्त। प्रतिशयनकारिणि

प्रतिशासन = न० प्रति + शास–भाये ल्युट्। भृत्यादेर्निकृष्टस्य नियोगे अमरः।

प्रतिशिष्ट = त्रि० प्रति + शास–कर्मणि क्त। १ प्रेषिते २ प्रत्याख्याते च त्रिका०।

प्रतिश्या = स्त्री प्रति + श्यै–बा० करणे अङ्। प्रतिश्याये पीनसे रोगभेदे शब्दच०।

प्रतिश्याय = पु० प्रति + श्यै–करणे घञ्। पीनसे रोगभेदे तल्लक्षणादि सुश्रुतोक्तं यथा “अथातः प्रतिश्यायप्रतिषेधे व्याख्यास्यामः। नारीप्रसङ्गः शिरसोऽभितापो धूमो रजः शीतमतिप्रतापः। सन्धारणं मूत्रपुरीषयोश्च सद्यः प्रतिश्यायनिदानमुक्तम्। चयङ्गता मूर्द्ध्वनि मारुतादयः पृथक्समस्ताश्च तथैव शोणितम्। प्रकोप्यमाना विविधैः प्रकोपणैर्नृणां प्रतिश्यायकरा भवन्ति हि। शिरोगुरुत्वं क्षवथोः प्रवर्त्तनं तथाङ्गमर्दः परिहृष्टरोमता। उपद्रवाश्चाप्यपरे पृथग्विधा नृणां प्रतिश्यायपुरःसराः स्मृताः। आनद्धा पिहिता नासा तनुस्रावप्रवर्त्तिनी। गलताल्वोष्ठशोषश्च निस्तोदः शङ्खयोस्तथा। स्वरोपधातश्च भवेत्प्रतिश्यायेऽनिलात्मके। उष्णः सपीतकः स्नावो घ्राणात् स्रवति पैत्तिके। कृशोऽतिपाण्डुः सन्तप्तो भवेत्तृष्णाभिपीडितः। सधूमं सहसा वह्निं वमतीव च मानवः। कफः कफकृते घ्राणाच्छुक्लः शीतः स्रवेन्मुहुः। शुक्लावभासः शूनाक्षो भवेद्वुरुशिरोमुखः। शिरोगलौष्ठतालूनां कण्डूयनमतीव च। भूत्वा भूत्वा प्रतिश्यायो योऽकस्माद्विनिवर्त्तते। सम्पक्वो वाप्यपक्वो वा स सर्वप्रभवः स्मृतः। लिङ्गानि चैव सर्वेषां पीनसानां च सर्वजे। रक्तजे तु प्रतिश्याये रक्तास्रावः प्रवर्त्तते। ताम्राक्षश्च भवेज्जन्तु रुरोघात प्रतीडितः। दुर्गन्धोच्छ्वासवदनस्तथा गन्धान्न वेत्ति च। मूर्च्छन्ति चात्र कृमयः श्वेताः कृष्णास्तथाऽणवः। कृमिमूर्द्धविकारेण समानं चास्य लक्षणम्। प्रक्लिद्यति पुनर्नासा पुनश्च परिशुष्यति। मुहुरानह्यते चापि मुहुर्विव्रियते तथा। निश्वासोच्छ्वासदौर्गन्ध्यं तथा गन्धान्नवेत्ति च। एवं दुष्टं प्रतिश्यायं जानीयात्कृच्छ्रसाधनम्। सर्व एव प्रतिश्याया नरस्याप्रतिकारिणः। कालेन रोगजनना जायन्ते दुष्टपीनसाः। बाधिर्य्यमान्ध्यमघ्राणं घोरांश्च नयनामयान्। कामाग्निसादशोफांश्च वृद्धाः कुर्वन्ति पीनसाः”।

प्रतिश्रय = पु० प्रतिश्रीयते प्रति + श्रि–आधारे अच्। १ यज्ञगृहे जटा० २ सभायां ३ आशये च मेदि० ४ गृहे हेमच०।

प्रतिश्रव = पु० प्रति + श्रु–भावे अप्। स्वीकारे अमरः।

प्रतिश्रवण = न० प्रति + श्रु–भावे ल्युट्। १ अङ्गीकारे। प्रतिगतः श्रवणं कर्णम् अत्या० स०। २ श्रवणानुगते त्रि० अस्य तत्पुरुषे अंश्वा० अन्तोदात्तता प्रतिगतं श्रवणं येन प्रा० व०। तु न।

प्रतिश्रवस् = पु० १ गोत्रप्रवरर्षिभैदे। २ परिक्षित्पुत्रभीमसेनात्मजे नृपभेदे भा० आ० ९५ अ०।

प्रतिश्रुत् = स्त्री प्रतिरूपं श्रूयते श्रु–सम्प० बा० कर्मणि क्विप्। प्रतिशब्दे प्रतिध्वनौ अमरः।

प्रतिश्रुत्का = स्त्री देवताभेदे यजु० २४। ३२। ३। १९

प्रतिश्रुति = स्त्री प्रति + श्रु–भावे क्तिन्। १ अङ्गीकारे २ प्रतिध्वनौ च।

प्रतिषिद्ध = त्रि० प्रति + सिध–कर्मणि क्त। निषिद्धे

प्रतिषेध = पु० प्रति + सिध–भावे घञ्। १ निषेधे “मा कुरु इत्यादिना निवारणे” प्राधान्यं हि विधेर्यत्र प्रतिषेधेऽप्रधानता” मीमांसकका०। २ अर्थालङ्कारभेदे अर्थालङ्कारशब्दे ४०० दृश्यम्। ३ दूषणाभिधाने च। ल्युट्। प्रतिषेधन तत्रैव न०

प्रतिषेधोपमा = स्त्री “न जातु शक्तिरिन्दोस्ते मुखेन प्रतिगर्जितुम्। कलङ्किनो जडस्येति प्रतिषेधोपमैव सा। काव्याद०। उक्ते अर्थालङ्कारभेदे सादृश्यप्रतिषेधेन अधिकवैचित्र्य प्रकटनात तथात्वमस्याः।

प्रतिष्क = पु० प्रति + स्कन्द–बा० ड षत्वम्। दूते शब्दर०।

प्रतिष्कष = पु० प्रति + कष–अच् वा० सुट् षत्वम्। चर्मरज्ज्वो जटा०।

प्रतिष्कस = पु० प्रति + कस–अच् बा० सुट् षत्वम्। चरे शब्दर०

प्रतिष्टम्भ = पु० प्रति + स्तन्भ–भावे घञ् षत्वम्। १ प्रतिबन्धे अमरः २ क्रियाराहित्यापादने “बाहुप्रतिष्टम्भविवृद्धमन्युः” रघुः

प्रतिष्टुति = स्त्री प्रति + स्तु–क्तिन्। प्रतिलक्ष्यीकृत्य स्तुतौ अ० ८। १३। ३

प्रतिष्ठ = त्रि० प्रतिष्ठा अस्त्यस्य अच् प्रति + स्था–क वा। १ ख्यातियुक्ते २ जैनमेदे पु० हेमच० ३ कुमारानुचमातृभेदे स्त्री भा० श० ४७ अ०। ४ चतुरक्षरपादके वर्णवृत्तभेदे स्त्री वृ० र०।

प्रतिष्ठा = स्त्री प्रति + स्था–भावाधारादौ अङ्। १ क्षितौ २ स्थाने ३ गौरवे ४ यागादिसमाप्तौ कर्त्तव्ये कर्मभेदे मेदि०। देवादीनां पूज्यतादिप्रयोजके ५ संस्कारभेदे देवताप्रतिष्ठाशब्दे तद्वि वरणं दृश्यम्। ६ स्थैर्य्ये ७ ह्रस्वे स्त्री निघण्टुः पात० सू० स्यैर्य्यभेदे फलभेद उक्तो यथा “अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः” सू०। “सर्वप्राणिनां भवति” भा० “सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम्” सू० “धार्मिकोभव इति भवति धार्मिकः, स्वर्गं प्राप्नु हीति स्वर्गं प्राप्नोति अमोघास्य वाग्भवति” भा० “अस्तयप्रतिष्ठायां सर्वरत्नोपस्थानम्” सू० “सर्वदिक्स्थान्यस्योपतिष्ठन्ते रत्नानि” भा० “ब्रह्मचर्य्यप्रतिष्ठायां वीर्य्यलामः” सू० “यस्य लाभादप्रतिधान् गुणनुत्कर्षयति सिद्धश्च विनेवेषु ज्ञानमाधातुं समर्थो भवति इति” भा०। ८ आश्रये “ब्रह्म पुच्छं प्रतिष्ठा” श्रुतिः।

प्रतिष्ठान = न० प्रति + स्था–भावे ल्युट्। १ व्रतादेः समाप्तौ कर्त्तव्ये कर्मभेदे देवादीनां पूज्यताप्रयोजके २ संस्कारभेदे ३ विख्यातौ च। आधारे ल्युट्। (विठीर) ख्याते ४ नगरभेदे “गङ्गायमुनयोर्मध्ये प्रयागं जघनं स्मृतम्। प्रयागं जघनस्थानमुपस्थमृषयो विदुः। प्रयागं सप्रति ष्ठानं कम्बलाश्वतरौ तथा। तीर्थं भोगवती चैव वेदिरेषा प्रजापतेः” भा० व० ८५ अ०। “प्रतिष्ठाने नरपतिर्ययातिः प्रत्युपस्थितः” भा० उ० ११३० अ०। “एवंघ्रभावो राजासीदैलस्तु पुरुषोत्तम!। देशे पुण्यवमे चैव महर्षिभिरमिष्टुते। राज्यं स कारयामास घ्रयागे पृथिषीपतिः। उत्तरे जाह्नवीतीरे प्रतिष्ठाने महायशाः” हरिवं० २६ अ०। ५ स्थाने च

प्रतिष्ठित = त्रि० प्रतिष्ठा जाताऽस्य तारका० इतच्। १ जातप्रतिष्ठे देवादौ २ विख्यातियुक्ते च। ३ विष्णौ पु० “अप्र मत्तः प्रतिष्ठितः” विष्णुस०।

प्रतिष्णिका = स्त्री प्रति + ला–क स्वार्थे क कापि अत इत्त्वम् मुषामा० षत्वम्। प्रतिस्नानकत्त्र्यां स्त्रियाम्।

प्रतिसङ्क्रम = पु० प्रतिरूपः संक्रमः प्रा० स०। १ प्रतिच्छायायाम् प्रा० व०। २ प्रतिसंक्रान्ते प्रतिच्छायापन्ने त्रि०। ३ सञ्चारे च “चितिशक्तिरपरिणामिन्यप्रतिसंक्रमा दर्शितविषया शुद्धाऽनन्ता चेति” पात० भा०। “प्रविसंक्रमः संञ्चारः” विवरणम्।

प्रतिसंख्या = स्त्री प्रति + सम् + ख्या–भावे अङ्। १ प्रसख्याने २ सांख्यादिसिद्धे ज्ञानभेदे च तस्य पञ्चविंशतिसंख्यान्विततत्त्वनिरूपणात् तदीयज्ञानस्य संख्यानियतत्वेन तथात्वम्।

प्रतिसंख्यानिरोध = पु० प्रतिसङ्ख्यापूर्वकोनिरोधः शा० त०। बुद्धिपूर्वके भावानां नाशे बौद्धमतसिद्धे पदार्थभेदे अप्रतिसंख्यानिरोधशब्दे ५६१ पृ० दृश्यम्।

प्रतिसञ्चर = पु० प्रतिसञ्चरन्ति क्रियाशून्यतया विलीयन्तेऽस्यां प्रति + सम् + चर–आधारे अप्। १ प्रलयभेदे “यदा तु व्रकृतौ याति लयं विश्वमिदं जगत्। तदोच्यते प्राकृतोऽयं विद्वद्भिः प्रतिसञ्चरः” मार्क० पु०। ६ अ०। २ सञ्चारमात्रे च।

प्रतिसन्देश = पु० प्रतिरूपः सन्देशः प्रा० स०। सन्देशानुरूपे प्रत्युत्तररूपतया वाचिकवृचान्तभेदे।

प्रतिसन्धान = न० प्रति + सम् + धा–भावे ल्युट्। १ अनुसन्धाने अगुचिन्तने ज्ञानभेदे नष्टस्य द्रव्यस्योपलब्धिहेतुव्यापारे २ अन्वेषणे च।

प्रतिसन्धि = प्र० प्रतीपः सन्धिः प्रा० स०। १ वियोगे २ उपरमे “अदृष्टतोऽनुपायाच्च प्रतिसन्धिश्च कर्मणः” भा० शा० २०६ अ० टी० नील० प्रति + सम् + धा–कि। ३ प्रतिसन्धाने च वीप्सायाम् अव्ययी०। ४ सन्धौ सन्धौ इत्यर्थे।

प्रतिसन्धेय = त्रि० प्रति + सम्–धा–कर्मणि यत्। प्रतीकार्य्ये भा० उ० ९५ अ०।

प्रतिसम = त्रि० प्रतिकूलः समः। विसदृशे

प्रतिसमन्त = त्रि० प्रतिगतं समन्तात् येन प्रा० व० पृषो०। व्राप्तसमन्ताद्भावे शत० ब्रा० ३। ७। १। १३ भा०।

प्रतिसमासन = न० प्रति + सम् + चा + अस–क्षेपे भावे ल्युट्। निरसने निवारणे भा० व० १९३१ श्लो०।

प्रतिसर = पु० प्रति + सृ–अच्। १ सैन्यपश्चाद्भागे २ हस्तसूत्रे च त्रिका०। ३ मन्त्रभेदे ४ भाल्ये व्रणशुद्धौ च मेदि०। ६ भूषणे ७ रक्षाबन्धनसूत्रे पु० न० अमरः। ८ नियोज्ये त्रि० मेदि० स्त्रोत्वमपि। “प्रतिसरया तुरगाणां भल्लातकशालिकुष्ठसिद्धार्थं कण्ठेषु निबन्धीवात्” वृ० सं० ४३ अ०।

प्रतिसर्म = पु० प्रतिरूपः प्रतिकूली वा सर्गः। १ ब्रह्मणः सृष्टितुल्यायां मरीच्यादिसृष्टौ २ प्रलये च “आदिसर्गस्तु यः सूत! कथितो विस्तरैण च। प्रतिसर्गश्च ये येषामधिपास्तान् वदस्व नः” इति प्रश्ने प्रतिसर्ग उक्तः कालिकापु०। “प्रतिसर्गे तु मृत्पिण्डं हेमपिण्डं वा धटकुण्डलमुकुटादयो विशन्तोऽव्यक्तीभवन्ति तत्कारणरूपमेवाभिव्यक्तं कार्य्यमपेक्ष्याव्यक्तम् भवति। एवं पृथिव्यादयस्तन्मात्राणि विशन्तः स्वापेक्षया तन्मात्राण्यव्यक्तयन्ति एवं तन्मात्राण्यहङ्कारं विशन्ति अहङ्कारमव्यक्तयन्ति एवमहङ्कारो महान्तमाविशन्महान्तमव्यक्तयति महान् प्रकृतिं स्वकारणं विशन् प्रकृतिमव्यक्तयति प्रकृतेस्तु न क्वचिन्निवेश इति सा सर्वकार्य्याणामव्यक्तमेव” सा० त० कौ०

प्रतिसर्य्य = पु० प्रतिसरे भवः यत्। रुद्रभेदे यजु० १६। ३३

प्रतिसव्य = न० पतिगतं सव्यं वामं येन प्रा० ब०। १ प्रतिकूले २ विरुद्धाचारिणि जटा०।

प्रतिसान्धानिक = पु० सन्धानं प्रयोजनमस्य ठक् प्रतिरूपः सान्धानिकः प्रा० स०। मागधे स्तुतिपाठके शब्दरत्ना०।

प्रतिसाम = वीप्सायाम् अव्ययी० अच् समा०। प्रत्ये कसामनि

प्रतिसारण = त्रि० प्रतिसारयति प्रति + सृ–णिच् ल्यु। १ अपसारके २ दूरीकारके। भावे ल्युट्। २ दूरीकरणे। करणे ल्युट्। सुश्रुतोक्ते ३ अग्निकार्यभेदे। बलयविन्दुविलेखा प्रतिसारणानीति दहनविशेषाः। व्रणचिकित्साङ्गे ३ उपक्रमभेदे “मासादूर्द्ध्वं ततस्तेन कृष्णमालेपयेद्व्रणम्। कुक्कुटाण्डकपालानि कतकं मधुकं समम्। तथा समुद्रमण्डूकीं मणिचूर्णञ्च दापयेत्। गुटिकामूत्रपिष्टास्ता व्रणानां प्रतिसारणम्” सुश्रुतः। प्रतिसारणं व्रणस्य स्वस्थानात् स्थानान्तरनयनम् इत्यर्थः “दन्तजिह्वामुखानां यच्चूर्णकल्कावलेहकैः। शनैर्धर्षणमङ्गुल्या तदुक्तं प्रतिसारणम्। वैरस्यं मुखदौर्गन्ध्यं मुखशोषं तथा तृषाम्। अरुचिं दन्तपीडाञ्च निहन्ति प्रतिसारणम्। हीने जाड्यकफोत्क्लेशावरसंज्ञानमेव च। अतियोगान् मुखे पाकः शोषस्तृष्णा वमिः क्लमः” भावप्र० उक्ते ४ दन्तघर्षणभेदे।

प्रतिसारणीय = त्रि० प्रति + सृ–णिच्–कर्मणि अनीयर्। स्थानान्तरनयनीये सुश्रुतोक्ते क्षारपाकविधिभेदे “स द्विविधः प्रतिसारणीयः पानीयश्च। तत्र प्रतिसारणीयः कुष्ठकिटिभदद्रुकिलासमण्डलभगन्दरार्बुददुष्टव्रणनाडीचर्मकीलतिलकालकन्यच्छव्यङ्गमशकबाह्यविद्रधिकृमिविषार्शः सूपदिश्यते”।

प्रतिसारिन् = त्रि० प्रतीपं सरति सृ–णिच्–णिनि। १ प्रतीपगामिनि २ नीचगामिनि स्त्रियां ङीप्। भा० व० ५१ अ०।

प्रतिसीरा = स्त्री प्रतिसिनोति सीयते वा प्रति + सि–रक् दीर्घश्च। जवनिकायाम् (परदा) अमरकोषः।

प्रतिसूर्य्य = पुंस्त्री० प्रतिरूपः सूर्य्यः प्रा० स०। १ कृकलासे त्रिका०। २ द्वितीयसूर्यप्रादुर्भावरूपे आन्तरीक्षीत्पातभेदे च। स्वार्थे क। तत्रार्थे तच्छुभाशुभलक्षणं वृ० स० ३७ अ० यथा “प्रतिसूर्य्यकः प्रशस्तो दिवसकृदृतुवर्णसप्रभः स्निग्धः। वैदूर्य्यनिभः स्वच्छः शुक्लश्च क्षेमसौभिक्षः। पीतो व्यार्धिं जनयत्यशोकरूपश्च शस्त्रकोपाय। प्रतिसूर्य्याणां मालादस्युभयातङ्कनृपहन्त्री। दिवसकृतः प्रतिसूर्य्यो जलकृदुदग्दक्षिणे स्थितोऽनिलकृत्। उभयस्थः सलिलभयं नृपमुपरि निहन्त्यधो जनहा”।

प्रतिसृष्ट = त्रि० प्रति + सृज–कर्मणि क्त। १ प्रेरिते २ प्रत्याख्याते च मेदि०। ३ मत्ते धरणिः।

प्रतिसोमा = स्त्री प्रतिरूपा सोमः सोमवल्ली यस्याः प्रा० व०। महिषवल्ल्याम् राजनि०।

प्रतिस्कन्ध = पु० १ कुमारानुचरभेदे भा० श० ४६ अ०। २ नियमसन्ध्यङ्गभेदे पु० “परिच्छिन्नं फलं यत्र प्रतिस्कन्धेन दीयते। स्कन्धोपनेयं तं प्राहुः सन्धिं सन्धिविदो जनाः” कामन्द०।

प्रतिस्त्री = स्त्री प्रतिरूपा स्त्री प्रा० स०। १ परनार्य्याम् आभिमुख्ये अव्य०। २ स्त्रिया आभिमुख्ये अव्य०। “उपमन्त्रयते स हिङ्गारोज्ञपयते स प्रस्तावः स्त्रिया सह शेते स उद्गीथः प्रतिस्त्रि सह शेते स प्रतिहारः कालं गच्छति तन्निधनं पारं गच्छति तन्निधनमेतत् वामदेव्यं मिथुने प्रोतम्” छा० उ०। “प्रतिस्त्रशयनम् स्त्रियोऽभिमुखाभावेन शयनम्। सहशयनमेकपर्य्यङ्के शयनम्” भा०।

प्रतिस्पर्द्धा = स्त्री प्रति + स्पर्द्ध–भावे अङ्। प्रतिरूपस्मर्द्धायां प्रतिकक्षायाम् शब्दरत्ना०।

प्रतिस्पश = पु० प्रतिरूपः स्पशः। प्रतिदूते

प्रतिस्रोतस् = न० प्रतीपं स्त्रीतः प्रा० स०। स्रोतसोगमनप्रतिकूले

प्रतिस्वर = पु० प्रति + स्तॄ–शब्दोपतापयोः भावे आधारे वा अ प्। १ प्रतिशब्दे २ उपतापाधारे आदित्यात् अग्निस म्पाद नसाधने शुष्कगोमयादौ च। तत्प्रकारः निरुक्ते उक्तः यथा “उदीचि प्रथमसमावृत्त आदित्थे कंसं वा मणिं वा परिमृज्य प्रतिस्वरे यत्र शुष्कगोमयं संस्पर्शयन्धारयति तत्पदीप्यते सोऽयमेव संपद्यते”। प्रतिस्वरे उपतापाधारे सूर्यकिरणसम्पर्कस्थाने इत्यर्थः।

प्रतिहत = त्रि० प्रति + हन–क्त। १ द्विष्टे २ रुद्धे ३ निरस्ते ४ प्रतिस्खलिते च मेदि०। भावे क्त। ५ निरासे न० अमरः।

प्रतिहति = स्त्री प्रति + हन–भावे क्तिन्। १ प्रतिधाते आहत्य- परावृत्तौ २ रोषे च। तस्य कामप्रतिहत्या जायमानत्वात् तथात्वम्।

प्रतिहर्त्तृ = त्रि० प्रति + हृ–तृन्। १ पुनराहरणकर्त्तरि २ ऋत्विग्भेदे पु० अच्छावाकशब्दे ८५ पृ० दृश्यम्। स च प्रतिरूपसामभेदगाता प्रतिहारशब्दे दृश्यम्।

प्रतिहर्षण = न० प्रतिरूपं हर्षणम् प्रा० स०। १ हर्षणानुरूपे हर्षे णिच्–ल्युट्। २ प्रतिरूपसन्तोपसम्पादने च।

प्रतिहस्तक = पु० प्रतिरूपः हस्तो यस्य प्रा० ब० कप्। हस्तसाध्यक्रियाप्रतिरूपक्रियाकारिणि प्रतिनिधौ हितो०।

प्रति(ती)हार = पु० प्रत्येकं हरति स्वामिपार्श्वमानयति अण् वादीर्घः। १ द्वारपाले अमरः। स्त्रियां ङीप् गौरा० ङीष् या। आधारे घञ्। तदधिष्ठानस्थाने २ द्वारे च शब्दर०। प्रतिरूपं हरति हृ–अण् उपस०। ३ मायाकारे भरतः। साम्रस्तृतीयभागे उद्गात्रा गेये ४ सामावयवभेदे उद्गीथशब्दे ११७० पृ० दृश्यम्। तस्य देवता च अन्नं यथोक्तं छा० उ० “अथ हैनं प्रतिहर्तोपससाद प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता ताञ्चेदबिद्वान् प्रतिहरिष्यसि मूर्द्ध्वा ते विप तिव्यतीति मा भगवानवोचत्कतमा सा देवतेति। अन्नमिति होवाच सर्वाणि ह वा इमानि भूतान्यन्नमेव प्रतिहरमाणानि जीवन्ति सैषा देवता प्रतिहारमन्वायत्ता ताञ्चदविद्वान् प्रत्यहरिष्यो मूर्द्ध्वा ते व्यपतिष्यत्तथोक्तस्य मयेति”।

प्रतिहारक = पु० प्रति + हृ–ण्वुल्। १ मायाकारे भरतः २ स्थानान्तरप्रापके त्रि० ३ प्रतिहाररूपसामावयवगातरि पु०।

प्रति(ती)हास = पु० प्रतिरूपः हासः प्रा० स० वा दीर्घः। १ येन हासः कृतः तं प्रति हासे प्रा० ब०। २ तत्कारके त्रि०। ३ करवीरवृक्षे पु० अमरः।

प्रतिहर = पु० प्रति + हृ–आधारे अप्। समीपे ऋ० ७। ६६। १४

प्रतीक = पु० प्रति + कन् नि० दीर्घः। १ अवयवे अमरः। २ प्रतिरूपे ३ विलोमे च मेदि० प्रतीकोपासनं च व्रह्मप्रती कानामादित्यादीनां व्रह्मदृष्ट्युपासनं तच्च शा० सू० भा० दर्शितं यथा “न प्रतीके न हि सः” सू० “मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथादिदैवतमाकाशी व्रह्म” (छा० ३। १८) इति, तथा “आदित्यो ब्रह्मेत्यादेशः, (छा०। ३ १९) स यो नाम व्रह्मेत्युपास्ते” (छा०। ७। ५) इत्येवभादिषु प्रतीकोपासनेषु सशयः, किमेष्वप्यात्मग्रहः कर्त्तव्यो न वेति। किं तावत् प्राप्तमेतेष्यप्यात्मग्रह इव युक्तः, कस्मात्, व्रह्मणः श्रुतिष्व त्मत्वेन प्रसिद्धत्वात्। प्रतीकानामपि ब्रह्मविकारत्वात् व्रह्मत्वे सत्यात्मत्वोपपत्तेरित्येवं प्राप्ते ब्रूमः। न प्रतीकेष्वात्ममतिं बध्नीयात्, न हि स उपासकः प्रतीकानि व्यस्तान्यात्मत्वेनाकलयेत्। यत्पुनर्ब्रह्मविकारत्वात् प्रतीकानां ब्रह्मत्व ततश्चात्मत्वमिति। तदसत् प्रतीकाभावप्रसङ्गात्। विकारस्वरूपोपमर्देन हि नामादिजातस्य ब्रह्मत्वमेवाश्रितं भवति, स्वरूपोपमर्दे च नामादीनां कुतः प्रतीकत्वमात्मग्रहो वा। न च ब्रह्मण आत्मत्वात् ब्रह्मदृष्ट्युपदेशेष्वात्मदृष्टिः कल्प्या, कर्तृत्वाद्यनिराकरणात्, कर्तृत्वादिसर्वसंसारधर्मनिराकरणेन हि ब्रह्मण आत्मत्वोपदेशस्तदनिराकरणेन चोपासनविधानम्, अतश्चोपासकस्य प्रतीकैः समत्वादात्मग्रहो नोपपद्यते, न हि रुचकस्वस्तिकयोरितरेतरात्मत्वमस्ति, सुवर्णात्मनैव तु ब्रह्मात्मत्वेनैकत्वे प्रतीकाभावप्रसङ्गमवोचाम। अतो न प्रतीकेष्वात्मदृष्टिः क्रियते” भा० “ब्रह्मदृष्टिरुत्कर्षात्” सू० “तेष्वेवोदाहरणेषु अन्यः संशयः, किमादित्यादिदृष्टयो ब्रह्मण्यध्यसितव्याः किंवा ब्रह्मदृष्टिरादित्यादिष्विति। कुतः संशयः, सामानाधिकरण्ये कारणानवधारणात्। अत्र हि ब्रह्मशब्दस्यादित्यादिशब्दैः सामानाधिकरण्यमुपलभ्यते, “आदित्यो ब्रह्म प्राणो ब्रह्म विद्युद्ब्रह्म” इत्यादिसमानविभक्तिनिर्देशात्। न चात्राञ्जसं सामानाधिकरण्यमवकल्पते अर्थान्तरवचनत्वात् ब्रह्मादित्यादिशब्दानां, न हि भवति गौरश्व इति सामानाधिकरण्यम्। ननु प्रकृतिविकारभावात् ब्रह्मादित्यादीनां मृच्छरावादिवत् सामानाधिकरण्यं स्यात्, नेत्युच्यते, विकारप्रविलयोह्येवं प्रकृतिसामानाधिकरण्यात् स्यात्, ततश्च प्रतीकाभावप्रसङ्गमवोचाम, परमात्मवाक्यञ्चेदन्तदानीं स्यात्, ततश्चोपासनाधिकारो बाध्येत, परिमितविकारोपासनञ्च व्यर्थम्। तस्मात् ब्राह्मणोऽग्निर्वैश्वानर इत्यादिवदन्यतरत्रान्यतरदृष्ट्यध्यासे सति क्क किंदृष्टिरध्यस्यतामिति संशयः तत्रानियमः, नियमकारिणः शास्त्रस्याभावादित्येवं प्राप्तम्। अथ वाऽऽदित्यादिदृष्टय एव ब्रह्मणि कर्त्तव्या इत्येवं प्राप्तम्। एवं हि आदित्यादिदृष्टिभिर्व्रह्मोपासनञ्च फलवदिति शास्त्रमर्य्यादा। तस्मात् न ब्रह्मदृष्टिरादित्यादिष्वित्येवं प्राप्ते ब्रूमः। ब्रह्मदृष्टिरेवादित्यादिषु स्यादिति। कस्मात् उत्कर्षात्, एवमुत्कर्षेणादित्यादयो दृष्टा भवन्त्युत्कृष्टदृष्टेस्तेष्वध्यासात्। तथा च लौकिको न्यायोऽनुगतो भवति, उत्कृष्टदृष्टिर्हि निकृष्टेऽध्यसितव्येति लौकिको न्यायः। यथा राजदृष्टिः क्षत्तरि, स चानुगन्तव्यो विपर्य्यये प्रत्यवायप्रसङ्गात्। न हि क्षत्तृदृष्टिपरिगृहीती राजा निकर्षं नीयमानः श्रेयसे स्यात्। ननु शास्त्रप्रासाण्यादनाशङ्कनीयीऽत्र प्रत्यवायप्रसङ्गः, न च लौकिकेन न्यायेन शास्त्रीया दृष्टिर्नियन्तुं युक्तेति। अत्रोच्यते, निर्द्धारिते शास्त्रार्थे एतदेवं स्यात्, सन्दिग्धे तु तस्मिन् तन्निर्णयं प्रति लौकिकोऽपि न्याय आश्रीयमाणो न विरुध्यते, तेन चोत्कृष्टदृष्ट्यध्यासे शास्त्रार्थेऽवधार्य्यमाणे निकृष्टदृष्टिमध्यस्य प्रत्यवेयादिति श्लिष्यते। प्राथम्याच्चादित्यादिशब्दानां मुख्यार्थत्वमविरोधात् ग्रहीतव्यम्। तैः खार्थवृत्तिभिरवरुद्धायां बुद्धौ पश्चादवतरतो ब्रह्मशब्दस्य मुख्यवृत्त्या सामानाधिकरण्यासम्भवात् ब्रह्मदृष्टिविधानार्थतैवावतिष्ठते। इतिपरत्वादपि ब्रह्मशब्दस्यैष एवार्थो न्याय्यः। तथा हि ब्रह्मेत्यादेशः ब्रह्मेत्युपासीत ब्रह्मेत्युपास्त इति च सर्वत्रेतिपरं ब्रह्मशब्दमुच्चारयति शुद्धांस्त्वादित्थादिशब्दान्। ततश्च यथा शुक्तिकां रजतमिति प्रत्येतीत्यत्र शुक्तिवचन एव शुक्तिकाशब्दः रजतशब्दस्तु रजतप्रतीति लक्षणार्थः प्रतीत्यैव हि केवलं रजतमिति न तु तत्र रजतमस्ति, एवमत्राप्यादित्यादीन् ब्रह्मेति प्रतीयादिति गम्यते। बाक्यशेषोऽपि च द्वितीयानिर्देशेनादित्यादीनेवोपास्तिक्रियया व्याप्यमानान् दर्शयति “स य एतदेषं विद्वानादित्यं ब्रह्मेत्युपास्ते” (छा०। ३। १९) “यो वाचं ब्रह्मेत्युपास्ते” (छा० ७। ५। २ ) “यः सङ्कल्पं ब्रह्मेत्युपास्ते” (छा० ७। ५। २) इति। यत्तूक्तं ब्रह्मोपासनमेवात्रादरणीयं फसवत्त्वायेति, तदयुक्तं उक्तेन न्यायेनादित्थादीनामेवोपास्यत्वावगमात्। फलन्त्वतिथ्याद्युपासन इवादित्याद्युपासनेऽपि “ब्रह्मैव दास्यति सर्वाध्यक्षत्वात्। वर्णितञ्चैतत्, “फलम् अत उपपत्तेः” इत्यत्र (वे० सू०। ३। २। ३८)। ईदृशञ्चात्र ब्रह्मण उपास्यत्वं यत्प्रतीकेषु तदृष्ट्यध्यारोपणं प्रतिमादिष्विव विष्ण्वादीनाम्”। तत्फलविशेषोऽपि तत्र निर्णीतो यथा “अप्रतीकालम्बनान्नयतीति वादरायण उभयथाऽदोषात् तत्क्रतुश्च” सू० “स्थितमेतत् कार्यविपया गतिर्न परविषयेति। इदमिदानीं सन्दिह्यते, किं सर्वान् विकाराकम्बनानविशेषेणैवामानवः पुरुवः प्रापयति ब्रह्मलोक मुत कांश्चिदेवेति। किं तावत् प्राप्तं सर्वसामेवैषां विदु- षामन्यत्र परस्मात् ब्रह्मणो गतिः स्यात्। तथा हि “अनियमः सर्वासाम्” इत्यत्राविशेषेणेवैषा विद्यान्तरेष्ववतारितेत्येवं प्राप्ते प्रत्याह अप्रतीकालम्बनानिति। प्रतीकालम्वनान् वर्जयित्वा सर्वानन्यान् विकारालम्ब० नान्नयति ब्रह्मलोकमिति वादरायण आचार्य्यो मन्यते। न ह्येवमुभयथाभावाभ्युपगमे कश्चित् दोषोऽस्ति। अनियमन्यायस्य प्रतीकव्यतिरिक्तेष्वप्युपासनेषूपपत्तेः। तत्क्रतुश्चास्योभयथाभावस्य समर्थकी हेतुर्द्रष्टव्यः। यो हि व्रह्मक्रतुः स ब्राह्ममैश्वर्य्यमासीदेदिति श्लिष्यते “तं यथा यथीपासते तदेव भवन्ति” इति श्रुतिः। न तु प्रतीकेषु व्रह्मक्रतुत्वमस्ति प्रतीकप्रधानत्वादुपासनस्य। नन्वब्रह्मक्रतुमानपि ब्रह्म गच्छतीति श्रूयते” यथा पञ्चाग्निविद्यायाम् “स एतान् ब्रह्म गमयति” इति। भवतु यत्रैवमपवाद उपलभ्यते, तदभावे त्वौत्सर्गिकेनं तत्क्रतुन्यायेन ब्रह्मक्रतूनामेव तत्प्राप्तिर्नेतरेषामिति मन्यते” भा० “विशेषञ्च दर्शयति” सू० “नामादिष्र प्रतीकोपासनेषु पूर्वस्मात् पूर्वस्मात् फलविशेषमुत्तरस्मि नुत्तरस्मिन्नुपासने दर्शयति “यावन्नाम्नो गतं तत्रास्य यथा कामचारो भवति” “वाग्वाव नाम्नो भूयसी यावद्वाचो गतं तत्रास्य यथा कामचारो भवति” “मनो वाव वाचो भूयः” इत्यादिना। स चायं फलविशेषः प्रतीकतन्त्रत्वादुपासनानामुपपद्यते, ब्रह्मतन्त्रे तु व्रह्मणोऽविशिष्टत्वात् कथं फलविशेषः स्यात्। तस्मान्न प्रतीकालम्बनानामितरैस्तु ल्यफलत्वमिति” भा०। वसुनृपस्य ४ पुत्रभेदे भाग० ९। २। १३

प्रती(ति)कार = पु० प्रति + कृ घञ् दीर्धः। १ कृतापकारस्य प्रत्यपकारे वैरनिर्यातने अमरः २ रोगनिवारणोपाये चिकित्सायाम् शब्दमा०।

प्रती(ति)काश = पु० प्रति + काश–घञ् बा दीर्घः। उपमायाम् अमरः। अस्य नित्यसमासः। मेघप्रतीकाशः।

प्रतीकाश्व = पु० भानुमन्नृपस्य पुत्रभेदे भाग० ९। १२। ६

प्रतीक्षा = स्त्री प्रति + ईक्ष–भावे अङ्। अपेक्षायाम्। भावे ल्युट्। प्रतीक्षण तत्रार्थे न०।

प्रतीक्ष्य = त्रि० प्रति + ईक्ष–कर्मणि ण्यत्। १ पूज्ये २ अपेक्षणीये च “प्रतीक्ष्यं तत् प्रतीक्ष्यायै पितृष्वस्रे प्रतिश्रुतम्” इति माघः।

प्रती(ति)घात = पु० प्रति + हन–भावे घञ् वा दीर्घः। प्रतिघाते

प्रतीची = स्त्री प्रत्यच् + स्त्रियां ङीप् अल्लोपे दीर्घः। पश्चिमायां दिशि यदपेक्षया सूर्य्यास्ताचलसन्निहिता या दिक् सा तदपेक्षया तस्य प्रतीची कणा० उप० वृत्तिः।

प्रतीचीन = त्रि० प्रतीचि भवः प्रत्यच् + ख अल्लोपे दीर्घः। १ प्रत्यग्भवे २ पश्चिमदिग्भवे च। स्वार्थे ख। ३ पतीचि पदार्थे हेमच०। शत० ब्रा० ५। २। ४। २० प्रतीचीनफलम्।

प्रतीच्य = त्रि० प्रतीचि भवः प्रत्यच्–भवार्थे यत्। १ प्रत्यग्भवे २ पुलस्त्यमातरि स्त्री भा० उ० ११६ अ०। ३ अन्तर्हिते त्रि० निधण्ठुः।

प्रतीच्छक = त्रि० प्रतिगता इच्छा यस्य प्रा० ब० कप्। ग्राहके मनुः ४। १९। ४ श्लो०।

प्रतीत = त्रि० प्रति + इण–क्त। १ ख्याते २ ज्ञाते अमरः। ३ हृष्टे ४ सादरे च राजनि०। ५ विश्वदेवगणमेदे पु० भा० अनु० ९१ अ०

प्रतीति = स्त्री प्रति–इण–भावे क्तिन्। १ ज्ञाने २ ख्यातौ ३ आदरे ४ हर्षे च।

प्रतीतोद = पु० “ऊर्द्ध्वं शाक्वरमष्टाक्षरमभ्यासवत् तस्य ह्यक्षरान् पदादीन् प्रतीतोदा इत्याचक्षते” इत्युक्तेऽर्थे।

प्रतीन्धक = पु० विदेहदेशे रामा० अयो० ७१। ९ श्लो०।

प्रतीप = त्रि० प्रतिगता आपोऽत्र अच्समा० नि० प्रतिप + पृषो० वा। १ प्रतिकूले चन्द्रवंश्ये २ नृपभेदे पु० हेमच०। प्रतिपशब्दे दृश्यम्। ३ अलङ्कारभेदे अलङ्कारशब्दे ३८८ पृ० दृश्यम्। क्तान्ते परेऽन्तोदात्ततास्य बा परनिपातः प्रतीकृतः कृतप्रतीप इति वा। स्वार्थे क। ४ तत्रार्थे। हर्य्यश्वनृपपुत्रयदीः पुत्रे भाग० ९। १३। १२ तत्र प्रति पक इति पाठान्तरम् तत्रार्थे। ततः सुखा० अस्त्यर्थे इनि। प्रतीपकिन् तद्युते त्रि० स्त्रियां ङीप्। सुखादिपाठात् ततः ठन्मतुपौ न स्तः।

प्रतीपदर्शिन् = त्रि० प्रतीपं वामं पश्यति दृश–णिनि। १ प्रतिकूलदर्शके स्त्रियां ङीप्। सा च २ स्त्रियाम् अमरः।

प्रतीपाश्व = पु० राजभेदे विष्णुपु०।

प्रतीर = न० प्रतीर्य्यते प्र + तीर–क। १ तटे तीरे अमरः। २ भौत्यमनुपुत्रभेदे मार्क० पु० १०० अ०।

प्रतीवाप = पु० प्रति + वप–घञ् दीर्घः। १ गलितस्वर्णादेरवचूर्णने अमरः। २ पेयोषधिभेदे औषधविशेषसंयोगभेदे च “तत्र वीरतर्वादिसिद्धं जलमूषकादि प्रतीवापं पाययेत्” सुश्रुतः।

प्रतीह = पु० भरतवंश्ये सुवर्चलायां जाते परमेष्ठिनः पुत्रभेदे भाग० ५। १५। ३

प्रतुद = पु० प्र + तुदःक। खगभेदे “हारीतो धवलः पाण्डुश्चित्रपक्षो वृहच्छुकः। पारावतः खञ्जरीटः पिकाद्याः प्रतुदाः स्मृताः”। “प्रतुद्य भक्षयन्त्येते तुण्डेन प्रतु दास्ततः” “प्रतुदा मधुराः पित्तकफव्नास्तुवरा हिमाः। लघवो बद्धवर्चस्का किञ्चिद्वातकराः स्मृताः” भावप्र०।

प्रतूर्त्त = त्रि० प्र + तूर–वेगे क्त। १ प्रकृष्टवेगान्विते भावे क्त। २ प्रकृष्टवेगे न०। ततो गोषदादि० मत्वर्थे वुन्। प्रतूर्त्तक तद्युते त्रि

प्रतूलिका = स्त्री प्रकृष्टं तूलमत्र कप् कापि अतैत्त्वम् (तोषक) शय्याभेदे काशी० ७ अ०।

प्रतोद = पु० प्रतुद्यतेऽने न प्र + तुद–करणे घञ्। अश्वादिताडनदण्डे (चावुक्) अमरः।

प्रतोली = स्त्री प्र + तुल–अच् गौरा० ङीष्। १ रथ्यायाम् २ पुराभ्यन्तरवर्त्मनि अमरः हट्टादौ निर्मिते ३ पथि च भरतः।

प्रतोष = पु० प्र + तुष–भावे घञ्। १ सन्तोषे प्रकृष्टस्तोषोऽस्य प्रा० ब० २ सन्तोषयुते त्रि०। ३ स्वायम्भवमनोः पुत्रभेदे पु० भाग० ४। १। ७ श्लो०।

प्रत्न = त्रि० पुराणार्थे प्र + भवार्थे त्न। १ पुरातने अमरः। पुराणनामसु निघण्टुः।

प्रत्यंशु = त्रि० प्रतिगतोऽंशुम् अत्या० स०। १ प्रप्तांशुके। तत्पुरुषे अश्वा० अन्तोदात्ततास्य। प्रतिगतोऽंशुर्येन प्रा० व०। २ प्रतिगतांशुके त्रि० तत्पुरुषे इत्युक्तेः बहुब्रीहौ नान्तीदात्तता।

प्रत्यकचेतन = पु० प्रतीपं विपरीतमञ्चति जानाति प्रति + अन्च० क्विप् कर्म०। १ सांख्यमतसिद्धे पुरुषे। “ततः प्रत्यक्चेतनाधिगमः अन्तरायाभावश्च” योगसू० भाष्यम्। प्रत्येकम् अञ्चति अश्नुते कर्म०। सर्वज्ञे २ अन्तरात्मनि परमेश्वरे तदभिन्ने ३ जीवे च प्रत्यच्शब्दे दृश्यम्।

प्रत्यकपर्णी = स्त्री प्रत्यञ्चि पर्णान्यस्याः ङीप्। १ अपामार्गे अमरः

प्रत्यक्पुषपी = स्त्री प्रत्यक् पुष्पमस्याः ङीप्। अपामार्गे अमरः

प्रत्यक्श्रेणी = स्त्री प्रतीची श्रेणीव अस्याः समासान्तविधेरनित्यत्वात् न कप्। १ दन्तीवृक्षे ३ मूषिकपण्याञ्च अमरः।

प्रत्यक्ष = अव्य० अक्ष्णः लक्षणम् “लक्षणेनाभिप्रती” पा० लक्षणार्थे प्रतिनाऽव्ययी० शरदा० अच्समा० अक्षिशब्देन इन्द्रियमात्रम लक्ष्यते। १ इन्द्रियलक्षणे ततोऽस्त्यर्थे अच्। २ इन्द्रियसन्निकर्षजन्ये ज्ञाने न०। इन्द्रियाणाञ्च ज्ञानमात्रं प्रत्येव सन्निकर्षद्वारा हेतुत्वात् तथार्थत्वम्। ततः अस्त्यर्थे पुनः अर्श आद्यच्। ३ प्रत्यक्षविषये त्रि०। प्रत्यक्षत्वं च ज्ञानत्वव्याप्यजातिविशेषः तल्लक्षणन्तु इन्दियार्थसन्निकर्षोत्पन्नज्ञानत्वमिति नैयायिकाः। अधिकभपरोक्षशब्दे २३५ पृ० दृष्टशब्दे च ३६७२ पृ० दृश्यम्। बेदान्तमते तल्लक्षणन्तु “तत्तदिन्द्रिययोग्यवर्त्तमानविषयावच्छिन्नचैतन्यामिन्नत्वं तत्तदाकारवृत्त्यवच्छिन्नज्ञानस्य तत्तदंशे प्रत्यक्षत्वम्। स्वाकारवृत्त्युं पहितप्रमातृचैतन्यसत्तातिरिक्तसत्ताकत्वशून्यत्वे सति वर्त्तमानयोगत्वं विषयस्य प्रत्यक्षत्वम्” वेदा० प०। तच्च लौकिकालौकिकभेदात् द्विधा।

प्रत्यक्षदर्शन = त्रि० प्रत्यक्षेण पश्यति दृश–ल्यु। साक्षिणि साक्षाद्दर्शिनि शब्दमाला। णिनि। प्रत्यक्षदर्शिन् तत्रार्थे त्रि० स्त्रियां ङीप्।

प्रत्यक्षलवण = न० प्रत्यक्षं पृथक्तयोपलभ्यमानं लवणम्। पाकनिष्पत्त्युत्तरं व्यञ्जनादौ दीयमानलवणे। तस्य श्राद्धे अदेयतोक्ता यथा श्रा० त० ब्रह्मपु० “सिद्धाः कृताश्च ये भक्ताः प्रत्यक्षलवणीकृताः” श्राद्धे तस्य वर्ज्यतयोक्ते “सिद्धाः कृताः सिद्ध्युत्तरकालं प्रत्यक्षलवणप्रक्षेपकृता” श्रा० त० रघु०। तत्रैव बिष्णुना श्राद्धवर्ज्येषु “आरक्तास्यैव निर्यासाः प्रत्यक्षलवणानि च” इत्युक्तम्। शु० त० ब्रह्मपु० “सैन्धवं लवणं चैव यच्च सामुद्रकं भवेत्। पवित्रे परमे ह्येते प्रत्यक्षेऽपि च नित्यशः”। “पृथक्तयोपलभ्यमानं लवणं प्रत्यक्षलवणं न तु व्यञ्जनादिसंस्कारकं संस्कारप्रत्यक्षयोर्भेदात्” शु० त० रघु०। वस्तुतः सैन्धवादेरपि प्रत्यक्षलवणत्वेऽभक्ष्यता आर्द्रकादियोगे प्रतिप्रसवः न तु सिद्ध्युत्तरकालप्रक्षेपेऽपि प्रतिप्रसवः। अतः सिद्ध्यु त्तरकालं लवणमात्रस्यैव प्रक्षेपे सर्वत्र भक्षणे दाने च निषेधः इति बोध्यम्।

प्रत्यक्षवादिन् = पु० प्रत्यक्षमेव प्रमाणतया वदति वद–णिनि। चार्वाके चार्वाकशब्दे २९२१ पृ० दृश्यम्।

प्रत्यक्षिन् = त्रि० प्रत्यक्षमस्त्यस्य इनि। १ साक्षाद्द्रष्टरि व्यक्तं दृष्टार्थे त्रिका० स्त्रियां ङीप्।

प्रत्यक्स्रोतस् = पु० प्रत्यक् प्रतीचीगामि स्रोतो यस्य। १ पश्चिमदिग्वाहिनि नदे “प्राक्स्रोतसो नद्यः प्रत्यक्स्रोतसो नदा नर्मदां विना” माध ४। ६६ श्लो० व्याख्यायां मल्लिनाथधृतवाक्यम्। २ नर्म्मदायां स्त्री भा० व० ८९ अ०। प्रतीचि प्रत्यगात्मनि स्रोतश्चित्तप्रवाहोऽस्य। प्रत्यगात्मैकप्रवणचित्तवृत्तियुते ३ यतिभेदे पु०।

प्रत्यगात्मन् = प्रतीचो जीवस्यात्मा स्वरूपम्। १ प्ररमेश्वरे ब्रह्मचैतन्ये मागव० ३। २४। ४५ श्रीधरः। “कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्” कठो० भाष्ये तु अन्यथोक्तं यथा “प्रत्यक् चासावात्मा चेति प्रत्यगात्मा प्रतीच्येवात्मशब्दो रूढो लोके नान्यस्मिन् व्युत्पत्तिपक्षेऽपि तत्रैवात्मशब्दो वर्त्तते। “यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह। यच्चास्य सन्तती भावस्तस्मादात्मेति कीर्त्त्यते” इत्यात्मशब्दव्युत्पत्तिस्मरणात्। तं प्रत्यगात्मानं स्वस्वभावमैक्षत्पश्यतीत्यर्थः” “स्वस्वभावं स्वस्वरूपमित्यर्थः” आनन्दगिरिः।

प्रत्यगाशापति = पु० ६ त०। पश्चिमदिक्पाले वरुणे हलायुधः

प्रत्यगुदच् = स्त्री प्रतीच्या उदीच्याश्च अन्तराला दिक् ब० व०। पत्तिमीत्तरदिशोरन्तरालायां विदिशि वायुकोणे आश्व० श्रौ० २ ६। ४।

प्रत्यग्र = त्रि० प्रतिगतमग्रमग्रत्वम् अत्या० स०। १ नूतने २ शोधिते च अमरः। उपचरिचरनृपवंश्ये ३ वृहद्रयपुत्रे नृपभेदे पु० भाग० ९। २२। ४

प्रत्यग्रथ = पु० अहिच्छबदेशे हेमच०। तत्र भवः तस्य राजा वा “साल्वावयवप्रत्यग्रथकालकूटाश्मकादिञ्” पा० इञ। प्रात्यग्रथि तत्र भवे तन्नृपे च।

प्रत्यग्रह = पु० चेदिदेशराजे नृपभेदे भा० आ० ६३ अ०।

प्रत्यङ्ग = न० प्रतिगतमङ्गम् अत्या० स०। अङ्गानुगताङ्गभेदे अङ्गस्याङ्गभेदे कर्णादौ “तत्राङ्गान्यन्तराधिसक्थिबाहुशिरांसि तदवयवाः प्रत्यङ्गानि” सुश्रुतः। अङ्गशब्दे ७२ पृ० दृश्यम्।

प्रत्यङ्गिरस् = पु० चाक्षुषमन्वन्तरे आङ्गिरसे ऋक्स्वरूपे ऋषिभेदे हरिवं० ३ अ०।

प्रत्यङ्गिरा = स्त्री देवीभेदे “अथ प्रत्यङ्गिरां वक्ष्ये परकृत्यानिबर्हिणीम्” इत्यादिना मन्त्रमहौषधौ ८ तरङ्गे तत्प्रयोग उक्तः।

प्रत्यङ्मुख = त्रि० प्रत्यङ्मुखं यस्य। पश्चिमाभिमुखे “श्रियं प्रत्यङ्मुखो भुङ्क्ते” मनुना तन्मु खभोजने श्रीलाभः फलमुक्तम्। कर्मविशेषे सायंसन्ध्यावन्दने च तन्मुखता विहिता स्मृतौ दृश्या।

प्रत्यच्(ञ्चू) = पु० प्रत्यञ्चति अन्च–क्विप् विच् वा। १ खात्मनि प्रत्यागात्मन्शब्दे दृश्यम्। २ पश्चिमे देशे ३ काले च ४ पश्चिमायां दिशि स्त्री ङीप् भत्वे अल्लोपे दीर्घः प्रतीची। एवं शसाद्यचि प्रतीचः प्रतीचेत्यादि। विचि तु नलोपाभावात् न तथा प्रत्यञ्चः प्रत्यञ्चा” इति। ततः सप्तम्यर्थे असि तस्य लोपः। प्रत्यच् ५ सप्तम्यर्थवृत्तौ पश्चिमदिग्देशकालादौ अव्य०।

प्रत्यञ्जन = न० प्रतिरूपमनुरूमञ्जनं प्रा० स०। अनुरूपाञ्जने सुश्रुतः।

प्रत्यनन्तर = त्रि० प्रतिप्राप्तमनन्तरम् अत्या० स०। प्रत्यासन्ने सन्निकृष्टे भनुः १०। ८०।

प्रत्यनीक = पु० प्रतिकूलमनीकं यस्य प्रा० व०। १ रिपौ २ विघ्ने हेम० उपचारात् ३ प्रतिवादिनि ४ अलङ्कारभेदे न० अलङ्कारशब्दे ४०१ पृ० दृश्यम्।

प्रत्यनुमान = न० प्रतिरूपमनुमानं प्रा० त०। प्रतीपातुमाने यथा पर्वतो वह्निमान् धूमादिति वादिनोक्ते पर्वतो वङ्ग्यभा- ववान् पाषाणमयत्वादिति” प्रतिवादिनः प्रतिपक्षानुमानम्।

प्रत्यन्त = पु० प्रतिगतोऽन्तम् अत्या० स०। १ म्लेच्छदेशे ३ सन्निकृष्टे त्रि० अमरः।

प्रत्यन्तपर्वत = पु० प्रत्यन्तः सन्निकृष्टः पर्वतः। वृहत्पर्वतसमीपस्थे पर्वते हेमच०।

प्रत्यभिज्ञा = स्त्री प्रतिगता अभिज्ञाम् अत्या० स०। १ अभिज्ञानुरूपे तज्जन्यसंस्कारसहकारेण जनिते प्रत्यक्षभेदे यथा सोऽयं देवदत्त इत्यादि। तत्स्वरूपादिकं विवरणप्रमेय संग्रहे निर्णीतं यथा “ननु केयं प्रत्यभिज्ञा नाम न तावदेकस्यातीतवर्त्तमानकालद्वयसम्बन्धविषयं प्रत्यक्षज्ञानं प्रत्यभिज्ञा, प्रत्यक्षज्ञानस्य वर्त्तमानमात्रार्थग्राहित्वात्। पूर्वानुभवसंस्कारसहितादिदानीन्तनवस्तुप्रमितिकारणाज्जातस्य तस्य तथात्वमिति चेत् एवमप्यात्मनि सोऽहमिति प्रत्यभिज्ञा न सिद्धेत् नित्ये स्वयप्रकाशे तस्मिन् संस्कारसय जन्यज्ञानस्य वाऽसम्भवात्। नाषि स्वरूपज्ञानमेव प्रत्यभिज्ञातस्य प्रदीपप्रभावत् वर्त्तेमानार्थप्रकाशिनः पूर्वापरपरामर्शात्मकत्वायोगात्, अस्मन्मते तु सोऽहमित्याकारद्वयोपप्लुतं ज्ञानद्वयमेतन्न प्रत्यभिज्ञा। तस्मादनया दुनिरूपया प्रत्यभिज्ञया कथमैक्यसिद्धिः। उच्यते। केवले चिदात्मनि जन्यज्ञानतत्संस्कारयोरसम्भवेऽत्यन्तः करणविशिष्टे तत्सम्भवादुक्ता प्रत्यभिज्ञा किं न स्यात्। न च विशिष्टस्य प्रत्यभिज्ञाविषयत्वे तस्यैव प्रत्यभिज्ञातृत्वमपीति कर्मकर्त्तृविरोधः शङ्कनीयः, सर्ववादिनां देहव्यतिरिक्ताद्यनुमानविषयतयात्मनि कर्मकर्तृभावस्य संप्रतिपन्नत्वात्। अथ मतं नानुमानादौ विषयस्य कर्मकारकत्वम् अतीतादेस्त्वनुमाने विषयस्याविद्यमानस्य ज्ञानजनकत्वायोगात् विषयत्वन्त्वविद्यमानस्यापि कथञ्चित् सम्भविष्यति ज्ञानस्य तदाकारत्वात् अतोऽनुमानादौ कर्तृत्वमेवात्मनः, प्रत्यक्षे तु विषयस्य ज्ञानजनकतया कर्मकारकत्वम् अतो विरोधस्तदवस्थ इति मैवम् अन्तःकरणविशिष्टतयैवात्मनः प्रत्यभिज्ञातृत्वं पूर्वापरकालविशिष्टतया च प्रत्यभिज्ञेयत्वमित्युषाधिभेदेनाविरोधात्। किमेतावता प्रयासेन प्रत्यभिज्ञैव मा भूदिति चेत् न, सोऽहमिति प्रत्यभिज्ञायाः स्वानुभवसिद्धत्वात् अविसंवादित्वेन च भ्रान्तित्वायोगात्। यदुक्तं सोऽहमित्याकारद्वयोपप्लुतं ज्ञानद्वयमिति तदसत् तथ सति विज्ञानं क्षणिकमित्यत्रापि ज्ञानद्वयप्रसङ्गेन विज्ञानस्य घणिकत्वासिद्धिप्रसङ्गात्। विज्ञानमात्रवादिनां क्षणिकखादिधर्मा अवास्तवाएवेति चेत् तर्हि स्यायित्पादिधर्माएव वास्तवा उपादीयन्तां सोऽहमित्याद्यानुभवानुसारित्वात्। यच्च प्राभाकरा मन्यन्ते सोऽहमितिप्रत्यमिज्ञायां विषयत्वेनाश्रयोनात्मा सिद्ध्यति किं तर्हि सोऽयं घट इत्यादि प्रत्यभिज्ञाश्रयत्वेनेति, तदयुक्तं पूर्वापरकालविशिष्टस्य क्षणमात्रवृत्तिप्रत्यभिज्ञाश्रयत्वासम्भवेन प्रत्यभिज्ञया स्थायित्वासिद्धिप्रसङ्गात्। अथ मतं मम संवेदनं जातमिति इदानीमनुस्मर्य्यमाणा पूर्वकालीना घटादिसंवित् खाश्रयं तदानीन्तनमात्मानं साधयति स्मृतिश्च स्वाश्रयमिदानीन्तनमात्मानं साधयति ततश्च स्थाय्यात्मसिद्धिः न पुनरप्रमाणिकं सोऽहमित्यात्मविषयकं प्रत्यभिज्ञानं किञ्चित् कल्पनीयमिति चेत् नैतत् सारम् स्मृतिपूर्वानुभवौ ह्यभिज्ञा द्वयवत्ततकालीनमात्मानं यद्यपि साधयतः तथाप्येकस्यात्मनः कालद्वयसम्बन्धो न केनापि सिध्यति। संविद्द्वयमेव सम्बन्धस्यापि साधकमिति चेत् तर्हि तथैव घटादिष्वपि स्थायित्वसिद्धौ तत्सिद्धये प्रत्यभिज्ञा नापेक्ष्येत। दार्ढ्याय प्रत्यभिज्ञेति चेत् एवमपि प्रकृते संविद्द्वयं किं साक्षात्सम्बन्धस्य साधकसुत प्रत्यभिज्ञामुत्पाद्य, आद्य न तावदेकैकं तत्साधकम् एकैकस्य कालद्वयविशिष्टात्मन्यनाश्रितत्वात् नापि संभूय तत्साधकम्, अतीतानुभवस्य वर्त्तमानस्मृतेश्च यौगपद्यायोगात्। द्वितीये स्थाय्यात्मविषयं सोऽहमिति प्रत्यभिज्ञानं त्वयैवाङ्कीकृतं स्यात्। न च वाच्यं क्वचिदपि न ज्ञानविषयत्वमात्मनस्तत्कथं प्रत्यभिज्ञाविषयत्वमिति। मम संवेदनं जातमिति स्मृतिज्ञानविषयत्वात् यद्यप्यनेन स्मृतिज्ञानेन स्वोत्पत्तिकालीन आत्मा स्वाश्रयत्वेनैव प्रकाश्यते न विषयत्वेन तथापि स्मर्य्यमाणसंवेदनाश्रयभूतस्ततसंवेदनकालीन आत्मा विषयीक्रियत एव। अथोच्यते स्मृत्या संवेदनमेव विषयीक्रियते तच्च संवेदनं स्मृतं सत् स्वाश्रयमात्मानमाश्रतयैव प्रत्यायिष्यतीति तदसत् स्मृतिकाले संवेदनस्याविद्यमानस्य स्वाश्रयसाधकत्वायोगात्। स्वयंप्रकाशमानं हि संवेदनमाश्रयं साधयति न तु स्मृतिविषयतया परप्रकाश्यम् अन्यथा धर्भादीनामपि परतः सिद्धानां स्वाश्रयात्मसाधकत्वप्रसङ्गात्। तस्मादतीतकालीन आत्मा स्मृतिविषय एवेत्यभ्युपेयम्। तथाच सोऽहमिति प्रत्यभिज्ञाप्यात्मानं विषयीकरिष्यतीति प्राभाकरैरप्यात्मविषयप्रत्यभिज्ञयैव संविदात्मना क्षणिकत्वं निराकरणीयम्”।

प्रत्यभिज्ञादर्शन = न० प्रत्यभिज्ञायाः दर्शनम् शास्त्रम्। माहे- श्वरशास्त्रभेदे तन्मतं च सर्वदर्शनसंग्रहे दर्शितं यथा “अत्रापेक्षाविहीनानां जडानां कारणत्वं दुष्यतीत्यपरितुष्यन्तो मतान्तरमन्विष्यन्तः परमेश्वरेच्छावशादेव जगन्निर्माणं परिघुष्यन्तः स्वसंवेदनोपपत्त्यागमसिद्धप्रत्यगात्मतादात्म्यो, नानाविधमानमेयादिभेदाभेदशाली परमेश्वरोऽनन्यमुस्वप्रेक्षित्वलक्षणस्वातन्त्र्यभाक् स्वात्मदर्पणे भावान् प्रतिविम्बवदभासयेदिति भणन्तो बाह्याभ्यन्तरचर्य्याप्राणायामादिक्लेशप्रयासकलावैधुर्य्येण सर्वसुलभमभिनवं प्रत्यभिज्ञामात्रं परापरसिद्ध्युपायमभ्युपगच्छन्तः परे माहेश्वराः प्रत्यभिज्ञाशास्त्रमभ्यस्यन्ति। तस्येयत्तापि न्यरूपि परीक्षकैः “सूत्रं वृत्तिविवृतिर्लघ्वी वृहतीत्युभे विमर्शिन्यौ। पकरणविवरणपञ्चकमिति शास्त्रं प्रत्यभिज्ञायाः” तत्रेदं प्रथमं सूत्रम्। “कथञ्चिदासाद्य महे महेश्वरः स्याद्दास्यं जतस्याप्युपकारमिच्छन्। समस्त सम्पत्समवाप्तिहेतुं तत्प्रत्यभिज्ञामुपपादयामि” इति। कथञ्चिदिति परमेश्वराभिन्नगुरुचरणारविन्दयुगलसमाराधनेन परमेश्चरघटितेनैवेत्यर्थः आसाद्येति आ समन्तात् परिपूर्णतया सादयित्वा स्वात्मोपभोग्यतां निरर्गलां गमयित्वा तदनेन पिदितवेद्यत्वेन परार्थशास्त्रकरणेऽधिकारो दर्शितः अन्यथा प्रतारणमेव प्रसजेत्। मायोत्तीणां अपिमहामायाधिकृता विष्णुविरिञ्च्याद्या यदीयैश्वर्य्यलेशेनेश्वरीभूताः स भगवाननवच्छिन्नप्रकाशानन्दस्वातन्त्र्यपरमार्थो महेश्वरः तस्य दास्यं दीयतेऽस्मै स्वामिना सर्वं यथाभिलषितमिति दासः परमेश्वरस्वरूपस्वातन्त्रयपात्रमित्यर्थः। जनशब्देनाधिकारिविषयनियमाभावः प्रादर्शि। यस्य यस्य हीदं स्वरूपकथनं तस्य तस्य महाफलं भवति प्रधानस्यैव परमार्थफलत्वात्। तधोपदिष्टं शिवदृष्टौ परमगुरुभिर्भगवत्सोमानन्दनाथपादैः “एकवारं प्रमाणेन शास्त्राद्वा गुरुवाक्यतः। ज्ञाते शिवत्वे सर्वस्थे प्रतिपत्त्या दृढात्मना। करणेन नास्ति कृत्यं क्वापि भावनया सकृत्। ज्ञाते सुवर्णे करणं भावनां वा परित्यजेत्” इति। अपिशब्देन स्वात्मनस्तदभिन्नतामाविष्कुर्वता पूर्णत्वेन स्वात्मनि परार्थसम्पत्त्यतिरिक्तप्रयोजनान्तरावकाशश्च पराकृतः। परार्थश्च प्रयोजनं भवत्येव तल्लक्षणयोगात् न ह्ययं देवशापः, स्वार्थ एव प्रयोजनं न परार्थ इति। अत एवोक्तमक्षपादेन “यमर्थमधिकृत्य प्रवर्त्तते तत्प्रयोजनम्” इति। उपशब्दः सामीप्यार्थः तेन जनम्य परमेश्वरसमीपताकरणमात्रं फलम् अत एवाह समस्तेति परमेश्वरतालाभे हि सर्वाः सम्पदस्तन्निष्यन्दमय्यः सम्पन्ना एव रोहणाचललाभे रत्नसम्पद इव। एवं परमेश्वरतालाभे किमन्यत् प्रार्थनीयम्। तदुक्तमुत्पलाचार्य्यैः “भक्तिलक्ष्मीसमृद्धानां किमन्यदुपयाचितम्। एनया वा दरिद्राणां किमन्यदपयाचितम्” इति। इत्थं षष्ठीसमासपक्षे प्रयोजनं निर्दिष्टम्। बहुब्रीहिपक्षेतूपायः समस्तस्य बाह्याभ्यन्तरस्य नित्यसुखादेर्या सम्पत्सिद्धिः तथात्वप्रकाशः तस्याः सम्यगवाप्तिर्यस्याः प्रत्यभिज्ञायाः हेतीः सा तथोक्ता तस्य महेश्वरस्य प्रत्यभिज्ञा प्रतिसन्धानाभिमुख्येन ज्ञानम्। लोके हि स एवायं चैत्र इति प्रतिसन्धानेनाभिमुखीभूते वस्तुनि ज्ञानं प्रत्यभिज्ञेति व्यवह्रियते इहापि प्रसिद्धपुराणसिद्धागमानुमानादिज्ञातपरिपूर्णशक्तिके परमेश्वरे सति खात्मन्यभिमुखीभूते तच्छक्तिप्रतिसन्धानेन ज्ञानमुदेति नूनं सं एवेश्वरोऽहमिति। तामेतां प्रत्यभिज्ञामुपपादयामि उप्रपन्नः सम्भवतीति तत्समर्थाचरणेन प्रयोजनव्यापारेण सम्पादायामीत्यर्थः। यदीश्वरस्वभाव एवात्मा प्रकाशते तर्हि किमनेन प्रत्यभिज्ञाप्रदर्शनप्रयासेनेति चेत् तत्रायं समाधिः स्वप्रकाशतया सततमवभासमानेऽप्यात्मनि मायावशात् भागेन न पूकाशते पूर्णतावभाससिद्धये दृकक्रियात्मकशक्त्याविष्करणेन प्रत्यभिज्ञा प्रदर्श्यते। तथा च प्रयोगः अयमात्मा परमेश्वरो भवितुमर्हति ज्ञानक्रियाशक्तिमत्त्वात् यो यावति ज्ञाता कर्त्ता च स ताबतीश्वरः प्रसिद्धेश्वरवत् राजवद्वा आत्मा च विश्वज्ञाता कर्त्ता च तस्मादीश्वरीऽयमिति अवयवपञ्चकस्याश्रयणं मायावादेन नैयायिकमतस्य कक्षीकारात्। तदुक्तमुदयकरसूनुना “कर्त्तरि ज्ञातरि स्वात्मन्यादिसिद्धे महेश्वरे। अजडात्मा निषेधं वा सिद्धिं वा विदधीत कः। किन्तु मोहवशादस्मिन् दृष्टेऽप्यनुपलक्षिते। शक्त्याविष्करणेनेयं प्रत्यभिज्ञोपदर्श्यते”। तथा हि “सर्वेषामिह भूतानां प्रतिष्ठा जीवदाश्रया। ज्ञानं क्रिया च भूतानां जीवतां जीवनं मतम्। तत्र ज्ञानं स्वतः सिद्धं क्रिया काऽस्याश्रिता सती। परैरप्युपलक्ष्येत तयाऽन्यज्ज्ञानमुच्यते” इति। “या चैषां पृतिभा तत्तत्पदार्थक्रमरूपिता। अक्रमानन्दचिद्रूपः प्रमाता स महेश्वरा” इति च। सोमानन्दनाथपादैरपि “सदा शिवात्मना वेत्ति सदा वेत्ति मदात्मना” इत्यादि। ज्ञानाधिकारपरिसमाप्तावपि “तदैक्येन विना नास्ति संविदां लोकपद्धतिः। प्रकाशैक्यात्तदेकत्वं मातैकः स इति स्थितः। स एवार्थभृशत्वेन नियतेन महेश्वरः। विमर्श एव देवस्य शुद्धे ज्ञानक्रिये यतः” इति। विवृतं चाभिनवगुप्ताचार्य्यैः “तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभातीति” श्रुत्या प्रकाशचिद्रूपमहिम्ना सर्वस्य भावजातस्य भासकत्वमभ्युपेयते ततश्च विषयप्रकाशस्य नीलप्रकाशः पीतप्रकाश इति विषयोपरागभेदाद्भेदः। वस्तुतस्तु देशकालाकारसङ्कोचवैकल्या दभेद एव स एव चैतन्यरूपः प्रकाशः प्रमातेत्युच्यते। तथा च पठितं शिवसूत्रेषु “चैतन्यमात्मेति”। तस्य चिद्रूपत्वमनवच्छिन्नविमर्शत्वमनन्योन्मुस्वमानन्दैकघनत्वं माहेश्वर्य्य मिति पर्य्यायः स एव ह्ययं भावात्मा विमर्शः शुद्धे पारमार्थिक्यौ ज्ञानक्रिये तत्र प्रकाशरूपता ज्ञानं, स्वतो जगन्निर्मावृत्वं क्रिया। तच्च निरूपितं क्रियाधिकारे “एष चानन्दशक्तित्वादेवमाभासयत्यमून्। भावानिच्छावशादेषा क्रिया निर्मातृताऽस्य तु”। उपसंहारेऽपि “इत्थं तथा घटपटाद्याकारजगदात्मना। तिष्ठासारेवमिच्छैव हेतुकर्तृकृता क्रियेति। तस्मिन् सतीदमस्तीति कार्य्यकारणतापि या। साप्यपेक्षाविहीनानां जडानां नोपषद्यते” इति न्यायेन यतो जडस्य न कारणता न वा अनीश्वरस्य चेतनस्यापि तस्मात्तेन तेन जगद्गतजन्मस्थित्यादिभावविकारत्तद्भेदक्रिथासहस्ररूपेण स्थातुमिच्छाः स्वतन्त्रस्य भगवती महेश्वरस्येच्छैवोत्तरोत्तरमच्छस्वभावा क्रिया विश्वकर्तृत्वं वोच्यते इति। इच्छामात्रेण जगन्नि र्माणमित्यत्र दृष्टान्तोऽपि स्पष्टं निर्दिष्टः “योगिनामपि मृद्वीजं विनैवेच्छावशेन यत्। घटादि जायते तत्तत् स्थिरस्वार्थक्रियाकरम्” इति। यदि घटादिकं प्रति मृदाद्येव परमार्थतः कारणं स्यात्तर्हि कथं योगीच्छामात्रेण घटादिजन्म स्यात्। अथोच्येत अन्य एव मृद्बोजादिजन्या घटाङ्कुरादयो योगीच्छाजन्यास्त्वन्या एवेति तत्रापि बोध्यसे सामग्रीभेदात्तावत् कार्य्यभेद इति सर्वजनप्रसिद्धम्। ये तु वर्णयन्ति नोपादानं विना घटाद्यु त्पत्तिरिति योगी त्विच्छया परमाणून् व्यापारयन् सङ्घटयतीति तेऽपि बोधनीयाः। यदि परिदृष्टकार्य्यकारणभावविपर्य्ययो न लभ्येत तर्हि घटे मृद्दण्डचक्रादिदेहे स्त्रीपुरुषसंयोगादिःसर्वमपेक्ष्येत तथा च योगीच्छासमनन्तरसञ्जातघटदेहादिसम्भवो दुःसमर्थ एव स्यात्। चेतन एव तु तथा भाति भगवान् भूरिभगो महादेवो नियतनुवर्त्तवोल्लङ्घनघनंतरस्वातन्त्य इति पक्षे न काचि- दनुपपत्तिः। अत एवोक्तं वसुगुप्ताचार्य्यैः “निरुपादानसम्भारमभित्तावेव तन्वते। जगज्जित्रं नमस्तस्मै कलाश्ल घ्याय शूलिने” इति। ननु प्रत्यगात्मनः परमेश्वराभिन्नत्वे संसारसम्बन्धः कथं भवेदिति चेत्तत्रोक्तमागमाधिकारे “एष प्रमाता मायान्घः संसारी कर्मबन्धनः। विद्यादिज्ञापितैश्वर्य्यश्चिद्घनो मुक्त उच्यते” इति। ननु प्रमेयस्य प्रमात्रभिन्नत्वे बद्धमुक्तयीः प्रमेयं प्रति को विशेषः? अत्राप्युत्तरमुक्तं तत्त्वार्थसंग्रहाधिकारे “मेयं साधारणं सुक्तः स्वात्माभेदेन भन्यते। महेश्वरो यथा बद्धः पुनरत्यन्तभेदवदिति” नन्वात्मनः परमेश्वरत्वं स्वाभाविकं चेन्नार्थः प्रत्यभिज्ञाप्रार्थनया न हि वीजमप्रत्यभिज्ञातं सति सहकारिसाकल्ये अङ्कुरं नोत्पादयति। तस्मात् कस्माद्वात्मप्रत्यभिज्ञाने निबंन्ध इति चेदुच्यते। शृणु तावदिदं रहस्यं द्विविधा ह्यर्थक्रिया बाह्याङ्कुरादिका प्रमातृविश्रान्तिचमत्कारसारा प्रीत्यादिरूपा च तत्राद्या प्रत्यभिज्ञानं नापेक्षते द्वितीया तु तदषेक्षत एव। इहाप्यहमीश्वर इत्येवम्भूतचमत्कारसारा परापरसिद्धिलक्षणजीवात्मैकत्वशक्तिविभूतिरूपाऽर्थक्रियेति स्वरूपप्रत्यभिज्ञानमपेक्षणीयम्। ननु प्रमातृविश्रान्तिसारार्थक्रिया प्रत्यभिज्ञानेन विना दृष्टा सती तस्मित् दृष्टेति क्व दृष्टम्। अत्रोच्यते नायकगुणगणसंश्रवणप्रवृद्धानुरागा का चन कामिनी मदनविह्वला विरहक्लेशमसहमाना मदनलेखावलम्वेन स्वावस्थानिवेदनानि विधत्ते तथा येगात्तन्निकटमटत्यपि तस्मिन्नवलोकितेऽपि तदवंलोकनं तदीयगुणपरामर्शाभावे जनसाधारणत्वं प्राप्ते हृदयङ्गमभावं न लभते। यदा तु मूर्त्तिवचनाचदीयगुणपरामर्शं करोति तदा तत्क्षणमेव पूर्वभावमत्येति। एवं स्वात्मनि विषश्वरात्मना भासमानेऽपितन्निर्भासनं तदीयगुणपरामशेविरहसमयं पूर्णं भाव न सम्पादयति यदा तु गुरुवचनादिना सर्वज्ञत्वसर्वकर्तृत्वादिलक्षणपमश्वरीत्कषपरामर्शो जायते तदा तत्क्षणमेव पूर्णात्मतालाभः। तदुक्तं चतुर्थे विमर्शे “तैस्तैरप्युपयाचितैरुपनतस्तस्याः स्थितोऽप्यन्तिके कान्तो लोकसमान एवमपरिज्ञाता न रन्तं यथा। लोकस्यैष तथानपेक्षितगुणः स्वात्मापि विश्वेश्वरो नैवायं निजवैभवाय तदियं तत्प्रत्यभिज्ञोदिता” इति। अभिनवगुप्तादिभिराचार्य्यौर्विहितप्रतानोऽपि अयमर्थः संग्रहमुपक्रममाणैरस्माभिर्बिस्तरभिया न प्रतानित इति सर्वं शिवम्”।

प्रत्यभियोग = पु० प्रतिरूपोऽभियोगः प्रा० स०। अभियुक्तेन प्रतिवादिना स्वाभियोगिनं प्रति अभियोगान्तरकरणे।

प्रत्यभिवाद = पु० प्रति + अभि + वद–णिच्–घञ्। अभिवादकस्य तत्प्रतिरूपे आशीर्वचनादौ। भावे ल्युट्। प्रत्यभिवादन तत्रार्थे न०। तत्प्रकारः मनुना कुल्लूकभट्टेन च दर्शितो यथा “आयुष्मान् भव सौम्येति वाच्यो विप्रोऽभिवादने। अकारश्चास्य नाम्योऽन्ते वाच्यः पूर्वाक्षरः प्लुतः। यो न वेत्त्यभिवादस्य विप्रः प्रत्यभिवादनम्। नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः” “अभिवादने कृते प्रत्यभिवादयित्रा अभिवादको विपादिः आयुष्मान् भव सौम्येति वाच्यः। अस्य चाभिवादकस्य यश्चाम तस्यान्ते योऽकारादिः स्वरो नाम्नामकारान्तत्वनियमाभावात् स प्लुतः कार्य्यः स्वरापेक्षञ्चेदकारान्तत्वं व्यञ्जनान्तेऽपि नाम्नि सम्भवति स्वरान्तरस्य च व्यञ्जनान्ते नाम्नोऽसम्भवात् आह पूर्वाक्षर इति। पूर्वनामगतमक्षरं संश्लिष्टं यस्य स पूर्वाक्षरः तन नामाक्षरं पकृव्य चाकारादिः स्वरः प्लुतः कार्यः। एतच्च वाक्यस्य टेः प्लुत उदात्तः इत्यस्यानुवृत्तौ “प्रत्यभिवादेऽशूद्रे” इति प्लुतं स्मरन् पाणिनिः स्फुटमुक्तवान्। व्याख्यातञ्च वृत्तिकृता वामनेन टेरिति किं व्यञ्जनान्तस्यैव टेः प्लुतो यथा स्यादिति। तस्मादीदृशं प्रत्यभिवादनवाक्यम् आयुष्मान् भव सौम्य! शुभशर्म ३ न्! एवं क्षत्रियस्य वलवर्म ३ न् एवं वैश्यस्य वसुभूते ३” “प्लुतो राजन्यविशां वेति कात्यायनवचनात् क्षत्रियवैश्ययोः पक्षे प्लुतो न भवति। शूद्रस्य प्लुतो न कार्यः अशूद्र इति पाणिनिवचनात्। “स्त्रियामपि निषेध” इति कात्यायनवचनात् स्त्रियामपि प्रत्यभिवादनवाक्ये न प्लुतः”।

प्रत्यभिस्कन्दन = न० प्रति + अभि + स्कन्द–भावे ल्युट्। प्रत्यभियोगे त्रिका०।

प्रत्यय = पु० प्रति + इण–भावकरणादौ अच्। १ अधीने २ शपथे ३ ज्ञाने ४ विश्वासे प्रामाण्येन निश्चये ५ हेतौ ६ छिद्रे ७ शब्दभेदे अमरः। ८ आचारे ९ ख्यातौ मेदि०। १० निश्चये ११ स्वादुनि हेमच० १२ सहकारिकारणे त्रिका०। शब्दभेदप्रत्ययलक्षणन्तु शब्दश० प्रका० उक्तं यथा “लाघवादन्यथा निर्वक्ति “इतरार्थानवच्छिन्ने स्वार्थे यो बोधनाक्षमः। तिङर्थस्य निभाद्यन्यः स वा प्रत्यय उच्यते”। यः शब्दः शब्दान्तरार्थाविशेषिते यादृशस्वार्थे धर्मिणि तिङर्थ स्यान्वयवोधने स्वरूपायोगृ स वा निभादिशब्देभ्यो मिन्नस्तादृशार्थे प्रत्यय इत्यर्थः। चैत्रोऽस्तीत्यादावर्थान्त- रानवच्छिन्ने स्वार्थे नाम्नां तिङर्थान्वयबोधकत्वम्। एवं यजेत स्थीयेतेत्यादौ यजादिधातूनाम्। पचतीत्यादौ तिङां पाचकोऽस्तीत्यादौ कृतां काश्यपिरित्यादौ च तद्धितानाम् प्रकृत्यर्थावच्छिन्ने एव स्वार्थे कृत्यादौ तिङर्थस्य वर्त्तमानत्वादेर्बोधकत्वं न तु तदनवच्छिन्न इति न तेष्वप्रसङ्गः। निभनिपातादिकस्तु शब्दान्तरार्थानवच्छिन्ने सदृशसमुच्चयादिखार्थे तिङर्थास्यान्वयं प्रति स्वरूपायीग्योऽपि निभादिरेवेति न तत्र प्रसङ्गः”। वैयाकरणमते तु अस्माभिस्तल्लक्षणं शब्दार्थरत्नेउक्तं यथा “प्रत्ययस्तु प्रकृतिमवधीकृत्य विधीयमानः स्वार्थवोधकः शब्दविशेषः प्रकृतिशब्ददर्शितभाष्योक्तेः। “स्वीयमर्थं प्रत्यायतीति” प्रत्ययलक्षणे भाष्योक्तेश्च तथैवावगम्यते। अवधिश्च पूर्वापररूपो ग्राह्यः तेन बहुचि नाप्रसङ्गः तस्यापि प्रकृत्यवधिकत्वेन विधीयमानत्वात्। सिद्धान्ते तु वृत्तिशब्दानां समुदायशक्तिस्वीकारेण बहुजादेर्निरर्थकतया मुख्यप्रत्ययत्वाभावादेव पूर्बत्वरूपावधित्वप्रवेशेऽपि न क्षतिः। अतएव प्रकृतिशब्दोक्तहरिकारिकायां “प्रत्ययः पर” इत्यनेन परत्वेन विधीयमानत्वं प्रत्ययत्वमुक्तं तस्य च मुख्यत्वद्योतनार्थं स्वार्थकत्वसाकाङ्क्षत्वकथनाय च इतरत् द्विशेषणम् तथा च तदर्थान्वितस्वार्थबोधने तदपेक्षत्वे सति तदवधिकत्वेन विधीयमानत्वं तत्प्रत्ययत्वमिति फलितोऽर्थः। अन्वितत्वञ्च विशेष्यतया विशेषणतया वा ग्राह्यं तेन तिङा धात्वर्थविशेष्यकान्वयस्य बोधकत्वेऽपि न क्षतिः। यदि चावयवशक्तिस्वीकारस्तदा परपदेनावधिमात्रं लक्षणीयम् अवधिश्च पूर्वापरान्यतरएव निबेशनीयः। एवञ्च प्रत्ययनिमित्तकप्रकृत्यङ्गकार्यविशेषे विकरणागमादीनां प्रत्ययत्वस्वीकारेण परत्वमात्रं प्रत्ययत्वमिति बोध्यम्। अथवा प्रत्यय इत्यधिकृत्या पञ्चमाध्यायसमाप्तेर्विधीयमानत्वं प्रारिभाषिकप्रत्ययत्वं तत्रैव अर्थबोधकत्वे सतीति विशेषणे मुख्यप्रत्ययत्वसामान्यलक्षण पर्व्यवस्यति तत्तत्प्रत्ययत्वन्तूक्तमेव। स्वार्थिकप्रत्ययानामपि प्रकृत्यर्थानुवादितया स्वार्थबोधकत्वमतएवाभिहितं वाक्यपदीये “स्वार्थिकाः प्रत्ययाः केचित् प्रकृत्यर्थानुबादिनः” इति। एतदनुरोधेनैव शेस्वरादौ स्वस्वप्रकृत्यर्थान्यतरप्रत्यायकत्वं प्रत्ययानामुक्तम्। विकरणादयः पुनः सर्वथा निरर्थका तेषां द्योतकत्वाद्यनङ्गीकारात् तद्व्यतिरेकेणापि कृदादौ धातुमात्रादेवार्थप्रतीतेर्दर्शनात्। उक्तञ्च बाक्यपदीये “यत्र वाऽव्यभिचारेण तयोः शक्तिप्रकल्पनम्। निश्चमस्तत्र नियमो न त्वेवं श्यन्शबादिष्विति”। यत्र ययोरव्य भिचारेणान्वयव्यतिरेकाभ्यां, नियमः अर्थप्रतीतिनियमस्तयोः प्रकृतिप्रत्यययोः शक्तिकल्पनम्। यत्र चैवं न नियमस्तत्र श्यन्शवादिषु नेत्यस्यावृत्त्या शक्तिकल्पनं नेत्यर्थः”। १३ विष्णौ पु० “प्रत्ययः सर्वदर्शनः” विष्णुसं। तस्य ज्ञानरूपत्वात् तथात्वम् भाष्ये दृश्यम्। प्रत्ययश्च बुद्धिरात्मगुण इति नैयायिकाः। महत्तत्त्वधर्म इति सांख्याः। “एष प्रत्ययसर्गो विपर्य्ययाशक्तितुष्टीनाम्” सा० का०। “प्रतीयतेऽनेनेति प्रत्ययो बुद्धिस्तस्य सर्गः तत्र विपर्य्ययोऽज्ञानमविद्या च बुद्धिधर्मः अशक्तिरपि करणवैकल्यहेतुका बुद्धिधर्म एव तुष्टिसिद्धो अपि वक्ष्यमाणे बुद्धिधर्मावेव, तत्र विपर्य्ययाशक्तितुष्टिषु कथायोगं सप्तानां धर्मादीनां ज्ञानवर्जमन्तर्भावः सिद्धौ च ज्ञानस्येति” त० कौ०। कृदभिहितो भावो द्रव्यवत् प्रकाशते” इति न्यायात् सर्गपदं सृज्यमानपरं तथा चाविद्यादेर्बुद्धिधर्मत्वात् तत्सृष्टत्वम्।

प्रत्ययकारिन् = त्रि० प्रत्ययं करोति कृ–णिनि। १ विश्वासकारके स्वमतत्वसूचके २ मुद्राभेदे(मोहर)त्रिका०।

प्रत्ययित = त्रि० प्रति + अय –क्त। १ आप्ते २ विश्वस्ते ३ प्रतिगते च अमरः

प्रत्यरा = स्त्री प्रतिनिहिताः अराः प्रा० स०। अरादार्ढ्याय उपनिहिते कीलके “शतार्द्धारं विशतिप्रत्यराभिः” श्वेताश्व० उ० “पूर्वोक्तानामराणां दार्ढ्याय ये प्रतिविधीयन्ते कीलकास्ते प्रत्यरा इत्युच्यन्ते” भाष्ये उक्तम्।

प्रत्यरि = पु० प्रति + ऋ–इन्। १ शत्रौ २ जन्मतारातः पञ्चमचतुर्दशत्रयोविंशतितारके “जन्म सम्पद्विपत् क्षेमं प्रत्यरिः माधकोबधः। मित्रं परममित्रं च जन्मर्क्षात्तुत्रिधा पुनः” ज्यो० त०। “तारा पुनः पापाख्या त्रिविधा पञ्चचतुर्दशविंशतिस्त्रियुता। सिद्धिफला वृद्धिकरी विनाशसंज्ञा क्रमात् कथिता” ज्यो० त०। तेन तृतीयस्यैव विशेषत आवश्यककार्य्यादौ निषेधात् त्याज्यता आद्ययोर्द्वयोस्तु प्रतिप्रसवः इति द्रष्टव्यम् “प्रत्यरौ लवणं दद्यादिति” दानमपि तृतीयप्रत्यरावेवेति विवेचनीयम्।

प्रत्यर्थिन् = त्रि० प्रत्यर्थयते प्रति + अर्थ–पीडने णिनि। १ शत्रौ अमरः। प्रतिकूलमर्थयते णिनि, प्रतिपक्षः अर्थिनः प्रा० स० वा। व्यवहारे २ प्रतिवादिनि शब्दर०। “प्रत्यर्थिनोऽग्रतो लेख्यं प्रतिज्ञातार्थसाधनम्” याज्ञ०।

प्रत्यर्पण = न० प्रति + ऋ–णिच्–पुक्–ल्युट्। प्रतिदाने गृहीतस्य धनादेः पुनदाने प्रतिसमर्पणे।

प्रत्यवनेजन = न० प्रतिरूपमवनेजनम् प्रा० स०। श्राद्धाङ्गे प्रथमजलादिदानरूपानुरूपे पिण्डोपरि क्रियमाणे पुनरवनेजने तच्च छन्दोगेतरपरं यथोक्तम् “छन्दोगानान्तु पिण्डपात्रप्रक्षालनेन पूर्वदवनेजनम्। यथा छन्दोगपरिशिष्टं “तत्पात्रक्षालनेनाथ पुनरप्यवनेजयेत्” अत्राप्य बनेजयेदिति श्रुतेर्द्वितीयावनेजनेऽपि अवनेनिक्ष्वेति वक्तव्यं न तु प्रत्यनेनिक्ष्वेति” श्रा० त० रघु०।

प्रत्यवमर्श = पु० प्रति + अव–मृश–भावे घञ्। अनुसन्धाने “स्मृतिः प्रत्यवमर्शश्च तेषां जात्यन्तरेऽभवत्” हरिवं० २१ अ०

प्रत्यवमर्ष = पु० प्रति + अव + मृष–क्षान्तौ भावे घञ्। सहने “स्वल्पसङ्करः सपरिहारः सप्रत्यवमर्षः” पञ्चशिखाचार्यः। “स्वल्पसङ्करः ज्यीतिष्टोमादिजन्मनः प्रधानापूर्वख स्वल्पेन पशुहिंसादिजन्मनाऽनर्थहेतुना अपूर्वेण सङ्करः, सपरिहारः कियतापि प्रायश्चित्तेन परिहर्त्तुंशक्यः। अथ प्रमादतः प्रायश्चित्तमपि नाचरितं प्रधानकर्मविपाकसमये च पच्यते तथापि यावदसावनर्व्यं सूते तावत् स प्रत्यवमर्षः प्रत्यवमर्षेण सहिष्णुतया सह वर्त्तत् इति मृष्यन्ते हि पुण्यसम्भारोपनीतस्वर्गसुधामहाह्रदावगाहिनः कुशलाः पापमात्रोपपादितां दुःस्ववह्निकणिकाम्” त० कौ०। भावे ल्युट्। प्रत्यवमर्षण तत्रार्थे न०।

प्रत्यवर = त्रि० प्रतिरूपोऽवरः प्रा० स०। अतिनिकृष्टे “प्रतिग्रहाद्याजनाद्वा तथैवाध्यापनादपि। प्रतिग्रहः प्रत्यवरः प्रेत्य विप्रस्य गर्हितः” मनुः।

प्रत्यवरीह = पु० प्रति + अव + रुह–घञ्। (नामा) अवरोहे ल्युट्। प्रत्यवरोहण तत्रार्थे न०।

प्रत्यवसान = न० प्रति + अव + सो–क्त। भोजने हेमच०।

प्रत्यवसित = त्रि० प्रति + अव + सो–कर्मणि क्त। भुक्ते अमरः।

प्रत्यवस्कन्द = पु० प्रति + अव + स्कन्द–करण घञ्। व्यवहारे उत्तरभेदे उत्तरशब्दे १०९० पृ० दृश्यम्। करणे ल्युट्। प्रत्यवस्कन्दन तत्रार्थे न०।

प्रत्यवस्था = स्त्री प्रति + अव + स्था–भावे अङ्। १ प्रतिपक्षतया अवस्थाने। भावे ल्युट्। प्रत्यवस्थान तत्रार्थे न०। “साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानम्” गौ० त०

प्रत्यवस्थातृ = त्रि० प्रति + अव + स्था–तृच्। १ प्रतिषक्षतया अवस्थातरि प्रतिवादिनि। २ शत्रौ हेम०।

प्रत्यवहार = पु० प्रति + अव–हृ–भावे घञ्। १ संहारे रघुः ४। ४४ २ युद्धार्यमुद्युक्तानां सैन्यानां युद्धात् निवारणे भा० व० २८३ अ०।

प्रत्यवाय = पु० प्रति + अव–इण–करणे अच्। १ पापे “अनुत्पत्तिं तथा चान्ये प्रत्यवायस्य मन्वते” जावालिः। भावे अच्। २ वैमत्याचरणे मनुः ४। २४५।

प्रत्यवेक्षण = त० प्रति + अव + ईक्ष–भावे ल्युट्। पूर्वापरालोचने २ एतावत्कृतमेतावत् न कृतमित्यर्थानुसन्धाने च। प्रति + अव + ईक्ष–भावे अ। प्रत्यवेक्षा तत्रार्थे स्त्री रघुः १७। ५३।

प्रत्यश्मन् = पु० प्रतिरूपः अश्मा प्रा० स०। गैरिके हेम०।

प्रत्यष्ठीला = स्त्री सुश्रुतोक्ते अष्ठीलातुल्ये रोगभेदे “अष्ठीलावद्घनं ग्रन्थिमूर्द्ध्वमायतमुन्नतम्। वाताष्ठीलां विजानीयाद्बहिर्मार्गावरोधिनीम्। एतामेव रुजायुक्तां वातविण्मूत्ररोधिनीम्। प्रत्यष्ठीलामिति वदेज्जठरे तिर्य्यगुत्थिताम्”।

***