इन्द्रधनुस् = न० इन्द्रे इन्द्रस्वामिके मेघे धनुरिव। इन्द्रायुध शब्देवक्ष्यमाणे पदार्थे “विद्युतोऽशनिमेघांश्च रोहितेन्द्र धनूंषि च” मनुः। तस्य ऋजुत्वे रोहितत्वम्। वक्रत्वे इन्द्रधनुष्ट्वमिति भेदः।

इन्द्रध्वज = पु० इन्द्रस्य तत्सन्तोषार्थोध्वजः। भाद्रशुक्ल द्वादश्यां स्वराज्ये वृष्ट्यादिशस्यवृद्ध्यर्थं तत्प्रीतये राज्ञा क्रियमाणे ध्वजे तदुत्पत्तितत्करणप्रकारादि दर्शितं वृहत्संहितायां यथा “ब्रह्माणभूचुरमरा भगवञ्छक्ताः स्म नासुरान् समरे। प्रतियोधयितुमतस्त्वां शरण्यं शरणं समुपयाताः। देवानुवाच भगवान् क्षीरोदे केशवः स वः केतुम्। यं दास्यति तं दृष्ट्वा नाजौ स्थास्यन्ति वो दैत्याः। लब्धवराः क्षीरोदं गत्वा ते तुष्टुवुः सुराः सेन्द्राः। श्रीवत्साङ्कं कौस्तुभमणिकिरणोद्भासितोरस्कम्। श्रीपतिमचिन्त्यमसमं समन्ततः यर्वदेहिनां सूक्ष्मम्। परमात्मानमनादिं विष्णुमविज्ञातपर्यन्तम्। तैः संस्तुतः स देवस्तुतोष नारायणो ददौ चैषाम्। ध्वजमसुरसुरबधूमुखकमलवनतुषारतीक्ष्णांशुम्। तं विष्णुतेजोभवमष्टचक्रे रथे स्थितं भास्वति रत्नचित्रे। देदीप्यमानं शरदीव सूर्य्यं ध्वजं समासाद्य मुमोद शक्रः। सकिङ्कणीजालपरिस्कृतेन स्रक्छत्रघण्टापिटकान्वितेन। समुच्छ्रितेनामरराड् ध्वजेन निन्ये विनाशं समरेऽरिसैन्यम्। उपरिचरस्यामरपो वसोर्ददौ चेदिपस्य वेणुमयीम्। यष्टिं तां स नरेन्द्रो विधिवत्सम्पूजयामास। प्रीतो महेन मघवान् प्राहैवं ये नृपाः करिष्यन्ति। वसुबलहेमवन्तस्ते भुवि सिद्धाज्ञा भविष्यन्ति। मुदिताः प्रजाश्च तेषां भयरोगविवर्जिताः प्रभूतान्नाः। ध्वज एव चाभिधास्यति जगति निमित्तैः फलं सदसत्। पूजा तस्य नरेन्द्रैर्बहुवृद्धिजयार्थिभिर्यथा पूर्वम्। शक्राज्ञया प्रयुक्ता तामागमतः प्रवक्ष्यामि। तस्य बिवानं शुभकरणदिवस- नक्षत्रमङ्गलमूहूर्तैः। प्रास्थानिकैर्वनमियाद्दैवज्ञः सूत्रधारश्च। उद्यानदेवतालयपितृवनवल्मीकमार्गचितिजाताः। कुब्जोर्ध्वशुष्ककण्टकिवल्लीवन्दाकयुक्ताश्च। बहुविहगालयकठोरपवनानलपीडिताश्च ये तरवः। ये च स्युः स्त्रीसञ्ज्ञा न ते शुभाः शक्रकेत्वर्थे। श्रेष्ठोऽर्ज्जुनोऽश्वकर्णः प्रियकघवोदुम्यराश्च पञ्चैते। एतेषामन्यतमं प्रशस्तमथवाऽमरं वृक्षम्। नौरासितक्षितिभवं सम्पूज्य यथाविधि द्विजः पूर्ब्बम्। विजने समेत्य रात्रौ स्पृष्ट्वा ब्रूयादिमं मन्त्रम्। “यानीह वृक्षे भूतानि तेभ्यः स्वस्ति नमोऽस्तु वः। उपहारं गृहीत्वेमं क्रियतां वासपर्य्ययः। पार्थिवस्त्वां वरयते स्वस्ति तेऽस्तु नगोत्तम!। ध्वजार्थं देवराजस्य पूजेयं प्रतिगृह्यताम्”। छिन्द्यात् प्रभातसमये दृक्षमुदक्प्राङ्मुखोऽपिवा भूत्वा। परशोर्जर्जरशब्दो नेष्टः स्निग्धो घनश्च हितः। नृपजयदमविध्वस्तं पतनमनाकुञ्चित च पूर्व्वोदक्। अविलग्नं चान्यतरौ विपरीतमतस्त्यजेत्पतितम्। छित्त्वाग्रे चतुरङ्गुलमष्टौ मूले जले क्षिपेद्यष्टिम्। उद्धृत्य पुरद्वारं शकटेन नयेन्मनुष्यैर्वा। अरभङ्गे बलभेदो नेम्या नाशो बलस्य विज्ञेयः। अर्थक्षयोऽक्षभङ्गे तथाणिमङ्गे च वर्धकिनः। भाद्रपदशुक्लपक्षस्याष्टम्यां नागरैर्वृतो राजा। दैवज्ञसचिवकञ्चुकिविप्रप्रमुखैः सुवेषधरैः। अहताम्बरसंवीतां यष्टिं पौरन्दरीं पुरं पौरैः। स्रग्गन्धधूपयुक्तां प्रवेशयेच्छ्रङ्खतूर्यरवैः। रुचिरपताकातोरणवनमालालङ्कृतं प्रहृष्टजनम्। सम्मार्जितार्चितपथं सुवेषगणिकाजनाकीर्णम्। अभ्यर्चितापणगृहं प्रभूतपुण्याहवेदनिर्घोषम्। नटनतकगेयज्ञैराकीर्णचतुष्पथं नगरम्। तत्र पताकाः श्वेता विजयाय भवन्ति रोगदाः पीताः। जयदाश्च चित्ररूपा रक्ताः शस्त्रप्रकोपाय। यष्ठिं प्रवेशन्तीं निपातयन्तो भयाय नागाद्याः। बालानां तलशब्दे सङ्ग्रामः सत्त्वयुद्धे बा। सन्तक्ष्य पुनस्तक्षा विधिवद्यष्टिं प्ररोपयेद्यन्त्रे। जागरमेकादश्यां नरेश्वरः कारयेच्चास्याः। सितवस्त्रोष्णीषधरः पुरोहितः शाक्रवैष्णवैर्मन्त्रैः। जुहुयादग्निं सांवत्सरो निमित्तानि मृह्णीयात्। इष्टोद्रव्याकारः सुरभिः स्निग्धो घनीऽनलोऽचिर्ष्मान्। शुभकृदतोऽन्यो नेष्टो यात्रायां विस्तरोऽभिहितः। स्वाहावसानसमये स्वयमुज्ज्वलार्चिः स्निग्धः प्रदक्षिणशिखो हुतभुग् नृपस्य। गङ्गादिवाकरसुताजलचारुहारां धात्रीं समुद्ररसनां वशगां करोति। चामीकराशोककुरण्टकाण्डवैदूर्यनीलोत्पलसन्निभेऽग्नौ न। विध्वान्तमन्तर्भवनेऽवकाशं करोति रत्नांशुहतं नृपस्य। येषां रथौघार्णवमेधदन्तिनां संमस्वनांऽग्निर्यदिवापि दुन्दुर्भः। तेषां मदान्धेभघटाविघट्टिता भवन्ति याने तिमिरोपमा दिशःः। ध्वजकुम्भहयेभभूभृतामनुरूपे वशमेति मूभृताम्। उदयास्तधराधराधरा हिमवद्विन्ध्यपयोधरा धरा। द्विरदमदमहीसरोजलाजैर्घृतमधुना च हुताशने सगन्धे। प्रणतनृपशिरोमणिप्रभाभिर्भवति पुरश्छुरितेव भूर्नृपस्य। उक्तं यदुत्तिष्ठति शक्रकेतौ शुभाशुमं सप्तमरीचिरूपैः। तज्जन्मयज्ञग्रहशान्तियात्राविवाहकालेष्वपि चिन्तनीयम्। गुडपूपपायसाद्यैर्विप्रानभ्यर्च्यदक्षिणाभिश्च। श्रवणेन द्वादस्याम् उपोष्याऽन्यत्र वा श्रवणात्। शक्रकुमार्य्यः कार्याः प्राह मनुः सप्त पञ्च वा तञ्ज्ञैः। नन्दोपनन्दसञ्ज्ञैः पादेनार्धेन चोच्छ्रायान्। षोडशभागाभ्यधिके जयविजये द्वे वसुन्धरे चान्ये। अधिका शक्रजनित्री मध्येऽष्टांशेन चैतासाम्। प्रीतैः कृतानि विबुधैर्यानि पुरा भूषणानि सुरकेतोः। तानि क्रमेण दद्यात् पिटकानि विचित्ररूपाणि। रक्ताशोकनिकाशं चतुरस्रं विश्वकर्म्मणा प्रथमम्। रसना स्वयम्भुवा शङ्करेण चानेकवर्णधरी! अष्टाश्रि नीलरक्तं तृतीयमिन्द्रेण भूषणं दत्तम्। असितं यमश्चतुर्थं मसूरकं कान्तिमदयच्छत्। मञ्जिष्ठाभं वरुणः षडश्रि तत्पञ्चमं जलोर्मिनिभम्। मायूरं केयूरं षष्ठं वायुर्जलदनीलम्। स्कन्दः स्वं केयूरं सप्तममददद्ध्वजाय बहुचित्रम्। अष्टममनलज्वालासङ्काशं हव्यभुग्दत्तम्। वैदूर्यसदृशमिन्दुर्नवम् ग्रैवेयकं ददावन्यत्। रथचक्राभं दशमं सूर्यस्त्वष्टा प्रभाचयैर्युक्तम्। एकादशमुद्वंशं विश्वे देवाः सरोजसङ्काशम्। द्वादशमपि च निवशं मुनयो नीलोत्पलाभासम्। किञ्चिद्घ्वजोर्ध्वनिर्गतमुपरि विशालं त्रयोदशं केतोः। शिरसि वृहस्पतिशुक्रौ लाक्षारससन्निभं ददतुः। यद्यद्येन विनिर्मितममरेण विभूषणं ध्वजस्यार्थे। तत्तत्तर्द्दैवत्यं विज्ञातव्यं विपश्चिद्भिः। ध्वजपरिमाणत्र्यंशः परिधिः प्रथमस्य भवति पिटकस्य। परतः प्रथमात्प्रथमादष्टांशाष्टांशहीनानि। कुर्यादहनि चतुर्थे पूरणमिन्द्रध्वजस्य शास्त्रज्ञः। मनुना चागमगोतान् मन्त्रानेतान् पठेन्नियतः। “हरार्कवैवस्वतशक्रसोमैर्धनेशवैश्वानरपाशभृद्भिः। महर्षिसिद्धैः सदिगप्सरोभिः शुक्राङ्गिरःस्कन्दमरुद्गणैश्च। यथा त्वमूर्जस्कर। नैकरूपैः समर्चितस्त्वाभरणैरुदारैः। तथेह तान्याभरणानि देव! शुभानि सम्प्रीतमना गृहाण। अजोऽव्ययः शाश्वत एकरूपो विष्णुर्वराहः पुरुषः पुराणः। त्वमन्तकः सर्वहरः कृशानुः सहस्रशीर्षा शतमन्युरीद्ध्यः। कविं सप्तजिह्वं त्रातारं त्वाम् इन्द्रमवितारं सुरेशम्। शक्रं वृत्रहणं सुषेणम् अस्माकं वीरा उत्तरे भवन्तु”। प्रपूरणे चोच्छ्रयणे प्रवेशे स्नाने तथा माल्यविधौ विसर्गे। पठेदिमान्नृपतिः सोपवासो मन्त्राञ्छुभान् पुरुहूतस्य केतोः। छत्रध्वजादर्शफलार्धचन्द्रैर्विचित्रमालाकदलीक्षुदण्डैः। सव्यालसिंहैः पिटकैर्गवाक्षैरलङ्कृतं दिक्षु च लोकपालैः। अच्छिन्नरज्ज्वा दृढकाष्ठमातृकं विश्लिष्टयन्त्रार्गलपादतोरणम्। उत्थापयेल्लक्ष्म सहस्रचक्षुषः सारद्रुमाभग्नकुमारिकान्वितम्। अविरतजनरावं भङ्गलाशीःप्रणामैः पटुपटहमृदङ्गैः शङ्खभेर्यादिभिश्च। श्रुतिविहितवचोभिः पापठद्भिश्च विप्रैरशुभरहितशब्दं केतुमुत्थापयीत। फलदधिघृतलाजाक्षोद्रपुष्पाग्रहस्तैः प्रणिपतितशिरोभिस्तुष्टुवद्भिश्च पौरैः। धृतमनिमिषभर्तुः केतुमीशः प्रजानाम् अरिनगरनताग्रं कारयेद्द्विड्बधाय। नातिद्रुतं न च विलग्वितमप्रकम्प्यम् अन्वस्तमाल्यपिटकादिविभूषणं च। उत्थानमिष्टमशुभं यदतोऽन्यया स्यात् तच्छान्तिभिर्नरपतेः शमयेत्पुरोधाः। क्रव्यादकौशिककपोतककाककङ्कैः केतुस्थितैर्महदुशन्ति भर्य नृपस्य। चाषेण चापि युवराजभयं वदन्ति श्येनो विलोचनभयं निपतन् करोति। छत्रभङ्गपतने नृपमृत्युस्तस्कराद्वसु करोति निलीनम्। हन्ति चाप्यथ पुरोहितमुल्का पार्थिवस्य महिषीमशनिश्च। राज्ञोविनाशं पतिता पताका करोत्यवृष्टिं पिटकस्य पातः मध्याग्रभूलेषु च केतुभङ्गो निहन्ति मन्त्रिक्षितिपालपोरान्। धूमावृते शिखिभयं तमसा च मोहो व्यालैश्च भग्नपतितैर्न भवन्त्यमात्याः। ग्लायन्त्युदक्प्रभृति च क्रमशो द्विजाद्या भङ्गे च वर्द्धकिबधः कथितः कुमार्याः। रज्जूत्सङ्गच्छेदने बालपीडा राज्ञो मातुः पीडनं मातृकायाः। यद्यत्कुर्युर्बालकाश्चारणा वा तत्तत्तादृग्भावि पापं शुभं वा। दिनचतुष्टयमुत्थितमर्चितं समभिपूज्य नृपोऽहनि पञ्चमे। प्रकृतिभिः सह लक्ष्म विसर्जयेद् बलभिदः खबलाभिविवृद्धये। उपरिचरवसुप्रवर्त्तितं नृपतिभिरप्यनु सन्ततं कृतम्। विधिमिममनुमन्य पार्थिवी न रिपुकृतं भयमाप्नुयादिति” ध्वज प्रमाणादि ति० त० कालि० पु० उक्त यथा। “अर्ज्जुनोऽप्यश्वकर्णश्च प्रियकोधवएव च। औडुम्बरश्च पञ्चैते केत्वर्थे सत्तमाः स्मृताः। अन्ये च देवदार्वाद्याः शालाद्यास्तरवस्तथा। तञ्च वृक्षं तुदेदात्रौ स्पृष्ट्वा मन्त्रमिमं पठेत्”। तुदेत् च्छेदयेत्। “यानि वृक्षे तु भूतानि तेभ्यः स्वस्ति नमोऽस्तु वः। उपहारं गृहीत्वेम क्रियतां वा- सपर्य्ययः। पार्थिवस्त्वां वरयते स्वस्ति तेऽस्तु नगोत्तम!। ध्वजार्थं देवराजस्य पूजेयं प्रतिगृह्यताम्”। ततोऽपरे ह्नि तं छित्वा मूलमष्टाङ्गुलं पुनः। जले क्षिपेत्तदग्रस्य च्छित्त्वैवं चतुरङ्गुलम्। ततो नीत्वा पुरद्वारं केतुं निर्म्माय तत्रैव। शुक्लाष्टम्यां भाद्रपदे केतुं वेदिं प्रवेशयेत्। द्वाविंशद्धस्तमानस्तु अधमः केतुरुच्यते। द्वात्रिंशत्तु ततोज्यायान् द्वाचत्वारिंशदुत्तमः। कुमार्य्यः पञ्च कर्त्तव्याः शक्रस्य नृपसत्तम!। शालमय्यस्तु ताः सर्वास्त्वपराः शक्रमातृकाः। केतोः पादप्रमाणेन कार्य्याः शक्रकुमारिकाः। मातृकार्द्धप्रमाणात्तु यन्त्रं हस्तद्वयं तथा। एवं कृत्वा कुमारीश्च मातृका केतुमेव च। एकादश्यां सिते पक्षे यष्टीनामधिवासनम्। अधिवास्य ततोयष्टी र्गन्धद्वारादिमन्त्रकैः। द्वादश्यां मण्डलं कृत्वा वासवं विस्तृतात्मकम्। अच्युतं पूजयित्वादौ शक्रं पश्चात् प्रपूजयेत्। शक्रस्य प्रतिमां कुर्य्यात् कानकीं दारवीं तथा” कानकीं कनकमयीम् “अन्यतैजसभूतां वा सर्वाभावे तु मृण्मयीम्। तां मण्डलस्य मध्ये तु पूजयित्वा विशेषतः। ततः शुभे मुहूर्त्ते तु केतुमुत्थापरेन्नृपः। “वज्रहस्त! सुरारिघ्न! बहुनेत्र! पुरन्दर!। क्षेकार्थं सर्वलोकानां पूजेयं प्रतिगृह्यताम्। एह्येहिसर्वामरसिद्धसङ्घैरभिष्टुतोबज्रधरामरेश!। समुत्थितस्त्वं श्रवणाद्यपादे गृहाण पूजां भगवन्नमस्ते”। इति मन्त्रेण तन्त्रेण नानानैवेद्यवन्दनैः। घटेषु दश दिक्पालान् ग्रहांश्च परिपूजयेत्। साध्यादीन् सकलान् देवान् मातॄः सर्वास्त्वनुक्रमात्। ततः शुभे मुहूर्त्ते तु ज्ञानिवर्द्धकिसंयुतः। केतूपत्थानभूमिन्तु यज्ञवेद्यास्तु पश्चिमे। विप्रैः षुरोहितैः सार्द्धं गच्छेद्राजा सुमङ्गलैः। रज्जुभिः पञ्चभिर्बद्धं यन्त्रश्लिष्टं समातृकम्। कुमारीभिश्च सयुक्तं दिक्पालानाञ्च पट्टकैः। यथावर्णैर्यथादेशैर्योजितैर्वस्त्रवेष्टितैः। युतं तं किङ्किणीजालैर्वृहद्घण्टाढ्यचामरैः। चित्रमाल्याम्वरेश्चापि चतुर्भिःपरितोरणैः। उत्थापयेन्महाकेतुं राजा मात्यैः शनैः शनैः। प्रतिमां तां नयेन्मूल केतोः शक्रं विचिन्तयन्। यजेत्तु पूर्बवत्तत्र शचीं मातलिमेव च। जयन्तं तनयं तस्य वज्रमैरावतं तथा। ग्रहांश्चार्भ्यच्य दिक्पालान् सर्वाश्च गणदेवताः। पूजितानाञ्च देवानां शश्वद्धोमं समाचरेत्। होमान्तेतु बलिं दद्यात् वासवाय महात्मने। तिलं घृतं चाक्षतञ्च पुष्पं दूर्व्वां तथैव च। एतैस्तु जुहुयादेतान् स्वैः स्वैर्मन्त्रैर्नरोत्तमः। ततोहो- मावसाने तु ब्राह्मणानपि भोजयेत्। एवं प्रपूजयेन्नित्य सप्तरात्रं दिने दिने। त्रातारमिति मन्त्रोऽय वासवस्य परः प्रियः। एवं कृत्वा दिवाभागे शक्रोत्थापनमादितः। श्रवणर्क्षयुतायाञ्च द्वादश्यां पार्थिवः स्वयम्। अन्तपादे भरण्यास्त निशि शक्रं विसर्जयेत्। सुप्तेषु सर्वलोकेषु यथा राजा न पश्यति। “सार्द्धं सुरासुरगणैः पुरन्दर! शतक्रतो!। उपहारं गृहीत्वेमं महेन्द्रध्वज गम्यताम्” उत्पाते सप्तरात्राणि तथोपप्लवदर्शने। व्यतीत्य शनिभौमौ च अन्यर्क्षेऽपि विसर्जयेत्। यस्मिन्कस्मिन् दिने चैव सूतकान्ते विसर्जयेत्। तथा रक्षेन्नृपः केतुं न पते च्छकुनिर्यथा। शनैः शनैः पातयेत्तं यथोत्थापनमादितः। विसृष्टं शक्रकेतुं तं सालङ्कार तथा निशि। क्षिपेदनेन मन्त्रेण अगाधे सलिले नृपः। “तिष्ठ केतो! महाभाग! यावत्संवत्सरं जले। भवाय सर्वलोकानामन्तरायविनाशक!”। उत्थापयेत्तूर्य्यरवैः सर्वलोकस्य वै पुरः। एवं यः कुरुते पूजां वासवस्य महात्मनः। न तस्य राज्ये दुर्भिक्षं नतयो नाप्यधर्मकृत्”। “इन्द्रध्वजसमुत्थान प्रमादान्न कृतं यदि। तदा द्वादशमे वर्षे कर्त्तव्यं नान्तरा पुनः” ति० त० भविष्य०। पञ्चमाष्टमदिनयोर्विसर्जने शक्त्यपेक्षया व्यवस्था। इन्द्रकेतुशक्रध्यजादयोऽप्यत्र।

इन्द्रनक्षत्र = न०। इन्द्रस्वामिकं नक्षत्रम्। १ ज्येष्ठानक्षत्रे तस्य तत्स्वामिकत्वात् तथात्वम्। अश्लेषाशब्दे ४९९ पृष्ठे नक्षत्रेश्वरा उक्ताः। इन्द्रनामकं नक्षत्रम्। २ फल्गुनीनक्षत्रे च। फल्गुनीनक्षत्रस्य इन्द्रनामकत्वमाह शत० ब्रा० २, १, २, ११। यथा “फल्गुनीष्वग्नी आदधीत। एता वा इन्द्रनक्षत्रं यत्फल्गुन्योऽप्यस्य प्रतिनाम्न्योऽर्ज्जुनोहवै नामेन्द्रोयदस्य गुह्यं नामार्ज्जुन्योवैनामैतास्त्वा एतत् परोक्षमाचक्षते फल्गुन्य इति कोऽह्येतस्या गुह्यं नाम ग्रहीतुम् इन्द्रोवै यजमानस्तत्तस्य एवैतन्नक्षत्रे अग्नी आधत्ते”

इन्द्रनेत्र = न० ६ त०। १ शक्रनेत्रे २ सहस्रसंख्यायाञ्च।

इन्द्रनील = पु० इन्द्रैव नीलः श्यामः। (पान्ना) इति ख्याते जरकतमतमणौ” तल्लक्षणमुक्तं रत्नपरीक्षायाम् “क्षीरमध्ये क्षिपेन्नीलं क्षीरञ्चेन्नीलतां व्रजेत्। इन्द्रनील इति ख्यातः सर्व्वरत्नोत्तमोत्तमः”। अस्य नीलवर्णत्वं च रघौ गङ्गायमुनासंगमे यमुनासादृश्याय वर्ण्णितम् यथा “कचित् प्रभालेपिमिरिन्द्रनीलैर्मुक्तामयी यष्टिरिवानुविद्धा अन्यत्र माला सितपङ्कजानामिन्दीवरैरुत्खचितान्तरेव” “प्राप्येन्द्रनीलं किमुतोन्मयूखम्” रघुः। “एकं मुक्तागुण- मिव भुवः स्थूलमध्येन्द्रनीलम्” “पेशलैरिन्द्रनीलैः” मेघदू०। अस्य हिंहलद्वीपसम्भवत्वे महानीलसंज्ञा यथा हि “महामहानीलशिलारुवः पुरः” माघव्याख्यायां मल्लिनाथेन “सिंहहास्याकरोद्भूता महानीलास्तु ते स्मृताः” इति अगस्त्यवाक्यं प्रमाणतयोपन्यस्तम्। “वापीष्वन्तर्महानीलदलासु” माघः वाख्याने तेन तथेवोक्तम्।

इन्द्रपत्नी = स्त्री ६ त०। १ पुलोमजायां शच्याम्। “उताहमस्मिवीरिणीन्द्रपत्नी मरुत् सखा विश्वस्मादिन्द्र उत्तरः” ऋ० १०८६, ९। इन्द्रस्य पतिः पालयित्री “सपूर्व्वाच्चेति” पा० ङीप् नुक् च। २ इन्द्रपालयित्रीषु इडादिषु त्रिसृसु देवीषु च “होता यक्षत्तिस्रोदेवीर्न भेषजं त्रयस्त्रिधातवोऽपस इडासरस्वती मारती महीः। इन्द्रपत्नीर्हविष्मतीः” यजु० २८, ८। “इन्द्रपत्नीः इन्द्रस्य पालयित्र्यः, वेददी० शची तु शुक्रग्रहस्य प्रत्यधिदेवता “शवी प्रत्यधिदैवतमिति शुक्रध्यानम्। विवाहादौ पूजनीयषोडशमातृकान्तर्गता च।

इन्द्रपर्ण्णी = स्त्री इन्द्र इव लीलं पर्ण्णमस्याः जातित्वात् ङीय्। ओषधिभेदे। “कालानुसार्य्यगुरुकोचमुञ्जारास्नाशीत शिवेन्द्रपर्ण्ण्यः” सुश्रु०।

इन्द्रपर्व्वत = पु० इन्द्रनामकः पर्व्वतः। १ महेन्द्रपर्व्वते इन्द्रवर्णः पर्व्वतः। २ नीलवर्णे गिरिभेदे “वैदेहस्थस्तु कौन्तेय इन्द्रपर्व्वतवासिनः। किरातानामधिपतीनजयत् सप्त पाण्डवः” भा० स० २८ अ०।

इन्द्रपुत्रा = स्त्री इन्द्रः पुत्रो यस्याः। अदित्याम्। तस्या इन्द्रजननीत्वात् तथात्वम्।

इन्द्रपुष्पी = स्त्री इन्द्र इव नीलं पुष्पमस्याः जातित्वात् ङीप्। (विषलाङ्गला) जाङ्गलीवृक्षे। “अर्कालर्ककरञ्जद्वयनागदन्तीमयूरकभार्गीरास्नेन्द्रपुष्पीक्षुद्रश्वेतेत्यादि” सुश्रुतः। वा कपि अतैत्त्वे इन्द्रपुष्पिकाप्यत्र

इन्द्रपुरोहित = पु० ७ त०। सुराचार्य्ये वृहस्पतौ

इन्द्रप्रमति = पु० ऋग्वेदाध्ययनार्थं व्यासेन शिष्यत्वेन गृहीतस्य पैलस्य ऋषेः शिष्यभेदे। “प्रथमं व्यासशिष्यस्तु पैल ऋग्वेदपादपम्। इन्द्रप्रमतये प्रादात् विभज्य पञ्च संहिताः” अग्नि पु०। “एकैकां संहितां ब्रह्मन् एकैकस्मै ददौ विभुः। पैलाय संहितामाद्यां वह्वृचाख्यामुवाच ह”। इत्युपक्रम्य “पैलः स्वसंहितामूचे इन्द्रप्रमतये मुनिः” भाग० १२ स्क० ६ अ०

इन्द्रप्रस्थ = न० इन्द्रस्य इन्द्रस्थानभेरोः प्रस्थैव (दिल्लीति) ख्याते पुरे। “इन्द्रप्रस्थगमस्तावत् कारि मा सन्तु चेदयः” माघः। “इन्द्रप्रस्थं कृकप्रस्थं माकन्दं वारणावतम्। इति मे चतुरोग्रामान्कञ्चिदेकञ्च पञ्चमम्” वेणी० खाण्डवप्रस्थे युधिष्ठिरेण यदभिनवपुरं निर्म्पितं तदिन्द्रप्रस्थतया विख्यातम्। तदेतत् भारते आ० २०६ अ० वर्ण्णितम्। “प्रतिगृह्यतुतद्घाक्यं नृप सर्व्वेप्रणम्य च। प्रतस्थिरे ततो घोरं वनं तन्मनुजर्षभाः। अर्द्धं राज्यस्य सम्प्राप्य खाण्डवप्रस्थमाविशन्। ततस्ते पाण्डवास्तत्र गत्वा कृष्णपुरोगमाः। मण्डयाञ्चक्रिरे तद्वै पुरं स्वर्ग्गवदच्युताः। ततः पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः। नगरं मापमासुर्द्वैपायनपुरोगमाः। सागरपतिरूपाभिः परिखाभिरलङ्कृतम्। प्राकारेण च सम्पन्नं दिवमावृत्य तिष्ठता। पाण्डुराभ्रप्रकाशेन सोमरश्मिनिभेन च। शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा। द्विपक्षगरुडप्रख्यैर्द्वारैः सौधैश्च शोभितम्। गुप्तमभ्रचयप्रख्यै र्गोपुरैर्म्मन्दरोपमैः। विविधैरपि निर्व्विद्यै शस्त्रोपेतैः सुसवृतैः। शक्तिभिश्चावृतं तद्धि द्विजिह्वैरिव पन्नगैः। तल्पैश्चाभ्यासिकैर्युक्तं शुशुभे योघरक्षितम्। तीक्ष्णाङ्कुशशतघ्नीभिर्यन्त्रजालैश्च शोभितम्। विरोचमानं विविधैः पाण्डरैर्भवनोत्तमैः। तत्त्रिपिष्टपसङ्काशमिन्द्रप्रस्थं व्यरोचत। मेघवृन्दमिवाकाशे विद्धं विद्युत्सभागृहम्। तत्र रम्ये शिवे देशे कौरवस्य निवेशनम्। शुशुभे धनसम्यूर्णं धनाध्यक्षक्षयोपमम्” “एवं सम्प्राप्य राज्यन्तदिन्द्रप्रस्थं तपोधन!” तत्र २०७ अ०।

इन्द्रप्रहरण = न० ६ त०। वज्रास्त्रे तच्च दधीचोमुनेरस्थिनिर्म्मितं तत्कथ अशनि शब्दे ४६४ पृ० उक्ता।

इन्द्रभूति = पु० हेमचन्द्रोक्ते गौतमगोत्रजे जिनभेदे।

इन्द्रभेषज = न० इन्द्रेण प्रकाशितं भेषजम्। शुण्ठ्यां शब्दरत्ना०।

इन्द्रमख = पु० इन्द्रस्य तत्पूजार्थोमखः। वर्षादौ शक्रतोषार्थे यज्ञभेदे। स च मखःनन्दादिभिः प्रवर्त्तितः कृष्णेन निवर्त्तितश्च तत्र तत्करणे नन्देभ हेतुरुक्तः भा० १० स्क० २३ अ० “पर्जन्यो भगवानिन्द्रो मेघास्तस्यात्ममूर्त्तयः तेऽभिवर्षन्ति भूतानां प्रोणनं जीवनं पयः। तं तात! वयमन्ये च वार्मुचां पतिमीश्वरम्। द्रव्यैस्तद्रेतसासिद्धैर्यजन्ते क्रतुभिर्नराः तच्छेषेणोपजीवन्ति त्रिवर्गफल हेतवे। पुंसां पुरुषकाराणां पर्ज्जन्यः फलभावनः” इति नन्देनोक्ते कृष्णेन तन्मखनिवारणेन गोवर्द्धनमखस्य प्रवर्त्तनं कृतम् तदपितत्रैवोक्तं यथा “सत्वं रजस्तमैति स्थित्युत्पत्त्यन्तहेतवः। रजसोत्पद्यते विश्वमन्योन्यं विविधं जगत्। रजसा नोदितामेघा वर्षन्त्यम्बूनि सर्व्वतः प्रजास्तेरेव सिद्ध्यन्ति किं महेन्द्रः करिव्यति न नः पुरोजनपदा न ग्रामा न गृहा वयम्। वनौकसस्तात! नित्यं वनशैलनिवासिनः। तस्माद्गवां ब्राह्मणानामद्रेश्चारभ्यतां मखः। यैन्द्रमखसम्भरास्तैरयं साध्यतां मखः”। भाग० १० स्क० २४ अ०। अधिकं गोवर्द्धनधरशब्दे वक्ष्यते। “मया तेऽकारि मघवन्! मखभङ्गोऽनुगृह्णता। मदनुस्मृतयोनित्यं मत्तस्येन्द्रश्रिया भृशमिति” २७ अ०।

इन्द्रमह = पु० इन्द्रस्य सन्तोषार्थोमहः। इन्द्रसन्तोषार्थे वर्षादौ कर्त्तव्ये उत्सवभेदे। इन्द्रस्य महोयत्र। वर्षाशरत्कालयोः। इन्द्रोत्सव शक्रोत्सवादयोऽप्युभयत्र।

इन्द्रमहकामुक = पु० इन्द्रमहे वर्षादिकाले कामुकः काम यिता। कुक्वुरे वर्षादाबेव तेषां व्यवायधर्म्मोलोकप्रसिद्धः।

इन्द्रमार्ग = पु० इन्द्रलोकप्राप्त्यर्थोमार्गः। वदरीपाचनसन्निकृष्टस्थे तीर्थभेदे। “वदरीपाचनं गच्छेद्वसिष्ठस्याश्रमं गतः” इत्युपक्रम्य “इन्द्रमार्गं समासाद्य तीर्थसेवी नराधिपः!। अहोरात्रोपवासेन शक्रलोके महीयते” भा० व० ८३ अ०। तच्च जलमयं तीर्य्यम् “देविकामिन्द्रमार्गञ्च स्वर्गविन्दु विगाह्य च। सप्तगङ्गे त्रिगङ्गे च इन्द्रमार्गे च तर्पयन्” भा० व० २५ अ० तत्र अवगाहनतर्पणोक्तेः।

इन्द्रयव = न० पु० इन्द्रस्य कुटजवृक्षस्य यवाकृतिवीजत्वात् यव इव वीजम्। कुटजवृक्षस्य यवाकारे तिक्तरसे वीजे स्वनाम ख्याते। “ऐन्द्रोयवस्त्रिदोषघ्नः संग्राही कटुशीतलः। ज्वरातिसाररक्तार्शःकृभिवीसर्पकुष्ठनुत्। दीपनो गुदकीलास्रवातास्रश्लेष्मशूलजित्” भावप्र०।

इन्द्रलाजी = स्त्री इन्द्रस्य कुटजस्य लाजाइव लाजायस्याजातत्वात् ङीप्। ओषधिभेदे ततः कुर्वा० ण्य। ऐन्द्रलाज्यस्तद्भवे त्रि०

इन्द्रलुप्त = न० इन्द्र इन्द्रवर्ण्णोनीलः केशो लुप्तोयस्मात्। केशनाशके (टाक) ख्याते रोगभेदे। तन्निदानादि “रोमकूपानुगं रक्तं पित्तेन सह मूर्च्छितम्। प्रच्यावयति रोमाणि ततः श्लेष्मा सशोणितः। रुणद्धि रोमकूपास्तु ततोऽन्येषा ससम्भवः। तदिन्द्रलुप्तं खालत्यं रुज्येति च विभाव्यते” निदा० उक्तम्। निदानटीकाकृता तु इन्द्रलुप्तं श्मश्रुणि भवति। खालत्यं शिरोरुहेष्व व रुज्या सवेदनेति तेषां भेद उक्तः। वा कप्। इन्द्रलुप्तकं तत्रैवार्थे।

इन्द्रलोक = पु० इन्द्रस्य लोकः भोगभूमिः। अमरावतीनामपुरीयुक्तेस्वर्गस्थानभेदे तत्स्थानममरावतीशब्दे ३२० पृष्ठे उक्तं तत्स्वरूपप्राप्तिकारणादिकमुक्तं काशी०। "लोकेऽत्र रमते विप्र! सहस्राक्षः, पुरी त्वियम्। तपोबलेन महता विहिता विश्वकर्मणा। दिवापि कौमुदी यस्यां सौधश्रेणीश्रियम् श्रयेत्। यदा कलानिधिः क्वापि दर्शेऽ दृश्यत्वमावहेत्। तदा स्वश्रेयसीं ज्योत्स्नां सौधेष्वेषुनिगूहयेत्। यदच्छभित्तौ वीक्ष्य स्वमन्ययोषिद्विशङ्किता। मुग्धा नाशु विशेच्चित्रमपि स्वां चित्रशालिकाम्। हर्म्येषु नीलमणिभिनि र्मितेष्वत्र निर्भयम्। स्वनीलिमानमाधाय तमोऽहःस्वपि तिष्ठति। चन्द्रकान्तशिलाजालस्रुतमात्रामलं जलम्। तत्र चादाय कलसैर्नेच्छन्त्यन्यज्जलं जनाः। कुविन्दा न च सन्त्यत्र न चात्र पश्यतोहराः। चेलान्यलङ्कृतान्यत्र यतः कल्पद्रुमार्पणात्। गणका नात्र विद्यन्ते चिन्ताविद्याविशारदाः। यतश्छिनत्ति सर्वेषां चिन्तां चिन्तामणिर्द्रुतम्। सूपकारा न सन्त्यत्र रसपाकविचक्षणाः। दुग्धे सर्वरसानेका कामधेनुरतोऽनिशम्। कीर्त्तिरुच्चैःश्रवायस्य सर्वतो वाजिराजिषु। रत्नमुच्चैःश्रवाः सोऽत्र हयानां पौरुषाधिकः। ऐरावतो दन्तिवरश्चतुदेन्तोऽत्र राजते। द्वितीय इव कैलासोजङ्गमः स्फटिकोज्ज्वलः। तरुरत्नं पारिजातः स्त्रीरत्नं चोर्वशी त्विह। नन्दनं वनरत्नं च रत्नं मन्दाकिनी ह्यपाम्। त्रयस्त्रिंशत् सुराणां या कोटिः श्रुतिसमीरिता। प्रतीक्षते सावसरं सेवायै प्रत्यहं त्विह। स्वर्गेष्विन्द्रपदादन्यन्न विशिष्येत किञ्चन। यद्यत्त्रि लोक्यामेश्वर्य्यं न च तुल्यमनेन हि। अश्वमेधसहस्रस्य लभ्यं विनिमयेन यत्। किन्तेन तुल्यमन्यत् स्यात् पवित्रमथवा महत्। अर्च्चिस्मती संयमनी पुण्यवत्यनिलावती। गन्धवत्यलकैशी च नैतत्तुल्या महर्द्धिभिः। अयमेव सहस्राक्षस्त्वयमेव दिवस्पतिः। शतमन्युरयं देवोनामान्येतानि नामतः। सप्तापि लोकपाला ये तएनं समुपासते। नारदाद्यैर्मुनिवरैरयमाशीर्भिरिज्यते। एतत्स्थैर्य्येण सर्वेषां लोकानां स्थैर्य्यमिष्यते। पराजयान्महेन्द्रस्य र्त्रलोक्यं स्यात् पराजितम्। दनुजा मनुजादैत्यास्तपस्यन्त्यु ग्रसंयमाः। गन्धर्वयक्षरक्षांसि माहेन्द्रपदलिप्सवः। सगराद्यामहीपालावाजिमेधविधायकाः। कृतवन्तो महायत्नं शक्रैश्वर्य्यजिघृक्षवः। निष्प्रत्यूहं क्रतुशतं यः कश्चित् कुरुतेऽवनौ। जितेन्द्रियोऽमरावत्यां स प्राप्नोति पुलोमजाम्। असमाप्तक्रतुशता वसन्त्यत्र महीभुजः। ज्योतिष्टोमादिभिर्यागैर्ये यजन्त्यपि ते द्विजाः। तुलापुरुषदानादि महादानानि षोडश। ये यच्छन्त्यमलात्मानस्तेलभन्तेऽमरावतीम्। अक्लीववादिनोवीराः संग्रामेष्वपलायिनः। विश्रान्तावीरशयने तेऽत्र तिष्ठन्ति भूभुजः इत्यद्देशात् समाख्याता महेन्द्रनगरीस्थितिः। यायजू- कावसन्त्यत्र यज्ञविद्याविशारदाः” १० अ०। “अतिथिस्त्विन्द्रलोकेशः” इति मनुना अतिथिपरिचर्य्याभिरपि तत्प्राप्तिरुक्ता। एवं राजसूययज्ञेनापि तत्प्राप्तिः भा० स० उक्ता। शक्रलोकादयोऽप्यत्र

इन्द्रवंशा = स्त्री “स्यादिन्द्रबंशा ततजैरसंयुतैः” वृत्त० र० उक्ते द्वादशाक्षरपादके वर्णवृत्तभेदे।

इन्द्रवज्रा = स्त्री “स्यादिन्द्रवज्रा यदि तौ जगौ गः” वृत्त० र० उक्ते एकादशाक्षरपादके वर्ण्णवृत्तभेदे।

इन्द्रवल्ली = स्त्री इन्द्रप्रिया वल्ली शाक० त०। १ पारिजातलतायाम् “सोमवल्लीमिन्द्रवल्लीं शमीं विश्वस्य कण्टकान्” मश्रु०। (राखालससा) २ इन्द्रवारुण्यां लतायाञ्च इन्द्रवल्लरीत्यम्यत्र।

इन्द्रवस्ति = पु० इन्द्रस्यात्मनो वस्तिरिव। जङ्घामध्यभागे। “इन्द्रवस्तिपरिणाहांसपीठकूर्परान्तरायाम षोडशाङ्गुलः” सक्खिमर्म्माणि। क्षिप्रतलह्{ऋदयकूर्च?कूर्चशिरोगुल्फन्द्रवस्तिजात्वुर्वीलोहिताक्षाणि विटपञ्चेति” विभज्य “पार्ष्णिं प्रति जङ्घामध्य इन्द्रवस्तिर्नाम तत्र शोणितक्षये मरणम्” इति च सुश्रु०। अतोऽस्य जीववसतितुल्यत्वात्तथात्वम्।

इन्द्रवारुणी = स्त्री इन्द्रस्यात्मनोवारुणीव प्रिया (राखालससा) तिक्तरसायां श्वेतमूलायां पीतपुष्पायां लतायाम्। स्वार्थ कन्। इन्द्रवारुणिकापि अत्रैवार्थे।

इन्द्रवीज = न० इन्द्रस्य कुटजस्य वीजम्। इन्द्रयवे। “चव्येन्द्रवीजं त्रिफलासर्पिर्मासरसाम्बुभिः” सुश्रु०।

इन्द्रवृक्ष = पु० ६ त० देवदारुवृक्षे जटाधरः। तस्य इन्द्र वजहेतुत्वात्तथात्वम्। तस्येन्द्रध्वज साधनत्वञ्चन्द्रध्वजशब्दं उक्तम्।

इन्द्रवृद्धा = स्त्री “अथातः क्षुद्ररोगान् व्याख्यास्याम इत्युपक्रम्य। “बल्मीकमिन्द्रवृद्धेत्यादि विभज्य”। “पद्मपुष्करवन्मध्ये पिड्काभिः समाचिताम्। इन्द्रवृद्धान्तु तां विद्याद्वातपित्तोत्थितां भिषक्” सुश्रुतोक्तलक्षणे क्षुद्ररोगभेदे। “विवृतामिन्द्रवृद्धाञ्च गर्द्दभीं जालगर्हभम्। इरिविल्लां गन्घनाम्नीं कक्षां विस्फोटकांस्तथा। पित्तजस्य विसर्पस्य क्रियया साधयेत् भिषक्” इति सुश्रु०

इन्द्रव्रत = न० इन्द्रस्येव, वर्षणे व्रतम्। “वार्षिकांश्चतुरो मासान् यथेन्द्रोऽप्यभिवर्षति। तथाभिवर्षेत् स्वं राष्ट्रं कामैरिन्द्र व्रतं चरन्” इति स्मृत्युक्ते प्रजापालने राज्ञोव्रतभेदे।

इन्द्रशत्रु = पु० इन्द्रः शत्रुः शातयिता यस्य। वृत्रासुरे। वृत्तासुरस्य तथात्वमुक्तम् यथा “स त्वष्टा चुक्रोध। कुविन्मेऽनुपहूतः सोसमभक्षदिति स स्वयमेव यज्ञवैशसं चक्रे सयोद्रोणकलसे शुक्रः परिशिष्ट आ शतं प्रवत्तता चकारेन्द्रशत्रु- र्वर्धस्वेति सोऽग्निमेव प्राप्य सम्वभूवान्तरैव सम्बभूवेत्युहैके प्राहुः अग्नीषोमावेवाभि सम्बभूव सर्वाविद्याः सर्वं यशः सर्वमन्नाद्यं सर्वां श्रीम्। स यद्वर्तमानः समभवत्। तस्माद्वृत्रोऽथ यदपात् समभवत्तस्मादहिस्तं दनुश्च दनायुश्च। मातेव च पितेव च परिजगृहतुस्तस्माद्दानव इत्याहुः अध यदव्रवीदिन्द्रशत्रुर्वर्धस्वेति तस्मादुहैनमिन्द्र एव जघानाथ यद्ध शश्वदवक्ष्यदिन्द्रस्य शत्रुर्वर्धरति शश्वदु ह स एवेन्द्रमहनिष्यत्” शत० ब्रा० १, ६, ३, ८, ९, १०, “इन्द्रशत्रुरिति पूर्वपदोदात्ततयेन्द्रः शत्रुर्यस्येति वहुव्रीहिसमासं कृत्वा मन्त्रं प्रयुक्तव नतस्तमिन्द्रो जघान। यद्यसौ अन्त्योदात्ततया तत्पुरुषसममासेनं, इन्द्रस्य शत्रुरिति व्यस्तनिर्देशेनवा ब्रूयात्तदानिश्चितमेव स इन्द्रं हन्यात्” इति मा० भा० तथा च षष्ठीतत्पुरुषेऽन्तोदात्तस्वरः तथात्वे इन्द्रस्य शत्रुरित्यर्थके भवेत् बहुव्रीहौ तु पूर्वपदस्वरतेति तथा तेन प्रयोगात् तमेव इन्द्रोजघान “अतएव वेदे स्वरहीनतयोच्चारणे यजमानस्यानिष्टं फलं भवति यथोक्तं शिक्षयायाम्। “मन्त्रोहीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाहः स वाग्वज्रो यजमानं हिंनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात्”। उक्तश्रुत्यनुसारिणी कथा भाग० यथा त्वष्टः पुत्रस्य विश्वरूप गुणादिकमुपवर्ण्य “तस्यासन् विश्वरूपस्य शिरांसि त्रीणि भारत। सोमपीथं सुरा पीथमन्नादमिति शुश्रुम। सर्वे बर्हिषि देवेभ्यो भागं प्रत्यक्षमुच्चकैः। अवदद्यस्य पितरो देवाः सप्रश्रय नृप!। स एव हि ददौ भागं परोक्षमसुरान् प्रति। यजमानोऽवहद्भार्ग मातृस्नेहवशानुगः। तद्देवहेलनं तस्य धर्मानीक सुरेश्वरः। आलक्ष्य तरसा भीतस्तच्छीर्षाण्यच्छिन द्रुषा। सोमपीथं तु यत्तस्यशिर आसीत् कपिञ्जलः। कलविङ्कः सुरापीथमन्नादंयत् स तित्तिरिः। ब्रह्महत्यामञ्जलिना जग्राहयदपीश्वरः। संवत्सरान्ते तदघं भूतानां म विशुद्धये। भूम्यम्बुद्रुमयोषिद्भ्यश्चतुर्द्धा व्यभजद्धरिः। भूमिस्तुरीयं जग्राह खातपूरवरेण वै। ईरिणं ब्रह्महत्याया रूपं भूमौ प्रदृश्यते। तुर्य्यं छेदविरोहेण वरेण जगृहुर्द्रुमाः। तेषां निर्यासरूपेण ब्रह्महत्या प्रदृश्यते। शश्वत् कामवरेणांहस्तुरीयं जगृहुः स्त्रियः। रजोरूपेण तास्वहोमासिमासि प्रदृश्यते। द्रवमूयोवरेणापस्तुरायं जगृहुर्म्मलम्। तासु बुद्बुदफेनाभ्यां दृष्टं तद्धरति क्षिपन्। हतपुत्रस्ततस्त्रष्टा जुहावेन्द्राय शत्रवे। इन्द्रशत्रुर्विवर्द्धस्व मा चिरं जहि विद्विपम्। अथान्वाहार्य्यपचनादुत्थिती घोरदर्शनः। कृतान्त इव लोकानां युगान्तसमयो यथा, विष्वग्विवर्द्धमानं तमिषुमात्रं दिने दिने। दग्धशैलप्रतीकाशं सन्ध्याभ्रानीकवर्च्चसम्। तप्तताम्रशिखाश्मश्रुं मध्याह्नार्कोग्रलोचनम्। देदीप्यमाने त्रिशिखे शूल आरोप्य रोदसी। नृत्यन्तमुल्वदन्तञ्च चालयन्तं पदा महीम्। दरीगम्भीरवक्त्रेण पिबता च नभस्तलम्। लिहता जिह्वयर्क्षाणि ग्रसता भुवनत्रयम्। महता रौद्रदंष्ट्रेण जृम्भमाणं मुहुर्मुहुः। वित्रस्तादुद्रुवुर्लोका वीक्ष्य सर्वे दिशो दश। येनावृता इये लोकास्तपसा त्वाष्ट्रमूर्त्तिना। स वै वृत्र इति प्रोक्तः पापः परमदारुणः भा० ६ स्क० ८ अ०। ततः “सैन्द्रशत्रः कुपितोभृशं तया महेन्द्रवाहुं गदयोग्रविक्रम इति” तयोर्युद्धमभिधाय “भित्त्वा वज्रेण तत्कक्षिं निष्क्रम्य बलभिद्रुषा। उच्चकर्त्त शिरः शत्रोर्ग्गिरिशृङ्गमिवोन्नतम्” भाग० ६ स्क० १० अ० इन्द्रेण तस्य इननं वर्णितम्।

इन्द्रशलभ = पु० इन्द्रजातः वर्षाकालजातः शलभः। इन्द्रगोपे।

इन्द्रसारथि = पु० ६ त०। इन्द्रस्य सारथौ मातलौ।

इन्द्रसावर्णि = पु० चतुर्द्दशे मनौ। “मनुर्वा इन्द्रसावर्णिश्चतुर्द्दशमएष्यति। उरुगम्बरव्रध्नाद्या इन्द्रसावर्णिवीर्य्यजाः। पवित्राश्चाक्षुषा देवाः शुचिरिन्द्रो भविष्यति। अग्नि बाहुः शुचिः शुक्रो मान्धाताद्यास्तपस्विनः। सत्रायणस्य तनयो वृहद्भानुस्तदा हरिः। विनतायां महाराज! क्रियातन्तून् वितायिता” भा० ८ स्क० १३ अ०। हरिवंशे तु “भूत्याञ्चोत्पादितो देव्यां भौत्योनाम रुचेःसुतः” इति भौत्योत्पत्ति मुक्त्वा “चतुर्द्दशेऽथ पर्याये भौत्यस्यैवान्तरे मनोः। अग्नीध्नः कश्यपश्चैव पौलस्त्योगार्गवस्तथा। भार्गवह्यश्चिग्निबहु शुचिराङ्गिरसस्तथा। युक्तश्चैव तथात्रेयः शुक्रोवासिष्ठ एव च। अजितः पौलहश्चैव मान्याः सप्तर्षयश्च ते इति” चोक्त्वा “देवतानां गणाः प्रोक्ताः पञ्च वै भरतर्षभ। तरङ्गमीरु र्वप्रश्च तरआनुग्रएव च। अभिमानी प्रवीणश्च श्रुतः संक्रन्दनस्तथा। तेजस्वी सरणश्चैव भीत्यस्येते मनोः सुता। भौत्यस्यैवाधिकारे तु पूर्णेकल्पस्तु पूर्य्यते”। अग्निपु० च “मनुश्चतुर्द्दशो भौत्यः शुचिरिन्द्रो भविष्यति। चाक्षुषाद्याः सुरगणा अग्निबाह्वादयो द्विजाः। चतुदर्शस्य भौत्यस्य पुत्रा उरुमुखा मनोः” इत्युक्तं तेन नामभेदविरोधः कल्पभेदात् समाधेयः।

इन्द्रसुत = पु० ६ त०। १ जयन्ते, २ मध्यमपाण्डवे पार्थे, ३ अर्जुन वृक्षे, ४ वालिनामके वानरे च। इन्द्रषुत्रादयोऽप्यत्र

इन्द्रसुरस = पु० इन्द्रः कुटजवृक्ष इव सुरसः पथ्यरसः। (निसिन्दा) सिन्धवारे। अमरे इन्द्रसुरिसेति पाठान्तरे पृ०। तत्रैव

इन्द्रसुरा = स्त्री इन्द्रस्यात्मनः सुरेव प्रिया। (राखालससा) इन्द्रवारुण्याम् राजनि० “वार्त्ताकुशिम्बीन्द्रसुरापटोलेत्यादि” सुश्रु०। “गुडुचीन्द्रसुरा कृष्णा कुष्ठसर्षपनागरैः। तैलमेभिः शनैः पक्वं सुरास्नादिरसाप्लुतम्” सुश्रु०।

इन्द्रसूक्त = न० इन्द्रदेवताकं सूक्तम्। ऋग्वेदान्तर्गते सूक्तभेदे तच्च “इन्द्रं विश्वा अवीवृधन्” इत्यादि एकादशर्च्चम्। ऋ० १ म० ११ सूक्तम् एतच्च तत्तत्कर्मणि इन्द्रस्तुत्यर्थं पठनीयं तथा द्वारपालेन तुलादानादौ मण्डपस्य पूर्वदिशि पाठ्यञ्च “श्रीसूक्तं पावमानञ्च सोमसूक्तं सुमङ्गलम्। शान्त्यध्यायञ्चेन्द्रसूक्तं रक्षोघ्नं चेति बह्वृचौ। पूर्वं द्वारं समाश्रित्य पठेतामिति निश्चयः” विधानपारि० पु०। तच्च सूक्तं तुलादानादिपद्धतौ ९२ पृष्ठेऽस्माभिः प्रदर्शितम्।

इन्द्रसेन = पु० इन्द्रस्य सेना इव सेना यस्य। १ नृपभेदे स च परिक्षितः पुत्रभेदः “परिक्षितोऽभवत् पुत्राः सर्वे धर्मार्थकोविदाः कक्षसेनोग्रसेनौ च चित्रसेनश्च वीर्य्यवान्। इन्द्रसेनः सुषेणश्च भीमसेनश्च नामतः” भा० आ० ९४ अ० अयञ्च प्रसिद्धात् परिक्षितः प्राचीनः कुरुवश्यएव इन्द्राभशब्दे विवृतिः। युधिष्ठिरस्य २ भृत्यभेदे। “इन्द्रसेनादयश्चैव भृत्याः परि चतुर्द्दश। रथैरनुययुः शीघ्रैः स्त्रिय आदाय सर्वशः” भा० व० १ अ० “इन्द्रसेनो विशोकश्च पुरुश्चार्ज्जुनसारथिः। अन्नाद्याहरणे युक्ताः सन्तु मत्प्रियकारिणः” भा० स० ३२ अ०

इन्द्रसेना = स्त्री ६ त०। इन्द्रस्य १ सेनायाम्। २ बध्नस्यमातरि मौद्गल्यस्य ज्येष्ठ पुत्रपत्न्याम्। “मौद्गल्यस्य सुतो ज्येष्ठो ब्रह्मर्षिः सुमहायशाः। इन्द्रसेना यतोगर्भं वध्राख्यं प्रत्यपद्यत” हरि० ३२ अ० “नारायणीवेन्द्रसेना बभूव वश्या नित्यं मुद्गलस्याजमींढ” भा० व० ११३ अ०।

इन्द्रसेनानी = पु० इन्द्रसेनां नयति नी–क्विप् ६ त०। शक्रस्य सेनापतौ कार्त्तिकेये तत्कथा। कार्तियेन पराजितेनेन्द्रेण कार्त्तिकाय इन्द्रत्वपदं दातुमीहमानेन सह तस्य उक्तिप्रत्युक्ति वर्णनेन तेन तत्सेनापत्यममङ्गीकृतमेतत् भा० व० २८ अ० वर्ण्णित यथा “शक्रौवाच भवस्वेन्द्रो महावाहो! सर्व्वेषां नः सुखावहः। अभिषिच्यस्वचैवाद्य प्राप्तरूपोऽसि सत्तम!। शाधि त्वमेव त्रैलोक्यमव्यग्रोविजये रतः। अहन्ते किङ्करः शक्रोन ममेन्द्रत्वमीप्सितम्। बलं तवाद्भुतं वीर! त्वं देवानामरीन् जहि। अवज्ञास्यन्ति मां लोका वीर्य्येण तव विस्मिताः। इन्द्रत्वं तु स्थितं वीरे! बलहीनं पराजितम्। आवयोश्च मिथोभेदं प्रययिष्यन्त्यतन्द्रिताः। भेदिते च त्वयि विभो! लोकोद्वैधमुपैष्यति। द्विधाभूतेषु लोकेषु निश्चितेष्वा वयोस्तदा। विग्रहः मंप्रवर्त्तेत भूतभेदान्महावल!। तत्र त्वं मां रणे तात! यथाश्रद्धंविजेष्यसि। तस्मादिन्द्रो भवानेव भविता मा विचारय। स्कन्द उवाच। त्वमेव राजा भद्रन्ते त्रैलोक्यस्य ममैव च। करोमि किञ्चते शक्र। शासनं तद्ब्रवीहि मे। इन्द्र उवाच। अहमिन्द्रो भविष्यामि तव वाक्यान्महाबल!। यदि सत्यमिदं वाक्यं निश्चयाद्भाषितं त्वया। यदि वा शासनं स्कन्द! कर्त्तुमिच्छसि मे शृणु। अभिषिच्यस्व देवानां सेनापत्ये महाबल। स्कन्द उवाच। दानवानां विनाशाय सेनापत्येऽभिषिञ्च माम्”। भा० व० २२८ अ० शक्रसेनापतिशक्रसेनाधिपादयोऽप्यत्र। “शक्रसेनापतिः स्कन्दः” पु०

इन्द्रस्तुत् = पु० इन्द्रःस्तूयतेऽत्र। इन्द्रस्तुत्यधिकरणे उक्थ्य यज्ञे द्वितीयाहे “इन्द्रस्तुदुक्थ्यो द्वितीयमहर्भवति। इन्द्रोवै सर्व्वेदेवाः सर्व्वेषां देवानामाप्त्यौ तस्यैन्द्राग्रहा भबन्त्यौन्द्र्यः पुरोरुचः सर्व्वमैन्द्रमसदिति” शत०, १३, ७, १, ४, अयमुक्थ्यसाध्यः तदुपक्रमएव कात्या० २१, १, ४,। “त्रय उक्थ्या अग्निष्टुतिन्द्रस्तुत् सूर्य्यस्तुत्” इत्यभिधानात्।

इन्द्रस्तोम = पु० अतिरात्राङ्गे यागभेदे स च कात्या० २४ ४, ६,। अतिरात्रोपक्रमेण “इन्द्रस्तोमो विश्वजिता” विश्वजितः स्थाने इन्द्रस्तोमः कार्य्यः” कर्क०। पूर्व्वोक्तमुपक्रम्य तत्प्रकारादि तत्र दर्शितम्। अयञ्चराज्ञा कार्य्यः “इन्द्रस्तोमो राजयज्ञः” “सहस्रं दक्षिणा” कात्या० २२, ११, १५, १६, स च उक्थसाध्यः “उक्थ्यः” कात्या० १२, ११, १७ उक्तेः।

इन्द्रहू = स्त्री इन्द्रः हूयतेऽनया ह्वे–क्विप् ६ त०। शक्राह्वान साधने ऋग्भेदे। कर्त्तरि क्विप्। २ तदाह्वानकर्तृमुनिभेदे च। ततो गर्गा० अपत्ये यञ्। ऐन्द्रहव्यस्तदपत्ये पुंस्त्री।

इन्द्रा = स्त्री इदि–रन्। १ फणिज्झकवृक्षे (काटाजमीर) सेदिनिः (राखालससा) २ इन्द्रवारुण्याम्। राजनि० ३ शच्याम् शब्दर०।

इन्द्राग्नि = पु० द्वि० व०। इन्द्रश्चाग्निश्च देवताद्व०। शक्राग्न्योर्मिलितयोर्देवयोः। “इन्द्राग्नी यत्र हूयेते” म० त० स्मृतिः “पुरोहितकामस्येन्द्राग्न्योः स्तोमः” कात्या० २२, ११, २०, २१ उक्तः। तत्र स्तोमे पुरोहितस्य राज्ञो वा सह वाऽधिकारः तत्र ब्राह्मणस्य दक्षिणा चतुर्विशातर्गावः राज्ञः अष्टचत्वारिशद्गावः” कर्क० तौ देवते अस्य अण्। ऐन्द्राग्नं तद्देवताके हविषि शस्त्रे च। इन्द्रस्य पर्जन्य- स्याग्निः। मेतभवे विद्युदग्न्यादौ पु०। २ इन्द्राग्निधूमः।

इन्द्राग्निधूम = पु० इन्द्राग्नेः पर्ज्जन्याग्नेर्धूम इव। हिमे धूमस्य यथाऽग्निप्रभवत्वम् तथा जलमयहिमस्य पर्ज्जन्याग्निसम्पर्कादेब जायमानत्वात् तथात्वम्।

इन्द्राणी = स्त्री इन्द्रस्य पत्नी–ङीप् आनुक् च। १ इन्द्रपत्न्यां शच्याम् “अदित्ये रास्नासीन्द्राण्या उष्णीषः” यजु० ३८, २ “नैवेन्द्राणी न रुद्राणी न मनायी न रोहिणी” भट्टिः यथेन्द्राणी हरिहये स्वाहा चैव विभावसौ” भा० आ० १८९ अ०। “आजगाम सहेन्द्राण्या शक्रः सुरगणौर्वृतः” भा० व० ४१ अ०। इन्द्रं परमैश्वर्य्यमानयति आ + नी–बा० ड गौ० ङीष्। “ऐश्वेर्य्यं परमं यस्या वशे चैव सुरासुराः। इदि च परमैश्वर्य्ये इन्द्राणी तेन सा स्मृता” इति देवीपु० उक्तनिरुक्तिर्वा। २ दुर्गाशक्तिभेदे। “ब्रह्माणीन्द्राणि। रुद्राणि! भूतभव्ये! यशस्विनि! त्राहि मां सर्व्वदुःखेभ्यो नारायणि! नमोऽस्तु ते” हरिवं० १७८ अ०” सा च अष्टमार्तृकान्तर्गता ऐन्द्रीत्यपरपर्य्याया तस्याश्च इन्द्ररूपानुकाविरित्वादपि तथात्वम्। इन्द्रैव आनयति जीवयति रोगोपशमनेन अन + णिच्–अच् पूर्व्वपदा० णत्वम्। ३ स्थूलैलायां राजनि०। ४ स्त्रीणां करणे ५ नीलसिन्दुवारवृक्षे (सोन्धाल) मेदि०। (निसिन्दा) ६ वृक्षे अमरः, स्वार्थे कन्। इन्द्राणिकाप्युक्तार्थेषु।

इन्द्रादृश = पु०। इन्द्रस्येवादर्शनमस्य आ + दृश–टक् ६ त०। इन्द्रगोपे कीटे ततः ताला० विकारे अञ्। ऐन्द्रादृश०। स्तद्विकारे त्रि०।

इन्द्रानुज = पु० ६ त०। १ वामने स हि अदित्यामिन्द्रजननीत्तरं कश्यपेनोत्पादितः तदवतारयुक्ते २ नारायणे च “इन्द्रानुजानुचरभूपतयोऽध्यवात्सुः” माघः। इन्द्रावरजादयोऽप्यत्र।

इन्द्राभ = पु० कुरुवंश्यधृतरष्ट्रस्य पुत्रभेदे अयञ्च धृतराष्ट्रः आग्विकेयादन्यः तथा हि “ततः संवरण्णात् सौरी सुषुवे तनय कुरुम्” इत्युपक्रम्य तस्य “अविक्षितमभिष्यन्तमित्यादिना” अष्टौ अविक्षिदादीन् सुतानुक्त्रा “अविक्षितः परिक्षित्तु” इत्यादिना तस्यापि परिक्षिदादीनष्टौ सुतानुक्त्वा “जनमेजयस्य तनया भुवि तत्र महाबलाः। धृतराष्ट्रः प्रथमजः पाण्डुर्वाह्लीक एव० च। निषधश्च महातेजास्तथा जाम्बूनदो बली” इत्यादिना जनमेजयस्याष्टौ पुत्रानुक्त्वा धृतराष्ट्रोऽथ राजासीत् तस्यपुत्रोऽथ कुण्डिकः हस्ती वितर्कः क्राथश्च कुण्डिनश्चापि पञ्चमः। हरिश्रवास्तथेन्द्रामः भूमन्युश्चापराजितः” इति भा० आ० ९४ अ० उक्तः।

इन्द्रायुध = न० ६ त०। १ शक्रस्यास्त्रेवज्रे “सनादं मेघनादस्य धनुश्चेन्द्रायुधप्रभम्” रघुः। इन्द्रे तदधिष्ठितमेघे आयुधमिव। सूर्य्यकिरणसंपर्कात् मेघे जायमाने २ धनुराकारेपदार्थभेदे तल्लक्षणाद्युक्तं वृ० स० “सूर्य्यस्य विविधवर्ण्णाः पवनेन विघट्टिताः कराः साभ्रे। वियति धनुःसंस्थाना ये दृश्यन्ते तदिन्द्रधनुः। केचिदनन्तकुलोरगनिःश्वासोद्भूतमाहुराचार्य्याः। तद्यायिनां नृपाणामभिमुखमजयावहं भवति। अच्छिन्नमवनिगादं द्युतिमत् स्निग्धं घनं विविधवर्णम्। द्विरुदितमनुलोमं च प्रशस्तमम्भः प्रयच्छति च। विदिगुद्भूतं दिक्स्वामिनाशनं व्यभ्रजं मरककारि। पाटलपीतकनीलैः शस्त्राग्निक्षुत्कृता दोषाः। जलभध्येऽनावृष्टिर्भुवि शस्यबधस्तरौ स्थिते व्याधिः। वल्मीके शस्त्रभयं निशि सचिवबधाय धनुरैन्द्रम्। वृष्टिं करोत्यवृष्ट्यां वृष्टिं वृष्ट्यां निवारयत्यैन्द्र्याम्। पश्चात् सदैव वृष्टि कुलिशभृतश्चापमाचष्टे। चापं मघोनः कुरुते निशायाम् आखण्डलायां दिशि भूपपीडाम्। या म्यापरोदक्प्रभवं निहन्यात् सेनापतिं नायकमन्त्रिणौ च। निशि सुरचापं सितवर्णाभं जनयति पीडां द्विजपूर्ब्बाणाम्। भवति च यस्यां दिशि तद्देश्यं नरपतिमुख्यं न चिराद्धन्यात्”। “न दिवीन्द्रायुधं दृष्ट्वा कस्यचिद्दर्शयेद्बुधः” मनुः “इन्द्रायुधद्योतिततोरणाङ्कम्” रघुः। ततः तालादि० विकारे अञ्। ऐन्द्रायुधस्तद्विकारे त्रि०।

इन्द्रारि = पु० ६ त०। असुरे।

इन्द्रालिश = पु० इन्द्रमिन्द्रधनुरालिश्यति लिश–तौच्छ्ये–क। इन्द्रगोपे कीटभेदे तस्य विकारः ताला० अञ्। ऐन्द्रालिशस्तद्विकारे त्रि०।

इन्द्रावसान = पु० इन्द्रस्य पर्जन्यस्यावसानमत्र। मरुदेशे। ततः उत्सादि० भवार्थे अञ्। ऐन्द्रावसानः मरुभवे त्रि०

इन्द्राशन = पु० इन्द्राय ऐश्वर्य्याय अश्यते भुज्यते अश–कर्म्मणि ल्युट्। (सिद्धि) १ भङ्गायाम् शब्दर०। तत्सेवने हि राज्यमपि तुच्छ भवतीति तस्यास्तथात्वम्। इन्द्रः इन्द्रधनुरिव अश्नुते अर्द्धरक्तवर्णफलत्वात्। (कु~च) २ गुञ्जावृक्षे हारा०।

इन्द्रासन = पु० इन्द्र आत्मा अस्यते विक्षिप्यतेऽनेन अस–क्षेपे करणे ल्युट्। (सिद्धि) १ संविदावृक्षे तत्सेवने हि आत्मनोविक्षिप्तत्वात्तस्य तथात्वम्। पञ्चमात्रिकस्य प्रस्तावे आदि लघुके शेषगुरुद्वयात्मके २ प्रथमे भेदे न०।

इन्द्रिय = न० इन्द्रस्य आत्मनो लिङ्गं इन्द्र + घ। ज्ञान- क्रियासाधने १ चक्षुरादौ २ हस्तादौ च। “इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा” पा० तस्या नेकाविधार्थकता दर्शिता इतिशब्दः प्रकारार्थे इन्द्रेण दुर्जयमिन्द्रियमित्यपि” सि० कौ०। अत्र सूत्रे इन्द्रेण परमात्मना दृष्टमित्युक्तिरपि इन्द्रियस्य अस्मदादीनां प्रत्यक्षागीचरतां निरस्यति। यद्वा इन्द्रेणात्मना दृष्टसात्मत्वेनाभिमतं काणोऽहं बधिरोऽहमित्याद्यभिमतम्। “एतस्माज्जायते प्राणोमनः सर्व्वेन्द्रियाणि चेति” श्रुतेः इन्द्रियस्य ईश्वरसृष्टत्वम्। इन्द्रदत्तमिति इन्द्र ऐश्वर्य्यं दत्तोऽस्मै स्वस्वकार्य्ये हि तेषामैश्वर्य्यमीश्वरेण दत्तम् अतएव तानि बलादिव गृहीत्वा विषयेषु प्राणिनं स्वस्वविषयग्रहणाय प्रवर्त्तयन्ति। असति ह्यैश्वर्य्ये न तद् सम्भवति। चक्षुरादीनामात्मानुमापकत्वञ्चेत्थम्। करणव्यापारः सकर्त्तृकः करणव्यापारेत्वात् छिदिक्रियायां वास्यादिव्यापारवदिति करणव्यापारेण कर्त्तुरमानगम्यत्वे तत्साजात्यात् ज्ञानक्रियाकरणमपि सकर्त्तुकं करणत्वादिति चक्षुरादिना ज्ञानसाधनेनात्मनोऽनुमानम्। तथा इन्द्रियस्याप्रत्यक्षत्वेऽपि ज्ञानक्रिया सकरणिका क्रियात्वात् छिदिक्रियावत् इत्यनुमानम् तत्सत्त्वे प्रमाणम्। तत्तन्मतभेदेन इन्द्रियस्य भौतिक त्वामौतिकत्वसर्वगतत्वासर्वगतत्वप्राप्यकारित्वाप्राप्यकारित्वादिकम् आत्मशब्दे ६६५ पृष्ठे प्रपञ्चेन परीक्षितम्। इन्द्रियञ्च द्विविधं ज्ञानकार्म्मोन्द्रियभेदात् तत्र श्रोत्रादीनि ज्ञानेन्द्रायाणि हस्तादीनि कर्मेन्द्रियाणि। “श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी। पायूपस्थं हस्तपादं वाक् चैव दशमी स्मृता” मनुः। “नासिकालोचने जिह्वा त्वक् श्रोत्रं चेन्द्रियाणि च। हस्तौ पायुरुपस्थश्च वाक्पादौ च दशैव तु” शारदा०। “बुद्धीन्द्रियाणि श्रोत्रघ्राणरसनत्वगाख्यानि। वाक्पाणिपादपायूपस्थानि कर्म्मेन्द्रियाण्याहुः” सां० का०। एतानि च षाह्येन्द्रियाणि। “उभयात्मकमत्र मनः संकल्पकमिन्द्रियञ्च साधर्म्म्यात्” सा० का० मनस्तूभयविधकरणोपकारित्वात् करणम्। तच्च ज्ञानकर्म्मव्यापारसामान्ये कारणमपि न तत्र करणम् असाधारणकारणस्यैव करणत्वात् रूपादिज्ञाने चक्षुरादीनामिव तस्य असाधारणबाह्यग्राह्यविशेषाभावात् किन्तु सुस्वाद्युपलब्धौ असाधारण्यात् तत्रैवास्य करणत्वमिति नैयायिकादयः। वेदान्तिनस्तु मनसोनेन्द्रियत्वमङ्गीकुर्व्वन्तितच्च आत्मशब्दे दर्शितम्। अतएव “पञ्च- प्राणमनोबुद्धिदशेन्द्रियसमन्वितम्। अपञ्चीकृतमूतोत्थ सूक्ष्माङ्गं भोगसाधनमिति” मनोबुद्ध्योरिन्द्रियात् पृथग्निर्द्देशः। सांख्यमते “सात्विक एकादशकः प्रवर्त्तते वैकृतादहङ्कारात्। भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम्” सां० का० रजोगुणोपष्टब्धसात्विकादेवाहङ्कारात् एकादशेन्द्रियोत्पत्तिरुक्ता तेनाहङ्कारिकाणीन्द्रियाणि। “घ्राणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि भूतेभ्यः” गो० सू० भौतिकानीति नैयायिकाः। “एतस्माज्जायते प्राणः मनः सर्वेन्द्रियाणि चेति” श्रुतेः आत्मोपादानानीति वेदान्तिनः। अत्र इन्द्रियेभ्यः मनसः पृथग्निर्देशादपि मनसोनेन्द्रियत्वम् अतएव कठोपनिषदि गीतायाञ्च “इन्द्रियेभ्यः पराह्यर्था अर्थेम्यश्च परं मनः” इन्द्रियाणि हयानाहुर्मनः प्रग्रह मेव चेति” च इन्द्रियमनसोर्भेदनिर्देशः”। यथा च तदुत्पत्तिः तथा पञ्चदश्यां दर्शितम् यथा। “तमःप्रधानप्रकृते स्तद्भोगायेश्वरेच्छया। वियत्पवनतेजोऽम्बुभुवो भूतानि जज्ञिरे। सत्वांशैः पञ्चभिस्तेषां क्रमाद्धीन्द्रियपञ्चकम्। श्रोत्रत्वगक्षिरसनघ्राणाख्यमुपजायते। तैरन्तःकरणं सर्वैर्वृत्तिभेदेन तत् द्विधा। मनोविमर्शरूपं स्याद्बुद्धिः स्यान्निश्चयात्मिका। रजोंशैः पञ्चभिस्तेषां क्रमात् कर्म्मेन्द्रियाणि तु। वाक्पाणिपादपायूपस्थाभिधानानि जज्ञिरे” १ दीपे। तेषां स्थानकार्य्यादिकमुक्तं तत्रैव २ दीपे “श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं चेन्द्रियपञ्चकम्। कर्णादिगोलकस्थं तत्प्राप्त्यै धावेत् बहिर्मुखम्। कदाचित् पिहिते कर्ण्णेश्रूयते शब्द आन्तरः। प्राणवायौ जाठराग्नौ जलपानेऽन्नभक्षणे। व्यज्यन्तेह्यान्तराः स्पर्शामीलने चान्तरं तमः। उद्गारे रसगन्धौ चेत्यक्षाणामान्तरग्रहः। पञ्चोक्त्यादानगमनविसर्गानन्दकाः क्रियाः। कृषिवाणिज्यसेवाद्याः पञ्चस्वन्तर्भवन्ति हि। वाक्पाणिपाद पायूपस्थं कर्मेन्द्रियपञ्चकम्। मनो दशेन्द्रियाध्यक्षं हृत्पद्मगोलकस्थितम्। तच्चान्तःकरणं नाह्येष्वस्वतन्त्रं विनेन्द्रियैः। अक्षेष्वर्थार्पितेष्वेव गुणदोषविचारकम्। सत्वं रजस्तमश्चास्य गुणा, विक्रियते हि तैः। वैराग्यं क्षान्तिरौदार्य्यमित्याद्याः सत्वसम्भवाः। कामक्रोधौ लोभमोहावित्याद्या रजौत्थिताः। आलस्यभ्रान्तितन्त्राद्या विकारास्तमौत्थिताः। सात्विकैः पुण्यनिष्पत्तिः पापोत्पत्तिश्च राजसैः। तामसे नोभयं किन्तु वृथायुःक्षपण भवेत्”। तत्रेन्द्रियाणां कार्य्यभेदा अपि सां० का० दर्शिताः यथा “शब्दादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः। वचनादानविहरणोत् सर्गानन्दाश्च पञ्चानाम्”। आदिपदात् स्पर्शरूपरसगन्धानां ग्रहणम् तथा च श्रोत्रस्य शब्दग्रहणम्, त्वचः स्पर्शग्रहणम्, चक्षुषो रूपग्रहणम्। जिह्वाया रसग्रहणम्। घ्राणस्य गन्धग्रहणमसाधारणं कार्य्यं भवति। एवं वागादीनां वचनादिकर्म्माण्युक्तानि। “अन्तःकरणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम्। साम्प्रतकालं बाह्यं, त्रिकालमाभ्यन्तरं करणम्” सां० का०। “अन्तःकरणं त्रिविधं बुद्धिरहङ्कारो मन इति। शरीराभ्यन्तरवृत्तित्वादन्तःकरणम्। दशधा बाह्यमिन्द्रियं त्रयस्यान्तःकरणस्य विषयाख्यं विषयमाख्याति विषयसंकल्पाभिमानाध्यवसायेषु कर्त्तव्येषु द्वारीभवति। तत्र बुद्धीन्द्रयाण्यालोचनेन, कर्मेन्द्रियाणि तु यथास्वं व्यापारेण” सा० कौ०। “विषयाणां ग्रहीतॄणि शनैः पञ्चेन्द्रियाणि च” मनुः। “शौचमिन्द्रियनिग्रहः” मनुः। “इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ” “इन्द्रियाणि प्रमाथीनि” गीता०। पञ्च बाह्यानि ज्ञानेन्द्रियाणीति मनुष्याद्यभिप्रायम् कृचित् जीवे अदृष्टवशात् ततो न्यूनताऽपि। यथा वृक्षाणाम् स्पर्शसाधनत्वगिन्द्रियमात्रम् शङ्खशुक्त्यानीनाम् त्वग्जिह्वे द्वे इन्द्रिये महीलतादीनां त्रीणीन्द्रियाणि। सर्पादीनां चत्वारीन्द्रियाणि तेषां श्रोत्राभावात् कुम्भीरस्य च चत्वारि तस्य जिह्वाभावात् इत्यबधेयम्। एतेषाञ्च जीवानां लिङ्गशरीरसत्त्वेऽपि तत्तद्गोलकस्थानशून्यत्वान्न तत्तत्कार्य्यार्थं वृत्तिः। बौद्धमते गोलकान्येवेन्द्रियायाणि। तन्मतं विवरणीपन्यासे दूषितं तच्च ६६६ पृ० दर्शितम्। २ रेतसि ३ वीर्य्ये च। “इन्द्रियकामस्य” श्रुतिः “समावदिन्द्रिया भवन्ति” ताण्ड्य० “समानसामर्थ्याः” भा०

इन्द्रियगोचर = पु० इन्द्रियस्य गोचरः विषयः। शब्दादिषु विषयेषु ते हि प्रतिनियतमेकैकस्येन्द्रियस्य ग्राह्या यथा श्रोत्रस्य ग्राह्यः शब्दः, त्वगिन्द्रियस्य स्पर्शस्तद्विशिष्टद्रव्यञ्च, चक्षुषोरूपं तदाश्रयद्रव्यञ्च, रसनायाः रसः, घ्राणस्य गन्ध इत्यादि। एवमन्यान्यपि न्यायादिमते तत्तदिन्द्रियग्राह्या ण्युक्तानि यथा “घ्राणस्य णोचरोगन्धो गन्धत्वादिरपि स्मृतः। तथा रसोरसज्ञायास्तथा शब्दोऽपि च श्रुतेः”। आदिपदात् सुरभिदु गन्धत्वयोर्ग्रहणम्। तथा रसत्वमाधुर्य्यादिसहितः। एवं शब्दत्वतारत्वमन्दत्वादिसहितः “उद्भूतरूपं नयनस्य गोचरोद्रव्याणि तद्वन्ति पृथक्त्व संख्ये। विभागसंयीगपरापरत्वस्नेहद्रव्यत्वं परिमाणयुक्तम्। क्रियां जातिं योग्यवृत्तिं समवायं च तादृशम्। गृ- ह्णाति चक्षुः सम्बन्धादालोकोद्भूतरूपयोः। उद्भूतस्पर्शवद्द्रव्यं गोचरः सोऽपि च त्वचः। रूपान्यच्चक्षुषो योग्यं रूपमत्रापि कारणम्” भाषा० सोऽपि उद्भूतस्पर्शोऽपि चकारात् तद्वृत्तिस्पर्शत्वमृदुत्वकठिनत्वादि ग्राह्यम्। एते च बाह्येन्द्रियाणां विषयाः। तेषां मते मनस इन्द्रियत्वात् तद्ग्राह्यास्तत्रैवोक्ता यथा “मनोग्राह्यं सुखं दुःखमिच्छा द्वेषोमतिः कृतिः” एवं सुखत्वदुःखत्वादिकमपि

इन्द्रियग्राम = पु० ६ त०। इन्द्रियसमुदाये “बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति” मनुः। इन्द्रियवर्गादयोऽप्यत्र। “निर्ववार मधुनीन्द्रियवर्गः” माघः।

इन्द्रियज = त्रि० इन्द्रियाज्जायते जन–ड५ त०। इन्द्रियसन्निकर्षजाते प्रत्यक्षे। “तदिन्द्रियजतद्धर्म्मबोधसामग्र्यपेक्षते” भाषा०। इन्द्रियजातादयोऽप्यत्र इन्द्रियाणि च विषय सन्निकर्षद्वारा ज्ञाने करणानि विषयसन्निकर्षश्च तत्र व्यापारः व्यापारेणैव तेषां जनकत्वात् ज्ञानानां तज्जन्यत्वम्।

इन्द्रियज्ञान = न० इन्द्रियेण जनितं ज्ञानम्। प्रत्यक्षे ज्ञाने।

इन्द्रियनिग्रह = पु० इन्द्रियाणां निग्रहः यथेष्टं प्रवृत्तानां स्वस्वविषयेभ्यः निवर्त्तनेन निरोधः। इन्दियाणां यथेष्टं प्रवृत्तानां स्वस्वविषयेषु १ प्रसङ्गनिवारणे। स च सर्व्ववर्णसाधारण धर्म्मः “धृतिः क्षमा दयाऽस्तेयं शौचमिन्द्रियनिग्रहः। धीर्विद्या सत्यमक्रोधो दशकं धर्म्मलक्षणम्” मनुः। इन्द्रियनिग्रहः अप्रतिषिद्धेऽपि विषयेऽनतिप्रसङ्गः” एका० त० रघु०। २ योगसाधनाङ्गे श्रोत्रादीनां ज्ञानेन्द्रियाणां वागादीनां च कर्ण्णेन्द्रियाणां स्वस्व व्यापारेषु अनियोजनरूपे रोधने च। सर्वेषामनिरोधे योगसिद्ध्यभावोभङ्ग्या गीतायामुक्तः”। “इन्द्रियाणान्तु सर्व्वेषां यद्येकं चरतीन्द्रियम्। तदस्य हरति प्रज्ञां दृतेः पात्रादिवोदकम्” मनसोनिग्रहादेवान्येषां निग्रहो भवति नान्यथा “इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते। तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि” गीतायां तथोक्तेः। मनोनिग्रहोपायश्च “असंशयं महाबाहो! मनोदुर्निग्रहं चलम्। अभ्यासेन तु कौन्तेय! वैराग्येण च गृह्यते” गीतोक्तेः अभ्यासवैराग्यैरूपः। यथेच्छमिन्द्रियप्रसङ्गे पापमप्युक्तम् “विहितस्याननुष्ठानात् निन्दितस्य च सेवनात्। अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति” या० स्मृ०। इन्द्रियजयोप्यत्र इन्द्रियजये च शौचमेव हेतुः। यथा ह पात० सूत्रभाष्ययोः “शौचात् स्वाङ्गजुगुप्सा परैरससर्गः” “सत्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदशनानि च” सू० “शुचेः सत्वशुद्धिस्ततः सौमनस्यं तत ऐकाग्र्यं तत इन्द्रिययस्ततश्चात्मदशनयोग्यत्वम् बुद्धिसत्त्वस्य भवतीति” भा० एष च बाह्य उपायः। आभ्यन्तर उपायस्त त्रैवोक्तः। “ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः” पा० सू० “सामान्यविशेषात्मा शब्दादिर्ग्राह्यः तेष्विन्द्रियाणां वृत्तिर्ग्रहणं (१ रूपम्) न च तत्सामान्यमात्रग्रहणाकारम् कथमनालोचितः सविषयविशेष इन्द्रियेण मनसानुव्यसीयेतेति! स्वरूपं पुनः प्रकाशात्मनोबुद्धिसत्त्वस्य सामान्यविशेषयोरयुतसिद्धावयवभेदानुगतः समूहो द्रव्यमिन्द्रियम्। (२ रूपम्) तेषां तृतीयं रूपम्। अस्मितालक्षणोऽहङ्कारः तस्य सामान्यस्येन्द्रियाणि विशेषाः। चतुर्थं रूपं व्यवसायात्मकाः प्रकाशक्रियास्थितिशीला गुणाः, येषामिन्द्रियाणि साहङ्काराणि परिणामः। पञ्चमं रूपं गुणेषुयदनुगतं पुरुषार्थवत्त्वमिति पञ्चस्वेतेषुइन्द्रियरूपेषु यथाक्रमं संयमः तत्र तत्र जयं कत्वा पञ्चरूपजयादिन्द्रियजयः प्रादुर्भवति योगिनः” भाष्यम् तत्फलमपि तत्रोक्तम्। “ततो मनोजवित्वं विकरणभावः प्रधानजयश्च” पा० सू० “कायस्य मनोबदनुत्तमगतिलाभो मनोजवित्वम्। विदेहानाम् (देहानपेक्षाणाम्) इन्द्रियाणामभिप्रेतदेशकालविषयापेक्षी वृत्तिलाभः अतीतानागतदूरस्थबाह्यार्थविषयश्च वृत्तिलाभो विकरणभावः। सर्वप्रकृतिविकारवशित्वं प्रधानभावः इत्येतास्तिस्रः सिद्धयो मधुप्रतीका उच्यन्ते एताश्च करण पञ्चकरूपजयादधिगम्यन्ते” भा० एतासाञ्च बाह्यसिद्धीनां पारम्पर्य्येण सत्वपुरुषान्यतमाख्यातिरेव तु मुख्यं फलमिति तत्रैव प्रसिद्धम्।

इन्द्रियबध = पु० इन्द्रियाणां बधः स्वस्वकार्य्येषु शक्तिविधातः। इन्द्रियाणां स्वस्वकार्य्यानुकूलशक्तिप्रतिघाते ते च एकादशधा यथाह सां० का० कौमुद्योः “एकादशेन्द्रियबधाः सह बुद्धिबधैरक्तिरुद्दिष्टा” का० एकादशेन्द्रियबधाः स्वस्वकार्य्ये वैकल्यरूपाः तच्च “बाधिर्य्यमित्यादि कौ० वाक्यम् अशक्तिशब्दे ४७३ पृष्ठे उदाहृतम्

इन्द्रियबोधन = त्रि० इन्द्रियं बोधयति स्वपानसाध्यवैकल्य बुध + णिच् + ल्यु। स्वपानसाध्यवैकल्यबोधके मद्ये मद्यपाने हि इन्द्रियमात्रस्य स्वस्वकार्य्यव्यापारापाटवकरणात् आत्मवीर्य्यं तानि बोधयतीति तस्य तथात्वम्। “सर्वं पित्तकर मद्यम्” इत्युपक्रम्य “पाके लघु विदाह्युष्ण तीक्ष्णमिन्द्रियबोधनम्”। “कषायमधुरं मद्यं सुगन्धीन्द्रियबोधनम्”। “वातघ्नो मधुरप्रायोहृद्य इन्द्रियबोधनः” सुश्रु०।

इन्द्रियवत् = त्रि० इन्द्रियं वश्यतया प्राशस्त्येन वास्त्यस्य मतुप् मस्य वः। १ वश्येन्द्रिये २ प्रशस्तेन्द्रिये च स्त्रियां ङीप्। इन्द्रियेण तुल्यम् इन्द्रियस्येव इन्द्रिये इव वा वति। इन्द्रियतुल्ये अव्य० इन्द्रियं वीर्य्यमस्त्यस्य मतुप् मस्यवः वेदे पूर्ब्बपद नि० दीर्घः। वीर्य्यान्विते। “तेजः पशूनां हविरिन्द्रियावत्” वाज०। हविष्य इन्द्रियवान् मदिन्ततम” वाज०। क्वचित् वेदे दीर्घोन। सर्व हुतमिन्द्रियवत” यजु० १४, २,

इन्द्रियवृत्ति = स्त्री ६ त०। “शब्दादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः। वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम्” सांख्योक्ते श्रोंत्रादीनां शब्दादिषु प्रकाशनार्थे १ व्यापारे कर्म्मोन्द्रयाणां २ वचनादानादिव्यापारे च। तत्र बुद्धीन्द्रिय वृत्तिश्च इन्द्रियजन्या बुद्धेस्तत्तदाकारेण परिणामः साच निर्विकल्पकस्थानीया इति सा० कौ० समर्थितं तच्च ८२६ पृ० आलोचनशब्दे दर्शितम् कर्म्मोन्द्रियवृत्तिश्च वचनादानादिरूपोव्यापारः। मनोरूपेन्द्रियवृत्तिस्तु संकल्पविकल्पाध्यवसायरूपा मनोबुद्ध्योः परिणामभेदः।

इन्द्रियसंप्रयोग = पु० इन्द्रियाणां संप्रयोगः स्वस्वविषयेषु प्रयोगःव्यापारणम्। विषयेरिन्द्रियसम्बन्धे असतख्यातिशब्दे ५२३ पृष्ठे उदा०।

इन्द्रियसन्निकर्ष = पु० इन्द्रियस्य स्वस्वविषयैः सह सन्निकर्षः मम्बन्धभेदः। प्रत्यक्षसाधने इन्द्रियस्थ स्वस्वविषयैः सम्बन्धभेदरूपे प्रत्यक्षजनकव्यापारे। स च न्यायमते षोढा यथा “विषयेन्द्रियसंबन्धोव्यापारः सोऽपि षद्धिधः। द्रव्यग्रहस्तु संयोगात् संयुक्तसमवायतः द्रव्येषु समवेतानां, तथा तत्समवायतः तत्रापि समवेतानां, शब्दस्य समवायतः। तद्वृत्तीनां समवेतसमवायेन तु ग्रहः। विशेषणतया तद्वदभावानां ग्रहो भवेत्” भाषा०। तथा च द्रव्यस्य प्रत्यक्षे इन्द्रियसंयोगः कारणम् द्रव्यसमवेतगुणकर्म्मजातीतां प्रत्यक्षे इन्द्रियसंयुक्तसमवायः। द्रव्यसमवेतसमवेतानां गुणत्वकर्म्मत्वादीनां प्रत्यक्षे इन्द्रियसंयुक्तसमवेतसमवायः। शव्दस्य प्रत्यक्षे श्रोत्रसमवायः शब्दवृत्तिशब्दत्वादेः, श्रोत्रसमवेतसमवायः कारणम्। “अभावप्रत्यक्षे समबायप्रत्यक्षे च इन्द्रियसंयुक्तस्वरूपसम्बन्धविशेषणता हेतुः। वैशषिकमते तु समवायस्य न प्रत्यक्षम्। अत्र यद्यपि विशेषणता नानाविधा तथा हि भूतलादौ घटाभावः संयुक्तविशेषणतया गृह्यते संख्यादौ रूपाद्यभावः संयुक्तसमवेतविशेषणतया, संख्यात्वादौ रूपाद्यभावः सयुक्तसम- वेवतमवेतविशेषणतया। शब्दाभावः केवलश्रोत्रावच्छिन्नविशेषणतया। कादौ खत्वाद्यभावः श्रोत्रावच्छिन्नसमवेतविशेषणतया। एवं कत्वावच्छिन्नाभावे खत्वाभावादिकं विशेषणविशेषणतया। एवं घटाभावादौ पटाद्यभावः संयुक्तविशेपणविशेषणतया। एवमन्यदप्यूह्यम् तथापि विशेषणतात्वरूपेणैकैव सा गण्यते अन्यथा षीढा सन्निकर्ष इति प्राचां प्रवादो व्याहन्यतेति” मुक्ता०। इन्द्रिय संयोगादयोऽप्यत्र

इन्द्रियस्वाप = पु० इन्द्रियाणां खस्वविषयेषु स्याप इव अप्र वृत्तिरत्र। १ सुषुप्त्यवस्थायाम् तत्र हि मनःसहितसर्व्वेन्द्रियाणामुपरमः श्रुत्यादावुक्तः “सुषुप्तिकाले सकले प्रलीने” इति स्मृत्या “यत्र सुप्तोन कञ्चन पश्यतीति” श्रुत्था इन्द्रियमात्रलयश्रवणात्। इन्द्रियैःस्वस्य स्वकारणभावस्यापः प्राप्तिर्यत्र। इन्द्रियाणां स्वरूपतः स्वकारणलयकाले प्रलये। मरणे तु न स्वरूपतस्तेषां लयः। “तमुत्क्रामन्त प्राणोऽनुत्क्रामति प्राणमुत्क्रामन्तं मनोऽनुक्रामतीत्यादि” श्रुतेः “पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम्। अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधन” मिति स्मृतेश्च प्राणानामाप्रलयस्थायित्वावगतेः। तत्र गोलकाभावेन वृत्तिमात्र न भवति पुनर्देहान्तरे गोलकोदये वृत्तिलाभ इति भदः “तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्त” इति शां० सू० भाष्ययोर्विवृतिः एवं सांख्यमतेऽपि किन्तु तन्मते लिङ्गदेहे प्राणपञ्चकं विहाय पञ्चभूतानां प्रवेश इत्येतावन्मात्रभेदः।

इन्द्रियात्मन् = पु० इन्द्रियमेवात्मा। १ इन्द्रियस्वरूपे कर्म्मधा०। २ इन्द्रियेषु।

इन्द्रियादि = पु० ६ त०। सांख्यमतसिद्धे इन्द्रियकारणे अहङ्कारे “सात्विक एकादकः प्रवर्त्तते वैकृतादहङ्कारात्” सा० का०

इन्द्रियाधिष्ठातृ = ६ त०। इन्द्रियाणामचेतनानां स्वस्वकार्य्येषु व्यापारसम्पादनाय ईश्वरनियोजिते देवभेदे। तेच देवाः “दिग्मातार्कप्रचेतोऽग्निवह्नीन्द्रोपेन्द्रमित्रकाः”। शारदा० दर्शिताः पदार्थादर्शेएतद्व्या० “एते इन्द्रियाधिष्यातृदेवाः। यदाहुः वैकारिकादिगाद्याश्च चन्द्रेणैकादश स्मृताः। इन्द्रियाणामधिष्ठातृदेवास्ते सात्विकाः मता” इति तथा च श्रोत्रस्याधिष्ठातृदेवता दिक्। त्वचः वायुः, चक्षुषः अर्कः। रसनायाः प्रचताः, घ्राणस्याश्विनौ, वःचः अग्निः पाणेः शक्रः, पादस्य उपेन्दः (विष्णुः), पायोः मित्रः उपस्थस्य कः ब्रह्मा। मनसः चन्द्रमाः।

इन्द्रियायतन = ६ त०। श्रोत्राद्याधारे देहे तस्य इन्द्रियाधा- रत्वत्ताथात्वम्। स च सूक्ष्मएव देहः। यथाह सा० का० “पूर्व्वोत्पन्नम (श) सक्तं नियतं महदादिसूक्ष्मपर्यन्तम्। संसरति निरुपभोगं भावैरधिवासितं लिङ्गम्”। “प्रधानेनादिसर्गे प्रतिपुरुषमेकैकमुत्पादितम् आ चादिसर्गात् आ च महाप्रलयादवतिष्ठते महदादिसूक्ष्मपर्य्यन्तं महदहङ्कारैकादशेन्द्रियपञ्चतन्मात्रपर्य्यन्तम् एषां समुदायः सूक्ष्मशरीरं शान्तघोरमूढैरिन्द्रियैरन्वितत्वाद्विशेषः। नन्वस्त्वेतदेव शरीरं भोगायतनं पुरुषस्य, कृतं दृश्यमानेन षाट्कौशिकेन शरीरेणेत्यतआह संसरतीति उपात्तमुपात्तंच शरीर जहाति हायंहायं चोपादत्ते, कस्मात्? निरुपभोगं यतः, षाट्कौशिकं शरीरं विना सूक्ष्मं निरुपभोगं, तस्मात्संसरति। ननु धर्म्माधर्म्मनिमित्तः ससारः न च सूक्ष्मशरीरस्यास्ति तद्योगः, तत्कथं संसरतीत्यत आह भावैरधिवासितं धर्म्माधर्म्मज्ञानाज्ञानवैराग्यावैराग्यैश्वर्य्यानैश्वर्याणि भावास्तदन्विता बुद्धिः तदन्वितञ्च सूक्ष्मशरीरमिति तदपि भावैरधिवासितं यथा सुरमिचम्पकसम्पकार्द्वस्त्रं तदामो दवासितम्भवति तस्माद्भावैरेवाघिवासितत्वात्संसरति। कस्मात्पुनः प्रधानमिव महाप्रलयेऽपि तच्छरीरं न तिष्ठतीत्यत आह लिङ्गम् लयं गच्छतीति लिङ्गं हेतुमत्त्वेन चास्य लिङ्गत्वमिति” भावः। सा० कौ०। “पञ्चप्राणमनोबुद्धिदशे न्द्रियसमन्वितम्। अपञ्चीकृतभूतोत्यं सूक्ष्माङ्गं भोगसाधननम्” स्मृतिः। पञ्चद० इदमेव वाक्यमुपन्यस्तम्। न्यायादिमते स्थूलदेहएव इन्द्रियायतनं तैः सूक्ष्मदेहानङ्गीकारात् इति भेदः जीवादृष्टवशादेवापूर्ब्बदेह एव तत्तदिन्द्रियाण्यपि तत्तद्देहे उत्पद्यन्ते मनासि तु अनन्तानि तानि च नित्यानि तेषाञ्च अदृष्टवशात् एर्ककस्मिन् देहे एकैकस्य प्रवेश इति हि तेषां सम्मतम्। २ आत्मनि च “आत्मेन्द्रियाद्यधिष्ठतो” लिङ्गशरीरशब्दे एतेषां युक्तायुक्तत्वपरीक्षणम् करिष्यते।

इन्द्रियाराम = त्रि० इन्द्रियेषु आरमति आ + रम–घञ्। इ न्द्रियार्थभोगप्रसक्ते “अघायुरिन्द्रियारामो मोधं पार्थ। स जीवति” गीता०।

इन्द्रियार्थ = पु० ६ त०। इन्द्रियगोचरशब्दार्थे शब्दार्दो “इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः” मनुः। द्वन्द्वः १ इन्द्रिये तद्विषये च द्वि० व०। “इन्द्रियार्थसन्निकर्षोत्पन्नम्” गौ० सू०। इन्द्रियेणार्थस्यसन्निकर्ष इत्येव तत्र विग्रहस्तु न्याय्यः।

इन्द्रियाविन् = त्रि० इन्द्रिय वश्यतया प्राशस्त्येन वास्त्यस्य बा० विनि वेदे पूर्व्वपददीर्घ। १ वश्येन्द्रिये २ प्रशस्तेन्द्रिये च। “सएवास्मिन्निन्द्रियं दधा तन्द्रियाव्येव भवति” श्रुतिः।

इन्द्रियेश = पु० ६ त०। १ जीवे तदधिष्ठानेनैब तेषां वृत्त्युत्पत्तेस्तथात्वम् २ इन्द्रियाधिष्ठातृदिगादिदेवादिषु च।

इन्द्रेज्य = पु० ६ त०। वृहस्पतौ शक्रेज्येन्द्रपूज्यादयोऽप्यत्र

इन्द्रेश्वर = पु० इन्द्रेण स्थापित ईश्वर ईश्वरलिङ्गम्। महेन्द्रपर्वतस्थे वृत्रासुरबधजनितब्रह्महत्याविघातार्थं शक्रेणं स्थापिते शिवलिङ्गभेदे तत्कथा प्रा० वि० कालि० पुराणम्। “वृत्तं हत्वा ततः शक्रोमाहेन्द्रे स्थाप्य शङ्करम्। लिङ्गं विमुक्तः पापौघैस्ततः स त्रिदिवं गतः। अद्यापीन्द्रेश्वरं दृष्ट्वा तथा रामेश्वरं प्रभुम्। मुच्यते ब्रह्महत्याया नरो वै नात्र संशयः”।

***