इन्दुक = पु० इन्दुरिव शुभ्रत्वात् कन्। अश्मन्तकवृक्षे। राजनि०
इन्दुकक्षा = स्त्री ६ त०। चन्द्रस्य राशिचक्रस्थे परिधौ तन्मानमिन्दुशब्दे ९३१ पृ० उक्तम्।
इन्दुकमल = न० इन्दुरिव शुभ्रं कमलम्। सितोत्पले राजनि०
इन्दुकला = स्त्री ६ त०। चन्द्रस्य षोडशभागैकभागे। कलाश्च षोडश। अमाशब्दे ३२० पृष्ठे दर्शितास्ताश्च कृष्णप्रक्षे क्रमेण वह्न्यादिभिः पीयन्ते यथोक्तं कालमा० सोमोत्पत्तिवाक्यम् “प्रथमां पिबते वह्निर्द्वितीयां पिबते रविः। विश्वे देवास्तृतीयां तु चतुर्थीं सलिलाधिपः। पञ्चमीं तु वषट्कारः षष्ठीं पिषति वासवः। सप्तमीमृषयोदिव्या अष्टमीमजएकपात्। नवमीं कृष्णपक्षस्य यमः प्राश्नाति वै कलाम्। दशमीं पिबते वायुः पिबत्येकादशी मुमा। द्वादशीं पितरःसर्वे समं प्राश्नन्ति भागशः। त्रयोदशीं धनाध्यक्षः कुवेरः पिबते कलाम्। चतुर्द्दशीं पशुपतिः पञ्चदशीं प्रजापतिः। निष्पीतः कलया शेषश्चन्द्रमा न प्रकाशते। कला षोडशिका या सा त्वपः प्रविशते सदा। अमायां तु सदा सोमस्त्वोषधीः प्रतिपद्यते। तमोषधिगतं गावः पिबन्त्यनुगतं च यत्। तत्क्षीरममृत भूत्वा मन्त्रपूतं द्विजातिभिः। हुतमग्निषु यज्ञेषु पुनराप्याय्यते शशी। दिने दिने कलावृद्धिः पौर्ण्णमास्यान्तु पूर्य्यते” इति। “पुनश्च ताः पीताः कलास्तेनैव क्रमेण वह्न्यादिदेवताभ्यो निर्गत्य चन्द्रमण्डलं पूरयन्तीति” माधवः। यथा च कलापानसम्भवस्तथा इन्दुशब्दे दर्शितेन ९३३ पृ० कालमा० वाक्येन समर्थितम्। तासांकलानां यद्यपि तिथिविशेषरूपता तथापि नामान्तराणि शारदा० उपासनार्थमुक्तानि यथा। “अमृता मानदा पूषा तुष्टिः पुष्टीरतिर्धृतिः। शशिनश्चन्द्रिका कान्तिः ज्योत्स्ना श्रीः प्रीतिरङ्गदा। पूर्ण्णा पूर्ण्णामृताह्वा च कामदा स्वरजाः कलाः”। तथा च षोडशभ्यः स्वरेभ्य आसामुत्पत्तिरपि ध्येयाः” “शतमिन्दुकलाक्षये” स्मृतिः।
इन्दुकलिका = स्त्री इन्दुरिब शुभ्रा कलिका यस्याः। १ केतक्याम्। ६ त० स्वार्थे कन्। २ चन्द्रकलायाम्।
इन्दुकान्त = पु० इन्दुःकान्तैब निष्यन्दकारित्वात् प्रियोऽरा। १ चन्द्रकान्ते मणौ इन्दुःकान्तः पतिः स्वोदयेन कारकत्वादीशो यस्याः। २ रात्रौ। इन्दुःकान्तैव प्रकाशकत्वात् यस्याः। ३ केतक्याम्। ६ त०। ४ चन्द्रप्रियायाञ्च स्त्री।
इन्दुक्षय = पु०। इन्दुःक्षीयतेऽत्र क्षि–आधारे अच् ६ त०। १ दर्शे तत्र हि इन्द्रोः कलानां सूर्य्यकिरणास्पर्शात् क्षयैव भवतीति इन्दुकलाशब्दे दर्शितम् “शतमिन्दुक्षये पुण्यं सहस्र तु दिनक्षये” मल० त० पु०। भावेऽच्। २ चन्द्रस्यक्षये।
इन्दुज = पु० इन्दोर्जायते जन–ड। वृहस्पपतिभार्य्यातारागर्भे चन्द्रेणोत्पादिते बुधे तदुत्पत्तिकथा हरिवं० २६ अ० सोमस्य राजसूययज्ञकरणानन्तरमैश्वर्य्येण मत्तस्य मतिभ्रान्तिमुपवर्ण्य “वृहस्पतेः स वै भार्य्यां तारां नाम यशस्विनीम्। जहार तरसा सर्वानवमत्याङ्गिरःसुतान्” इत्युपक्रम्य ऋषीणां तत्र युद्धं वर्णयित्वा तत्र युद्धोपद्रवेण उपद्रुतदेवैः प्रार्थितेन ब्रह्मणा यत् कृत तदुक्तं तत्रैव “ततोनिवार्य्योशनसं तं वै रुद्रं भयङ्करम्। ददावङ्गिरसे तारां स्वयमेव पितामहः। तामन्तःप्रसवां दृष्ट्वा तारामाह वृहस्पतिः। मदीयायां न ते योनौ गर्भो धार्य्यः कथञ्चन। योनेरुदसृत्तं वै कुमारं दस्युहन्तमम्। इषीकास्तम्बमासाद्य ज्वलन्तमिव पावकम्। जातमात्रः स भगवान् देवानामक्षिपद्वसु। ततः संशयमापन्नास्तारामूचुः सुरोत्तमाः। सत्यं ब्रूहि सुतः कस्य सोमस्याथ वृहस्पतेः। पृच्छ्यमाना यदा देवैर्नाह सा साध्वसाधु वा। तदा तां शप्तुमारब्धः कुमारोदस्युहन्तमः। तं निवार्य्य ततो ब्रह्मा तारां प्रपच्छ संशयम्। यदत्र तथ्यं तद्ब्रूहि तारे! कस्य सुतोह्ययम्। सा प्राञ्जलिरुवाचेदं ब्रह्माणं वरदं शनैः। सोमस्येति महात्मानं कुमारं दस्युहन्तमम्। तं भूर्द्ध्न्याघ्राय तनयं सोमोधाता प्रजापतिः। बुध इत्यकरोन्नाम तस्य पुत्रस्य धीमतः”। अस्यैव ग्रहत्वप्राप्तिः काशी० वर्णिता यथा” हरिर्वशवत् बुधस्योत्पत्तिं वर्ण्णयित्वा। “ततः सर्व्वेभ्योदेवेभ्यस्तेजोरूपबलाधिकः। बुधः सोमं समापृच्छ्य तपसे धृत निश्चयः। जगाम काशीं निर्वाणरार्शिं विश्वेशपालिताम्। ततो लिङ्गं प्रतिष्ठाप्य स्वनाम्ना स बुधेश्वरम्। तपश्चचार चात्युग्रमुग्रं संशीलयन् हृदि”। इति तत्तपोवणितम् तत्तपसा तोषितश्च महादेवस्तस्मै ग्रहरूपेण गगनेस्थिति रूपं वरं ददौ” यथा “ततः प्राह महेशानस्तत्स्तुत्या परितोषितः। रौहिणेय! महाभाग्य! सौम्य। सौम्यवचोनिधेः। नक्षत्रलोकादुपरि तव लोको भविष्यति। मध्ये सर्वग्रहाणाञ्च सपर्य्यां लप्स्यसे पराम्” राशिचक्रे तत्स्थानञ्च सू० सि० “मन्दामरेज्यमूपुत्रसूर्य्यशुक्रेन्दुजेन्दवः। परिभ्रमन्त्यधोऽधःस्थाः सिद्धविद्याधराघनाः” इत्यनेन चन्द्रस्थानादुपरि शुक्राच्चाधः प्रदेशे उक्तम्। तत्कक्षामानञ्च। इन्दुशब्दे पृ० ९३१ श्रीपतिवाक्ये उक्तम् तस्य चारप्रकारः वृहत्संहितायां दर्शिता यथा।
“नोत्पातपरित्यक्तः कदाचिदपि चन्द्रजो व्रजत्युदथम्। जलदहनपवनभयकृद्ध्वान्यार्घक्षयविवृद्ध्यै वा। विचरञ्छ्रवण- धनिष्ठाप्राजापत्येन्दुविश्वदेवानि। मृद्नन् हिमकरतनयः करोत्यवृष्टिं सरोगभयाम्। रौद्रादीनि मघान्तान्युपाश्रिते चन्द्रजेप्रजापीडा। शस्त्रनिपातक्षुद्भयरोगानावृष्टिसन्तापैः। हस्तादीनि विचरन् षडृक्षाण्युपपीडयन् गवामशुभः। स्नेहरसार्घविवृद्धिं करोति चोर्वीं प्रभूतान्नाम्। आर्यम्णं हौतभुजं भाद्रपदामुत्तरां यमेशं च। चन्द्रस्य सुतो निघ्नन् प्राणभृतां धातुसङ्क्षयकृत्। आश्विनवारुणमूलान्युपमृद्गन् रेवतीं च चन्द्रसूनुः। पण्यभिषग्नौजीविकसलिलजतुरगोपघातकरः। पूर्वाद्यृक्षत्रितयादेकमपीन्दोः सुतोऽभिमृद्नीयात्। क्षुच्छस्त्रतस्करामयभयप्रदायी चरन् जगतः। प्राकृतविमिश्रसङ्क्षिप्ततीक्ष्णयोगान्तघोरपापाख्याः। सप्त पराशरतन्त्रे नक्षत्रैः कीर्तिता गतयः। प्राकृतसंज्ञा वायव्ययाम्यपैतामहानि बहुलाश्च। मिश्रा गतिः प्रदिष्टा शशिशिवपितृभुजगदैवानि। सङ्क्षिप्तायां पुष्यः पुनर्वसुः फल्गुनीद्वयं चेति। तीक्ष्णायां भाद्रपदाद्वयं सशाक्राश्वयुक् पौष्णम्। योगान्तिकेति मूलं द्वे चाषाढे गतिः सुतस्येन्दोः। घोरा श्रवणस्त्वाष्ट्रं वसुदेवं वारुणंचैव। पापाख्या सावित्रं मैत्रं शक्राग्निदैवतं चेति। उदयप्रवासदिवसैः स एव गतिलक्षणं प्राह। चत्वारिंशत्त्रिंशद् द्विसमेता विंशतिर्द्विनवकं च। नव मासार्धं दश चैकसंयुताः प्राकृताद्यानाम्। प्राकृतगत्यामारोग्यवृष्टिसस्यप्रवृद्धयः क्षेमम्। सङ्क्षिप्तमिश्रयोर्मिश्रमेतदन्यासु विपरीतम्। ऋज्व्यतिवक्रा वक्रा विकला च मतेन देवलस्यैताः। पञ्चचतुर्द्व्येकाहा ऋज्वापादीनां षडभ्यस्ताः। ऋज्वी हिता प्रजानामतिवक्रार्थं गतिर्विनाशयति। शस्त्रभयदा च वक्रा विकला भयरोगसञ्जननी। पौषाषाढश्रावणवैशास्वेष्विन्दुजः समाघेषु। दृष्टो भयाय जगतः शुभफलकृत् प्रोषितस्तेषु। कार्त्तिकेऽश्वयुजि वा यदि मासे दृश्यते तनुभवः शिशिरांशोः। शस्त्रचौरहुतभुग्गदतोयक्षुद्भयानि च तदा विदधाति। रुद्धानि सौम्येऽस्तमिते पुराणि यान्युद्गते तान्युपयान्ति मोक्षम्। अन्येतु पश्चादुदिते वदन्ति लाभः पुराणां भवतीति तज्ज्ञाः। हेमकान्तिरथ वा शुकवर्णः सस्यकेन मणिना सदृशो बा। स्निग्धमूर्तिरलघुश्च हिताय व्यत्यये न शुभकृच्छशिपुत्रः”। गगने बुधस्थानमुक्तं भा० ५ स्क०। “ततो बुधः सोमसुत उलभ्यमान तत उपरिष्टात् प्रायेण शुक्रवत्। यदार्कात् व्यतिरिच्येत तत्रातिभयप्रायानावृट्यादिभयमाशंसते”। इन्दुजातन्दुनन्दनेन्दुपुत्रादयोऽप्यत्र। २ नर्म्मादायां नद्यां स्त्री सा च मेकलकन्यका सोमसुता मुनिशापात् नदीत्वमाप्ता। इयं च प्रतीच्यामबन्तिषु स्थिता प्रत्यक्स्रोतोवहा च यथा। “अवन्तिषु प्रतीच्यां वै कीर्त्तमिष्यामि ते दिशि। यानि तत्र पवित्राणि पुण्यान्यायतनानि च। प्रियङ्ग्वाम्रबणोपेता वानीरफलशालिनी। प्रत्यक्स्रोता नदी पुण्या नर्मदा तत्र भारत!। त्रैलोक्ये यानि तीर्थानि पुण्यान्यायतनानि च। सरिद्वनानि शैलेन्द्रा देवाश्च सपितामहाः। नर्मदायां कुरुश्रेष्ठ! सह सिद्धर्षिचारणैः। स्नातुमायान्ति पुण्यौधैः सदा वारिषु भारत” भा० आ० ८९ अ०।
इन्दुजनक = पु० ६ त०। १ अत्रिमुनौतस्य ततौत्पत्तिकथा अत्रिजातशब्दे १११ पृष्ठे दृश्या। २ समुद्रे ततस्तस्योतपत्तिकथा “ततः शतसहस्रांशुर्मथ्यमानात्तु सागरात्। प्रसन्नात्मा समुत्पन्नः सोमः शीतांशुरुज्ज्वलः” भा० आ० १८ अ०। दृश्या।
इन्दुपुष्पिका = स्त्री इन्दुरिव शुभ्रं पुष्पमस्याः। (विषलाङ्गाला) जाङ्गलीवृक्षे।
इन्दुभ = न० इन्दोश्चन्द्रस्य भं नक्षत्रं राशिर्वा। चन्द्रदेवताके १ मृगशिरोनक्षत्रे अश्लेषाशब्दे ४९८ पृष्ठे नक्षत्राणामीशा दर्शिताः। २ कर्कटराशौ च “कुजशुक्रबुधेन्द्वर्कसौम्यशुक्रावनो भुवाम्–क्षेत्राणि स्युरजादयः ज्यो०।
इन्दुभा = स्त्री इन्दुना भाति भा–क ३ त०। १ कुमुद्वत्याम्। ६ त०। २ चन्द्रप्रभायाम्।
इन्दुभृत् = पु० इन्दुं बिभर्त्ति भृ–क्विप्। शिवे। तस्य चन्द्रलाधारणमिन्दुमौलिशब्दे ९३६ पृष्ठे सप्रमाणं दर्शयिष्यते।
इन्दुमणि = पु० इन्दुः कान्तोऽस्य तत्करेण स्यन्दनात् तादृशो मणिः शाक० त०। १ चन्द्रकान्तमणौ तस्य चन्द्रोदये निष्यन्दात् तन्मणित्वम्। तत्प्रियोमणिः स इव शुभ्रोमणिर्वा। २ मुक्तायाम्।
इन्दुमण्डल = त्रि० ६ त०। चन्द्रस्य विम्बे मण्डलाकारे पदार्थे “हुत्वा स्तुत्वा नमस्कृत्य विसृजेदिन्दमण्डले” तन्त्रसा०। तन्मण्डलमानञ्च सि० शि० दर्शितं यथा। “विम्बं रवेर्द्विद्विशरर्तु (६५२२) संख्यानीन्दोः खनागा म्बुधि (४८०) योजनानि। भूव्यासहीनं रविबिम्बमिन्दुकर्णाहतं भास्करकर्णभक्तम्। भूविस्तृतिर्लब्धफलेन हीना भवेत् कुभाविस्तृतिरिन्दुमार्गे” “रवेर्योजनात्मकविम्बं मध्यमं द्वियमबाणषट्कतुल्यानि (६५२२) योजनानि इन्दोस्तु शून्यवसुवेद (४८०) मितानि। अथ राहोरुच्यते। रविबिम्बं भूव्यासेन (१५८१) हीनं (१५१) कृत्वेन्दुकर्णेन स्फुटेन योजनात्मकेन संगुण्य रविकर्णेन स्फुटेन भजेत् फलेन भूव्यासतो वर्ज्जितश्चन्द्रकक्षायं भूभाव्यासो भवति। फलानि योजनविम्बानि। अत्रोपपत्तिः यस्मिन् दिने अर्कस्य मध्यतुल्यैव स्फुटा गतिः स्यात् तस्मिन् दिने उदयकाले चक्रकलाव्यासार्धमितेन यष्टिद्वितयेन भूलमिलितेन तत्रस्थदृष्ट्या तदग्राभ्यां बिम्बप्रान्तौ विध्येत्। या यष्ठ्यग्रयोरन्तकलास्ता रविबिम्बकला भवन्ति मध्यमाः। ताश्च द्वात्रिंशत् किञ्चिदधिकैकत्रिंशद्विकलाधिकाः ३२ ३१। ३३। एवं विधोरपि पौर्णमास्यां यदा मध्यैव गतिः स्पष्टा तदा विध्येत् तस्यैवं द्वात्रिंशत् कलाः ३२। ०। ९। उत्पद्यन्ते। बिम्बकलानां योजनीकरणायानुपातः। यदि त्रिज्याव्यासार्ध एतावत्प्रमाणं विम्बं तदा पठितश्रुतियोजनैः किमित्येवमुत्पद्यन्ते द्विद्विशरर्तु (६५२२) संख्यानि योजनानि। विधोस्तु खनागा म्बुधि (४८०) मितानीति”। प्रमि०। बिम्बमेव गोलस्य व्यासशब्देनाभिधीयते “व्यासारवीन्दक्षितिगोलकानां क्रमेण तेजोजलमृण्मयानाम्। स्युर्योजनन्याकृतिवाणषड्भि (६५ २२) र्व्योमाष्टवेदैः (४८०) कुगजेषुचन्द्रैः। (१५८१) इति श्रीपतिना विम्बस्थाने व्यासश्ब्दप्रयोगात्। तस्यैव विष्कम्भ इति संज्ञा। “विष्कम्भमानं किल यत्र सप्त” इति लीला० व्यासस्थाने विष्कम्भशब्द प्रयोगात् अतएवार्य्यभट्टेन ग्रासनिरूपणे। “शशिबिष्कम्भविवर्जितमित्युक्तम्। “व्यासे भनन्दाग्नि (१९२७) हते विभक्ते खबाणसूर्य्यैः (१२५० परिधिः स सूक्ष्मः” इति लीला० उक्तदिशा रविचन्द्रयोरुक्तव्यासमानेन परिधिरानेयः। स च रवेः किञ्चिदून (२०४९९) योजनमितः, चन्द्रस्य किञ्चिन्न्यून (१५०८) योजनमितः। तथा च मण्डलशब्दस्य व्यासपरत्वे (४८०) योजनानि परिधिपरत्वे किञ्चिन्न्यून (१५०८) योजनानि इन्दोर्मण्डलस्य मानमित्यवधेयम्।
इन्दुमती = स्त्री इन्दुःप्रशस्तोऽस्त्यस्याम् प्राशस्त्ये मतुप्। १ पौर्ण्णमास्याम् २ अजनृपपत्न्यां विदर्भराजभगिन्याञ्च। “अथेश्वरेण क्रथकैशिकानां स्वयंवरार्थं स्वसुरिन्दुमत्याः” रघुः। “मनोबभूवेन्दुमतीनिरासम्” रघुः। सा च हरिणी नाम सुराङ्गना तृणविन्दशापात् मानुषजन्मप्राप्ता तदेतत् वर्ण्णितं रघौ। “चरतः किल दुश्चरं तपस्तृणविन्दोः परिशङ्कितः पुरा। प्रजिघाय समाधिभेदिनीं हरिरस्मै हरिणीं सुराङ्गनाम्। स तपःप्रतिबन्धमन्युना प्रमुखा विष्कृतचारुविक्रिया। अशपद्भव मानुषीति तां शमवेलाप्रलयोर्म्मिणा भुवि। भगवन्! परवानयंजनः प्रतिकूलाचरित क्षमस्व मे। इति चोपनतां क्षितिस्पृशं कृतवानासु- रपुष्पदर्शनात्। क्रथकैशिकवंशसम्भवा तव भूत्वा महिषी चिराय सा। उपलब्धवती दिवश्च्युतं विवशा शापनिवृत्तिकारणम्” इति अजं प्रति वसिष्ठसन्देशः।
इन्दुमौलि = पु० इन्दुर्मौलावस्य। महादेवे स हि इन्दुतपसा तुष्टस्तत्कलां शिरस्येकां दधारेति काशी० कथा यथा “तुष्टेन देवदेवेन स्वमौलौ या धृता सदा। आदाय तां कलामेकां जगत्संजीवनीम् पराम्। पश्चात् दक्षेण शप्तोऽपि मासान्ते क्षयमाप्य च। आप्याय्यतेऽसौ कलया पुनरेव तया शशी”।
इन्दुरत्न = न० ६ त० इन्द्रुरिव शुभ्रं रत्नम् वा। मुक्तायां तस्या श्चन्द्रदेवताकत्वात् चन्द्रदोषोपशान्त्यर्थत्वेन तत्प्रीतये दीयमानत्वात् तद्वच्छुभ्रत्वाच्च तद्रत्नत्वम्। ग्रहशब्दे ग्रहरत्नानि वक्ष्यन्ते।
इन्दुलेखा = स्त्री इन्दोर्लेखेव। १ चन्द्रकलायाम् २ तदंशजम्यायां १ सोमलतायाम्, तस्याः सोमादुद्भवकथा इन्दुवल्लीशब्दे ९३९ पृष्ठे दृश्या। तद्वदाप्यायनकारिण्याम् ३ अमृतायां, तद्वद्बहुलगुणत्वात् ४ यमानिकायाञ्च। लस्यरः। इन्द्ररेखाप्यत्र।
इन्दुलोक = पु० ६ त०। चन्द्रलोके। स हि कर्म्मिणामुपभोगस्थानतया श्रुत्यादिषु कथितः। चन्द्रलोके कर्म्मिणाम् आप्यशरीरं जायतेतच्च कर्म्मसमवायिजलसूक्ष्माऽंशेभ्य एवेति निरूपणाय छा० उ० पञ्चाग्निविद्या प्रस्ताविता यथा
“असौ वाव लोको गौतमाग्निस्तस्यादित्य एव समिद्, रश्मयो धूमो,ऽहरर्चि, श्चन्द्रमा अङ्गारा, नक्षत्राणि विस्फुलिङ्गाः। तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा सम्भवति १। पर्जन्यो वाव गौतमाग्निस्तस्य वायुरेव समिदभ्रं धूमो, विद्युदर्चिरशनिरङ्गारा, ह्रादुनयो विस्फुलिङ्गाः। तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं राजानं जुह्वति तस्या आहुतेर्वर्षं सम्भवति २। पृथिवी वाव गौतमाग्निस्तस्याः संवत्सर एव समिदाकाशो षूमो, रात्रिरर्च्चिर्दिशोऽङ्गारा, अवान्तरदिशो विस्फुलिङ्गाः। तस्मिन्नेतस्मिन्नग्नौ देवा वर्षं जुह्वति तस्या आहुतेरन्नं सम्भवति ३। पुरुषो वाव गौतमाग्निस्तस्य वागेव समित्, प्राणो धूमो, जिह्वाऽर्च्चिश्चक्षुरङ्गाराः, श्रीत्रं विस्फुनिङ्गाः। तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या आहुतेरेतः सम्भवति ४। योषा वाव गौतमाग्निस्तस्या उपस्थ एव समिद्यदुपमन्त्रयते स धूमो, योनिरर्च्चिर्यदन्तः करोति तेऽङ्गारा, अभिनन्दा बिस्फुलिङ्गाः। तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुतेर्गर्भः सम्भवति ५। इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति स उलबावृतो गर्भो दश वानव वा मासानन्तः शयित्वा यावद्वाथ जायते स जातो यावदायुषं जीवति तं प्रेतं दिष्टमितोऽग्नय एव हरन्ति यत एवेतो यतः सम्भूतो भवति” छा० उ०। “असौ वाव लोकोऽग्निर्हेगौतम! यथाऽग्निहोत्राधिकरणम् आहवनीयम् इह तस्याग्नेर्द्युलोकाख्यस्यादित्यएव समित् तेन हीद्धोऽसौ लोको दीप्यते अतः समिन्धनात् समिदादित्यः। रश्मयो धूमस्तदुत्थानात् समिधो हि धूम उत्तिष्ठति। अहरर्चिः प्रकाशसामान्यात् आदित्यका र्य्यत्वाच्च। चन्द्रमा अङ्गाराः अह्नः प्रशमेऽभिव्यक्तेः अर्चिषो हि प्रशमेऽङ्गारा अभिव्यज्यन्ते। नक्षत्राणि विस्फलिङ्गाश्चन्द्रमसोऽवयवा इव विप्रकीर्ण्णत्वसामान्यात्। तस्मिन्नेतस्मिन् यथोक्तलक्षणेऽग्नौ देवाः यजमानप्राणा अग्न्यादिरूपाः अधिदैवतं श्रद्धाम् अग्निहोत्राहुतिपरिणामावस्थरूपाः सूक्ष्मा आपः श्रद्धाभाविताः श्रद्धा उच्यन्ते “पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ती” त्यपां हौम्यतता प्रश्रे श्रुतत्वात्। “श्रद्धा वा आपः श्रद्धामेवारभ्य प्रणीय प्रचरन्तीति” च विज्ञायते। तां श्रद्धामब्रूपां जुह्वति। तस्या आहुतेः सोमो राजा। अपां श्रद्धाशब्दवाच्यानां द्युलोकाग्नौ हुतानां परिणामः सोमो राजा सम्भवति। यथा ऋग्वेदादिपुष्परसा ऋगादिमधुकरोपनीतास्त आदित्ये यश आदिकार्य्यं रोहितादिरूपलक्षणमारम्भन्त इत्युक्तम्। तथेमा अग्निहोत्राहुतिसमबायिन्यः सूक्ष्माः श्रद्धाशब्दवाच्या आपोद्युलोकमनुप्रविश्य चान्द्रं कार्य्यमारभन्ते फलरूपमग्निहोत्राहुत्योः। यजमानाश्च तत्कर्त्तार आहुतिमया आहुतिभावनाभाविता आहुतिरूपेण कर्म्मणाऽऽकृष्टाः श्रद्धाप्समवायिनो द्युलोकमनुप्रविश्य सोमभूताभवन्ति। तदर्थं हि तैरग्निहोत्रं हुतम्। आहुतिपरिणाम एव पञ्चाग्निसम्बन्धक्रमेण प्राधान्येन बिवक्षित उपासनार्थम्। न यजमानानां गतिम्। तां त्वविदुषां धूमादिक्रमेणोत्तरत्र वक्ष्यति विदुषाञ्चोत्तरां विद्याकृताम् १। द्वितीयहोमपर्य्यायार्थमाह। पर्जन्यो वाव पर्जन्य एव गौतमाग्निः पर्जन्योनाम वृष्ट्युपकरणाभिमानी देवताविशेषः। तस्य वायुरेव समित्, बायुना हि पर्जन्योऽग्निः समिध्यते पुरोवातादिप्राबल्ये वृष्टिदर्शनात्। अभ्रं धूमो, धूमकार्य्यत्वाद्धूमवच्च लक्ष्यमाणत्वात्। विद्युदर्चिः प्रकाशसामान्यात्। अशनिरङ्गाराः काठिन्यात् विद्युत्सम्बन्धाद्वा। ह्रादुनयो विस्फुलिङ्गाः। ह्रादुनयो गर्जितशब्दाः मेघानां विप्रकीर्णत्वसामान्यात्। तस्मिन्नेतस्मिन्नग्नौ देवाः पूर्ववत् सोमं राजानं जुह्वति। अस्या आहुतेर्वर्षं सम्भवति। श्रद्धाख्या आपः सोमाकारपरिणता द्वितीये पर्य्याये पर्जन्याग्निं प्राप्य वृष्टित्वेन परिणमन्ते २। पृथिवी वाव गौतमाग्निरित्यादि पूर्ववत्। तस्याः पृथिव्याख्यास्याग्नेः संवत्सर एव समित् संवत्सरेण हि कालेन समिद्धा पृथिवी व्रीह्यादिनिष्पत्तये भवति। आकाशो धूमः पृथिव्या इवोत्यित आकाशो दृश्यते यथाऽग्नेर्धूमो, रात्रिरर्चिः, पृथिव्याह्यप्रकाशात्मिकाया अनुरूपा रात्रिः तमीरूपत्वात् अग्नेरिवानुरूपमर्चिः। दिशोऽङ्गारा उपशान्तत्वसामान्यात्। अवान्तरदिशो विस्फुलिङ्गाः क्षुदत्वसामान्यात्। तस्मिन्नित्यादि समानम्। तस्या आहुतेरन्नं व्रीहियवादि सम्भवति ३। पुरुषो वाव गौतमाग्निः तस्य वागेव समित् वाचा हि मुखेन समिध्यते पुरुषो न मूकः। प्राणो धूमो धूम इव मुखान्निर्गमनात्। जिह्वार्चिर्लोहितत्वात्। चक्षुरङ्गारा भास आश्रयत्वात्। श्रोत्रं विस्फुलिङ्गाः विप्रकीर्ण्णत्वसाम्यात्। समानमन्यत्। अन्नं जह्वति व्रीह्यादि संस्कृतम्। तस्या आहुते रेतः सम्भवति ४। योषा वाव गौतमाग्निः। तस्या उपस्थ एव समित् तेन हि सा पुत्त्राद्युत्पादनाय समिध्यते। यदुपमन्त्रयते स धूमः स्त्रीसम्भवादुपमन्त्रणस्य। योनिरर्च्चिर्लोहितत्वात्। यदन्तः करोति तेऽङ्गारा अग्निसम्बन्धात्। अभिनन्दाः सुखलवा विस्फुलिङ्गाः क्षुद्रत्वात्। तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुतेर्गर्भः सम्भवतीति ५। एवं श्रद्धासोमवर्षान्नरेतोहवनपर्य्यायक्रमेणाप एव गर्भीर्भूतास्ताः। तत्रापामाहुतिसमवायित्वात् प्राधान्यविवक्षा आपः पञ्चम्यामाहुतौ पुरुषवचसो भवन्तीति। नत्वाप एव केवलाः सोमादिकार्य्यमारभन्ते। न चापोऽत्रिवृत्कृताः सन्तीति। त्रिवृत्कृतत्वेऽपि विशेषसञ्ज्ञालाभो दृष्टः पृथिवीयमिमा आपोऽयमग्निरित्यन्यतमबाहुल्यनिमित्तः। तस्मात्समुदितावभृतानि बाहुल्यात्कर्म्मसमवायीनि सोमादिकार्य्यारम्भकाण्याप इत्युच्यन्ते। दृश्यते च द्रवबाहुल्यं सोमवृष्ट्यन्नरेतोदेहेषु बहुद्रवञ्च, शरीरं यद्यपि पार्थिवं तत्र पञ्चम्यामाहुतौ हुतायां रेतोरूपा आपो गर्भीभूताः। इति तु एवन्तु पञ्चम्यामाहुतावापः पुरुषचचसो भवन्तीति व्याख्यात एकः प्रश्नः। यत्तुद्युलोकादीनां प्रत्यावृतयोरा- हुत्योः पृथिवीं पुरुषंऽस्त्रियं क्रमेणाविश्य लोकं प्रत्युत्थायी भवतीति वाजसनेयके उक्तं तत्प्रासङ्गिकमिहोच्यते। इह च प्रथमे प्रश्न उक्तं वेत्थ यदितोऽधि प्रजाः प्रयन्तीति। तस्य चायमुपक्रमः। स गर्भोऽपां पञ्चमः परिणामविशेषः आहुतिकर्म्मसमवायिनीनां श्रद्धाशब्दावाच्यानाम्, उलबावृत उल्बेन जरायुणाऽऽवृतो वेष्टितो दश वा नव वा मासानन्तर्मातुः कुक्षौ शयित्वा यावता कालेन न्यूनेनातिरिक्तेनानन्तरं जायते। उल्बावृत इत्यादिवैराग्यहेतोरिदमुच्यते। कष्टं हि मातुः कुक्षौ मूत्रपुरीषवातपित्तश्लेष्मादिपूर्ण्णे तदनुलिप्तस्य गर्भस्योल्बाऽशुचिपूयावृतस्य लोहितरेतोऽशुचिवीजस्य मातुरशितपीतरसानुप्रवेशेन च विवर्द्धमानस्य निरुद्धशक्तिबलवीर्य्यतेजःप्रज्ञाचेष्टस्य शयनम्। ततो यीनिद्वारेण पीड्यमानस्य कष्टतरा निःसृतिर्जन्मेति वैराग्यं ग्राहयति। मुहूर्त्तमप्यसह्य दश वा मासानतिदीर्घकालमन्तः शयित्वेति। स एवं जातो यावदायुषं पुनर्घटीयन्त्रवद्गमनागमनाय कर्म्मकुर्व्वन् कुलालचक्रवद्वा तिर्य्यग्भ्रमणाय यावत्कर्मणोप्रात्तमायुस्तावज्जीवति। तमेवं क्षीणायुषं प्रेतं मृतं दिष्टऽ कर्मणा निर्द्दिष्टं परलोकं प्रति। यदि चेज्जीवन् वैदिके कर्मणि ज्ञाने वाधिकृतस्तमेनं मृतमितोऽ स्माद्ग्रामादग्नयेऽग्न्यर्थमृत्विजो हरन्ति पुत्रा वान्त्यकर्मणे, यत एव इत आगतोऽग्नेः सकाशाच्छ्रद्धाद्याहुतिक्रमेण, यतश्च पञ्चभ्योऽग्निभ्यः सम्भूत उत्पन्नो भवति तस्मा एवाग्नये हरन्ति स्वामेव योनिमग्निमापादयन्तीत्यर्थः” भा०। एवं चन्द्रभावप्राप्तिप्रकारगुक्त्वा तत्प्राप्त्यनुगुणं कर्मभेदं प्रदर्श्य तत्र गतिप्रकारमाह “अथ य इमे गृहस्थाः ग्राम इष्टापूर्त्तेदत्तमित्युपासते ते धूममभि सम्भवन्ति, धूमाद्रात्रिं, रात्रेरपरपक्षम्, अपरपक्षाद्यान् षड्दक्षिणैति मासांस्तान्नैते संवत्सरमभिप्राप्नुवन्ति, मासेभ्यः पितृलोकं, पितृलोकादाकाश, माकाशाच्चन्द्रमसमेष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति। तस्मिन् यावत्सम्पातमुषित्वाऽथैतमध्यानं पुनर्निवर्त्तन्ते” छा० उ०। “अथेत्यर्थान्तर प्रस्तावनार्थो य इमे गृहस्थाः। ग्राम इति गृहस्थानामसाधारणं विशेषणमरण्यवासिभ्यो व्यावृत्त्यर्थम्। यथा वानपस्थपरिव्राजकानामरण्यं विशेषणं गृहस्थेभ्यो व्यावृत्त्यर्थं तद्वत्। इष्टापूर्त्तेइष्टभग्निहोत्रादि वैदिकं कर्म पूत्तं वापीकूपतडागारामादिकरणम्। दत्तं च बहिर्वेदि यथाशक्त्यर्हेभ्यो द्रव्यसम्भागो दत्तम् इत्येवंविधं परिचरण- परित्राणाद्युपासते इतिशब्दस्य प्रकारदर्शनार्थत्वात्। ते दर्शनवर्जितत्वाद्धूमं धूमाभिमानिनीं देवतामाभिमुख्येन सम्भवन्ति प्रतिपद्यन्ते। तयाऽतिवाहिता धूमाद्रात्रिं रात्रिदेवतां, रात्रेरपरपक्षदेवताम्, एवमेव कृषणपक्षाभिमानिनीम्, अपरपक्षाद्यान् षण्मासान् दक्षिणा दक्षिणां दिशमेति सविता तान्, मासान् दक्षिणायनान् षण्मासाभिमानिनीर्देवताः प्रतिपद्यन्त इत्यर्थः। सङ्घचारिणी हि षण्मासदेवता इति मासानिति बहुवचनप्रयोगस्तासु। नेते कर्मिणः प्रकृताः संवत्सरं संवत्सराभिमानिनीं देवतामभिप्राप्नुवन्ति। कुतः पुनः संवत्सरप्राप्तिप्रसङ्गो यतः प्रतिषिध्यते। अस्ति हि संवत्सरस्य प्रसङ्गोह्येकस्यावयवभूते दक्षिणोत्तरायणे तत्रार्चिरादिमार्गप्रवृत्तानामुदगयनमासेभ्योऽवयविनः संवत्रस्य प्राप्तिरुक्ता। अत इहापि तदवयवभूतानां दक्षिणायनमासानां प्राप्ति श्रुत्या तदवयविनः सवत्सरस्यापि पूर्ववत्प्राप्तिरापन्नेत्यतस्तत्प्राप्तिः प्रतिषिध्यते नैते संवत्सरमभिप्राप्नुवन्तीति। मासेभ्यः पितृलोकं, पितृलोकादाकाशमाकाशाच्चन्द्रमसम्। कोऽसौ यस्तैः प्राप्यते चन्द्रमा य एष दृश्यतेऽन्तरिक्षे सोमो राजा ब्राह्मणानां तदन्नं देवानां तं चन्द्रमसमन्नं देवता इन्द्रादयो भक्षयन्ति। अतस्ते धूमादिना गत्वा चन्द्रभूताः कर्मिणो देवैर्भक्ष्यन्ते। नन्वनर्थायेष्टादिकरणं यद्यन्नभूता देवैर्भक्ष्येरन्, नैष दोषः अन्नमित्युपकरणमात्रस्य विवक्षितत्वात्। न हि ते कवलोत्क्षेपेण देवैर्भक्ष्यन्ते, किं तर्ह्युपकरणमात्रं देवानां भवन्ति ते, स्त्रीपशुभृत्यादिवत्। दृष्टश्चान्नशब्द उपकरणेषु स्त्रियोऽन्नं पशवोऽन्न राक्षामित्यादि। न च तेषां स्त्र्यादीनां पुरुषोपभोग्यत्वेऽप्युपभोगो नास्ति। तस्मात्कर्मिणो देवतानामुपभोग्या अपि सन्तः सुखिनो देवैः क्रीडन्ते। शरीरञ्च तेषां सुखीपभोगयोग्यं चन्द्रमण्डले आप्यमारभ्यते। तदुक्तं पुरस्ताच्छ्रद्धाशब्दा आपोद्युलाकाग्नौ हुताः सोमो राजा सम्भवतीति। ता आपः कर्मसमवायिन्य इतरैश्च भूतैरनुगताः द्युलोकं प्राप्य चन्द्रत्वमापन्नाः शरीराद्यारम्भिका इष्टाद्युपासकानां भवन्ति। अन्त्यायाञ्च शरीराहुतावग्नौ हुतायामग्निना दह्यमाने शरीरे तदुत्था आपो धूमेन सहोर्द्ध्वं यजमानमावेष्ट्य चन्द्रमण्डल प्राप्य कुशमृत्तिकास्थानीया बाह्यशरीरारम्भिका भवन्ति। तदारब्धेन च शरीरेणेष्टादिफलमुपभुञ्जाना आसते यावत्तदुपभोगनिमित्तस्य क्षयः कर्मणः। सम्पतन्ति येनेति सम्पातः कर्मणः क्षयो या- चत्सम्पातं यावत्कर्मणः क्षय इत्यर्थः। तावत्तस्मिंश्चन्द्रमण्डले उषित्वा अथाऽनन्तरमेतमेव वक्ष्यप्राणमध्वानं मार्गम् पुनर्निवर्त्तन्त इति प्रयोगात्पूर्वमप्यसकृच्चन्द्रमण्डलं गता निवृत्ताश्चासन्निति गम्यते। तस्मादिह लोके इष्टादिकर्मोपचित्य चन्द्रं गच्छन्ति तत्क्षये चावर्त्तन्ते। क्षणमात्रमपि तत्र स्थातुं न लभ्यते स्थितिनिमित्तकर्मक्षयात् स्नेहक्षयादिव प्रदीपस्य। किं तत्र येन कर्मणा चन्द्रमण्डलमारूढस्तस्य सर्वस्य क्षये तस्मादवरोहणं किं वा सावशेष इति। किन्ततः। यदि सर्वस्यैव क्षयः कर्मणश्वन्द्रमण्डलस्थस्यैव मोक्षः स्पात् न वेति तत आगतस्येह शरीरोपभोगादि न सम्भवति। ततः शेषेणेत्यादिस्मृतिविरोधश्च स्यात्। नन्विष्टापूर्त्तदत्तव्यतिरेकेणापि मनुष्यलोके शरीरोपभोगनिमित्तानि कर्माण्यनेकानि सम्भवन्ति न च तेषां चन्द्रमण्डल उपभोगः। अतः क्षीणानि यन्निमित्तं चन्द्रमारूढास्तान्येव क्षीणानीत्यविरोधः शेषशब्दश्च सर्वेषां कर्मत्वसामान्यादविरुद्धः” भा०। एवं चान्द्रायणादिकं तत्प्राप्तिहेतुः।
इन्दुलौह = न० ६ त०। इन्दुदेवताके, लौहे धातौ रौप्ये धातुमध्ये तस्येन्दुवर्ण्णत्वात् इन्दुदोषोपशान्त्यर्थं देयत्वाच्च तथात्वम्। स्वार्थे कन्। तत्रैव।
इन्दुवदना = स्त्री “इन्दुवदना जजसनैः सगुरुयुग्मैः” वृत्त० र० उक्ते चतुर्दशाक्षरपादके वर्ण्णवृत्तभेदे
इन्दुवल्ली = स्त्री ६ त०। चन्द्रनामिकायां सोमलतायाम्। तत्प्राप्तिस्थानमुक्तं सुश्रुते यथा “नैवासादयितुं शक्या सोमाः सोमसमास्तथा। पीतावशेषममृतं देवैर्ब्रह्मपुरोगमैः। निहितं सोमवीर्य्यासु सोमे चाप्योषधीगतौ। देवसुन्दे ह्रदवरे तथा सिन्धौ महानदे। दृश्यते च जलान्तेषु मध्ये ब्रह्मसुर्च्चलाः” तत्समाश्च ओशधिशब्दे वक्ष्यन्ते
इन्दुवार = पु० “आपोंक्लिमे (३, ६, ९, १२,) यदि खगाः स किलेन्दुवारो न स्याच्छुभः क्वचन ताजकशास्त्रगीतः” नी० ता० उक्ते वर्षलग्नतः (३, ६, ९, १२,) स्थानानामन्यतमस्थाने सर्व्वग्रहस्थितिरूपयोगभेदे।
इन्दुव्रत = न० इन्दुलोकप्राप्त्यर्थं व्रतम् शाक० त०। चान्द्रायणे व्रते तस्य चन्द्रलोकप्राप्तिसाधनत्वात् चन्द्रह्रास्ववृद्धिवशानुसारेण भोजने ह्रासवृद्धिमत्त्वाच्च चान्द्रायणत्वम् तदेतत् पञ्चविधं तत्स्वरूपविभागादि प्रा० वि० दर्शितं यथा। “एकैकं ह्रासयेत् पिण्ड कृष्णे, शुक्ले च बर्द्धयेत्। उपस्पृशंस्त्रिषवणमेतच्चान्द्रायणञ्चरेत्। एतदेव विधिं कृत्वा आचरेत् यवमध्यमे। शुक्तपक्षादि नियतश्चरेच्चान्दायणव्रतम्”। “अष्टावष्टौ समश्नीयात् पिण्डान्मध्यदिने गते। नियतात्मा हविष्यस्य यतिचान्द्रायणञ्चरन्। चतुरः प्रातरश्नीयात् पिण्डान् विप्रः समाहितः। चतुरोऽस्तमिते सूर्य्ये शिशुचान्द्रायणं व्रतम्। अष्टावष्टौ समश्नीयात् पिण्डान्मध्यदिने गते। मासेनाश्नन् हविष्यस्य चन्द्रस्यैति सलोकताम्” मनुः। एतत् पञ्चविधं चान्द्रायणम् पिपीलिकातनुमध्यम्, यवमध्यं, यतिचान्द्रायणम्, सर्वतोमुखं शिशुसंज्ञञ्च। यथाह जावालः “षिपीलिकायवमध्यं यतिचान्द्रायणन्तथा। चान्द्रायणन्तथा ज्ञेयं चतुर्थं सर्वतोमुखम्। पञ्चमं शिशुसंज्ञञ्च तुल्यं पुण्यफलोदयम्”। कृष्णप्रतिपदमारभ्य मासमेकं यदा क्रियते तदा पिपीलिकामध्यं भवति, शुक्लप्रतिपदारम्भे यवमध्यमुभयत्रामावास्यायामभोजनं कृष्णप्रतिपदि चतुर्द्दशग्रासभोजनारम्भे ह्रासक्रमेण चतुर्द्दश्यामेकग्रासः अमावास्यायःमभोजनम् एवं प्राप्नोति तथा च वसिष्ठः। “मासस्य कृष्णपक्षादौ ग्रासानद्याच्चतुर्द्दश”। नन्वेवं क्रमेण पञ्चविंशत्युत्तरं ग्रासशतद्वयं स्यात् न चत्वारिंशद्ग्रासाधिकं शतद्वयम् तच्च याज्ञवल्क्येनोक्तम्” “यथा कथञ्चित् पिण्डानाञ्चत्वारिंशच्छतद्वयमिति”। “यथा कथञ्चित् पिण्डानां तिस्रोऽशीतीः समाहितः” इति मनुनाप्युक्तम्। उच्यते संयमदिवसे पौर्णमास्याम् अमावास्यायां वा पञ्चदशग्रासभोजनेन संख्यापूरणसम्भवात् अथ वा पञ्चदश्यादिकमेवेदं व्रतम् न प्रतिपदादिकं चतुर्द्दश्यामेव व्रतसङ्कल्पः। यथाह गोतमः पौर्ण्णमास्यां पञ्चदश ग्रासान् भुक्त्वै कैकापचयेनापरपक्षमश्नीयात् अमावास्यायामुपोष्य एकैकोपचयेन पूर्बपक्षम्, विपरीतमेकेषाम्” शङ्खलिखितौ “अमावस्यायां व्रतोपायनं यवमध्यम् अमावस्यायां पञ्चदश पिण्डानश्नीयात्” उपायनमारम्भः। युक्तञ्चेदम् अवास्यायामपि पञ्चदशकलात्मकस्य चन्द्रमसः सूर्य्यप्रविष्टत्वात् तत एकैककलानिर्गमस्य प्रतिपदादिषु वृद्धिशब्द वाच्यत्वात्। जावालः “एकैकं वर्द्धयेग्रासं शुक्ले कृष्णे च ह्रासयेत्। अमावस्यां न भुञ्जीत यवमध्यञ्चरन् द्विजः। एकैकं ह्रासयेद्ग्रासं कृष्णे शुक्ले च वर्द्धयेत्। पौर्ण्णमास्यां न भुञ्जीत पिपीलितनुमध्यमम्”। अत्र कल्पतरुव्याख्यानम्। एकैकं ह्रासयेदिति कृष्णप्रतिपदि पञ्चदशग्रासमारभ्य एकैकापचयेनामावास्यायामेकोग्रासः तदनन्तरं शुक्लप्रतिमदि द्वौ ग्रासावेवं वृद्धिक्रमेण चतुर्द्दस्यां पञ्चदश ग्रासाः सम्पद्यन्ते पौर्ण्णमास्याञ्चोपवास इति” पिपोलिका तनुमध्यं चान्द्रायणम्”। ऋषिचान्द्रायणमाह यमः “त्रींस्त्रीन् पिण्डान् समश्नीयात् नियतात्मा दृढव्रतः। हविष्यान्नस्य वै मासमृषिचान्द्रायणं स्मृतम्”। अत्र चत्वारिंशच्छतद्वयसंख्या नास्ति। ग्रासपरिमाणमाह पराशरः “कुक्कुटाण्डप्रमाणन्तु यावद्वा प्रविशेन्मुखम्। एवं ग्रासं विजानीयाच्छुद्ध्यर्थं कायशोधनम्”। सकल चन्द्रायण एव चतुर्द्दश्यामुपवासं कृत्वाऽपरदिने पञ्चदश्यां संयमः कार्य्यः। यथा बौधायनः “शुक्लां चतुर्द्दशीमुपवसेत् कृष्णचतुर्द्दशीं वा केशश्मश्रुनखलोमानि वापयित्वा” इत्याद्यभिधाय “तिथिनक्षत्रादिहोमं प्रत्यहमुक्तवान्” विस्तरभयान्न लिखितम्। अत्र सामान्यव्रतधर्म्मः कर्त्तव्यः। विशेषमाह यमः “आर्द्रवासाश्चरेत् कृच्छ्रं स्नात्वा वस्त्रं न पीडयेत्। अङ्गुल्यग्रस्थितं ग्रासं गायत्र्या चाभिमन्त्रयेत्। भक्षयित्वा उपस्पृश्य पुनरेवाभिमन्त्रयेत्। आयसं तैजसं पात्रं चक्रोत्पन्नं विवर्ज्जयेत्। असुराणां हि तत् पात्रं पानपात्रमचक्रजम्” अचक्रजं कुलालचक्रानिष्पन्नम्। अपरे धर्म्मा बौधायनादिषु द्रष्टव्याः। तेन एकत्रिंशद्दिनसाध्यं चान्द्रायणव्रतम्”। या० स्मृ०। “तिथिवृद्ध्या चरेत् पिण्डान् शुक्ले शिख्यण्डसम्मितान्। एकैकं ह्रासयेत् कृष्णे पिण्डं चान्द्रायणं चरन्। यथाकथञ्चित् पिण्डानां चत्वारिंशच्छतद्वयम्। मासेनैवोपभुञ्जीत चान्द्रायणमथापरम्। कुर्य्यात्त्रिषवण स्नायी कृच्छ्रं चान्द्रायणं तथा। अनादिष्टेयु पापेषु शुद्धिश्चान्द्रायणेन तु। धर्म्मार्थं यश्चरेदेतच्चन्द्रस्यैति सलोकताम्” अत्र (२४०) ग्राससंख्योक्तेर्मध्ये नोपवास इति प्रतीयते तथा हि प्रतिपादादिपञ्चदशसु ग्रासवर्द्धनेन भक्षणे “सैकपदघ्नपदार्द्धमथैकाद्यङ्कयुतिः किल सङ्कलिताख्येति” लीला० उक्तदिशा (१२०) ग्राससंख्या, पुनः कृष्णे ह्रासेन तथैव संख्येति (२४०) भोज्यग्राससंख्या। तथाच समर्थासमर्थभेदेन अनयोर्व्यवस्थोति सिद्धान्तः।
इन्दुशेखर = पु० इन्दुः शेखरे यस्य। महादेवे इन्द्रमौणि शब्दे ९३६ पृ० विवृतिः। चन्द्रशेखरादयोऽप्यत्र।
इन्दूर = पु० उन्दूर + पृ० उत्त्वम्। मूषिके जटाध०।
इन्द्र = पु० इदि–रन्। १ परमेश्वरे। “इन्द्रोमायाभिः पुरुरूप ईयते” श्रुतिः। द्वादाशादित्यमध्ये २ आदित्यभेदे। ते च अदित्यां कश्यपेनोत्पादिताः “धाताऽर्य्यमा च मित्रश्च वरुणोऽंशुर्भगस्तथा। इन्द्रोविवस्वान् पूषा च पर्ज्जन्यो दशमः स्मृतः। ततस्त्वष्टा ततोविष्णुरजघन्यो जघन्यजः” विष्णुध०। भा० आ० ६५ अ० तु इन्द्रस्थाने शक्रनाम्ना पठितः यथा “अदित्यां द्वादशादित्याः सम्भूता भुवनेश्वराः। ये राजन्नामतस्तांस्ते कीर्त्तयिष्यामि भारत!। धातामित्रोऽर्यभा शक्रो वरुणस्त्वंशुरेव च। भगो विवस्वान् पूषा च सविता दशमः स्मृतः। एकादशस्तथा त्वष्टा द्वादशोविष्णु रुच्यते। जघन्यजस्तु सर्व्वेषामादित्यानां गुणाधिकः”। कल्पभेदान्नामभेद इति न विरोधः। ३ कुटजवृक्षे ४ रात्रौ च धरणिः ५ भारतवर्षोपद्वीपभेदे शब्दमा० इन्द्रदेवताके ६ ज्येष्टानक्षत्रे विष्कम्भादिषु योगेषु ७ षड्विंशे योगे छन्दोग्रन्थप्रसिद्धे षण्मात्रा प्रस्तावे आद्यन्तगुरुद्वयेन लघुद्वयमध्येन युते ८ चतुर्थेभेदे। ९ देवराजे स च मन्वन्तरभेदात् चतुर्द्दशविधः यथा “मन्वन्तरं मनुर्देवा मनुपुत्राः सुरेश्वरः। ऋषयोऽंशावतारश्च हरेः षड्विधमुच्यते” भाग० ८ स्क० १ अ०। इत्थं मन्वन्तरे षड्बिधकीर्त्तनीयमुपक्रम्य मन्वन्तरभेदेन तत्तन्नामानि कथितानि अतोनामभेदात्तस्य चतुर्द्दशसंख्या तत्रोक्ता यथा “तुषिता नाम ते देवाः आसन् स्वायम्भुवेऽन्तरे। मरीचिमिश्राऋष योयज्ञः सुरगणेश्वरः” भाग० ८ स्क० १ अ०। १ मन्वन्तरे यज्ञः। “स्वारोचिषो द्वितीयस्तु मनुरग्नेः सुतोऽभवत्” इत्युपक्रम्य “तत्रेन्द्रोरोचनस्त्वासीत् देवाश्च तुषितादयः” तत्रैव। २ म० रोचनः। “तृतीय उत्तमोनाम प्रियव्रतसुतो मनुः” इत्युपक्रम्य “सत्यावेदश्रुता भद्राः देबा इन्द्रस्तु सत्यजित्” तत्रैव। ३ म० सत्यजित्” “चतुर्थौत्तमभ्राता मनुर्नाम्ना च तामसः” इत्यु० “सत्यका हरयो वीरा देवास्त्रिशिख ईश्वरः” तत्रैव। ‘ईश्वरैन्द्रः’ श्रीधरः। ४ म० त्रिशिखः। “पञ्चमो रैवतोनाम मनुस्तामससोदरः” इत्यु० “विभुरिन्द्रः शुरगणा राजन्! भूतरयादयः” तत्रैव ५ अ०। ५ म० विभुर्नाम। “षष्ठश्च चक्षुषः पुत्रश्चाक्षुषो नाम वै मनुः” इत्यु० “इन्द्रो मन्त्रद्रुमस्तत्र देवा आस्यादयो मताः” तत्रैव ५ अ०। ६ म० मन्त्रद्रुमः। “मनुर्विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः। सप्तमो वर्त्त मानोऽयम्” इत्युप० “आदित्यावसवोरुद्रा विश्वे देवा मरुद्गणाः। अश्विनावृभवो राजन्निन्द्रस्तेषां पुरन्दरः”। तत्रैव अ० १३। ७ म० पुरन्दरः। “अष्टमेऽन्तर आयाते सावर्ण्णिर्भविता मनुः” इत्यु० “तत्र देवाः सुतपसो विरजा अमृतप्रजाः। तेषां विरोचनसुतो बलिरिन्द्रो भविष्यति” १३ अ०। ८ म० वलिः। “नवमो दक्षसावर्ण्णिर्मनुर्वरुणसम्भवः” इत्युप० “परोमरीचिगर्भाद्या देवा इन्द्रः श्रुतः स्मृतः” तत्रैव १३ अ०। ९ म० श्रुतः। “दशमोब्रह्मसावर्ण्णिरुपश्लोकसुतोमहान्” इत्यु० “सुवासनविरुद्धाद्या देवाः शग्भुः सुरेश्वरः” १३ अ०। १० म० शम्भुः। “मनुर्वै धर्मसावर्ण्णिरेकादशम आत्मवान्” इत्यु० “विहङ्गमाःकामगमानिर्वाणरुचयः सुराः। इन्द्रस्तु वैधृतस्तेषा मृषयश्चारुणादयः” १३ अ०। ११ म० वैधृतः। “भविता रुद्रसावर्ण्णिर्नाम द्वादशमी मनुः” इत्यु० “ऋतधामा च देवेशो देवाश्च हरितादयः” १३ अ०। ११ म० ऋतधामा। “मनुस्त्रयोदशोभव्यो वेदसावर्ण्णिरात्मवान्” इत्युप० “देवाः सुकर्म्मसूत्रामसंज्ञा इन्द्रोदिवस्पतिः” १३ अ०। १३ म० दिवस्पतिः। “मनुर्वा इन्द्रसावर्णिश्चतुर्दशम एष्यति” इत्यु० “पवित्राश्चाक्षुषादेवाः शुचिरिन्द्रो भविष्यति” १३ अ०। १४ म० शुचिः। पुराणन्तरादौ नामान्तराणि चतुर्दश कल्पभेदादविरुद्धानि। विस्तरभयात्तनि नीक्तानि। एवंशक्रनामसंख्यासाम्यात् १० चतुर्दशसंख्यायाम्। स च शचीपतिः वृत्रादिहन्ता, पूर्वदिग्पालः, वृष्टिदायकः, अमरेशः मेषवृषणः तस्य पुत्रो जयन्तः, वनं नन्दनं हयौच्चैःश्रवाः गजऐरावतः, पुरी अमरावती नेत्राणि सहस्रं वज्रमस्त्रम् हरीवाहः। विवृतिस्तत्तच्छब्दे दृश्या। तस्यानेकविधानि कार्य्याणि पुराणादौ वर्णितानि विस्तरभयान्नोक्तानि मनुकालपर्य्यन्तं तस्याधिकारकालस्तत्समाप्तौ तस्य प्रजापतेः सकाशात् ब्रह्मविद्याप्राप्तेरग्रे वक्ष्यमाणत्वात् कैवल्यप्राप्तिः “योयो देवानां प्रत्यबुध्यत” इत्यादिश्रुतेः। इत्येतत् नानाशास्त्रश्रुतीतिहासेषु प्रसिद्धम् स्वकालमध्येऽपि त्वष्टृपुत्रविश्वरूपबधजनितब्रह्महत्यास्कन्दनभिया तस्य स्वपदच्युतिः। तत्पापस्य विभज्यान्यत्र संक्रामसे पुनः स्वपदप्राप्तिः। असुरादिभिरपि बलाधिक्यवशात् तं युधि निर्जित्य कियत्कालपर्य्यन्तं तत्पदेऽधिकारिता प्राप्ता इत्यपि पुराणादौ प्रसिद्धम् “जित्वा च सकलान् देवान् इन्द्रोऽभून्महिषासुरः” देवीमा० “शताश्वमेधकरणे अन्यस्यापि इन्द्रत्वप्राप्तियोग्यतेत्यत्र इन्द्रलोकशब्दे प्रमाणं वक्ष्यते।
इन्दश्च प्रजापतिसकाशात् एकशतवर्षं ब्रह्मचर्य्याचरणेन ब्रह्मविद्यां प्रापेति छा० उ० वर्ण्णितं यथा “यदाहुरेकशतं हैकं वर्षाणि मघवान् प्रजापतौ ब्रह्मचर्य्यमुवास तस्मै हीवाच। मघवन्! मर्त्यं वा इदं शरीरमात्तं मृत्थुना तदस्यामृतस्याशरीरस्यात्मनोऽधिष्ठानमात्मा वै सशरीरः प्रियाप्रियाभ्यामात्तो न वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्त्यशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः इत्यादि। “मघवन्! मर्त्थं वै मरणधर्म्मि शरीरम्। यन्मन्यसेऽक्ष्याधारादिलक्षणः सम्प्रसादलक्षण आत्मा मयोक्तो विनाशमेवापीतो भवतीति। शृणु तत्र कारणम्। यदिदं शरीरं वै पश्यसि तदेतन्मर्त्यं विनाशि। तच्चात्तं मृत्युना ग्रस्तं सन्ततमेव। कदाचिदेव म्रियत इति मर्त्यमित्युक्ते न तथा सन्त्रासो भवति यथा ग्रस्तमेव सदा व्याप्तमेव मृत्युनेत्थुक्ते इति वैरग्यार्थं विशेष इत्युच्यते आत्तं मृत्युनेति। कथं नाम देहाभिमानतो विरक्तः सन्निवर्त्तत इति। शरीरमित्यत्र सहेन्द्रियमनोभिरुच्यते। तच्छरीरमस्य सम्प्रसादस्य त्रिस्थानतया गम्यमानस्यामृतस्य मरणादिदेहेन्द्रियमनोधर्म्मवर्जितस्येत्येतत्। अमृतस्येत्यवेनैवाशरीरत्वे सिद्धे पुनरशरीरस्येति वचनं वाय्वादिवत्सावयवत्वमूर्त्तिमत्त्वे मा भूतामिति। आत्मनो भोगाधिष्ठानम् आत्मनो वा सत ईक्षितुस्तेजोऽबन्नादिक्रमेणोत्पन्नमधिष्ठानम् जीवरूपेण प्रविष्य सदेवाधितिष्ठत्यस्मिन्निति वाघिष्ठानम्। यस्येदमीदृशं नित्यमेव मृत्युग्रस्तं धर्म्माधर्म्मजनितत्वात्प्रियाप्रियवदधिष्ठानं तदधिष्ठितस्तद्बान् सशरीरो भवति। अशरीरस्वभावस्यात्मनस्तदेबाऽहं शरीरं शरीरमेव चाहमित्यविवेकादात्मभावः सशरीरत्वम्। अत एव सशरीरः सन्नात्तो ग्रस्तः प्रियाप्रियाभ्याम्। प्रसिद्धमेतत् तस्य च न वै सशरीरस्य सतः प्रियाप्रिययोर्बाह्यविषयसंयीगवियोगयोर्निमित्तयोर्बाह्यसंयोगवियोगौ ममेति मन्यमानस्यापहतिर्व्विनाश उच्छेदः सन्ततिरूपयोर्नास्तीति। तं पुनर्देहाभिमानादशरीरस्वरूपविज्ञानेन निर्वर्त्तितविवेकज्ञानमशरीरं सन्तं प्रियाऽप्रिये न स्पृशतः। स्पृशिः प्रत्येकं सम्बध्यते प्रियं न स्पृशत्यप्रियं न स्पृशतीति वाक्यद्वयं भवति। न म्लेच्छाशुच्यधार्म्मिकैः सह सम्भाषेतेति यद्वत्। धर्म्माधर्म्मकार्य्ये हिताहिते, यतोऽशरीरता एतत्स्वरूपमिति। तत्र धर्म्माधर्म्मयोरसम्भवात्तत्कार्य्यभावो दूरत एवेत्यतो न प्रियाप्रिये स्पृशतः। ननु यदि प्रियमप्यशरीरं न स्पृशतीति यन्मघवतोक्तं सुषुप्तस्य विनाशमेवापीतो भवतीति तदेवेहाप्यापन्नम्। नैष दोषो धर्म्माधर्म्मकार्य्ययोः शरीरसम्बन्धिनोः प्रियाप्रिययोः प्रतिषेधस्य विवक्षितत्वात् “अशरीरं न प्रियाप्रिये स्पृशतः” इत्यादिश्रुत्या। आगमापायिनोर्हि स्पर्शशब्दो दृष्टो यथा शीतस्पर्श उष्णस्पर्श इति। न त्वग्नेरुष्णप्रकाशयोः स्वभावभूतयोरग्निना स्पर्श एव भवति। तथाग्नेः सवितुर्वोष्णप्रकाशवत्स्वरूपभूतस्य नित्यस्य प्रियस्यापि नेह प्रतिषेधो “विज्ञानमानन्दम्” “आनन्दो ब्रह्मेति” श्रुतिभ्यः इहापि “भूमैव सुखम् इत्युक्तत्वात्” भा०। इत्युपक्रम्य बहूपदेशः कृतः। प्रपञ्चस्तत्र दृश्यः।
इन्द्रश्च देवानां मध्येऽतिशयेन ब्रह्मवित्तमः तथाहि। केनोपनिषदि असुरविजये देवानां महिमाभिमाने जाते तदभिमानापनोदनार्थं यक्षभूतेनाविर्भूतेन परब्रह्मणा अग्निवाष्वोरभिमाननिरसने तयीर्निवृत्तौ दृढभक्तिमिन्द्रं प्रत्येव हैमवत्युपदेशेन तस्यातिशयमहिमा सूचितः ततो दिग्मात्रं तद्भाष्यञ्चदर्श्यते। “ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो विजये देवा अमहीयम्त त ऐक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति तद्धैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजानन्त किमिदं यक्षमिति। तेऽग्निमब्रुवन् जातवेदः! एतद्विजानीहि किमेतद्यक्षमिति तथेति तदभ्यद्रवत्तमभ्यवदत् कोऽसीति अग्निर्व्वाऽहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति। तस्मिंस्त्वयि किं वीर्य्यमित्यपीदं सर्व्वं दहेयं यदिदं पृथिव्यामिति। तस्मै तृणं निदधावेतद्दहेति तदुप प्रेयाय सर्व्वजवेन तन्न शशाक दग्धुं स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति” के० उ०। एवं वायोरप्यभिमाननिरसनमुपवर्ण्य “अथेन्द्रमब्रुवन्मघवन्नेतद्विजानीहि किमेतद्यक्षमिति तथेति तदभ्यद्रवत्तत्तस्मात्तिरोदधे। स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमां हैववतीं तां होवाच किमेतद्यक्षमिति। सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयध्वमिति ततो हैव विदाञ्चकार ब्रह्मेति। यस्माद्वा एते देवा अतितरामिवान्यान्देवान् यदग्निर्वायुरिन्द्रस्ते ह्येन न्नेदिष्ठं पस्पर्शुस्ते ह्येनत् प्रथमो विदाञ्चकार ब्रह्मेति तस्माद्वा इन्द्रोऽतितरामिवान्यान् स ह्येनन्नेदिष्ठं पस्पर्श स ह्येनत् प्रथमो विदाञ्चकार ब्रह्मेति” के० उ०। “तथेन्द्रमब्रुवन्मघवन्नेतद्विजानीहि इत्यादिपूर्व्व वदिन्द्रः परमेश्वरोमघवान् बलवत्त्वात्तथेनि तदभ्यद्रवत्तस्मादिन्द्रादात्मसमीपगतात्तद्ब्रह्म तिरोदघे तिरोभूतमिन्द्रत्वाभिमानोऽतितरां निराकर्त्तव्य इत्यतः संवादमात्रमपि नादात् ब्रह्मेन्द्राय।
तद्यत्र यस्मिन्नाकाशे आकाशप्रदेशेआत्मानं दर्शयित्वा तिरोमूतमिन्द्रश्च ब्रह्मणस्तिरोधानकाले यस्मिन्नाकाशे आसीत् स इन्द्रस्तस्मिन्नेवाकाशे तस्थौ। किं तद्यक्षभिति ध्यायन्न निववृतेऽग्न्यादिवत्तस्येति यक्षे भक्तिं बुद्धा विद्या उमारूपिणी प्रादुर्भूता स्त्रीरूपा। स इन्द्रस्तामुमां सर्वेषां हि शोभमानानां शोमनतमां विद्यां तदा बहुशोभमानेति विशेषणमुपपन्नम्भवति। हैववती हेमकृताभरणवतीमिव बहुशोभामानामित्यर्थः। अथवा उमैव हिमवतो दुहिता हैमवती नित्यमेव सर्व्वज्ञेन ईश्वरेण सा वर्त्तत इति ज्ञातुं समर्था इति कृत्वा तामुपजगाम इन्द्रस्तां ह उमां किलोवाच पप्रच्छ ब्रूहि किमेतद्दर्शयित्वा तिरोभूतं यक्षमिति। सा ब्रह्मेति होवाच ह किल ब्रह्मण ईश्वरस्यैव विजये ईश्वरेणैव जिता असुरा यूयं तत्र निमित्तमात्रं तस्यैव विजये यूयं महीयध्वं महिमानं प्राप्नुथ। एतदिति क्रियाविशेषणार्थम्। मिथ्यामिमानश्च युष्माकमेव महिमेति। ततस्तस्मादुमावाक्याद्ध एव विदाञ्चकार व्रक्ते तीन्द्रोऽवधारणात्ततो हैवेति न स्वातन्त्र्येण। यस्मादग्निवाय्विन्द्रा एते देवा ब्रह्मणः संवाददर्शनादिना समीपमुपगतास्तस्मादैश्वर्य्यगुणैरतितरामिव शक्तिगुणादिभिर्महाभ्याग्यैरन्यान्देवानतितरामतिशयेन शेरते इवैते देवाः। इवशब्दोऽनर्थकोऽवधारणार्थो वा। यदग्निर्वायुरिन्द्रस्ते हि देवा यस्मादेतद्ब्रह्म नेदिष्ठमन्तिकं समीपं प्रियतमं पस्पर्शुः स्पृष्टवन्तो यथोक्तैर्ब्रह्मणः संवादादिप्रकारैस्ते हि यस्माच्च हेतोरेनद्ब्रह्म प्रथमः प्रथमाः प्रधानाः सन्त इत्येतद्विदाञ्चकार विदाञ्चक्रुरित्येतद्ब्रह्मेति। यस्मादग्निवायू अपीन्द्रवाक्यादेव विदाञ्चक्रतुः इन्द्रेण ह्युमावाक्यात्प्रथमं श्रुतं ब्रह्मेत्यतस्तस्माद्वै इन्द्रोऽतितरामतिशयेन शेते इवान्यान्देवान्, स ह्येतन्नेदिष्ठं पस्पर्श यस्मात्स ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति” भा० ११ अन्तरात्मनि “इन्दियमिन्द्रलिङ्गमित्यादि” पा० १२ ऐश्वर्य्यान्विते त्रि०। भावे रन्। १३ ऐश्वर्य्ये। १४ इन्द्र वारुण्यां स्त्री टाप्। राजनि०। “इन्द्रायेन्दो! पवस्वते” ऋ० ९, ६४, २२। “तदिन्द्रसन्दिष्टमुपेन्द्र! यद्वचः” माघः!। “हरी इन्द्रस्य” निरु०। १५ नृपमात्रे “महीमहेन्द्रस्तमवेक्ष्य सक्षणम्” नैष०। “राष्ट्रस्यैतत् कृत्यतमं राज्ञां चैवाभिषेचनम्। अनिन्द्रमबलं राष्ट्रंदस्यवोऽभिभवन्त्युत” भा० शा० ६७ अ० “देवताद्वन्द्वेउत्तरपदस्थस्य नेन्द्रस्य परस्य न वृद्धिः आग्नेन्द्रम् कर्म सि० कौ० लिङ्गाद्यर्थे घ। इन्द्रियम्। इन्द्रियशब्दे विवृतिः। इन्द्रोजीविकास्य देपपथा० कन् तस्य लुप्। इन्द्रस्तन्मूर्त्तिजीविकावति लुपि व्यक्तिवचनत्वात् पु०। इन्द्रोदेवताऽस्य अण्। इन्द्रदेवताके हविरादौ “ऐन्द्रं दध्यमावस्यायाम्” श्रुतिः। स्त्रियां ङीप्। “ऐन्द्र्या गार्हपत्यमुपतिष्ठते” श्रुतिः। “ऐन्द्रीतमसुरेश्वरम्” देवीमा० ऐन्द्री दिक् “उपमितसमासे उत्तरपददस्थः श्रेष्ठंत्वद्योतकः मनुजेन्द्रः वारणेन्द्र इत्यादि।
इन्द्रक = न० इन्द्रस्य राज्ञः कं सुखंयत्र। १ समागृहे हेम०। ६ त०। २ इन्द्रमुखे।
इन्द्रकर्म्मन् = पु० इन्द्रस्येव ऐश्वर्य्यान्वितं कर्म्मास्य। विष्णौ “इन्द्रकर्म्मा महाकर्म्मा कृतकर्म्मा कृतागमः” विष्णुस०।
इन्द्रकील = पु० इन्द्रम्य कील इव अत्युच्चत्वात्। १ मन्दरपर्व्वते इन्द्रस्य कील इव। २ इन्द्रध्वजे न० “विषमेन्द्रकीलचतुष्पथश्वभ्राणामुपरिष्टात्” सुश्रु०।
इन्द्रकुञ्जर = पु० ६ त०। ऐरावते तस्यामृतमन्थनकाले इन्द्रेण गृहीतत्वात् तथात्वम् यथाह “श्वेतैर्दन्तैश्चतुर्भिस्तु महाकायस्ततः परम्। ऐरावणो महानागोऽभवद्वज्रभृता धृतः” भा० आ० १८ अ०। इन्द्रगजशक्रगजादयोऽप्यत्र।
इन्द्रकूट = पु० इन्द्र ऐश्वर्य्यान्वितः कूटोऽस्य। पर्व्वतभेदे “ततस्तु पर्व्वताः सप्त केशवं समुपस्थिताः। जयन्तो वजयन्तोऽथ नीलो रजतपर्व्वतः। महामेरुः सकैस्तास इन्द्रकूटश्च नामतः” हरि० १७१ अ०।
इन्द्रकृष्ट = न० कृष्टं कर्षणं भावे क्त ततः अस्त्यर्थे अच् इन्द्रेण इन्द्रहेतुकवर्षणेन कर्षणजातम्। वृष्टिजलसम्पन्ने धान्यभेदे “इन्द्रकृष्टैर्वत्तेयन्ति धान्यैश्चैव नदीमुखैः” भा० स० ५ अ०।
इन्द्रकोष = पु० इन्द्रस्य कोषैव सुखदायकत्वात्। १ मञ्चे, २ खट्वायाञ्च।
इन्द्रगिरि = पु० इन्द्रनामा गिरिः। महेन्द्रपर्ब्बते। इन्द्रपर्व्वतादयोऽप्यत्र।
इन्द्रगुरु = पु० ६ त०। वृहस्पतौ इन्द्राचार्य्यादयोऽप्यत्र।
इन्द्रगोप = पु० इन्द्रो गोपो रक्षकोऽस्य वर्षाभवत्वात्तस्य। वर्षाकालिके कीटभेदे शक्रगोपादयोप्यऽत्र। “अविरलवपुरसुरेन्द्रगोपाः” किरा०। “इन्द्रगोपकवर्ण्णाभां शुक्लवर्णां मनोजवाम्” भा० स० ४० अ०। शुभ्रतया वर्णनात् “रूढयौवनया शक्रगोपकालोहितरागेणांशुकेन” काद० रक्ततया वर्णनाच्च तस्य कीटस्य दैविध्यं रक्तश्वेतभेदात्।
इन्द्रघोष = पु० इन्द्र इतिशब्देन विस्पष्टं घुष्यते घुष–कर्म्मणि घञ्। इन्द्रे “इन्द्रघोषस्त्वा वमभिः पुरस्तात् पातु” यजु० ५, ११।
इन्द्रचन्दन = न० इन्द्रप्रियं चन्दनम् शा० त०। हरिचन्दने श्वेतचन्दने राजनि०।
इन्द्रचाप = पु० इन्द्रे इन्द्रस्वामिके मेघे चापैव। १ शक्रधतुषि। “विद्युत्वन्तं ललितवनिताः सेन्द्रचाप सचित्राः” मेघदू०। “विद्युता सहितः सूर्य्यः सेन्द्रचापे घने यथा” भा० व० २३० अ०। तदुत्पत्तिप्रकारादि वृह० स० उक्तम् इन्द्रायुधशब्दे विवृतिः ६ त०। २ शक्रस्य शरासने च
इन्द्रचिर्भिटी = इन्द्रस्यात्मनःप्रिया चिर्भटी सा० त०। लताभद। सा च इन्द्रतुल्यवर्ण्णकुसुमा पुष्पान्वितमञ्जरीका दीर्घवृन्तायुम्मफलान्विता कष्ट्वी शीतवीर्य्या पित्तश्लेष्मकासव्रणदोषकृमिनाशिनी चक्षुष्या च राजनि०।
इन्द्रच्छन्दस् = न० इन्द्र इव सह त्रेण सहस्रगुच्छेन छाद्यते छद–असुन् नि० नुट्। सहस्रगुच्छे हारभेदे हेम०।
इन्द्रजनन = न० इन्द्रस्यात्मनः जनन देहसम्बन्धभेदः। आत्मनोदेहसम्बन्घभेदे। तदधिकृत्य कृतः ग्रन्थेः छ। इन्द्रजननीयं तदधिकारेण कृते ग्रन्थभेदे न०।
इन्द्रजाल = न० इन्द्रेण कौशलाद्यैश्वर्य्येण जालं द्रष्टुर्नेत्रावरणं यथास्थितवस्तुदर्शनाक्षमत्वसाधनात्, इन्द्रस्य परमेश्वरस्य जालं भायेव वा। मन्त्रौषधादिना अन्यथास्थितस्य वस्तुनोऽन्यथात्वेन दर्शनसाधने (कुहक) (वाजी) १ पदार्थे २ मायारूपे जाले च। “अतएव महान्तोऽस्याः प्रवदन्तीद्रजालताम्। एतस्मात् किमिवेन्द्रजालमपरं यद्गर्भवासस्थितं रेतश्चेत तिहस्त मस्तकपदप्रोद्भूतनानाङ्कुरम्। पर्य्यायेण शिशुत्वयौवनजरावेशैरनेकैर्वृतं पश्यत्यत्ति शृणोति जिघ्रति तथा गच्छत्यथागच्छ। देहवद्वटधानामौ सुविचार्य्यावलोक्य ताम्। क्व धानाः क्व च वा वृक्षत्मामान्मायेति निश्चिन्” प० द० “स्थूणाकणन्द्रजालञ्च सौरञ्चापि तथार्ज्जुनः। आग्नेयञ्चापि सौम्यञ्च ससर्ज कुरुदनन्दनः” भा० व० २७४ अ०। इन्द्रेण इन्द्रकृतेन योगविशेषेण जालम्। ३ क्षद्रोपायभेदे च। इन्द्रजालञ्च द्रव्यविशेषसंयोगेन अद्धुतवस्तुदर्शकव्यापारः (किमष्टरि) इति संलण्डभाषा प्रसिद्धः मन्त्रद्रव्यविशेषेण वस्तुनोऽन्यथा करणव्व। तच्चदत्तात्रेयतन्त्रे मन्त्रविशेषसाध्यम् विस्तरणाभिहितम्। इन्द्रजालतन्ये तु ओषधिविशे ण तथाचरणं यदुक्तं ततोदिङ्मात्रं प्रदर्श्यते। “अथातः संप्रवक्ष्यामि चेन्द्रजालमनुत्तमम्” इत्युपक्रम्य “अथातः संप्रवक्ष्यामि ओषधीनां विधिं वरे! येन विज्ञानमात्रेण सर्व्वसिद्धिर्भविष्यति। महाकालस्य वीजानि प्रस्थमेकंसमाहरेत्। धात्रीरसेन देवेशि! सप्त वारान् विभावयेत। कर्त्तव्या गुटिका तां त स्वेनिक्षिप्य पार्ब्बति! अचिरेणैव कालेन स्वयं पारावतो भवेत्। अथातः संप्रवक्ष्यामि शृण त्वं मम वल्लभे!। छागस्य शीर्षं सङ्गृह्य तत्र कृष्णमृत्तिव रयित्क पुबर्धस्तरवीगनि वापयेत् यत्काले तानि पुष्पितानि भवन्ति तदा यस्योपार निक्षिपेत् स छागो भवति। मयूरशीर्षमादायकृष्णचतुर्दश्यां मृत्तिकां पूरयेत् शणवीजानि वापयेत् यदा फलितः पुष्पितो भवति तदा शणवीजानि ग्रींवायां बन्धयेत् मयूरो भवति। कृष्णचतुर्दश्यां मयूरशीर्षमादाय कृष्णमृत्तिकां पूरयेत् कार्पासवीजानि वापयेत् तदा फलिताः पुष्पिता भवन्ति पुष्पफले संगृह्य समस्तं पेषयित्वा अङ्गं विलिप्य पानीयमध्ये प्रविश्य यदा जले तिष्ठति तदा मयूरो भवति। कृष्णकाकशीर्षमादाय काकमाचीवीजानि वापयेत् यदा फलिता पुष्पिता भवति तत्फलं संगृह्य मुखे प्रक्षिप्य काको भवति। काक इव गच्छति मह्यामुद्गीर्णे मोक्षः। पारवतशीर्षमादाय कृष्णमृत्तिकां पूरयित्वा तिलवीजानि वापयेत् क्षीरोदकेन सेचनीयं यदा पुष्पितो भवति तदा मुखे संस्थाप्य अन्तर्हितो भवति। तेषां फलानां चूर्णं कृत्वा तेन चूर्णेन यं स्पृशति स किङ्करो भवति। सर्व्वस्वं ददाति। तानि तिलानि संगृह्य नेत्राञ्जनेन सह पिष्ट्वा कपिलादुग्धेन गुटिकां कारयेत् सप्तरात्रं पाचयेत् तां गुटिकां मुखे निक्षिप्य अन्तर्हितो भवति देवैरपि न दृश्यते मनुष्याणां का कथा। उद्गीर्णे पुरुषो भवति। जीवेद्वर्षशतं स्त्रियः सर्वे जनाश्च वश्या भवन्ति। गृध्रशिरः समादाय कृष्णचतुर्दश्यां कृष्णमृत्तिकायां निक्षिपेत् लशुनवीजानि वापयेत् यदा फलं पुष्पं भवति तदा पुष्यनक्षत्रे पुष्पं गृहीत्वा अञ्जनेन सह कपिलाघृतेन कज्जलं पातयेत् चक्षुरञ्जनीयं यावत् तावत् योजनशतं पश्यति मेदिन्यां, दिवा नक्षत्राण्यपि पश्यति। एवं उष्ट्रगर्द्दभमहिषादीनां वृहज्जीवानां शिरसि यत् यत्वीजं यस्य शिरमि वापयेत् यदा पुष्पितः फलितो भवति तदा यस्य वीजानि मुखे निक्षिप्यन्ते स जीवो भवति नात्र सन्देहः। मातुलङ्गस्य मूलन्तु धुस्तूरवीजकेन च। पलाण्डु पुष्पमादाय सूक्ष्मचूर्णन्तु कारयेत्। योऽस्य गन्धं समाघ्राति स च स्नेहेन पश्यति। दुन्दुभिं पटहांश्चैव शङ्खांश्चैव तु लेपयेत्। एष भूतोपसृष्टानां कुमारीणां गृहेषु च। भूपतिं सेवमानानां तथा तत्कर्म्मजीविनाम्। न चाग्निर्दह्यते वेश्म यत्रैष सोऽगदो भवेत्। पारावतस्य हृदयं चक्षुर्जिह्वा च शोणितम्। अञ्जनं रोचनायुग्मं वनितावशकृत् परम्। कपालं मानुषं गृह्य कनकस्य फलानि च। कर्पूरं मधुसंयुक्तं निघृय्य तिलकेन च। नारी वा पुरुषोऽनेन वश्यो भवति नित्यशः। एष कापालिको योगो वशिष्ठस्य शुभं मतम्। नरजिह्वां समुद्धृत्य सूक्ष्मचूर्णन्तु कारयेत्। जलेन च सुशीतेन दापयेत्तद्विचक्षणः। पाने फले च पुष्पे च भक्ष्ये भोज्ये च दापयेत्। प्रजापतिकुलोद्भूता यदि साक्षादरुन्धती सापि रक्ता प्रियं याति नान्यं पुरुषमिच्छति। हरितालं श्मशाने कृष्णचतुर्दश्यां क्षिप्त्वा कुष्ठविमिश्रं ग्राह्यम् अवश्यं वशीभवेत् स नरः। नरतैलं प्रेताम्बरवर्त्तिकं कृत्वा पात्रेरात्रौ प्रज्वाल्यार्कवृक्षस्कन्धे कज्ज्वलं कृत्वा चक्षुषी अभ्यञ्जेत् यं पश्यति स वश्यो भवति। कर्णदन्तमलं लाला स्वदेहाक्षिमलत्रयम्। नासिकोद्भवरक्तञ्च चूर्णमेतद्वलायुतम्। एतत् सर्वं समुद्धृत्य गुटिकां कारयेद्बुधः। पानभोजनके देयं वशीकरणमुत्तमम्। काकजिह्वा वचा कुष्ठमात्मनो रुधिरं स्त्रियः। तद्भात्तदन्नं कञ्जिष्ठा तगरं गौरसर्षपाः। शिवनिर्माल्यसंयुक्तं समभागानि कारयेत्। भोज्ये पानेऽथवा देयं स्त्रीणान्तु वशकारकम्। नित्यं पुरुषमिच्छन्तीमृतमप्यनुगच्छति। कृष्णसर्पस्याङ्गुलप्रमाणं शिरश्छित्त्वास्यास्यं सर्षपादिभिः। पूरयित्वा छायाशुषकं शोषयेत्। परतः सर्षपान् ग्राहयित्वा तानि यस्मै दीयते स बश्यो भवति। पूगीफलं गिलित्वाऽपानमार्गेण निर्गतं संगृह्य धुस्तूररसान्तरितं कृत्वा सप्त दिनानि पूजयेत्। पुनः कुङ्कुमचन्दनैरधिवास्य यस्मै दीयते स वश्यो भवति। दर्दुरयुग्मं गृहीत्वा तद्धूमेन दाहयेत्। तद्भस्म सह पानेन वश्यकृत् परमो मतः। अजगन्धस्य पत्त्राणि वचां कुष्ठेन भावयेत्। श्मशानभस्मसंयुक्तं चूर्णञ्चेत्त्रिषु दुर्लभम्। अनेनैव त चूर्णेन योजयेत् त्रींश्च पादपान्। पुष्पितं फलितं दृष्ट्वा चूर्णं वृक्षाद्विलग्नयेत्। तत् क्षणात् फलते वृक्षो नरनारोषु का कथा। जिह्वामूले सप्तरात्रं सैन्धवेनापि मिश्रितम्। ददाति यस्य पानेषु सोऽपि वश्यो भवेत् क्षणात्। गोपितं सैन्धवञ्चैव वृहतीफलमेव च। लेप्यमेतत् प्रयोक्तव्यं नरनारीवशङ्करम्। उद्गातुः पक्षमलिन आत्मनो रुधिरान्वितम्। स्त्रीपुंसयोः प्रदातव्यं वशीकरणमुत्तमम्। श्वेतार्कं रोचनायुक्तमात्ममूत्रेण पेषयेत्। ललाटे तिलकं कृत्वा त्रैलोक्यं क्षोभयेत् क्षणात्। दृष्टमात्रेण तेनैव सर्वो भवति किङ्करः। श्वेतार्कं चन्दनेनैव रञ्जयेत् सह लेपयेत्। दीयते कस्य चिद्वापि पश्चात् दासो भविष्यति। मधूकं सह तैलेन सार्षपेण तु पेषयेत्। एतेन पाणिमभ्यज्य भर्त्रा सा सहिता स्वपेत्। संवृत्ते सैथुनीभावे पतिर्दासो भविष्यति”। “यानि कानि च वीजान्यङ्कोलतैलेन मेलयेत्। सफलो जायते वृक्षः सिद्धियोग उदाहृतः। शवमुखे विन्दुमात्रं तत्तैलं निःक्षिपेद् यदि। एकयामं भवेत् जीवो नान्यथा शङ्करोदितम्। शिग्रुवीजस्थितं तैलं पारावत पुरीषकम्। वराहस्य वसायुक्तं गृहीत्वा च समं समम्। गर्दभस्य वसायुक्तं हरितालं मनःशिलाम्। एभिस्तु तिलकं कृत्वा यथा लङ्केश्वरोनृपः। उल्लुविष्टां गृहीत्वा त्वेरण्डतैलेन पेषयेत्। यस्याङ्गे निक्षिपेत् विन्दु सक्षिप्तो जायते ध्रुवम्। सर्पदन्तं गृहीत्वा तु कृष्णवृश्चिककण्टकम्। कृकलारक्तसंयुक्तं सूक्ष्मचूर्णन्तु कारयेत्। यस्याङ्गे निक्षिपेच्चूर्णं सद्यो याति यमालयम्। सिन्दूरं गन्धकं तालं समं पिष्ट्वा मनःशिलाम्। तल्लिप्तवस्त्रं शिरसि अग्निवत् दृश्यते घ्रुवम्। अर्कक्षीरं वटक्षीरं क्षीरं डुम्बरसम्भवम्। गृहीत्वा पात्रके लिप्ते जलपूर्णं करोति च। दुग्धं तत्र भवेत् सद्यो महाकौतुककौतुकम्। अङ्कोलतैललिप्ताङ्गो दृश्यते राक्षसाकृतिः। पलायन्ते नराः सर्वे पशुपक्षिगजा हयाः। अङ्कोलस्य तु तैलेन दीपं प्रज्वालयेन्नरः। रात्रौ पश्यति भूतानि खेचराणि महीतले। बुधे वा शनिवारे वा कृकलां ग्राह्य यत्नतः। शत्रुर्मूत्रयते यत्र कृकलां तत्र निःक्षिपेत्। निखनेद्भूमिमध्येषु उद्धृते च पुनः सुखी। नपुंसकंभवेत् सत्यं नान्यथा शङ्करोदितम्। गन्धकं हरितालञ्च गोमूत्रञ्च विषं तथा। सूक्ष्मचूर्णमयं कृत्वा किञ्चिद्वह्निं विनिःक्षिपेत्। विघ्नाः सर्व्वे पलायन्ते यथा युद्धेषु कातराः” दत्तात्रेय तन्त्रे ११ प०
इन्द्रजालिक = त्रि० इन्द्रजाल शिल्पतयाऽस्त्यस्य ठन्। इन्द्रजालकारके। इनि इन्द्रजालीत्यप्यत्र स्त्रियां ङीप्।
इन्द्रजित् = पु० इन्द्रं जितवान् जि–भूते क्विप्। दितिवंशीये असुरभेदे चाक्षुषमन्वन्तरे “दित्याः पुत्रद्वयं जज्ञे कश्यपादिति विश्रुतम्। हिरण्यकशिपुश्चैव हिरण्याक्षश्च वीर्य्यवान्”। इत्युपक्रम्य तत्पुत्रपौत्रादिवर्ण्णने “इन्द्रजित् सर्वजिच्चैव वज्रनाभस्तथैव च” हरिवं० ३ अ०। २ रावणपुत्रे मेघनादे च “पुत्रमिन्द्रजितं वीरं रावणः प्रत्यधावत। जहि रामममित्रघ्न सुग्रीवञ्च सलक्ष्मणम्। त्वया हि मम सत्पुत्र! यशोदीप्तमुपार्ज्जितम्। जित्वा वज्रधरं संख्ये सहस्राक्षम् शचीपतिम्” भा० व० २८७। “तौ वीरौ शरबन्धेन बद्धाविन्द्रजिता रणे” भा० व० २८८ अ०।
इन्द्रजिद्धन्तृ = पु० इन्द्रजितं हन्ति हन–तृच् ६ त०। दशरथात्मज लक्ष्मणे। तद्धननकथा। “अविध्यदिन्द्रजित्तीक्ष्णैः सौमित्रि मर्म्मभेदिभिः। सौमित्रिश्चानलस्पर्शैरविध्यद्रावणिं शरैः”। इत्युपक्रम्य “ऐकेनास्य धनुष्मन्तं वाहुं देहादपातयत्। द्वितीयेन शरेणास्य भुजं भूमौ न्यपातयत्। तृतीयेन तु वाणेन पृथुधारेण भास्वता। जहार सुनसञ्चापि शिरो भ्राजिष्णुकुण्डलम्। विनिकृत्तभुजस्कन्घ कबन्धं भीमदर्शनम्। तं हत्वा सूतमप्यस्त्रैर्जघान बलिनां वरः” भा० व० २२८ अ०।
इन्द्रतापन = पु० इन्द्रं तापयति तप + णिच् + ल्यु। १ असुरभेदे “इन्द्रतापनवातापी केतुमान् वलदर्पितः” असुरनामोत्कीर्त्तने” हरिवं० २६ अ०। २ मेघनादे च। दशग्रीवश्च बाली च मेघराजो दशावरः। टिट्टिभोविटभूतश्च संह्रादश्चेचन्द्रतापनः” भा० स० प० ० अ० वरुणसभावर्णने।
इन्द्रतूल = न० इन्द्रस्येव तूलमाकाशे उड्डीयमानत्वात्। आकाशे मरुता चाल्यमाने कार्पासे सूत्रे त्रिका०।
इन्द्रतोया = स्त्री इन्द्रमैश्वर्य्यान्वितं तोयमस्याः, इन्द्रेण पूरितं तोयमस्या वा। गन्धमादनसमीपस्थे नदीभेदे। “इन्द्रतोयां समासाद्य गन्धमादनसन्निधौ” भा० अनु० प० २४।
इन्द्रदमन = पु० “बाणस्य चेन्द्रदमनो लौहित्यामुदपद्यत” हरिवं० ३ अ० उक्ते बाणासुरपुत्रभेदे।
इन्द्रदारु = पु० इन्द्रस्य तद्ध्वजस्य साधनं दारु। देवदारुवृक्षे। इन्द्रध्वजशब्दे ९४६ पृष्ठे तस्य तद्ध्वजसाधनत्वम् दृश्यम्। इन्द्रद्रुमादयोऽप्यत्र।
इन्द्रद्युम्न = इन्द्रस्येव द्युम्नं धनमस्य। भालवेये १ ऋषिभेदे २ असुराबतारराजभेदे ३ राजभेदे च। तत्र असुररूपोनृपः कृष्णेन हतः यथा। “इन्द्रद्युम्नोहतः कोपाद्युवनश्च कसेरुमान्। हतः सौभपतिः शाल्वस्त्वया सौभं च पातितम्” भा० व० १२ अध्याये कृष्णं प्रति व्यासवाक्यम्। ऋषिभेदस्तु। “ततस्ते ब्राह्मणाः सर्वे वकं दाम्भ्यमपूजयन्नित्युपक्रम्य “द्वैपायनो नारदश्च जामदग्नः पृथुश्रवाः। इन्द्रद्युम्नोभालविश्च कृतचेताः सहस्रपात्” इति कतिचित् ब्राह्मणानभिधायाह। “एते चान्ये च बहवोब्राह्मणा सशितव्रताः। अजातशत्रुमानर्चुः पुरन्दरमिवर्षयः” भा० व० २६ अ०। राजभेदस्तु मार्कण्डेयादपि प्राचीनः तत्कथा भा० व० १९८ अ०। युधिष्ठिर प्रति मार्कण्डेयवाक्यम्। “स तानुवाचास्ति खलु राजर्षिरिन्द्रद्युम्ने नाम क्षोण- पुण्यस्त्रिदिवात् प्रच्युतः कीर्त्तिर्म्मे व्युच्छिन्नेति स मामुपातिष्ठदथ प्रत्यभिजानाति मां भवानिति। तमहमब्रवं न वयं वासायनिकाः कार्य्यचेष्टाकुलत्वान्न प्रत्यभिजानाम्यात्मनोऽर्थानामनुष्ठानं न शरोरोपतापेनात्मनः समारभामोऽर्थानामनुष्ठानं स मामुवाच अस्त्यन्यस्त्वत्तश्चिरजात इति तमहमब्रवम् अस्ति खलु हिमवति प्रावारकण्णो नामोलूकः प्रतिवसति स मत्तश्चिरजातो भवन्तं यदि जानीयादितः प्रकृष्टे चाध्वनि हिमवांस्तत्रासौ प्रतिवसतीति। ततः स ममाश्वो भूत्वा तत्रावहद्यत्र बभूवोलूकः अथैनं स राजा पप्रच्छ प्रतिजानाति मां भवानिति। स महूर्त्तमिव ध्यात्वाऽब्रवीदेनं नाभिजानामि भवन्तमिति। स एवमुक्त इन्द्रद्युम्नः पुनस्तमुलूकमब्रवीद्राजर्षिः। अथास्ति कश्चिद्भवतः सकाशाच्चिरजात इति स एवमुक्तोऽव्रवीदस्ति खल्विन्द्रद्युम्नं नाम सरस्तस्मिन्नाडीजङ्घो नाम वकः प्रतिवसति सोऽस्मत्तश्चिरजाततरस्तं पृच्छेति। तत इन्द्रद्युम्नो माञ्चोलूकमादाय तत्सरोऽगच्छद्यत्रासौ नाडीजङ्घो नाम वको बभूव। सोऽस्माभिः पृष्टो भवानिममिन्द्रद्युम्नं राजानमभिजानाति स एनं मुहूर्त्तं ध्यात्वाऽब्रवीन्नाभिजानाम्यहमिन्द्रद्युम्नं राजानमिति ततः सोऽस्माभिः पृष्टः कश्चिद्भवतोऽन्यश्चिरजाततरोऽस्तीति स नोऽब्रवीदस्ति खल्वस्मिन्नेव सरस्यकूपरो नाम कच्छपः प्रतिवसति स मत्तश्चिरजाततरः स यदि कथञ्चिदभिजानीयादिमं राजानं तमकूपारं पृच्छध्वमिति। ततः स वकस्तमकूपारं कच्छपं विज्ञापयामासं। अस्त्यस्माकमभिप्रेतं भवन्तं कञ्चिदर्थमभिप्रष्टुं साध्वागम्यतां तावदिति तच्छ्रुत्वा कच्छपस्तस्मात् सरसः उत्यायाभ्यगच्छद्यत्र तिष्ठामो वयं तस्य सरसस्तीरे आगतञ्चैनं वयमपृच्छाम भवानिममिन्द्रद्युम्नं राजानमभिजानातीति। स मुहूर्त्तं ध्यात्वा वाष्पसम्पूर्णनयन उद्विग्नहृदयो वेपमानो विसंज्ञकल्पः प्राञ्जलिरब्रवीत्। कथमहमेनं न प्रत्यभिज्ञास्यामीह ह्यनेन सहस्रकृत्वश्चितिषु यूपा आहिताः। सरश्चेदमस्य दक्षिणाभिर्द्दत्ताभिर्गोभिरतिक्रममाणाभिः कृतम्। अत्र चाहं प्रतिवसामीति। अथैतन् सकलं कच्छपेनोदाहृतं श्रुत्वा तदनन्तरं देवलोकाद्देवरथः प्रादुरासीराद्वाचश्चाश्रूयन्त इन्द्रद्युम्नं प्रति प्रस्तुतस्ते स्वर्गो यथोचितं स्थानं प्रतिपद्यस्व कीर्त्तिमानस्यव्यग्रो याहीति”। एतत्सरश्चोक्तवाक्ये वर्णितं तच्चाधिकृत्य। “इन्द्रद्युम्नसरः प्राप्य हंसकूटमतात्य च। शतशृङ्गं महाराज तापसः ममतप्यत” इत्युक्तेः शतशृङ्गपर्व्वतसमीपे हंसकूटानन्तरं तत्सरः इति गम्यते। “हंसकूटस्य यच्छृङ्गमिन्द्रद्युम्नसरः प्रति” इति हरिवं० १५७ उक्तेश्च हंसकूटसन्निकृष्टत्वमस्यावगम्यते। पुरुषोत्तममूर्त्तिप्रकाशकश्चापरः पुरुषोत्तमशब्दे तद्विवृतिर्वक्ष्यते।
इन्द्रद्रु = पु० इन्द्रस्य इन्द्रध्वजार्थोद्रुः। १ अर्जुनवृक्षे। तस्य तद्ध्वजनिर्माण्णे प्रथमोपात्तत्वात् तथात्वम्। इन्द्रध्वजशब्दे विवृतिः। इन्द्रनामा द्रुः। २ कुटजवृक्षे राजनि०।
इन्द्रद्रुम = न० इन्द्रद्रुवत् विग्रहः। अर्ज्जुनवृक्षे शब्दर०।
***