Sorry, your browser does not support JavaScript!
UpasanaYoga.org
बृहद्-आरण्यक उपनिषद्
Bṛhad-Āraṇyaka Upaniṣad
with शाङ्कर-भाष्यम्


Ch. 1 Ch. 2 Ch. 3 Ch.4 Ch. 5 Ch. 6

Format by A.K. Aruna, 2017 ver.3.0: UpasanaYoga. If downloaded, requires installed Devanāgarī Siddhanta1.ttf font, downloadable from UpasanaYoga. If run from UpasanaYoga website, it alternatively can use online Web Font. Any Devanāgarī in parentheses () is an alternate reading of text in Red. Top button "Collapse all panels" contracts the view in which individual items can be re-expanded, or again the top button "Restore all panels" reloads page to original view. The Devanagari text source is the Sharada Peetham, Sringeri (advaitasharada.sringeri.net).
Bṛhad-āraṇyaka-Upaniṣad, from the Śukla-Yajur Veda, consists of brāhmaṇa (prose text) with some ṛks, ślokas or mantras (verses) interspersed. It is considered, like the Chāndogya Upaniṣad, to be a source of teachings which other Upaniṣads often summarize or expound on. It especially contains the teachings of sage Yājña-valkya.

A link marked with a 🔗 will open the matching English translation from BrhUEng.htm.
English Translation

by A.K. Aruna
First Update to HTML Jan 2018 with Creative Commons International License:
This work is licensed under the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. To view a copy of this license, visit http://creativecommons.org/licenses/by-nc-sa/4.0/, or click the following logo:
Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

🔗  ओं, पूर्ण॒म् अदः॒ पूर्ण॒म् इदं॒ पूर्णा॒त् पूर्ण॒म् उद॒च्यते।
पूर्ण॒स्य पूर्ण॒म् आदा॒य पूर्ण॒म् एवावशि॒ष्यते।
ओं शा॒न्तिः शा॒न्तिः शा॒न्तिः॥

Om, pūrṇa, adas, pūrṇa, idam, pūrna, pūrṇa, ud-√añc.
pūrṇa, pūrṇa, ādāya, pūrṇa, eva, ava-√śiṣ.
Om, śānti, śānti, śānti. (BrhU.5.1.1)

🔗  ओं नमो ब्रह्मादिभ्यो ब्रह्मविद्यासम्प्रदायकर्तृभ्यो वंशऋषिभ्यो नमो गुरुभ्यः।

‘उषा वा अश्वस्य’ (BrhU.1.1.1) इत्येवमाद्या वाजसनेयिब्राह्मणोपनिषत्। तस्या इयमल्पग्रन्था वृत्तिः आरभ्यते, संसारव्याविवृत्सुभ्यः संसारहेतुनिवृत्तिसाधनब्रह्मात्मैकत्वविद्याप्रतिपत्तये। सेयं ब्रह्मविद्या उपनिषच्छब्दवाच्या, तत्पराणां सहेतोः संसारस्यात्यन्तावसादनात्; उपनिपूर्वस्य सदेस्तदर्थत्वात्। तादर्थ्याद्ग्रन्थोऽप्युपनिषदुच्यते। सेयं षडध्यायी अरण्येऽनूच्यमानत्वादारण्यकम्; बृहत्त्वात्परिमाणतो बृहदारण्यकम्।
तस्यास्य कर्मकाण्डेन सम्बन्धोऽभिधीयते। सर्वोऽप्ययं वेदः प्रत्यक्षानुमानाभ्यामनवगतेष्टानिष्टप्राप्तिपरिहारोपायप्रकाशनपरः, सर्वपुरुषाणां निसर्गत एव तत्प्राप्तिपरिहारयोरिष्टत्वात्। दृष्टविषये चेष्टानिष्टप्राप्तिपरिहारोपायज्ञानस्य प्रत्यक्षानुमानाभ्यामेव सिद्धत्वात् नागमान्वेषणा। न चासति जन्मान्तरसम्बन्ध्यात्मास्तित्वविज्ञाने जन्मान्तरेष्टानिष्टप्राप्तिपरिहारेच्छा स्यात्; स्वभाववादिदर्शनात्। तस्माज्जन्मान्तरसम्बन्ध्यात्मास्तित्वे जन्मान्तरेष्टानिष्टप्राप्तिपरिहारोपायविशेषे च शास्त्रं प्रवर्तते। ‘येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके’ (KathU.1.1.20) इत्युपक्रम्य ‘अस्तीत्येवोपलब्धव्यः’ (KathU.2.3.13) इत्येवमादिनिर्णयदर्शनात्; ‘यथा च मरणं प्राप्य’ (KathU.2.2.6) इत्युपक्रम्य ‘योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः। स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम्’ (KathU.2.2.7) इति च; ‘स्वयं ज्योतिः’ (BrhU.4.3.9) इत्युपक्रम्य ‘तं विद्याकर्मणी समन्वारभेते’ (BrhU.4.4.2) ‘पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन’ (BrhU.3.2.13) इति च; ‘ज्ञपयिष्यामि’ (BrhU.2.1.15) इत्युपक्रम्य ‘विज्ञानमयः’ (BrhU.2.1.16) इति च – व्यतिरिक्तात्मास्तित्वम्। तत्प्रत्यक्षविषयमेवेति चेत्, न; वादिविप्रतिपत्तिदर्शनात्। न हि देहान्तरसम्बन्धिन आत्मनः प्रत्यक्षेणास्तित्वविज्ञाने लोकायतिका बौद्धाश्च नः प्रतिकूलाः स्युः नास्त्यात्मेति वदन्तः। न हि घटादौ प्रत्यक्षविषये कश्चिद्विप्रतिपद्यते, नास्ति घट इति। स्थाण्वादौ पुरुषादिदर्शनान्नेति चेत्, न; निरूपितेऽभावात्। न हि प्रत्यक्षेण निरूपिते स्थाण्वादौ विप्रतिपत्तिर्भवति। वैनाशिकास्त्वहमिति प्रत्यये जायमानेऽपि देहान्तरव्यतिरिक्तस्य नास्तित्वमेव प्रतिजानते। तस्मात्प्रत्यक्षविषयवैलक्षण्यात् प्रत्यक्षान्नात्मास्तित्वसिद्धिः। तथानुमानादपि। श्रुत्या आत्मास्तित्वे लिङ्गस्य दर्शितत्वात् लिङ्गस्य च प्रत्यक्षविषयत्वात् नेति चेत्, न; जन्मान्तरसम्बन्धस्याग्रहणात्। आगमेन त्वात्मास्तित्वेऽवगते वेदप्रदर्शितलौकिकलिङ्गविशेषैश्च, तदनुसारिणो मीमांसकास्तार्किकाश्चाहम्प्रत्ययलिङ्गानि च वैदिकान्येव स्वमतिप्रभवाणीति कल्पयन्तो वदन्ति प्रत्यक्षश्चानुमेयश्चात्मेति।
सर्वथाप्यस्त्यात्मा देहान्तरसम्बन्धीत्येवं प्रतिपत्तुर्देहान्तरगतेष्टानिष्टप्राप्तिपरिहारोपायविशेषार्थिनस्तद्विशेषज्ञापनाय कर्मकाण्डमारब्धम्। न त्वात्मनः इष्टानिष्टप्राप्तिपरिहारेच्छाकारणमात्मविषयमज्ञानं कर्तृभोक्तृस्वरूपाभिमानलक्षणं तद्विपरीतब्रह्मात्मस्वरूपविज्ञानेनापनीतम्। यावद्धि तन्नापनीयते, तावदयं कर्मफलरागद्वेषादिस्वाभाविकदोषप्रयुक्तः शास्त्रविहितप्रतिषिद्धातिक्रमेणापि प्रवर्तमानो मनोवाक्कायैर्दृष्टादृष्टानिष्टसाधनान्यधर्मसञ्ज्ञकानि कर्माण्युपचिनोति बाहुल्येन, स्वाभाविकदोषबलीयस्त्वात्। ततः स्थावरान्ताधोगतिः। कदाचिच्छास्त्रकृतसंस्कारबलीयस्त्वम्। ततो मनआदिभिरिष्टसाधनं बाहुल्येनोपचिनोति धर्माख्यम्। तद्द्विविधम् – ज्ञानपूर्वकं केवलं च। तत्र केवलं पितृलोकादिप्राप्तिफलम्। ज्ञानपूर्वकं देवलोकादिब्रह्मलोकान्तप्राप्तिफलम्। तथा च शास्त्रम् – ‘आत्मयाजी श्रेयान्देवयाजिनः’ (शत. ब्रा. ११-२-६-११३) इत्यादि। स्मृतिश्च ‘द्विविधं कर्म वैदिकम्’ (मनु. १२-८८) इत्याद्या। साम्ये च धर्माधर्मयोर्मनुष्यत्वप्राप्तिः। एवं ब्रह्माद्या स्थावरान्ता स्वाभाविकाविद्यादिदोषवती धर्माधर्मसाधनकृता संसारगतिर्नामरूपकर्माश्रया। तदेवेदं व्याकृतं साध्यसाधनरूपं जगत् प्रागुत्पत्तेरव्याकृतमासीत्। स एष बीजाङ्कुरादिवदविद्याकृतः संसारः आत्मनि क्रियाकारकफलाध्यारोपलक्षणोऽनादिरनन्तोऽनर्थ इत्येतस्माद्विरक्तस्याविद्यानिवृत्तये तद्विपरीतब्रह्मविद्याप्रतिपत्त्यर्थोपनिषदारभ्यते।
अस्य त्वश्वमेधकर्मसम्बन्धिनो विज्ञानस्य प्रयोजनम् – येषामश्वमेधे नाधिकारः, तेषामस्मादेव विज्ञानात्तत्फलप्राप्तिः, ‘विद्यया वा कर्मणा वा’ (शत. ब्राह्म. 10.4.3.9), ‘तद्धैतललोकजिदेव’ (BrhU.1.3.28) इत्येवमादिश्रुतिभ्यः। कर्मविषयत्वमेव विज्ञानस्येति चेत्, न; ‘योऽश्वमेधेन यजते य उ चैनमेवं वेद’ (तै. सं. ५-३-१२) इति विकल्पश्रुतेः। विद्याप्रकरणे चाम्नानात्, कर्मान्तरे च सम्पादनदर्शनात्, विज्ञानात्तत्फलप्राप्तिरस्तीत्यवगम्यते। सर्वेषां च कर्मणां परं कर्माश्वमेधः, समष्टिव्यष्टिप्राप्तिफलत्वात्। तस्य चेह ब्रह्मविद्याप्रारम्भे आम्नानं सर्वकर्मणां संसारविषयत्वप्रदर्शनार्थम्। तथा च दर्शयिष्यति फलमशनायामृत्युभावम्। न नित्यानां संसारविषयफलत्वमिति चेत्, न; सर्वकर्मफलोपसंहारश्रुतेः। सर्वं हि पत्नीसम्बद्धं कर्म; ‘जाया मे स्यादेतावान्वै कामः’ (BrhU.1.4.17) इति निसर्गत एव सर्वकर्मणां काम्यत्वं दर्शयित्वा, पुत्रकर्मापरविद्यानां च ‘अयं लोकः पितृलोको देवलोकः’ इति फलं दर्शयित्वा, त्र्यन्नात्मकतां चान्ते उपसंहरिष्यति ‘त्रयं वा इदं नाम रूपं कर्म’ (BrhU.1.6.1) इति – सर्वकर्मणां फलं व्याकृतं संसार एवेति। इदमेव त्रयं प्रागुत्पत्तेस्तर्ह्यव्याकृतमासीत्। तदेव पुनः सर्वप्राणिकर्मवशाद्व्याक्रियते बीजादिव वृक्षः। सोऽयं व्याकृताव्याकृतरूपः संसारोऽविद्याविषयः क्रियाकारकफलात्मकतयात्मरूपत्वेनाध्यारोपितोऽविद्ययैव मूर्तामूर्ततद्वासनात्मकः। अतो विलक्षणोऽनामरूपकर्मात्मकोऽद्वयो नित्यशुद्धबुद्धमुक्तस्वभावोऽपि क्रियाकारकफलभेदादिविपर्ययेणावभासते। अतोऽस्मात्क्रियाकारकफलभेदस्वरूपात् ‘एतावदिदम्’ इति साध्यसाधनरूपाद्विरक्तस्य कामादिदोषकर्मबीजभूताविद्यानिवृत्तये रज्ज्वामिव सर्पविज्ञानापनयाय ब्रह्मविद्या आरभ्यते॥।
तत्र तावदश्वमेधविज्ञानाय ‘उषा वा अश्वस्य’ इत्यादि। तत्राश्वविषयमेव दर्शनमुच्यते, प्राधान्यादश्वस्य। प्राधान्यं च तन्नामाङ्कितत्वात्क्रतोः प्राजापत्यत्वाच्च॥

Go to Top ('Home' key on many Windows browsers)

br.1.01 br.1.02 br.1.03 br.1.04 br.1.05 br.1.06

Go to Top ('Home' key on many Windows browsers)

BrhU.1.01

🔗  उषा इति, ब्राह्मो मुहूर्तः उषाः; वै-शब्दः स्मारणार्थः, प्रसिद्धं कालं स्मारयति; शिरः, प्राधान्यात्; शिरश्च प्रधानं शरीरावयवानाम्; अश्वस्य, मेध्यस्य मेधार्हस्य यज्ञियस्य, उषाः शिर इति सम्बन्धः। कर्माङ्गस्य पशोः संस्कर्तव्यत्वात्कालादिदृष्टयः शिरआदिषु क्षिप्यन्ते; प्राजापत्यत्वं च प्रजापतिदृष्ट्यध्यारोपणात्; काललोकदेवतात्वाध्यारोपणं च प्रजापतित्वकरणं पशोः; एवंरूपो हि प्रजापतिः; विष्णुत्वादिकरणमिव प्रतिमादौ। सूर्यश्चक्षुः, शिरसोऽनन्तरत्वात्सूर्याधिदैवतत्वाच्च; वातः प्राणः, वायुस्वाभाव्यात्; व्यात्तं विवृतं मुखम् अग्निर्वैश्वानरः; वैश्वानर इत्यग्नेर्विशेषणम्; वैश्वानरो नामाग्निर्विवृतं मुखमित्यर्थः, मुखस्याग्निदैवतत्वात्; संवत्सर आत्मा; संवत्सरो द्वादशमासस्त्रयोदशमासो वा; आत्मा शरीरम्; कालावयवानां च संवत्सरः शरीरम्; शरीरं चात्मा, ‘मध्यं ह्येषामङ्गानामात्मा’ (ऐ. आ. २-३-५) इति श्रुतेः; अश्वस्य मेध्यस्य इति सर्वत्रानुषङ्गार्थं पुनर्वचनम्। द्यौः पृष्ठम्, ऊर्ध्वत्वसामान्यात्; अन्तरिक्षमुदरम्, सुषिरत्वसामान्यात्; पृथिवी पाजस्यं पादस्यम्, पाजस्यमिति वर्णव्यत्ययेन, पादासनस्थानमित्यर्थः; दिशः चतस्रोऽपि पार्श्वे, पार्श्वेन दिशां सम्बन्धात्; पार्श्वयोर्दिशां च सङ्ख्यावैषम्यादयुक्तमिति चेत्, न; सर्वमुखत्वोपपत्तेरश्वस्य पार्श्वाभ्यामेव सर्वदिशां सम्बन्धाददोषः; अवान्तरदिश आग्नेय्याद्याः पर्शवः पार्श्वास्थीनि; ऋतवोऽङ्गानि, संवत्सरावयवत्वादङ्गसाधर्म्यात्; मासाश्चार्धमासाश्च पर्वाणि सन्धयः, सन्धिसामान्यात्; अहोरात्राणि प्रतिष्ठाः; बहुवचनात्प्राजापत्यदैवपित्र्यमानुषाणि; प्रतिष्ठाः पादाः, प्रतितिष्ठत्येतैरिति; अहोरात्रैर्हि कालात्मा प्रतितिष्ठति, अश्वश्च पादैः; नक्षत्राण्यस्थीनि, शुक्लत्वसामान्यात्; नभो नभःस्था मेघाः, अन्तरिक्षस्योदरत्वोक्तेः; मांसानि, उदकरुधिरसेचनसामान्यात्। ऊवध्यम् उदरस्थमर्धजीर्णमशनं सिकताः, विश्लिष्टावयवत्वसामान्यात्; सिन्धवः स्यन्दनसामान्यात् नद्यः गुदा नाड्यः, बहुवचनाच्च; यकृच्च क्लोमानश्च हृदयस्याधस्ताद्दक्षिणोत्तरौ मांसखण्डौ; क्लोमान इति नित्यं बहुवचनमेकस्मिन्नेव; पर्वताः, काठिन्यादुच्छ्रितत्वाच्च; ओषधयश्च क्षुद्राः स्थावराः, वनस्पतयो महान्तः, लोमानि केशाश्च यथासम्भवम्; उद्यन् उद्गच्छन्भवति सविता आ मध्याह्नात् अश्वस्य पूर्वार्धः नाभेरूर्ध्वमित्यर्थः; निम्लोचन् अस्तं यन् आ मध्याह्नात् जघनार्धोऽपरार्धः, पूर्वापरत्वसाधर्म्यात्; यद्विजृम्भते गात्राणि विनामयति विक्षिपति, तद्विद्योतते विद्योतनम्, मुखघनविदारणसामान्यात्; यद्विधूनुते गात्राणि कम्पयति, तत्स्तनयति, गर्जनशब्दसामान्यात्; यन्मेहति मूत्रं करोत्यश्वः, तद्वर्षति वर्षणं तत्, सेचनसामान्यात्; वागेव शब्द एव अस्य अश्वस्य वाग् इति, नात्र कल्पनेत्यर्थः॥
🔗  अहर्वा इति, सौवर्णराजतौ महिमाख्यौ ग्रहावश्वस्याग्रतः पृष्ठतश्च स्थाप्येते, तद्विषयमिदं दर्शनम्। अहः सौवर्णो ग्रहः, दीप्तिसामान्याद् वै। अहर् अश्वं पुरस्तान्महिमान्वजायत इति कथम्? अश्वस्य प्रजापतित्वात्; प्रजापतिर्ह्यादित्यादिलक्षणोऽह्ना लक्ष्यते; अश्वं लक्षयित्वाजायत सौवर्णो महिमा ग्रहः, वृक्षमनु विद्योतते विद्युदिति यद्वत्। तस्य ग्रहस्य पूर्वे पूर्वः समुद्रे समुद्रः योनिः, विभक्तिव्यत्ययेन; योनिरित्यासादनस्थानम्। तथा रात्री राजतो ग्रहः, वर्णसामान्याज्जघन्यत्वसामान्याद्वा। एनम् अश्वं पश्चात् पृष्ठतो महिमा अन्वजायत; तस्यापरे समुद्रे योनिः। महिमा महत्त्वात्। अश्वस्य हि विभूतिरेषा, यत्सौवर्णो राजतश्च ग्रहावुभयतः स्थाप्येते। तै एतौ वै महिमानौ महिमाख्यौ ग्रहौ, अश्वमभितः सम्बभूवतुः उक्तलक्षणावेव सम्भूतौ। इत्थमसावश्वो महत्त्वयुक्त इति पुनर्वचनं स्तुत्यर्थम्। तथा च हयो भूत्वा इत्यादि स्तुत्यर्थमेव। हयो हिनोतेर्गतिकर्मणः, विशिष्टगतिरित्यर्थः; जातिविशेषो वा; देवानवहद् देवत्वमगमयत्, प्रजापतित्वात्; देवानां वा वोढाभवत्; ननु निन्दैव वाहनत्वम्; नैष दोषः; वाहनत्वं स्वाभाविकमश्वस्य, स्वाभाविकत्वादुच्छ्रायप्राप्तिर्देवादिसम्बन्धोऽश्वस्य इति स्तुतिरेवैषा। तथा वाज्यादयो जातिविशेषाः; वाजी भूत्वा गन्धर्वान् अवहदित्यनुषङ्गः; तथा अर्वा भूत्वा असुरान्; अश्वो भूत्वा मनुष्यान्समुद्र एव इति परमात्मा, बन्धुर् बन्धनम्, बध्यतेऽस्मिन्निति; समुद्रो योनिः कारणमुत्पत्तिं प्रति; एवमसौ शुद्धयोनिः शुद्धस्थितिरिति स्तूयते; ‘अप्सुयोनिर्वा अश्वः’ (तै. सं. २-३-१२) इति श्रुतेः प्रसिद्ध एव वा समुद्रो योनिः॥

Go to Top ('Home' key on many Windows browsers)

BrhU.1.02

🔗  अथाग्नेरश्वमेधोपयोगिकस्योत्पत्तिरुच्यते। तद्विषयदर्शनविवक्षयैवोत्पत्तिः स्तुत्यर्था। नैवेह किञ्चनाग्र आसीत् इह संसारमण्डले, किञ्चन किञ्चिदपि नामरूपप्रविभक्तविशेषम्, नैवासीत् न बभूव, अग्रे प्रागुत्पत्तेर्मनआदेः।
किं शून्यमेव बभूव? शून्यमेव स्यात्; ‘नैवेह किञ्चन’ इति श्रुतेः, न कार्यं कारणं वासीत्; उत्पत्तेश्च; उत्पद्यते हि घटः; अतः प्रागुत्पत्तेर्घटस्य नास्तित्वम्। ननु कारणस्य न नास्तित्वम्, मृत्पिण्डादिदर्शनात्; यन्नोपलभ्यते तस्यैव नास्तिता। अस्तु कार्यस्य, न तु कारणस्य, उपलभ्यमानत्वात्। न, प्रागुत्पत्तेः सर्वानुपलम्भात्। अनुपलब्धिश्चेदभावहेतुः, सर्वस्य जगतः प्रागुत्पत्तेर्न कारणं कार्यं वोपलभ्यते; तस्मात्सर्वस्यैवाभावोऽस्तु।
न, ‘मृत्युनैवेदमावृतामासीत्’ इति श्रुतेः; यदि हि किञ्चिदपि नासीत्, येनाव्रियते यच्चाव्रियते, तदा नावक्ष्यत्, ‘मृत्युनैवेदमावृतम्’ इति; न हि भवति गगनकुसुमच्छन्नो वन्ध्यापुत्र इति; ब्रवीति च ‘मृत्युनैवेदमावृतमासीत्’ इति। तस्मात् येनावृतं कारणेन, यच्चावृतं कार्यम्, प्रागुत्पत्तेस्तदुभयमासीत्, श्रुतेः प्रामाण्यात्, अनुमेयत्वाच्च। अनुमीयते च प्रागुत्पत्तेः कार्यकारणयोरस्तित्वम्। कार्यस्य हि सतो जायमानस्य कारणे सत्युत्पत्तिदर्शनात्, असति चादर्शनात्, जगतोऽपि प्रागुत्पत्तेः कारणास्तित्वमनुमीयते, घटादिकारणास्तित्ववत्। घटादिकारणस्याप्यसत्त्वमेव, अनुपमृद्य मृत्पिण्डादिकं घटाद्यनुत्पत्तेरिति चेत्, न; मृदादेः कारणत्वात्। मृत्सुवर्णादि हि तत्र कारणं घटरुचकादेः, न पिण्डाकारविशेषः, तदभावे भावात्। असत्यपि पिण्डाकारविशेषे मृत्सुवर्णादिकारणद्रव्यमात्रादेव घटरुचकादिकार्योत्पत्तिर्दृश्यते। तस्मान्न पिण्डाकारविशेषो घटरुचकादिकारणम्। असति तु मृत्सुवर्णादिद्रव्ये घटरुचकादिर्न जायत इति मृत्सुवर्णादिद्रव्यमेव कारणम्, न तु पिण्डाकारविशेषः। सर्वं हि कारणं कार्यमुत्पादयत्, पूर्वोत्पन्नस्यात्मकार्यस्य तिरोधानं कुर्वत्, कार्यान्तरमुत्पादयति; एकस्मिन्कारणे युगपदनेककार्यविरोधात्। न च पूर्वकार्योपमर्दे कारणस्य स्वात्मोपमर्दो भवति। तस्मात्पिण्डाद्युपमर्दे कार्योत्पत्तिदर्शनमहेतुः प्रागुत्पत्तेः कारणासत्त्वे। पिण्डादिव्यतिरेकेण मृदादेरसत्त्वादयुक्तमिति चेत् – पिण्डादिपूर्वकार्योपमर्दे मृदादि कारणं नोपमृद्यते, घटादिकार्यान्तरेऽप्यनुवर्तते, इत्येतदयुक्तम्, पिण्डघटादिव्यतिरेकेण मृदादिकारणस्यानुपलम्भादिति चेत्, न; मृदादिकारणानां घटाद्युत्पत्तौ पिण्डादिनिवृत्तावनुवृत्तिदर्शनात्। सादृश्यादन्वयदर्शनम्, न कारणानुवृत्तेरिति चेत्, न; पिण्डादिगतानां मृदाद्यवयवानामेव घटादौ प्रत्यक्षत्वेऽनुमानाभासात्सादृश्यादिकल्पनानुपपत्तेः। न च प्रत्यक्षानुमानयोर्विरुद्धाव्यभिचारिता, प्रत्यक्षपूर्वकत्वादनुमानस्य; सर्वत्रैवानाश्वासप्रसङ्गात् – यदि च क्षणिकं सर्वं तदेवेदमिति गम्यमानम्, तद्बुद्धेरप्यन्यतद्बुद्ध्यपेक्षत्वे तस्या अप्यन्यतद्बुद्ध्यपेक्षत्वमित्यनवस्थायाम्, तत्सदृशमिदमित्यस्या अपि बुद्धेर्मृषात्वात्, सर्वत्रानाश्वासतैव। तदिदम्बुद्ध्योरपि कर्त्रभावे सम्बन्धानुपपत्तिः। सादृश्यात्तत्सम्बन्ध इति चेत्, न; तदिदम्बुद्ध्योरितरेतरविषयत्वानुपपत्तेः। असति चेतरेतरविषयत्वे सादृश्यग्रहणानुपपत्तिः। असत्येव सादृश्ये तद्बुद्धिरिति चेत्, न; तदिदम्बुद्ध्योरपि सादृश्यबुद्धिवदसद्विषयत्वप्रसङ्गात्। असद्विषयत्वमेव सर्वबुद्धीनामस्त्विति चेत्, न; बुद्धिबुद्धेरप्यसद्विषयत्वप्रसङ्गात्। तदप्यस्त्विति चेत्, न; सर्वबुद्धीनां मृषात्वेऽसत्यबुद्ध्यनुपपत्तेः। तस्मादसदेतत् – सादृश्यात्तद्बुद्धिरिति। अतः सिद्धः प्राक्कार्योत्पत्तेः कारणसद्भावः।
कार्यस्य च अभिव्यक्तिलिङ्गत्वात्। कार्यस्य च सद्भावः प्रागुत्पत्तेः सिद्धः; कथमभिव्यक्तिलिङ्गत्वात् – अभिव्यक्तिर्लिङ्गमस्येति? अभिव्यक्तिः साक्षाद्विज्ञानालम्बनत्वप्राप्तिः। यद्धि लोके प्रावृतं तमआदिना घटादि वस्तु, तदालोकादिना प्रावरणतिरस्कारेण विज्ञानविषयत्वं प्राप्नुवत्, प्राक्सद्भावं न व्यभिचरति; तथेदमपि जगत् प्रागुत्पत्तेरित्यवगच्छामः। न ह्यविद्यमानो घटः उदितेऽप्यादित्ये उपलभ्यते। न; ते अविद्यमानत्वाभावादुपलभ्येतैवेति चेत् – न हि तव घटादि कार्यं कदाचिदप्यविद्यमानमित्युदिते आदित्ये उपलभ्येतैव, मृत्पिण्डेसन्निहिते तमआद्यावरणे चासति विद्यमानत्वादिति चेत्, न; द्विविधत्वादावरणस्य। घटादिकार्यस्य द्विविधं ह्यावरणम् – मृदादेरभिव्यक्तस्य तमःकुड्यादि, प्राङ्मृदोऽभिव्यक्तेर्मृदाद्यवयवानां पिण्डादिकार्यान्तररूपेण संस्थानम्। तस्मात्प्रागुत्पत्तेर्विद्यमानस्यैव घटादिकार्यस्यावृतत्वादनुपलब्धिः। नष्टोत्पन्नभावाभावशब्दप्रत्ययभेदस्तु अभिव्यक्तितिरोभावयोर्द्विविधत्वापेक्षः। पिण्डकपालादेरावरणवैलक्षण्यादयुक्तमिति चेत् – तमःकुड्यादि हि घटाद्यावरणं घटादिभिन्नदेशं दृष्टम्; न तथा घटादिभिन्नदेशे दृष्टे पिण्डकपाले; तस्मात्पिण्डकपालसंस्थानयोर्विद्यमानस्यैव घटस्यावृतत्वादनुपलब्धिरित्ययुक्तम्, आवरणधर्मवैलक्षण्यादिति चेत्, न; क्षीरोदकादेः क्षीराद्यावरणेनैकदेशत्वदर्शनात्। घटादिकार्ये कपालचूर्णाद्यवयवानामन्तर्भावादनावरणत्वमिति चेत्, न; विभक्तानाङ्कार्यान्तरत्वादावरणत्वोपपत्तेः। आवरणाभावे एव यत्नः कर्तव्य इति चेत् – पिण्डकपालावस्थयोर्विद्यमानमेव घटादि कार्यमावृतत्वान्नोपलभ्यत इति चेत्, घटादिकार्यार्थिना तदावरणविनाशे एव यत्नः कर्तव्यः, न घटाद्युत्पत्तौ; न चैतदस्ति; तस्मादयुक्तं विद्यमानस्यैवावृतत्वादनुपलब्धिः, इति चेत्, न; अनियमात्। न हि विनाशमात्रप्रयत्नादेव घटाद्यभिव्यक्तिर्नियता; तमआद्यावृते घटादौ प्रदीपाद्युत्पत्तौ प्रयत्नदर्शनात्। सोऽपि तमोनाशायैवेति चेत् – दीपाद्युत्पत्तावपि यः प्रयत्नः सोऽपि तमस्तिरस्करणाय; तस्मिन्नष्टे घटः स्वयमेवोपलभ्यते; न हि घटे किञ्चिदाधीयत इति चेत्, न; प्रकाशवतो घटस्योपलभ्यमानत्वात्। यथा प्रकाशविशिष्टो घट उपलभ्यते प्रदीपकरणे, न तथा प्राक्प्रदीपकरणात्। तस्मान्न तमस्तिरस्करणायैव प्रदीपकरणम्; किं तर्हि, प्रकाशवत्त्वाय; प्रकाशवत्त्वेनैवोपलभ्यमानत्वात्। क्वचिदावरणविनाशेऽपि यत्नः स्यात्; यथा कुड्यादिविनाशे। तस्मान्न नियमोऽस्ति – अभिव्यक्त्यर्थिनावरणविनाशे एव यत्नः कार्य इति। नियमार्थवत्त्वाच्च। कारणे वर्तमानं कार्यं कार्यान्तराणामावरणमित्यवोचाम। तत्र यदि पूर्वाभिव्यक्तस्य कार्यस्य पिण्डस्य व्यवहितस्य वा कपालस्य विनाशे एव यत्नः क्रियेत, तदा विदलचूर्णाद्यपि कार्यं जायेत। तेनाप्यावृतो घटो नोपलभ्यत इति पुनः प्रयत्नान्तरापेक्षैव। तस्माद्घटाद्यभिव्यक्त्यर्थिनो नियत एव कारकव्यापारोऽर्थवान्। तस्मात्प्रागुत्पत्तेरपि सदेव कार्यम्। अतीतानागतप्रत्ययभेदाच्च। अतीतो घटोऽनागतो घट इत्येतयोश्च प्रत्यययोर्वर्तमानघटप्रत्ययवन्न निर्विषयत्वं युक्तम्। अनागतार्थिप्रवृत्तेश्च। न ह्यसत्यर्थितया प्रवृत्तिर्लोके दृष्टा। योगिनां चातीतानागतज्ञानस्य सत्यत्वात्। असंश्चेद्भविष्यद्घटः, ऐश्वरं भविष्यद्घटविषयं प्रत्यक्षज्ञानं मिथ्या स्यात्; न च प्रत्यक्षमुपचर्यते; घटसद्भावे ह्यनुमानमवोचाम। विप्रतिषेधाच्च। यदि घटो भविष्यतीति, कुलालादिषु व्याप्रियमाणेषु घटार्थम्, प्रमाणेन निश्चितम्, येन च कालेन घटस्य सम्बन्धो भविष्यतीत्युच्यते, तस्मिन्नेव काले घटोऽसन्निति विप्रतिषिद्धमभिधीयते; भविष्यन्घटोऽसन्निति, न भविष्यतीत्यर्थः; अयं घटो न वर्तत इति यद्वत्। अथ प्रागुत्पत्तेर्घटोऽसन्नित्युच्येत – घटार्थं प्रवृत्तेषु कुलालादिषु तत्र यथा व्यापाररूपेण वर्तमानास्तावत्कुलालादयः, तथा घटो न वर्तत इत्यसच्छब्दस्यार्थश्चेत्, न विरुध्यते; कस्मात्? स्वेन हि भविष्यद्रूपेण घटो वर्तते; न हि पिण्डस्य वर्तमानता, कपालस्य वा, घटस्य भवति; न च तयोः, भविष्यत्ता घटस्य; तस्मात्कुलालादिव्यापारवर्तमानतायां प्रागुत्पत्तेर्घटोऽसन्निति न विरुध्यते। यदि घटस्य यत्स्वं भविष्यत्ताकार्यरूपं तत् प्रतिषिध्येत, तत्प्रतिषेधे विरोधः स्यात्; न तु तद्भवान्प्रतिषेधति; न च सर्वेषां क्रियावतामेकैव वर्तमानता भविष्यत्त्वं वा। अपि च, चतुर्विधानामभावानाम्, घटस्येतरेतराभावो घटादन्यो ष्टः – यथा घटाभावः पटादिरेव, न घटस्वरूपमेव। न च घटाभावः सन्पटः अभावात्मकः; किं तर्हि? भावरूप एव। एवं घटस्य प्राक्प्रध्वंसात्यन्ताभावानामपि घटादन्यत्वं स्यात्, घटेन व्यपदिश्यमानत्वात्, घटस्येतरेतराभाववत्; तथैव भावात्मकताभावानाम्। एवं च सति, घटस्य प्रागभाव इति न घटस्वरूपमेव प्रागुत्पत्तेर्नास्ति। अथ घटस्य प्रागभाव इति घटस्य यत्स्वरूपं तदेवोच्येत, घटस्येति व्यपदेशानुपपत्तिः। अथ कल्पयित्वा व्यपदिश्येत, शिलापुत्रकस्य शरीरमिति यद्वत्; तथापि घटस्य प्रागभाव इति कल्पितस्यैवाभावस्य घटेन व्यपदेशः, न घटस्वरूपस्यैव। अथार्थान्तरं घटाद्घटस्याभाव इति, उक्तोत्तरमेतत्। किञ्चान्यत्; प्रागुत्पत्तेः शशविषाणवदभावभूतस्य घटस्य स्वकारणसत्तासम्बन्धानुपपत्तिः, द्विनिष्ठत्वात्सम्बन्धस्य। अयुतसिद्धानामदोष इति चेत्, न; भावाभावयोरयुतसिद्धत्वानुपपत्तेः। भावभूतयोर्हि युतसिद्धता अयुतसिद्धता वा स्यात्, न तु भावाभावयोरभावयोर्वा। तस्मात्सदेव कार्यं प्रागुत्पत्तेरिति सिद्धम्।
किंलक्षणेन मृत्युनावृतमित्यत आह – अशनायया, अशितुमिच्छा अशनाया, सैव मृत्योर्लक्षणम्, तया लक्षितेन मृत्युना अशनायया। कथमशनाया मृत्युरिति, उच्यते – अशनाया हि मृत्युः। हि-शब्देन प्रसिद्धं हेतुमवद्योतयति। यो ह्यशितुमिच्छति सोऽशनायानन्तरमेव हन्ति जन्तून्। तेनासावशनायया लक्ष्यते मृत्युरिति, अशनाया हीत्याह। बुद्ध्यात्मनोऽशनाया धर्म इति स एष बुद्ध्यवस्थो हिरण्यगर्भो मृत्युरित्युच्यते। तेन मृत्युनेदं कार्यमावृतमासीत्, यथा पिण्डावस्थया मृदा घटादय आवृताः स्युरिति तद्वत्। तन्मनोऽकुरुत, तदिति मनसो निर्देशः; स प्रकृतो मृत्युः वक्ष्यमाणकार्यसिसृक्षया तत् कार्यालोचनक्षमम्, मनःशब्दवाच्यं सङ्कल्पादिलक्षणमन्तःकरणम्, अकुरुत कृतवान्। केनाभिप्रायेण मनोऽकरोदिति, उच्यते – आत्मन्वी आत्मवान् स्यां भवेयम्; अहमनेनात्मना मनसा मनस्वी स्यामित्यभिप्रायः। सः प्रजापतिः, अभिव्यक्तेन मनसा समनस्कः सन्, अर्चन् अर्चयन्पूजयन् आत्मानमेव कृतार्थोऽस्मीति, अचरत् चरणमकरोत्। तस्य प्रजापतेः अर्चतः पूजयतः आपः रसात्मिकाः पूजाङ्गभूताः अजायन्त उत्पन्नाः। अत्राकाशप्रभृतीनां त्रयाणामुत्पत्त्यनन्तरमिति वक्तव्यम्, श्रुत्यन्तरसामर्थ्यात्, विकल्पासम्भवाच्च सृष्टिक्रमस्य। अर्चते पूजां कुर्वते वै मे मह्यं कम् उदकम् अभूत् इति एवममन्यत यस्मान्मृत्युः, तदेव तस्मादेव हेतोः अर्कस्य अग्नेरश्वमेधक्रत्वौपयोगिकस्य अर्कत्वम्; अर्कत्वे हेतुरित्यर्थः। अग्नेरर्कनामनिर्वचनमेतत् – अर्चनात्सुखहेतुपूजाकरणादप्सम्बन्धाच्चाग्नेरेतद्गौणं नामार्क इति। यः एवं यथोक्तम् अर्कस्यार्कत्वं वेद जानाति, कम् उदकं सुखं वा, नामसामान्यात्, ह वै इत्यवधारणार्थौ, भवत्येवेति, अस्मै एवंविदे एवंविदर्थं भवति
🔗  आपो वा अर्कः। कः पुनरसावर्क इति, उच्यते –
आपो वै या अर्चनाङ्गभूतास्ता एव अर्कः, अग्नेरर्कस्य हेतुत्वात्, अप्सु चाग्निः प्रतिष्ठित इति; न पुनः साक्षादेवार्कस्ताः, तासामप्रकरणात्; अग्नेश्च प्रकरणम्; वक्ष्यति च – ‘अयमग्निरर्कः’ इति। तत् तत्र, यदपां शर इव शरो दध्न इव मण्डभूतम् आसीत्, तत् समहन्यत सङ्घातमापद्यत तेजसा बाह्यान्तःपच्यमानम्; लिङ्गव्यत्ययेन वा, योऽपां शरः स समहन्यतेति। सा पृथिव्यभवत्, स सङ्घातो येयं पृथिवी साभवत्; ताभ्योऽद्भ्योऽण्डमभिनिर्वृत्तमित्यर्थः; तस्यां पृथिव्यामुत्पादितायाम्, स मृत्युः प्रजापतिः अश्राम्यत् श्रमयुक्तो बभूव; सर्वो हि लोकः कार्यं कृत्वा श्राम्यति; प्रजापतेश्च तन्महत्कार्यम्, यत्पृथिवीसर्गः; किं तस्य श्रान्तस्येत्युच्यते – तस्य श्रान्तस्य तप्तस्य स्विन्नस्य, तेजोरसः तेज एव रसस्तेजोरसः, रसः सारः, निरवर्तत प्रजापतिशरीरान्निष्क्रान्त इत्यर्थः; कोऽसौ निष्क्रान्तः? अग्निः सोऽण्डस्यान्तर्विराट् प्रजापतिः प्रथमजः कार्यकरणसङ्घातवाञ्जातः; ‘स वै शरीरी प्रथमः’ इति स्मरणात्॥
🔗  च जातः प्रजापतिः त्रेधा त्रिप्रकारम् आत्मानं स्वयमेव कार्यकरणसङ्घातं व्यकुरुत व्यभजदित्येतत्; कथं त्रेधेत्याह – आदित्यं तृतीयम् अग्निवाय्वपेक्षया त्रयाणां पूरणम्, अकुरुतेत्यनुवर्तते; तथाग्न्यादित्यापेक्षया वायुं तृतीयम्; तथा वाय्वादित्यापेक्षयाग्निं तृतीयमिति द्रष्टव्यम्; सामर्थ्यस्य तुल्यत्वात्त्रयाणां सङ्ख्यापूरणत्वे। स एष प्राणः सर्वभूतानामात्माप्यग्निवाय्वादित्यरूपेण विशेषतः स्वेनैव मृत्य्वात्मना त्रेधा विहितः विभक्तः, न विराट्स्वरूपोपमर्दनेन। तस्यास्य प्रथमजस्याग्नेरश्वमेधौपयोगिकस्यार्कस्य विराजश्चित्यात्मकस्याश्वस्येव दर्शनमुच्यते; सर्वा हि पूर्वोक्तोत्पत्तिरस्य स्तुत्यर्थेत्यवोचाम – इत्थमसौ शुद्धजन्मेति। तस्य प्राची दिक् शिरः, विशिष्टत्वसामान्यात्; असौ चासौ च ऐशान्याग्नेय्यौ ईर्मौ बाहू, ईरयतेर्गतिकर्मणः। अथ अस्य अग्नेः, प्रतीची दिक् पुच्छं जघन्यो भागः, प्राङ्मुखस्य प्रत्यग्दिक्सम्बन्धात्; असौ चासौ च वायव्यनैर्‌ऋत्यौ सक्थ्यौ सक्थिनी, पृष्ठकोणत्वसामान्यात्; दक्षिणा चोदीची च पार्श्वे, उभयदिक्सम्बन्धसामान्यात्; द्यौः पृष्ठमन्तरिक्षमुदरम् इति पूर्ववत्; इयमुरः, अधोभागसामान्यात्; स एषोऽग्निः प्रजापतिरूपो लोकाद्यात्मकोऽग्निः अप्सु प्रतिष्ठितः, ‘एवमिमे लोका अप्स्वन्तः’ इति श्रुतेः; यत्र क्वच यस्मिन्कस्मिंश्चित् एति गच्छति, तदेव तत्रैव प्रतितिष्ठिति स्थितिं लभते; कोऽसौ? एवं यथोक्तमप्सु प्रतिष्ठितत्वमग्नेः विद्वान् विजानन्; गुणफलमेतत्॥
🔗  सोऽकामयत – योऽसौ मृत्युः सोऽबादिक्रमेणात्मनात्मानमण्डस्यान्तः कार्यकरणसङ्घातवन्तं विराजमग्निमसृजत, त्रेधा चात्मानमकुरुतेत्युक्तम्। स किंव्यापारः सन्नसृजतेति, उच्यते –
सः मृत्युः अकामयत कामितवान्; किम्? द्वितीयः मे मम आत्मा शरीरम्, येनाहं शरीरी स्याम्, स जायेत उत्पद्येत, इति एवमेतदकामयत; सः एवं कामयित्वा, मनसा पूर्वोत्पन्नेन, वाचं त्रयीलक्षणाम्, मिथुनं द्वन्द्वभावम्, समभवत् सम्भवनं कृतवान्, मनसा त्रयीमालोचितवान्; त्रयीविहितं सृष्टिक्रमं मनसान्वालोचयदित्यर्थः। कोऽसौ? अशनायया लक्षितो मृत्युः; अशनाया मृत्युर् इत्युक्तम्; तमेव परामृशति, अन्यत्र प्रसङ्गो मा भूदिति; तद्यद्रेत आसीत्, तत् तत्र मिथुने, यद्रेत आसीत्, प्रथमशरीरिणः प्रजापतेरुत्पत्तौ कारणं रेतो बीजं ज्ञानकर्मरूपम्, त्रय्यालोचनायां यद्दृष्टवानासीज्जन्मान्तरकृतम्; तद्भावभावितोऽपः सृष्ट्वा तेन रेतसा बीजेनाप्स्वनुप्रविश्याण्डरूपेण गर्भीभूतः सः, संवत्सरोऽभवत्, संवत्सरकालनिर्माता संवत्सरः, प्रजापतिरभवत्। न ह, पुरा पूर्वम्, ततः तस्मात्संवत्सरकालनिर्मातुः प्रजापतेः, संवत्सरः कालो नाम, न आस न बभूव ह; तं संवत्सरकालनिर्मातारमन्तर्गर्भं प्रजापतिम्, यावानिह प्रसिद्धः कालः एतावन्तम् एतावत्संवत्सरपरिमाणं कालम् अबिभः भृतवान् मृत्युः। यावान्संवत्सरः इह प्रसिद्धः, ततः परस्तात्किं कृतवान्? तम्, एतावतः कालस्य संवत्सरमात्रस्य परस्तात् ऊर्ध्वम् असृजत सृष्टवान्, अण्डमभिनदित्यर्थः। तम् एवं कुमारं जातम् अग्निं प्रथमशरीरिणम्, अशनायावत्त्वान्मृत्युः अभिव्याददात् मुखविदारणं कृतवान् अत्तुम्; च कुमारो भीतः स्वाभाविक्याविद्यया युक्तः भाण् इत्येवं शब्दम् अकरोत्; सैव वागभवत्, वाक् शब्दः अभवत्॥
🔗  स ऐक्षत – सः, एवं भीतं कृतरवं कुमारं दृष्ट्वा, मृत्युः ऐक्षत ईक्षितवान्, अशनायावानपि – यदि कदाचिद् वा इमं कुमारम् अभिमंस्ये, अभिपूर्वो मन्यतिर्हिंसार्थः, हिंसिष्ये इत्यर्थः; कनीयोऽन्नं करिष्ये, कनीयः अल्पमन्नं करिष्ये – इति; एवमीक्षित्वा तद्भक्षणादुपरराम; बहु ह्यन्नं कर्तव्यं दीर्घकालभक्षणाय, न कनीयः; तद्भक्षणे हि कनीयोऽन्नं स्यात्, बीजभक्षणे इव सस्याभावः। सः एवं प्रयोजनमन्नबाहुल्यमालोच्य, तया एव त्रय्या वाचा पूर्वोक्तया, तेन एव च आत्मना मनसा, मिथुनीभावमालोचनमुपगम्योपगम्य, इदं सर्वं स्थावरं जङ्गमं च असृजत, यदिदं किञ्च यत्किञ्चेदम्; किं तत्? ऋचः, यजूंषि, सामानि, छन्दांसि च सप्त गायत्र्यादीनि – स्तोत्रशस्त्रादिकर्माङ्गभूतांस्त्रिविधान्मन्त्रान्गायत्र्यादिच्छन्दोविशिष्टान्, यज्ञान् च तत्साध्यान्, प्रजाः तत्कर्त्रीः, पशून् च ग्राम्यानारण्यान्कर्मसाधनभूतान्। ननु त्रय्या मिथुनीभूतयासृजतेत्युक्तम्; ऋगादीनीह कथमसृजतेति? नैष दोषः; मनसस्त्वव्यक्तोऽयं मिथुनीभावस्त्रय्या; बाह्यस्तु ऋगादीनां विद्यमानानामेव कर्मसु विनियोगभावेन व्यक्तीभावः सर्ग इति। सः प्रजापतिः, एवमन्नवृद्धिं बुद्ध्वा, यद्यदेव क्रियां क्रियासाधनं फलं वा किञ्चित् असृजत, तत्तदत्तुं भक्षयितुम् अध्रियत धृतवान्मनः; सर्वं कृत्स्नं वै यस्मात् अत्ति, तत् तस्मात् अदितेः अदितिनाम्नो मृत्योः अदितित्वं प्रसिद्धम्; तथा च मन्त्रः – ‘अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता’ (ऋ. १-५९-१०) इत्यादिः; सर्वस्यैतस्य जगतोऽन्नभूतस्य अत्ता सर्वात्मनैव भवति, अन्यथा विरोधात्; न हि कश्चित्सर्वस्यैकोऽत्ता दृश्यते; तस्मात्सर्वात्मा भवतीत्यर्थः; सर्वमस्यान्नं भवति; अत एव सर्वात्मनो ह्यत्तुः सर्वमन्नं भवतीत्युपपद्यते; य एवमेतत् यथोक्तम् अदितेः मृत्योः प्रजापतेः सर्वस्याद् अनाददितित्वं वेद, तस्यैतत्फलम्॥॥
🔗  सोऽकामयत इत्यश्वाश्वमेधयोर्निर्वचनार्थमिदमाह। भूयसा महता यज्ञेन भूयः पुनरपि यजेयेति; जन्मान्तरकरणापेक्षया भूयःशब्दः; स प्रजापतिर्जन्मान्तरेऽश्वमेधेनायजत; स तद्भावभावित एव कल्पादौ व्यवर्तत; सोऽश्वमेधक्रियाकारकफलात्मत्वेन निर्वृत्तः सन्नकामयत – भूयसा यज्ञेन भूयो यजेयेति। एवं महत्कार्यं कामयित्वा लोकवद् अश्राम्यत्; स तपोऽतप्यत; तस्य श्रान्तस्य तप्तस्य इति पूर्ववत्; यशो वीर्यमुदक्रामत् इति स्वयमेव पदार्थमाह – प्राणाः चक्षुरादयो वै यशः, यशोहेतुत्वात्, तेषु हि सत्सु ख्यातिर्भवति; तथा वीर्यं बलम् अस्मिञ्शरीरे; न ह्युत्क्रान्तप्राणो यशस्वी बलवान्वा भवति; तस्मात्प्राणा एव यशो वीर्यं चास्मिञ्शरीरे, तदेवं प्राणलक्षणं यशो वीर्यम् उदक्रामत् उत्क्रान्तवत्। तद् एवं यशोवीर्यभूतेषु प्राणेषूत्क्रान्तेषु, शरीरान्निष्क्रान्तेषु तत् शरीरं प्रजापतेः श्वयितुम् उच्छूनभावं गन्तुम् अध्रियत, अमेध्यं चाभवत्; तस्य प्रजापतेः, शरीरान्निर्गतस्यापि, तस्मिन् एव शरीरे मन आसीत्; यथा कस्यचित्प्रिये विषये दूरं गतस्यापि मनो भवति, तद्वत्॥
🔗  स तस्मिन्नेव शरीरे गतमनाः सन्किमकरोदिति, उच्यते –
सोऽकामयत। कथम्? मेध्यं मेधार्हं यज्ञियं मे मम इदं शरीरम् स्यात्; किञ्च आत्मन्वी आत्मवांश्च अनेन शरीरेण शरीरवान् स्यामिति – प्रविवेश। यस्मात्, तच्छरीरं तद्वियोगाद्गतयशोवीर्यं सत् अश्वत् अश्वयत्, ततः तस्मात् अश्वः समभवत्; ततोऽश्वनामा प्रजापतिरेव साक्षादिति स्तूयते; यस्माच्च पुनस्तत्प्रवेशात् गतयशोवीर्यत्वादमेध्यं सत् मेध्यमभूत्, तदेव तस्मादेव अश्वमेधस्य अश्वमेधनाम्नः क्रतोः अश्वमेधत्वम् अश्वमेधनामलाभः; क्रियाकारकफलात्मको हि क्रतुः; स च प्रजापतिरेवेति स्तूयते।
क्रतुनिर्वर्तकस्याश्वस्य प्रजापतित्वमुक्तम् – ‘उषा वा अश्वस्य मेध्यस्य’ (BrhU.1.1.1) इत्यादिना। तस्यैवाश्वस्य मेध्यस्य प्रजापतिस्वरूपस्य अग्नेश्च यथोक्तस्य क्रतुफलात्मरूपतया समस्योपासनं विधातव्यमित्यारभ्यते। पूर्वत्र क्रियापदस्य विधायकस्याश्रुतत्वात्, क्रियापदापेक्षत्वाच्च प्रकरणस्य, अयमर्थोऽवगम्यते। एष ह वा अश्वमेधं क्रतुं वेद य एनमेवं वेद – यः कश्चित्, एनम् अश्वमग्निरूपमर्कं च यथोक्तम्, एवं वक्ष्यमाणेन समासेन प्रदर्श्यमानेन विशेषणेन विशिष्टं वेद, स एषोऽश्वमेधं वेद, नान्यः; तस्मादेवं वेदितव्य इत्यर्थः। कथम्? तत्र पशुविषयमेव तावद्दर्शनमाह। तत्र प्रजापतिः ‘भूयसा यज्ञेन भूयो यजेय’ इति कामयित्वा, आत्मानमेव पशुं मेध्यं कल्पयित्वा, तं पशुम्, अनवरुध्यैव उत्सृष्टं पशुमवरोधमकृत्वैव मुक्तप्रग्रहम्, अमन्यत अचिन्तयत्। तं संवत्सरस्य पूर्णस्य परस्तात् ऊर्ध्वम् आत्मने आत्मार्थम् आलभत – प्रजापतिदेवताकत्वेनेत्येतत् – आलभत आलम्भं कृतवान्। पशून् अन्यान्ग्राम्यानारण्यांश्च देवताभ्यः यथादैवतं प्रत्यौहत् प्रतिगमितवान्। यस्माच्चैवं प्रजापतिरमन्यत, तस्मादेवमन्योऽप्युक्तेन विधिना आत्मानं पशुमश्वं मेध्यं कल्पयित्वा, ‘सर्वदेवत्योऽहं प्रोक्ष्यमाणः’ आलभ्यमानस्त्वहं मद्देवत्य एव स्याम्; अन्य इतरे पशवो ग्राम्यारण्या यथादैवतमन्याभ्यो देवताभ्य आलभ्यन्ते मदवयवभूताभ्य एव’ इति विद्यात्। अत एवेदानीं सर्वदेवत्यं प्रोक्षितं प्राजापत्यमालभन्ते याज्ञिका एवम्। एष ह वा अश्वमेधो य एष तपति, यस्त्वेवं पशुसाधनकः क्रतुः स एष साक्षात्फलभूतो निर्दिश्यते, एष ह वा अश्वमेधः; कोऽसौ? य एषः सविता तपति जगदवभासयति तेजसा; तस्य अस्य क्रतुफलात्मनः, संवत्सरः कालविशेषः, आत्मा शरीरम्, तन्निर्वर्त्यत्वात्संवत्सरस्य; तस्यैव क्रत्वात्मनः अयं पार्थिवोऽग्निः, अर्कः, साधनभूतः; तस्य चार्कस्य क्रतौ चित्यस्य, इमे लोकाः त्रयोऽपि, आत्मानः शरीरावयवाः; तथा च व्याख्यातम् – ‘तस्य प्राची दिक्’ इत्यादिना; तौ अग्न्यादित्यौ एतौ यथाविशेषितौ अर्काश्वमेधौ क्रतुफले; अर्को यः पार्थिवोऽग्निः स साक्षात्क्रतुरूपः क्रियात्मकः; क्रतोरग्निसाध्यत्वात्तद्रूपेणैव निर्देशः; क्रतुसाध्यत्वाच्च फलस्य क्रतुरूपेणैव निर्देशः – आदित्योऽश्वमेध इति। तौ साध्यसाधनौ क्रतुफलभूतावग्न्यादित्यौ – सा उ, पुनः भूयः, एकैव देवता भवति; का सा? मृत्युरेव; पूर्वमप्येकैवासीत्क्रियासाधनफलभेदाय विभक्ता; तथा चोक्तम् ‘स त्रेधात्मानं व्यकुरुत’ इति; सा पुनरपि क्रियानिर्वृत्त्युत्तरकालमेकैव देवता भवति – मृत्युरेव फलरूपः; यः पुनरेवमेनमश्वमेधं मृत्युमेकां देवतां वेद – अहमेव मृत्युरस्म्यश्वमेध एका देवता मद्रूपाश्वाग्निसाधनसाध्येति; सोऽपजयति, पुनर्मृत्युं पुनर्मरणम्, सकृन्मृत्वा पुनर्मरणाय न जायत इत्यर्थः; अपजितोऽपि मृत्युरेनं पुनराप्नुयादित्याशङ्क्याह – नैनं मृत्युराप्नोति; कस्मात्? मृत्युः, अस्य एवंविदः, आत्मा भवति; किञ्च मृत्युरेव फलरूपः सन् एतासां देवतानामेको भवति; तस्यैतत्फलम्॥

Go to Top ('Home' key on many Windows browsers)

BrhU.1.03

🔗  ‘द्वया ह’ इत्याद्यस्य कः सम्बन्धः? कर्मणां ज्ञानसहितानां परा गतिरुक्ता मृत्य्वात्मभावः, अश्वमेधगत्युक्त्या। अथेदानीं मृत्य्वात्मभावसाधनभूतयोः कर्मज्ञानयोर्यत उद्भवः, तत्प्रकाशनार्थमुद्गीथब्राह्मणमारभ्यते।
ननु मृत्य्वात्मभावः पूर्वत्र ज्ञानकर्मणोः फलमुक्तम्। उद्गीथज्ञानकर्मणोस्तु मृत्य्वात्मभावातिक्रमणं फलं वक्ष्यति। अतो भिन्नविषयत्वात्फलस्य न पूर्वकर्मज्ञानोद्भवप्रकाशनार्थम् इति चेत्, नायं दोषः; अग्न्यादित्यात्मभावत्वादुद्गीथफलस्य; पूर्वत्राप्येतदेव फलमुक्तम् – ‘एतासां देवतानामेको भवति’ इति। ननु ‘मृत्युमतिक्रान्तः’ इत्यादि विरुद्धम्; न, स्वाभाविकपाप्मासङ्गविषयत्वादतिक्रमणस्य।
कोऽसौ स्वाभाविकः पाप्मासङ्गो मृत्युः? कुतो वा तस्योद्भवः? केन वा तस्यातिक्रमणम्? कथं वा? – इत्येतस्यार्थस्य प्रकाशनाय आख्यायिका आरभ्यते। कथम्? –

द्वया द्विप्रकाराः; इति पूर्ववृत्तावद्योतको निपातः; वर्तमानप्रजापतेः पूर्वजन्मनि यद्वृत्तम्, तदवद्योतयति ह-शब्देन; प्राजापत्याः प्रजापतेर्वृत्तजन्मावस्थस्यापत्यानि प्राजापत्याः; के ते? देवाश्चासुराश्च; तस्यैव प्रजापतेः प्राणा वागादयः; कथं पुनस्तेषां देवासुरत्वम्? उच्यते – शास्त्रजनितज्ञानकर्मभाविता द्योतनाद्देवा भवन्ति; त एव स्वाभाविकप्रत्यक्षानुमानजनितदृष्टप्रयोजनकर्मज्ञानभाविता असुराः, स्वेष्वेवासुषु रमणात्, सुरेभ्यो वा देवेभ्योऽन्यत्वात्। यस्माच्च दृष्टप्रयोजनज्ञानकर्मभाविता असुराः, ततः तस्मात्, कानीयसाः, कनीयांस एव कानीयसाः, स्वार्थेऽणि वृद्धिः; कनीयांसोऽल्पा एव देवाः; ज्यायसा असुरा ज्यायांसोऽसुराः; स्वाभाविकी हि कर्मज्ञानप्रवृत्तिर्महत्तरा प्राणानां शास्त्रजनितायाः कर्मज्ञानप्रवृत्तेः, दृष्टप्रयोजनत्वात्; अत एव कनीयस्त्वं देवानाम्, शास्त्रजनितप्रवृत्तेरल्पत्वात्; अत्यन्तयत्नसाध्या हि सा; ते देवाश्चासुराश्च प्रजापतिशरीरस्थाः, एषु लोकेषु निमित्तभूतेषु स्वाभाविकेतरकर्मज्ञानसाध्येषु, अस्पर्धन्त स्पर्धां कृतवन्तः; देवानां चासुराणां च वृत्त्युद्भवाभिभवौ स्पर्धा। कदाचित्छास्त्रजनितकर्मज्ञानभावनारूपावृत्तिः प्राणानामुद्भवति। यदा चोद्भवति, तदा दृष्टप्रयोजना प्रत्यक्षानुमानजनितकर्मज्ञानभावनारूपा तेषामेव प्राणानां वृत्तिरासुर्यभिभूयते। स देवानां जयः, असुराणां पराजयः। कदाचित्तद्विपर्ययेण देवानां वृत्तिरभिभूयते, आसुर्या उद्भवः। सोऽसुराणां जयः, देवानां पराजयः। एवं देवानां जये धर्मभूयस्त्वादुत्कर्ष आ प्रजापतित्वप्राप्तेः। असुरजयेऽधर्मभूयस्त्वादपकर्ष आ स्थावरत्वप्राप्तेः। उभयसाम्ये मनुष्यत्वप्राप्तिः। त एवं कनीयस्त्वादभिभूयमाना असुरैर्देवा बाहूल्यादसुराणां किं कृतवन्त इति, उच्यते – ते देवाः, असुरैरभिभूयमानाः, ह किल, ऊचुः उक्तवन्तः; कथम्? हन्त! इदानीम्, अस्मिन् यज्ञे ज्योतिष्टोमे, उद्गीथेन उद्गीथकर्मपदार्थकर्तृस्वरूपाश्रयणेन, अत्ययाम अतिगच्छामः; असुरान् अभिभूय स्वं देवभावं शास्त्रप्रकाशितं प्रतिपद्यामहे इत्युक्तवन्तोऽन्योन्यम्। उद्गीथकर्मपदार्थकर्तृस्वरूपाश्रयणं च ज्ञानकर्मभ्याम्। कर्म वक्ष्यमाणं मन्त्रजपलक्षणम्, विधित्स्यमानम् – ‘तदेतानि जपेत्’ (BrhU.1.3.28) इति। ज्ञानं त्विदमेव निरूप्यमाणम्।
नन्विदमभ्यारोहजपविधिशेषोऽर्थवादः, न ज्ञाननिरूपणपरम्। न, ‘य एवं वेद’ (BrhU.1.3.7) इति वचनात्। उद्गीथप्रस्तावे पुराकल्पश्रवणादुद्गीथविधिपरमिति चेत्, न, अप्रकरणात्; उद्गीथस्य चान्यत्र विहितत्वात्; विद्याप्रकरणत्वाच्चास्य; अभ्यारोहजपस्य चानित्यत्वात् एवंवित्प्रयोज्यत्वात्, विज्ञानस्य च नित्यवच्छ्रवणात्; ‘तद्धैतल्लोकजिदेव’ (BrhU.1.3.28) इति च श्रुतेः; प्राणस्य वागादीनां च शुद्ध्यशुद्धिवचनात्; न ह्यनुपास्यत्वे – प्राणस्य शुद्धिवचनम्, वागादीनां च सहोपन्यस्तानामशुद्धिवचनम्, वागादिनिन्दया मुख्यप्राणस्तुतिश्चाभिप्रेता, – उपपद्यते – ‘मृत्युमतिक्रान्तो दीप्यते’ (BrhU.1.3.27) इत्यादि फलवचनं च। प्राणस्वरूपापत्तेर्हि फलं तत्, यद्वागाद्यग्न्यादिभावः।
भवतु नाम प्राणस्योपासनम्, न तु विशुद्ध्यादिगुणवत्तेति; ननु स्याच्छ्रुतत्वात्; न स्यात्, उपास्यत्वे स्तुत्यर्थत्वोपपत्तेः। न; अविपरीतार्थप्रतिपत्तेः श्रेयःप्राप्त्युपपत्तेः, लोकवत्। यो ह्यविपरीतमर्थं प्रतिपद्यते लोके, स इष्टं प्राप्नोत्यनिष्टाद्वा निवर्तते, न विपरीतार्थप्रतिपत्त्या; तथेहापि श्रौतशब्दजनितार्थप्रतिपत्तौ श्रेयःप्राप्तिरुपपन्ना, न विपर्यये। न चोपासनार्थश्रुतशब्दोत्थविज्ञानविषयस्यायथार्थत्वे प्रमाणमस्ति। न च तद्विज्ञानस्यापवादः श्रूयते। ततः श्रेयःप्राप्तिदर्शनाद्यथार्थतां प्रतिपद्यामहे। विपर्यये चानर्थप्राप्तिदर्शनात् – यो हि विपर्ययेणार्थं प्रतिपद्यते लोके – पुरुषं स्थाणुरिति, अमित्रं मित्रमिति वा, सोऽनर्थं प्राप्नुवन्दृश्यते। आत्मेश्वरदेवतादीनामप्ययथार्थानामेव चेद्ग्रहणं श्रुतितः, अनर्थप्राप्त्यर्थं शास्त्रमिति ध्रुवं प्राप्नुयाल्लोकवदेव; न चैतदिष्टम्। तस्माद्यथाभूतानेवात्मेश्वरदेवतादीन्ग्राहयत्युपासनार्थं शास्त्रम्। नामादौ ब्रह्मदृष्टिदर्शनादयुक्तमिति चेत्, स्फुटं नामादेरब्रह्मत्वम्; तत्र ब्रह्मदृष्टिं स्थाण्वादाविव पुरुषदृष्टिं विपरीतां ग्राहयच्छास्त्रं दृश्यते; तस्माद्यथार्थमेव शास्त्रतः प्रतिपत्तेः श्रेय इत्ययुक्तमिति चेत्, न; प्रतिमावद्भेदप्रतिपत्तेः। नामादावब्रह्मणि ब्रह्मदृष्टिं विपरीतां ग्राहयति शास्त्रम्, स्थाण्वादाविव पुरुषदृष्टिम् – इति नैतत्साध्ववोचः। कस्मात्? भेदेन हि ब्रह्मणो नामादिवस्तु प्रतिपन्नस्य नामादौ विधीयते ब्रह्मदृष्टिः, प्रतिमादाविव विष्णुदृष्टिः। आलम्बनत्वेन हि नामादिप्रतिपत्तिः, प्रतिमादिवदेव, न तु नामाद्येव ब्रह्मेति। यथा स्थाणावनिर्ज्ञाते, न स्थाणुरिति, पुरुष एवायमिति प्रतिपद्यते विपरीतम्, न तु तथा नामादौ ब्रह्मदृष्टिर्विपरीता।
ब्रह्मदृष्टिरेव केवला, नास्ति ब्रह्मेति चेत्; – एतेन प्रतिमाब्राह्मणादिषु विष्ण्वादिदेवपित्रादिदृष्टीनां तुल्यता – न, ऋगादिषु पृथिव्यादिदृष्टिदर्शनात्, विद्यमानपृथिव्यादिवस्तुदृष्टीनामेव ऋगादिविषये प्रक्षेपदर्शनात्। तस्मात्तत्सामान्यान्नामादिषु ब्रह्मादिदृष्टीनां विद्यमानब्रह्मादिविषयत्वसिद्धिः। एतेन प्रतिमाब्राह्मणादिषु विष्ण्वादिदेवपित्रादिबुद्धीनां च सत्यवस्तुविषयत्वसिद्धिः। मुख्यापेक्षत्वाच्च गौणत्वस्य; पञ्चाग्न्यादिषु चाग्नित्वादेर्गौणत्वान्मुख्याग्न्यादिसद्भाववत्, नामादिषु ब्रह्मत्वस्य गौणत्वान्मुख्यब्रह्मसद्भावोपपत्तिः।
क्रियार्थैश्चाविशेषाद्विद्यार्थानाम्। यथा च, दर्शपूर्णमासादिक्रिया इदंफला विशिष्टेतिकर्तव्यताका एवङ्क्रमप्रयुक्ताङ्गा च – इत्येतदलौकिकं वस्तु प्रत्यक्षाद्यविषयं तथाभूतं च वेदवाक्यैरेव ज्ञाप्यते; तथा, परमात्मेश्वरदेवतादिवस्तु अस्थूलादिधर्मकमशनायाद्यतीतं चेत्येवमादिविशिष्टमिति वेदवाक्यैरेव ज्ञाप्यते – इति अलौकिकत्वात्तथाभूतमेव भवितुमर्हतीति। न च क्रियार्थैर्वाक्यैर्ज्ञानवाक्यानांु बुद्ध्युत्पादकत्वे विशेषोऽस्ति। न चानिश्चिता विपर्यस्ता वा परमात्मादिवस्तुविषया बुद्धिरुत्पद्यते। अनुष्ठेयाभावादयुक्तमिति चेत्, क्रियार्थैर्वाक्यैः त्र्यंशा भावनानुष्ठेया ज्ञाप्यतेऽलौकिक्यपि; न तथा परमात्मेश्वरादिविज्ञानेऽनुष्ठेयं किञ्चिदस्ति; अतः क्रियार्थैः साधर्म्यमित्ययुक्तमिति चेत्, न; ज्ञानस्य तथाभूतार्थविषयत्वात्। न ह्यनुष्ठेयस्य त्र्यंशस्य भावनाख्यस्यानुष्ठेयत्वात्तथात्वम्; किं तर्हि? प्रमाणसमधिगतत्वात्। न च तद्विषयाया बुद्धेरनुष्ठेयविषयत्वात्तथार्थत्वम्; किं तर्हि? वेदवाक्यजनितत्वादेव। वेदवाक्याधिगतस्य वस्तुनस्तथात्वे सति, अनुष्ठेयत्वविशिष्टं चेत् अनुतिष्ठति; नो चेदनुष्ठेयत्वविशिष्टम्, नानुतिष्ठति। अननुष्ठेयत्वे वाक्यप्रमाणत्वानुपपत्तिरिति चेत्, न ह्यनुष्ठेयेऽसति पदानां संहतिरुपपद्यते; अनुष्ठेयत्वे तु सति तादर्थ्येन पदानि संहन्यन्ते; तत्रानुष्ठेयनिष्ठं वाक्यं प्रमाणं भवति – इदमनेनैवं कर्तव्यमिति; न त्विदमनेनैवमित्येवम्प्रकाराणां पदशतानामपि वाक्यत्वमस्ति, – ‘कुर्यात्क्रियेत कर्तव्यं भवेत्स्यादिति पञ्चमम्’ इत्येवमादीनामन्यतमेऽसति; अतः परमात्मेश्वरादीनामवाक्यप्रमाणत्वम्; पदार्थत्वे च प्रमाणान्तरविषयत्वम्; अतोऽसदेतदिति चेत्, न; ‘अस्ति मेरुर्वर्णचतुष्टयोपेतः’ इति एवमाद्यननुष्ठेयेऽपि वाक्यदर्शनात्। न च, ‘मेरुर्वर्णचतुष्टयोपेतः’ इत्येवमादिवाक्यश्रवणे मेर्वादावनुष्ठेयत्वबुद्धिरुत्पद्यते। तथा अस्तिपदसहितानां परमात्मेश्वरादिप्रतिपादकवाक्यपदानां विशेषणविशेष्यभावेन संहतिः केन वार्यते। मेर्वादिज्ञानवत्परमात्मज्ञाने प्रयोजनाभावादयुक्तमिति चेत्, न; ‘ब्रह्मविदाप्नोति परम्’ (TaitU.2.1.1) ‘भिद्यते हृदयग्रन्थि’ (MunU.2.2.8) इति फलश्रवणात्, संसारबीजाविद्यादिदोषनिवृत्तिदर्शनाच्च। अनन्यशेषत्वाच्च तज्ज्ञानस्य, जुह्वामिव, फलश्रुतेरर्थवादत्वानुपपत्तिः।
प्रतिषिद्धानिष्टफलसम्बन्धश्च वेदादेव विज्ञायते। न चानुष्ठेयः सः। न च प्रतिषिद्धविषये प्रवृत्तक्रियस्य अकरणादन्यदनुष्ठेयमस्ति। अकर्तव्यताज्ञाननिष्ठतैव हि परमार्थतः प्रतिषेधविधीनां स्यात्। क्षुधार्तस्य प्रतिषेधज्ञानसंस्कृतस्य, अभक्ष्येऽभोज्ये वा प्रत्युपस्थिते कलञ्जाभिशस्तान्नादौ ‘इदं भक्ष्यम्’ ‘अदो भोज्यम्’ इति वा ज्ञानमुत्पन्नम्, तद्विषयया प्रतिषेधज्ञानस्मृत्या बाध्यते; मृगतृष्णिकायामिव पेयज्ञानं तद्विषययाथात्म्यविज्ञानेन। तस्मिन्बाधिते स्वाभाविकविपरीतज्ञानेऽनर्थकरी तद्भक्षणभोजनप्रवृत्तिर्न भवति। विपरीतज्ञाननिमित्तायाः प्रवृत्तेर्निवृत्तिरेव, न पुनर्यत्नः कार्यस्तदभावे। तस्मात्प्रतिषेधविधीनां वस्तुयाथात्म्यज्ञाननिष्ठतैव, न पुरुषव्यापारनिष्ठतागन्धोऽप्यस्ति। तथेहापि परमात्मादियाथात्म्यज्ञानविधीनां तावन्मात्रपर्यवसानतैव स्यात्। तथा तद्विज्ञानसंस्कृतस्य, तद्विपरीतार्थज्ञाननिमित्तानां प्रवृत्तीनाम्, अनर्थार्थत्वेन ज्ञायमानत्वात् परमात्मादियाथात्म्यज्ञानस्मृत्या स्वाभाविके तन्निमित्तविज्ञाने बाधिते, अभावः स्यात्। ननु कलञ्जादिभक्षणादेरनर्थार्थत्ववस्तुयाथात्म्यज्ञानस्मृत्या स्वाभाविके तद्भक्ष्यत्वादिविपरीतज्ञाने निवर्तिते तद्भक्षणाद्यनर्थप्रवृत्त्यभाववत्, अप्रतिषेधविषयत्वाच्छास्त्रविहितप्रवृत्त्यभावो न युक्त इति चेत्, न; विपरीतज्ञाननिमित्तत्वानर्थार्थत्वाभ्यां तुल्यत्वात्। कलञ्जभक्षणादिप्रवृत्तेर्मिथ्याज्ञाननिमित्तत्वमनर्थार्थत्वं च यथा, तथा शास्त्रविहितप्रवृत्तीनामपि। तस्मात्परमात्मयाथात्म्यविज्ञानवतः शास्त्रविहितप्रवृत्तीनामपि, मिथ्याज्ञाननिमित्तत्वेनानर्थार्थत्वेन च तुल्यत्वात्, परमात्मज्ञानेन विपरीतज्ञाने निवर्तिते, युक्त एवाभावः। ननु तत्र युक्तः; नित्यानां तु केवलशास्त्रनिमित्तत्वादनर्थार्थत्वाभावाच्च अभावो न युक्त इति चेत्, न; अविद्यारागद्वेषादिदोषवतो विहितत्वात्। यथा स्वर्गकामादिदोषवतो दर्शपूर्णमासादीनि काम्यानि कर्माणि विहितानि, तथा सर्वानर्थबीजाविद्यादिदोषवतस्तज्जनितेष्टानिष्टप्राप्तिपरिहाररागद्वेषादिदोषवतश्च तत्प्रेरिताविशेषप्रवृत्तेरिष्टानिष्टप्राप्तिपरिहारार्थिनो नित्यानि कर्माणि विधीयन्ते; न केवलं शास्त्रनिमित्तान्येव। न चाग्निहोत्रदर्शपूर्णमासचातुर्मास्यपशुबन्धसोमानां कर्मणां स्वतः काम्यनित्यत्वविवेकोऽस्ति। कर्तृगतेन हि स्वर्गादिकामदोषेण कामार्थता; तथा अविद्यादिदोषवतः स्वभावप्राप्तेष्टानिष्टप्राप्तिपरिहारार्थिनस्तदर्थान्येव नित्यानि – इति युक्तम्; तं प्रति विहितत्वात्। न परमात्मयाथात्म्यविज्ञानवतः शमोपायव्यतिरेकेण किञ्चित्कर्म विहितमुपलभ्यते। कर्मनिमित्तदेवतादिसर्वसाधनविज्ञानोपमर्देन ह्यात्मज्ञानं विधीयते। न चोपमर्दितक्रियाकारकादिविज्ञानस्य कर्मप्रवृत्तिरुपपद्यते, विशिष्टक्रियासाधनादिज्ञानपूर्वकत्वात्क्रियाप्रवृत्तेः। न हि देशकालाद्यनवच्छिन्नास्थूलाद्वयादिब्रह्मप्रत्ययधारिणः कर्मावसरोऽस्ति। भोजनादिप्रवृत्त्यवसरवत्स्यादिति चेत्, न; अविद्यादिकेवलदोषनिमित्तत्वाद्भोजनादिप्रवृत्तेरावश्यकत्वानुपपत्तेः। न तु, तथा अनियतं कदाचित्क्रियते कदाचिन्न क्रियते चेति, नित्यं कर्मोपपद्यते। केवलदोषनिमित्तत्वात्तु भोजनादिकर्मणोऽनियतत्वं स्यात्, दोषोद्भवाभिभवयोरनियतत्वात्, कामानामिव काम्येषु। शास्त्रनिमित्तकालाद्यपेक्षत्वाच्च नित्यानामनियतत्वानुपपत्तिः; दोषनिमित्तत्वे सत्यपि, यथा काम्याग्निहोत्रस्य शास्त्रविहितत्वात्सायम्प्रातःकालाद्यपेक्षत्वम्, एवम्। तद्भोजनादिप्रवृत्तौ नियमवत्स्यादिति चेत्, न; नियमस्य अक्रियात्वात् क्रियायाश्चाप्रयोजनकत्वात् नासौ ज्ञानस्यापवादकरः। तस्मात्, परमात्मयाथात्म्यज्ञानविधेरपि तद्विपरीतस्थूलद्वैतादिज्ञाननिवर्तकत्वात् सामर्थ्यात्सर्वकर्मप्रतिषेधविध्यर्थत्वं सम्पद्यते कर्मप्रवृत्त्यभावस्य तुल्यत्वात्, यथा प्रतिषेधविषये। तस्मात्, प्रतिषेधविधिवच्च, वस्तुप्रतिपादनं तत्परत्वं च सिद्धं शास्त्रस्य॥
🔗  ते देवाः, एवं विनिश्चित्य, वाचं वागभिमानिनीं देवताम्, ऊचुः उक्तवन्तः; त्वम्, नः अस्मभ्यम्, उद्गाय औद्गात्रं कर्म कुरुष्व; वाग्देवतानिर्वर्त्यमौद्गात्रं कर्म दृष्टवन्तः, तामेव च देवतां जपमन्त्राभिधेयाम् – ‘असतो मा सद्गमय’ इति। अत्र चोपासनायाः कर्मणश्च कर्तृत्वेन वागादय एव विवक्ष्यन्ते। कस्मात्? यस्मात्परमार्थतस्तत्कर्तृकस्तद्विषय एव च सर्वो ज्ञानकर्मसंव्यवहारः। वक्ष्यति हि ‘ध्यायतीव लेलायतीव’ (BrhU.4.3.7) इत्यात्मकर्तृकत्वाभावं विस्तरतः षष्ठे। इहापि च अध्यायान्ते उपसंहरिष्यति अव्याकृतादिक्रियाकारकफलजातम् – ‘त्रयं वा इदं नाम रूपं कर्म’ (BrhU.1.6.1) इति – अविद्याविषयम्। अव्याकृतात्तु यत्परं परमात्माख्यं विद्याविषयम् अनामरूपकर्मात्मकम्, ‘नेति नेति’ (BrhU.2.3.6) इति इतरप्रत्याख्यानेनोपसंहरिष्यति पृथक्। यस्तु वागादिसमाहारोपाधिपरिकल्पितः संसार्यात्मा, तं च वागादिसमाहारपक्षपातिनमेव दर्शयिष्यति – ‘एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति’ (BrhU.2.4.12) इति तस्माद्युक्ता वागादीनामेव ज्ञानकर्मकर्तृत्वफलप्राप्तिविवक्षा। तथेति तथास्त्विति, देवैरुक्ता वाक् तेभ्यः अर्थिभ्यः अर्थाय, उदगायत् उद्गानं कृतवती। कः पुनरसौ देवेभ्योऽर्थायोद्गानकर्मणा वाचा निर्वर्तितः कार्यविशेष इति, उच्यते – यो वाचि – निमित्तभूतायाम् – वागादिसमुदायस्य य उपकारो निष्पद्यते वदनादिव्यापारेण, स एव। सर्वेषां ह्यसौ वाग्वदनाभिनिर्वृत्तो भोगः फलम्। तं भोगं सा त्रिषु पवमानेषु कृत्वा अवशिष्टेषु नवसु स्तोत्रेषु वाचनिकमार्त्विज्यं फलम् – यत्कल्याणं शोभनम्, वदति वर्णानभिनिर्वर्तयति, तत्आत्मने मह्यमेव। तद्ध्यसाधारणं वाग्देवातायाः कर्म, यत्सम्यग्वर्णानामुच्चारणम्; अतस्तदेव विशेष्यते – ‘यत्कल्याणं वदति’ इति। यत्तु वदनकार्यं सर्वसङ्घातोपकारात्मकम्, तद्याजमानमेव। तत्र कल्याणवदनात्मसम्बन्धासङ्गावसरं देवताया रन्ध्रं प्रतिलभ्य ते विदुः असुराः; कथम्? अनेन उद्गात्रा, नः अस्मान्, स्वाभाविकं ज्ञानं कर्म च, अभिभूय अतीत्य, शास्त्रजनितकर्मज्ञानरूपेण ज्योतिषा उद्गात्रात्मना अत्येष्यन्ति अतिगमिष्यन्ति – इत्येवं विज्ञाय, तम् उद्गातारम्, अभिद्रुत्य अभिगम्य, स्वेन आसङ्गलक्षणेन पाप्मना अविध्यन् ताडितवन्तः संयोजितवन्त इत्यर्थः। स यः स पाप्मा – प्रजापतेः पूर्वजन्मावस्थस्य वाचि क्षिप्तः स एष प्रत्यक्षीक्रियते – कोऽसौ? यदेवेदमप्रतिरूपम् अननुरूपं शास्त्रप्रतिषिद्धं वदति, येन प्रयुक्तोऽसभ्यबीभत्सानृताद्यनिच्छन्नपि वदति; अनेन कार्येणाप्रतिरूपवदनेनानुगम्यमानः प्रजापतेः कार्यभूतासु प्रजासु वाचि वर्तते; स एव अप्रतिरूपवदनेनानुमितः, प्रजापतेर्वाचि गतः पाप्मा; कारणानुविधायि हि कार्यमिति॥
🔗  तथैव घ्राणादिदेवता उद्गीथनिर्वर्तकत्वाज्जपमन्त्रप्रकाश्या उपास्याश्चेति क्रमेण परीक्षितवन्तः। देवानां चैतन्निश्चितमासीत् – वागादिदेवताः क्रमेण परीक्ष्यमाणाः कल्याणविषयविशेषात्मसम्बन्धासङ्गहेतोरासुरपाप्मसंसर्गादुद्गीथनिर्वर्तनासमर्थाः; अतोऽनभिधेयाः, ‘असतो मा सद्गमय’ इत्यनुपास्याश्च; अशुद्धत्वादितराव्यापकत्वाच्चेति। एवमु खलु, अनुक्ता अपि एताः त्वगादि-देवताः, कल्याणाकल्याणकार्यदर्शनात्, एवं वागादिवदेव, एनाः, पाप्मना अविध्यन् पाप्मना विद्धवन्त इति यदुक्तं तत् पाप्मभिरुपासृजन् पाप्मभिः संसर्गं कृतवन्त इत्येतत्॥
🔗  वागादिदेवता उपासीना अपि मृत्य्वतिगमनायाशरणाः सन्तो देवाः, क्रमेण –
अथ अनन्तरम्, ह इमम् इत्यभिनयप्रदर्शनार्थम्, आसन्यम् आस्ये भवमासन्यं मुखान्तर्बिलस्थं प्राणमूचुः – ‘त्वं न उद्गायइतितथेति एवं शरणमुपगतेभ्यः स एष प्राणो मुख्य उदगायत् इत्यादि पूर्ववत्। पाप्मना अविव्यत्सन् वेधनं कर्तुमिष्टवन्तः, ते च दोषासंसर्गिणं सन्तं मुख्यं प्राणम्, स्वेन आसङ्गदोषेण वागादिषु लब्धप्रसरास्तदभ्यासानुवृत्त्या, संस्रक्ष्यमाणा विनेशुः विनष्टा विध्वस्ताः; कथमिवेति दृष्टान्त उच्यते – स यथा स दृष्टान्तो यथा – लोके अश्मानं पाषाणम्, ऋत्वा गत्वा प्राप्य, लोष्टः पांसुपिण्डः, पाषाणचूर्णनायाश्मनि निक्षिप्तः स्वयं विध्वंसेत विस्रंसेत विचूर्णीभवेत्; एवं हैव यथायं दृष्टान्त एवमेव, विध्वंसमाना विशेषेण ध्वंसमानाः, विष्वञ्चः नानागतयः, विनेशुः विनष्टाः, यतः; – ततः तस्मादासुरविनाशाद्देवत्वप्रतिबन्धभूतेभ्यः स्वाभाविकासङ्गजनितपाप्मभ्यो वियोगात्, असंसर्गधर्मिमुख्यप्राणाश्रयबलात्, देवाः वागादयः प्रकृताः, अभवन्; किमभवन्? स्वं देवतारूपमग्न्याद्यात्मकं वक्ष्यमाणम्। पूर्वमप्यग्न्याद्यात्मका एव सन्तः स्वाभाविकेन पाप्मना तिरस्कृतविज्ञानाः पिण्डमात्राभिमाना आसन्। ते तत्पाप्मवियोगादुज्झित्वा पिण्डमात्राभिमानं शास्त्रसमर्पितवागाद्यग्न्याद्यात्माभिमाना बभूवुरित्यर्थः। किञ्च ते प्रतिपक्षभूता असुराः पराअभवन् इत्यनुवर्तते; पराभूता विनष्टा इत्यर्थः। यथा पुराकल्पेन वर्णितः पूर्वयजमानोऽतिक्रान्तकालिकः एतामेवाख्यायिकारूपां श्रुतिं दृष्ट्वा, तेनैव क्रमेण वागादिदेवताः परीक्ष्य, ताश्चापोह्यासङ्गपाप्मास्पददोषवत्त्वेनादोषास्पदं मुख्यं प्राणमात्मत्वेनोपगम्य, वागाद्याध्यात्मिकपिण्डमात्रपरिच्छिन्नात्माभिमानं हित्वा, वैराजपिण्डाभिमानं वागाद्यग्न्याद्यात्मविषयं वर्तमानप्रजापतित्वं शास्त्रप्रकाशितं प्रतिपन्नः; तथैवायं यजमानस्तेनैव विधिना भवति प्रजापतिस्वरूपेण आत्मना; परा च, अस्य प्रजापतित्वप्रतिपक्षभूतः पाप्मा द्विषन्भ्रातृव्यः, भवति; – यतोऽद्वेष्टापि भवति कश्चिद्भ्रातृव्यो भरतादितुल्यः; यस्त्विन्द्रियविषयासङ्गजनितः पाप्मा, भ्रातृव्यो द्वेष्टा च, पारमार्थिकात्मस्वरूपतिरस्करणहेतुत्वात् – स च पराभवति विशीर्यते, लोष्टवत्, प्राणपरिष्वङ्गात्। कस्यैतत्फलमित्याह – य एवं वेद, यथोक्तं प्राणमात्मत्वेन प्रतिपद्यते पूर्वयजमानवदित्यर्थः॥
🔗  फलमुपसंहृत्याधुनाख्यायिकारूपमेवाश्रित्याह। कस्माच्च हेतोर्वागादीन्मुक्त्वा मुख्य एव प्राण आत्मत्वेनाश्रयितव्य इति तदुपपत्तिनिरूपणाय, यस्मादयं वागादीनां पिण्डादीनां च साधारण आत्मा – इत्येतमर्थमाख्यायिकया दर्शयन्त्याह श्रुतिः –
ते प्रजापतिप्राणाः, मुख्येन प्राणेन परिप्रापितदेवस्वरूपाः, ह ऊचुः उक्तवन्तः, फलावस्थाः; किमित्याह – क्व नु इति वितर्के; क्व नु कस्मिन्नु, सोऽभूत्; कः? यो नोऽस्मान्, इत्थम् एवम्, असक्त सञ्जितवान् देवभावमात्मत्वेनोपगमितवान्। स्मरन्ति हि लोके केनचिदुपकृता उपकारिणम्; लोकवदेव स्मरन्तो विचारयमाणाः कार्यकरणसङ्घाते आत्मन्येवोपलब्धवन्तः; कथम्? अयमास्येऽन्तरिति – आस्ये मुखे य आकाशस्तस्मिन्, अन्तः, अयं प्रत्यक्षो वर्तत इति। सर्वो हि लोको विचार्याध्यवस्यति; तथा देवाः।
यस्मादयमन्तराकाशे वागाद्यात्मत्वेन विशेषमनाश्रित्य वर्तमान उपलब्धो देवैः, तस्मात् – प्राणोऽयास्यः; विशेषानाश्रयत्वाच्च असक्त सञ्जितवान्वागादीन्; अत एव अङ्गिरसः आत्मा कार्यकरणानाम्; कथमाङ्गिरसः? प्रसिद्धं हि एतत्, अङ्गानां कार्यकरणलक्षणानाम्, रसः सार आत्मेत्यर्थः; कथं पुनरङ्गरसत्वम्? तदपाये शोषप्राप्तेरिति वक्ष्यामः। यस्माच्चायमङ्गरसत्वाद्विशेषानाश्रयत्वाच्च कार्यकरणानां साधारण आत्मा विशुद्धश्च, तस्माद्वागादीनपास्य प्राण एवात्मत्वेनाश्रयितव्य इति वाक्यार्थः। आत्मा ह्यात्मत्वेनोपगन्तव्यः; अविपरीतबोधाच्छ्रेयःप्राप्तेः, विपर्यये चानिष्टाप्राप्तिदर्शनात्॥
🔗  स्यान्मतं प्राणस्य विशुद्धिरसिद्धेति; ननु परिहृतमेतद्वागादीनां कल्याणवदनाद्यासङ्गवत्प्राणस्यासङ्गास्पदाभावेन; बाढम्; किं त्वाङ्गिरसत्वेन वागादीनामात्मत्वोक्त्या वागादिद्वारेण शवस्पृष्टितत्स्पृष्टेरिवाशुद्धता शङ्क्यत इति। आह – शुद्ध एव प्राणः; कुतः? सा वा एषा देवता दूर्नाम – यं प्राणं प्राप्याश्मानमिव लोष्टवद्विध्वस्ता असुराः; तं परामृशति – सेति; सैवैषा, येयं वर्तमानयजमानशरीरस्था देवैर्निर्धारिता ‘अयमास्येऽन्तः’ इति; देवता च सा स्यात्, उपासनक्रियायाः कर्मभावेन गुणभूतत्वात्; यस्मात्सा दूर्नाम दूरित्येवं ख्याता – नामशब्दः ख्यापनपर्यायः – तस्मात्प्रसिद्धास्या विशुद्धिः, दूर्नामत्वात्; कुतः पुनर्दूर्नामत्वमित्याह – दूरं दूरे, हि यस्मात्, अस्याः प्राणदेवतायाः, मृत्युः आसङ्गलक्षणः पाप्मा; असंश्लेषधर्मित्वात्प्राणस्य समीपस्थस्यापि दूरता मृत्योः; तस्माद्दूरित्येवं ख्यातिः; एवं प्राणस्य विशुद्धिर्ज्ञापिता। विदुषः फलमुच्यते – दूरं ह वा अस्मान्मृत्युर्भवति – अस्मादेवंविदः, य एवं वेद तस्मात्, एवमिति – प्रकृतं विशुद्धिगुणोपेतं प्राणमुपास्त इत्यर्थः। उपासनं नाम उपास्यार्थवादे यथा देवतादिस्वरूपं श्रुत्या ज्ञाप्यते तथा मनसोपगम्य, आसनं चिन्तनम्, लौकिकप्रत्ययाव्यवधानेन, यावत् तद्देवतादिस्वरूपात्माभिमानाभिव्यक्तिरिति लौकिकात्माभिमानवत्; – ‘देवो भूत्वा देवानप्येति’ (BrhU.4.1.2) ‘किन्देवतोऽस्यां प्राच्यां दिश्यसि’ (BrhU.3.9.20) इत्येवमादिश्रुतिभ्यः॥
🔗  ‘सा वा एषा देवता...दूरं ह वा अस्मान्मृत्युर्भवति’ इत्युक्तम्; कथं पुनरेवंविदो दूरं मृत्युर्भवतीति? उच्यते – एवंवित्त्वविरोधात्; इन्द्रियविषयसंसर्गासङ्गजो हि पाप्मा प्राणात्माभिमानिनो हि विरुध्यते, वागादिविशेषात्माभिमानहेतुत्वात्स्वाभाविकाज्ञानहेतुत्वाच्च; शास्त्रजनितो हि प्राणात्माभिमानः; तस्मात् एवंविदः पाप्मा दूरं भवतीति युक्तम्, विरोधात्; – तदेतत्प्रदर्शयति –
सा वा एषा देवता इत्युक्तार्थम्। एतासां वागादीनां देवतानाम्, पाप्मानं मृत्युम् – स्वाभाविकाज्ञानप्रयुक्तेन्द्रियविषयसंसर्गासङ्गजनितेन हि पाप्मना सर्वो म्रियते, स ह्यतो मृत्युः – तम्, प्राणात्माभिमानरूपाभ्यो देवताभ्यः, अपच्छिद्य अपहत्य, – प्राणात्माभिमानमात्रतयैव प्राणोऽपहन्तेत्युच्यते; विरोधादेव तु पाप्मैवंविदो दूरं गतो भवति; किं पुनश्चकार देवतानां पाप्मानं मृत्युमपहत्येत्युच्यते – यत्र यस्मिन्, आसां प्राच्यादीनां दिशाम्, अन्तः अवसानम्, तत् तत्र गमयाञ्चकार गमनं कृतवानित्येतत्। ननु नास्ति दिशामन्तः, कथमन्तं गमितवानिति; उच्यते – श्रौतविज्ञानवज्जनावधिनिमित्तकल्पितत्वाद्दिशां तद्विरोधिजनाध्युषित एव देशो दिशामन्तः, देशान्तोऽरण्यमिति यद्वत्; इत्यदोषः। तत् तत्र गमयित्वा, आसां देवतानाम्, पाप्मन इति द्वितीयाबहुवचनम्, विन्यदधात् विविधं न्यग्भावेनादधात्स्थापितवती, प्राणदेवता; प्राणात्माभिमानशून्येष्वन्त्यजनेष्विति सामर्थ्यात्; इन्द्रियसंसर्गजो हि स इति प्राण्याश्रयतावगम्यते। तस्मात् तमन्त्यं जनम्, नेयात् न गच्छेत् सम्भाषणदर्शनादिभिर्न संसृजेत्; तत्संसर्गे पाप्मना संसर्गः कृतः स्यात्; पाप्माश्रयो हि सः; तज्जननिवासं च अन्तं दिगन्तशब्दवाच्यम्, नेयात् – जनशून्यमपि, जनमपि तद्देशवियुक्तम्, इत्यभिप्रायः। नेद् इति परिभयार्थे निपातः; इत्थं जनसंसर्गे, पाप्मानं मृत्युम्, अन्ववायानीति – अनु अव अयानीति अनुगच्छेयमिति; एवं भीतो न जनमन्तं चेयादिति पूर्वेण सम्बन्धः॥
🔗  सा वा एषा देवता – तदेतत्प्राणात्मज्ञानकर्मफलं वागादीनामग्न्याद्यात्मत्वमुच्यते। अथ एना मृत्युमत्यवहत् – यस्मादाध्यात्मिकपरिच्छेदकरः पाप्मा मृत्युः प्राणात्मविज्ञानेनापहतः, तस्मात्स प्राणोऽपहन्ता पाप्मनो मृत्योः; तस्मात्स एव प्राणः, एना वागादिदेवताः, प्रकृतं पाप्मानं मृत्युम्, अतीत्य अवहत् प्रापयत् स्वं स्वमपरिच्छिन्नमग्न्यादिदेवतात्मरूपम्॥
🔗  स वै वाचमेव प्रथमामत्यवहत् – प्राणः, वाचमेव, प्रथमां प्रधानामित्येतत् – उद्गीथकर्मणीतरकरणापेक्षया साधकतमत्वं प्राधान्यं तस्याः – तां प्रथमाम् अत्यवहत् वहनं कृतवान्। तस्याः पुनर्मृत्युमतीत्योढायाः किं रूपमित्युच्यते – सा वाक्, यदा यस्मिन्काले, पाप्मानं मृत्युम्, अत्यमुच्यत अतीत्यामुच्यत मोचिता स्वयमेव, तदा सः अग्निः अभवत् – सा वाक् – पूर्वमप्यग्निरेव सती मृत्युवियोगेऽप्यग्निरेवाभवत्। एतावांस्तु विशेषो मृत्युवियोगे – सोऽयमतिक्रान्तोऽग्निः, परेण मृत्युं परस्तान्मृत्योः, दीप्यते; प्राङ्मोक्षान्मृत्युप्रतिबद्धोऽध्यात्मवागात्मना नेदानीमिव दीप्तिमानासीत्; इदानीं तु मृत्युं परेण दीप्यते मृत्युवियोगात्॥
🔗  तथा – प्राणः घ्राणम् – वायुरभवत्; स तु पवते मृत्युं परेणातिक्रान्तः। सर्वमन्यदुक्तार्थम्॥
🔗  तथा चक्षुरादित्योऽभवत्; तु तपति
🔗  तथा श्रोत्रं दिशोऽभवन्; दिशः प्राच्यादिविभागेनावस्थिताः॥
🔗  मनः चन्द्रमाःभाति। यथा पूर्वयजमानं वागाद्यग्न्यादिभावेन मृत्युमत्यवहत्, एवम् एनं वर्तमानयजमानमपि, ह वै, एषा प्राणदेवता मृत्युमतिवहति वागाद्यग्न्यादिभावेन, एवं यो वागादिपञ्चकविशिष्टं प्राणं वेद; ‘तं यथा यथोपासते तदेव भवति’ (शत. १०-५-२-२०) इति श्रुतेः॥
🔗  अथात्मने। यथा वागादिभिरात्मार्थमागानं कृतम्; तथा मुख्योऽपि प्राणः सर्वप्राणसाधारणं प्राजापत्यफलमागानं कृत्वा त्रिषु पवमानेषु, अथ अनन्तरं शिष्टेषु नवसु स्तोत्रेषु, आत्मने आत्मार्थम्, अन्नाद्यम् अन्नं च तदाद्यं च अन्नाद्यम्, आगायत्। कर्तुः कामसंयोगो वाचनिक इत्युक्तम्। कथं पुनस्तदन्नाद्यं प्राणेनात्मार्थमागीतमिति गम्यत इत्यत्र हेतुमाह – यत्किञ्च इति – सामान्यान्नमात्रपरामर्शार्थः; हि इति हेतौ; यस्माल्लोके प्राणिभिर्यत्किञ्चिद् अन्नमद्यते भक्ष्यते तदनेनैव प्राणेनैव; अन इति प्राणस्याख्या प्रसिद्धा; अनः शब्दः सान्तः शकटवाची, यस्त्वन्यः स्वरान्तः स प्राणपर्यायः; प्राणेनैव तद् अद्यते इत्यर्थः; किञ्च, न केवलं प्राणेनाद्यत एवान्नाद्यम्, तस्मिञ्शरीराकारपरिणतेऽन्नाद्ये इह, प्रतितिष्ठति प्राणः; तस्मात्प्राणेनात्मनः प्रतिष्ठार्थमागीतमन्नाद्यम्। यदपि प्राणेनान्नादनं तदपि प्राणस्य प्रतिष्ठार्थमेवेति न वागादिष्विव कल्याणासङ्गजपाप्मसम्भवः प्राणेऽस्ति॥
🔗  ते देवाः। नन्ववधारणमयुक्तम् ‘प्राणेनैव तदद्यते’ इति, वागादीनामप्यन्ननिमित्तोपकारदर्शनात्; नैष दोषः, प्राणद्वारत्वात्तदुपकारस्य। कथं प्राणद्वारकोऽन्नकृतो वागादीनामुपकार इत्येतमर्थं प्रदर्शयन्नाह – ते वागादयो देवाः, स्वविषयद्योतनाद्देवाः, अब्रुवन् उक्तवन्तो मुख्यं प्राणम् – ‘इदम् एतावत्, नातोऽधिकमस्ति; वा इति स्मरणार्थः; इदं तत् सर्वमेतावद् एव; किम्? यदन्नं प्राणस्थितिकरमद्यते लोके, तत्सर्वम् आत्मने आत्मार्थम्, आगासीः आगीतवानसि आगानेनात्मसात्कृतमित्यर्थः; वयं चान्नमन्तरेण स्थातुं नोत्सहामहे; अतः अनु पश्चात्, नः अस्मान्, अस्मिन् अन्ने आत्मार्थे तवान्ने, आभजस्व आभाजयस्व; णिचोऽश्रवणं छान्दसम्; अस्मांश्चान्नभागिनः कुरु’। इतर आह – ‘ते यूयं यदि अन्नार्थिनः वै, मा माम्, अभिसंविशत समन्ततो मामाभिमुख्येन निविशत’ – इति एवमुक्तवति प्राणे, तथेति एवमिति, तं प्राणं परिसमन्तं परिसमन्तात्, न्यविशन्त निश्चयेनाविशन्त, तं प्राणं परिवेष्ट्य निविष्टवन्त इत्यर्थः। तथा निविष्टानां प्राणानुज्ञया तेषां प्राणेनैवाद्यमानं प्राणस्थितिकरं सदन्नं तृप्तिकरं भवति; न स्वातन्त्र्येणान्नसम्बन्धो वागादीनाम्। तस्माद्युक्तमेवावधारणम् – ‘अनेनैव तदद्यते’ इति। तदेव चाह – तस्मात् यस्मात्प्राणाश्रयतयैव प्राणानुज्ञयाभिसन्निविष्टा वागादिदेवताः तस्मात्, यदन्नम्, अनेन प्राणेन, अत्ति लोकः, तेन अन्नेन, एता वागाद्याः, तृप्यन्ति। वागाद्याश्रयं प्राणं यो वेद – ‘वागादयश्च पञ्च प्राणाश्रयाः’ इति, तमपि एवम्, एवं ह वै, स्वा ज्ञातयः, अभिसंविशन्ति वागादय इव प्राणम्; ज्ञातीनामाश्रयणीयो भवतीत्यभिप्रायः। अभिसन्निविष्टानां च स्वानाम्, प्राणवदेव वागादीनाम्, स्वान्नेन भर्ता भवति; तथा श्रेष्ठः; पुरोऽग्रतः, एता गन्ता, भवति, वागादीनामिव प्राणः; तथा अन्नादोऽनामयावीत्यर्थः; अधिपतिः अधिष्ठाय च पालयिता स्वतन्त्रः पतिः प्राणवदेव वागादीनाम्; य एवं प्राणं वेद तस्यैतद्यथोक्तं फलं भवति। किञ्च य उ हैवंविदं प्राणविदं प्रति, स्वेषु ज्ञातीनां मध्ये, प्रतिः प्रतिकूलः, बुभूषति प्रतिस्पर्धीभवितुमिच्छति, सोऽसुरा इव प्राणप्रतिस्पर्धिनो न हैवालं न पर्याप्तः, भार्येभ्यः भरणीयेभ्यः, भवति, भर्तुमित्यर्थः। अथ पुनः य एव ज्ञातीनां मध्ये एतम् एवंविदं वागादय इव प्राणम्, अनु अनुगतो भवति, यो वा एतम् एवंविदम्, अनु एव अनुवर्तयन्नेव, आत्मीयान् भार्यान् बुभूर्षति भर्तुमिच्छति, यथैव वागादयः प्राणानुवृत्त्यात्मबुभूर्षव आसन्; स हैवालं पर्याप्तः, भार्येभ्यो भरणीयेभ्यः, भवति भर्तुम्, नेतरः स्वतन्त्रः। सर्वमेतत्प्राणगुणविज्ञानफलमुक्तम्।
कार्यकरणानामात्मत्वप्रतिपादनाय प्राणस्याङ्गिरसत्वमुपन्यस्तम् – ‘सोऽयास्य आङ्गिरसः’ इति; ‘अस्माद्धेतोरयमाङ्गिरसः’ इत्याङ्गिरसत्वे हेतुर्नोक्तः; तद्धेतुसिद्ध्यर्थमारभ्यते। तद्धेतुसिद्ध्यायत्तं हि कार्यकरणात्मत्वं प्राणस्य॥
🔗  अनन्तरं च वागादीनां प्राणाधीनतोक्ता; सा च कथमुपपादनीयेत्याह –
सोऽयास्य आङ्गिरसः’ इत्यादि यथोपन्यस्तमेवोपादीयते उत्तरार्थम्। ‘प्राणो वा अङ्गानां रसः’ इत्येवमन्तं वाक्यं यथाव्याख्यातार्थमेव पुनः स्मारयति। कथम्? – प्राणो वा अङ्गानां रस इति। प्राणो हि; हि-शब्दः प्रसिद्धौ; अङ्गानां रसः; प्रसिद्धमेतत्प्राणस्याङ्गरसत्वं न वागादीनाम्; तस्माद्युक्तम् ‘प्राणो वा’ इति स्मारणम्। कथं पुनः प्रसिद्धत्वमित्यत आह – तस्मात्-शब्द उपसंहारार्थं उपरित्वेन सम्बध्यते; यस्माद् यतोऽवयवात्, कस्माद् अनुक्तविशेषात्; यस्मात्कस्मात् यतः कुतश्चिद् , अङ्गात् शरीरावयवादविशेषितात्, प्राणः उत्क्रामति अपसर्पति, तदेव तत्रैव, तद् अङ्गं शुष्यति नीरसं भवति शोषमुपैति। तस्माद् एष हि वा अङ्गानां रस इत्युपसंहारः। अतः कार्यकरणानामात्मा प्राण इत्येतत्सिद्धम्। आत्मापाये हि शोषो मरणं स्यात्। तस्मात्तेन जीवन्ति प्राणिनः सर्वे। तस्मादपास्य वागादीन्प्राण एवोपास्य इति समुदायार्थः॥
🔗  एष उ। न केवलं कार्यकरणयोरेवात्मा प्राणो रूपकर्मभूतयोः; किं तर्हि? ऋग्यजुःसाम्नां नामभूतानामात्मेति सर्वात्मकतया प्राणं स्तुवन्महीकरोत्युपास्यत्वाय –
एष उ एव प्रकृत आङ्गिरसो बृहस्पतिः। कथं बृहस्पतिः इति, उच्यते – वाग्वै बृहती बृहतीच्छन्दः षट्त्रिंशदक्षरा। अनुष्टुप्च वाक्; कथम्? ‘वाग्वा अनुष्टुप्’ (तै. सं. १-३-५) इति श्रुतेः; सा च वागनुष्टुब्बृहत्यां छन्दस्यन्तर्भवति; अतो युक्तम् ‘वाग्वै बृहती’ इति प्रसिद्धवद्वक्तुम्। बृहत्यां च सर्वा ऋचोऽन्तर्भवन्ति, प्राणसंस्तुतत्वात्; ‘प्राणो बृहती’ (ऐ. आ. २-१-६) ‘प्राण ऋच इत्येव विद्यात्’ (ऐ. आ. २-२-२) इति श्रुत्यन्तरात्; वागात्मत्वाच्चर्चां प्राणेऽन्तर्भावः; तत्कथमित्याह – तस्या वाचो बृहत्या ऋचः, एषः प्राणः, पतिः, तस्या निर्वर्तकत्वात्; कौष्ठ्याग्निप्रेरितमारुतनिर्वर्त्या हि ऋक्; पालनाद्वा वाचः पतिः; प्राणेन हि पाल्यते वाक्, अप्राणस्य शब्दोच्चारणसामर्थ्याभावात्; तस्मादु बृहस्पतिः ऋचां प्राण आत्मेत्यर्थः॥
🔗  तथा यजुषाम्। कथम्? एष उ एव ब्रह्मणस्पतिःवाग्वै ब्रह्म – ब्रह्म यजुः; तच्च वाग्विशेष एव। तस्या वाचो यजुषो ब्रह्मणः, एष पतिः; तस्मादु ब्रह्मणस्पतिः – पूर्ववत्।
कथं पुनरेतदवगम्यते बृहतीब्रह्मणोर्‌ऋग्यजुष्ट्वं न पुनरन्यार्थत्वमिति? उच्यते – वाचः अन्ते सामसामानाधिकरण्यनिर्देशात् ‘वाग्वै साम’ इति। तथा च ‘वाग्वै बृहती’ ‘वाग्वै ब्रह्म’ इति च वाक्समानाधिकरणयोर्‌ऋग्यजुष्ट्वं युक्तम्। परिशेषाच्च – साम्न्यभिहिते ऋग्यजुषी एव परिशिष्टे। वाग्विशेषत्वाच्च – वाग्विशेषौ हि ऋग्यजुषी; तस्मात्तयोर्वाचा समानाधिकरणता युक्ता। अविशेषप्रसङ्गाच्च – ‘साम’ ‘उद्गीथः’ इति च स्पष्टं विशेषाभिधानत्वम्, तथा बृहतीब्रह्मशब्दयोरपि विशेषाभिधानत्वं युक्तम्; अन्यथा अनिर्धारितविशेषयोरानर्थक्यापत्तेश्च, विशेषाभिधानस्य वाङ्मात्रत्वे चोभयत्र पौनरुक्त्यात्; ऋग्यजुःसामोद्गीथशब्दानां च श्रुतिष्वेवं क्रमदर्शनात्॥
🔗  एष उ एव साम। कथम्? इत्याह – वाग्वै सा यत्किञ्चित्स्त्रीशब्दाभिधेयं सा वाक्; सर्वस्त्रीशब्दाभिधेयवस्तुविषयो हि सर्वनाम-सा-शब्दः; तथा अम एष प्राणः; सर्वपुंशब्दाभिधेयवस्तुविषयोऽमः-शब्दः; ‘केन मे पौंस्नानि नामान्याप्नोषीति, प्राणेनेति ब्रूयात्; केन मे स्त्रीनामानीति, वाचा’ (कौ. उ. १-७) इति श्रुत्यन्तरात्; वाक्प्राणाभिधानभूतोऽयं सामशब्दः। तथा प्राणनिर्वर्त्यस्वरादिसमुदायमात्रं गीतिः सामशब्देनाभिधीयते; अतो न प्राणवाग्व्यतिरेकेण सामनामास्ति किञ्चित्, स्वरवर्णादेश्च प्राणनिर्वर्त्यत्वात्प्राणतन्त्रत्वाच्च। एष उ एव प्राणः साम। यस्मात् साम सामेति वाक्प्राणात्मकम् – सा चामश्चेति, तत् तस्मात् साम्नो गीतिरूपस्य स्वरादिसमुदायस्य सामत्वं तत् प्रगीतं भुवि।
यत् उ एव समः तुल्यः सर्वेण वक्ष्यमाणेन प्रकारेण, तस्माद् वा सामेत्यनेन सम्बन्धः। वा-शब्दः सामशब्दलाभनिमित्तप्रकारान्तरनिर्देशसामर्थ्यलभ्यः। केन पुनः प्रकारेण प्राणस्य तुल्यत्वमित्युच्यते – समः प्लुषिणा पुत्तिकाशरीरेण, समो मशकेन मशकशरीरेण, समो नागेन हस्तिशरीरेण, सम एभिस्त्रिभिर्लोकैः त्रैलोक्यशरीरेण प्राजापत्येन, समोऽनेन जगद्रूपेण हैरण्यगर्भेण। पुत्तिकादिशरीरेषु गोत्वादिवत्कार्‌त्स्न्येन परिसमाप्त इति समत्वं प्राणस्य, न पुनः शरीरमात्रपरिमाणेनैव; अमूर्तत्वात्सर्वगतत्वाच्च। न च घटप्रासादादिप्रदीपवत्सङ्कोचविकासितया शरीरेषु तावन्मात्रं समत्वम्। ‘त एते सर्व एव समाः सर्वेऽनन्ताः’ (BrhU.1.5.13) इति श्रुतेः। सर्वगतस्य तु शरीरेषु शरीरपरिमाणवृत्तिलाभो न विरुध्यते। एवं समत्वात्सामाख्यं प्राणं वेद यः श्रुतिप्रकाशितमहत्त्वं तस्यैतत्फलम् – अश्नुते व्याप्नोति, साम्नः प्राणस्य, सायुज्यं सयुग्भावं समानदेहेन्द्रियाभिमानत्वम्, सालोक्यं समानलोकतां वा, भावनाविशेषतः, य एवमेतत् यथोक्तं साम प्राणं वेद – आ प्राणात्माभिमानाभिव्यक्तेरुपास्ते इत्यर्थः॥
🔗  एष उ वा उद्गीथः। उद्गीथो नाम सामावयवो भक्तिविशेषः नोद्गानम्; सामाधिकारात्। कथमुद्गीथः प्राणः? प्राणो वा उत्प्राणेन हि यस्माद् इदं सर्वं जगत् उत्तब्धम् ऊर्ध्वं स्तब्धमुत्तम्भितं विधृतमित्यर्थः; उत्तब्धार्थावद्योतकोऽयमुच्छब्दः प्राणगुणाभिधायकः; तस्मादुत् प्राणः; वागेव गीथा, शब्दविशेषत्वादुद्गीथभक्तेः; गायतेः शब्दार्थत्वात्सा वागेव; न ह्युद्गीथभक्तेः शब्दव्यतिरेकेण किञ्चिद्रूपमुत्प्रेक्ष्यते, तस्माद्युक्तमवधारणं वागेव गीथेति। उच्च प्राणः, गीथा च प्राणतन्त्रा वाक्, इत्युभयमेकेन शब्देनाभिधीयते, स उद्गीथः
🔗  उक्तार्थदार्ढ्यायाख्यायिकारभ्यते –
तद्धापि। तत् तत्रैतस्मिन्नुक्तेऽर्थे, ह अपि आख्यायिकापि श्रूयते ह स्म। ब्रह्मदत्तः नामतः; चिकितानस्यापत्यं चैकितानः तदपत्यं युवा चैकितानेयः, राजानं यज्ञे सोमम्, भक्षयन्नुवाच; किम्? ‘अयं चमसस्थो मया भक्ष्यमाणो राजा, त्यस्य तस्य ममानृतवादिनः, मूर्धानं शिरः, विपातयतात् विस्पष्टं पातयतु’; तोरयं तातङादेशः, आशिषि लोट् – विपातयतादिति; यद्यहमनृतवादी स्यामित्यर्थः; कथं पुनरनृतवादित्वप्राप्तिरिति, उच्यते – ‘यत् यदि इतोऽस्मात्प्रकृतात्प्राणाद्वाक्संयुक्तात्, अयास्यः – मुख्यप्राणाभिधायकेन अयास्याङ्गिरसशब्देनाभिधीयते विश्वसृजां पूर्वर्षीणां सत्रे उद्गाता – सोऽन्येन देवतान्तरेण वाक्प्राणव्यतिरिक्तेन, उदगायत् उद्गानं कृतवान्; ततोऽहमनृतवादी स्याम्; तस्य मम देवता विपरीतप्रतिपत्तुर्मूर्धानं विपातयतु’ इत्येवं शपथं चकारेति विज्ञाने प्रत्ययकर्तव्यतादार्ढ्यं दर्शयति। तमिममाख्यायिकानिर्धारितमर्थं स्वेन वचसोपसंहरति श्रुतिः – वाचा च प्राणप्रधानया प्राणेन च स्वस्यात्मभूतेन, सः अयास्य आङ्गिरस उद्गाता, उदगायत् इति एषोऽर्थो निर्धारितः शपथेन॥
🔗  तस्य हैतस्य। तस्य इति प्रकृतं प्राणमभिसम्बध्नाति। ह एतस्य इति मुख्यं व्यपदिशत्यभिनयेन। साम्नः सामशब्दवाच्यस्य प्राणस्य, यः स्वं धनम्, वेद; तस्य ह किं स्यात्? भवति हास्य स्वम्। फलेन प्रलोभ्याभिमुखीकृत्य शुश्रूषवे आह – तस्य वै साम्नः स्वर एव स्वम्। स्वर इति कण्ठगतं माधुर्यम्, तदेवास्य स्वं विभूषणम्; तेन हि भूषितमृद्धिमल्लक्ष्यत उद्गानम्; यस्मादेवं तस्मात् आर्त्विज्यम् ऋत्विक्कर्मोद्गानम्, करिष्यन्, वाचि विषये, वाचि वागाश्रितम्, स्वरम्, इत्छेत इच्छेत्, साम्नो धनवत्तां स्वरेण चिकीर्षुरुद्गाता। इदं तु प्रासङ्गिकं विधीयते; साम्नः सौस्वर्येण स्वरवत्त्वप्रत्यये कर्तव्ये, इच्छामात्रेण सौस्वर्यं न भवतीति, दन्तधावनतैलपानादि सामर्थ्यात्कर्तव्यमित्यर्थः। तयैवं संस्कृतया वाचा स्वरसम्पन्नया आर्त्विज्यं कुर्यात्तस्मात् – यस्मात्साम्नः स्वभूतः स्वरः तेन स्वेन भूषितं साम, अतो यज्ञे स्वरवन्तम् उद्गातारम्, दिदृक्षन्त एव द्रष्टुमिच्छन्त्येव, धनिनमिव लौकिकाः। प्रसिद्धं हि लोके – अथो अपि, यस्य स्वं धनं भवति, तं धनिनं दिदृक्षन्ते – इति। सिद्धस्य गुणविज्ञानफलसम्बन्धस्योपसंहारः क्रियते – भवति हास्य स्वम्, य एवमेतत्साम्नः स्वं वेदेति
🔗  अथान्यो गुणः सुवर्णवत्तालक्षणो विधीयते। असावपि सौस्वर्यमेव। एतावान्विशेषः – पूर्वं कण्ठगतमाधुर्यम्; इदं तु लाक्षणिकं सुवर्णशब्दवाच्यम्। तस्य हैतस्य साम्नो यः सुवर्णं वेद, भवति हास्य सुवर्णम्; सुवर्णशब्दसामान्यात्स्वरसुवर्णयोः। लौकिकमेव सुवर्णं गुणविज्ञानफलं भवतीत्यर्थः। तस्य वै स्वर एव सुवर्णम्भवति हास्य सुवर्णं य एवमेतत्साम्नः सुवर्णं वेद इति पूर्ववत्सर्वम्॥
🔗  तथा प्रतिष्ठागुणं विधित्सन्नाह – तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद; प्रितितिष्ठत्यस्यामिति प्रतिष्ठा वाक्; तां प्रतिष्ठां साम्नो गुणम्, यो वेद स प्रतितिष्ठति ह। ‘तं यथा यथोपासते’ (शत. ब्रा. १०-५-२-२०) इति श्रुतेस्तद्गुणत्वं युक्तम्। पूर्ववत्फलेन प्रतिलोभिताय का प्रतिष्ठेति शुश्रूषव आह – तस्य वै साम्नो वागेव। वाग् इति जिह्वामूलादीनां स्थानानामाख्या; सा एव प्रतिष्ठा। तदाह – वाचि हि जिह्वामूलादिषु हि यस्मात् प्रतिष्ठितः सन् एष प्राणः एतद् गानं गीयते गीतिभावमापद्यते, तस्मात्साम्नः प्रतिष्ठा वाक्। अन्ने प्रतिष्ठितो गीयत इत्यु ह एके अन्ये आहुः; इह प्रतितिष्ठतीति युक्तम्। अनिन्दितत्वादेकीयपक्षस्य विकल्पेन प्रतिष्ठागुणविज्ञानं कुर्यात् – वाग्वा प्रतिष्ठा, अन्नं वेति॥
🔗  एवं प्राणविज्ञानवतो जपकर्म विधित्स्यते। यद्विज्ञानवतो जपकर्मण्यधिकारस्तद्विज्ञानमुक्तम्। अथ अनन्तरम्, यस्माच्चैवं विदुषा प्रयुज्यमानं देवभावायाभ्यारोहफलं जपकर्म, अतः तस्मात् तद्विधीयते इह। तस्य चोद्गीथसम्बन्धात्सर्वत्र प्राप्तौ पवमानानाम् इति वचनात्, पवमानेषु त्रिष्वपि कर्तव्यतायां प्राप्तायाम्, पुनः कालसङ्कोचं करोति – स वै खलु प्रस्तोता साम प्रस्तौति प्रस्तोता, यत्र यस्मिन्काले, साम प्रस्तुयात् प्रारभेत, तस्मिन्काल एतानि जपेत्। अस्य च जपकर्मण आख्या अभ्यारोह इति। आभिमुख्येनारोहत्यनेन जपकर्मणैवंविद्देवभावमात्मानमित्यभ्यारोहः। एतानीति बहुवचनात्त्रीणि यजूंषि। द्वितीयानिर्देशाद्ब्राह्मणोत्पन्नत्वाच्च यथापठित एव स्वरः प्रयोक्तव्यो न मान्त्रः। याजमानं जपकर्म।
एतानि तानि यजूंषि – ‘असतो मा सद्गमय’ ‘तमसो मा ज्योतिर्गमय’ ‘मृत्योर्मामृतं गमय’ इति। मन्त्राणामर्थस्तिरोहितो भवतीति स्वयमेव व्याचष्टे ब्राह्मणं मन्त्रार्थम् – सः मन्त्रः, यदाह यदुक्तवान्; कोऽसावर्थ इत्युच्यते – ‘असतो मा सद्गमयइतिमृत्युर्वा असत् – स्वाभाविककर्मविज्ञाने मृत्युरित्युच्येते; असत् अत्यन्ताधोभावहेतुत्वात्; सत् अमृतम् – सत् शास्त्रीयकर्मविज्ञाने, अमरणहेतुत्वादमृतम्। तस्मादसतः असत्कर्मणोऽज्ञानाच्च, मा माम्, सत् शास्त्रीयकर्मविज्ञाने, गमय, देवभावसाधनात्मभावमापादयेत्यर्थः। तत्र वाक्यार्थमाह – अमृतं मा कुर्वित्येवैतदाह इति। तथा तमसो मा ज्योतिर्गमयेतिमृत्युर्वै तमः, सर्वं ह्यज्ञानमावरणात्मकत्वात्तमः, तदेव च मरणहेतुत्वान्मृत्युः। ज्योतिरमृतं पूर्वोक्तविपरीतं दैवं स्वरूपम्। प्रकाशात्मकत्वाज्ज्ञानं ज्योतिः; तदेवामृतम् अविनाशात्मकत्वात्; तस्मात्तमसो मा ज्योतिर्गमयेति। पूर्ववत् मृत्योर्मामृतं गमय इत्यादि; अमृतं मा कुर्वित्येवैतदाह – दैवं प्राजापत्यं फलभावमापादयेत्यर्थः। पूर्वो मन्त्रोऽसाधनस्वभावात्साधनभावमापादयेति; द्वितीयस्तु साधनभावादप्यज्ञानरूपात्साध्यभावमापादयेति। मृत्योर्मामृतं गमयेति पूर्वयोरेव मन्त्रयोः समुच्चितोऽर्थस्तृतीयेन मन्त्रेणोच्यत इति प्रसिद्धार्थतैव। नात्र तृतीये मन्त्रे तिरोहितम् अन्तर्हितम् इव अर्थरूपं पूर्वयोरिव मन्त्रयोः अस्ति; यथाश्रुत एवार्थः।
याजमानमुद्गानं कृत्वा पवमानेषु त्रिषु, अथ अनन्तरं यानीतराणि शिष्टानि स्तोत्राणि, तेष्वात्मनेऽन्नाद्यमागायेत् – प्राणविदुद्गाता प्राणभूतः प्राणवदेव। यस्मात्स एष उद्गाता एवं प्राणं यथोक्तं वेत्ति, अतः प्राणवदेव तं कामं साधयितुं समर्थः; तस्माद् यजमानः तेषु स्तोत्रेषु प्रयुज्यमानेषु वरं वृणीत; यं कामं कामयेत तं कामं वरं वृणीत प्रार्थयेत। यस्मात् स एष एवंविदुद्गात इति तस्माच्छब्दात्प्रागेव सम्बध्यते। आत्मने वा यजमानाय वा यं कामं कामयते इच्छत्युद्गाता, तमागायति आगानेन साधयति।
एवं तावज्ज्ञानकर्मभ्यां प्राणात्मापत्तिरित्युक्तम्; तत्र नास्त्याशङ्कासम्भवः। अतः कर्मापाये प्राणापत्तिर्भवति वा न वेत्याशङ्क्यते; तदाशङ्कानिवृत्त्यर्थमाह – तद्धैतल्लोकजिदेवेति। तद्ध तद् एतत् प्राणदर्शनं कर्मवियुक्तं केवलमपि, लोकजिदेव इति लोकसाधनमेव। न ह एव अलोक्यतायै अलोकार्हत्वाय, आशा आशंसनं प्रार्थनम्, नैव अस्ति ह। न हि प्राणात्मन्युत्पन्नात्माभिमानस्य तत्प्राप्त्याशंसनं सम्भवति। न हि ग्रामस्थः कदा ग्रामं प्राप्नुयामित्यरण्यस्थ इवाशास्ते। असन्निकृष्टविषये ह्यनात्मन्याशंसनम्, न तत्स्वात्मनि सम्भवति। तस्मान्नाशास्ति – कदाचित्प्राणात्मभावं न प्रतिपद्येयेति।
कस्यैतत्। य एवमेतत्साम प्राणं यथोक्तं निर्धारितमहिमानं वेद – ‘अहमस्मि प्राण इन्द्रियविषयासङ्गैरासुरैः पाप्मभिरधर्षणीयो विशुद्धः; वागादिपञ्चकं च मदाश्रयत्वादग्न्याद्यात्मरूपं स्वाभाविकविज्ञानोत्थेन्द्रियविषयासङ्गजनितासुरपाप्मदोषवियुक्तम्; सर्वभूतेषु च मदाश्रयान्नाद्योपयोगबन्धनम्; आत्मा चाहं सर्वभूतानाम्, आङ्गिरसत्वात्; ऋग्यजुःसामोद्गीथभूतायाश्च वाच आत्मा, तद्व्याप्तेस्तन्निर्वर्तकत्वाच्च; मम साम्नो गीतिभावमापद्यमानस्य बाह्यं धनं भूषणं सौस्वर्यम्; ततोऽप्यन्तरतरं सौवर्ण्यं लाक्षणिकं सौस्वर्यम्; गीतिभावमापद्यमानस्य मम कण्ठादिस्थानानि प्रतिष्ठा; एवं गुणोऽहं पुत्तिकादिशरीरेषु कार्‌त्स्न्येन परिसमाप्तः, अमूर्तत्वात्सर्वगतत्वाच्च’ – इति आ एवमभिमानाभिव्यक्तेर्वेद उपास्ते इत्यर्थः॥

Go to Top ('Home' key on many Windows browsers)

BrhU.1.04

🔗  आत्मैवेदमग्र आसीत्। ज्ञानकर्मभ्यां समुच्चिताभ्यां प्रजापतित्वप्राप्तिर्व्याख्याता; केवलप्राणदर्शनेन च – ‘तद्धैतल्लोकजिदेव’ इत्यादिना। प्रजापतेः फलभूतस्य सृष्टिस्थितिसंहारेषु जगतः स्वातन्त्र्यादिविभूत्युपवर्णनेन ज्ञानकर्मणोर्वैदिकयोः फलोत्कर्षो वर्णयितव्य इत्येवमर्थमारभ्यते। तेन च कर्मकाण्डविहितज्ञानकर्मस्तुतिः कृता भवेत्सामर्थ्यात्। विवक्षितं त्वेतत् – सर्वमप्येतज्ज्ञानकर्मफलं संसार एव, भयारत्यादियुक्तत्वश्रवणात्कार्यकरणलक्षणत्वाच्च स्थूलव्यक्तानित्यविषयत्वाच्चेति। ब्रह्मविद्यायाः केवलाया वक्ष्यमाणाया मोक्षहेतुत्वमित्युत्तरार्थं चेति। न हि संसारविषयात्साध्यसाधनादिभेदलक्षणादविरक्तस्यात्मैकत्वज्ञानविषयेऽधिकारः, अतृषितस्येव पाने। तस्माज्ज्ञानकर्मफलोत्कर्षोपवर्णनमुत्तरार्थम्। तथा च वक्ष्यति – ‘तदेतत्पदनीयमस्य’ (BrhU.1.4.7) ‘तदेतत्प्रेयः पुत्रात्’ (BrhU.1.4.8) इत्यादि।
आत्मैव आत्मेति प्रजापतिः प्रथमोऽण्डजः शरीर्यभिधीयते। वैदिकज्ञानकर्मफलभूतः स एव – किम्? इदं शरीरभेदजातं तेन प्रजापतिशरीरेणाविभक्तम् आत्मैव आसीत् अग्रे प्राक्शरीरान्तरोत्पत्तेः। स च पुरुषविधः पुरुषप्रकारः शिरःपाण्यादिलक्षणो विराट्; एव प्रथमः सम्भूतोऽनुवीक्ष्य अन्वालोचनं कृत्वा – ‘कोऽहं किंलक्षणो वास्मि’ इति, नान्यद् वस्त्वन्तरम्, आत्मनः प्राणपिण्डात्मकात्कार्यकरणरूपात्, ना अपश्यत् न ददर्श। केवलं त्वात्मानमेव सर्वात्मानमपश्यत्। तथा पूर्वजन्मश्रौतविज्ञानसंस्कृतः ‘सोऽहं प्रजापतिः, सर्वात्माहम् अस्मिइत्यग्रे व्याहरत् व्याहृतवान्। ततः तस्मात्, यतः पूर्वज्ञानसंस्कारादात्मानमेवाहमित्यभ्यधादग्रे तस्मात्, अहन्नामाभवत्; तस्योपनिषदहमिति श्रुतिप्रदर्शितमेव नाम वक्ष्यति; तस्मात्, यस्मात्कारणे प्रजापतावेवं वृत्तं तस्मात्, तत्कार्यभूतेषु प्राणिषु एतर्हि एतस्मिन् अपि काले, आमन्त्रितः कस्त्वमित्युक्तः सन्, ‘अहमयम्इत्येवाग्रे उक्त्वा कारणात्माभिधानेनात्मानमभिधायाग्रे, पुनर्विशेषनामजिज्ञासवे अथ अनन्तरं विशेषपिण्डाभिधानम् ‘देवदत्तः’ ‘यज्ञदत्तः’ वेति प्रब्रूते कथयति – यद् नाम अस्य विशेषपिण्डस्य मातापितृकृतं भवति, तत्कथयति। च प्रजापतिः, अतिक्रान्तजन्मनि सम्यक्कर्मज्ञानभावनानुष्ठानैः साधकावस्थायाम्, यद् यस्मात्, कर्मज्ञानभावनानुष्ठानैः प्रजापतित्वं प्रतिपित्सूनां पूर्वः प्रथमः सन्, अस्मात् प्रजापतित्वप्रतिपित्सुसमुदायात् सर्वस्मात्, आदौ औषत् अदहत्; किम्? आसङ्गाज्ञानलक्षणान् सर्वान्पाप्मनः प्रजापतित्वप्रतिबन्धकारणभूतान्; यस्मादेवं तस्मात्पुरुषः – पूर्वमौषदिति पुरुषः। यथायं प्रजापतिरोषित्वा प्रतिबन्धकान्पाप्मनः सर्वान्, पुरुषः प्रजापतिरभवत्; एवमन्योऽपि ज्ञानकर्मभावनानुष्ठानवह्निना केवलं ज्ञानबलाद्वा ओषति भस्मीकरोति ह वै सः तम् – कम्? योऽस्माद् विदुषः पूर्वः प्रथमः प्रजापतिः बुभूषति भवितुमिच्छति तमित्यर्थः। तं दर्शयति – य एवं वेद इति; सामर्थ्याज्ज्ञानभावनाप्रकर्षवान्। नन्वनर्थाय प्राजापत्यप्रतिपित्सा, एवंविदा चेद्दह्यते; नैष दोषः, ज्ञानभावनोत्कर्षाभावात् प्रथमं प्रजापतित्वप्रतिपत्त्यभावमात्रत्वाद्दाहस्य। उत्कृष्टसाधनः प्रथमं प्रजापतित्वं प्राप्नुवन् न्यूनसाधनो न प्राप्नोतीति, स तं दहतीत्युच्यते; न पुनः प्रत्यक्षमुत्कृष्टसाधनेनेतरो दह्यते – यथा लोके आजिसृतां यः प्रथममाजिमुपसर्पति तेनेतरे दग्धा इवापहृतसामर्थ्या भवन्ति, तद्वत्॥
🔗  यदिदं तुष्टूषितं कर्मकाण्डविहितज्ञानकर्मफलं प्राजापत्यलक्षणम्, नैव तत्संसारविषयमत्यक्रामदितीममर्थं प्रदर्शयिष्यन्नाह –
सोऽबिभेत्। सः प्रजापतिः, योऽयं प्रथमः शरीरी पुरुषविधो व्याख्यातः सः, अबिभेत् भीतवान् अस्मदादिवदेवेत्याह। यस्माद् अयं पुरुषविधः शरीरकरणवान् आत्मनाशविषयविपरीतदर्शनवत्त्वादबिभेत्, तस्मात्तत्सामान्यादद्यत्वेऽपि एकाकी बिभेति। किञ्चास्मदादिवदेव भयहेतुविपरीतदर्शनापनोदकारणं यथाभूतात्मदर्शनम्। सोऽयं प्रजापतिः ईक्षाम् ईक्षणं चक्रे कृतवान् । कथमित्याह – यत् यस्मात् मत्तोऽन्यत् आत्मव्यतिरेकेण वस्त्वन्तरं प्रतिद्वन्द्वीभूतं नास्ति, तस्मिन्नात्मविनाशहेत्वभावे, कस्मान्नु बिभेमि इतितत एव यथाभूतात्मदर्शनाद् अस्य प्रजापतेः भयं वीयाय विस्पष्टमपगतवत्। तस्य प्रजापतेर्यद्भयं तत्केवलाविद्यानिमित्तमेव परमार्थदर्शनेऽनुपपन्नमित्याह – कस्माद् हि अभेष्यत्? किमित्यसौ भीतवान्? परमार्थनिरूपणायां भयमनुपपन्नमेवेत्यभिप्रायः। यस्माद् द्वितीयाद् वस्त्वन्तराद्वै भयं भवति; द्वितीयं च वस्त्वन्तरमविद्याप्रत्युपस्थापितमेव। न ह्यदृश्यमानं द्वितीयं भयजन्मनो हेतुः, ‘तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (IsU.7) इति मन्त्रवर्णात्। यच्चैकत्वदर्शनेन भयमपनुनोद, तद्युक्तम्; कस्मात्? द्वितीयाद्वस्त्वन्तराद्वै भयं भवति; तदेकत्वदर्शनेन द्वितीयदर्शनमपनीतमिति नास्ति यतः।
अत्र चोदयन्ति – कुतः प्रजापतेरेकत्वदर्शनं जातम्? को वास्मा उपदिदेश? अथानुपदिष्टमेव प्रादुरभूत्; अस्मदादेरपि तथा प्रसङ्गः। अथ जन्मान्तरकृतसंस्कारहेतुकम्; एकत्वदर्शनानर्थक्यप्रसङ्गः। यथा प्रजापतेरतिक्रान्तजन्मावस्थस्यैकत्वदर्शनं विद्यमानमप्यविद्याबन्धकारणं नापनिन्ये, यतोऽविद्यासंयुक्त एवायं जातोऽबिभेत्, एवं सर्वेषामेकत्वदर्शनानर्थक्यं प्राप्नोति। अन्त्यमेव निवर्तकमिति चेत्, न; पूर्ववत्पुनः प्रसङ्गेनानैकान्त्यात्। तस्मादनर्थकमेवैकत्वदर्शनमिति।
नैष दोषः; उत्कृष्टहेतूद्भवत्वाल्लोकवत्। यथा पुण्यकर्मोद्भवैर्विविक्तैः कार्यकरणैः संयुक्ते जन्मनि सति प्रज्ञामेधास्मृतिवैशारद्यं दृष्टम्, तथा प्रजापतेर्धर्मज्ञानवैराग्यैश्वर्यविपरीतहेतुसर्वपाप्मदाहाद्विशुद्धैः कार्यकरणैः संयुक्तमुत्कृष्टं जन्म; तदुद्भवं चानुपदिष्टमेव युक्तमेकत्वदर्शनं प्रजापतेः। तथा च स्मृतिः – ‘ज्ञानमप्रतिघं यस्य वैराग्यं च प्रजापतेः। ऐश्वर्यं चैव धर्मश्च सहसिद्धं चतुष्टयम्’ इति॥सहसिद्धत्वे भयानुपपत्तिरिति चेत् – न ह्यादित्येन सह तम उदेति – न, अन्यानुपदिष्टार्थत्वात्सहसिद्धवाक्यस्य। श्रद्धातात्पर्यप्रणिपातादीनामहेतुत्वमिति चेत् – स्यान्मतम् – ‘श्रद्धावांल्लभते ज्ञानं तत्परः संयतेन्द्रियः’ (BhG.4.39) ‘तद्विद्धि प्रणिपातेन’ (BhG.4.34) इत्येवमादीनां श्रुतिस्मृतिविहितानां ज्ञानहेतूनामहेतुत्वम्, प्रजापतेरिव जन्मान्तरकृतधर्महेतुत्वे ज्ञानस्येति चेत्, न; निमित्तविकल्पसमुच्चयगुणवदगुणवत्त्वभेदोपपत्तेः। लोके हि नैमित्तिकानां कार्याणां निमित्तभेदोऽनेकधा विकल्प्यते। तथा निमित्तसमुच्चयः। तेषां च विकल्पितानां समुच्चितानां च पुनर्गुणवदगुणवत्त्वकृतो भेदो भवति। तद्यथा – रूपज्ञान एव तावन्नैमित्तिके कार्ये तमसि विनालोकेन चक्षूरूपसन्निकर्षो नक्तञ्चराणां रूपज्ञाने निमित्तं भवति; मन एव केवलं रूपज्ञाननिमित्तं योगिनाम्; अस्माकं तु सन्निकर्षालोकाभ्यां सह तथादित्यचन्द्राद्यालोकभेदैः समुच्चिता निमित्तभेदा भवन्ति; तथालोकविशेषगुणवदगुणवत्त्वेन भेदाः स्युः। एवमेवात्मैकत्वज्ञानेऽपि क्वचिज्जन्मान्तरकृतं कर्म निमित्तं भवति; यथा प्रजापतेः। क्वचित्तपो निमित्तम्; ‘तपसा ब्रह्म विजिज्ञासस्व’ (TaitU.3.2.1) इति श्रुतेः। क्वचित् ‘आचार्यवान्पुरुषो वेद’ (ChanU.6.14.2) ‘श्रद्धावांल्लभते ज्ञानम्’ (BhG.4.39) ‘तद्विद्धि प्रणिपातेन’ (BhG.4.34) ‘आचार्याद्धैव’ (ChanU.4.9.3) ‘ज्ञातव्यो द्रष्टव्यः श्रोतव्यः’ (BrhU.2.4.5), (BrhU.4.5.6) इति श्रुतिस्मृतिभ्य एकान्तज्ञानलाभनिमित्तत्वं श्रद्धाप्रभृतीनाम् अधर्मादिनिमित्तवियोगहेतुत्वात्; वेदान्तश्रवणमनननिदिध्यासनानां च साक्षाज्ज्ञेयविषयत्वात्; पापादिप्रतिबन्धक्षये चात्ममनसोः, भूतार्थज्ञाननिमित्तस्वाभाव्यात्। तस्मादहेतुत्वं न जातु ज्ञानस्य श्रद्धाप्रणिपातादीनामिति॥
🔗  इतश्च संसारविषय एव प्रजापतित्वम्, यतः सः प्रजापतिः वै नैव रेमे रतिं नान्वभवत् – अरत्याविष्टोऽभूदित्यर्थः – अस्मदादिवदेव यतः; इदानीमपि तस्माद् एकाकित्वादिधर्मवत्त्वात् एकाकी न रमते रतिं नानुभवति। रतिर्नामेष्टार्थसंयोगजा क्रीडा। तत्प्रसङ्गिन इष्टवियोगान्मनस्याकुलीभावोऽरतिरित्युच्यते। सः तस्या अरतेरपनोदाय द्वितीयम् अरत्यपघातसमर्थं स्त्रीवस्तु ऐच्छत् गृद्धिमकरोत्। तस्य चैवं स्त्रीविषयं गृध्यतः स्त्रिया परिष्वक्तस्येवात्मनो भावो बभूव। सः तेन सत्येप्सुत्वात् एतावान् एतत्परिमाण आस बभूव । किम्परिमाण इत्याह – यथा लोके स्त्रीपुमांसौ अरत्यपनोदाय सम्परिष्वक्तौ यत्परिमाणौ स्याताम्, तथा तत्परिमाणः, बभूवेत्यर्थः। तथा तत्परिमाणम् एव इममात्मानं द्वेधा द्विप्रकारम् अपातयत् पातितवान्। इममेवेत्यवधारणं मूलकारणाद्विराजो विशेषणार्थम्। न क्षीरस्य सर्वोपमर्देन दधिभावापत्तिवद्विराट् सर्वोपमर्देनैतावानास; किं तर्हि? आत्मना व्यवस्थितस्यैव विराजः सत्यसङ्कल्पत्वादात्मव्यतिरिक्तं स्त्रीपुंसपरिष्वक्तपरिमाणं शरीरान्तरं बभूव। स एव च विराट् तथाभूतः – ‘स हैतावानास’ इति सामानाधिकरण्यात्। ततः तस्मात्पातनात् पतिश्च पत्नी चाभवताम् इति दम्पत्योर्निर्वचनं लौकिकयोः; अत एव तस्मात् – यस्मादात्मन एवार्धः पृथग्भूतः – येयं स्त्री – तस्मात् – इदं शरीरमात्मनोऽर्धबृगलम् – अर्धं च तत् बृगलं विदलं च तदर्धबृगलम्, अर्धविदलम् इव इत्यर्थः। प्राक्‌स्त्र्युद्वहनात्कस्यार्धबृगलमित्युच्यते – स्व आत्मन इति। एवम् आह स्म उक्तवान्किल, याज्ञवल्क्यः – यज्ञस्य वल्को वक्ता यज्ञवल्कस्तस्यापत्यं याज्ञवल्क्यो दैवरातिरित्यर्थः; ब्रह्मणो वा अपत्यम्। यस्माद् अयं पुरुषार्ध आकाशः स्त्र्यर्धशून्यः, पुनरुद्वहनात् तस्मात् पूर्यते स्त्र्यर्धेन, पुनः सम्पुटीकरणेनेव विदलार्धः। तां स प्रजापतिर्मन्वाख्यः शतरूपाख्यामात्मनो दुहितरं पत्नीत्वेन कल्पितां समभवत् मैथुनमुपगतवान्। ततः तस्मात्तदुपगमनात् मनुष्या अजायन्त उत्पन्नाः॥
🔗  सा शतरूपा उ ह इयम् – सेयं दुहितृगमने स्मार्तं प्रतिषेधमनुस्मरन्ती ईक्षाञ्चक्रे। ‘कथं नु इदमकृत्यम्, यन् मा माम् आत्मन एव जनयित्वा उत्पाद्य सम्भवति उपगच्छति; यद्यप्ययं निर्घृणः, अहं हन्त इदानीं तिरोऽसानि जात्यन्तरेण तिरस्कृता भवानि’ इति एवमीक्षित्वा असौ गौरभवत्। उत्पाद्य प्राणिकर्मभिश्चोद्यमानायाः पुनः पुनः सैव मतिः शतरूपाया मनोश्चाभवत्। ततश्च ऋषभ इतरःतां समेवाभवद् इत्यादि पूर्ववत्। ततो गावोऽजायन्त। तथा बडबेतराभवत् अश्ववृष इतरः। तथा गर्दभीतरा गर्दभ इतरः। तत्र बडबाश्ववृषादीनां सङ्गमात् तत एकशफम् एकखुरम् अश्वाश्वतरगर्दभाख्यं त्रयम् अजायत। तथा अजा इतराभवत्, बस्तः छाग इतरः। तथा अविरितरा, मेष इतरःतां समेवाभवत्। तां तामिति वीप्सा। तामजां तामविं चेति समभवदेवेत्यर्थः। ततोऽजाश्चावयश्च अजावयोऽजायन्तएवमेव यदिदं किञ्च यत्किञ्चेदं मिथुनं स्त्रीपुंसलक्षणं द्वन्द्वम्, आ पिपीलिकाभ्यः पिपीलिकाभिः सह अनेनैव न्यायेन तत्सर्वमसृजत जगत्सृष्टवान्॥
🔗  सः प्रजापतिः सर्वमिदं जगत्सृष्ट्वा अवेत्। कथम्? अहं वाव अहमेव, सृष्टिः – सृज्यत इति सृष्टं जगदुच्यते सृष्टिरिति – यन्मया सृष्टं जगत् मदभेदत्वादहमेव अस्मि, न मत्तो व्यतिरिच्यते; कुत एतत्? अहं हि यस्मात्, इदं सर्वं जगत् असृक्षि सृष्टवानस्मि, तस्मादित्यर्थः। यस्मात्सृष्टिशब्देनात्मानमेवाभ्यधात्प्रजापतिः ततः तस्मात् सृष्टिरभवत् सृष्टिनामाभवत् सृष्ट्यां जगति ह अस्य प्रजापतेः एतस्याम् एतस्मिञ्जगति, स प्रजापतिवत्स्रष्टा भवति, स्वात्मनोऽनन्यभूतस्य जगतः; कः? य एवं प्रजापतिवद्यथोक्तं स्वात्मनोऽनन्यभूतं जगत् ‘साध्यात्माधिभूताधिदैवं जगदहमस्मि’ इति वेद
🔗  एवं स प्रजापतिर्जगदिदं मिथुनात्मकं सृष्ट्वा ब्राह्मणादिवर्णनियन्त्रीर्देवताः सिसृक्षुरादौ – अथ-इति-शब्दद्वयमभिनयप्रदर्शनार्थम् – अनेन प्रकारेण मुखे हस्तौ प्रक्षिप्य अभ्यमन्थत् आभिमुख्येन मन्थनमकरोत्। सः मुखं हस्ताभ्यां मथित्वा, मुखाच्च योनेः हस्ताभ्यां च योनिभ्याम्, अग्निं ब्राह्मणजातेरनुग्रहकर्तारम्, असृजत सृष्टवान्। यस्माद्दाहकस्याग्नेर्योनिरेतदुभयम् – हस्तौ मुखं च, तस्मात् उभयम् अपि एतद् अलोमकं लोमविवर्जितम्; किं सर्वमेव? न, अन्तरतः अभ्यन्तरतः। अस्ति हि योन्या सामान्यमुभयस्यास्य। किम्? अलोमका हि योनिरन्तरतः स्त्रीणाम्। तथा ब्राह्मणोऽपि मुखादेव जज्ञे प्रजापतेः। तस्मादेकयोनित्वाज्ज्येष्ठेनेवानुजोऽनुगृह्यते, अग्निना ब्राह्मणः। तस्माद्ब्राह्मणोऽग्निदेवत्यो मुखवीर्यश्चेति श्रुतिस्मृतिसिद्धम्। तथा बलाश्रयाभ्यां बाहुभ्यां बलभिदादिकं क्षत्रियजातिनियन्तारं क्षत्त्रियं च। तस्मादैन्द्रं क्षत्त्रं बाहुवीर्यं चेति श्रुतौ स्मृतौ चावगतम्। तथोरुत ईहा चेष्टा तदाश्रयाद्वस्वादिलक्षणं विशो नियन्तारं विशं च। तस्मात्कृष्यादिपरो वस्वादिदेवत्यश्च वैश्यः। तथा पूषणं पृथ्वीदैवतं शूद्रं च पद्भ्यां परिचरणक्षममसृजतेति – श्रुतिस्मृतिप्रसिद्धेः। तत्र क्षत्रादिदेवतासर्गमिहानुक्तं वक्ष्यमाणमप्युक्तवदुपसंहरति सृष्टिसाकल्यानुकीर्त्यै। यथेयं श्रुतिर्व्यवस्थिता तथा प्रजापतिरेव सर्वे देवा इति निश्चितोऽर्थः; स्रष्टुरनन्यत्वात्सृष्टानाम्, प्रजापतिनैव तु सृष्टत्वाद्देवानाम्। अथैवं प्रकरणार्थे व्यवस्थिते तत्स्तुत्यभिप्रायेणाविद्वन्मतान्तरनिन्दोपन्यासः। अन्यनिन्दा अन्यस्तुतये। तत् तत्र कर्मप्रकरणे, केवलयाज्ञिका यागकाले, यदिदं वच आहुः – ‘अमुम् अग्निं यज अमुम् इन्द्रं यज’ इत्यादि – नाम-शस्त्र-स्तोत्र-कर्मादि-भिन्नत्वाद्भिन्नमेव अग्न्यादि-देवमेकैकं मन्यमाना आहुरित्यभिप्रायः – तन्न तथा विद्यात्; यस्माद् एतस्यैव प्रजापतेः सा विसृष्टिः देवभेदः सर्वः; एष उ ह्येव प्रजापतिरेव प्राणः सर्वे देवाः
अत्र विप्रतिपद्यन्ते – पर एव हिरण्यगर्भ इत्येके; संसारीत्यपरे। पर एव तु मन्त्रवर्णात् – ‘इन्द्रं मित्रं वरुणमग्निमाहुः’ (ऋ. १-१९४-४६) इति श्रुतेः; ‘एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवाः’ (AitU.3.1.3) इति च श्रुतेः; स्मृतेश्च – ‘एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम्’ (मनु. १२-१२३) इति, ‘योऽसावतीन्द्रियोऽग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः। सर्वभूतमयोऽचिन्त्यः स एव स्वयमुद्बभौ’ (मनु १-७) इति च। संसार्येव वा स्यात् – ‘सर्वान्पाप्मन औषत्’ (BrhU.1.4.1) इति श्रुतेः; न ह्यसंसारिणः पाप्मदाहप्रसङ्गोऽस्ति; भयारतिसंयोगश्रवणाच्च; ‘अथ यन्मर्त्यः सन्नमृतानसृजत’ (BrhU.1.4.6) इति च, ‘हिरण्यगर्भं पश्यत जायमानम्’ (श्वे. ४-१२) इति च मन्त्रवर्णात्; स्मृतेश्च कर्मविपाकप्रक्रियायाम् – ‘ब्रह्मा विश्वसृजो धर्मो महानव्यक्तमेव च। उत्तमां सात्त्विकीमेतां गतिमाहुर्मनीषिणः’ (मनु. १२-५०) इति। अथैवं विरुद्धार्थानुपपत्तेः प्रामाण्यव्याघात इति चेत् –
न, कल्पनान्तरोपपत्तेरविरोधात्। उपाधिविशेषसम्बन्धाद्विशेषकल्पनान्तरमुपपद्यते। ‘आसीनो दूरं व्रजति शयानो याति सर्वतः। कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति’ (KathU.1.2.21) इत्येवमादिश्रुतिभ्यः उपाधिवशात्संसारित्वम्, न परमार्थतः। स्वतोऽसंसार्येव। एवमेकत्वं नानात्वं च हिरण्यगर्भस्य। तथा सर्वजीवानाम्, ‘तत्त्वमसि’ (ChanU.6.8.7) इति श्रुतेः। हिरण्यगर्भस्तूपाधिशुद्ध्यतिशयापेक्षया प्रायशः पर एवेति श्रुतिस्मृतिवादाः प्रवृत्ताः। संसारित्वं तु क्वचिदेव दर्शयन्ति। जीवानां तूपाधिगताशुद्धिबाहुल्यात्संसारित्वमेव प्रायशोऽभिलप्यते। व्यावृत्तकृत्स्नोपाधिभेदापेक्षया तु सर्वः परत्वेनाभिधीयते श्रुतिस्मृतिवादैः।
तार्किकैस्तु परित्यक्तागमबलैः अस्ति नास्ति कर्ता अकर्ता इत्यादि विरुद्धं बहु तर्कयद्भिराकुलीकृतः शास्त्रार्थः। तेनार्थनिश्चयो दुर्लभः। ये तु केवलशास्त्रानुसारिणः शान्तदर्पास्तेषां प्रत्यक्षविषय इव निश्चितः शास्त्रार्थो देवतादिविषयः।
तत्र प्रजापतेरेकस्य देवस्यात्राद्यलक्षणो भेदो विवक्षित इति – तत्राग्निरुक्तोऽत्ता, आद्यः सोम इदानीमुच्यते। अथ यत्किञ्चेदं लोक आर्द्रं द्रवात्मकम्, तद्रेतस आत्मनो बीजात् असृजत; ‘रेतस आपः’ (AitU.1.1.4) इति श्रुतेः। द्रवात्मकश्च सोमः। तस्माद्यदार्द्रं प्रजापतिना रेतसः सृष्टम्, तदु सोम एव। एतावद्वै एतावदेव, नातोऽधिकम्, इदं सर्वम्। किं तत्? अन्नं चैव सोमो द्रवात्मकत्वादाप्यायकम्, अन्नादश्च अग्निः औष्ण्याद्रूक्षत्वाच्च।
तत्रैवमवध्रियते – सोम एवान्नम्, यदद्यते तदेव सोम इत्यर्थः; य एवात्ता स एवाग्निः; अर्थबलाद्ध्यवधारणम्। अग्निरपि क्वचिद्धूयमानः सोमपक्षस्यैव; सोमोऽपीज्यमानोऽग्निरेव, अत्तृत्वात्। एवमग्नीषोमात्मकं जगदात्मत्वेन पश्यन्न केनचिद्दोषेण लिप्यते; प्रजापतिश्च भवति। सैषा ब्रह्मणः प्रजापतेः अतिसृष्टिः आत्मनोऽप्यतिशया। का सेत्याह – यच्छ्रेयसः प्रशस्यतरानात्मनः सकाशात् यस्माद् असृजत देवान्, तस्माद्देवसृष्टिरतिसृष्टिः। कथं पुनरात्मनोऽतिशया सृष्टिरित्यत आह – अथ यत् यस्मात् मर्त्यः सन् मरणधर्मा सन्, अमृतान् अमरणधर्मिणो देवान्, कर्मज्ञानवह्निना सर्वानात्मनः पाप्मन ओषित्वा, असृजत; तस्माद् इयम् अतिसृष्टिः उत्कृष्टज्ञानस्य फलमित्यर्थः। तस्मादेतामतिसृष्टिं प्रजापतेरात्मभूतां यो वेद, स एतस्यामतिसृष्ट्यां प्रजापतिरिव भवति प्रजापतिवदेव स्रष्टा भवति।
तद्धेतं तर्ह्यव्याकृतमासीत्। सर्वं वैदिकं साधनं ज्ञानकर्मलक्षणं कर्त्राद्यनेककारकापेक्षं प्रजापतित्वफलावसानं साध्यमेतावदेव, यदेतद्व्याकृतं जगत्संसारः। अथैतस्यैव साध्यसाधनलक्षणस्य व्याकृतस्य जगतो व्याकरणात्प्राग्बीजावस्था या, तां निर्दिदिक्षति अङ्कुरादिकार्यानुमितामिव वृक्षस्य, कर्मबीजोऽविद्याक्षेत्रो ह्यसौ संसारवृक्षः समूल उद्धर्तव्य इति; तदुद्धरणे हि पुरुषार्थपरिसमाप्तिः; तथा चोक्तम् – ‘ऊर्ध्वमूलोऽवाक्शाखः’ (KathU.2.3.1) इति काठके; गीतासु च ‘ऊर्ध्वमूलमधःशाखम्’ (BhG.15.1) इति; पुराणे च – ‘ब्रह्मवृक्षः सनातनः’ इति॥
🔗  तद्धेदम्। तद् इति बीजावस्थं जगत्प्रागुत्पत्तेः, तर्हि तस्मिन्काले; परोक्षत्वात्सर्वनाम्ना अप्रत्यक्षाभिधानेनाभिधीयते – भूतकालसम्बन्धित्वादव्याकृतभाविनो जगतः; सुखग्रहणार्थमैतिह्यप्रयोगो ह-शब्दः; एवं तदा आसीदित्युच्यमाने सुखं तां परोक्षामपि जगतो बीजावस्थां प्रतिपद्यते – युधिष्ठिरो ह किल राजासीदित्युक्ते यद्वत्; इदम् इति व्याकृतनामरूपात्मकं साध्यसाधनलक्षणं यथावर्णितमभिधीयते; तदिदंशब्दयोः परोक्षप्रत्यक्षावस्थजगद्वाचकयोः सामानाधिकरण्यादेकत्वमेव परोक्षप्रत्यक्षावस्थस्य जगतोऽवगम्यते; तदेवेदम्, इदमेव च तद् अव्याकृतमासीत् इति।
अथैवं सति नासत उत्पत्तिर्न सतो विनाशः कार्यस्येत्यवधृतं भवति। तद् एवम्भूतं जगत् अव्याकृतं सत् नामरूपाभ्यामेव नाम्ना रूपेणैव च, व्याक्रियत। व्याक्रियतेति कर्मकर्तृप्रयोगात्तत्स्वयमेवात्मैव व्याक्रियत – वि आ अक्रियत – विस्पष्टं नामरूपविशेषावधारणमर्यादं व्यक्तीभावमापद्यत – सामर्थ्यादाक्षिप्तनियन्तृकर्तृसाधनक्रियानिमित्तम्। असौ नामा इति सर्वनाम्नाविशेषाभिधानेन नाममात्रं व्यपदिशति। देवदत्तो यज्ञदत्त इति वा नामास्येत्यसौनामा अयम्। तथा इदमिति शुक्लकृष्णादीनामविशेषः। इदं शुक्लमिदं कृष्णं वा रूपमस्येति इदंरूपःतदिदम् अव्याकृतं वस्तु, एतर्हि एतस्मिन् अपि काले, नामरूपाभ्यामेव व्याक्रियतेअसौनामायमिदंरूप इति। यदर्थः सर्वशास्त्रारम्भः, यस्मिन्नविद्यया स्वाभाविक्या कर्तृक्रियाफलाध्यारोपणा कृता, यः कारणं सर्वस्य जगतः, यदात्मके नामरूपे सलिलादिव स्वच्छान्मलमिव फेनमव्याकृते व्याक्रियेते, यश्च ताभ्यां नामरूपाभ्यां विलक्षणः स्वतो नित्यशुद्धबुद्धमुक्तस्वभावः – स एषः अव्याकृते आत्मभूते नामरूपे व्याकुर्वन्, ब्रह्मादिस्तम्बपर्यन्तेषु देहेषु इह कर्मफलाश्रयेष्वशनायादिमत्सु प्रविष्टः
नन्वव्याकृतं स्वयमेव व्याक्रियतेत्युक्तम्; कथमिदमिदानीमुच्यते – पर एव त्वात्मा अव्याकृतं व्याकुर्वन्निह प्रविष्ट इति। नैष दोषः – परस्याप्यात्मनोऽव्याकृतजगदात्मत्वेन विवक्षितत्वात्। आक्षिप्तनियन्तृकर्तृक्रियानिमित्तं हि जगदव्याकृतं व्याक्रियतेत्यवोचाम। इदंशब्दसामानाधिकरण्याच्च अव्याकृतशब्दस्य। यथेदं जगन्नियन्त्राद्यनेककारकनिमित्तादिविशेषवद्व्याकृतम्, तथा अपरित्यक्तान्यतमविशेषवदेव तदव्याकृतम्। व्याकृताव्याकृतमात्रं तु विशेषः। दृष्टश्च लोके विवक्षातः शब्दप्रयोगो ग्राम आगतो ग्रामः शून्य इति – कदाचिद्ग्रामशब्देन निवासमात्रविवक्षायां ग्रामः शून्य इति शब्दप्रयोगो भवति; कदाचिन्निवासिजनविवक्षायां ग्राम आगत इति; कदाचिदुभयविवक्षायामपि ग्रामशब्दप्रयोगो भवति ग्रामं च न प्रविशेदिति यथा – तद्वदिहापि जगदिदं व्याकृतमव्याकृतं चेत्यभेदविवक्षायामात्मानात्मनोर्भवति व्यपदेशः। तथेदं जगदुत्पत्तिविनाशात्मकमिति केवलजगद्व्यपदेशः। तथा ‘महानज आत्मा’ ‘अस्थूलोऽनणुः’ ‘स एष नेति नेति’ इत्यादि केवलात्मव्यपदेशः।
ननु परेण व्याकर्त्रा व्याकृतं सर्वतो व्याप्तं सर्वदा जगत्; स कथमिह प्रविष्टः परिकल्प्यते; अप्रविष्टो हि देशः परिच्छिन्नेन प्रवेष्टुं शक्यते, यथा पुरुषेण ग्रामादिः; नाकाशेन किञ्चित्, नित्यप्रविष्टत्वात्। पाषाणसर्पादिवद्धर्मान्तरेणेति चेत् – अथापि स्यात् – न पर आत्मा स्वेनैव रूपेण प्रविवेश; किं तर्हि? तत्स्थ एव धर्मान्तरेणोपजायते; तेन प्रविष्ट इत्युपचर्यते; यथा पाषाणे सहजोऽन्तस्थः सर्पः, नारिकेले वा तोयम् – न, ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ (TaitU.2.6.6) इति श्रुतेः। यः स्रष्टा स भावान्तरमनापन्न एव कार्यं सृष्ट्वा पश्चात्प्राविशदिति हि श्रूयते। यथा ‘भुक्त्वा गच्छति’ इति भुजिगमिक्रिययोः पूर्वापरकालयोरितरेतरविच्छेदः, अविशिष्टश्च कर्ता, तद्वदिहापि स्यात्; न तु तत्स्थस्यैव भावान्तरोपजनन एतत्सम्भवति। न च स्थानान्तरेण वियुज्य स्थानान्तरसंयोगलक्षणः प्रवेशो निरवयवस्यापरिच्छिन्नस्य दृष्टः। सावयव एव प्रवेशश्रवणादिति चेत्, न; ‘दिव्यो ह्यमूर्तः पुरुषः’ (MunU.2.1.2) ‘निष्कलं निष्क्रियम्’ (श्वे. ६-१९) इत्यादिश्रुतिभ्यः, सर्वव्यपदेश्यधर्मविशेषप्रतिषेधश्रुतिभ्यश्च। प्रतिबिम्बप्रवेशवदिति चेत्, न; वस्त्वन्तरेण विप्रकर्षानुपपत्तेः। द्रव्ये गुणप्रवेशवदिति चेत्, न; अनाश्रितत्वात्। नित्यपरतन्त्रस्यैवाश्रितस्य गुणस्य द्रव्ये प्रवेश उपचर्यते; न तु ब्रह्मणः स्वातन्त्र्यश्रवणात्तथा प्रवेश उपपद्यते। फले बीजवदिति चेत्, न; सावयवत्ववृद्धिक्षयोत्पत्तिविनाशादिधर्मवत्त्वप्रसङ्गात्। न चैवं धर्मवत्त्वं ब्रह्मणः, ‘अजोऽजरः’ (BrhU.4.4.25) इत्यादिश्रुतिन्यायविरोधात्। अन्य एव संसारी परिच्छिन्न इह प्रविष्ट इति चेत्, न; ‘सेयं देवतैक्षत’ (ChanU.6.3.2) इत्यारभ्य ‘नामरूपे व्याकरवाणि’ (ChanU.6.3.2) इति तस्या एव प्रवेशव्याकरणकर्तृत्वश्रुतेः। तथा ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ (TaitU.2.6.6) ‘स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत’ (AitU.1.3.12) ‘सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते’ (तै. आ. ३-१२-७) ‘त्वं कुमार उत वा कुमारी त्वं जीर्णो दण्डेन वञ्चसि’ (श्वे. ४-३) ‘पुरश्चक्रे द्विपदः’ (BrhU.2.5.18) ‘रूपं रूपम्’ (BrhU.2.5.19), (ऋ. २-५-१८) इति च मन्त्रवर्णान्न परादन्यस्य प्रवेशः। प्रविष्टानामितरेतरभेदात्परानेकत्वमिति चेत्, न। ‘एको देवो बहुधा सन्निविष्टः’ (तै. आ. ३-१४-१) ‘एकः सन्बहुधा विचार’ (तै. आ. ३-११-१) ‘त्वमेकोऽसि बहूननुप्रविष्टः’ (तै. आ. ३-१४-१३) ‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा’ (श्वे. ६-११) इत्यादिश्रुतिभ्यः।
प्रवेश उपपद्यते नोपपद्यत इति – तिष्ठतु तावत्; प्रविष्टानां संसारित्वात्तदनन्यत्वाच्च परस्य संसारित्वमिति चेत्, न; अशनायाद्यत्ययश्रुतेः। सुखित्वदुःखित्वादिदर्शनान्नेति चेत्, न; ‘न लिप्यते लोकदुःखेन बाह्यः’ (KathU.1.3.11) इति श्रुतेः। प्रत्यक्षादिविरोधादयुक्तमिति चेत्, न; उपाध्याश्रयजनितविशेषविषयत्वात्प्रत्यक्षादेः। ‘न दृष्टेर्द्रष्टारं पश्येः’ (BrhU.3.4.2) ‘विज्ञातारमरे केन विजानीयात्’ (BrhU.2.4.14), (BrhU.4.5.1) ‘अविज्ञातं विज्ञातृ’ (BrhU.3.8.11) इत्यादिश्रुतिभ्यो न आत्मविषयं विज्ञानम्; किं तर्हि? बुद्ध्याद्युपाध्यात्मप्रतिच्छायाविषयमेव ‘सुखितोऽहं’ ‘दुःखितोऽहम्’ इत्येवमादि प्रत्यक्षविज्ञानम्; ‘अयम् अहम्’ इति विषयेण विषयिणः सामानाधिकरण्योपचारात्; ‘नान्यदतोऽस्ति द्रष्टृ’ (BrhU.3.8.11) इत्यन्यात्मप्रतिषेधाच्च। देहावयवविशेष्यत्वाच्च सुखदुःखयोर्विषयधर्मत्वम्। ‘आत्मनस्तु कामाय’ (BrhU.2.4.5), (BrhU.4.5.6) इत्यात्मार्थत्वश्रुतेरयुक्तमिति चेत्, न; ‘यत्र वा अन्यदिव स्यात्’ (BrhU.4.3.31) इत्यविद्याविषयात्मार्थत्वाभ्युपगमात्, ‘तत्केन कं पश्येत्’ (BrhU.2.4.14), (BrhU.4.5.15) ‘नेह नानास्ति किञ्चन’ (BrhU.4.4.19), (KathU.2.1.11) ‘तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (IsU.7) इत्यादिना विद्याविषये तत्प्रतिषेधाच्च न आत्मधर्मत्वम्। तार्किकसमयविरोधादयुक्तमिति चेत्, न; युक्त्याप्यात्मनो दुःखित्वानुपपत्तेः। न हि दुःखेन प्रत्यक्षविषयेणात्मनो विशेष्यत्वम्, प्रत्यक्षाविषयत्वात्। आकाशस्य शब्दगुणवत्त्ववदात्मनो दुःखित्वमिति चेत्, न; एकप्रत्ययविषयत्वानुपपत्तेः। न हि सुखग्राहकेण प्रत्यक्षविषयेण प्रत्ययेन नित्यानुमेयस्यात्मनो विषयीकरणमुपपद्यते। तस्य च विषयीकरण आत्मन एकत्वाद्विषय्यभावप्रसङ्गः। एकस्यैव विषयविषयित्वम्, दीपवदिति चेत्, न; युगपदसम्भवात्, आत्मन्यंशानुपपत्तेश्च। एतेन विज्ञानस्य ग्राह्यग्राहकत्वं प्रत्युक्तम्। प्रत्यक्षानुमानविषययोश्च दुःखात्मनोर्गुणगुणित्वे न अनुमानम्; दुःखस्य नित्यमेव प्रत्यक्षविषयत्वात्; रूपादिसामानाधिकरण्याच्च; मनःसंयोगजत्वेऽप्यात्मनि दुःखस्य, सावयवत्वविक्रियावत्त्वानित्यत्वप्रसङ्गात्। न ह्यविकृत्य संयोगि द्रव्यं गुणः कश्चिदुपयन् अपयन्वा दृष्टः क्वचित्। न च निरवयवं विक्रियमाणं दृष्टं क्वचित्, अनित्यगुणाश्रयं वा नित्यम्। न चाकाश आगमवादिभिर्नित्यतयाभ्युपगम्यते। न चान्यो दृष्टान्तोऽस्ति। विक्रियमाणमपि तत्प्रत्ययानिवृत्तेः नित्यमेवेति चेत्, न; द्रव्यस्यावयवान्यथात्वव्यतिरेकेण विक्रियानुपपत्तेः। सावयवत्वेऽपि नित्यत्वमिति चेत्, न; सावयवस्यावयवसंयोगपूर्वकत्वे सति विभागोपपत्तेः। वज्रादिष्वदर्शनान्नेति चेत्, न; अनुमेयत्वात्संयोगपूर्वत्वस्य। तस्मान्नात्मनो दुःखाद्यनित्यगुणाश्रयत्वोपपत्तिः। परस्यादुःखित्वेऽन्यस्य च दुःखिनोऽभावे दुःखोपशमनाय शास्त्रारम्भानर्थक्यमिति चेत्, न; अविद्याध्यारोपितदुःखित्वभ्रमापोहार्थत्वात् – आत्मनि प्रकृतसङ्ख्यापूरणभ्रमापोहवत्; कल्पितदुःख्यात्माभ्युपगमाच्च।
जलसूर्यादिप्रतिबिम्बवत् आत्मप्रवेशश्च प्रतिबिम्बवत् व्याकृते कार्ये उपलभ्यत्वम्। प्रागुत्पत्तेरनुपलब्ध आत्मा पश्चात्कार्ये च सृष्टे व्याकृते बुद्धेरन्तरुपलभ्यमानः, सूर्यादिप्रतिबिम्बवज्जलादौ, कार्यं सृष्ट्वा प्रविष्ट इव लक्ष्यमाणो निर्दिश्यते – ‘स एष इह प्रविष्टः’ ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ (TaitU.2.6.6) ‘स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत’ (AitU.1.3.12) ‘सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य’ (ChanU.6.3.2) इत्येवमादिभिः। न तु सर्वगतस्य निरवयवस्य दिग्देशकालान्तरापक्रमणप्राप्तिलक्षणः प्रवेशः कदाचिदप्युपपद्यते। न च परादात्मनोऽन्योऽस्ति द्रष्टा, ‘नान्यदतोऽस्ति द्रष्टृ’ ‘नान्यदतोऽस्ति श्रोतृ’ (BrhU.3.8.1) इत्यादिश्रुतेः – इत्यवोचाम। उपलब्ध्यर्थत्वाच्च सृष्टिप्रवेशस्थित्यप्ययवाक्यानाम्; उपलब्धेः पुरुषार्थत्वश्रवणात् – ‘आत्मानमेवावेत् तस्मात्तत्सर्वमभवत्’ (BrhU.1.4.10) ‘ब्रह्मविदाप्नोति परम्’ (TaitU.2.1.1) ‘स यो ह वै तत्परं ब्रह्म वेद ब्रह्मैव भवति’ (MunU.3.2.9) ‘आचार्यवान्पुरुषो वेद’‘तस्य तावदेव चिरम्’ (ChanU.6.14.2) इत्यादिश्रुतिभ्यः; ‘ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्’ (BhG.18.55) ‘तद्ध्यग्र्यं सर्वविद्यानां प्राप्यते ह्यमृतं ततः’ (मनु. १२-८५) इत्यादिस्मृतिभ्यश्च। भेददर्शनापवादाच्च, सृष्ट्यादिवाक्यानामात्मैकत्वदर्शनार्थपरत्वोपपत्तिः। तस्मात्कार्यस्थस्योपलभ्यत्वमेव प्रवेश इत्युपचर्यते।
आ नखाग्रेभ्यः – नखाग्रमर्यादमात्मनश्चैतन्यमुपलभ्यते। तत्र कथमिव प्रविष्ट इत्याह – यथा लोके, क्षुरधाने क्षुरो धीयते अस्मिन्निति क्षुरधानं तस्मिन् नापितोपस्कराधाने, क्षुरः अन्तस्थ उपलभ्यते – अवहितः प्रवेशितः, स्यात्; यथा वा विश्वम्भरः अग्निः – विश्वस्य भरणात् विश्वम्भरकुलाये नीडे अग्निः काष्ठादौ, अवहितः स्यादित्यनुवर्तते; तत्र हि स मथ्यमान उपलभ्यते। यथा च क्षुरः क्षुरधान एकदेशेऽवस्थितः, यथा चाग्निः काष्ठादौ सर्वतो व्याप्यावस्थितः, एवं सामान्यतो विशेषतश्च देहं संव्याप्यावस्थित आत्मा; तत्र हि स प्राणनादिक्रियावान् दर्शनादिक्रियावांश्चोपलभ्यते। तस्मात् तत्र एवं प्रविष्टं तम् आत्मानं प्राणनादिक्रियाविशिष्टम्, न पश्यन्ति नोपलभन्ते। नन्वप्राप्तप्रतिषेधोऽयम् – ‘तं न पश्यन्ति’ इति, दर्शनस्याप्रकृतत्वात्; नैष दोषः; सृष्ट्यादिवाक्यानामात्मैकत्वप्रतिपत्त्यर्थपरत्वात्प्रकृतमेव तस्य दर्शनम्; ‘रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय’ (BrhU.2.5.19) इति मन्त्रवर्णात्। तत्र प्राणनादिक्रियाविशिष्टस्य दर्शने हेतुमाह – अकृत्स्नः असमस्तः, हि यस्मात्, सः प्राणनादिक्रियाविशिष्टः। कुतः पुनरकृत्स्नत्वमिति, उच्यते – प्राणन्नेव प्राणनक्रियामेव कुर्वन्, प्राणो नाम प्राणसमाख्यः प्राणाभिधानो भवति; प्राणनक्रियाकर्तृत्वाद्धि प्राणः प्राणितीत्युच्यते, नान्यां क्रियां कुर्वन् – यथा लावकः पाचक इति; तस्मात्क्रियान्तरविशिष्टस्यानुपसंहारादकृत्स्नो हि सः। तथा वदन् वदनक्रियां कुर्वन्, वक्तीति वाक्, पश्यन् चक्षुः, चष्ट इति चक्षुः द्रष्टा, शृण्वन् शृणोतीति श्रोत्रम्। ‘प्राणन्नेव प्राणो वदन्वाक्’ इत्याभ्यां क्रियाशक्त्युद्भवः प्रदर्शितो भवति। ‘पश्यंश्चक्षुः शृण्वञ्श्रोत्रम्’ इत्याभ्यां विज्ञानशक्त्युद्भवः प्रदर्श्यते, नामरूपविषयत्वाद्विज्ञानशक्तेः। श्रोत्रचक्षुषी विज्ञानस्य साधने, विज्ञानं तु नामरूपसाधनम्; न हि नामरूपव्यतिरिक्तं विज्ञेयमस्ति; तयोश्चोपलम्भे करणं चक्षुश्रोत्रे। क्रिया च नामरूपसाध्या प्राणसमवायिनी; तस्याः प्राणाश्रयाया अभिव्यक्तौ वाक् करणम्; तथा पाणिपादपायूपस्थाख्यानि; सर्वेषामुपलक्षणार्था वाक्। एतदेव हि सर्वं व्याकृतम् – ‘त्रयं वा इदं नाम रूपं कर्म’ (BrhU.1.6.1) इति हि वक्ष्यति। मन्वानो मनः – मनुते इति; ज्ञानशक्तिविकासानां साधारणं करणं मनः – मनुतेऽनेनेति; पुरुषस्तु कर्ता सन्मन्वानो मन इत्युच्यते। तान्येतानि प्राणादीनि, अस्य आत्मनः कर्मनामानि, कर्मजानि नामानि कर्मनामानि एव, न तु वस्तुमात्रविषयाणि; अतो न कृत्स्नात्मवस्त्ववद्योतकानि – एवं ह्यासावात्मा प्राणनादिक्रियया तत्तत्क्रियाजनितप्राणादिनामरूपाभ्यां व्याक्रियमाणोऽवद्योत्यमानोऽपि। स योऽतः अस्मात्प्राणनादिक्रियासमुदायात्, एकैकं प्राणं चक्षुरिति वा विशिष्टमनुपसंहृतेतरविशिष्टक्रियात्मकम्, मनसा अयमात्मेति उपास्ते चिन्तयति, न स वेद न स जानाति ब्रह्म। कस्मात्? अकृत्स्नोऽसमस्तः हि यस्मात् एष आत्मा, अस्मात्प्राणनादिसमुदायात्, अतः प्रविभक्तः, एकैकेन विशेषणेन विशिष्टः, इतरधर्मान्तरानुपसंहारात् – भवति। यावदयमेवं वेद – ‘पश्यामि’ ‘शृणोमि’ ‘स्पृशामि’ इति वा स्वभावप्रवृत्तिविशिष्टं वेद, तावदञ्जसा कृत्स्नमात्मानं न वेद।
कथं पुनः पश्यन्वेदेत्याह – आत्मेत्येव आत्मेति – प्राणादीनि विशेषणानि यान्युक्तानि तानि यस्य सः – आप्नुवंस्तान्यात्मेत्युच्यते। स तथा कृत्स्नविशेषोपसंहारी सन्कृत्स्नो भवति। वस्तुमात्ररूपेण हि प्राणाद्युपाधिविशेषक्रियाजनितानि विशेषणानि व्याप्नोति। तथा च वक्ष्यति – ‘ध्यायतीव लेलायतीव’ (BrhU.4.3.7) इति। तस्मादात्मेत्येव उपासीत। एवं कृत्स्नो ह्यसौ स्वेन वस्तुरूपेण गृह्यमाणो भवति। कस्मात्कृत्स्न इत्याशङ्क्याह – अत्र अस्मिन्नात्मनि, हि यस्मात्, निरुपाधिके, जलसूर्यप्रतिबिम्बभेदा इवादित्ये, प्राणाद्युपाधिकृता विशेषाः प्राणादिकर्मजनामाभिधेया यथोक्ता ह्येते, एकम् अभिन्नताम्, भवन्ति प्रतिपद्यन्ते।
‘आत्मेत्येवोपासीत’ (BrhU.1.4.7) इति नापूर्वविधिः, पक्षे प्राप्तत्वात्। ‘यत्साक्षादपरोक्षाद्ब्रह्म’ (BrhU.3.4.1), (BrhU.3.5.1) ‘कतम आत्मेति – योऽयं विज्ञानमयः’ (BrhU.4.3.7) इत्येवमाद्यात्मप्रतिपादनपराभिः श्रुतिभिरात्मविषयं विज्ञानमुत्पादितम्; तत्रात्मस्वरूपविज्ञानेनैव तद्विषयानात्माभिमानबुद्धिः कारकादिक्रियाफलाध्यारोपणात्मिका अविद्या निवर्तिता; तस्यां निवर्तितायां कामादिदोषानुपपत्तेरनात्मचिन्तानुपपत्तिः; पारिशेष्यादात्मचिन्तैव। तस्मात्तदुपासनमस्मिन्पक्षे न विधातव्यम्, प्राप्तत्वात्।
तिष्ठतु तावत् – पाक्षिक्यात्मोपासनप्राप्तिर्नित्या वेति। अपूर्वविधिः स्यात्, ज्ञानोपासनयोरेकत्वे सत्यप्राप्तत्वात्; ‘न स वेद’ इति विज्ञानं प्रस्तुत्य ‘आत्मेत्येवोपासीत’ (BrhU.1.4.7) इत्यभिधानाद्वेदोपासनशब्दयोरेकार्थतावगम्यते। ‘अनेन ह्येतत्सर्वं वेद’ ‘आत्मानमेवावेत्’ (BrhU.1.4.10) इत्यादिश्रुतिभ्यश्च विज्ञानमुपासनम्। तस्य चाप्राप्तत्वाद्विध्यर्हत्वम्। न च स्वरूपान्वाख्याने पुरुषप्रवृत्तिरुपपद्यते। तस्मादपूर्वविधिरेवायम्। कर्मविधिसामान्याच्च – यथा ‘यजेत’ ‘जुहुयात्’ इत्यादयः कर्मविधयः, न तैरस्य ‘आत्मेत्येवोपासीत’ (BrhU.1.4.7) ‘आत्मा वा अरे द्रष्टव्यः’ (BrhU.2.4.5), (BrhU.4.5.6) इत्याद्यात्मोपासनविधेर्विशेषोऽवगम्यते। मानसक्रियात्वाच्च विज्ञानस्य – यथा ‘यस्यै देवतायै हविर्गृहीतं स्यात्तां मनसा ध्यायेद्वषट्करिष्यन्’ (ऐ. ब्रा. ३-८-१) इत्याद्या मानसी क्रिया विधीयते, तथा ‘आत्मेत्येवोपासीत’ (BrhU.1.4.7) ‘मन्तव्यो निदिध्यासितव्यः’ (BrhU.2.4.5), (BrhU.4.5.6) इत्याद्या क्रियैव विधीयते ज्ञानात्मिका। तथावोचाम वेदोपासनशब्दयोरेकार्थत्वमिति। भावनांशत्रयोपपत्तेश्च – यथा हि ‘यजेत’ इत्यस्यां भावनायाम्, किम्? केन? कथम्? इति भाव्याद्याकाङ्क्षापनयकारणमंशत्रयमवगम्यते, तथा ‘उपासीत’ इत्यस्यामपि भावनायां विधीयमानायाम्, किमुपासीत? केनोपासीत? कथमुपासीत? इत्यस्यामाकाङ्क्षायाम्, ‘आत्मानमुपासीत मनसा त्यागब्रह्मचर्यशमदमोपरमतितिक्षादीतिकर्तव्यतासंयुक्तः’ इत्यादिशास्त्रेणैव समर्थ्यते अंशत्रयम्। यथा च कृत्स्नस्य दर्शपूर्णमासादिप्रकरणस्य दर्शपूर्णमासादिविध्युद्देशत्वेनोपयोगः; एवमौपनिषदात्मोपासनप्रकरणस्यात्मोपासनविध्युद्देशत्वेनैवोपयोगः। ‘नेति नेति’ (BrhU.2.3.6) ‘अस्थूलम्’ (BrhU.3.8.8) ‘एकमेवाद्वितीयम्’ (ChanU.6.2.1) ‘अशनायाद्यतीतः’ (BrhU.3.5.1) इत्येवमादिवाक्यानामुपास्यात्मस्वरूपविशेषसमर्पणेनोपयोगः। फलं च मोक्षोऽविद्यानिवृत्तिर्वा।
अपरे वर्णयन्ति – उपासनेनात्मविषयं विशिष्टं विज्ञानान्तरं भावयेत्; तेनात्मा ज्ञायते; अविद्यानिवर्तकं च तदेव, नात्मविषयं वेदवाक्यजनितं विज्ञानमिति। एतस्मिन्नर्थे वचनान्यपि – ‘विज्ञाय प्रज्ञां कुर्वीत’ (BrhU.4.4.21) ‘द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ (BrhU.2.4.5), (BrhU.4.5.6) ‘सोऽन्वेष्टव्यः स विजिज्ञासितव्यः’ (ChanU.8.7.1) इत्यादीनि।
न, अर्थान्तराभावात्। न च ‘आत्मेत्येवोपासीत’ (BrhU.1.4.7) इत्यपूर्वविधिः; कस्मात्? आत्मस्वरूपकथनानात्मप्रतिषेधवाक्यजनितविज्ञानव्यतिरेकेणार्थान्तरस्य कर्तव्यस्य मानसस्य बाह्यस्य वाभावात्। तत्र हि विधेः साफल्यम्, यत्र विधिवाक्यश्रवणमात्रजनितविज्ञानव्यतिरेकेण पुरुषप्रवृत्तिर्गम्यते – यथा ‘दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’ इत्येवमादौ। न हि दर्शपूर्णमासविधिवाक्यजनितविज्ञानमेव दर्शपूर्णमासानुष्ठानम्। तच्चाधिकाराद्यपेक्षानुभावि। न तु ‘नेति नेति’ (BrhU.2.3.6) इत्याद्यात्मप्रतिपादकवाक्यजनितविज्ञानव्यतिरेकेण दर्शपूर्णमासादिवत्पुरुषव्यापारः सम्भवति; सर्वव्यापारोपशमहेतुत्वात्तद्वाक्यजनितविज्ञानस्य। न ह्युदासीनविज्ञानं प्रवृत्तिजनकम्; अब्रह्मानात्मविज्ञाननिवर्तकत्वाच्च ‘एकमेवाद्वितीयम्’ (ChanU.6.2.1) ‘तत्त्वमसि’ (ChanU.6.8.7) इत्येवमादिवाक्यानाम्। न च तन्निवृत्तौ प्रवृत्तिरुपपद्यते, विरोधात्। वाक्यजनितविज्ञानमात्रान्नाब्रह्मानात्मविज्ञाननिवृत्तिरिति चेत्, न; ‘तत्त्वमसि’ (ChanU.6.8.7) ‘नेति नेति’ (BrhU.2.3.6) ‘आत्मैवेदम्’ (ChanU.7.25.2) ‘एकमेवाद्वितीयम्’ (ChanU.6.2.1) ‘ब्रह्मैवेदममृतम्’ (MunU.2.2.11) ‘नान्यदतोऽस्ति द्रष्टृ’ (BrhU.3.8.11) ‘तदेव ब्रह्म त्वं विद्धि’ (KenU.1.5) इत्यादिवाक्यानां तद्वादित्वात्। द्रष्टव्यविधेर्विषयसमर्पकाण्येतानीति चेत्, न; अर्थान्तराभावादित्युक्तोत्तरत्वात् – आत्मवस्तुस्वरूपसमर्पकैरेव वाक्यैः ‘तत्त्वमसि’ (ChanU.6.8.7) इत्यादिभिः श्रवणकाल एव तद्दर्शनस्य कृतत्वाद्द्रष्टव्यविधेर्नानुष्ठानान्तरं कर्तव्यमित्युक्तोत्तरमेतत्। आत्मस्वरूपान्वाख्यानमात्रेणात्मविज्ञाने विधिमन्तरेण न प्रवर्तत इति चेत्, न; आत्मवादिवाक्यश्रवणेनात्मविज्ञानस्य जनितत्वात् – किं भोः कृतस्य करणम्। तच्छ्रवणेऽपि न प्रवर्तत इति चेत्, न; अनवस्थाप्रसङ्गात् – यथात्मवादिवाक्यार्थश्रवणे विधिमन्तरेण न प्रवर्तते, तथा विधिवाक्यार्थश्रवणेऽपि विधिमन्तरेण न प्रवर्तिष्यत इति विध्यन्तरापेक्षा; तथा तदर्थश्रवणेऽपीत्यनवस्था प्रसज्येत। वाक्यजनितात्मज्ञानस्मृतिसन्ततेः श्रवणविज्ञानमात्रादर्थान्तरत्वमिति चेत्, न; अर्थप्राप्तत्वात् – यदैवात्मप्रतिपादकवाक्यश्रवणादात्मविषयं विज्ञानमुत्पद्यते, तदैव तदुत्पद्यमानं तद्विषयं मिथ्याज्ञानं निवर्तयदेवोत्पद्यते; आत्मविषयमिथ्याज्ञाननिवृत्तौ च तत्प्रभवाः स्मृतयो न भवन्ति स्वाभाविक्योऽनात्मवस्तुभेदविषयाः; अनर्थत्वावगतेश्च – आत्मावगतौ हि सत्याम् अन्यद्वस्तु अनर्थत्वेनावगम्यते, अनित्यदुःखाशुद्ध्यादिबहुदोषवत्त्वात् आत्मवस्तुनश्च तद्विलक्षणत्वात्; तस्मादनात्मविज्ञानस्मृतीनामात्मावगतेरभावप्राप्तिः; पारिशेष्यादात्मैकत्वविज्ञानस्मृतिसन्ततेरर्थत एव भावान्न विधेयत्वम्। शोकमोहभयायासादिदुःखदोषनिवर्तकत्वाच्च तत्स्मृतेः – विपरीतज्ञानप्रभवो हि शोकमोहादिदोषः; तथा च ‘तत्र को मोहः’ (IsU.7) ‘विद्वान्न बिभेति कुतश्चन’ (TaitU.2.9.1) ‘अभयं वै जनक प्राप्तोऽसि’ (BrhU.4.2.4) ‘भिद्यते हृदयग्रन्थिः’ (MunU.2.2.8) इत्यादिश्रुतयः। निरोधस्तर्ह्यर्थान्तरमिति चेत् – अथापि स्याच्चित्तवृत्तिनिरोधस्य वेदवाक्यजनितात्मविज्ञानादर्थान्तरत्वात्, तन्त्रान्तरेषु च कर्तव्यतया अवगतत्वाद्विधेयत्वमिति चेत् – न, मोक्षसाधनत्वेनानवगमात्। न हि वेदान्तेषु ब्रह्मात्मविज्ञानादन्यत्परमपुरुषार्थसाधनत्वेनावगम्यते – ‘आत्मानमेवावेत्तस्मात्तत्सर्वमभवत्’ ‘ब्रह्मविदाप्नोति परम्’ (TaitU.2.1.1) ‘स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति’ (MunU.3.2.9) ‘आचार्यवान्पुरुषो वेद’‘तस्य तावदेव चिरम्’ (ChanU.6.14.2) ‘अभयं हि वै ब्रह्म भवति। य एवं वेद’ (BrhU.4.4.25) इत्येवमादिश्रुतिशतेभ्यः। अनन्यसाधनत्वाच्च निरोधस्य – न ह्यात्मविज्ञानतत्स्मृतिसन्तानव्यतिरेकेण चित्तवृत्तिनिरोधस्य साधनमस्ति। अभ्युपगम्येदमुक्तम्; न तु ब्रह्मविज्ञानव्यतिरेकेण अन्यत् मोक्षसाधनमवगम्यते। आकाङ्क्षाभावाच्च भावनाभावः। यदुक्तम् ‘यजेत’ इत्यादौ किम्? केन? कथम्? इति भावनाकाङ्क्षायां फलसाधनेतिकर्तव्यताभिः आकाङ्क्षापनयनं यथा, तद्वदिहाप्यात्मविज्ञानविधावप्युपपद्यत इति – तदसत्; ‘एकमेवाद्वितीयम्’ (ChanU.6.2.1) ‘तत्त्वमसि’ (ChanU.6.8.7) ‘नेति नेति’ (BrhU.2.3.6) ‘अनन्तरमबाह्यम्’ (BrhU.2.5.19) ‘अयमात्मा ब्रह्म’ (BrhU.2.5.19) इत्यादिवाक्यार्थविज्ञानसमकालमेव सर्वाकाङ्क्षाविनिवृत्तेः। न च वाक्यार्थविज्ञाने विधिप्रयुक्तः प्रवर्तते। विध्यन्तरप्रयुक्तौ चानवस्थादोषमवोचाम। न च ‘एकमेवाद्वितीयं ब्रह्म’ इत्यादिवाक्येषु विधिरवगम्यते, आत्मस्वरूपान्वाख्यानेनैवावसितत्वात्। वस्तुस्वरूपान्वाख्यानमात्रत्वादप्रामाण्यमिति चेत् – अथापि स्यात्, यथा ‘सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वम्’ (तै. सं. १-५-१-१) इत्येवमादौ वस्तुस्वरूपान्वाख्यानमात्रत्वादप्रामाण्यम्, एवमात्मार्थवाक्यानामपीति चेत् – न, विशेषात्। न वाक्यस्य वस्त्वन्वाख्यानं क्रियान्वाख्यानं वा प्रामाण्याप्रामाण्यकारणम्; किं तर्हि, निश्चितफलवद्विज्ञानोत्पादकत्वम्; तद्यत्रास्ति तत्प्रमाणं वाक्यम्; यत्र नास्ति तदप्रमाणम्। किं च, भोः! पृच्छामस्त्वाम् – आत्मस्वरूपान्वाख्यानपरेषु वाक्येषु फलवन्निश्चितं च विज्ञानमुत्पद्यते, न वा? उत्पद्यते चेत्, कथमप्रामाण्यमिति। किं वा न पश्यस्यविद्याशोकमोहभयादिसंसारबीजदोषनिवृत्तिं विज्ञानफलम्? न शृणोषि वा किम् – ‘तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (IsU.7), ‘मन्त्रविदेवास्मि नात्मवित्सोऽहं भगवः शोचामि तं मा भगवाञ्शोकस्य पारं तारयतु’ (ChanU.7.1.3) इत्येवमाद्युपनिषद्वाक्यशतानि? एवं विद्यते किम् ‘सोऽरोदीत्’ इत्यादिषु निश्चितं फलवच्च विज्ञानम्? न चेद्विद्यते, अस्त्वप्रामाण्यम्; तदप्रामाण्ये, फलवन्निश्चितविज्ञानोत्पादकस्य किमित्यप्रामाण्यं स्यात्? तदप्रामाण्ये च दर्शपूर्णमासादिवाक्येषु को विश्रम्भः? ननु दर्शपूर्णमासादिवाक्यानां पुरुषप्रवृत्तिविज्ञानोत्पादकत्वात्प्रामाण्यम्, आत्मविज्ञानवाक्येषु तन्नास्तीति; सत्यमेवम्; नैष दोषः, प्रामाण्यकारणोपपत्तेः। प्रामाण्यकारणं च यथोक्तमेव, नान्यत्। अलङ्कारश्चायम्, यत् सर्वप्रवृत्तिबीजनिरोधफलवद्विज्ञानोत्पादकत्वम् आत्मप्रतिपादकवाक्यानाम्, न अप्रामाण्यकारणम्। यत्तूक्तम् – ‘विज्ञाय प्रज्ञां कुर्वीत’ (BrhU.4.4.21) इत्यादिवचनानां वाक्यार्थविज्ञानव्यतिरेकेणोपासनार्थत्वमिति, सत्यमेतत्; किन्तु न अपूर्वविध्यर्थता; पक्षे प्राप्तस्य नियमार्थतैव। कथं पुनरुपासनस्य पक्षप्राप्तिः, यावता पारिशेष्यादात्मविज्ञानस्मृतिसन्ततिर्नित्यैवेत्यभिहितम्? बाढम् – यद्यप्येवम्, शरीरारम्भकस्य कर्मणो नियतफलत्वात्, सम्यग्ज्ञानप्राप्तावपि अवश्यम्भाविनी प्रवृत्तिर्वाङ्मनःकायानाम्, लब्धवृत्तेः कर्मणो बलीयस्त्वात् – मुक्तेष्वादिप्रवृत्तिवत्; तेन पक्षे प्राप्तं ज्ञानप्रवृत्तिदौर्बल्यम्। तस्मात् त्यागवैराग्यादिसाधनबलावलम्बेन आत्मविज्ञानस्मृतिसन्ततिर्नियन्तव्या भवति; न त्वपूर्वा कर्तव्या; प्राप्तत्वात् – इत्यवोचाम। तस्मात्प्राप्तविज्ञानस्मृतिसन्ताननियमविध्यर्थानि ‘विज्ञाय प्रज्ञां कुर्वीत’ (BrhU.4.4.21) इत्यादिवाक्यानि, अन्यार्थासम्भवात्। ननु अनात्मोपासनमिदम्, इति-शब्दप्रयोगात्; यथा ‘प्रियमित्येतदुपासीत’ (BrhU.4.1.3) इत्यादौ न प्रियादिगुणा एवोपास्याः, किं तर्हि, प्रियादिगुणवत्प्राणाद्येवोपास्यम्; तथा इहापि इति-परात्मशब्दप्रयोगात् आत्मगुणवदनात्मवस्तु उपास्यमिति गम्यते; आत्मोपास्यत्ववाक्यवैलक्षण्याच्च – परेण च वक्ष्यति – ‘आत्मानमेव लोकमुपासीत’ (BrhU.1.4.15) इति; तत्र च वाक्ये आत्मैवोपास्यत्वेनाभिप्रेतः, द्वितीयाश्रवणात् ‘आत्मानमेव’ इति; इह तु न द्वितीया श्रूयते, इति-परश्च आत्मशब्दः – ‘आत्मेत्येवोपासीत’ (BrhU.1.4.7) इति; अतो न आत्मोपास्यः, आत्मगुणश्चान्यः – इति त्ववगम्यते। न, वाक्यशेषे आत्मन उपास्यत्वेनावगमात्; अस्यैव वाक्यस्य शेषे आत्मैवोपास्यत्वेनावगम्यते – ‘तदेतत्पदनीयमस्य सर्वस्य, यदयमात्मा’, ‘अन्तरतरं यदयमात्मा’ (BrhU.1.4.8), ‘आत्मानमेवावेत्’ (BrhU.1.4.10) इति। प्रविष्टस्य दर्शनप्रतिषेधादनुपास्यत्वमिति चेत् – यस्यात्मनः प्रवेश उक्तः, तस्यैव दर्शनं वार्यते – ‘तं न पश्यन्ति’ इति प्रकृतोपादानात्; तस्मादात्मनोऽनुपास्यत्वमेवेति चेत् – न, अकृत्स्नत्वदोषात्। दर्शनप्रतिषेधोऽकृत्स्नत्वदोषाभिप्रायेण, न आत्मोपास्यत्वप्रतिषेधाय; प्राणनादिक्रियाविशिष्टत्वेन विशेषणात्; आत्मनश्चेदुपास्यत्वमनभिप्रेतम्, प्राणनाद्येकैकक्रियाविशिष्टस्यात्मनोऽकृत्स्नत्ववचनमनर्थकं स्यात् – ‘अकृत्स्नो ह्येषोऽत एकैकेन भवति’ इति। अतः अनेकैकविशिष्टस्त्वात्मा कृत्स्नत्वादुपास्य एवेति सिद्धम्। यस्त्वात्मशब्दस्य इति-परः प्रयोगः, आत्मशब्दप्रत्यययोः आत्मतत्त्वस्य परमार्थतोऽविषयत्वज्ञापनार्थम्; अन्यथा ‘आत्मानमुपासीत’ इत्येवमवक्ष्यत्; तथा च अर्थात् आत्मनि शब्दप्रत्ययावनुज्ञातौ स्याताम्; तच्चानिष्टम् – ‘नेति नेति’ (BrhU.2.3.6) ‘विज्ञातारमरे केन विजानीयात्’ (BrhU.2.4.14), (BrhU.4.5.15) ‘अविज्ञातं विज्ञातृ’ (BrhU.3.8.11) ‘यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’ (TaitU.2.9.1) इत्यादिश्रुतिभ्यः। यत्तु ‘आत्मानमेव लोकमुपासीत’ (BrhU.1.4.15) इति, तत् अनात्मोपासनप्रसङ्गनिवृत्तिपरत्वात् न वाक्यान्तरम्।
अनिर्ज्ञातत्वसामान्यात् आत्मा ज्ञातव्यः, अनात्मा च। तत्र कस्मादात्मोपासन एव यत्न आस्थीयते – ‘आत्मेत्येवोपासीत’ (BrhU.1.4.7) इति, नेतरविज्ञाने इति; अत्रोच्यते – तदेतद् एव प्रकृतम्, पदनीयं गमनीयम्, नान्यत्; अस्य सर्वस्य इति निर्धारणार्था षष्ठी; अस्मिन्सर्वस्मिन्नित्यर्थः; यदयमात्मा यदेतदात्मतत्त्वम्; किं न विज्ञातव्यमेवान्यत्? न; किं तर्हि, ज्ञातव्यत्वेऽपि न पृथग्ज्ञानान्तरमपेक्षते आत्मज्ञानात्; कस्मात्? अनेन आत्मना ज्ञातेन, हि यस्मात्, एतत्सर्वम् अनात्मजातम् अन्यद्यत् तत्सर्वं समस्तम्, वेद जानाति। नन्वन्यज्ञानेनान्यन्न ज्ञायत इति; अस्य परिहारं दुन्दुभ्यादिग्रन्थेन वक्ष्यामः। कथं पुनरेतत्पदनीयमिति, उच्यते – यथा ह वै लोके, पदेन – गवादिखुराङ्कितो देशः पदमित्युच्यते, तेन पदेन – नष्टं विवित्सितं पशुं पदेनान्वेषमाणः अनुविन्देत् लभेत; एवम् आत्मनि लब्धे सर्वमनुलभते इत्यर्थः।
नन्वात्मनि ज्ञाते सर्वमन्यज्ज्ञायत इति ज्ञाने प्रकृते, कथं लाभोऽप्रकृत उच्यत इति; न, ज्ञानलाभयोरेकार्थत्वस्य विवक्षितत्वात्। आत्मनो ह्यलाभोऽज्ञानमेव; तस्माज्ज्ञानमेवात्मनो लाभः; न अनात्मलाभवत् अप्राप्तप्राप्तिलक्षण आत्मलाभः, लब्धृलब्धव्ययोर्भेदाभावात्। यत्र ह्यात्मनोऽनात्मा लब्धव्यो भवति, तत्रात्मा लब्धा, लब्धव्योऽनात्मा। स चाप्राप्तः उत्पाद्यादिक्रियाव्यवहितः, कारकविशेषोपादानेन क्रियाविशेषमुत्पाद्य लब्धव्यः। स त्वप्राप्तप्राप्तिलक्षणोऽनित्यः, मिथ्याज्ञानजनितकामक्रियाप्रभवत्वात् – स्वप्ने पुत्रादिलाभवत्। अयं तु तद्विपरीत आत्मा। आत्मत्वादेव नोत्पाद्यादिक्रियाव्यवहितः। नित्यलब्धस्वरूपत्वेऽपि अविद्यामात्रं व्यवधानम्। यथा गृह्यमाणाया अपि शुक्तिकाया विपर्ययेण रजताभासाया अग्रहणं विपरीतज्ञानव्यवधानमात्रम्, तथा ग्रहणं ज्ञानमात्रमेव, विपरीतज्ञानव्यवधानापोहार्थत्वाज्ज्ञानस्य; एवमिहाप्यात्मनोऽलाभः अविद्यामात्रव्यवधानम्; तस्माद्विद्यया तदपोहनमात्रमेव लाभः, नान्यः कदाचिदप्युपपद्यते। तस्मादात्मलाभे ज्ञानादर्थान्तरसाधनस्य आनर्थक्यं वक्ष्यामः। तस्मान्निराशङ्कमेव ज्ञानलाभयोरेकार्थत्वं विवक्षन्नाह – ज्ञानं प्रकृत्य – ‘अनुविन्देत्’ इति; विन्दतेर्लाभार्थत्वात्।
गुणविज्ञानफलमिदमुच्यते – यथा – अयमात्मा नामरूपानुप्रवेशेन ख्यातिं गतः आत्मेत्यादिनामरूपाभ्याम्, प्राणादिसंहतिं च श्लोकं प्राप्तवान् – इति – एवम्, यो वेद; सः कीर्तिं ख्यातिम्, श्लोकं च सङ्घातमिष्टैः सह, विन्दते लभते। यद्वा यथोक्तं वस्तु यो वेद; मुमुक्षूणामपेक्षितं कीर्तिशब्दितमैक्यज्ञानम्, तत्फलं श्लोकशब्दितां मुक्तिमाप्नोति – इति मुख्यमेव फलम्॥
🔗  कुतश्चात्मतत्त्वमेव ज्ञेयम् अनादृत्यान्यदित्याह – तदेतद् आत्मतत्त्वम्, प्रेयः प्रियतरम्, पुत्रात्; पुत्रो हि लोके प्रियः प्रसिद्धः, तस्मादपि प्रियतरम् – इति निरतिशयप्रियत्वं दर्शयति; तथा वित्तात् हिरण्यरत्नादेः; तथा अन्यस्मात् यद्यल्लोके प्रियत्वेन प्रसिद्धं तस्मात् सर्वस्मात् इत्यर्थः। तत्कस्मादात्मतत्त्वमेव प्रियतरं न प्राणादीति, उच्यते – अन्तरतरम् – बाह्यात्पुत्रवित्तादेः प्राणपिण्डसमुदायो हि अन्तरः अभ्यन्तरः सन्निकृष्ट आत्मनः; तस्मादप्यन्तरात् अन्तरतरम्, यदयमात्मा यदेतदात्मतत्त्वम्। यो हि लोके निरतिशयप्रियः स सर्वप्रयत्नेन लब्धव्यो भवति; तथा अयमात्मा सर्वलौकिकप्रियेभ्यः प्रियतमः; तस्मात्तल्लाभे महान्यत्न आस्थेय इत्यर्थः – कर्तव्यताप्राप्तमप्यन्यप्रियलाभे यत्नमुज्झित्वा। कस्मात्पुनः आत्मानात्मप्रिययोः अन्यतरप्रियहानेन इतरप्रियोपादानप्राप्तौ, आत्मप्रियोपादानेनैवेतरहानं क्रियते, न विपर्ययः – इति, उच्यते – स यः कश्चित्, अन्यम् अनात्मविशेषं पुत्रादिकम्, प्रियतरम् आत्मनः सकाशात्, ब्रुवाणम्, ब्रूयाद् आत्मप्रियवादी – किम्? प्रियं तवाभिमतं पुत्रादिलक्षणम्, रोत्स्यति आवरणं प्राणसंरोधं प्राप्स्यति विनङ्क्ष्यति इति; स कस्मादेवं ब्रवीति? यस्माद् ईश्वरः समर्थः पर्याप्तोऽसावेवं वक्तुं ह; यस्मात् तस्मात् तथैव स्यात्; यत्तेनोक्तम् – ‘प्राणसंरोधं प्राप्स्यति’; यथाभूतवादी हि सः, तस्मात्स ईश्वरो वक्तुम्। ईश्वरशब्दः क्षिप्रवाचीति केचित्; भवेद्यदि प्रसिद्धिः स्यात्। तस्मादुज्झित्वान्यत्प्रियम्, आत्मानमेव प्रियमुपासीतस य आत्मानमेव प्रियमुपास्ते – आत्मैव प्रियो नान्योऽस्तीति प्रतिपद्यते, अन्यल्लौकिकं प्रियमप्यप्रियमेवेति निश्चित्य, उपास्ते चिन्तयति, न हास्य एवंविदः प्रियं प्रमायुकं प्रमरणशीलं भवति। नित्यानुवादमात्रमेतत्, आत्मविदोऽन्यस्य प्रियस्याप्रियस्य च अभावात्; आत्मप्रियग्रहणस्तुत्यर्थं वा; प्रियगुणफलविधानार्थं वा मन्दात्मदर्शिनः, ताच्छील्यप्रत्ययोपादानात्॥
🔗  सूत्रिता ब्रह्मविद्या – ‘आत्मेत्येवोपासीत’ (BrhU.1.4.7) इति, यदर्थोपनिषत्कृत्स्नापि; तस्यैतस्य सूत्रस्य व्याचिख्यासुः प्रयोजनाभिधित्सयोपोज्जिघांसति – तद् इति वक्ष्यमाणमनन्तरवाक्येऽवद्योत्यं वस्तु – आहुः – ब्राह्मणाः ब्रह्म विविदिषवः जन्मजरामरणप्रबन्धचक्रभ्रमणकृतायासदुःखोदकापारमहोदधिप्लवभूतं गुरुमासाद्य तत्तीरमुत्तितीर्षवः धर्माधर्मसाधनतत्फललक्षणात्साध्यसाधनरूपान्निर्विण्णाः तद्विलक्षणनित्यनिरतिशयश्रेयःप्रतिपित्सवः; किमाहुरित्याह – यद्ब्रह्मविद्यया; ब्रह्म परमात्मा, तत् यया वेद्यते सा ब्रह्मविद्या तया ब्रह्मविद्यया, सर्वं निरवशेषम्, भविष्यन्तः भविष्याम इत्येवम्, मनुष्या यत् मन्यन्ते; मनुष्यग्रहणं विशेषतोऽधिकारज्ञापनार्थम्; मनुष्या एव हि विशेषतोऽभ्युदयनिःश्रेयससाधनेऽधिकृता इत्यभिप्रायः; यथा कर्मविषये फलप्राप्तिं ध्रुवां कर्मभ्यो मन्यन्ते, तथा ब्रह्मविद्यायाः सर्वात्मभावफलप्राप्तिं ध्रुवामेव मन्यन्ते, वेदप्रामाण्यस्योभयत्राविशेषात्; तत्र विप्रतिषिद्धं वस्तु लक्ष्यते; अतः पृच्छामः – किमु तद्ब्रह्म, यस्य विज्ञानात्सर्वं भविष्यन्तो मनुष्या मन्यन्ते? तत्किम् अवेत्, यस्माद् विज्ञानात् तद् ब्रह्म सर्वमभवत्? ब्रह्म च सर्वमिति श्रूयते, तत् यदि अविज्ञाय किञ्चित्सर्वमभवत्, तथान्येषामप्यस्तु; किं ब्रह्मविद्यया? अथ विज्ञाय सर्वमभवत्, विज्ञानसाध्यत्वात्कर्मफलेन तुल्यमेवेत्यनित्यत्वप्रसङ्गः सर्वभावस्य ब्रह्मविद्याफलस्य; अनवस्थादोषश्च – तदप्यन्यद्विज्ञाय सर्वमभवत्, ततः पूर्वमप्यन्यद्विज्ञायेति। न तावदविज्ञाय सर्वमभवत्, शास्त्रार्थवैरूप्यदोषात्। फलानित्यत्वदोषस्तर्हि? नैकोऽपि दोषः, अर्थविशेषोपपत्तेः॥
🔗  यदि किमपि विज्ञायैव तद्ब्रह्म सर्वमभवत्, पृच्छामः – किमु तद्ब्रह्मावेद्यस्मात्तत्सर्वमभवदिति। एवं चोदिते सर्वदोषानागन्धितं प्रतिवचनमाह –
ब्रह्म अपरम्, सर्वभावस्य साध्यत्वोपपत्तेः; न हि परस्य ब्रह्मणः सर्वभावापत्तिर्विज्ञानसाध्या; विज्ञानसाध्यां च सर्वभावापत्तिमाह – ‘तस्मात्तत्सर्वमभवत्’ इति; तस्माद्ब्रह्म वा इदमग्र आसीत् इत्यपरं ब्रह्मेह भवितुमर्हति।
मनुष्याधिकाराद्वा तद्भावी ब्राह्मणः स्यात्; ‘सर्वं भविष्यन्तो मनुष्या मन्यन्ते’ इति हि मनुष्याः प्रकृताः; तेषां च अभ्युदयनिःश्रेयससाधने विशेषतोऽधिकार इत्युक्तम्, न परस्य ब्रह्मणो नाप्यपरस्य प्रजापतेः; अतो द्वैतैकत्वापरब्रह्मविद्यया कर्मसहितया अपरब्रह्मभावमुपसम्पन्नो भोज्यादपावृत्तः सर्वप्राप्त्योच्छिन्नकामकर्मबन्धनः परब्रह्मभावी ब्रह्मविद्याहेतोर्ब्रह्मेत्यभिधीयते; दृष्टश्च लोके भाविनीं वृत्तिमाश्रित्य शब्दप्रयोगः – यथा ‘ओदनं पचति’ इति, शास्त्रे च – ‘परिव्राजकः सर्वभूताभयदक्षिणाम्’ (?) इत्यादि, तथा इह – इति केचित् – ब्रह्म ब्रह्मभावी पुरुषो ब्राह्मणः इति व्याचक्षते।
तन्न, सर्वभावापत्तेरनित्यत्वदोषात्। न हि सोऽस्ति लोके परमार्थतः, यो निमित्तवशाद्भावान्तरमापद्यते नित्यश्चेति। तथा ब्रह्मविज्ञाननिमित्तकृता चेत्सर्वभावापत्तिः, नित्या चेति विरुद्धम्। अनित्यत्वे च कर्मफलतुल्यतेत्युक्तो दोषः। अविद्याकृतासर्वत्वनिवृत्तिं चेत्सर्वभावापत्तिं ब्रह्मविद्याफलं मन्यसे, ब्रह्मभाविपुरुषकल्पना व्यर्था स्यात्। प्राग्ब्रह्मविज्ञानादपि सर्वो जन्तुर्ब्रह्मत्वान्नित्यमेव सर्वभावापन्नः परमार्थतः; अविद्यया तु अब्रह्मत्वमसर्वत्वं चाध्यारोपितम् – यथा शुक्तिकायां रजतम्, व्योम्नि वा तलमलवत्त्वादि; तथेह ब्रह्मण्यध्यारोपितमविद्यया अब्रह्मत्वमसर्वत्वं च ब्रह्मविद्यया निवर्त्यते – इति मन्यसे यदि, तदा युक्तम् – यत्परमार्थत आसीत्परं ब्रह्म, ब्रह्मशब्दस्य मुख्यार्थभूतम् ‘ब्रह्म वा इदमग्र आसीत्’ इत्यस्मिन्वाक्ये उच्यत इति वक्तुम्; यथाभूतार्थवादित्वाद्वेदस्य। न त्वियं कल्पना युक्ता – ब्रह्मशब्दार्थविपरीतो ब्रह्मभावी पुरुषो ब्रह्मेत्युच्यत इति, श्रुतहान्यश्रुतकल्पनाया अन्याय्यत्वात् – महत्तरे प्रयोजनान्तरेऽसति अविद्याकृतव्यतिरेकेणाब्रह्मत्वमसर्वत्वं च विद्यत एवेति चेत्, न, तस्य ब्रह्मविद्ययापोहानुपपत्तेः। न हि क्वचित्साक्षाद्वस्तुधर्मस्यापोढ्री दृष्टा कर्त्री वा ब्रह्मविद्या, अविद्यायास्तु सर्वत्रैव निवर्तिका दृश्यते; तथा इहाप्यब्रह्मत्वमसर्वत्वं चाविद्याकृतमेव निवर्त्यतां ब्रह्मविद्यया; न तु पारमार्थिकं वस्तु कर्तुं निवर्तयितुं वा अर्हति ब्रह्मविद्या। तस्माद्व्यर्थैव श्रुतहान्यश्रुतकल्पना।
ब्रह्मण्यविद्यानुपपत्तिरिति चेत्, न, ब्रह्मणि विद्याविधानात्। न हि शुक्तिकायां रजताध्यारोपणेऽसति शुक्तिकात्वं ज्ञाप्यते – चक्षुर्गोचरापन्नायाम् – ‘इयं शुक्तिका न रजतम्’ इति। तथा ‘सदेवेदं सर्वम्’ (ChanU.6.8.7) ‘ब्रह्मैवेदं सर्वम्’ (?) ‘आत्मैवेदं सर्वम्’ (ChanU.7.25.2) ‘नेदं द्वैतमस्त्यब्रह्म’ (?) इति ब्रह्मण्येकत्वविज्ञानं न विधातव्यम्, ब्रह्मण्यविद्याध्यारोपणायामसत्याम्। न ब्रूमः – शुक्तिकायामिव ब्रह्मण्यतद्धर्माध्यारोपणा नास्तीति; किं तर्हि न ब्रह्म स्वात्मन्यतद्धर्माध्यारोपनिमित्तम् अविद्याकर्तृ चेति – भवत्येवं नाविद्याकर्तृ भ्रान्तं च ब्रह्म। किन्तु नैव अब्रह्म अविद्यकर्ता चेतनो भ्रान्तोऽन्य इष्यते – ‘नान्योऽतोऽस्ति विज्ञाता’ (BrhU.3.7.23) ‘नान्यदतोऽस्ति विज्ञातृ’ (BrhU.3.8.11) ‘तत्त्वमसि’ (ChanU.6.8.7) ‘आत्मानमेवावेत् अहं ब्रह्मास्मि’ (BrhU.1.4.10) ‘अन्योऽसावन्योऽहमस्मीति, न स वेद’ (BrhU.1.4.10) इत्यादिश्रुतिभ्यः; स्मृतिभ्यश्च – ‘समं सर्वेषु भूतेषु’ (BhG.13.27) ‘अहमात्मा गुडाकेश’ (BhG.10.20) ‘शुनि चैव श्वपाके च’ (BhG.5.18); ‘यस्तु सर्वाणि भूतानि’ (IsU.6) ‘यस्मिन्सर्वाणि भूतानि’ (IsU.7) इति च मन्त्रवर्णात्। नन्वेवं शास्त्रोपदेशानर्थक्यमिति; बाढमेवम्, अवगते अस्त्वेवानर्थक्यम्। अवगमानर्थक्यमपीति चेत्, न, अनवगमनिवृत्तेर्दृष्टत्वात्। तन्निवृत्तेरप्यनुपपत्तिरेकत्व इति चेत्, न, दृष्टविरोधात्; दृश्यते ह्येकत्वविज्ञानादेवानवगमनिवृत्तिः; दृश्यमानमप्यनुपपन्नमिति ब्रुवतो दृष्टविरोधः स्यात्; न च दृष्टविरोधः केनचिदप्यभ्युपगम्यते; न च दृष्टेऽनुपपन्नं नाम, दृष्टत्वादेव। दर्शनानुपपत्तिरिति चेत्, तत्राप्येषैव युक्तिः।
‘पुण्यो वै पुण्येन कर्मणा भवति’ (BrhU.3.2.13) ‘तं विद्याकर्मणी समन्वारभेते’ (BrhU.4.4.2) ‘मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः’ (PrasU.4.9) इत्येवमादिश्रुतिस्मृतिन्यायेभ्यः परस्माद्विलक्षणोऽन्यः संसार्यवगम्यते; तद्विलक्षणश्च परः ‘स एष नेति नेति’ (BrhU.2.3.6) ‘अशनायाद्यत्येति’ (BrhU.3.5.1) ‘य आत्मापहतपाप्मा विजरो विमृत्युः’ (ChanU.8.7.1) ‘एतस्य वा अक्षरस्य प्रशासने’ (BrhU.3.8.9) इत्यादिश्रुतिभ्यः; कणादाक्षपादादितर्कशास्त्रेषु च संसारिविलक्षण ईश्वर उपपत्तितः साध्यते; संसारदुःखापनयार्थित्वप्रवृत्तिदर्शनात् स्फुटमन्यत्वम् ईश्वरात् संसारिणोऽवगम्यते; ‘अवाक्यनादरः’ (ChanU.3.4.2) ‘न मे पार्थास्ति’ (BhG.3.32) इति श्रुतिस्मृतिभ्यः; ‘सोऽन्वेष्टव्यः स विजिज्ञासितव्यः’ (ChanU.8.7.1) ‘तं विदित्वा न लिप्यते’ (BrhU.4.4.23) ‘ब्रह्मविदाप्नोति परम्’ (TaitU.2.1.1) ‘एकधैवानुद्रष्टव्यमेतत्’ (BrhU.4.4.20) ‘यो वा एतदक्षरं गार्ग्यविदित्वा’ (BrhU.3.8.10) ‘तमेव धीरो विज्ञाय’ (BrhU.4.4.21) ‘प्रणवो धनुः, शरो ह्यात्मा, ब्रह्म तल्लक्ष्यमुच्यते’ (MunU.2.2.4) इत्यादिकर्मकर्तृनिर्देशाच्च; मुमुक्षोश्च गतिमार्गविशेषदेशोपदेशात्; असति भेदे कस्य कुतो गतिः स्यात्? तदभावे च दक्षिणोत्तरमार्गविशेषानुपपत्तिः गन्तव्यदेशानुपपत्तिश्चेति; भिन्नस्य तु परस्मात् आत्मनः सर्वमेतदुपपन्नम्; कर्मज्ञानसाधनोपदेशाच्च – भिन्नश्चेद्ब्रह्मणः संसारी स्यात्, युक्तस्तं प्रत्यभ्युदयनिःश्रेयससाधनयोः कर्मज्ञानयोरुपदेशः, नेश्वरस्य आप्तकामत्वात्; तस्माद्युक्तं ब्रह्मेति ब्रह्मभावी पुरुष उच्यत इति चेत् – न, ब्रह्मोपदेशानर्थक्यप्रसङ्गात् – संसारी चेद्ब्रह्मभावी अब्रह्म सन्, विदित्वात्मानमेव अहं ब्रह्मास्मीति, सर्वमभवत्; तस्य संसार्यात्मविज्ञानादेव सर्वात्मभावस्य फलस्य सिद्धत्वात्परब्रह्मोपदेशस्य ध्रुवमानर्थक्यं प्राप्तम्। तद्विज्ञानस्य क्वचित्पुरुषार्थसाधनेऽविनियोगात्संसारिण एव – अहं ब्रह्मास्मीति – ब्रह्मत्वसम्पादनार्थ उपदेश इति चेत् – अनिर्ज्ञाते हि ब्रह्मस्वरूपे किं सम्पादयेत् – अहं ब्रह्मास्मीति? निर्ज्ञातलक्षणे हि ब्रह्मणि शक्या सम्पत्कर्तुम् – न ‘अयमात्मा ब्रह्म’ (BrhU.2.5.19) ‘यत्साक्षादपरोक्षाद्ब्रह्म’‘य आत्मा’ (BrhU.3.4.1) ‘तत्सत्यं स आत्मा’ (ChanU.6.8.7) ‘ब्रह्मविदाप्नोति परम्’ (TaitU.2.1.1) इति प्रकृत्य ‘तस्माद्वा एतस्मादात्मनः’ (TaitU.2.1.1) इति सहस्रशो ब्रह्मात्मशब्दयोः सामानाधिकरण्यात् एकार्थत्वमेवेत्यवगम्यते; अन्यस्य वै अन्यत्र सम्पत् क्रियते, नैकत्वे; ‘इदं सर्वं यदयमात्मा’ (BrhU.2.4.6) इति च प्रकृतस्यैव द्रष्टव्यस्यात्मन एकत्वं दर्शयति; तस्मान्नात्मनो ब्रह्मत्वसम्पदुपपत्तिः। न चाप्यन्यत्प्रयोजनं ब्रह्मोपदेशस्य गम्यते; ‘ब्रह्म वेद ब्रह्मैव भवति’ (MunU.3.2.9) ‘अभयं हि जनक प्राप्तोऽसि’ (BrhU.4.2.4) ‘अभयं हि वै ब्रह्म भवति’ (BrhU.4.4.25) इति च तदापत्तिश्रवणात्। सम्पत्तिश्चेत्, तदापत्तिर्न स्यात्। न ह्यन्यस्यान्यभाव उपपद्यते। वचनात्, सम्पत्तेरपि तद्भावापत्तिः स्यादिति चेत्, न, सम्पत्तेः प्रत्ययमात्रत्वात्। विज्ञानस्य च मिथ्याज्ञाननिवर्तकत्वव्यतिरेकेणाकारकत्वमित्यवोचाम। न च वचनं वस्तुनः सामर्थ्यजनकम्। ज्ञापकं हि शास्त्रं न कारकमिति स्थितिः। ‘स एष इह प्रविष्टः’ (BrhU.1.4.7) इत्यादिवाक्येषु च परस्यैव प्रवेश इति स्थितम्। तस्माद्ब्रह्मेति न ब्रह्मभाविपुरुषकल्पना साध्वी। इष्टार्थबाधनाच्च – सैन्धवघनवदनन्तरमबाह्यमेकरसं ब्रह्म – इति विज्ञानं सर्वस्यामुपनिषदि प्रतिपिपादयिषितार्थः – काण्डद्वयेऽप्यन्तेऽवधारणात् – अवगम्यते – ‘इत्यनुशासनम्’ (BrhU.2.5.19) ‘एतावदरे खल्वमृतत्वम्’ (BrhU.4.5.15) इति; तथा सर्वशाखोपनिषत्सु च ब्रह्मैकत्वविज्ञानं निश्चितोऽर्थः; तत्र यदि संसारी ब्रह्मणोऽन्य आत्मानमेवावेत् – इति कल्प्येत, इष्टस्यार्थस्य बाधनं स्यात्, तथा च शास्त्रमुपक्रमोपसंहारयोर्विरोधादसमञ्जसं कल्पितं स्यात्। व्यपदेशानुपपत्तेश्च – यदि च ‘आत्मानमेवावेत्’ इति संसारी कल्प्येत, ‘ब्रह्मविद्या’ इति व्यपदेशो न स्यात् आत्मानमेवावेदिति, संसारिण एव वेद्यत्वोपपत्तेः। ‘आत्मा’ इति वेत्तुरन्यदुच्यत इति चेत्, न, ‘अहं ब्रह्मास्मि’ इति विशेषणात्; अन्यश्चेद्वेद्यः स्यात्, ‘अयमसौ’ इति वा विशेष्येत, न तु ‘अहमस्मि’ इति। ‘अहमस्मि’ इति विशेषणात् ‘आत्मानमेवावेत्’ इति च अवधारणात् निश्चितम् आत्मैव ब्रह्मेति अवगम्यते; तथा च सति उपपन्नो ब्रह्मविद्याव्यपदेशः, नान्यथा; संसारिविद्या ह्यन्यथा स्यात्; न च ब्रह्मत्वाब्रह्मत्वे ह्येकस्योपपन्ने परमार्थतः तमःप्रकाशाविव भानोः विरुद्धत्वात्; न चोभयनिमित्तत्वे ब्रह्मविद्येति निश्चितो व्यपदेशो युक्तः, तदा ब्रह्मविद्या संसारिविद्या च स्यात्; न च वस्तुनोऽर्धजरतीयत्वं कल्पयितुं युक्तं तत्त्वज्ञानविवक्षायाम्, श्रोतुः संशयो हि तथा स्यात्; निश्चितं च ज्ञानं पुरुषार्थसाधनमिष्यते – ‘यस्य स्यादद्धा न विचिकित्सास्ति’ (ChanU.3.14.4) ‘संशयात्मा विनश्यति’ (BhG.4.40) इति श्रुतिस्मृतिभ्याम्। अतो न संशयितो वाक्यार्थो वाच्यः परहितार्थिना।
ब्रह्मणि साधकत्वकल्पनास्मदादिष्विव, अपेशला – ‘तदात्मानमेवावेत्तस्मात्तत्सर्वमभवत्’ इति – इति चेत्, न, शास्त्रोपालम्भात्; न ह्यस्मत्कल्पनेयम्; शास्त्रकृता तु; तस्माच्छास्त्रस्यायमुपालम्भः; न च ब्रह्मण इष्टं चिकीर्षुणा शास्त्रार्थविपरीतकल्पनया स्वार्थपरित्यागः कार्यः। न चैतावत्येवाक्षमा युक्ता भवतः; सर्वं हि नानात्वं ब्रह्मणि कल्पितमेव ‘एकधैवानुद्रष्टव्यम्’ (BrhU.4.4.20) ‘नेह नानास्ति किञ्चन’ (BrhU.4.4.19) ‘यत्र हि द्वैतमिव भवति’ (BrhU.4.5.15) ‘एकमेवाद्वितीयम्’ (ChanU.6.2.1) इत्यादिवाक्यशतेभ्यः, सर्वो हि लोकव्यवहारो ब्रह्मण्येव कल्पितो न परमार्थः सन् – इत्यत्यल्पमिदमुच्यते – इयमेव कल्पनापेशलेति।
तस्मात् – यत्प्रविष्टं स्रष्टृ ब्रह्म, तद्ब्रह्म, वै-शब्दोऽवधारणार्थः, इदं शरीरस्थं यद्गृह्यते, अग्रे प्राक्प्रतिबोधादपि, ब्रह्म एव आसीत्, सर्वं च इदम्; किन्त्वप्रतिबोधात् ‘अब्रह्मास्मि असर्वं च’ इत्यात्मन्यध्यारोपात् ‘कर्ताहं क्रियावान्फलानां च भोक्ता सुखी दुःखी संसारी’ इति च अध्यारोपयति; परमार्थस्तु ब्रह्मैव तद्विलक्षणं सर्वं च। तत् कथञ्चिदाचार्येण दयालुना प्रतिबोधितम् ‘नासि संसारी’ इति आत्मानमेव अवेत् स्वाभाविकम्; अविद्याध्यारोपितविशेषवर्जितमिति एव-शब्दस्यार्थः।
ब्रूहि कोऽसावात्मा स्वाभाविकः, यमात्मानं विदितवद्ब्रह्म। ननु न स्मरस्यात्मानम्; दर्शितो ह्यसौ, य इह प्रविश्य प्राणित्यपानिति व्यानित्युदानिति समानितीति। ननु असौ गौः असावश्व इत्येवमसौ व्यपदिश्यते भवता, न आत्मानं प्रत्यक्षं दर्शयसि; एवं तर्हि द्रष्टा श्रोता मन्ता विज्ञाता स आत्मेति। ननु अत्रापि दर्शनादिक्रियाकर्तुः स्वरूपं न प्रत्यक्षं दर्शयसि; न हि गमिरेव गन्तुः स्वरूपं छिदिर्वा छेत्तुः; एवं तर्हि दृष्टेर्द्रष्टा श्रुतेः श्रोता मतेर्मन्ता विज्ञातेर्विज्ञाता स आत्मेति। ननु अत्र को विशेषो द्रष्टरि; यदि दृष्टेर्द्रष्टा, यदि वा घटस्य द्रष्टा, सर्वथापि द्रष्टैव; द्रष्टव्य एव तु भवान्विशेषमाह दृष्टेर्द्रष्टेति; द्रष्टा तु यदि दृष्टेः, यदि वा घटस्य, द्रष्टा द्रष्टैव। न, विशेषोपपत्तेः – अस्त्यत्र विशेषः; यो दृष्टेर्द्रष्टा सः दृष्टिश्चेद्भवति नित्यमेव पश्यति दृष्टिम्, न कदाचिदपि दृष्टिर्न दृश्यते द्रष्ट्रा; तत्र द्रष्टुर्दृष्ट्या नित्यया भवितव्यम्; अनित्या चेद्द्रष्टुर्दृष्टिः, तत्र दृश्या या दृष्टिः सा कदाचिन्न दृश्येतापि – यथा अनित्यया दृष्ट्या घटादि वस्तु; न च तद्वत् दृष्टेर्द्रष्टा कदाचिदपि न पश्यति दृष्टिम्। किं द्वे दृष्टी द्रष्टुः – नित्या अदृश्या अन्या अनित्या दृश्येति? बाढम्; प्रसिद्धा तावदनित्या दृष्टिः, अन्धानन्धत्वदर्शनात्; नित्यैव चेत्, सर्वोऽनन्ध एव स्यात्; द्रष्टुस्तु नित्या दृष्टिः – ‘न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते’ (BrhU.4.3.23) इति श्रुतेः; अनुमानाच्च – अन्धस्यापि घटाद्याभासविषया स्वप्ने दृष्टिरुपलभ्यते; सा तर्हि इतरदृष्टिनाशे न नश्यति; सा द्रष्टुर्दृष्टिः; तया अविपरिलुप्तया नित्यया दृष्ट्या स्वरूपभूतया स्वयञ्ज्योतिःसमाख्यया इतरामनित्यां दृष्टिं स्वप्नान्तबुद्धान्तयोर्वासनाप्रत्ययरूपां नित्यमेव पश्यन्दृष्टेर्द्रष्टा भवति। एवं च सति दृष्टिरेव स्वरूपमस्य अग्न्यौष्ण्यवत्, न काणादानामिव दृष्टिव्यतिरिक्तः अन्यः चेतनः द्रष्टा।
तद् ब्रह्म आत्मानमेव नित्यदृग्रूपमध्यारोपितानित्यदृष्ट्यादिवर्जितमेव अवेत् विदितवत्। ननु विप्रतिषिद्धम् – ‘न विज्ञातेर्विज्ञातारं विजानीयाः’ (BrhU.3.4.2) इति श्रुतेः – विज्ञातुर्विज्ञानम्। न, एवं विज्ञानान्न विप्रतिषेधः; एवं दृष्टेर्द्रष्टेति विज्ञायत एव; अन्यज्ञानानपेक्षत्वाच्च – न च द्रष्टुर्नित्यैव दृष्टिरित्येवं विज्ञाते द्रष्टृविषयां दृष्टिमन्यामाकाङ्क्षते; निवर्तते हि द्रष्टृविषयदृष्ट्याकाङ्क्षा तदसम्भवादेव; न ह्यविद्यमाने विषये आकाङ्क्षा कस्यचिदुपजायते; न च दृश्या दृष्टिर्द्रष्टारं विषयीकर्तुमुत्सहते, यतस्तामाकाङ्क्षेत; न च स्वरूपविषयाकाङ्क्षा स्वस्यैव; तस्मात् अज्ञानाध्यारोपणनिवृत्तिरेव आत्मानमेवावेदित्युक्तम्, नात्मनो विषयीकरणम्।
तत्कथमवेदित्याह – अहं दृष्टेर्द्रष्टा आत्मा ब्रह्मास्मि भवामीति। ब्रह्म इति – यत्साक्षादपरोक्षात्सर्वान्तर आत्मा अशनायाद्यतीतो नेति नेत्यस्थूलमनण्वित्येवमादिलक्षणम्, तदेवाहमस्मि, नान्यः संसारी, यथा भवानाहेति। तस्मात् एवं विज्ञानात् तद् ब्रह्म सर्वमभवत् – अब्रह्माध्यारोपणापगमात् तत्कार्यस्यासर्वत्वस्य निवृत्त्या सर्वमभवत्। तस्माद्युक्तमेव मनुष्या मन्यन्ते – यद्ब्रह्मविद्यया सर्वं भविष्याम इति। यत्पृष्टम् – किमु तद्ब्रह्मावेद्यस्मात्तत्सर्वमभवदिति, तन्निर्णीतम् – ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवदिति।
तत् तत्र, यो यो देवानां प्रत्यबुध्यत प्रतिबुद्धवानात्मानं यथोक्तेन विधिना, स एव प्रतिबुद्ध आत्मा तत् ब्रह्म अभवत्; तथा ऋषीणाम्, तथा मनुष्याणां च मध्ये। देवानामित्यादि लोकदृष्ट्यपेक्षया न ब्रह्मत्वबुद्ध्योच्यते; पुरः पुरुष आविशदिति सर्वत्र ब्रह्मैवानुप्रविष्टमित्यवोचाम; अतः शरीराद्युपाधिजनितलोकदृष्ट्यपेक्षया देवानामित्याद्युच्यते; परमार्थतस्तु तत्र तत्र ब्रह्मैवाग्र आसीत् प्राक्प्रतिबोधात् देवादिशरीरेषु अन्यथैव विभाव्यमानम्, तदात्मानमेवावेत्, तथैव च सर्वमभवत्।
अस्या ब्रह्मविद्यायाः सर्वभावापत्तिः फलमित्येतस्यार्थस्य द्रढिम्ने मन्त्रानुदाहरति श्रुतिः। कथम्? तत् ब्रह्म एतत् आत्मानमेव अहमस्मीति पश्यन् एतस्मादेव ब्रह्मणो दर्शनात् ऋषिर्वामदेवाख्यः प्रतिपेदे ह प्रतिपन्नवान्किल; स एतस्मिन्ब्रह्मात्मदर्शनेऽवस्थितः एतान्मन्त्रान्ददर्श – अहं मनुरभवं सूर्यश्च इत्यादीन्। तदेतद्ब्रह्म पश्यन्निति ब्रह्मविद्या परामृश्यते; अहं मनुरभवं सूर्यश्चेत्यादिना सर्वभावापत्तिं ब्रह्मविद्याफलं परामृशति; पश्यन्सर्वात्मभावं फलं प्रतिपेदे इत्यस्मात्प्रयोगात् ब्रह्मविद्यासहायसाधनसाध्यं मोक्षं दर्शयति – भुञ्जानस्तृप्यतीति यद्वत्। सेयं ब्रह्मविद्यया सर्वभावापत्तिरासीन्महतां देवादीनां वीर्यातिशयात्, नेदानीमैदंयुगीनानां विशेषतो मनुष्याणाम्, अल्पवीर्यत्वात् – इति स्यात्कस्यचिद्बुद्धिः, तद्व्युत्थापनायाह – तदिदं प्रकृतं ब्रह्म यत्सर्वभूतानुप्रविष्टं दृष्टिक्रियादिलिङ्गम्, एतर्हि एतस्मिन् अपि वर्तमानकाले यः कश्चित् व्यावृत्तबाह्यौत्सुक्य आत्मानमेव एवं वेद अहं ब्रह्मास्मि इति – अपोह्य उपाधिजनितभ्रान्तिविज्ञानाध्यारोपितान्विशेषान् संसारधर्मानागन्धितमनन्तरमबाह्यं ब्रह्मैवाहमस्मि केवलमिति – सः अविद्याकृतासर्वत्वनिवृत्तेर्ब्रह्मविज्ञानाद् इदं सर्वं भवति। न हि महावीर्येषु वामदेवादिषु हीनवीर्येषु वा वार्तमानिकेषु मनुष्येषु ब्रह्मणो विशेषः तद्विज्ञानस्य वास्ति। वार्तमानिकेषु पुरुषेषु तु ब्रह्मविद्याफलेऽनैकान्तिकता शङ्क्यत इत्यत आह – तस्य ह ब्रह्मविज्ञातुर्यथोक्तेन विधिना देवा महावीर्याः, चन अपि, अभूत्यै अभवनाय ब्रह्मसर्वभावस्य, न ईशते न पर्याप्ताः, किमुतान्ये।
ब्रह्मविद्याफलप्राप्तौ विघ्नकरणे देवादय ईशत इति का शङ्केति – उच्यते – देवादीन्प्रति ऋणवत्त्वान्मर्त्यानाम्; ‘ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः’ (तै. सं. ६-३-१०) इति हि जायमानमेव ऋणवन्तं पुरुषं दर्शयति श्रुतिः; पशुनिदर्शनाच्च ‘अथो अयं वा...’ (BrhU.1.4.16) इत्यादिलोकश्रुतेश्च आत्मनो वृत्तिपरिपिपालयिषया अधमर्णानिव देवाः परतन्त्रान्मनुष्यान्प्रति अमृतत्वप्राप्तिं प्रति विघ्नं कुर्युरिति न्याय्यैवैषा शङ्का। स्वपशून् स्वशरीराणीव च रक्षन्ति देवाः; महत्तरां हि वृत्तिं कर्माधीनां दर्शयिष्यति देवादीनां बहुपशुसमतयैकैकस्य पुरुषस्य; ‘तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः’ इति हि वक्ष्यति, ‘यथा ह वै स्वाय लोकायारिष्टिमिच्छेदेवं हैवंविदे सर्वाणि भूतान्यरिष्टिमिच्छन्ति’ (BrhU.1.4.16) इति च; ब्रह्मवित्त्वे पारार्थ्यनिवृत्तेः न स्वलोकत्वं पशुत्वं चेत्यभिप्रायो अप्रियारिष्टिवचनाभ्यामवगम्यते; तस्माद्ब्रह्मविदो ब्रह्मविद्याफलप्राप्तिं प्रति कुर्युरेव विघ्नं देवाः। प्रभाववन्तश्च हि ते।
ननु एवं सत्यन्यास्वपि कर्मफलप्राप्तिषु देवानां विघ्नकरणं पेयपानसमम्; हन्त तर्ह्यविस्रम्भोऽभ्युदयनिःश्रेयससाधनानुष्ठानेषु; तथा ईश्वरस्याचिन्त्यशक्तित्वाद्विघ्नकरणे प्रभुत्वम्; तथा कालकर्ममन्त्रौषधितपसाम्; एषां हि फलसम्पत्तिविपत्तिहेतुत्वं शास्त्रे लोके च प्रसिद्धम्; अतोऽप्यनाश्वासः शास्त्रार्थानुष्ठाने। न; सर्वपदार्थानां नियतनिमित्तोपादानात् जगद्वैचित्र्यदर्शनाच्च, स्वभावपक्षे च तदुभयानुपपत्तेः, सुखदुःखादिफलनिमित्तं कर्मेत्येतस्मिन्पक्षे स्थिते वेदस्मृतिन्यायलोकपरिगृहीते, देवेश्वरकालास्तावन्न कर्मफलविपर्यासकर्तारः, कर्मणां काङ्क्षितकारकत्वात् – कर्म हि शुभाशुभं पुरुषाणां देवकालेश्वरादिकारकमनपेक्ष्य नात्मानं प्रति लभते, लब्धात्मकमपि फलदानेऽसमर्थम्, क्रियाया हि कारकाद्यनेकनिमित्तोपादानस्वाभाव्यात्; तस्मात् क्रियानुगुणा हि देवेश्वरादय इति कर्मसु तावन्न फलप्राप्तिं प्रत्यविस्रम्भः। कर्मणामपि एषाम् वशानुगत्वं क्वचित्, स्वसामर्थ्यस्याप्रणोद्यत्वात्। कर्मकालदैवद्रव्यादिस्वभावानां गुणप्रधानभावस्त्वनियतो दुर्विज्ञेयश्चेति तत्कृतो मोहो लोकस्य – कर्मैव कारकं नान्यत्फलप्राप्ताविति केचित्; दैवमेवेत्यपरे; काल इत्येके; द्रव्यादिस्वभाव इति केचित्; सर्व एते संहता एवेत्यपरे। तत्र कर्मणः प्राधान्यमङ्गीकृत्य वेदस्मृतिवादाः – ‘पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन’ (BrhU.3.2.13) इत्यादयः। यद्यपि एषां स्वविषये कस्यचित्प्राधान्योद्भवः इतरेषां तत्कालीनप्राधान्यशक्तिस्तम्भः, तथापि न कर्मणः फलप्राप्तिं प्रति अनैकान्तिकत्वम्, शास्त्रन्यायनिर्धारितत्वात्कर्मप्राधान्यस्य।
न, अविद्यापगममात्रत्वाद्ब्रह्मप्राप्तिफलस्य – यदुक्तं ब्रह्मप्राप्तिफलं प्रति देवा विघ्नं कुर्युरिति, तत्र न देवानां विघ्नकरणे सामर्थ्यम्; कस्मात्? विद्याकालानन्तरितत्वाद्ब्रह्मप्राप्तिफलस्य; कथम्; यथा लोके द्रष्टुश्चक्षुष आलोकेन संयोगो यत्कालः, तत्काल एव रूपाभिव्यक्तिः, एवमात्मविषयं विज्ञानं यत्कालम्, तत्काल एव तद्विषयाज्ञानतिरोभावः स्यात्; अतो ब्रह्मविद्यायां सत्याम् अविद्याकार्यानुपपत्तेः, प्रदीप इव तमःकार्यस्य, केन कस्य विघ्नं कुर्युर्देवाः – यत्र आत्मत्वमेव देवानां ब्रह्मविदः। तदेतदाह – आत्मा स्वरूपं ध्येयं यत्तत्सर्वशास्त्रैर्विज्ञेयं ब्रह्म, हि यस्मात्, एषां देवानाम्, ब्रह्मवित्, भवति ब्रह्मविद्यासमकालमेव – अविद्यामात्रव्यवधानापगमात् शुक्तिकाया इव रजताभासायाः शुक्तिकात्वमित्यवोचाम। अतो नात्मनः प्रतिकूलत्वे देवानां प्रयत्नः सम्भवति। यस्य हि अनात्मभूतं फलं देशकालनिमित्तान्तरितम्, तत्रानात्मविषये सफलः प्रयत्नो विघ्नाचरणाय देवानाम्; न त्विह विद्यासमकाल आत्मभूते देशकालनिमित्तानन्तरिते, अवसरानुपपत्तेः।
एवं तर्हि विद्याप्रत्ययसन्तत्यभावात् विपरीतप्रत्ययतत्कार्ययोश्च दर्शनात् अन्त्य एव आत्मप्रत्ययोऽविद्यानिवर्तकः, न तु पूर्व इति। न, प्रथमेनानैकान्तिकत्वात् – यदि हि प्रथम आत्मविषयः प्रत्ययोऽविद्यां न निवर्तयति, तथा अन्त्योऽपि, तुल्यविषयत्वात्। एवं तर्हि सन्ततोऽविद्यानिवर्तकः न विच्छिन्न इति। न, जीवनादौ सति सन्तत्यनुपपत्तेः – न हि जीवनादिहेतुके प्रत्यये सति विद्याप्रत्ययसन्ततिरुपपद्यते, विरोधात्। अथ जीवनादिप्रत्ययतिरस्करणेनैव आ मरणान्तात् विद्यासन्ततिरिति चेत्, न, प्रत्ययेयत्तासन्तानानवधारणात् शास्त्रार्थानवधारणदोषात् – इयतां प्रत्ययानां सन्ततिरविद्याया निवर्तिकेत्यनवधारणात् शास्त्रार्थो नावध्रियेत; तच्चानिष्टम्। सन्ततिमात्रत्वेऽवधारित एवेति चेत्, न, आद्यन्तयोरविशेषात् – प्रथमा विद्याप्रत्ययसन्ततिः मरणकालान्ता वेति विशेषाभावात्, आद्यन्तयोः प्रत्यययोः पूर्वोक्तौ दोषौ प्रसज्येयाताम्। एवं तर्हि अनिवर्तक एवेति चेत्, न ‘तस्मात्तत्सर्वमभवत्’ इति श्रुतेः, ‘भिद्यते हृदयग्रन्थिः’ (MunU.2.2.9) ‘तत्र को मोहः’ (IsU.7) इत्यादिश्रुतिभ्यश्च।
अर्थवाद इति चेत्, न, सर्वशाखोपनिषदामर्थवादत्वप्रसङ्गात्; एतावन्मात्रार्थत्वोपक्षीणा हि सर्वशाखोपनिषदः। प्रत्यक्षप्रमितात्मविषयत्वात् अस्त्येवेति चेत्, न, उक्तपरिहारत्वात् – अविद्याशोकमोहभयादिदोषनिवृत्तेः प्रत्यक्षत्वादिति चोक्तः परिहारः। तस्मात् आद्यः अन्त्यः सन्ततः असन्ततश्चेत्यचोद्यमेतत्, अविद्यादिदोषनिवृत्तिफलावसानत्वाद्विद्यायाः – य एव अविद्यादिदोषनिवृत्तिफलकृत्प्रत्ययः आद्यः अन्त्यः सन्ततः असन्ततो वा, स एव विद्येत्यभ्युपगमात् न चोद्यस्यावतारगन्धोऽप्यस्ति। यत्तूक्तं विपरीतप्रत्ययतत्कार्ययोश्च दर्शनादिति, न, तच्छेषस्थितिहेतुत्वात् – येन कर्मणा शरीरमारब्धं तत्, विपरीतप्रत्ययदोषनिमित्तत्वात् तस्य तथाभूतस्यैव विपरीतप्रत्ययदोषसंयुक्तस्य फलदाने सामर्थ्यमिति, यावत् शरीरपातः तावत्फलोपभोगाङ्गतया विपरीतप्रत्ययं रागादिदोषं च तावन्मात्रमाक्षिपत्येव – मुक्तेषुवत् प्रवृत्तफलत्वात् तद्धेतुकस्य कर्मणः। तेन न तस्य निवर्तिका विद्या, अविरोधात्; किं तर्हि स्वाश्रयादेव स्वात्मविरोधि अविद्याकार्यं यदुत्पित्सु तन्निरुणद्धि, अनागतत्वात्; अतीतं हि इतरत्। किञ्च न च विपरीतप्रत्ययो विद्यावत उत्पद्यते, निर्विषयत्वात् – अनवधृतविषयविशेषस्वरूपं हि सामान्यमात्रमाश्रित्य विपरीतप्रत्यय उत्पद्यमान उत्पद्यते, यथा शुक्तिकायां रजतमिति; स च विषयविशेषावधारणवतो अशेषविपरीतप्रत्ययाशयस्योपमर्दितत्वात् न पूर्ववत्सम्भवति, शुक्तिकादौ सम्यक्प्रत्ययोत्पत्तौ पुनरदर्शनात्। क्वचित्तु विद्यायाः पूर्वोत्पन्नविपरीतप्रत्ययजनितसंस्कारेभ्यो विपरीतप्रत्ययावभासाः स्मृतयो जायमाना विपरीतप्रत्ययभ्रान्तिम् अकस्मात् कुर्वन्ति – यथा विज्ञातदिग्विभागस्याप्यकस्माद्दिग्विपर्ययविभ्रमः। सम्यग्ज्ञानवतोऽपि चेत् पूर्ववद्विपरीतप्रत्यय उत्पद्यते, सम्यग्ज्ञानेऽप्यविस्रम्भाच्छास्त्रार्थविज्ञानादौ प्रवृत्तिरसमञ्जसा स्यात्, सर्वं च प्रमाणमप्रमाणं सम्पद्येत, प्रमाणाप्रमाणयोर्विशेषानुपपत्तेः। एतेन सम्यग्ज्ञानानन्तरमेव शरीरपाताभावः कस्मादित्येतत्परिहृतम्। ज्ञानोत्पत्तेः प्राक् ऊर्ध्वं तत्कालजन्मान्तरसञ्चितानां च कर्मणामप्रवृत्तफलानां विनाशः सिद्धो भवति फलप्राप्तिविघ्ननिषेधश्रुतेरेव; ‘क्षीयन्ते चास्य कर्माणि’ (MunU.2.2.8) ‘तस्य तावदेव चिरम्’ (ChanU.6.14.2) ‘सर्वे पाप्मानः प्रदूयन्ते’ (ChanU.5.24.3) ‘तं विदित्वा न लिप्यते कर्मणा पापकेन’ (BrhU.4.4.23) ‘एतमु हैवैते न तरतः’ (BrhU.4.4.22) ‘नैनं कृताकृते तपतः’ (BrhU.4.4.22) ‘एतं ह वाव न तपति’ (TaitU.2.9.1) ‘न बिभेति कुतश्चन’ (TaitU.2.9.1) इत्यादिश्रुतिभ्यश्च; ‘ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते’ (BhG.4.37) इत्यादिस्मृतिभ्यश्च।
यत्तु ऋणैः प्रतिबध्यत इति, तन्न अविद्यावद्विषयत्वात् – अविद्यावान्हि ऋणी, तस्य कर्तृत्वाद्युपपत्तेः, ‘यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येत्’ (BrhU.4.3.31) इति हि वक्ष्यति – अनन्यत् सद्वस्तु आत्माख्यं यत्राविद्यायां सत्यामन्यदिव स्यात् तिमिरकृतद्वितीयचन्द्रवत् तत्राविद्याकृतानेककारकापेक्षं दर्शनादिकर्म तत्कृतं फलं च दर्शयति, तत्रान्योऽन्यत्पश्येदित्यादिना; यत्र पुनर्विद्यायां सत्यामविद्याकृतानेकत्वभ्रमप्रहाणम्, ‘तत्केन कं पश्येत्’ (BrhU.4.3.31) इति कर्मासम्भवं दर्शयति, तस्मादविद्यावद्विषय एव ऋणित्वम्, कर्मसम्भवात्, नेतरत्र। एतच्चोत्तरत्र व्याचिख्यासिष्यमाणैरेव वाक्यैर्विस्तरेण प्रदर्शयिष्यामः।
तद्यथेहैव तावत् – अथ यः कश्चिदब्रह्मवित्, अन्याम् आत्मनो व्यतिरिक्तां यां काञ्चिद् देवताम्, उपास्ते स्तुतिनमस्कारयागबल्युपहारप्रणिधानध्यानादिना उप आस्ते तस्या गुणभावमुपगम्य आस्ते – अन्योऽसौ अनात्मा मत्तः पृथक्, अन्योऽहमस्मि अधिकृतः, मया अस्मै ऋणिवत्प्रतिकर्तव्यम् – इत्येवम्प्रत्ययः सन्नुपास्ते, न स इत्थम्प्रत्ययः वेद विजानाति तत्त्वम्। न स केवलमेवम्भूतः अविद्वान् अविद्यादोषवानेव, किं तर्हि, यथा पशुः गवादिः वाहनदोहनाद्युपकारैरुपभुज्यते, एवं सः इज्याद्यनेकोपकारैरुपभोक्तव्यत्वात् एकैकेन देवादीनाम्; अतः पशुरिव सर्वार्थेषु कर्मस्वधिकृत इत्यर्थः। एतस्य हि अविदुषो वर्णाश्रमादिप्रविभागवतोऽधिकृतस्य कर्मणो विद्यासहितस्य केवलस्य च शास्त्रोक्तस्य कार्यं मनुष्यत्वादिको ब्रह्मान्त उत्कर्षः; शास्त्रोक्तविपरीतस्य च स्वाभाविकस्य कार्यं मनुष्यत्वादिक एव स्थावरान्तोऽपकर्षः; यथा चैतत् तथा ‘अथ त्रयो वाव लोकाः’ (BrhU.1.5.16) इत्यादिना वक्ष्यामः कृत्स्नेनैवाध्यायशेषेण। विद्यायाश्च कार्यं सर्वात्मभावापत्तिरित्येतत् सङ्क्षेपतो दर्शितम्। सर्वा हि इयमुपनिषत् विद्याविद्याविभागप्रदर्शनेनैवोपक्षीणा। यथा च एषोऽर्थः कृत्स्नस्य शास्त्रस्य तथा प्रदर्शयिष्यामः।
यस्मादेवम्, तस्मादविद्यावन्तं पुरुषं प्रति देवा ईशत एव विघ्नं कर्तुम् अनुग्रहं च इत्येतद्दर्शयति – यथा ह वै लोके, बहवो गोऽश्वादयः पशवः मनुष्यं स्वामिनमात्मनः अधिष्ठातारं भुञ्ज्युः पालयेयुः, एवं बहुपशुस्थानीयः एकैकः अविद्वान् पुरुषः देवान् – देवानिति पित्राद्युपलक्षणार्थम् – भुनक्ति पालयतीति – इमे इन्द्रादयः अन्ये मत्तो ममेशितारः भृत्य इवाहमेषां स्तुतिनमस्कारेज्यादिना आराधनं कृत्वा अभ्युदयं निःश्रेयसं च तत्प्रत्तं फलं प्राप्स्यामीत्येवमभिसन्धिः। तत्र लोके बहुपशुमतो यथा एकस्मिन्नेव पशावादीयमाने व्याघ्रादिना अपह्रियमाणे महद् अप्रियं भवति, तथा बहुपशुस्थानीय एकस्मिन्पुरुषे पशुभावात् व्युत्तिष्ठति, अप्रियं भवतीति – किं चित्रम् – देवानाम्, बहु-पश्वपहरण इव कुटुम्बिनः। तस्मादेषां तन्न प्रियम्; किं तत्? यदेतद् ब्रह्मात्मतत्त्वं कथञ्चन मनुष्या विद्युः विजानीयुः। तथा च स्मरणमनुगीतासु भगवतो व्यासस्य – ‘क्रियावद्भिर्हि कौन्तेय देवलोकः समावृतः। न चैतदिष्टं देवानां मर्त्यैरुपरिवर्तनम्’ (अश्व. १९-६१) इति। अतो देवाः पशूनिव व्याघ्रादिभ्यः, ब्रह्मविज्ञानाद्विघ्नमाचिकीर्षन्ति – अस्मदुपभोग्यत्वान्मा व्युत्तिष्ठेयुरिति। यं तु मुमोचयिषन्ति, तं श्रद्धादिभिर्योक्ष्यन्ति, विपरीतमश्रद्धादिभिः। तस्मान्मुमुक्षुर्देवाराधनपरः श्रद्धाभक्तिपरः प्रणेयोऽप्रमादी स्यात् विद्याप्राप्तिं प्रति विद्यां प्रतीति वा काक्वैतत्प्रदर्शितं भवति देवाप्रियवाक्येन।
सूत्रितः शास्त्रार्थ – ‘आत्मेत्येवोपासीत’ इति; तस्य च व्याचिख्यासितस्य सार्थवादेन ‘तदाहुर्यद्ब्रह्मविद्यया’ इत्यादिना सम्बन्धप्रयोजने अभिहिते अविद्यायाश्च संसाराधिकारकारणत्वमुक्तम् – ‘अथ योऽन्यां देवतामुपास्ते’ (BrhU.1.4.10) इत्यादिना; तत्र अविद्वान् ऋणी पशुवद्देवादिकर्मकर्तव्यतया परतन्त्र इत्युक्तम्। किं पुनर्देवादिकर्मकर्तव्यत्वे निमित्तम्? वर्णा आश्रमाश्च; तत्र के वर्णा इत्यत इदमारभ्यते – यन्निमित्तसम्बद्धेषु कर्मसु अयं परतन्त्र एवाधिकृतः संसरति। एतस्यैवार्थस्य प्रदर्शनाय अग्निसर्गानन्तरमिन्द्रादिसर्गो नोक्तः; अग्नेस्तु सर्गः प्रजापते सृष्टिपरिपूरणाय प्रदर्शितः; अयं च इन्द्रादिसर्गः तत्रैव द्रष्टव्यः, तच्छेषत्वात्; इह तु स एवाभिधीयते अविदुषः कर्माधिकारहेतुप्रदर्शनाय॥
🔗  ब्रह्म वा इदमग्र आसीत् – यदग्निं सृष्ट्वा अग्निरूपापन्नं ब्रह्म – ब्राह्मणजात्यभिमानात् ब्रह्मेत्यभिधीयते – वै, इदं क्षत्रादिजातम्, ब्रह्मैव, अभिन्नम् आसीत्, एकमेव – न आसीत्क्षत्रादिभेदः। तत् ब्रह्म एकं क्षत्रादिपरिपालयित्रादिशून्यं सत्, न व्यभवत् न विभूतवत् कर्मणे नालमासीदित्यर्थः। ततः तद् ब्रह्म – ब्राह्मणोऽस्मि ममेत्थं कर्तव्यमिति ब्राह्मणजातिनिमित्तं कर्म चिकीर्षुः आत्मनः कर्मकर्तृत्वविभूत्यै, श्रेयोरूपं प्रशस्तरूपम्, अति असृजत अतिशयेन असृजत सृष्टवत्। किं पुनस्तत्, यत्सृष्टम्? क्षत्रं क्षत्रियजातिः; तद्व्यक्तिभेदेन प्रदर्शयति – यान्येतानि प्रसिद्धानि लोके, देवत्रा देवेषु, क्षत्त्राणि इति – जात्याख्यायां पक्षे बहुवचनस्मरणात् व्यक्तिबहुत्वाद्वा भेदोपचारेण – बहुवचनम्। कानि पुनस्तानीत्याह – तत्राभिषिक्ता एव विशेषतो निर्दिश्यन्ते – इन्द्रो देवानां राजा, वरुणो यादसाम्, सोमो ब्राह्मणानाम्, रुद्रः पशूनाम्, पर्जन्यो विद्युदादीनाम्, यमः पितॄणाम्, मृत्युः रोगादीनाम्, ईशानो भासाम् – इत्येवमादीनि देवेषु क्षत्राणि। तदनु इन्द्रादिक्षत्रदेवताधिष्ठितानि मनुष्यक्षत्राणि सोमसूर्यवंश्यानि पुरूरवःप्रभृतीनि सृष्टान्येव द्रष्टव्यानि; तदर्थ एव हि देवक्षत्रसर्गः प्रस्तुतः। यस्मात् ब्रह्मणा अतिशयेन सृष्टं क्षत्रम्, तस्मात्क्षत्रात्परं नास्ति ब्राह्मणजातेरपि नियन्तृ; तस्माद्ब्राह्मणः कारणभूतोऽपि क्षत्रियस्य क्षत्रियम् अधस्तात् व्यवस्थितः सन् उपरि स्थितम् उपास्ते – क्व? राजसूयेक्षत्र एव तत् आत्मीयं यशः ख्यातिरूपम् – ब्रह्मेति – दधाति स्थापयति; राजसूयाभिषिक्तेन आसन्द्यां स्थितेन राज्ञा आमन्त्रितो ब्रह्मन्निति ऋत्विक् पुनस्तं प्रत्याह – त्वं राजन्ब्रह्मासीति; तदेतदभिधीयते – क्षत्र एव तद्यशो दधातीति। सैषा प्रकृता क्षत्रस्य योनिः एव, यद् ब्रह्मतस्मात् यद्यपि राजा परमतां राजसूयाभिषेकगुणं गच्छति आप्नोति – ब्रह्मैव ब्राह्मणजातिमेव, अन्ततः अन्ते कर्मपरिसमाप्तौ, उपनिश्रयति आश्रयति स्वां योनिम् – पुरोहितं पुरो निधत्त इत्यर्थः। यस्तु पुनर्बलाभिमानात् स्वां योनिं ब्राह्मणजातिं ब्राह्मणम् – य उ एनम्हिनस्ति हिंसति न्यग्भावेन पश्यति, स्वामात्मीयामेव योनिम् ऋच्छति – स्वं प्रसवं विच्छिनत्ति विनाशयति। एतत्कृत्वा पापीयान् पापतरो भवति; पूर्वमपि क्षत्रियः पाप एव क्रूरत्वात्, आत्मप्रसवहिंसया सुतराम्; यथा लोके श्रेयांसं प्रशस्ततरं हिंसित्वा परिभूय पापतरो भवति, तद्वत्॥
🔗  क्षत्रे सृष्टेऽपि, स नैव व्यभवत्, कर्मणे ब्रह्म तथा न व्यभवत्, वित्तोपार्जयितुरभावात्; स विशमसृजत कर्मसाधनवित्तोपार्जनाय; कः पुनरसौ विट्? यान्येतानि देवजातानि – स्वार्थे निष्ठा, य एते देवजातिभेदा इत्यर्थः – गणशः गणं गणम्, आख्यायन्ते कथ्यन्ते – गणप्राया हि विशः; प्रायेण संहता हि वित्तोपार्जने समर्थाः, न एकैकशः – वसवः अष्टसङ्ख्यो गणः, तथैकादश रुद्राः; द्वादश आदित्याः, विश्वे देवाः त्रयोदश विश्वाया अपत्यानि – सर्वे वा देवाः, मरुतः सप्त सप्त गणाः॥
🔗  सः परिचारकाभावात्पुनरपि नैव व्यभवत्; स शौद्रं वर्णमसृजत – शूद्र एव शौद्रः, स्वार्थेऽणि वृद्धिः। कः पुनरसौ शौद्रो वर्णः, यः सृष्टः? पूषणम् – पुष्यतीति पूषा। कः पुनरसौ पूषेति विशेषतस्तन्निर्दिशति – इयं पृथिवी पूषा; स्वयमेव निर्वचनमाह – इयं हि इदं सर्वं पुष्यति यदिदं किञ्च
🔗  सः चतुरः सृष्ट्वापि वर्णान् नैव व्यभवत् उग्रत्वात्क्षत्रस्यानियताशङ्कया; तत् श्रेयोरूपम् अत्यसृजत – किं तत्? धर्मम्; तदेतत् श्रेयोरूपं सृष्टं क्षत्रस्य क्षत्रं क्षत्रस्यापि नियन्तृ, उग्रादप्युग्रम् – यद्धर्मः यो धर्मः; तस्मात् क्षत्रस्यापि नियन्तृत्वात् धर्मात्परं नास्ति, तेन हि नियम्यन्ते सर्वे। तत्कथमिति उच्यते – अथो अपि अबलीयान् दुर्बलतरः बलीयांसम् आत्मनो बलवत्तरमपि आशंसते कामयते जेतुं धर्मेण बलेन – यथा लोके राज्ञा सर्वबलवत्तमेनापि कुटुम्बिकः, एवम्; तस्मात्सिद्धं धर्मस्य सर्वबलवत्तरत्वात्सर्वनियन्तृत्वम्। यो वै स धर्मो व्यवहारलक्षणो लौकिकैर्व्यवह्रियमाणः सत्यं वै तत्; सत्यमिति यथाशास्त्रार्थता; स एवानुष्ठीयमानो धर्मनामा भवति; शास्त्रार्थत्वेन ज्ञायमानस्तु सत्यं भवति। यस्मादेवं तस्मात्, सत्यं यथाशास्त्रं वदन्तं व्यवहारकाल आहुः समीपस्था उभयविवेकज्ञाः – धर्मं वदतीति, प्रसिद्धं लौकिकं न्यायं वदतीति; तथा विपर्ययेण धर्मं वा लौकिकं व्यवहारं वदन्तम् आहुः – सत्यं वदति, शास्त्रादनपेतं वदतीति। एतत् यदुक्तम् उभयं ज्ञायमानमनुष्ठीयमानं च एतत् धर्म एव भवति। तस्मात्स धर्मो ज्ञानानुष्ठानलक्षणः शास्त्रज्ञानितरांश्च सर्वानेव नियमयति; तस्मात् स क्षत्रस्यापि क्षत्रम्; अतस्तदभिमानोऽविद्वान् तद्विशेषानुष्ठानाय ब्रह्मक्षत्रविट्छूद्रनिमित्तविशेषमभिमन्यते; तानि च निसर्गत एव कर्माधिकारनिमित्तानि॥
🔗  तदेतत् चातुर्वर्ण्यं सृष्टम् – ब्रह्म क्षत्रं विट् शूद्र इति; उत्तरार्थ उपसंहारः। यत्तत् स्रष्टृ ब्रह्म, तदग्निनैव, नान्येन रूपेण, देवेषु ब्रह्म ब्राह्मणजातिः, अभवत्; ब्राह्मणः ब्राह्मणस्वरूपेण, मनुष्येषु ब्रह्माभवत्; इतरेषु वर्णेषु विकारान्तरं प्राप्य, क्षत्रियेणक्षत्रियोऽभवत् इन्द्रादिदेवताधिष्ठितः, वैश्येन वैश्यः, शूद्रेण शूद्रः। यस्मात्क्षत्रादिषु विकारापन्नम्, अग्नौ ब्राह्मण एव चाविकृतं स्रष्टृ ब्रह्म, तस्मादग्नावेव देवेषु देवानां मध्ये लोकं कर्मफलम्, इच्छन्ति, अग्निसम्बद्धं कर्म कृत्वेत्यर्थः; तदर्थमेव हि तद्ब्रह्म कर्माधिकरणत्वेनाग्निरूपेण व्यवस्थितम्; तस्मात्तस्मिन्नग्नौ कर्म कृत्वा तत्फलं प्रार्थयन्त इत्येतत् उपपन्नम्। ब्राह्मणे मनुष्येषु – मनुष्याणां पुनर्मध्ये कर्मफलेच्छायां नाग्न्यादिनिमित्तक्रियापेक्षा, किं तर्हि जातिमात्रस्वरूपप्रतिलम्भेनैव पुरुषार्थसिद्धिः; यत्र तु देवाधीना पुरुषार्थसिद्धिः, तत्रैवाग्न्यादिसम्बद्धक्रियापेक्षा; स्मृतेश्च – ‘जप्येनैव तु संसिध्येद्ब्राह्मणो नात्र संशयः। कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते’ (मनु २-८७) इति। पारिव्राज्यदर्शनाच्च। तस्माद्ब्राह्मणत्व एव मनुष्येषु लोकं कर्मफलमिच्छन्ति। यस्माद् एताभ्यां हि ब्राह्मणाग्नि-रूपाभ्यां कर्मकर्त्रधिकरणरूपाभ्यां यत्स्रष्टृ ब्रह्म साक्षात् अभवत्
अत्र तु परमात्मलोकमग्नौ ब्राह्मणे चेच्छन्तीति केचित्। तदसत्, अविद्याधिकारे कर्माधिकारार्थं वर्णविभागस्य प्रस्तुतत्वात्, परेण च विशेषणात्; यदि ह्यत्र लोकशब्देन पर एवात्मोच्येत, परेण विशेषणमनर्थकं स्यात् – ‘स्वं लोकमदृष्ट्वा’ इति; स्वलोकव्यतिरिक्तश्चेदग्न्यधीनतया प्रार्थ्यमानः प्रकृतो लोकः, ततः स्वमिति युक्तं विशेषणम्, प्रकृतपरलोकनिवृत्त्यर्थत्वात्; स्वत्वेन च अव्यभिचारात्परमात्मलोकस्य, अविद्याकृतानां च स्वत्वव्यभिचारात् – ब्रवीति च कर्मकृतानां व्यभिचारम् – ‘क्षीयत एव’ इति।
ब्रह्मणा सृष्टा वर्णाः कर्मार्थम्; तच्च कर्म धर्माख्यं सर्वानेव कर्तव्यतया नियन्तृ पुरुषार्थसाधनं च; तस्मात्ते नैव चेत्कर्मणा स्वो लोकः परमात्माख्यः अविदितोऽपि प्राप्यते, किं तस्यैव पदनीयत्वेन क्रियत इत्यत आह – अथ इति, पूर्वपक्षविनिवृत्त्यर्थः; यः कश्चित्, ह वै अस्मात् सांसारिकात्पिण्डग्रहणलक्षणात् अविद्याकामकर्महेतुकात् अग्न्यधीनकर्माभिमानतया वा ब्राह्मणजातिमात्रकर्माभिमानतया वा आगन्तुकादस्वभूताल् लोकात्, स्वं लोकम् आत्माख्यम् आत्मत्वेनाव्यभिचारित्वात्, अदृष्ट्वा – अहं ब्रह्मास्मीति, प्रैति म्रियते; यद्यपि स्वो लोकः, अविदितः अविद्यया व्यवहितः अस्व इवाज्ञातः, एनम् – सङ्ख्यापूरण इव लौकिकः आत्मानम् – न भुनक्ति न पालयति शोकमोहभयादिदोषापनयेन यथा लोके च वेदः अननूक्तः अनधीतः कर्माद्यवबोधकत्वेन न भुनक्ति, अन्यद्वा लौकिकं कृष्यादि कर्म अकृतं स्वात्मना अनभिव्यञ्जितम् आत्मीयफलप्रदानेन न भुनक्ति, एवमात्मा स्वो लोकः स्वेनैव नित्यात्मस्वरूपेणानभिव्यञ्जितः अविद्यादिप्रहाणेन न भुनक्त्येव। ननु किं स्वलोकदर्शननिमित्तपरिपालनेन? कर्मणः फलप्राप्तिध्रौव्यात् इष्टफलनिमित्तस्य च कर्मणो बाहुल्यात् तन्निमित्तं पालनमक्षयं भविष्यति – तन्न, कृतस्य क्षयवत्त्वादित्येतदाह – यत् इह वै संसारे अद्भुतवत् कश्चिन्महात्म अपि अनेवंवित् स्वं लोकं यथोक्तेन विधिना अविद्वान् महत् बहु अश्वमेधादि पुण्यं कर्म इष्टफलमेव नैरन्तर्येण करोति – अनेनैवानन्त्यं मम भविष्यतीति, तत् कर्म ह अस्य अविद्यावतः अविद्याजनितकामहेतुत्वात् स्वप्नदर्शनविभ्रमोद्भूतविभूतवत् अन्ततः अन्ते फलोपभोगस्य क्षीयत एव; तत्कारणयोरविद्याकामयोश्चलत्वात् कृतक्षयध्रौव्योपपत्तिः। तस्मान्न पुण्यकर्मफलपालनानन्त्याशा अस्त्येव। अत आत्मानमेव स्वं लोकम् – आत्मानमिति स्वं लोकमित्यस्मिन्नर्थे, स्वं लोकमिति प्रकृतत्वात् इह च स्वशब्दस्याप्रयोगात् – उपासीतस य आत्मानमेव लोकमुपास्ते – तस्य किमित्युच्यते – न हास्य कर्म क्षीयते, कर्माभावादेव – इति नित्यानुवादः; यथा अविदुषः कर्मक्षयलक्षणं संसारदुःखं सन्ततमेव, न तथा तदस्य विद्यत इत्यर्थः – ‘मिथिलायां प्रदीप्तायां न मे दह्यति किञ्चन’ (मो. ध. १७८-२) इति यद्वत्।
स्वात्मलोकोपासकस्य विदुषो विद्यासंयोगात् कर्मैव न क्षीयत इत्यपरे वर्णयन्ति; लोकशब्दार्थं च कर्मसमवायिनं द्विधा परिकल्पयन्ति किल – एको व्याकृतावस्थः कर्माश्रयो लोको हैरण्यगर्भाख्यः, तं कर्मसमवायिनं लोकं व्याकृतं परिच्छिन्नं य उपास्ते, तस्य किल परिच्छिन्नकर्मात्मदर्शिनः कर्म क्षीयते; तमेव कर्मसमवायिनं लोकमव्याकृतावस्थं कारणरूपमापाद्य यस्तूपास्ते, तस्यापरिच्छिन्नकर्मात्मदर्शित्वात्तस्य कर्म न क्षीयत इति। भवतीयं शोभना कल्पना, न तु श्रौती, स्वलोकशब्देन प्रकृतस्य परमात्मनोऽभिहितत्वात्, स्वं लोकमिति प्रस्तुत्य स्वशब्दं विहाय आत्मशब्दप्रक्षेपेण पुनस्तस्यैव प्रतिनिर्देशात् – आत्मानमेव लोकमुपासीतेति; तत्र कर्मसमवायिलोककल्पनाया अनवसर एव। परेण च केवलविद्याविषयेण विशेषणात् – ‘किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः’ (BrhU.4.4.22) इति; पुत्रकर्मापरविद्याकृतेभ्यो हि लोकेभ्यो विशिनष्टि – अयमात्मा नो लोक इति, ‘न हास्य केनचन कर्मणा लोको मीयत एषोऽस्य परमो लोकः’ (कौ. उ. ३-१) इति च। तैः सविशेषणैः अस्यैकवाक्यता युक्ता, इहापि स्वं लोकमिति विशेषणदर्शनात्। अस्मात्कामयत इत्ययुक्तमिति चेत् – इह स्वो लोकः परमात्मा; तदुपासनात्स एव भवतीति स्थिते, यद्यत्कामयते तत्तद् अस्माद् आत्मनः सृजते इति तदात्मप्राप्तिव्यतिरेकेण फलवचनमयुक्तमिति चेत्, न। स्वलोकोपासनस्तुतिपरत्वात्; स्वस्मादेव लोकात्सर्वमिष्टं सम्पद्यत इत्यर्थः, नान्यदतः प्रार्थनीयम्, आप्तकामत्वात् – ‘आत्मतः प्राण आत्मत आशा’ (ChanU.7.26.1) इत्यादि श्रुत्यन्तरे यथा; सर्वात्मभावप्रदर्शनार्थो वा पूर्ववत्। यदि हि पर एव आत्मा सम्पद्यते, तदा युक्तः ‘अस्माद्ध्येवात्मनः’ इत्यात्मशब्दप्रयोगः – स्वस्मादेव प्रकृतादात्मनो लोकादित्येवमर्थः; अन्यथा अव्याकृतावस्थात्कर्मणो लोकादिति सविशेषणमवक्ष्यत् प्रकृतपरमात्मलोकव्यावृत्तये व्याकृतावस्थाव्यावृत्तये च; न ह्यस्मिन्प्रकृते विशेषिते अश्रुतान्तरालावस्था प्रतिपत्तुं शक्यते॥
🔗  अथो अयं वा आत्मा। अत्र अविद्वान्वर्णाश्रमाद्यभिमानो धर्मेण नियम्यमानो देवादिकर्मकर्तव्यतया पशुवत्परतन्त्र इत्युक्तम्। कानि पुनस्तानि कर्माणि, यत्कर्तव्यतया पशुवत्परतन्त्रो भवति; के वा ते देवादयः, येषां कर्मभिः पशुवदुपकरोति – इति तदुभयं प्रपञ्चयति –
अथो इत्ययं वाक्योपन्यासार्थः। अयं यः प्रकृतो गृही कर्माधिकृतः अविद्वान् शरीरेन्द्रियसङ्घातादिविशिष्टः पिण्ड आत्मा इत्युच्यते, सर्वेषां देवादीनां पिपीलिकान्तानां भूतानां लोको भोग्य आत्मेत्यर्थः, सर्वेषां वर्णाश्रमादिविहितैः कर्मभिरुपकारित्वात्। कैः पुनः कर्मविशेषैरुपकुर्वन्केषां भूतविशेषाणां लोकः इत्युच्यते – गृही यज्जुहोति यद्यजते। यागो देवतामुद्दिश्य स्वत्वपरित्यागः, स एव आसेचनाधिको होमः – तेन होमयागलक्षणेन कर्मणा अवश्यकर्तव्यत्वेन देवानां पशुवत्परतन्त्रत्वेन प्रतिबद्ध इति लोकः; अथ यदनुब्रूते स्वाध्यायमधीते अहरहः तेन ऋषीणां लोकः; अथ यत्पितृभ्यो निपृणाति प्रयच्छति पिण्डोदकादि, यत्प्रजामिच्छते प्रजार्थमुद्यमं करोति – इच्छा च उत्पत्त्युपलक्षणार्था – प्रजां चोत्पादयतीत्यर्थः, तेन कर्मणा अवश्यकर्तव्यत्वेन पितृणां लोकः पितॄणां भोग्यत्वेन परतन्त्रो लोकः; अथ यन्मनुष्यान्वासयते भूम्युदकादिदानेन गृहे, यत् च तेभ्यो वसद्भ्योऽवसद्भ्यो वा अर्थिभ्यः अशनं ददाति, तेन मनुष्याणाम्; अथ यत्पशुभ्यस्तृणोदकं विन्दति लम्भयति, तेन पशूनाम्; यदस्य गृहेषु श्वापदा वयांसिपिपीलिकाभिः सह कणबलिभाण्डक्षालनादि उपजीवन्ति, तेन तेषां लोकः। यस्मादयमेतानि कर्माणि कुर्वन्नुपकरोति देवादिभ्यः, तस्मात्, यथा ह वै लोके स्वाय लोकाय स्वस्मै देहाय अरिष्ठिम् अविनाशं स्वत्वभावाप्रच्युतिम् इच्छेत् स्वत्वभावप्रच्युतिभयात्पोषणरक्षणादिभिः सर्वतः परिपालयेत्; एवं ह, एवंविदे – सर्वभूतभोग्योऽहम् अनेन प्रकारेण मया अवश्यमृणिवत्प्रतिकर्तव्यम् – इत्येवमात्मानं परिकल्पितवते, सर्वाणि भूतानि देवादीनि यथोक्तानि, अरिष्ठिम् अविनाशम् इच्छन्ति स्वत्वाप्रच्युत्यै सर्वतः संरक्षन्ति कुटुम्बिन इव पशून् – ‘तस्मादेषां तन्न प्रियम्’ (BrhU.1.4.10) इत्युक्तम्। तद्वा एतत् तदेतत् यथोक्तानां कर्मणामृणवदवश्यकर्तव्यत्वं पञ्चमहायज्ञप्रकरणे विदितं कर्तव्यतया मीमांसितं विचारितं च अवदानप्रकरणे।
आत्मैवेदमग्र आसीत्। ब्रह्म विद्वांश्चेत् तस्मात्पशुभावात्कर्तव्यताबन्धनरूपात्प्रतिमुच्यते, केनायं कारितः कर्मबन्धनाधिकारे अवश इव प्रवर्तते, न पुनस्तद्विमोक्षणोपाये विद्याधिकार इति। ननूक्तं देवा रक्षन्तीति; बाढम् – कर्माधिकारस्वगोचरारूढानेव तेऽपि रक्षन्ति, अन्यथा अकृताभ्यागमकृतनाशप्रसङ्गात्, न तु सामान्यं पुरुषमात्रं विशिष्टाधिकारानारूढम्; तस्माद्भवितव्यं तेन, येन प्रेरितोऽवश एव बहिर्मुखो भवति स्वस्माल्लोकात्। नन्वविद्यया सा; अविद्वान्हि बहिर्मुखीभूतः प्रवर्तते – सापि नैव प्रवर्तिका; वस्तुस्वरूपावरणात्मिका हि सा; प्रवर्तकबीजत्वं तु प्रतिपद्यते अन्धत्वमिव गर्तादिपतनप्रवृत्तिहेतुः। एतं तर्ह्युच्यतां किं तत्, यत्प्रवृत्तिहेतुरिति; तदिहाभिधीयते – एषणा कामः सः, स्वाभाविक्यामविद्यायां वर्तमाना बालाः पराचः कामाननुयन्तीति काठकश्रुतौ, स्मृतौ च – ‘काम एष क्रोध एषः’ (BhG.3.37) इत्यादि, मानवे च – सर्वा प्रवृत्तिः कामहेतुक्येवेति। स एषोऽर्थः सविस्तरः प्रदर्श्यत इह आ अध्यायपरिसमाप्तेः॥
🔗  आत्मैवेदमग्र आसीत्। आत्मैव – स्वाभाविकः अविद्वान् कार्यकरणसङ्घातलक्षणो वर्णी अग्रे प्राग्दारसम्बन्धात् आत्मेत्यभिधीयते; तस्मादात्मनः पृथग्भूतं काम्यमानं जायादिभेदरूपं नासीत्; स एवैक आसीत् – जायाद्येषणाबीजभूताविद्यावानेक एवासीत्। स्वाभाविक्या स्वात्मनि कर्त्रादिकारकक्रियाफलात्मकताध्यारोपलक्षणया अविद्यावासनया वासितः सः अकामयत कामितवान्। कथम्? जाया कर्माधिकारहेतुभूता मे मम कर्तुः स्यात्; तया विना अहमनधिकृत एव कर्मणि; अतः कर्माधिकारसम्पत्तये भवेज्जाया; अथ अहं प्रजायेय प्रजारूपेणाहमेवोत्पद्येय; अथ वित्तं मे स्यात् कर्मसाधनं गवादिलक्षणम्; अथ अहमभ्युदयनिःश्रेयससाधनं कर्म कुर्वीय – येनाहमनृणी भूत्वा देवादीनां लोकान्प्राप्नुयाम्, तत्कर्म कुर्वीय, काम्यानि च पुत्रवित्तस्वर्गादिसाधनानि एतावान्वै कामः एतावद्विषयपरिच्छिन्न इत्यर्थः; एतावानेव हि कामयितव्यो विषयः – यदुत जायापुत्रवित्तकर्माणि साधनलक्षणैषणा, लोकाश्च त्रयः – मनुष्यलोकः पितृलोको देवलोक इति – फलभूताः साधनैषणायाश्चास्याः; तदर्था हि जायापुत्रवित्तकर्मलक्षणा साधनैषणा; तस्मात् सा एकैव एषणा, या लोकैषणा; सा एकैव सती एषणा साधनापेक्षेति द्विधा; अतोऽवधारयिष्यति ‘उभे ह्येते एषणे एव’ (BrhU.3.5.1) इति। फलार्थत्वात्सर्वारम्भस्य लोकैषणा अर्थप्राप्ता उक्तैवेति – एतावान्वै एतावानेव काम इति अवध्रियते; भोजनेऽभिहिते तृप्तिर्न हि पृथगभिधेया, तदर्थत्वाद्भोजनस्य। ते एते एषणे साध्यसाधनलक्षणे कामः, येन प्रयुक्तः अविद्वान् अवश एव कोशकारवत् आत्मानं वेष्टयति – कर्ममार्ग एवात्मानं प्रणिदधत् बहिर्मुखीभूतः न स्वं लोकं प्रतिजानाति; तथा च तैत्तिरीयके – ‘अग्निमुग्धो हैव धूमतान्तः स्वं लोकं न प्रतिजानाति’ (तै. ब्रा. ३-१०-११) इति। कथं पुनरेतावत्त्वमवधार्यते कामानाम्, अनन्तत्वात्; अनन्ता हि कामाः – इत्येतदाशङ्क्य हेतुमाह – यस्मात् – न इच्छन् न – इच्छन्नपि, अतः अस्मात्फलसाधनलक्षणात्, भूयः अधिकतरम्, न विन्देत् न लभेत; न हि लोके फलसाधनव्यतिरिक्तं दृष्टमदृष्टं वा लब्धव्यमस्ति; लब्धव्यविषयो हि कामः; तस्य चैतद्व्यतिरेकेणाभावाद्युक्तं वक्तुम् – एतावान्वै काम इति। एतदुक्तं भवति – दृष्टार्थमदृष्टार्थं वा साध्यसाधनलक्षणम् अविद्यावत्पुरुषाधिकारविषयम् एषणाद्वयं कामः; अतोऽस्माद्विदुषा व्युत्थातव्यमिति। यस्मात् एवमविद्वाननात्मकामी पूर्वः कामयामास, तथा पूर्वतरोऽपि; एषा लोकस्थितिः; प्रजापतेश्चैवमेष सर्ग आसीत् – सोऽबिभेदविद्यया, ततः कामप्रयुक्तः एकाक्यरममाणोऽरत्युपघाताय स्त्रियमैच्छत्, तां समभवत्, ततः सर्गोऽयमासीदिति हि उक्तम् – तस्मात् तत्सृष्टौ एतर्हि एतस्मिन् अपि काले एकाकी सन् प्राग्दारक्रियातः कामयतेजाया मे स्यात्, अथ प्रजायेय, अथ वित्तं मे स्यात्, अथ कर्म कुर्वीय इति उक्तार्थं वाक्यम्। सः – एवं कामयमानः सम्पादयंश्च जायादीन् यावत् सः एतेषां यथोक्तानां जायादीनाम् एकैकमपि न प्राप्नोति, अकृत्स्नः असम्पूर्णोऽहम् इत्येव तावत् आत्मानं मन्यते; पारिशेष्यात्समस्तानेवैतान्सम्पादयति यदा, तदा तस्य कृत्स्नता। यदा तु न शक्नोति कृत्स्नतां सम्पादयितुं तदा अस्य कृत्स्नत्वसम्पादनाय आह – तस्यो तस्य अकृत्स्नत्वाभिमानिनः कृत्स्नतेयम् एवं भवति; कथम्? अयं कार्यकरणसङ्घातः प्रविभज्यते; तत्र मनोऽनुवृत्ति हि इतरत्सर्वं कार्यकरणजातमिति मनः प्रधानत्वात् आत्मेव आत्मा – यथा जायादीनां कुटुम्बपतिरात्मेव तदनुकारित्वाज्जायादिचतुष्टयस्य, एवमिहापि मन आत्मा परिकल्प्यते कृत्स्नतायै। तथा वाग्जाया मनोऽनुवृत्तित्वसामान्याद्वाचः। वागिति शब्दश्चोदनादिलक्षणो मनसा श्रोत्रद्वारेण गृह्यते अवधार्यते प्रयुज्यते चेति मनसो जायेव वाक्। ताभ्यां च वाङ्मनसाभ्यां जायापतिस्थानीयाभ्यां प्रसूयते प्राणः कर्मार्थमिति प्राणः प्रजा इव। तत्र प्राणचेष्टादिलक्षणं कर्म चक्षुर्दृष्टवित्तसाध्यं भवतीति चक्षुर्मानुषं वित्तम्; तत् द्विविधं वित्तम् – मानुषम् इतरच्च; अतो विशिनष्टि इतरवित्तनिवृत्त्यर्थं मानुषमिति; गवादि हि मनुष्यसम्बन्धिवित्तं चक्षुर्ग्राह्यं कर्मसाधनम्; तस्मात्तत्स्थानीयम्, तेन सम्बन्धात् चक्षुर्मानुषं वित्तम्; चक्षुषा हि यस्मात् तद् मानुषं वित्तं विन्दते गवाद्युपलभत इत्यर्थः। किं पुनरितरद्वित्तम्? श्रोत्रं दैवम् – देवविषयत्वाद्विज्ञानस्य विज्ञानं दैवं वित्तम्; तदिह श्रोत्रमेव सम्पत्तिविषयम्; कस्मात्? श्रोत्रेण हि यस्मात् तत् दैवं वित्तं विज्ञानं शृणोति; अतः श्रोत्राधीनत्वाद्विज्ञानस्य श्रोत्रमेव तदिति। किं पुनरेतैरात्मादिवित्तान्तैरिह निर्वर्त्यं कर्म इत्युच्यते – आत्मैव – आत्मेति शरीरमुच्यते; कथं पुनरात्मा कर्मस्थानीयः? अस्य कर्महेतुत्वात्। कथं कर्महेतुत्वम्? आत्मना हि शरीरेण यतः कर्म करोति। तस्य अकृत्स्नत्वाभिमानिन एवं कृत्स्नता सम्पन्ना – यथा बाह्या जायादिलक्षणा एवम्। तस्मात् स एष पाङ्क्तः पञ्चभिर्निर्वृत्तः पाङ्क्तः यज्ञः दर्शनमात्रनिर्वृत्तः अकर्मिणोऽपि। कथं पुनरस्य पञ्चत्वसम्पत्तिमात्रेण यज्ञत्वम्? उच्यते – यस्मात् बाह्योऽपि यज्ञः पशुपुरुषसाध्यः, स च पशुः पुरुषश्च पाङ्क्तः एव, यथोक्तमनआदिपञ्चत्वयोगात्; तदाह – पाङ्क्तः पशुः गवादिः, पाङ्क्तः पुरुषः – पशुत्वेऽपि अधिकृतत्वेनास्य विशेषः पुरुषस्येति पृथक्पुरुषग्रहणम्। किं बहुना पाङ्क्तमिदं सर्वं कर्मसाधनं फलं च, यदिदं किञ्च यत्किञ्चिदिदं सर्वम्। एवं पाङ्क्तं यज्ञमात्मानं यः सम्पादयति सः तदिदं सर्वं जगत् आत्मत्वेन आप्नोतिय एवं वेद

Go to Top ('Home' key on many Windows browsers)

BrhU.1.05

🔗  यत्सप्तान्नानि मेधया। अविद्या प्रस्तुता; तत्र अविद्वान् अन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति; सः वर्णाश्रमाभिमानः कर्मकर्तव्यतया नियतो जुहोत्यादिकर्मभिः कामप्रयुक्तो देवादीनामुपकुर्वन् सर्वेषां भूतानां लोक इत्युक्तम्। यथा च स्वकर्मभिरेकैकेन सर्वैर्भूतैरसौ लोको भोज्यत्वेन सृष्टः, एवमसावपि जुहोत्यादिपाङ्क्तकर्मभिः सर्वाणि भूतानि सर्वं च जगत् आत्मभोज्यत्वेनासृजत; एवम् एकैकः स्वकर्मविद्यानुरूप्येण सर्वस्य जगतो भोक्ता भोज्यं च, सर्वस्य सर्वः कर्ता कार्यं चेत्यर्थः; एतदेव च विद्याप्रकरणे मधुविद्यायां वक्ष्यामः – सर्वं सर्वस्य कार्यं मध्विति आत्मैकत्वविज्ञानार्थम्। यदसौ जुहोत्यादिना पाङ्क्तेन काम्येन कर्मणा आत्मभोज्यत्वेन जगदसृजत विज्ञानेन च, तज्जगत्सर्वं सप्तधा प्रविभज्यमानं कार्यकारणत्वेन सप्तान्नान्युच्यन्ते, भोज्यत्वात्; तेनासौ पिता तेषामन्नानाम्। एतेषामन्नानां सविनियोगानां सूत्रभूताः सङ्क्षेपतः प्रकाशकत्वात् इमे मन्त्राः॥
🔗  यत्सप्तान्नानि – यत् अजनयत् इति क्रियाविशेषणम्; मेधया प्रज्ञया विज्ञानेन तपसा च कर्मणा; ज्ञानकर्मणी एव हि मेधातपःशब्दवाच्ये, तयोः प्रकृतत्वात्; नेतरे मेधातपसी, अप्रकरणात्; पाङ्क्तं हि कर्म जायादिसाधनम्; ‘य एवं वेद’ इति च अनन्तरमेव ज्ञानं प्रकृतम्; तस्मान्न प्रसिद्धयोर्मेधातपसोराशङ्का कार्या; अतः यानि सप्तान्नानि ज्ञानकर्मभ्यां जनितवान्पिता, तानि प्रकाशयिष्याम इति वाक्यशेषः। तत्र मन्त्राणामर्थः तिरोहितत्वात्प्रायेण दुर्विज्ञेयो भवतीति तदर्थव्याख्यानाय ब्राह्मणं प्रवर्तते। तत्र यत्सप्तान्नानि मेधया तपसा अजनयत्पिता इत्यस्य कोऽर्थः? उच्यते इति – हि-शब्देनैव व्याचष्टे प्रसिद्धार्थावद्योतकेन; प्रसिद्धो ह्यस्य मन्त्रस्यार्थ इत्यर्थः; यदजनयदिति च अनुवादस्वरूपेण मन्त्रेण प्रसिद्धार्थतैव प्रकाशिता; अतः ब्राह्मणम् अविशङ्कयैवाह – मेधया हि तपसाजनयत्पितेति।
ननु कथं प्रसिद्धता अस्यार्थस्येति, उच्यते – जायादिकर्मान्तानां लोकफलसाधनानां पितृत्वं तावत्प्रत्यक्षमेव; अभिहितं च – ‘जाया ते स्यात्’ इत्यादिना। तत्र च दैवं वित्तं विद्या कर्म पुत्रश्च फलभूतानां लोकानां साधनं स्रष्टृत्वं प्रति इत्यभिहितम्; वक्ष्यमाणं च प्रसिद्धमेव। तस्माद्युक्तं वक्तुं मेधयेत्यादि। एषणा हि फलविषया प्रसिद्धैव च लोके; एषणा च जायादीत्युक्तम् ‘एतावान्वै कामः’ इत्यनेन; ब्रह्मविद्याविषये च सर्वैकत्वात्कामानुपपत्तेः। एतेन अशास्त्रीयप्रज्ञातपोभ्यां स्वाभाविकाभ्यां जगत्स्रष्टृत्वमुक्तमेव भवति; स्थावरान्तस्य च अनिष्टफलस्य कर्मविज्ञाननिमित्तत्वात्। विवक्षितस्तु शास्त्रीय एव साध्यसाधनभावः, ब्रह्मविद्याविधित्सया तद्वैराग्यस्य विवक्षितत्वात् – सर्वो ह्ययं व्यक्ताव्यक्तलक्षणः संसारोऽशुद्धोऽनित्यः साध्यसाधनरूपो दुःखोऽविद्याविषय इत्येतस्माद्विरक्तस्य ब्रह्मविद्या आरब्धव्येति।
तत्र अन्नानां विभागेन विनियोग उच्यते – एकमस्य साधारणम् इति मन्त्रपदम्; तस्य व्याख्यानम् – इदमेवास्य तत्साधारणमन्नम् इत्युक्तम्; भोक्तृसमुदायस्य; किं तत्? यदिदम् अद्यते भुज्यते सर्वैः प्राणिभिरहन्यहनि, तत् साधारणं सर्वभोक्त्रर्थमकल्पयत्पिता सृष्ट्वा अन्नम्। स य एतत् साधारणं सर्वप्राणभृत्स्थितिकरं भुज्यमानमन्नम् उपास्ते – तत्परो भवतीत्यर्थः – उपासनं हि नाम तात्पर्यं दृष्टं लोके ‘गुरुमुपास्ते’ ‘राजानमुपास्ते’ इत्यादौ – तस्मात् शरीरस्थित्यर्थान्नोपभोगप्रधानः नादृष्टार्थकर्मप्रधान इत्यर्थः; एवम्भूतो न पाप्मनोऽधर्मात् व्यावर्तते – न विमुच्यत इत्येतत्। तथा च मन्त्रवर्णः – ‘मोघमन्नं विन्दते’ (ऋ. १०-९७-६) इत्यादिः; स्मृतिरपि –’नात्मार्थं पाचयेदन्नम्’ ‘अप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः’ (BhG.3.13) ‘अन्नादे भ्रूणहा मार्ष्टि’ (मनु. ८-१३७) इत्यादिः। कस्मात्पुनः पाप्मनो न व्यावर्तते? मिश्रं ह्येतत् – सर्वेषां हि स्वं तत् अप्रविभक्तं यत्प्राणिभिर्भुज्यते, सर्वभोज्यत्वादेव यो मुखे प्रक्षिप्यमाणोऽपि ग्रासः परस्य पीडाकरो दृश्यते – ममेदं स्यादिति हि सर्वेषां तत्राशा प्रतिबद्धा; तस्मात् न परमपीडयित्वा ग्रसितुमपि शक्यते। ‘दुष्कृतं हि मनुष्याणाम्’ (?) इत्यादिस्मरणाच्च।
गृहिणा वैश्वदेवाख्यमन्नं यदहन्यहनि निरूप्यत इति केचित्। तन्न। सर्वभोक्तृसाधारणत्वं वैश्वदेवाख्यस्यान्नस्य न सर्वप्राणभृद्भुज्यमानान्नवत्प्रत्यक्षम्। नापि यदिदमद्यत इति तद्विषयं वचनमनुकूलम्।सर्वप्राणभृद्भुज्यमानान्नान्तःपातित्वाच्च वैश्वदेवाख्यस्य युक्तं श्वचाण्डालाद्याद्यस्य अन्नस्य ग्रहणम्, वैश्वदेवव्यतिरेकेणापि श्वचाण्डालाद्याद्यान्नदर्शनात्, तत्र युक्तं यदिदमद्यत इति वचनम्। यदि हि तन्न गृह्येत साधारणशब्देन पित्रा असृष्टत्वाविनियुक्तत्वे तस्य प्रसज्येयाताम्। इष्यते हि तत्सृष्टत्वं तद्विनियुक्तत्वं च सर्वस्यान्नजातस्य। न च वैश्वदेवाख्यं शास्त्रोक्तं कर्म कुर्वतः पाप्मनोऽविनिवृत्तिर्युक्ता। न च तस्य प्रतिषेधोऽस्ति। न च मत्स्यबन्धनादिकर्मवत्स्वभावजुगुप्सितमेतत्, शिष्टनिर्वर्त्यत्वात्, अकरणे च प्रत्यवायश्रवणात्। इतरत्र च प्रत्यवायोपपत्तेः, ‘अहमन्नमन्नमदन्तमद्मि’ (TaitU.3.10.6) इति मन्त्रवर्णात्।
द्वे देवानभाजयत् इति मन्त्रपदम्; ये द्वे अन्ने सृष्ट्वा देवानभाजयत्, के ते द्वे इत्युच्यते – हुतं च प्रहुतं च। हुतमित्यग्नौ हवनम्, प्रहुतं हुत्वा बलिहरणम्। यस्मात् द्वे एते अन्ने हुतप्रहुते देवानभाजयत्पिता, तस्मात् एतर्ह्यपि गृहिणः काले देवेभ्यो जुह्वति देवेभ्य इदमन्नमस्माभिर्दीयमानमिति मन्वाना जुह्वति, प्रजुह्वति च हुत्वा बलिहरणं च कुर्वत इत्यर्थः। अथो अप्यन्य आहुः – द्वे अन्ने पित्रा देवेभ्यः प्रत्ते न हुतप्रहुते, किं तर्हि दर्शपूर्णमासाविति। द्वित्वश्रवणाविशेषात् अत्यन्तप्रसिद्धत्वाच्च हुतप्रहुते इति प्रथमः पक्षः। यद्यपि द्वित्वं हुतप्रहुतयोः सम्भवति, तथापि श्रौतयोरेव तु दर्शपूर्णमासयोर्देवान्नत्वं प्रसिद्धतरम्, मन्त्रप्रकाशितत्वात्; गुणप्रधानप्राप्तौ च प्रधाने प्रथमतरा अवगतिः; दर्शपूर्णमासयोश्च प्राधान्यं हुतप्रहुतापेक्षया; तस्मात्तयोरेव ग्रहणं युक्तम् – द्वे देवानभाजयदिति। यस्माद्देवार्थमेते पित्रा प्रक्लृप्ते दर्शपूर्णमासाख्ये अन्ने, तस्मात् तयोर्देवार्थत्वाविघाताय नेष्टियाजुकः इष्टियजनशीलः; इष्टिशब्देन किल काम्या इष्टयः; शातपथी इयं प्रसिद्धिः; ताच्छील्यप्रत्ययप्रयोगात्काम्येष्टियजनप्रधानो न स्यात् इत्यर्थः।
पशुभ्य एकं प्रायच्छदिति – यत् पशुभ्य एकं प्रायच्छत् पिता, किं पुनस्तदन्नम्? तत्पयः। कथं पुनरवगम्यते पशवोऽस्यान्नस्य स्वामिन इत्यत आह – पयो हि अग्रे प्रथमं यस्मात् मनुष्याश्च पशवश्च पय एवोपजीवन्ति इति; उचितं हि तेषां तदन्नम्, अन्यथा कथं तदेवाग्रे नियमेनोपजीवेयुः। कथमग्रे तदेवोपजीवन्तीति उच्यते – मनुष्याश्च पशवश्च यस्मात् तेनैवान्नेन वर्तन्ते अद्यत्वेऽपि, यथा पित्रा आदौ विनियोगः कृतः तथा; तस्मात् कुमारं बालं जातं घृतं वा त्रैवर्णिका जातकर्मणि जातरूपसंयुक्तं प्रतिलेहयन्ति प्राशयन्ति; स्तनं वा अनुधापयन्ति पश्चात् पाययन्ति यथासम्भवम् अन्येषाम्; स्तनमेवाग्रे धापयन्ति मनुष्येभ्योऽन्येषां पशूनाम्। अथ वत्सं जातमाहुः कियत्प्रमाणो वत्स इत्येवं पृष्टाः सन्तः – अतृणादः इति – नाद्यापि तृणमत्ति, अतीव बालः पयसैवाद्यापि वर्तत इत्यर्थः। यच्च अग्रे जातकर्मादौ घृतमुपजीवन्ति, यच्च इतरे पय एव, तत् सर्वथापि पय एवोपजीवन्ति; घृतस्यापि पयोविकारत्वात्पयस्त्वमेव। कस्मात्पुनः सप्तमं सत् पश्वन्नं चतुर्थत्वेन व्याख्यायते? कर्मसाधनत्वात्; कर्म हि पयःसाधनाश्रयम् अग्निहोत्रादि; तच्च कर्म साधनं वित्तसाध्यं वक्ष्यमाणस्यान्नत्रयस्य साध्यस्य, यथा दर्शपूर्णमासौ पूर्वोक्तावन्ने; अतः कर्मपक्षत्वात् कर्मणा सह पिण्डीकृत्योपदेशः; साधनत्वाविशेषात् अर्थसम्बन्धात् आनन्तर्यमकारणमिति च; व्याख्याने प्रतिपत्तिसौकर्याच्च – सुखं हि नैरन्तर्येण व्याख्यातुं शक्यन्तेऽन्नानि व्याख्यातानि च सुखं प्रतीयन्ते। तस्मिन्सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न इति अस्य कोऽर्थ इत्युच्यते – तस्मिन् पश्वन्ने पयसि, सर्वम् अध्यात्माधिभूताधिदैवलक्षणं कृत्स्नं जगत् प्रतिष्ठितम्यच्च प्राणिति प्राणचेष्टावत्, यच्च न स्थावरं शैलादि। तत्र हि-शब्देनैव प्रसिद्धावद्योतकेन व्याख्यातम्। कथं पयोद्रव्यस्य सर्वप्रतिष्ठात्वम्? कारणत्वोपपत्तेः; कारणत्वं च अग्निहोत्रादिकर्मसमवायित्वम्; अग्निहोत्राद्याहुतिविपरिणामात्मकं च जगत्कृत्स्नमिति श्रुतिस्मृतिवादाः शतशो व्यवस्थिताः; अतो युक्तमेव हि-शब्देन व्याख्यानम्। यत् तद् ब्राह्मणान्तरेषु इदम् आहुःसंवत्सरं पयसा जुह्वदप पुनर्मृत्युं जयतीति; संवत्सरेण किल त्रीणि षष्टिशतान्याहुतीनां सप्त च शतानि विंशतिश्चेति याजुष्मतीरिष्टका अभिसम्पद्यमानाः संवत्सरस्य च अहोरात्राणि, संवत्सरमग्निं प्रजापतिमाप्नुवन्ति; एवं कृत्वा संवत्सरं जुह्वत् अपजयति पुनर्मृत्युम्-इतः प्रेत्य देवेषु सम्भूतः पुनर्न म्रियत इत्यर्थः – इत्येवं ब्राह्मणवादा आहुः। न तथा विद्यात् न तथा द्रष्टव्यम्; यदहरेव जुहोति तदहः पुनर्मृत्युमपजयति न संवत्सराभ्यासमपेक्षते; एवं विद्वान् सन् – यदुक्तम्, पयसि हीदं सर्वं प्रतिष्ठितं पयआहुतिविपरिणामात्मकत्वात्सर्वस्येति, तत् – एकेनैवाह्ना जगदात्मत्वं प्रतिपद्यते; तदुच्यते – अपजयति पुनर्मृत्युं पुनर्मरणम्, सकृन्मृत्वा विद्वान् शरीरेण वियुज्य सर्वात्मा भवति न पुनर्मरणाय परिच्छिन्नं शरीरं गृह्णातीत्यर्थः। कः पुनर्हेतुः, सर्वात्माप्त्या मृत्युमपजयतीति? उच्यते – सर्वं समस्तं हि यस्मात् देवेभ्यः सर्वेभ्यः अन्नाद्यम् अन्नमेव तदाद्यं च सायम्प्रातराहुतिप्रक्षेपेण प्रयच्छति। तद्युक्तम् – सर्वमाहुतिमयमात्मानं कृत्वा सर्वदेवान्नरूपेण सर्वैः देवैः एकात्मभावं गत्वा सर्वदेवमयो भूत्वा पुनर्न म्रियत इति। अथैतदप्युक्तं ब्राह्मणेन – ‘ब्रह्म वै स्वयम्भु तपोऽतप्यत, तदैक्षत न वै तपस्यानन्त्यमस्ति हन्ताहं भूतेष्वात्मानं जुहवानि भूतानि चात्मनीति, तत्सर्वेषु भूतेष्वात्मानं हुत्वा भूतानि चात्मनि सर्वेषां भूतानां श्रैष्ठ्यं स्वाराज्यमाधिपत्यं पर्येत्’ (शत. ब्रा. १३-७-१-१) इति।
कस्मात्तानि न क्षीयन्तेऽद्यमानानि सर्वदा इति। यदा पित्रा अन्नानि सृष्ट्वा सप्त पृथक्पृथग्भोक्तृभ्यः प्रत्तानि, तदा प्रभृत्येव तैर्भोक्तृभिः अद्यमानानि – तन्निमित्तत्वात्तेषां स्थितेः – सर्वदा नैरन्तर्येण; कृतक्षयोपपत्तेश्च युक्तस्तेषां क्षयः; तानि क्षीयमाणानि, जगतोऽविभ्रष्टरूपेणैवावस्थानदर्शनात्; भवितव्यं च अक्षयकारणेन; तस्मात् कस्मात्पुनस्तानि न क्षीयन्त इति प्रश्नः। तस्येदं प्रतिवचनम् – पुरुषो वा अक्षितिः। यथा असौ पूर्वमन्नानां स्रष्टासीत्पिता मेधया जायादिसम्बद्धेन च पाङ्क्तकर्मणा भोक्ता च तथा येभ्यो दत्तान्यन्नानि तेऽपि तेषामन्नानां भोक्तारोऽपि सन्तः पितर एव – मेधया तपसा च यतो जनयन्ति तान्यन्नानि। तदेतदभिधीयते पुरुषो वै योऽन्नानां भोक्ता सः अक्षितिः अक्षयहेतुः। कथमस्याक्षितित्वमित्युच्यते – सः हि यस्मात् इदं भुज्यमानं सप्तविधं कार्यकरणलक्षणं क्रियाफलात्मकं पुनः पुनः भूयो भूयः जनयते उत्पादयति, धिया धिया तत्तत्कालभाविन्या तया तया प्रज्ञया, कर्मभिः च वाङ्मनःकायचेष्टितैः; यत् यदि यदि एतत् सप्तविधमन्नमुक्तं क्षणमात्रमपि न कुर्यात् प्रज्ञया कर्मभिश्च, ततो विच्छिद्येत भुज्यमानत्वात्सातत्येन क्षीयेत ह। तस्मात् यथैवायं पुरुषो भोक्ता अन्नानां नैरन्तर्येण यथाप्रज्ञं यथाकर्म च करोत्यपि; तस्मात् पुरुषोऽक्षितिः, सातत्येन कर्तृत्वात्; तस्मात् भुज्यमानान्यप्यन्नानि न क्षीयन्त इत्यर्थः। अतः प्रज्ञाक्रियालक्षणप्रबन्धारूढः सर्वो लोकः साध्यसाधनलक्षणः क्रियाफलात्मकः संहतानेकप्राणिकर्मवासनासन्तानावष्टब्धत्वात् क्षणिकः अशुद्धः असारः नदीस्रोतःप्रदीपसन्तानकल्पः कदलीस्तम्भवदसारः फेनमायामरीच्यम्भःस्वप्नादिसमः तदात्मगतदृष्टीनामविकीर्यमाणो नित्यः सारवानिव लक्ष्यते; तदेतद्वैराग्यार्थमुच्यते – धिया धिया जनयते कर्मभिर्यद्धैतन्न कुर्यात्क्षीयेत हेति – विरक्तानां ह्यस्मात् ब्रह्मविद्या आरब्धव्या चतुर्थप्रमुखेनेति। यो वैतामक्षितिं वेद इति। वक्ष्यमाणान्यपि त्रीण्यन्नानि अस्मिन्नवसरे व्याख्यातान्येवेति कृत्वा तेषां याथात्म्यविज्ञानफलमुपसंह्रियते – यो वा एतामक्षितिम् अक्षयहेतुं यथोक्तं वेद पुरुषो वा अक्षितिः स हीदमन्न धिया धिया जनयते कर्मभिर्यद्धैतन्न कुर्यात्क्षीयेत हेति – सोऽन्नमत्ति प्रतीकेन इत्यस्यार्थ उच्यते – मुखं मुख्यत्वं प्राधान्यमित्येतत्, प्राधान्येन एव, अन्नानां पितुः पुरुषस्याक्षितित्वं यो वेद, सोऽन्नमत्ति, नान्नं प्रति गुणभूतः सन्, यथा अज्ञः न तथा विद्वान् अन्नानामात्मभूतः – भोक्तैव भवति न भोज्यतामापद्यते। स देवानपिगच्छति स ऊर्जमुपजीवति – देवानपिगच्छति देवात्मभावं प्रतिपद्यते, ऊर्जम् अमृतं च उपजीवति इति यदुक्तम्, सा प्रशंसा; नापूर्वार्थोऽन्योऽस्ति॥
🔗  पाङ्क्तस्य कर्मणः फलभूतानि यानि त्रीण्यन्नान्युपक्षिप्तानि तानि कार्यत्वात् विस्तीर्णविषयत्वाच्च पूर्वेभ्योऽन्नेभ्यः पृथगुत्कृष्टानि; तेषां व्याख्यानार्थ उत्तरो ग्रन्थ आ ब्राह्मणपरिसमाप्तेः। त्रीण्यात्मनेऽकुरुत इति कोऽस्यार्थ इत्युच्यते – मनः वाक् प्राणः, एतानि त्रीणि अन्नानि; तानि मनः वाचं प्राणंआत्मने आत्मार्थम् अकुरुत कृतवान् सृष्ट्वा आदौ पिता। तेषां मनसोऽस्तित्वं स्वरूपं च प्रति संशय इत्यत आह – अस्ति तावन्मनः श्रोत्रादिबाह्यकरणव्यतिरिक्तम्; यत एवं प्रसिद्धम् – बाह्यकरणविषयात्मसम्बन्धे सत्यपि अभिमुखीभूतं विषयं न गृह्णाति, किं दृष्टवानसीदं रूपमित्युक्तो वदति – अन्यत्र मे गतं मन आसीत् सोऽहम् अन्यत्रमना आसं नादर्शम्, तथेदं श्रुतवानसि मदीयं वच इत्युक्तः अन्यत्रमना अभूवम् नाश्रौषं न श्रुतवानस्मीति। तस्मात् यस्यासन्निधौ रूपादिग्रहणसमर्थस्यापि सतः चक्षुरादेः स्वस्वविषयसम्बन्धे रूपशब्दादिज्ञानं न भवति, यस्य च भावे भवति, तत् अन्यत् अस्ति मनो नामान्तःकरणं सर्वकरणविषययोगीत्यवगम्यते। तस्मात्सर्वो हि लोको मनसा ह्येव पश्यति मनसा शृणोति, तद्व्यग्रत्वे दर्शनाद्यभावात्।
अस्तित्वे सिद्धे मनसः स्वरूपार्थमिदमुच्यते – कामः स्त्रीव्यतिकराभिलाषादिः, सङ्कल्पः प्रत्युपस्थितविषयविकल्पनं शुक्लनीलादिभेदेन, विचिकित्सा संशयज्ञानम्, श्रद्धा अदृष्टार्थेषु कर्मसु आस्तिक्यबुद्धिः देवतादिषु च, अश्रद्धा तद्विपरीता बुद्धिः, धृतिः धारणं देहाद्यवसाने उत्तम्भनम्, अधृतिः तद्विपर्ययः, ह्रीः लज्जा, धीः प्रज्ञा, भीः भयम् इत्येतद् एवमादिकं सर्वं मन एव; मनसोऽन्तःकरणस्य रूपाण्येतानि। मनोऽस्तित्वं प्रत्यन्यच्च कारणमुच्यते – तस्मात् मनो नामास्त्यन्तःकरणम्, यस्माच्चक्षुषो ह्यगोचरे पृष्ठतोऽप्युपस्पृष्टः केनचित् हस्तस्यायं स्पर्शः जानोरयमिति विवेकेन प्रतिपद्यते; यदि विवेककृत् मनो नाम नास्ति तर्हि त्वङ्मात्रेण कुतो विवेकप्रतिपत्तिः स्यात्; यत्तत् विवेकप्रतिपत्तिकारणं तन्मनः।
अस्ति तावन्मनः, स्वरूपं च तस्याधिगतम्। त्रीण्यन्नानीह फलभूतानि कर्मणां मनोवाक्प्राणाख्यानि अध्यात्ममधिभूतमधिदैवं च व्याचिख्यासितानि। तत्र आध्यात्मिकानां वाङ्मनःप्राणानां मनो व्याख्यातम्। अथेदानीं वाग्वक्तव्येत्यारम्भः – यः कश्चित् लोके शब्दो ध्वनिः ताल्वादिव्यङ्ग्यः प्राणिभिः वर्णादिलक्षणः इतरो वा वादित्रमेघादिनिमित्तः सर्वो ध्वनिः वागेव सा। इदं तावद्वाचः स्वरूपमुक्तम्। अथ तस्याः कार्यमुच्यते – एषा वाक् हि यस्मात् अन्तम् अभिधेयावसानम् अभिधेयनिर्णयम् आयत्ता अनुगता। एषा पुनः स्वयं नाभिधेयवत् प्रकाश्या अभिधेयप्रकाशिकैव प्रकाशात्मकत्वात् प्रदीपादिवत्; न हि प्रदीपादिप्रकाशः प्रकाशान्तरेण प्रकाश्यते; तद्वत् वाक् प्रकाशिकैव स्वयं न प्रकाश्या – इति अनवस्थां श्रुतिः परिहरति – एषा हि न प्रकाश्या, प्रकाशकत्वमेव वाचः कार्यमित्यर्थः।
अथ प्राण उच्यते – प्राणः मुखनासिकासञ्चार्या हृदयवृत्तिः प्रणयनात्प्राणः, अपनयनान्मूत्रपुरीषादेः अपानः अधोवृत्तिः आ नाभिस्थानः, व्यानः व्यायमनकर्मा व्यानः प्राणापानयोः सन्धिः वीर्यवत्कर्महेतुश्च, उदानः उत्कर्षोर्ध्वगमनादिहेतुः आपादतलमस्तकस्थान ऊर्ध्ववृत्तिः, समानः समं नयनाद्भुक्तस्य पीतस्य च कोष्ठस्थानोऽन्नपक्ता, अनः इति एषां वृत्तिविशेषाणां सामान्यभूता सामान्यदेहचेष्टाभिसम्बन्धिनी वृत्तिः – एवं यथोक्तं प्राणादिवृत्तिजातम् एतत्सर्वं प्राण एव। प्राण इति वृत्तिमानाध्यात्मिकः अन उक्तः; कर्म च अस्य वृत्तिभेदप्रदर्शनेनैव व्याख्यातम्; व्याख्यातान्याध्यात्मिकानि मनोवाक्प्राणाख्यानि अन्नानि; एतन्मयः एतद्विकारः प्राजापत्यैरेतैर्वाङ्मनःप्राणैरारब्धः। कोऽसै अयं कार्यकरणसङ्घातः? आत्मा पिण्डः आत्मस्वरूपत्वेनाभिमतोऽविवेकिभिः – अविशेषेणैतन्मय इत्युक्तस्य विशेषेण वाङ्मयो मनोमयः प्राणमयः इति स्फुटीकरणम्॥
🔗  तेषामेव प्राजापत्यानामन्नानामाधिभौतिको विस्तारोऽभिधीयते –
त्रयो लोकाः भूर्भुवःस्वरित्याख्याः एते एव वाङ्मनःप्राणाः; तत्र विशेषः – वागेवायं लोकः, मनोऽन्तरिक्षलोकः, प्राणोऽसौ लोकः
🔗  तथा त्रयो वेदा इत्यादीनि वाक्यानि ऋज्वर्थानि॥
🔗  विज्ञातं विजिज्ञास्यम् अविज्ञातम् एत एव; तत्र विशेषः यत्किञ्च विज्ञातं विस्पष्टं ज्ञातं वाचस्तद्रूपम्; तत्र स्वयमेव हेतुमाह – वाक् हि विज्ञाता, प्रकाशात्मकत्वात्; कथमविज्ञाता भवेत् या अन्यानपि विज्ञापयति; ‘वाचैव सम्राड्बन्धुः प्रज्ञायते’ (BrhU.4.1.2) इति हि वक्ष्यति। वाग्विशेषविद इदं फलमुच्यते – वाग् एव एनं यथोक्तवाग्विभूतिविदं तत् विज्ञातं भूत्वा अवति पालयति, विज्ञातरूपेणैवास्यान्नं भोज्यतां प्रतिपद्यत इत्यर्थः॥
🔗  तथा यत्किञ्च विजिज्ञास्यम्, विस्पष्टं ज्ञातुमिष्टं विजिज्ञास्यम्, तत् सर्वं मनसो रूपम्; मनः हि यस्मात् सन्दिह्यमानाकारत्वाद् विजिज्ञास्यम्। पूर्ववन्मनोविभूतिविदः फलम् – मन एनं तत् विजिज्ञास्यं भूत्वा अवति विजिज्ञास्यस्वरूपेणैवान्नत्वमापद्यत॥
🔗  तथा यत्किञ्च अविज्ञातं विज्ञानागोचरं न च सन्दिह्यमानम्, प्राणस्य तद्रूपम्; प्राणो ह्यविज्ञातः अविज्ञातरूपः हि यस्मात् प्राणः – अनिरुक्तश्रुतेः। विज्ञातविजिज्ञास्याविज्ञातभेदेन वाङ्मनःप्राणविभागे स्थिते त्रयो लोका इत्यादयो वाचनिका एव। सर्वत्र विज्ञातादिरूपदर्शनाद्वचनादेव नियमः स्मर्तव्यः। प्राण एनं तद्भूत्वावति – अविज्ञातरूपेणैवास्य प्राणोऽन्नं भवतीत्यर्थः। शिष्यपुत्रादिभिः सन्दिह्यमानाविज्ञातोपकारा अप्याचार्यपित्रादयो दृश्यन्ते; तथा मनःप्राणयोरपि सन्दिह्यमानाविज्ञातयोरन्नत्वोपपत्ति॥
🔗  व्याख्यातो वाङ्मनःप्राणानामाधिभौतिको विस्तारः; अथायमाधिदैविकार्थ आरम्भः –
तस्यै तस्याः वाचः प्रजापतेरन्नत्वेन प्रस्तुतायाः पृथिवी शरीरं बाह्य आधारः, ज्योतीरूपं प्रकाशात्मकं करणं पृथिव्या आधेयभूतम् अयं पार्थिवोऽग्निः। द्विरूपा हि प्रजापतेः वाक् कार्यं आधारः अप्रकाशः, करणं च आधेयं प्रकाशः तदुभयं पृथिव्यग्नी वागेव प्रजापतेः। तत् तत्र यावत्येव यावत्परिमाणैव अध्यात्माधिभूतभेदभिन्ना सती वाग् भवति, तत्र सर्वत्र आधारत्वेन पृथिवी व्यवस्थिता तावत्येव भवति कार्यभूता; तावान् अयमग्निः आधेयः – करणरूपो ज्योतीरूपेण पृथिवीमनुप्रविष्टस्तावानेव भवति। समानमुत्तरम्॥
🔗  अथैतस्य प्राजापत्यान्नोक्तस्यैव मनसः द्यौः द्युलोकः शरीरं कार्यम् आधारः, ज्योतीरूपं करणम् आधेयः असावादित्यःतत् तत्र यावत् परिमाणम् एव अध्यात्ममधिभूतं वा मनः, तावती तावद् विस्तारा तावत्परिमाणा मनसो ज्योतीरूपस्य करणस्य आधारत्वेन व्यवस्थिता द्यौः; तावानसावादित्यो ज्योतीरूपं करणमाधेयम्; तौ अग्न्यादित्यौ वाङ्मनसे आधिदैविके मातापितरौ मिथुनं मैथुन्यम् इतरेतरसंसर्गं समैतां समगच्छेताम् – मनसा आदित्येन प्रसूतं पित्रा, वाचा अग्निना मात्रा प्रकाशितं कर्म करिष्यामीति – अन्तरा रोदस्योः। ततः तयोरेव सङ्गमनात् प्राणो वायुः अजायत परिस्पन्दाय कर्मणे। यो जातः स इन्द्रः परमेश्वरः; न केवलमिन्द्र एव, असपत्नः अविद्यमानः सपत्नो यस्य; कः पुनः सपत्नो नाम? द्वितीयो वै प्रतिपक्षत्वेनोपगतः स द्वितीयः सपत्नः इत्युच्यते। तेन द्वितीयत्वेऽपि सति वाङ्मनसे न सपत्नत्वं भजेते; प्राणं प्रति गुणभावोपगते एव हि ते अध्यात्ममिव। तत्र प्रासङ्गिकासपत्नविज्ञानफलमिदम् – न अस्य विदुषः सपत्नः प्रतिपक्षो भवति, य एवं यथोक्तं प्राणम् असपत्नं वेद
🔗  अथैतस्य प्रकृतस्य प्राजापत्यान्नस्य प्राणस्य, न प्रजोक्तस्य अनन्तरनिर्दिष्टस्य, आपः शरीरं कार्यं करणाधारः; पूर्ववत् ज्योतीरूपमसौ चन्द्रः; तत्र यावानेव प्राणः यावत्परिमाणः अध्यात्मादिभेदेषु, तावद् व्याप्तिमत्य आपः तावत्परिमाणाः; तावानसौ चन्द्रः अबाधेयः तास्वप्स्वनुप्रविष्टः करणभूतः अध्यात्ममधिभूतं च तावद्व्याप्तिमानेव। तान्येतानि पित्रा पाङ्क्तेन कर्मणा सृष्टानि त्रीण्यन्नानि वाङ्मनः प्राणाख्यानि; अध्यात्ममधिभूतं च जगत्समस्तम् एतैर्व्याप्तम्; नैतेभ्योऽन्यदतिरिक्तं किञ्चिदस्ति कार्यात्मकं करणात्मकं वा। समस्तानि त्वेतानि प्रजापतिः ते एते वाङ्मनःप्राणाः सर्वे एव समाः तुल्याः व्याप्तिमन्तः यावत्प्राणिगोचरं साध्यात्माधिभूतं व्याप्य व्यवस्थिताः; अत एव अनन्ताः यावत्संसारभाविनो हि ते। न हि कार्यकरणप्रत्याख्यानेन संसारोऽवगम्यते; कार्यकरणात्मका हि त इत्युक्तम्। स यः कश्चित् ह एतान् प्रजापतेरात्मभूतान् अन्तवतः परिच्छिन्नान् अध्यात्मरूपेण वा अधिभूतरूपेण वा उपास्ते, च तदुपासनानुरूपमेव फलम् अन्तवन्तं लोकं जयति, परिच्छिन्न एव जायते, नैतेषामात्मभूतो भवतीत्यर्थः। अथ पुनः यः ह एतान् अनन्तान् सर्वात्मकान् सर्वप्राण्यात्मभूतान् अपरिच्छिन्नान् उपास्ते, सोऽनन्तम् एव लोकं जयति
🔗  पिता पाङ्क्तेन कर्मणा सप्तान्नानि सृष्ट्वा त्रीण्यन्नान्यात्मार्थमकरोदित्युक्तम्; तान्येतानि पाङ्क्तकर्मफलभूतानि व्याख्यातानि; तत्र कथं पुनः पाङ्क्तस्य कर्मणः फलमेतानीति उच्यते – यस्मात्तेष्वपि त्रिष्वन्नेषु पाङ्क्तता अवगम्यते, वित्तकर्मणोरपि तत्र सम्भवात्; तत्र पृथिव्यग्नी माता, दिवादित्यौ पिता, योऽयमनयोरन्तरा प्राणः स प्रजेति व्याख्यातम्। तत्र वित्तकर्मणी सम्भावयितव्ये इत्यारम्भः –
स एष संवत्सरः – योऽयं त्र्यन्नात्मा प्रजापतिः प्रकृतः, सः एषः संवत्सरात्मना विशेषतो निर्दिश्यते। षोडशकलः षोडश कला अवयवा अस्य सोऽयं षोडशकलः संवत्सरः संवत्सरात्मा कालरूपः। तस्य च कालात्मनः प्रजापतेः रात्रयः एव अहोरात्राणि – तिथय इत्यर्थः – पञ्चदशा कलाःध्रुवैव नित्यैव व्यवस्थिता अस्य प्रजापतेः षोडशी षोडशानां पूरणी कलारात्रिभिः एव तिथिभिः कलोक्ताभिः आपूर्यते च अपक्षीयते च प्रतिपदाद्याभिर्हि चन्द्रमाः प्रजापतिः शुक्लपक्ष आपूर्यते कलाभिरुपचीयमानाभिर्वर्धते यावत्सम्पूर्णमण्डलः पौर्णमास्याम्; ताभिरेवापचीयमानाभिः कलाभिरपक्षीयते कृष्णपक्षे यावद्ध्रुवैका कला व्यवस्थिता अमावास्यायाम्। प्रजापतिः कालात्मा अमावास्याम् अमावास्यायाम् रात्रिं रात्रौ या व्यवस्थिता ध्रुवा कलोक्ता एतया षोडश्या कलया सर्वमिदं प्राणभृत् प्राणिजातम् अनुप्रविश्य – यदपः पिबति यच्चौषधीरश्नाति तत्सर्वमेव ओषध्यात्मना सर्वं व्याप्य – अमावास्यां रात्रिमवस्थाय ततोऽपरेद्युः प्रातर्जायते द्वितीयया कलया संयुक्तः। एवं पाङ्क्तात्मकोऽसौ प्रजापतिः – दिवादित्यौ मनः पिता, पृथिव्यग्नी वाक् जाया माता, तयोश्च प्राणः प्रजा, चान्द्रमस्यस्तिथयः कला वित्तम् – उपचयापचयधर्मित्वात् वित्तवत्, तासां च कलानां कालावयवानां जगत्परिणामहेतुत्वं कर्म; एवमेष कृत्स्नः प्रजापतिः – जाया मे स्यात्, अथ प्रजायेय, अथ वित्तं मे स्यात्, अथ कर्म कुर्वीय – इत्येषणानुरूप एव पाङ्क्तस्य कर्मणः फलभूतः संवृत्तः; कारणानुविधायि हि कार्यमिति लोकेऽपि स्थितिः। यस्मादेष चन्द्र एतां रात्रिं सर्वप्राणिजातमनुप्रविष्टो ध्रुवया कलया वर्तते, तस्माद् हेतोः एताम् अमावास्यां रात्रिं प्राणभृतः प्राणिनः प्राणं न विच्छिन्द्यात् – प्राणिनं न प्रमापयेदित्येतत् – अपि कृकलासस्य – कृकलासो हि पापात्मा स्वभावेनैव हिंस्यते प्राणिभिः दृष्टोऽप्यमङ्गल इति कृत्वा। ननु प्रतिषिद्धैव प्राणिहिंसा ‘अहिंसन् सर्वभूतान्यन्यत्र तीर्थेभ्यः’ इति; बाढं प्रतिषिद्धा, तथापि न अमावास्याया अन्यत्र प्रतिप्रसवार्थं वचनं हिंसायाः कृकलासविषये वा, किं तर्हि एतस्याः सोम-देवतायाः अपचित्यै पूजार्थम्॥
🔗  यो वै परोक्षाभिहितः संवत्सरः प्रजापतिः षोडशकलः, नैव अत्यन्तं परोक्षो मन्तव्यः, यस्मादयमेव स प्रत्यक्ष उपलभ्यते; कोऽसावयम्? यो यथोक्तं त्र्यन्नात्मकं प्रजापतिमात्मभूतं वेत्ति स एवंवित्पुरुषः; केन सामान्येन प्रजापतिरिति तदुच्यते – तस्य एवंविदः पुरुषस्य गवादि-वित्तमेव पञ्चदश कलाः, उपचयापचयधर्मित्वात् – वित्तसाध्यं च कर्म; तस्य कृत्स्नतायै – आत्मैव पिण्ड एव अस्य विदुषः षोडशी कला ध्रुवस्थानीया; चन्द्रवत् वित्तेनैव आपूर्यते च अपक्षीयते च; तदेतत् लोके प्रसिद्धम्; तदेतत् नभ्यम् नाभ्यै हितं नभ्यम् नाभिं वा अर्हतीति – किं तत्? यदयं योऽयम् आत्मा पिण्डः; प्रधिः वित्तं परिवारस्थानीयं बाह्यम् – चक्रस्येवारनेम्यादि। तस्मात् यद्यपि सर्वज्यानिं सर्वस्वापहरणं जीयते हीयते ग्लानिं प्राप्नोति, आत्मना चक्रनाभिस्थानीयेन चेत् यदि जीवति, प्रधिना बाह्येन परिवारेण अयम् अगात् क्षीणोऽयम् – यथा चक्रमरनेमिविमुक्तम् – एवम् आहुः; जीवंश्चेदरनेमिस्थानीयेन वित्तेन पुनरुपचीयत इत्यभिप्रायः॥
🔗  एवं पाङ्क्तेन दैववित्तविद्यासंयुक्तेन कर्मणा त्र्यन्नात्मकः प्रजापतिर्भवतीति व्याख्यातम्; अनन्तरं च जायादिवित्तं परिवारस्थानीयमित्युक्तम्। तत्र पुत्रकर्मापरविद्यानां लोकप्राप्तिसाधनत्वमात्रं सामान्येनावगतम्; न पुत्रादीनां लोकप्राप्तिफलं प्रति विशेषसम्बन्धनियमः। सोऽयं पुत्रादीनां साधनानां साध्यविशेषसम्बन्धो वक्तव्य इत्युत्तरकण्डिका प्रणीयते –
अथ इति वाक्योपन्यासार्थः। त्रयःवाव इत्यवधारणार्थः – त्रय एव शास्त्रोक्तसाधनार्हा लोकाः, न न्यूना नाधिका वा; के त इत्युच्यते – मनुष्यलोकः पितृलोको देवलोक इति। तेषां सोऽयं मनुष्यलोकः पुत्रेणैव साधनेन जय्यः जेतव्यः साध्यः – यथा च पुत्रेण जेतव्यस्तथोत्तरत्र वक्ष्यामः – नान्येन कर्मणा, विद्यया वेति वाक्यशेषः। कर्मणा अग्निहोत्रादिलक्षणेन केवलेन पितृलोको जेतव्यः, न पुत्रेण नापि विद्यया। विद्यया देवलोकः, न पुत्रेण नापि कर्मणा। देवलोको वै लोकानां त्रयाणां श्रेष्ठः प्रशस्यतमः; तस्मात् तत्साधनत्वात् विद्यां प्रशंसन्ति
🔗  एवं साध्यलोकत्रयफलभेदेन विनियुक्तानि पुत्रकर्मविद्याख्यानि त्रीणि साधनानि; जाया तु पुत्रकर्मार्थत्वान्न पृथक्साधनमिति पृथक् नाभिहिता; वित्तं च कर्मसाधनत्वान्न पृथक्साधनम्; विद्याकर्मणोर्लोकजयहेतुत्वं स्वात्मप्रतिलाभेनैव भवतीति प्रसिद्धम्; पुत्रस्य तु अक्रियात्मकत्वात् केन प्रकारेण लोकजयहेतुत्वमिति न ज्ञायते; अतः तद्वक्तव्यमिति अथ अनन्तरमारभ्यते – सम्प्रत्तिः सम्प्रदानम्; सम्प्रत्तिरिति वक्ष्यमाणस्य कर्मणो नामधेयम्; पुत्रे हि स्वात्मव्यापारसम्प्रदानं करोति अनेन प्रकारेण पिता, तेन सम्प्रत्तिसञ्ज्ञकमिदं कर्म। तत् कस्मिन्काले कर्तव्यमित्याह – स पिता यदा यस्मिन्काले प्रैष्यन् मरिष्यन् मरिष्यामीत्यरिष्टादिदर्शनेन मन्यते, अथ तदा पुत्रम् आहूय आहत्वं ब्रह्म त्वं यज्ञस्त्वं लोकः इति। एवमुक्तः पुत्रः प्रत्याह; स तु पूर्वमेवानुशिष्टो जानाति मयैतत्कर्तव्यमिति; तेनाह – अहं ब्रह्म अहं यज्ञः अहं लोकः इति एतद्वाक्यत्रयम्। एतस्यार्थस्तिरोहित इति मन्वाना श्रुतिर्व्याख्यानाय प्रवर्तते – यद्वै किञ्च यत्किञ्च अवशिष्टम् अनूक्तम् अधीतमनधीतं च, तस्य सर्वस्य एव ब्रह्म इत्येतस्मिन्पदे एकता एकत्वम्; योऽध्ययनव्यापारो मम कर्तव्य आसीदेतावन्तं कालं वेदविषयः, सः इत ऊर्ध्वं त्वं ब्रह्म त्वत्कर्तृकोऽस्त्वित्यर्थः। तथा ये वै के च यज्ञाः अनुष्ठेयाः सन्तो मया अनुष्ठिताश्चाननुष्ठिताश्च, तेषां सर्वेषां यज्ञ इति एतस्मिन्पद एकता एकत्वम्; मत्कर्तृका यज्ञा य आसन्; ते इत ऊर्ध्वं त्वं यज्ञः त्वत्कर्तृका भवन्त्वित्यर्थः। ये वै के च लोकाः मया जेतव्याः सन्तो जिता अजिताश्च, तेषां सर्वेषां लोकः इति एतस्मिन्पद एकता; इत ऊर्ध्वं त्वं लोकः त्वया जेतव्यास्ते। इत ऊर्ध्वं मया अध्ययनयज्ञलोकजयकर्तव्यक्रतुस्त्वयि समर्पितः, अहं तु मुक्तोऽस्मि कर्तव्यताबन्धनविषयात्क्रतोः। स च सर्वं तथैव प्रतिपन्नवान्पुत्रः अनुशिष्टत्वात्। तत्र इमं पितुरभिप्रायं मन्वाना आचष्टे श्रुतिः – एतावत् एतत्परिमाणं वै इदं सर्वम् – यद्गृहिणा कर्तव्यम्, यदुत वेदा अध्येतव्याः, यज्ञा यष्टव्याः, लोकाश्च जेतव्याः; एतन्मा सर्वं सन्नयम् – सर्वं हि इमं भारं मदधीनं मत्तोऽपच्छिद्य आत्मनि निधाय इतः अस्माल्लोकात् मा माम् अभुनजत् पालयिष्यति इति – लृडर्थे लङ्, छन्दसि कालनियमाभावात्। यस्मादेवं सम्पन्नः पुत्रः पितरम् अस्माल्लोकात्कर्तव्यताबन्धनतो मोचयिष्यति, तस्मात्पुत्रमनुशिष्टं लोक्यं लोकहितं पितुः आहुर्ब्राह्मणाः। अतः एव ह्येनं पुत्रम् अनुशासति लोक्योऽयं नः स्यादिति – पितरः। पिता यदा यस्मिन्काले एवंवित् पुत्रसमर्पितकर्तव्यताक्रतुः अस्माल्लोकात् प्रैति म्रियते, अथ तदा एभिरेव प्रकृतैर्वाङ्मनः-प्राणैः पुत्रमाविशति पुत्रं व्याप्नोति। अध्यात्मपरिच्छेदहेत्वपगमात् पितुर्वाङ्मनःप्राणाः स्वेन आधिदैविकेन रूपेण पृथिव्यग्न्याद्यात्मना भिन्नघटप्रदीपप्रकाशवत् सर्वम् आविशन्ति; तैः प्राणैः सह पितापि आविशति वाङ्मनःप्राणात्मभावित्वात्पितुः; अहमस्म्यनन्ता वाङ्मनःप्राणा अध्यात्मादिभेदविस्ताराः – इत्येवम्भावितो हि पिता; तस्मात् प्राणानुवृत्तित्वं पितुर्भवतीति युक्तमुक्तम् – एभिरेव प्राणैः सह पुत्रमाविशतीति; सर्वेषां ह्यसावात्मा भवति पुत्रस्य च। एतदुक्तं भवति – यस्य पितुरेवमनुशिष्टः पुत्रो भवति सोऽस्मिन्नेव लोके वर्तते पुत्ररूपेण नैव मृतो मन्तव्य इत्यर्थः; तथा च श्रुत्यन्तरे – ‘सोऽस्यायमितर आत्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयते’ (AitU.2.1.4) इति। अथेदानीं पुत्रनिर्वचनमाह – पुत्रः यदि कदाचित् अनेन पित्रा अक्ष्णया कोणच्छिद्रतोऽन्तरा अकृतं भवति कर्तव्यम्, तस्मात् कर्तव्यतारूपात्पित्रा अकृतात् सर्वस्मात् लोकप्राप्तिप्रतिबन्धरूपात् पुत्रो मुञ्चति मोचयति तत्सर्वं स्वयमनुतिष्ठन्पूरयित्वा; तस्मात् पूरणेन त्रायते स पितरं यस्मात्, तस्मात्, पुत्रो नाम; इदं तत्पुत्रस्य पुत्रत्वम् – यत्पितुश्छिद्रं पूरयित्वा त्रायते। पिता एवंविधेन पुत्रेण मृतोऽपि सन् अमृतः अस्मिन् एव लोके प्रतितिष्ठति एवमसौ पिता पुत्रेणेमं मनुष्यलोकं जयति; न तथा विद्याकर्मभ्यां देवलोकपितृलोकौ, स्वरूपलाभसत्तामात्रेण; न हि विद्याकर्मणी स्वरूपलाभव्यतिरेकेण पुत्रवत् व्यापारान्तरापेक्षया लोकजयहेतुत्वं प्रतिपद्येते। अथ कृतसम्प्रत्तिकं पितरम् एनम् एते वागादयः प्राणाः दैवाः हैरण्यगर्भाः अमृताः अमरणधर्माण आविशन्ति
🔗  कथमिति वक्ष्यति – पृथिव्यै चैनमित्यादि। एवं पुत्रकर्मापरविद्यानां मनुष्यलोकपितृलोकदेवलोकसाध्यार्थता प्रदर्शिता श्रुत्या स्वयमेव; अत्र केचिद्वावदूकाः श्रुत्युक्तविशेषार्थानभिज्ञाः सन्तः पुत्रादिसाधनानां मोक्षार्थतां वदन्ति; तेषां मुखापिधानं श्रुत्येदं कृतम् – जाया मे स्यादित्यादि पाङ्क्तं काम्यं कर्मेत्युपक्रमेण, पुत्रादीनां च साध्यविशेषविनियोगोपसंहारेण च; तस्मात् ऋणश्रुतिरविद्वद्विषया न परमात्मविद्विषयेति सिद्धम्; वक्ष्यति च – ‘किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः’ (BrhU.4.4.22) इति –
केचित्तु पितृलोकदेवलोकजयोऽपि पितृलोकदेवलोकाभ्यां व्यावृत्तिरेव; तस्मात् पुत्रकर्मापरविद्याभिः समुच्चित्यानुष्ठिताभिः त्रिभ्य एतेभ्यो लोकेभ्यो व्यावृत्तः परमात्मविज्ञानेन मोक्षमधिगच्छतीति परम्परया मोक्षार्थान्येव पुत्रादिसाधनानि इच्छन्ति; तेषामपि मुखापिधानाय इयमेव श्रुतिरुत्तरा कृतसम्प्रत्तिकस्य पुत्रिणः कर्मिणः त्र्यन्नात्मविद्याविदः फलप्रदर्शनाय प्रवृत्ता। न च इदमेव फलं मोक्षफलमिति शक्यं वक्तुम्, त्र्यन्नसम्बन्धात् मेधातपःकार्यत्वाच्चान्नानाम् पुनः पुनर्जनयत इति दर्शनात्, ‘यद्धैतन्न कुर्यात्क्षीयेत ह’ (BrhU.1.5.2) इति च क्षयश्रवणात्, शरीरम् ज्योतीरूपमिति च कार्यकरणत्वोपपत्तेः, ‘त्रयं वा इदम्’ (BrhU.1.6.1) इति च नामरूपकर्मात्मकत्वेनोपसंहारात्। न च इदमेव साधनत्रयं संहतं सत् कस्यचिन्मोक्षार्थं कस्यचित् त्र्यन्नात्मफलमित्यस्मादेव वाक्यादवगन्तुं शक्यम्, पुत्रादिसाधनानां त्र्यन्नात्मफलदर्शनेनैव उपक्षीणत्वाद्वाक्यस्य।
पृथिव्यै पृथिव्याः च एनम् अग्नेश्च दैवी अधिदैवात्मिका वाक् एनं कृतसम्प्रत्तिकम् आविशति; सर्वेषां हि वाच उपादानभूता दैवी वाक् पृथिव्यग्निलक्षणा; सा ह्याध्यात्मिकासङ्गादिदोषैर्निरुद्धा। विदुषस्तद्दोषापगमे आवरणभङ्ग इवोदकं प्रदीपप्रकाशवच्च व्याप्नोति; तदेतदुच्यते – पृथिव्या अग्नेश्चैनं दैवी वागाविशतीति। सादैवी वाक् अनृतादिदोषरहिता शुद्धा, यया वाचा दैव्या यद्यदेव आत्मने परस्मै वा वदति तत्तत् भवति – अमोघा अप्रतिबद्धा अस्य वाग्भवतीत्यर्थः॥
🔗  तथा दिवश्चैनमादित्याच्च दैवं मन आविशतितत्दैवं मनः, स्वभावनिर्मलत्वात्; येन मनसा असौ आनन्द्येव भवति सुख्येव भवति; अथो अपि न शोचति, शोकादिनिमित्तासंयोगात्॥
🔗  तथा अद्भ्यश्चैनं चन्द्रमसश्च दैवः प्राण आविशतिस वै दैवः प्राणः किंलक्षण इत्युच्यते – यः सञ्चरन् प्राणिभेदेषु असञ्चरन् समष्टिव्यष्टिरूपेण – अथवा सञ्चरन् जङ्गमेषु असञ्चरन् स्थावरेषु – न व्यथते न दुःखनिमित्तेन भयेन युज्यते; अथो अपि न रिष्यति न विनश्यति न हिंसामापद्यते। सः – यो यथोक्तमेवं वेत्ति त्र्यन्नात्मदर्शनं सः – सर्वेषां भूतानाम् आत्मा भवति, सर्वेषां भूतानां प्राणो भवति, सर्वेषां भूतानां मनो भवति, सर्वेषां भूतानां वाग्भवति – इत्येवं सर्वभूतात्मतया सर्वज्ञो भवतीत्यर्थः – सर्वकृच्च। यथैषा पूर्वसिद्धा हिरण्यगर्भ-देवता एवम् एव नास्य सर्वज्ञत्वे सर्वकृत्त्वे वा क्वचित्प्रतिघातः; स इति दार्ष्टान्तिकनिर्देशः। किञ्च यथैतां हिरण्यगर्भदेवताम् इज्यादिभिः सर्वाणि भूतान्यवन्ति पालयन्ति पूजयन्ति, एवं ह एवंविदं सर्वाणि भूतान्यवन्ति – इज्यादिलक्षणां पूजां सततं प्रयुञ्जत इत्यर्थः।
अथेदमाशङ्क्यते – सर्वप्राणिनामात्मा भवतीत्युक्तम्; तस्य च सर्वप्राणिकार्यकरणात्मत्वे सर्वप्राणिसुखदुःखैः सम्बध्येतेति – तन्न। अपरिच्छिन्नबुद्धित्वात् – परिच्छिन्नात्मबुद्धीनां ह्याक्रोशादौ दुःखसम्बन्धो दृष्टः-, अनेनाहमाक्रुष्ट इति; अस्य तु सर्वात्मनो य आक्रुश्यते यश्चाक्रोशति तयोरात्मत्वबुद्धिविशेषाभावात् न तन्निमित्तं दुःखमुपपद्यते। मरणदुःखवच्च निमित्ताभावात् – यथा हि कस्मिंश्चिन्मृते कस्यचिद्दुःखमुत्पद्यते – ममासौ पुत्रो भ्राता चेति – पुत्रादिनिमित्तम्, तन्निमित्ताभावे तन्मरणदर्शिनोऽपि नैव दुःखमुपजायते, तथा ईश्वरस्यापि अपरिच्छिन्नात्मनो ममतवतादिदुःखनिमित्तमिथ्याज्ञानादिदोषाभावात् नैव दुःखमुपजायते। तदेतदुच्यते – यदु किञ्च यत्किञ्च इमाः प्रजाः शोचन्ति अमा एव सहैव प्रजाभिः तत् शोादिनिमित्तं दुःखं संयुक्तं भवति आसां प्रजानाम् परिच्छिन्नबुद्धिजनितत्वात्; सर्वात्मनस्तु केन सह किं संयुक्तं भवेत् वियुक्तं वा। अमुं तु प्राजापत्ये पदे वर्तमानं पुण्यमेव शुभमेव – फलमभिप्रेतं पुण्यमिति – निरतिशयं हि तेन पुण्यं कृतम्, तेन तत्फलमेव गच्छति; न ह वै देवान्पापं गच्छति, पापफलस्यावसराभावात् – पापफलं दुःखं न गच्छतीत्यर्थः॥
🔗  ‘त एते सर्व एव समाः सर्वेऽनन्ताः’ (BrhU.1.5.13) इत्यविशेषेण वाङ्मनःप्राणानामुपासनमुक्तम्, न अन्यतमगतो विशेष उक्तः; किमेवमेव प्रतिपत्तव्यम्, किं वा विचार्यमाणे कश्चिद्विशेषो व्रतमुपासनं प्रति प्रतिपत्तुं शक्यत इत्युच्यते –
अथातः अनन्तरं व्रतमीमांसा उपासनकर्मविचारणेत्यर्थः; एषां प्राणानां कस्य कर्म व्रतत्वेन धारयितव्यमिति मीमांसा प्रवर्तते। तत्र प्रजापतिः ह – ह-शब्दः किलार्थे – प्रजापतिः किल प्रजाः सृष्ट्वा कर्माणि करणानि वागादीनि – कर्मार्थानि हि तानीति कर्माणीत्युच्यन्ते – ससृजे सृष्टवान् वागादीनि करणानीत्यर्थः। तानि पुनः सृष्टानि अन्योन्येन इतरेतरम् अस्पर्धन्त स्पर्धां सङ्घर्षं चक्रुः; कथम्? वदिष्याम्येव स्वव्यापाराद्वदनादनुपरतैव अहं स्याम् इति वाग् व्रतं दध्रे धृतवती – यद्यन्योऽपि मत्समोऽस्ति स्वव्यापारादनुपरन्तुं शक्तः, सोऽपि दर्शयत्वात्मनो वीर्यमिति; तथा द्रक्ष्याम्यहमिति चक्षुः; श्रोष्याम्यहमिति श्रोत्रम्; एवमन्यानि कर्माणि करणानि यथाकर्म – यत् यत् यस्य कर्म यथाकर्म – तानि करणानि मृत्युः मारकः श्रमः श्रमरूपी भूत्वा उपयेमे सञ्जग्राह। कथम्? तानि करणानि स्वव्यापारे प्रवृत्तानि आप्नोत् श्रमरूपेण आत्मानं दर्शितवान्; आप्त्वा च तानि अवारुन्ध अवरोधं कृतवान्मृत्युः – स्वकर्मभ्यः प्रच्यावितवानित्यर्थः। तस्माद् अद्यत्वेऽपि वदने स्वकर्मणि प्रवृत्ता वाक् श्राम्यत्येव श्रमरूपिणा मृत्युना संयुक्ता स्वकर्मतः प्रच्यवते; तथा श्राम्यति चक्षुः; श्राम्यति श्रोत्रम्अथेममेव मुख्यं प्राणं न आप्नोत् न प्राप्तवान्मृत्युः श्रमरूपी – योऽयं मध्यमः प्राणः तम्। तेनाद्यत्वेऽप्यश्रान्त एव स्वकर्मणि प्रवर्तते। तानि इतराणि करणानि तं ज्ञातुं दध्रिरे धृतवन्ति मनः; अयं वै नः अस्माकं मध्ये श्रेष्ठः प्रशस्यतमः अभ्यधिकः, यस्मात् यः सञ्चरंश्चासञ्चरंश्च न व्यथते, अथो न रिष्यतिहन्त इदानीम् अस्यैव प्राणस्य सर्वे वयं रूपमसाम प्राणमात्मत्वेन प्रतिपद्येमहि – एवं विनिश्चित्य ते एतस्यैव सर्वे रूपमभवन् प्राणरूपमेव आत्मत्वेन प्रतिपन्नाः प्राणव्रतमेव दध्रिरे – अस्मद्व्रतानि न मृत्योर्वारणाय पर्याप्तानीति। यस्मात्प्राणेन रूपेण रूपवन्तीतराणि करणानि चलनात्मना स्वेन च प्रकाशात्मना; न हि प्राणादन्यत्र चलनात्मकत्वोपपत्तिः; चलनव्यापारपूर्वकाण्येव हि सर्वदा स्वव्यापारेषु लक्ष्यन्ते – तस्मात् एते वागादयः एतेन प्राणाभिधानेन आख्यायन्ते अभिधीयन्ते – प्राणाः इति एवम्। य एवं प्राणात्मतां सर्वकरणानां वेत्ति प्राणशब्दाभिधेयत्वं च, तेन ह वाव तेनैव विदुषा तत्कुलमाचक्षते लौकिकाः, यस्मिन्कुले स विद्वान् जातो भवति – तत्कुलं विद्वन्नाम्नैव प्रथितं भवति – अमुष्येदं कुलमिति – यथा तापत्य इति। य एवं यथोक्तं वेद वागादीनां प्राणरूपतां प्राणाख्यत्वं च, तस्यैतत्फलम्। किञ्च यः कश्चित् उ ह एवंविदा प्राणात्मदर्शिना स्पर्धते तत्प्रतिपक्षी सन् सः अस्मिन्नेव शरीरे अनुशुष्यति शोषमुपगच्छति; अनुशुष्य हैव शोषं गत्वैव अन्ततः अन्ते म्रियते, न सहसा अनुपद्रुतो म्रियते। इति एवमुक्तम् अध्यात्मं प्राणात्मदर्शनमिति उक्तोपसंहारः अधिदैवतप्रदर्शनार्थः॥
🔗  अथ अनन्तरम् अधिदैवतं देवताविषयं दर्शनमुच्यते। कस्य देवताविशेषस्य व्रतधारणं श्रेय इति मीमांस्यते। अध्यात्मवत्सर्वम्। ज्वलिष्याम्येवाहमित्यग्निर्दध्रे; तप्स्याम्यहमित्यादित्यः; भास्याम्यहमिति चन्द्रमाः; एवमन्या देवता यथादैवतम्सः अध्यात्मं वागादीनाम् एषां प्राणानां मध्ये मध्यमः प्राणो मृत्युना अनाप्तः स्वकर्मणो न प्रच्यावितः स्वेन प्राणव्रतेनाभग्नव्रतो यथा, एवम् एतासाम् अग्न्यादीनां देवतानां वायुः अपि। म्लोचन्ति अस्तं यन्ति स्वकर्मभ्य उपरमन्ते – यथा अध्यात्मं वागादयोऽन्या देवताः अग्न्याद्याः; न वायुः अस्तं याति – यथा मध्यमः प्राणः; अतः सैषा अनस्तमिता देवता यद्वायुः योऽयं वायुः। एवमध्यात्ममधिदैवं च मीमांसित्वा निर्धारितम् – प्राणवाय्वात्मनोर्व्रतमभग्नमिति॥
🔗  अथ एतस्यैवार्थस्य प्रकाशकः एष श्लोको मन्त्रो भवतियतश्च यस्माद्वायोः उदेति उद्गच्छति सूर्यः, अध्यात्मं च चक्षुरात्मना प्राणात्अस्तं च यत्र वायौ प्राणेगच्छति अपरसन्ध्यासमये स्वापसमये च पुरुषस्य – तं देवाः तं धर्मं देवाः चक्रिरे धृतवन्तः वागादयोऽग्न्यादयश्च प्राणव्रतं वायुव्रतं च पुरा विचार्य। स एव अद्य इदानीं श्वोऽपि भविष्यत्यपि काले अनुवर्त्यते अनुवर्तिष्यते च देवैरित्यभिप्रायः। तत्रेमं मन्त्रं सङ्क्षेपतो व्याचष्टे ब्राह्मणम् – प्राणाद्वा एष सूर्य उदेति प्राणेऽस्तमेति। तं देवाश्चक्रिरे धर्मं स एवाद्य स उ श्व इत्यस्य कोऽर्थ इत्युच्यते – यत् वै एते व्रतम् अमुर्हि अमुष्मिन्काले वागादयोऽग्न्यादयश्च प्राणव्रतं वायुव्रतं च अध्रियन्त, तदेव अद्यापि कुर्वन्ति अनुवर्तन्ते अनुवर्तिष्यन्ते च; व्रतं तयोरभग्नमेव। यत्तु वागादिव्रतम् अग्न्यादिव्रतं च तद्भग्नमेव, तेषाम् अस्तमयकाले स्वापकाले च वायौ प्राणे च निम्लुक्तिदर्शनात्। अथैतदन्यत्रोक्तम् – ‘यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति प्राणं मनः प्राणं चक्षुः प्राणं श्रोत्रं यदा प्रबुध्यते प्राणादेवाधि पुनर्जायन्त इत्यध्यात्ममथाधिदैवतं यदा वा अग्निरनुगच्छति वायुं तर्ह्यनूद्वाति तस्मादेनमुदवासीदित्याहुर्वायुं ह्यनूद्वाति यदादित्योऽस्तमेति वायुं तर्हि प्रविशति वायुं चन्द्रमा वायौ दिशः प्रतिष्ठिता वायोरेवाधि पुनर्जायन्ते’ (शत. ब्रा. १०-३-३-६, ८) इति। यस्मात् एतदेव व्रतं वागादिषु अग्न्यादिषु च अनुगतं यदेतत् वायोश्च प्राणस्य च परिस्पन्दात्मकत्वं सर्वैः देवैरनुवर्त्यमानं व्रतम् – तस्मात् अन्योऽपि एकमेव व्रतं चरेत्; किं तत्? प्राण्यात् प्राणनव्यापारं कुर्यात् अपान्यात् अपानन-व्यापारं ; न हि प्राणापानव्यापारस्य प्राणनापाननलक्षणस्योपरमोऽस्ति; तस्मात्तदेव एकं व्रतं चरेत् हित्वेन्द्रियान्तरव्यापारम् – नेत् मा मां पाप्मा मृत्युः श्रमरूपी आप्नुवत् आप्नुयात् – नेच्छब्दः परिभये – यद्यहमस्माद्व्रतात्प्रच्युतः स्याम्, ग्रस्त एवाहं मृत्युनेत्येवं त्रस्तो धारयेत्प्राणव्रतमित्यभिप्रायः। यदि कदाचित् उ चरेत् प्रारभेत प्राणव्रतम्, समापिपयिषेत् समापयितुमिच्छेत्; यदि हि अस्माद्व्रतादुपरमेत् प्राणः परिभूतः स्यात् देवाश्च; तस्मात्समापयेदेव। तेन उ तेन अनेन व्रतेन प्राणात्मप्रतिपत्त्या सर्वभूतेषु – वागादयः अग्न्यादयश्च मदात्मका एव, अहं प्राण आत्मा सर्वपरिस्पन्दकृत् एवं तेनानेन व्रतधारणेन एतस्याः एव प्राण-देवतायाः सायुज्यं सयुग्भावम् एकात्मत्वं सलोकतां समानलोकतां वा एकस्थानत्वम् – विज्ञानमान्द्यापेक्षमेतत् – जयति प्राप्नोतीति॥

Go to Top ('Home' key on many Windows browsers)

BrhU.1.06

🔗  यदेतदविद्याविषयत्वेन प्रस्तुतं साध्यसाधनलक्षणं व्याकृतं जगत् प्राणात्मप्राप्त्यन्तोत्कर्षवदपि फलम्, या चैतस्य व्याकरणात्प्रागवस्था अव्याकृतशब्दवाच्या – वृक्षबीजवत् सर्वमेतत् त्रयम्; किं तत्त्रयमित्युच्यते – नाम रूपं कर्म चेति अनात्मैव – न आत्मा यत्साक्षादपरोक्षाद्ब्रह्म; तस्मादस्माद्विरज्येतेत्येवमर्थः त्रयं वा इत्याद्यारम्भः। न ह्यस्मात् अनात्मनः अव्यावृत्तचित्तस्य आत्मानमेव लोकम् अहं ब्रह्मास्मीत्युपासितुं बुद्धिः प्रवर्तते, बाह्यप्रत्यगात्मप्रवृत्त्योर्विरोधात्। तथा च काठके – ‘पराञ्चि खानि व्यतृणत्स्वयम्भूस्तस्मात्पराङ्पश्यति नान्तरात्मन्। कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्’ (क . २-१-१) इत्यादि।
कथं पुनः अस्य व्याकृताव्याकृतस्य क्रियाकारकफलात्मनः संसारस्य नामरूपकर्मात्मकतैव, न पुनरात्मत्वम् – इत्येतत्सम्भावयितुं शक्यत इति। अत्रोच्यते – तेषां नाम्नां यथोपन्यस्तानाम् – वाग् इति शब्दसामान्यमुच्यते, ‘यः कश्च शब्दो वागेव सा’ (BrhU.1.5.3) इत्युक्तत्वात् वागित्येतस्य शब्दस्य यो अर्थः शब्दसामान्यमात्रम् एतत् एतेषां नामविशेषाणाम् उक्थं कारणम् उपादानम्, सैन्धवलवणकणानामिव सैन्धवाचलः; तदाह – अतो हि अस्मान्नामसामान्यात् सर्वाणि नामानि यज्ञदत्तो देवदत्त इत्येवमादिप्रविभगानि उत्तिष्ठन्ति उत्पद्यन्ते प्रविभज्यन्ते, लवणाचलादिव लवणकणाः; कार्यं च कारणेनाव्यतिरिक्तम्। तथा विशेषाणां च सामान्येऽन्तर्भावात् – कथं सामान्यविशेषभाव इति – एतत् शब्दसामान्यम् एषां नामविशेषाणाम् साम, समत्वात्साम, सामान्यमित्यर्थः; एतत् हि यस्मात् सर्वैर्नामभिः आत्मविशेषैः समम्। किञ्च आत्मलाभाविशेषाच्च नामविशेषाणाम् – यस्य च यस्मादात्मलाभो भवति, स तेनाप्रविभक्तो दृष्टः, यथा घटादीनां मृदा; कथं नामविशेषाणामात्मलाभो वाच इत्युच्यते – यत एतदेषां वाक्शब्दवाच्यं वस्तु ब्रह्म आत्मा, ततो ह्यात्मलाभो नाम्नाम्, शब्दव्यतिरिक्तस्वरूपानुपपत्तेः; तत्प्रतिपादयति – एतत् शब्दसामान्यं हि यस्मात् शब्दविशेषान् सर्वाणि नामानि बिभर्ति धारयति स्वरूपप्रदानेन। एवं कार्यकारणत्वोपपत्तेः सामान्यविशेषोपपत्तेः आत्मप्रदानोपपत्तेश्च नामविशेषाणां शब्दमात्रता सिद्धा। एवमुत्तरयोरपि सर्वं योज्यं यथोक्तम्॥
🔗  अथ इदानीं रूपाणां सितासितप्रभृतीनाम् – चक्षुरिति चक्षुर्विषयसामान्यं चक्षुःशब्दाभिधेयं रूपसामान्यं प्रकाश्यमात्रमभिधीयते। अतो हि सर्वाणि रूपाण्युत्तिष्ठन्ति, एतदेषां साम, एतद्धि सर्वै रूपैः समम्, एतदेषां ब्रह्म, एतद्धि सर्वाणि रूपाणि बिभर्ति
🔗  अथ इदानीं सर्व-कर्म-विशेषाणां मननदर्शनात्मकानां चलनात्मकानां च क्रियासामान्यमात्रेऽन्तर्भाव उच्यते; कथम्? सर्वेषां कर्मविशेषाणाम्, आत्मा शरीरम् सामान्यम् आत्मा – आत्मनः कर्म आत्मेत्युच्यते; आत्मना हि शरीरेण कर्म करोति – इत्युक्तम्; शरीरे च सर्वं कर्माभिव्यज्यते; अतः तात्स्थ्यात् तच्छब्दं कर्म – कर्मसामान्यमात्रं सर्वेषामुक्थम् इत्यादि पूर्ववत्। तदेतद् यथोक्तं नाम रूपं कर्म त्रयम् इतरेतराश्रयम् इतरेतराभिव्यक्तिकारणम् इतरेतरप्रलयम् संहतम् – त्रिदण्डविष्टम्भवत् – सत् एकम्। केनात्मनैकत्वमित्युच्यते – अयमात्मा अयं पिण्डः कार्यकरणात्मसङ्घातः तथा अन्नत्रये व्याख्यातः – ‘एतन्मयो वा अयमात्मा’ (BrhU.1.5.3) इत्यादिना; एतावद्धीदं सर्वं व्याकृतमव्याकृतं च यदुत नाम रूपं कर्मेति; आत्मा उ एकोऽयं कार्यकरणसङ्घातः सन् अध्यात्माधिभूताधिदैवभावेन व्यवस्थितम् एतदेव त्रयं नाम रूपं कर्मेति। तदेतत् वक्ष्यमाणम्; अमृतं सत्त्येन च्छन्नम् इत्येतस्य वाक्स्यार्थमाह – प्राणो वा अमृतम् करणात्मकः अन्तरुपष्टम्भकः आत्मभूतः अमृतः अविनाशी; नामरूपे सत्त्यं कार्यात्मके शरीरावस्थे; क्रियात्मकस्तु प्राणः तयोरुपष्टम्भकः बाह्याभ्यां शरीरात्मकाभ्यामुपजनापायधर्मिभ्यां मर्त्याभ्यां छन्नः अप्रकाशीकृतः। एतदेव संसारसतत्त्वमविद्याविषयं प्रदर्शितम्; अत ऊर्ध्वं विद्याविषय आत्मा अधिगन्तव्य इति चतुर्थ आरभ्यते॥

Go to Top ('Home' key on many Windows browsers)

br.2.01 br.2.02 br.2.03 br.2.04 br.2.05 br.2.06

🔗 आत्मेत्येवोपासीत; तदन्वेषणे च सर्वमन्विष्टं स्यात्; तदेव च आत्मतत्त्वं सर्वस्मात् प्रेयस्त्वादन्वेष्टव्यम् – आत्मानमेवावेदहं ब्रह्मास्मीति – आत्मतत्त्वमेकं विद्याविषयः। यस्तु भेददृष्टिविषयः सः – अन्योऽसावन्योऽहमस्मीति न स वेदेति – अविद्याविषयः। ‘एकधैवानुद्रष्टव्यम्’ (BrhU.4.4.20) ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ (BrhU.4.4.19) इत्येवमादिभिः प्रविभक्तौ विद्याविद्याविषयौ सर्वोपनिषत्सु। तत्र च अविद्याविषयः सर्व एव साध्यसाधनादिभेदविशेषविनियोगेन व्याख्यातः आ तृतीयाध्यायपरिसमाप्तेः। स च व्याख्यातोऽविद्याविषयः सर्व एव द्विप्रकारः – अन्तःप्राण उपष्टम्भको गृहस्येव स्तम्भादिलक्षणः प्रकाशकोऽमृतः, बाह्यश्च कार्यलक्षणोऽप्रकाशक उपजनापायधर्मकः तृणकुशमृत्तिकासमो गृहस्येव सत्यशब्दवाच्यो मर्त्यः; तेन अमृतशब्दवाच्यः प्राणः छन्न इति च उपसंहृतम्। स एव च प्राणो बाह्याधारभेदेष्वनेकधा विस्तृतः। प्राण एको वेद इत्युच्यते। तस्यैव बाह्यः पिण्ड एकः साधारणः – विराट् वैश्वानरः आत्मा पुरुषविधः प्रजापतिः कः हिरण्यगर्भः – इत्यादिभिः पिण्डप्रधानैः शब्दैराख्यायते सूर्यादिप्रविभक्तकरणः। एकं च अनेकं च ब्रह्म एतावदेव, नातः परमस्ति प्रत्येकं च शरीरभेदेषु परिसमाप्तं चेतनावत् कर्तृ भोक्तृ च – इति अविद्याविषयमेव आत्मत्वेनोपगतो गार्ग्यो ब्राह्मणो वक्ता उपस्थाप्यते। तद्विपरीतात्मदृक् अजातशत्रुः श्रोता। एवं हि यतः पूर्वपक्षसिद्धान्ताख्यायिकारूपेण समर्प्यमाणोऽर्थः श्रोतुश्चित्तस्य वशमेति; विपर्यये हि तर्कशास्त्रवत्केवलार्थानुगमवाक्यैः समर्प्यमाणो दुर्विज्ञेयः स्यात् अत्यन्तसूक्ष्मत्वाद्वस्तुनः; तथा च काठके – ‘श्रवणायापि बहुभिर्यो न लभ्यः’ (KathU.1.2.7) इत्यादिवाक्यैः सुसंस्कृतदेवबुद्धिगम्यत्वं सामान्यमात्रबुद्ध्यगम्यत्वं च सप्रपञ्चं दर्शितम्; ‘आचार्यवान्पुरुषो वेद’ (ChanU.6.14.2) ‘आचार्याद्धैव विद्या’ (ChanU.4.4.3) इति च च्छान्दोग्ये; ‘उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः’ (BhG.4.37) इति च गीतासु; इहापि च शाकल्ययाज्ञवल्क्यसंवादेनातिगह्वरत्वं महता संरम्भेण ब्रह्मणो वक्ष्यति – तस्मात् श्लिष्ट एव आख्यायिकारूपेण पूर्वपक्षसिद्धान्तरूपमापाद्य वस्तुसमर्पणार्थ आरम्भः। आचारविध्युपदेशार्थश्च – एवमाचारवतोर्वक्तृश्रोत्रोराख्यायिकानुगतोऽर्थोऽवगम्यते। केवलतर्कबुद्धिनिषेधार्था च आख्यायिका – ‘नैषा तर्केण मतिरापनेया’ (KathU.1.2.9) ‘न तर्कशास्त्रदग्धाय’ (मो. ध. २४७-१८) इति श्रुतिस्मृतिभ्याम्। श्रद्धा च ब्रह्मविज्ञाने परमं साधनमित्याख्यायिकार्थः; तथा हि गार्ग्याजातशत्र्वोरतीव श्रद्धालुता दृश्यत आख्यायिकायाम्; ‘श्रद्धावांल्लभते ज्ञानम्’ (BhG.4.30) इति च स्मृतिः॥

Go to Top ('Home' key on many Windows browsers)

BrhU.2.01

🔗  तत्र पूर्वपक्षवादी अविद्याविषयब्रह्मवित् दृप्तबालाकिः दृप्तः गर्वितः असम्यग्ब्रह्मवित्त्वादेव – बलाकाया अपत्यं बालाकिः, दृप्तश्चासौ बालाकिश्चेति दृप्तबालाकिः, -शब्द ऐतिह्यार्थ आख्यायिकायाम्, अनूचानः अनुवचनसमर्थः वक्ता वाग्मी, गार्ग्यो गोत्रतः, आस बभूव क्वचित्कालविशेषे। स होवाच अजातशत्रुम् अजातशत्रुनामानम् काश्यं काशिराजम् अभिगम्य – ब्रह्म ते ब्रवाणीति ब्रह्म ते तुभ्यं ब्रवाणि कथयानि। एवमुक्तोऽजातशत्रुरुवाचसहस्रं गवां दद्मः एतस्यां वाचि – यां मां प्रत्यवोचः ब्रह्म ते ब्रवाणीति, तावन्मात्रमेव गोसहस्रप्रदाने निमित्तमित्यभिप्रायः। साक्षाद्ब्रह्मकथनमेव निमित्तं कस्मान्नापेक्ष्यते सहस्रदाने, ब्रह्म ते ब्रवाणीति इयमेव तु वाक् निमित्तमपेक्ष्यत इत्युच्यते – यतः श्रुतिरेव राज्ञोऽभिप्रायमाह – जनको दाता जनकः श्रोतेति च एतस्मिन्वाक्यद्वये एतद्वयमभ्यस्यते जनको जनक इति; वै-शब्दः प्रसिद्धावद्योतनार्थः; जनको दित्सुर्जनकः शुश्रूषुरिति ब्रह्म शुश्रूषवो विवक्षवः प्रतिजिघृक्षवश्च जनाः धावन्ति अभिगच्छन्ति; तस्मात् तत्सर्वं मय्यपि सम्भावितवानसि इति
🔗  एवं राजानं शुश्रूषुम् अभिमुखीभूतं स होवाच गार्ग्यःय एव असौ आदित्ये चक्षुषि च एकः अभिमानी चक्षुर्द्वारेण इह हृदि प्रविष्टः अहं भोक्ता कर्ता चेत्यवस्थितः – एतमेव अहं ब्रह्म पश्यामि अस्मिन्कार्यकरणसङ्घाते उपासे; तस्मात् तमहं पुरुषं ब्रह्म तुभ्यं ब्रवीमि उपास्स्वेति। एवमुक्तः प्रति-उवाच अजातशत्रुः मा मा इति हस्तेन विनिवारयन् – एतस्मिन् ब्रह्मणि विज्ञेये मा संवदिष्ठाः; मा मेत्याबाधनार्थं द्विर्वचनम् – एवं समाने विज्ञानविषय आवयोः अस्मानविज्ञानवत इव दर्शयता बाधिताः स्यामः, अतो मा संवदिष्ठाः मा संवादं कार्षीः अस्मिन्ब्रह्मणि; अन्यच्चेज्जानासि, तद्ब्रह्म वक्तुमर्हसि, न तु यन्मया ज्ञायत एव। अथ चेन्मन्यसे – जानीषे त्वं ब्रह्ममात्रम्, न तु तद्विशेषेणोपासनफलानीति – तन्न मन्तव्यम्; यतः सर्वमेतत् अहं जाने, यद्ब्रवीषि; कथम्? अतिष्ठाः अतीत्य भूतानि तिष्ठतीत्यतिष्ठाः, सर्वेषांभूतानां मूर्धा शिरः राजेति वै – राजा दीप्तिगुणोपेतत्वात् एतैर्विशेषणैर्विशिष्टमेतद्ब्रह्म अस्मिन्कार्यकरणसङ्घाते कर्तृ भोक्तृ चेति अहमेतमुपासे इति; फलमप्येवं विशिष्टोपासकस्य – स य एतमेवमुपास्ते अतिष्ठाः सर्वेषां भूतानां मूर्धा राजा भवति; यथागुणोपासनमेव हि फलम्; ‘तं यथा यथोपासते तदेव भवति’ (शत. ब्रा. १०-५-२-२०) इति श्रुतेः॥
🔗  संवादेन आदित्यब्रह्मणि प्रत्याख्यातेऽजातशत्रुणा चन्द्रमसि ब्रह्मान्तरं प्रतिपेदे गार्ग्यः। य एवासौ चन्द्रे मनसि च एकः पुरुषो भोक्ता कर्ता चेति पूर्ववद्विशेषणम्। बृहत् महान् पाण्डरं शुक्लं वासो यस्य सोऽयं पाण्डरवासाः, अप्शरीरत्वात् चन्द्राभिमानिनः प्राणस्य, सोमो राजा चन्द्रः, यश्चान्नभूतोऽभिषूयते लतात्मको यज्ञे, तमेकीकृत्य एतम् एव अहं ब्रह्मोपासे; यथोक्तगुणं य उपास्ते तस्य अहरहः सुतः सोमोऽभिषुतो भवति यज्ञे, प्रसुतः प्रकृष्टं सुतरां सुतो भवति विकारे – उभयविधयज्ञानुष्ठानसामर्थ्यं भवतीत्यर्थः; अन्नंअस्य न क्षीयते अन्नात्मकोपासकस्य॥
🔗  तथा विद्युति त्वचि हृदये च एका देवता; तेजस्वीति विशेषणम्; तस्यास्तत्फलम् – तेजस्वी ह भवति तेजस्विनी हास्य प्रजा भवति – विद्युतां बहुत्वस्याङ्गीकरणात् आत्मनि प्रजायां च फलबाहुल्यम्॥
🔗  तथा आकाशे हृद्याकाशे हृदये च एका देवता; पूर्णम् अप्रवर्ति चेति विशेषणद्वयम्; पूर्णत्वविशेषणफलमिदम् – पूर्यते प्रजया पशुभिः; अप्रवर्तिविशेषणफलम् – नास्यास्माल्लोकात्प्रजोद्वर्तते इति, प्रजा सन्तानाविच्छित्तिः॥
🔗  तथा वायौ प्राणे हृदि च एका देवता; तस्या विशेषणम् – इन्द्रः परमेश्वरः, वैकुण्ठः अप्रसह्यः, न परैर्जितपूर्वा अपराजिता सेना – मरुतां गणत्वप्रसिद्धेः; उपासनफलमपि – जिष्णुर्ह जयनशीलः अपराजिष्णुः न च परैर्जितस्वभावः भवति, अन्यतस्त्यजायी अन्यतस्त्यानां सपत्नानां जयनशीलो भवति॥
🔗  अग्नौ वाचि हृदि च एका देवता; तस्या विशेषणम् – विषासहिः मर्षयिता परेषाम् अग्निबाहुल्यात् फलबाहुल्यं पूर्ववत्॥
🔗  अप्सु रेतसि हृदि च एका देवता; तस्या विशेषणम् – प्रतिरूपः अनुरूपः श्रुतिस्मृत्यप्रतिकूल इत्यर्थः; फलम् – प्रतिरूपं श्रुतिस्मृतिशासनानुरूपम् एव एनम् उपगच्छति प्राप्नोति न विपरीतम्, अन्यच्च – अस्मात् तथाविध एवोपजायते॥
🔗  आदर्शे प्रसादस्वभावे चान्यत्र खड्गादौ, हार्दे च सत्त्वशुद्धिस्वाभाव्ये च एका देवता; तस्या विशेषणम् – रोचिष्णुः दीप्तिस्वभावः; फलं च तदेव, रोचनाधारबाहुल्यात्फलबाहुल्यम्॥
🔗  यन्तं गच्छन्तं य एवायं शब्दः पश्चात् पृष्ठतः अनूदेति, अध्यात्मं च जीवनहेतुः प्राणः – तमेकीकृत्याह; असुः प्राणो जीवनहेतुरिति गुणस्तस्य; फलम् – सर्वमायुरस्मिंल्लोक एति इति – यथोपात्तं कर्मणा आयुः कर्म-फल-परिच्छिन्न-कालात् पुरा पूर्वं रोगादिभिः पीड्यमानमपि एनं प्राणो न जहाति
🔗  दिक्षु कर्णयोः हृदि चैका देवता अश्विनौ देवाववियुक्तस्वभावौ; गुणस्तस्य द्वितीयवत्त्वम् अनपगत्वम् अवियुक्तता चान्योन्यं दिशामश्विनोश्च एवं धर्मित्वात्; तदेव च फलमुपासकस्य – गणाविच्छेदः द्वितीयवत्त्वं च॥
🔗  छायायां बाह्ये तमसि अध्यात्मं च आवरणात्मकेऽज्ञाने हृदि च एका देवता, तस्या विशेषणम् – मृत्युः; फलं सर्वं पूर्ववत्, मृत्योरनागमनेन रोगादिपीडाभावो विशेषः॥
🔗  आत्मनि प्रजापतौ बुद्धौ च हृदि च एका देवता; तस्याः आत्मन्वी आत्मवानिति विशेषणम्; फलम् – आत्मन्वी ह भवति आत्मवान्भवति, आत्मन्विनी हास्य प्रजा भवति, बुद्धिबहुलत्वात् प्रजायां सम्पादनमिति विशेषः। स्वयं परिज्ञातत्वेन एवं क्रमेण प्रत्याख्यातेषु ब्रह्मसु स गार्ग्यः क्षीणब्रह्मविज्ञानः अप्रतिभासमानोत्तरः तूष्णीमवाक्शिरा आस॥
🔗  तं तथाभूतम् आलक्ष्य गार्ग्यं स होवाच अजातशत्रुःएतावन्नू३ इति – किमेतावद्ब्रह्म निर्ज्ञातम्, आहोस्विदधिकमप्यस्तीति; इतर आह – एतावद्धीतिनैतावता विदितेन ब्रह्म विदितं भवतीति आह अजातशत्रुः – किमर्थं गर्वितोऽसि ब्रह्म ते ब्रवाणीति। किमेतावद्विदितं विदितमेव न भवतीत्युच्यते? न, फलवद्विज्ञानश्रवणात्; न चार्थवादत्वमेव वाक्यानामवगन्तुं शक्यम्; अपूर्वविधानपराणि हि वाक्यानि प्रत्युपासनोपदेशं लक्ष्यन्ते – ‘अतिष्ठाः सर्वेषां भूतानाम्’ (BrhU.2.1.2) इत्यादीनि; तदनुरूपाणि च फलानि सर्वत्र श्रूयन्ते विभक्तानि; अर्थवादत्वे एतदसमञ्जसम्। कथं तर्हि नैतावता विदितं भवतीति? नैष दोषः, अधिकृतापेक्षत्वात् – ब्रह्मोपदेशार्थं हि शुश्रूषवे अजातशत्रवे अमुख्यब्रह्मवित् गार्ग्यः प्रवृत्तः; स युक्त एव मुख्यब्रह्मविदा अजातशत्रुणा अमुख्यब्रह्मविद्गार्ग्यो वक्तुम् – यन्मुख्यं ब्रह्म वक्तुं प्रवृत्तः त्वं तत् न जानीष इति; यद्यमुख्यब्रह्मविज्ञानमपि प्रत्याख्यायेत, तदा एतावतेति न ब्रूयात्, न किञ्चिज्ज्ञातं त्वयेत्येवं ब्रूयात्; तस्माद्भवन्ति एतावन्ति अविद्याविषये ब्रह्माणि; एतावद्विज्ञानद्वारत्वाच्च परब्रह्मविज्ञानस्य युक्तमेव वक्तुम् – नैतावता विदितं भवतीति; अविद्याविषये विज्ञेयत्वं नामरूपकर्मात्मकत्वं च एषां तृतीयेऽध्याये प्रदर्शितम्; तस्मात् ‘नैतावता विदितं भवति’ इति ब्रुवता अधिकं ब्रह्म ज्ञातव्यमस्तीति दर्शितं भवति। तच्च अनुपसन्नाय न वक्तव्यमित्याचारविधिज्ञो गार्ग्यः स्वयमेव आह – उप त्वा यानीति – उपगच्छानीति – त्वाम्, यथान्यः शिष्यो गुरुम्॥
🔗  स होवाच अजातशत्रुःप्रतिलोमं विपरीतं चैतत्; किं तत्? यद्ब्राह्मणः उत्तमवर्णः आचार्यत्वेऽधिकृतः सन् क्षत्रियम् अनाचार्यस्वभावम् उपेयात् उपगच्छेत् शिष्यवृत्त्या – ब्रह्म मे वक्ष्यतीति; एतदाचारविधिशास्त्रेषु निषिद्धम्; तस्मात् तिष्ठ त्वम् आचार्य एव सन्; विज्ञपयिष्याम्येव त्वाम् अहम् – यस्मिन्विदिते ब्रह्म विदितं भवति, यत्तन्मुख्यं ब्रह्म वेद्यम्। तं गार्ग्यं सलज्जमालक्ष्य विस्रम्भजननाय पाणौ हस्ते आदाय गृहीत्वा उत्तस्थौ उत्थितवान्। तौ ह गार्ग्याजातशत्रू पुरुषं सुप्तं राजगृहप्रदेशे क्वचित् आजग्मतुः आगतौ। तं च पुरुषं सुप्तं प्राप्य एतैर्नामभिःबृहन् पाण्डरवासः सोम राजन् इति एतैः – आमन्त्रयाञ्चक्रे। एवमामन्त्र्यमाणोऽपि सुप्तः नोत्तस्थौतम् अप्रतिबुद्ध्यमानं पाणिना आपेषम् आपिष्य आपिष्य बोधयाञ्चकार प्रतिबोधितवान्। तेन स ह उत्तस्थौ। तस्माद्यो गार्ग्येणाभिप्रेतः, नासावस्मिञ्छरीरे कर्ता भोक्ता ब्रह्मेति।
कथं पुनरिदमवगम्यते – सुप्तपुरुषगमनतत्सम्बोधनानुत्थानैः गार्ग्याभिमतस्य ब्रह्मणोऽब्रह्मत्वं ज्ञापितमिति? जागरितकाले यो गार्ग्याभिप्रेतः पुरुषः कर्ता भोक्ता ब्रह्म सन्निहितः करणेषु यथा, तथा अजातशत्र्वभिप्रेतोऽपि तत्स्वामी भृत्येष्विव राजा सन्निहित एव; किं तु भृत्यस्वामिनोः गार्ग्याजातशत्र्वभिप्रेतयोः यद्विवेकावधारणकारणम्, तत् सङ्कीर्णत्वादनवधारितविशेषम्; यत् द्रष्टृत्वमेव भोक्तुः न दृश्यत्वम्, यच्च अभोक्तुर्दृश्यत्वमेव न तु द्रष्टृत्वम्, तच्च उभयम् इह सङ्कीर्णत्वाद्विविच्य दर्शयितुमशक्यमिति सुप्तपुरुषगमनम्। ननु सुप्तेऽपि पुरुषे विशिष्टैर्नामभिरामन्त्रितो भोक्तैव प्रतिपत्स्यते, न अभोक्ता – इति नैव निर्णयः स्यादिति। न, निर्धारितविशेषत्वाद्गार्ग्याभिप्रेतस्य – यो हि सत्येन च्छन्नः प्राण आत्मा अमृतः वागादिषु अनस्तमितः निम्लोचत्सु, यस्य आपः शरीरं पाण्डरवासाः, यश्च असपत्नत्वात् बृहन्, यश्च सोमो राजा षोडशकलः, स स्वव्यापारारूढो यथानिर्ज्ञात एव अनस्तमितस्वभाव आस्ते; न च अन्यस्य कस्यचिद्व्यापारः तस्मिन्काले गार्ग्येणाभिप्रेयते तद्विरोधिनः; तस्मात् स्वनामभिरामन्त्रितेन प्रतिबोद्धव्यम्; न च प्रत्यबुध्यत; तस्मात् पारिशेष्यात् गार्ग्याभिप्रेतस्य अभोक्तृत्वं ब्रह्मणः। भोक्तृस्वभावश्चेत् भुञ्जीतैव स्वं विषयं प्राप्तम्; न हि दग्धृस्वभावः प्रकाशयितृस्वभावः सन् वह्निः तृणोलपादि दाह्यं स्वविषयं प्राप्तं न दहति, प्रकाश्यं वा न प्रकाशयति; न चेत् दहति प्रकाशयति वा प्राप्तं स्वं विषयम्, नासौ वह्निः दग्धा प्रकाशयिता वेति निश्चीयते; तथा असौ प्राप्तशब्दादिविषयोपलब्धृस्वभावश्चेत् गार्ग्याभिप्रेतः प्राणः, बृहन्पाण्डरवास इत्येवमादिशब्दं स्वं विषयमुपलभेत – यथा प्राप्तं तृणोलपादि वह्निः दहेत् प्रकाशयेच्च अव्यभिचारेण तद्वत्। तस्मात् प्राप्तानां शब्दादीनाम् अप्रतिबोधात् अभोक्तृस्वभाव इति निश्चीयते; न हि यस्य यः स्वभावो निश्चितः, स तं व्यभिचरति कदाचिदपि; अतः सिद्धं प्राणस्याभोक्तृत्वम्। सम्बोधनार्थनामविशेषेण सम्बन्धाग्रहणात् अप्रतिबोध इति चेत् – स्यादेतत् – यथा बहुष्वासीनेषु स्वनामविशेषेण सम्बन्धाग्रहणात् मामयं सम्बोधयतीति, शृण्वन्नपि सम्बोध्यमानः विशेषतो न प्रतिपद्यते; तथा इमानि बृहन्नित्येवमादीनि मम नामानीति अगृहीतसम्बन्धत्वात् प्राणो न गृह्णाति सम्बोधनार्थं शब्दम्, न त्वविज्ञातृत्वादेव – इति चेत् – न, देवताभ्युपगमे अग्रहणानुपपत्तेः; यस्य हि चन्द्राद्यभिमानिनी देवता अध्यात्मं प्राणो भोक्ता अभ्युपगम्यते, तस्य तया संव्यवहाराय विशेषनाम्ना सम्बन्धोऽवश्यं ग्रहीतव्यः; अन्यथा आह्वानादिविषये संव्यवहारोऽनुपपन्नः स्यात्। व्यतिरिक्तपक्षेऽपि अप्रतिपत्तेः अयुक्तमिति चेत् – यस्य च प्राणव्यतिरिक्तो भोक्ता, तस्यापि बृहन्नित्यादिनामभिः सम्बोधने बृहत्त्वादिनाम्नां तदा तद्विषयत्वात् प्रतिपत्तिर्युक्ता; न च कदाचिदपि बृहत्त्वादिशब्दैः सम्बोधितः प्रतिपद्यमानो दृश्यते; तस्मात् अकारणम् अभोक्तृत्वे सम्बोधनाप्रतिपत्तिरिति चेत् – न, तद्वतः तावन्मात्राभिमानानुपपत्तेः; यस्य प्राणव्यतिरिक्तो भोक्ता, सः प्राणादिकरणवान् प्राणी; तस्य न प्राणदेवतामात्रेऽभिमानः, यथा हस्ते; तस्मात् प्राणनामसम्बोधने कृत्स्नाभिमानिनो युक्तैव अप्रतिपत्तिः, न तु प्राणस्य असाधारणनामसंयोगे; देवतात्मत्वानभिमानाच्च आत्मनः। स्वनामप्रयोगेऽप्यप्रतिपत्तिदर्शनादयुक्तमिति चेत् – सुषुप्तस्य यल्लौकिकं देवदत्तादि नाम तेनापि सम्बोध्यमानः कदाचिन्न प्रतिपद्यते सुषुप्तः; तथा भोक्तापि सन् प्राणो न प्रतिपद्यत इति चेत् – न, आत्मप्राणयोः सुप्तासुप्तत्वविशेषोपपत्तेः; सुषुप्तत्वात् प्राणग्रस्ततया उपरतकरण आत्मा स्वं नाम प्रयुज्यमानमपि न प्रतिपद्यते; न तु तत् असुप्तस्य प्राणस्य भोक्तृत्वे उपरतकरणत्वं सम्बोधनाग्रहणं वा युक्तम्। अप्रसिद्धनामभिः सम्बोधनमयुक्तमिति चेत् – सन्ति हि प्राणविषयाणि प्रसिद्धानि प्राणादिनामानि; तान्यपोह्य अप्रसिद्धैर्बृहत्त्वादिनामभिः सम्बोधनमयुक्तम्, लौकिकन्यायापोहात्; तस्मात् भोक्तुरेव सतः प्राणस्याप्रतिपत्तिरिति चेत् – न देवताप्रत्याख्यानार्थत्वात्; केवलसम्बोधनमात्राप्रतिपत्त्यैव असुप्तस्य आध्यात्मिकस्य प्राणस्याभोक्तृत्वे सिद्धे, यत् चन्द्रदेवताविषयैर्नामभिः सम्बोधनम्, तत् चन्द्रदेवता प्राणः अस्मिञ्छरीरे भोक्तेति गार्ग्यस्य विशेषप्रतिपत्तिनिराकरणार्थम्; न हि तत् लौकिकनाम्ना सम्बोधने शक्यं कर्तुम्। प्राणप्रत्याख्यानेनैव प्राणग्रस्तत्वात्करणान्तराणां प्रवृत्त्यनुपपत्तेः भोक्तृत्वाशङ्कानुपपत्तिः। देवतान्तराभावाच्च; ननु अतिष्ठा इत्याद्यात्मन्वीत्यन्तेन ग्रन्थेन गुणवद्देवताभेदस्य दर्शितत्वादिति चेत्, न, तस्य प्राण एव एकत्वाभ्युपगमात् सर्वश्रुतिषु अरनाभिनिदर्शनेन, ‘सत्येन च्छन्नः’ ‘प्राणो वा अमृतम्’ (BrhU.1.6.3) इति च प्राणबाह्यस्य अन्यस्य अनभ्युपगमात् भोक्तृः। ‘एष उ ह्येव सर्वे देवाः, कतम एको देव इति, प्राणः’ (BrhU.3.9.9) इति च सर्वदेवानां प्राण एव एकत्वोपपादनाच्च। तथा करणभेदेष्वनाशङ्का, देहभेदेष्विव स्मृतिज्ञानेच्छादिप्रतिसन्धानानुपपत्तेः; न हि अन्यदृष्टम् अन्यः स्मरति जानाति इच्छति प्रतिसन्दधाति वा; तस्मात् न करणभेदविषया भोक्तृत्वाशङ्का विज्ञानमात्रविषया वा कदाचिदप्युपपद्यते। ननु सङ्घात एवास्तु भोक्ता, किं व्यतिरिक्तकल्पनयेति – न, आपेषणे विशेषदर्शनात्; यदि हि प्राणशरीरसङ्घातमात्रो भोक्ता स्यात् सङ्घातमात्राविशेषात् सदा आपिष्टस्य अनापिष्टस्य च प्रतिबोधे विशेषो न स्यात्; सङ्घातव्यतिरिक्ते तु पुनर्भोक्तरि सङ्घातसम्बन्धविशेषानेकत्वात् पेषणापेषणकृतवेदनायाः सुखदुःखमोहमध्यमाधामोत्तमकर्मफलभेदोपपत्तेश्च विशेषो युक्तः; न तु सङ्घातमात्रे सम्बन्धकर्मफलभेदानुपपत्तेः विशेषो युक्तः; तथा शब्दादिपटुमान्द्यादिकृतश्च। अस्ति चायं विशेषः – यस्मात् स्पर्शमात्रेण अप्रतिबुध्यमानं पुरुषं सुप्तं पाणिना आपेषम् आपिष्य आपिष्य बोधयाञ्चकार अजातशत्रुः। तस्मात् यः आपेषणेन प्रतिबुबुधे – ज्वलन्निव स्फुरन्निव कुतश्चिदागत इव पिण्डं च पूर्वविपरीतं बोधचेष्टाकारविशेषादिमत्त्वेन आपादयन्, सोऽन्योऽस्ति गार्ग्याभिमतब्रह्मभ्यो व्यतिरिक्त इति सिद्धम्। संहतत्वाच्च पारार्थ्योपपत्तिः प्राणस्य; गृहस्य स्तम्भादिवत् शरीरस्य अन्तरुपष्टम्भकः प्राणः शरीरादिभिः संहत इत्यवोचाम – अरनेमिवच्च, नाभिस्थानीय एतस्मिन्सर्वमिति च; तस्मात् गृहादिवत् स्वावयवसमुदायजातीयव्यतिरिक्तार्थं संहन्यत इत्येवम् अवगच्छाम। स्तम्भकुड्यतृणकाष्ठादिगृहावयवानां स्वात्मजन्मोपचयापचयविनाशनामाकृतिकार्यधर्मनिरपेक्षलब्धसत्तादि – तद्विषयद्रष्टृश्रोतृमन्तृविज्ञात्रर्थत्वं दृष्ट्वा, मन्यामहे, तत्सङ्घातस्य च – तथा प्राणाद्यवयवानां तत्सङ्घातस्य च स्वात्मजन्मोपचयापचयविनाशनामाकृतिकार्यधर्मनिरपेक्षलब्धसत्तादि – तद्विषयद्रष्टृश्रोतृमन्तृविज्ञात्रर्थत्वं भवितुमर्हतीति। देवताचेतनावत्त्वे समत्वाद्गुणभावानुपगम इति चेत् – प्राणस्य विशिष्टैर्नामभिरामन्त्रणदर्शनात् चेतनावत्त्वमभ्युपगतम्; चेतनावत्त्वे च पारार्थ्योपगमः समत्वादनुपपन्न इति चेत् – न निरुपाधिकस्य केवलस्य विजिज्ञापयिषितत्वात् क्रियाकारकफलात्मकता हि आत्मनो नामरूपोपाधिजनिता अविद्याध्यारोपिता; तन्निमित्तो लोकस्य क्रियाकारकफलाभिमानलक्षणः संसारः; स निरूपाधिकात्मस्वरूपविद्यया निवर्तयितव्य इति तत्स्वरूपविजिज्ञापयिषया उपनिषदारम्भः – ‘ब्रह्म ते ब्रवाणि’ (BrhU.2.1.1) ‘नैतावता विदितं भवति’ (BrhU.2.1.1) इति च उपक्रम्य ‘एतावदरे खल्वमृतत्वम्’ (BrhU.4.5.15) इति च उपसंहारात्; न च अतोऽन्यत् अन्तराले विवक्षितम् उक्तं वा अस्ति; तस्मादनवसरः समत्वाद्गुणभावानुपगम इति चोद्यस्य। विशेषवतो हि सोपाधिकस्य संव्यवहारार्थो गुणगुणिभावः, न विपरीतस्य; निरुपाख्यो हि विजिज्ञापयिषितः सर्वस्यामुपनिषदि, ‘स एष नेति नेति’ (BrhU.4.5.15) इत्युपसंहारात्। तस्मात् आदित्यादिब्रह्मभ्य एतेभ्योऽविज्ञानमयेभ्यो विलक्षणः अन्योऽस्ति विज्ञानमय इत्येतत्सिद्धम्॥
🔗  एवम् अजातशत्रुः व्यतिरिक्तात्मास्तित्वं प्रतिपाद्य गार्ग्यम् उवाचयत्र यस्मिन्काले एषः विज्ञानमयः पुरुषः एतत् स्वपनं सुप्तः अभूत् प्राक् पाणिपेषप्रतिबोधात्; विज्ञानम् विज्ञायतेऽनेनेत्यन्तःकरणं बुद्धिः उच्यते, तन्मयः तत्प्रायः विज्ञानमयः; किं पुनस्तत्प्रायत्वम्? तस्मिन्नुपलभ्यत्वम्, तेन चोपलभ्यत्वम्, उपलब्धृत्वं च; कथं पुनर्मयटोऽनेकार्थत्वे प्रायार्थतैव अवगम्यते? ‘स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः’ (BrhU.4.4.5) इत्येवमादौ प्रायार्थ एव प्रयोगदर्शनात् परविज्ञानविकारत्वस्याप्रसिद्धत्वात् ‘य एष विज्ञानमयः’ इति च प्रसिद्धवदनुवादात् अवयवोपमार्थयोश्च अत्रासम्भवात् पारिशेष्यात् प्रायार्थतैव; तस्मात् सङ्कल्पविकल्पाद्यात्मकमन्तःकरणं तन्मय इत्येतत्; पुरुषः, पुरि शयनात्। क्वैषः तदा अभूत् इति प्रश्नः स्वभावविजिज्ञापयिषया – प्राक् प्रतिबोधात् क्रियाकारकफलविपरीतस्वभाव आत्मेति कार्याभावेन दिदर्शयिषितम्; न हि प्राक्प्रतिबोधात्कर्मादिकार्यं सुखादि किञ्चन गृह्यते; तस्मात् अकर्मप्रयुक्तत्वात् तथास्वाभाव्यमेव आत्मनोऽवगम्यते – यस्मिन्स्वाभाव्येऽभूत्, यतश्च स्वाभाव्यात्प्रच्युतः संसारी स्वभावविलक्षण इति – एतद्विवक्षया पृच्छति गार्ग्यं प्रतिभानरहितं बुद्धिव्युत्पादनाय। क्वैष तदाभूत्, कुत एतदागात् – इत्येतदुभयं गार्ग्येणैव प्रष्टव्यमासीत्; तथापि गार्ग्येण न पृष्टमिति नोदास्तेऽजातशत्रुः; बोधयितव्य एवेति प्रवर्तते, ज्ञापयिष्याम्येवेति प्रतिज्ञातत्वात्। एवमसौ व्युत्पाद्यमानोऽपि गार्ग्यः – यत्रैष आत्माभूत् प्राक्प्रतिबोधात्, यतश्चैतदागमनमागात् – तद् उभयं व्युत्पेदे वक्तुं वा प्रष्टुं वा – गार्ग्यो मेने न ज्ञातवान्॥
🔗  स होवाच अजातशत्रुः विवक्षितार्थसमर्पणाय। यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषः – क्वैष तदाभूत्कुत एतदागादिति यदपृच्छाम, तत् शृणु उच्यमानम् – यत्रैष एतत्सुप्तोऽभूत्, तत् तदा तस्मिन्काले एषां वागादीनां प्राणानाम्, विज्ञानेन अन्तःकरणगताभिव्यक्तिविशेषविज्ञानेन उपाधिस्वभावजनितेन, आदाय विज्ञानम् वागादीनां स्वस्वविषयगतसामर्थ्यं गृहीत्वा, य एषः अन्तः मध्ये हृदये हृदयस्य आकाशः – य आकाशशब्देन पर एव स्व आत्मोच्यते – तस्मिन् स्वे आत्मन्याकाशे शेते स्वाभाविकेऽसांसारिके; न केवल आकाश एव, श्रुत्यन्तरसामर्थ्यात् – ‘सता सोम्य तदा सम्पन्नो भवति’ (ChanU.6.8.1) इति; लिङ्गोपाधिसम्बन्धकृतं विशेषात्मस्वरूपमुत्सृज्य अविशेषे स्वाभाविके आत्मन्येव केवले वर्तत इत्यभिप्रायः। यदा शरीरेन्द्रियाध्यक्षतामुत्सृजति तदा असौ स्वात्मनि वर्तत इति कथमवगम्यते? नामप्रसिद्ध्या; कासौ नामप्रसिद्धिरित्याह – तानि वागादेर्विज्ञानानि यदा यस्मिन्काले गृह्णाति आदत्ते, अथ तदा ह एतत्पुरुषः स्वपिति नाम एतन्नाम अस्य पुरुषस्य तदा प्रसिद्धं भवति; गौणमेवास्य नाम भवति; स्वमेव आत्मानम् अपीति अपिगच्छतीति स्वपितीत्युच्यते। सत्यं स्वपितीतिनामप्रसिद्ध्या आत्मनः संसारधर्मविलक्षणं रूपमवगम्यते, न त्वत्र युक्तिरस्तीत्याशङ्क्याह – तत् तत्र स्वापकाले गृहीत एव प्राणो भवति; प्राण इति घ्राणेन्द्रियम्, वागादिप्रकरणात्; वागादिसम्बन्धे हि सति तदुपाधित्वादस्य संसारधर्मित्वं लक्ष्यते; वागादयश्च उपसंहृता एव तदा तेन; कथम्? गृहीता वाक्, गृहीतं चक्षुः, गृहीतं श्रोत्रम्, गृहीतं मनः; तस्मात् उपसंहृतेषु वागादिषु क्रियाकारकफलात्मताभावात् स्वात्मस्थ एव आत्मा भवतीत्यवगम्यते॥
🔗  ननु दर्शनलक्षणायां स्वप्नावस्थायां कार्यकरणवियोगेऽपि संसारधर्मित्वमस्य दृश्यते – यथा च जागरिते सुखी दुःखी बन्धुवियुक्तः शोचति मुह्यते च; तस्मात् शोकमोहधर्मवानेवायम्; नास्य शोकमोहादयः सुखदुःखादयश्च कार्यकरणसंयोगजनितभ्रान्त्या अध्यारोपिता इति। न, मृषात्वात् – सः प्रकृत आत्मा यत्र यस्मिन्काले दर्शनलक्षणया स्वप्न्यया स्वप्नवृत्त्या चरति वर्तते, तदा ते ह अस्य लोकाः कर्मफलानि – के ते? तत् तत्र उत अपि महाराज इव भवति; सोऽयं महाराजत्वम् इव अस्य लोकः, न महाराजत्वमेव जागरित इव; तथा महाब्राह्मण इव, उत अपि, उच्चावचम् – उच्चं च देवत्वादि, अवचं च तिर्यक्त्वादि, उच्चमिव अवचम् इव च – निगच्छति मृषैव महाराजत्वादयोऽस्य लोकाः, इव-शब्दप्रयोगात्, व्यभिचारदर्शनाच्च; तस्मात् न बन्धुवियोगादिजनितशोकमोहादिभिः स्वप्ने सम्बध्यत एव।
ननु च यथा जागरिते जाग्रत्कालाव्यभिचारिणो लोकाः, एवं स्वप्नेऽपि तेऽस्य महाराजत्वादयो लोकाः स्वप्नकालभाविनः स्वप्नकालाव्यभिचारिण आत्मभूता एव, न तु अविद्याध्यारोपिता इति – ननु च जाग्रत्कार्यकरणात्मत्वं देवतात्मत्वं च अविद्याध्यारोपितं न परमार्थत इति व्यतिरिक्तविज्ञानमयात्मप्रदर्शनेन प्रदर्शितम्; तत् कथं दृष्टान्तत्वेन स्वप्नलोकस्य मृत इव उज्जीविष्यन् प्रादुर्भविष्यति – सत्यम्, विज्ञानमये व्यतिरिक्ते कार्यकरणदेवतात्मत्वप्रदर्शनम् अविद्याध्यारोपितम् – शुक्तिकायामिव रजतत्वदर्शनम् – इत्येतत्सिध्यति व्यतिरिक्तात्मास्तित्वप्रदर्शनन्यायेनैव, न तु तद्विशुद्धिपरतयैव न्याय उक्तः इति – असन्नपि दृष्टान्तः जाग्रत्कार्यकरणदेवतात्मत्वदर्शनलक्षणः पुनरुद्भाव्यते; सर्वो हि न्यायः किञ्चिद्विशेषमपेक्षमाणः अपुनरुक्ती भवति। न तावत्स्वप्नेऽनुभूतमहाराजत्वादयो लोका आत्मभूताः, आत्मनोऽन्यस्य जाग्रत्प्रतिबिम्बभूतस्य लोकस्य दर्शनात्; महाराज एव तावत् व्यस्तसुप्तासु प्रकृतिषु पर्यङ्के शयानः स्वप्नान्पश्यन् उपसंहृतकरणः पुनरुपगतप्रकृतिं महाराजमिव आत्मानं जागरित इव पश्यति यात्रागतं भुञ्जानमिव च भोगान्; न च तस्य महाराजस्य पर्यङ्के शयानात् द्वितीय अन्यः प्रकृत्युपेतो विषये पर्यटन्नहनि लोके प्रसिद्धोऽस्ति, यमसौ सुप्तः पश्यति; न च उपसंहृतकरणस्य रूपादिमतो दर्शनमुपपद्यते; न च देहे देहान्तरस्य तत्तुल्यस्य सम्भवोऽस्ति; देहस्थस्यैव हि स्वप्नदर्शनम्। ननु पर्यङ्के शयानः पथि प्रवृत्तमात्मानं पश्यति – न बहिः स्वप्नान्पश्यतीत्येतदाह – सः महाराजः, जानपदान् जनपदे भवान् राजोपकरणभूतान् भृत्यानन्यांश्च, गृहीत्वा उपादाय, स्वे आत्मीय एव जयादिनोपार्जिते जनपदे, यथाकामं यो यः कामोऽस्य यथाकामम् इच्छातो यथा परिवर्तेत इत्यर्थः; एवमेव एष विज्ञानमयः, एतद् इति क्रियाविशेषणम्, प्राणान् गृहीत्वा जागरितस्थानेभ्य उपसंहृत्य, स्वे शरीरे स्व एव देहे न बहिः, यथाकामं परिवर्तते – कामकर्मभ्यामुद्भासिताः पूर्वानुभूतवस्तुसदृशीर्वासना अनुभवतीत्यर्थः। तस्मात् स्वप्ने मृषाध्यारोपिता एव आत्मभूतत्वेन लोका अविद्यमाना एव सन्तः; तथा जागरितेऽपि – इति प्रत्येतव्यम्। तस्मात् विशुद्धः अक्रियाकारकफलात्मको विज्ञानमय इत्येतत्सिद्धम्। यस्मात् दृश्यन्ते द्रष्टुर्विषयभूताः क्रियाकारकफलात्मकाः कार्यकरणलक्षणा लोकाः, तथा स्वप्नेऽपि, तस्मात् अन्योऽसौ दृश्येभ्यः स्वप्नजागरितलोकेभ्यो द्रष्टा विज्ञानमयो विशुद्धः॥
🔗  दर्शनवृत्तौ स्वप्ने वासनाराशेर्दृश्यत्वादतद्धर्मतेति विशुद्धता अवगता आत्मनः; तत्र यथाकामं परिवर्तत इति कामवशात्परिवर्तनमुक्तम्; द्रष्टुर्दृश्यसम्बन्धश्च अस्य स्वाभाविक इत्यशुद्धता शङ्क्यते; अतस्तद्विशुद्ध्यर्थमाह –
अथ यदा सुषुप्तो भवति – यदा स्वप्न्यया चरति, तदाप्ययं विशुद्ध एव; अथ पुनः यदा हित्वा दर्शनवृत्तिं स्वप्नं यदा यस्मिन्काले सुषुप्तः सुष्ठु सुप्तः सम्प्रसादं स्वाभाव्यं गतः भवति – सलिलमिवान्यसम्बन्धकालुष्यं हित्वा स्वाभाव्येन प्रसीदति। कदा सुषुप्तो भवति? यदा यस्मिन्काले, न कस्यचन न किञ्चनेत्यर्थः, वेद विजानाति; कस्यचन वा शब्दादेः सम्बन्धिवस्त्वन्तरं किञ्चन न वेद – इत्यध्याहार्यम्; पूर्वं तु न्याय्यम्, सुप्ते तु विशेषविज्ञानाभावस्य विवक्षितत्वात्। एवं तावद्विशेषविज्ञानाभावे सुषुप्तो भवतीत्युक्तम्; केन पुनः क्रमेण सुषुप्तो भवतीत्युच्यते – हिता नाम हिता इत्येवन्नाम्न्यो नाड्यः सिराः देहस्यान्नरसविपरिणामभूताः, ताश्च, द्वासप्ततिः सहस्राणि – द्वे सहस्रे अधिके सप्ततिश्च सहस्राणि – ता द्वासप्ततिः सहस्राणि, हृदयात् – हृदयं नाम मांसपिण्डः – तस्मान्मांसपिण्डात्पुण्डरीकाकारात्, पुरीततं हृदयपरिवेष्टनमाचक्षते – तदुपलक्षितं शरीरमिह पुरीतच्छब्देनाभिप्रेतम् – पुरीततम् अभिप्रतिष्ठन्ते इति – शरीरं कृत्स्नं व्याप्नुवत्यः अश्वत्थपर्णराजय इव बहिर्मुख्यः प्रवृत्ता इत्यर्थः। तत्र बुद्धेरन्तःकरणस्य हृदयं स्थानम्; तत्रस्थबुद्धितन्त्राणि च इतराणि बाह्यानि करणानि; तेन बुद्धिः कर्मवशात् श्रोत्रादीनि ताभिर्नाडीभिः मत्स्यजालवत् कर्णशष्कुल्यादिस्थानेभ्यः प्रसारयति; प्रसार्य च अधितिष्ठति जागरितकाले; तां विज्ञानमयोऽभिव्यक्तस्वात्मचैतन्यावभासतया व्याप्नोति; सङ्कोचनकाले च तस्याः अनुसङ्कुचति; सोऽस्य विज्ञानमयस्य स्वापः; जाग्रद्विकासानुभवो भोगः; बुद्ध्युपाधिस्वभावानुविधायी हि सः, चन्द्रादिप्रतिबिम्ब इव जलाद्यनुविधायी। तस्मात् तस्या बुद्धेः जाग्रद्विषयायाः ताभिः नाडीभिः प्रत्यवसर्पणमनु प्रत्यवसृप्य पुरीतति शरीरे शेते तिष्ठति – तप्तमिव लोहपिण्डम् अविशेषेण संव्याप्य अग्निवत् शरीरं संव्याप्य वर्तत इत्यर्थः। स्वाभाविक एव स्वात्मनि वर्तमानोऽपि कर्मानुगतबुद्ध्यनुवृत्तित्वात् पुरीतति शेत इत्युच्यते। न हि सुषुप्तिकाले शरीरसम्बन्धोऽस्ति। ‘तीर्णो हि तदा सर्वाञ्छोकान्हृदयस्य’ (BrhU.4.3.22) इति हि वक्ष्यति। सर्वसंसारदुःखवियुक्तेयमवस्थेत्यत्र दृष्टान्तः – स यथा कुमारो वा अत्यन्तबालो वा, महाराजो वा अत्यन्तवश्यप्रकृतिः यथोक्तकृत्, महाब्राह्मणो वा अत्यन्तपरिपक्वविद्याविनयसम्पन्नः, अतिघ्नीम् – अतिशयेन दुःखं हन्तीत्यतिघ्नी आनन्दस्य अवस्था सुखावस्था ताम् प्राप्य गत्वा, शयीत अवतिष्ठेत। एषां च कुमारादीनां स्वभावस्थानां सुखं निरतिशयं प्रसिद्धं लोके; विक्रियमाणानां हि तेषां दुःखं न स्वभावतः; तेन तेषां स्वाभाविक्यवस्था दृष्टान्तत्वेनोपादीयते, प्रसिद्धत्वात्; न तेषां स्वाप एवाभिप्रेतः, स्वापस्य दार्ष्टान्तिकत्वेन विवक्षितत्वात् विशेषाभावाच्च; विशेषे हि सति दृष्टान्तदार्ष्टान्तिकभेदः स्यात्; तस्मान्न तेषां स्वापो दृष्टान्तः – एवमेव, यथा अयं दृष्टान्तः, एष विज्ञानमय एतत् शयनं शेते इति – एतच्छन्दः क्रियाविशेषणार्थः – एवमयं स्वाभाविके स्व आत्मनि सर्वसंसारधर्मातीतो वर्तते स्वापकाल इति।
क्वैष तदाभूदित्यस्य प्रश्नस्य प्रतिवचनमुक्तम्; अनेन च प्रश्ननिर्णयेन विज्ञानमयस्य स्वभावतो विशुद्धिः असंसारित्वं च उक्तम्; कुत एतदागादित्यस्य प्रश्नस्यापाकरणार्थः आरम्भः। ननु यस्मिन्ग्रामे नगरे वा यो भवति, सोऽन्यत्र गच्छन् तत एव ग्रामान्नगराद्वा गच्छति, नान्यतः; तथा सति क्वैष तदाभूदित्येतावानेवास्तु प्रश्नः; यत्राभूत् तत एव आगमनं प्रसिद्धं स्यात् नान्यत इति कुत एतदागादिति प्रश्नो निरर्थक एव – किं श्रुतिरुपालभ्यते भवता? न; किं तर्हि द्वितीयस्य प्रश्नस्य अर्थान्तरं श्रोतुमिच्छामि, अत आनर्थक्यं चोदयामि। एवं तर्हि कुत इत्यपादानार्थता न गृह्यते; अपादानार्थत्वे हि पुनरुक्तता, नान्यार्थत्वे; अस्तु तर्हि निमित्तार्थः प्रश्नः – कुत एतदागात् – किन्निमित्तमिहागमनमिति। न निमित्तार्थतापि, प्रतिवचनवैरूप्यात्; आत्मनश्च सर्वस्य जगतः अग्निविस्फुलिङ्गादिवदुत्पत्तिः प्रतिवचने श्रूयते; न हि विस्फुलिङ्गानां विद्रवणे अग्निर्निमित्तम्, अपादानमेव तु सः; तथा परमात्मा विज्ञानमयस्य आत्मनोऽपादानत्वेन श्रूयते – ‘अस्मादात्मनः’ इत्येतस्मिन्वाक्ये; तस्मात् प्रतिवचनवैलोम्यात् कुत इति प्रश्नस्य निमित्तार्थता न शक्यते वर्णयितुम्। नन्वपादानपक्षेऽपि पुनरुक्ततादोषः स्थित एव।
नैष दोषः, प्रश्नाभ्यामात्मनि क्रियाकारकफलात्मतापोहस्य विवक्षितत्वात्। इह हि विद्याविद्याविषयावुपन्यस्तौ – ‘आत्मेत्येवोपासीत’ (BrhU.1.4.7) ‘आत्मानमेवावेत्’ (BrhU.1.4.10) ‘आत्मानमेव लोकमुपासीत’ (BrhU.1.4.15) इति विद्याविषयः, तथा अविद्याविषयश्च पाङ्क्तं कर्म तत्फलं चान्नत्रयं नामरूपकर्मात्मकमिति। तत्र अविद्याविषये वक्तव्यं सर्वमुक्तम्। विद्याविषयस्तु आत्मा केवल उपन्यस्तः न निर्णीतः। तन्निर्णयाय च ‘ब्रह्म ते ब्रवाणि’ (BrhU.2.1.1) इति प्रक्रान्तम्, ‘ज्ञपयिष्यामि’ (BrhU.2.1.15) इति च। अतः तद्ब्रह्म विद्याविषयभूतं ज्ञापयितव्यं याथात्म्यतः। तस्य च याथात्म्यं क्रियाकारकफलभेदशून्यम् अत्यन्तविशुद्धमद्वैतम् – इत्येतद्विवक्षितम्। अतस्तदनुरूपौ प्रश्नावुत्थाप्येते श्रुत्या – क्वैष तदाभूत्कुत एतदागादिति। तत्र – यत्र भवति तत् अधिकरणम्, यद्भवति तदधिकर्तव्यम् – तयोश्च अधिकरणाधिकर्तव्ययोर्भेदः दृष्टो लोके। तथा – यत आगच्छति तत् अपादानम् – य आगच्छति स कर्ता, तस्मादन्यो दृष्टः। तथा आत्मा क्वाप्यभूदन्यस्मिन्नन्यः, कुतश्चिदागादन्यस्मादन्यः – केनचिद्भिन्नेन साधनान्तरेण – इत्येवं लोकवत्प्राप्ता बुद्धिः; सा प्रतिवचनेन निवर्तयितव्येति। नायमात्मा अन्यः अन्यत्र अभूत्, अन्यो वा अन्यस्मादागतः, साधनान्तरं वा आत्मन्यस्ति; किं तर्हि स्वात्मन्येवाभूत् – ‘स्वमात्मानमपीतो भवति’ (ChanU.6.8.1) ‘सता सोम्य तदा सम्पन्नो भवति’ (ChanU.6.8.1) ‘प्राज्ञेनात्मना सम्परिष्वक्तः’ (BrhU.4.3.21) ‘पर आत्मनि सम्प्रतिष्ठते’ (PrasU.4.9) इत्यादिश्रुतिभ्यः; अत एव नान्यः अन्यस्मादागच्छति; तत् श्रुत्यैव प्रदर्श्यते ‘अस्मादात्मनः’ इति, आत्मव्यतिरेकेण वस्त्वन्तराभावात्। नन्वस्ति प्राणाद्यात्मव्यतिरिक्तं वस्त्वन्तरम् – न, प्राणादेस्तत एव निष्पत्तेः॥
🔗  तत्कथमिति उच्यते –
तत्र दृष्टान्तः – स यथा लोके ऊर्णनाभिः लूताकीट एक एव प्रसिद्धः सन् स्वात्माप्रविभक्तेन तन्तुना उच्चरेत् उद्गच्छेत्; न चास्ति तस्योद्गमने स्वतोऽतिरिक्तं कारकान्तरम् – यथा च एकरूपादेकस्मात् अग्नेः क्षुद्राः अल्पाः विस्फुलिङ्गाः त्रुटयः अग्न्यवयवाः व्युच्चरन्ति विविधं नाना वा उच्चरन्ति – यथा इमौ दृष्टान्तौ कारकभेदाभावेऽपि प्रवृत्तिं दर्शयतः, प्राक्प्रवृत्तेश्च स्वभावत एकत्वम् – एवमेव अस्मात् आत्मनो विज्ञानमयस्य प्राक्प्रतिबोधात् यत्स्वरूपं तस्मादित्यर्थः, सर्वे प्राणाः वागादयः, सर्वे लोकाः भूरादयः सर्वाणि कर्मफलानि, सर्वे देवाः प्राणलोकाधिष्ठातारः अग्न्यादयः सर्वाणि भूतानि ब्रह्मादिस्तम्बपर्यन्तानि प्राणिजातानि, सर्व एव आत्मान इत्यस्मिन्पाठे उपाधिसम्पर्कजनितप्रबुध्यमानविशेषात्मान इत्यर्थः, व्युच्चरन्ति। यस्मादात्मनः स्थावरजङ्गमं जगदिदम् अग्निविस्फुलिङ्गवत् व्युच्चरत्यनिशम्, यस्मिन्नेव च प्रलीयते जलबुद्बुदवत्, यदात्मकं च वर्तते स्थितिकाले, तस्य अस्य आत्मनो ब्रह्मणः, उपनिषत् – उप समीपं निगमयतीति अभिधायकः शब्द उपनिषदित्युच्यते – शास्त्रप्रामाण्यादेतच्छब्दगतो विशेषोऽवसीयते उपनिगमयितृत्वं नाम; कासावुपनिषदित्याह – सत्यस्य सत्यम् इति; सा हि सर्वत्र चोपनिषत् अलौकिकार्थत्वाद्दुर्विज्ञेयार्थेति तदर्थमाचष्टे – प्राणा वै सत्यं तेषामेष सत्यम् इति। एतस्यैव वाक्यस्य व्याख्यानाय उत्तरं ब्राह्मणद्वयं भविष्यति।
भवतु तावत् उपनिषद्व्याख्यानाय उत्तरं ब्राह्मणद्वयम्; तस्योपनिषदित्युक्तम्; तत्र न जानीमः – किं प्रकृतस्य आत्मनो विज्ञानमयस्य पाणिपेषणोत्थितस्य संसारिणः शब्दादिभुज इयमुपनिषत्, आहोस्वित् संसारिणः कस्यचित्; किञ्चातः? यदि संसारिणः तदा संसार्येव विज्ञेयः, तद्विज्ञानादेव सर्वप्राप्तिः, स एव ब्रह्मशब्दवाच्यः तद्विद्यैव ब्रह्मविद्येति; अथ असंसारिणः, तदा तद्विषया विद्या ब्रह्मविद्या, तस्माच्च ब्रह्मविज्ञानात्सर्वभावापत्तिः; सर्वमेतच्छास्त्रप्रामाण्याद्भविष्यति; किन्तु अस्मिन्पक्षे ‘आत्मेत्येवोपासीत’ (BrhU.1.4.7) ‘आत्मानमेवावेदहं ब्रह्मास्मि –’ (BrhU.1.4.10) इति परब्रह्मैकत्वप्रतिपादिकाः श्रुतयः कुप्येरन्, संसारिणश्च अन्यस्याभावे उपदेशानर्थक्यात्। यत एवं पण्डितानामप्येतन्महामोहस्थानम् अनुक्तप्रतिवचनप्रश्नविषयम्, अतो यथाशक्ति ब्रह्मविद्याप्रतिपादकवाक्येषु ब्रह्म विजिज्ञासूनां बुद्धिव्युत्पादनाय विचारयिष्यामः।
न तावत् असंसारी परः – पाणिपेषणप्रतिबोधितात् शब्दादिभुजः अवस्थान्तरविशिष्टात् उत्पत्तिश्रुतेः; न प्रशासिता अशनायादिवर्जितः परो विद्यते; कस्मात्? यस्मात् ‘ब्रह्म ज्ञपयिष्यामि’ (BrhU.2.1.15) इति प्रतिज्ञाय, सुप्तं पुरुषं पाणिपेष बोधयित्वा, तं शब्दादिभोक्तृत्वविशिष्टं दर्शयित्वा, तस्यैव स्वप्नद्वारेण सुषुप्त्याख्यमवस्थान्तरमुन्नीय, तस्मादेव आत्मनः सुषुप्त्यवस्थाविशिष्टात् अग्निविस्फुलिङ्गोर्णनाभिदृष्टान्ताभ्याम् उत्पत्तिं दर्शयति श्रुतिः – ‘एवमेवास्मात्’ इत्यादिना; न चान्यो जगदुत्पत्तिकारणमन्तराले श्रुतोऽस्ति; विज्ञानमयस्यैव हि प्रकरणम्। समानप्रकरणे च श्रुत्यन्तरे कौषीतकिनाम् आदित्यादिपुरुषान्प्रस्तुत्य ‘स होवाच यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य चैतत्कर्म स वै वेदितव्यः’ (कौ. उ. ४-१९) इति प्रबुद्धस्यैव विज्ञानमयस्य वेदितव्यतां दर्शयति, नार्थान्तरस्य। तथा च ‘आत्मनस्तु कामाय सर्वं प्रियं भवति’ (BrhU.2.4.5) इत्युक्त्वा, य एव आत्मा प्रियः प्रसिद्धः तस्यैव द्रष्टव्यश्रोतव्यमन्तव्यनिदिध्यासितव्यतां दर्शयति। तथा च विद्योपन्यासकाले ‘आत्मेत्येवोपासीत’ (BrhU.1.4.7) ‘तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्’ (BrhU.1.4.8) ‘तदात्मानमेवावेदहं ब्रह्मास्मि-’ (BrhU.1.4.10) इत्येवमादिवाक्यानामानुलोम्यं स्यात् पराभावे। वक्ष्यति च – ‘आत्मानं चेद्विजानीयादयमस्मीति पूरुषः’ (BrhU.4.4.12) इति। सर्ववेदान्तेषु च प्रत्यगात्मवेद्यतैव प्रदर्श्यते – अहमिति, न बहिर्वेद्यता शब्दादिवत् प्रदर्श्यते असौ ब्रह्मेति। तथा कौषीतकिनामेव ‘न वाचं विजिज्ञासीत वक्तारं विद्यात्’ (कौ. उ. ३-८) इत्यादिना वागादिकरणैर्व्यावृत्तस्य कर्तुरेव वेदितव्यतां दर्शयति। अवस्थान्तरविशिष्टोऽसंसारीति चेत् – अथापि स्यात्, यो जागरिते शब्दादिभुक् विज्ञानमयः, स एव सुषुप्ताख्यमवस्थान्तरं गतः असंसारी परः प्रशासिता अन्यः स्यादिति चेत् – न, अदृष्टत्वात्। न ह्येवन्धर्मकः पदार्थो दृष्टः अन्यत्र वैनाशिकसिद्धान्तात्। न हि लोके गौः तिष्ठन् गच्छन्वा गौर्भवति, शयानस्तु अश्वादिजात्यन्तरमिति। न्यायाच्च – यद्धर्मको यः पदार्थः प्रमाणेनावगतो भवति, स देशकालावस्थान्तरेष्वपि तद्धर्मक एव भवति; स चेत् तद्धर्मकत्वं व्यभिचरति, सर्वः प्रमाणव्यवहारो लुप्येत। तथा च न्यायविदः सांख्यमीमांसकादय असंसारिण अभावं युक्तिशतैः प्रतिपादयन्ति। संसारिणोऽपि जगदुत्पत्तिस्थितिलयक्रियाकर्तृत्वविज्ञानस्याभावात् अयुक्तमिति चेत् – यत् महता प्रपञ्चेन स्थापितं भवता, शब्दादिभुक् संसार्येव अवस्थान्तरविशिष्टो जगत इह कर्तेति – तदसत्; यतो जगदुत्पत्तिस्थितिलयक्रियाकर्तृत्वविज्ञानशक्तिसाधनाभावः सर्वलोकप्रत्यक्षः संसारिणः; स कथम् अस्मदादिः संसारी मनसापि चिन्तयितुमशक्यं पृथिव्यादिविन्यासविशिष्टं जगत् निर्मिनुयात् अतोऽयुक्तमिति चेत् – न, शास्त्रात्; शास्त्रं संसारिणः ‘एवमेवास्मादात्मनः’ इति जगदुत्पत्त्यादि दर्शयति; तस्मात् सर्वं श्रद्धेयमिति स्यादयम् एकः पक्षः।
‘यः सर्वज्ञः सर्ववित्’ (MunU.1.1.9), (MunU.2.2.7) ‘योऽशनायापिपासे अत्येति’ (BrhU.3.5.1) ‘असङ्गो न हि सज्जते’ (BrhU.3.9.26) ‘एतस्य वा अक्षरस्य प्रशासने’ (BrhU.3.8.9) ‘यः सर्वेषु भूतेषु तिष्ठन् – अन्तर्याम्यमृतः’ (BrhU.3.7.15) ‘स यस्तान्पुरुषान्निरुह्यात्यक्रामत्’ (BrhU.3.9.26) ‘स वा एष महानज आत्मा’ (BrhU.4.4.22) ‘एष सेतुर्विधरणः’ (BrhU.4.4.22) ‘सर्वस्य वशी सर्वस्येशानः’ (BrhU.4.4.22) ‘य आत्मापहतपाप्मा विजरो विमृत्युः’ (ChanU.8.7.1), (ChanU.8.7.3) ‘तत्तेजोऽसृजत’ (ChanU.6.2.3) ‘आत्मा वा इदमेक एवाग्र आसीत्’ (AitU.1.1.1) ‘न लिप्यते लोकदुःखेन बाह्यः’ (KathU.2.2.11) इत्यादिश्रुतिशतेभ्यः – स्मृतेश्च ‘अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते’ (BhG.10.8) इति – परोऽस्ति असंसारी श्रुतिस्मृतिन्यायेभ्यश्च; स च कारणं जगतः। ननु ‘एवमेवास्मादात्मनः’ इति संसारिण एवोत्पत्तिं दर्शयतीत्युक्तम् – न, ‘य एषोऽन्तर्हृदय आकाशः’ (BrhU.2.1.17) इति परस्य प्रकृतत्वात्, ‘अस्मादात्मनः’ इति युक्तः परस्यैव परामर्शः। ‘क्वैष तदाभूत्’ (BrhU.2.1.16) इत्यस्य प्रश्नस्य प्रतिवचनत्वेन आकाशशब्दवाच्यः पर आत्मा उक्तः ‘य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते’ (BrhU.2.1.16) इति; ‘सता सोम्य तदा सम्पन्नो भवति’ (ChanU.6.8.1) ‘अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति’ (ChanU.8.3.2) ‘प्राज्ञेनात्मना सम्परिष्वक्तः’ (BrhU.4.3.21) ‘पर आत्मनि सम्प्रतिष्ठते’ (PrasU.4.7) इत्यादिश्रुतिभ्य आकाशशब्दः परआत्मेति निश्चीयते; ‘दहरोऽस्मिन्नन्तराकाशः’ (ChanU.8.1.1) इति प्रस्तुत्य तस्मिन्नेव आत्मशब्दप्रयोगाच्च; प्रकृत एव पर आत्मा। तस्मात् युक्तम् ‘एवमेवास्मादात्मनः’ इति परमात्मन एव सृष्टिरिति; संसारिणः सृष्टिस्थितिसंहारज्ञानसामर्थ्याभावं च अवोचाम। अत्र च ‘आत्मेत्येवोपासीत’ (BrhU.1.4.7) ‘आत्मानमेवावेदहं ब्रह्मास्मि-’ (BrhU.1.4.10) इति ब्रह्मविद्या प्रस्तुता; ब्रह्मविषयं च ब्रह्मविज्ञानमिति; ‘ब्रह्म ते ब्रवाणि’ (BrhU.2.2.1) इति ‘ब्रह्म ज्ञपयिष्यामि’ (BrhU.2.1.15) इति प्रारब्धम्। तत्र इदानीम् असंसारि ब्रह्म जगतः कारणम् अशनायाद्यतीतं नित्यशुद्धबुद्धमुक्तस्वभावम्; तद्विपरीतश्च संसारी; तस्मात् अहं ब्रह्मास्मीति न गृह्णीयात्; परं हि देवमीशानं निकृष्टः संसार्यात्मत्वेन स्मरन् कथं न दोषभाक्स्यात्; तस्मात् न अहं ब्रह्मास्मीति युक्तम्। तस्मात्पुष्पोदकाञ्जलिस्तुतिनमस्कारबल्युपहारस्वाध्यायध्यानयोगादिभिः आरिराधयिषेत; आराधनेन विदित्वा सर्वेशितृ ब्रह्म भवति; न पुनरसंसारि ब्रह्म संसार्यात्मत्वेन चिन्तयेत् – अग्निमिव शीतत्वेन आकाशमिव मूर्तिमत्त्वेन। ब्रह्मात्मत्वप्रतिपादकमपि शास्त्रम् अर्थवादो भविष्यति। सर्वतर्कशास्त्रलोकन्यायैश्च एवमविरोधः स्यात्।
न, मन्त्रब्राह्मणवादेभ्यः तस्यैव प्रवेशश्रवणात्। ‘पुरश्चक्रे’ (BrhU.2.5.10) इति प्रकृत्य ‘पुरः पुरुष आविशत्’ (BrhU.2.5.18) इति, ‘रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय’ (BrhU.2.5.19) ‘सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते’ (तै. आ. ३-१२-७) इति सर्वशाखासु सहस्रशो मन्त्रवादाः सृष्टिकर्तुरेवासंसारिणः शरीरप्रवेशं दर्शयन्ति। तथा ब्राह्मणवादाः – ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ (TaitU.2.6.6) ‘स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत’ (AitU.1.3.12) ‘सेयं देवता – इमास्तिस्रो देवता अनेन जीवेन आत्मनानुप्रविश्य’ (ChanU.6.2.3) ‘एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते’ (KathU.1.3.12) इत्याद्याः। सर्वश्रुतिषु च ब्रह्मणि आत्मशब्दप्रयोगात् आत्मशब्दस्य च प्रत्यगात्माभिधायकत्वात्, ‘एष सर्वभूतान्तरात्मा’ (MunU.2.1.4) इति च श्रुतेः परमात्मव्यतिरेकेण संसारिणोऽभावात् – ‘एकमेवाद्वितीयम्’ (ChanU.6.2.1) ‘ब्रह्मैवेदम्’ (MunU.2.2.11) ‘आत्मैवेदम्’ (ChanU.7.25.2) इत्यादिश्रुतिभ्यः युक्तमेव अहं ब्रह्मास्मीत्यवधारयितुम्।
यदा एवं स्थितः शास्त्रार्थः, तदा परमात्मनः संसारित्वम्; तथा च सति शास्त्रानर्थक्यम्, असंसारित्वे च उपदेशानर्थक्यं स्पष्टो दोषः प्राप्तः; यदि तावत् परमात्मा सर्वभूतान्तरात्मा सर्वशरीरसम्पर्कजनितदुःखानि अनुभवतीति, स्पष्टं परस्य संसारित्वं प्राप्तम्; तथा च परस्य असंसारित्वप्रतिपादिकाः श्रुतयः कुप्येरन्, स्मृतयश्च, सर्वे च न्यायाः; अथ कथञ्चित् प्राणशरीरसम्बन्धजैर्दुःखैर्न सम्बध्यत इति शक्यं प्रतिपादयितुम्, परमात्मनः साध्यपरिहार्याभावात् उपदेशानर्थक्यदोषो न शक्यते निवारयितुम्। अत्र केचित्परिहारमाचक्षते – परमात्मा न साक्षाद्भूतेष्वनु प्रविष्टः स्वेन रूपेण; किं तर्हि विकारभावमापन्नो विज्ञानात्मत्वं प्रतिपेदे; स च विज्ञानात्मा परस्मात् अन्यः अनन्यश्च; येनान्यः, तेन संसारित्वसम्बन्धी, येन अनन्यः तेन अहं ब्रह्मेत्यवधारणार्हः; एवं सर्वमविरुद्धं भविष्यतीति।
तत्र विज्ञानात्मनो विकारपक्ष एता गतयः – पृथिवीद्रव्यवत् अनेकद्रव्यसमाहारस्य सावयवस्य परमात्मनः, एकदेशविपरिणामो विज्ञानात्मा घटादिवत्; पूर्वसंस्थानावस्थस्य वा परस्य एकदेशो विक्रियते केशोषरादिवत्, सर्व एव वा परः परिणमेत् क्षीरादिवत्। तत्र समानजातीयानेकद्रव्यसमूहस्य कश्चिद्द्रव्यविशेषो विज्ञानात्मत्वं प्रतिपद्यते यदा, तदा समानजातीयत्वात् एकत्वमुपचरितमेव न तु परमार्थतः; तथा च सति सिद्धान्तविरोधः। अथ नित्यायुतसिद्धावयवानुगतः अवयवी पर आत्मा, तस्य तदवस्थस्य एकदेशो विज्ञानात्मा संसारी – तदापि सर्वावयवानुगतत्वात् अवयविन एव अवयवगतो दोषो गुणो वेति, विज्ञानात्मनः संसारित्वदोषेण पर एव आत्मा सम्बध्यत इति, इयमप्यनिष्टा कल्पना। क्षीरवत् सर्वपरिणामपक्षे सर्वश्रुतिस्मृतिकोपः, स च अनिष्टः। ‘निष्कलं निष्क्रियं शान्तम्’ (श्वे. ६-१९) ‘दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः’ (MunU.2.1.2) ‘आकाशवत्सर्वगतश्च नित्यः’ (शत. ब्रा. १०-६-३-२) ‘स वा एष महानज आत्माजरोऽमरोऽमृतः’ (BrhU.4.4.25) ‘न जायते म्रियते वा कदाचित्’ (BhG.2.20) ‘अव्यक्तोऽयम्’ (BhG.2.25) इत्यादिश्रुतिस्मृतिन्यायविरुद्धा एते सर्वे पक्षाः। अचलस्य परमात्मन एकदेशपक्षे विज्ञानात्मनः कर्मफलदेशसंसरणानुपपत्तिः, परस्य वा संसारित्वम् – इत्युक्तम्। परस्यैकदेशः अग्निविस्फुलिङ्गवत् स्फुटितः विज्ञानात्मा संसरतीति चेत् – तथापि परस्यावयवस्फुटनेन क्षतप्राप्तिः, तत्संसरणे च परमात्मनः प्रदेशान्तरावयवव्यूहे छिद्रताप्राप्तिः, अव्रणत्ववाक्यविरोधश्च; आत्मावयवभूतस्य विज्ञानात्मनः संसरणे परमात्मशून्यप्रदेशाभावात् अवयवान्तरनोदनव्यूहनाभ्यां हृदयशूलेनेव परमात्मनो दुःखित्वप्राप्तिः। अग्निविस्फुलिङ्गादिदृष्टान्तश्रुतेर्न दोष इति चेत्, न; श्रुतेर्ज्ञापकत्वात् – न शास्त्रं पदार्थानन्यथा कर्तुं प्रवृत्तम्, किं तर्हि यथाभूतानाम् अज्ञातानां ज्ञापने; किञ्चातः? शृणु, अतो यद्भवति; यथाभूता मूर्तामूर्तादिपदार्थधर्मा लोके प्रसिद्धाः; तद्दृष्टान्तोपादानेन तदविरोध्येव वस्त्वन्तरं ज्ञापयितुं प्रवृत्तं शास्त्रं न लौकिकवस्तुविरोधज्ञापनाय लौकिकमेव दृष्टान्तमुपादत्ते; उपादीयमानोऽपि दृष्टान्तः अनर्थकः स्यात्, दार्ष्टान्तिकासङ्गतेः; न हि अग्निः शीतः आदित्यो न तपतीति वा दृष्टान्तशतेनापि प्रतिपादयितुं शक्यम्, प्रमाणान्तरेण अन्यथाधिगतत्वाद्वस्तुनः; न च प्रमाणं प्रमाणान्तरेण विरुध्यते; प्रमाणान्तराविषयमेव हि प्रमाणान्तरं ज्ञापयति; न च लौकिकपदपदार्थाश्रयणव्यतिरेकेण आगमेन शक्यमज्ञातं वस्त्वन्तरम् अवगमयितुम्; तस्मात् प्रसिद्धन्यायमनुसरता न शक्या परमात्मनः सावयवांशांशित्वकल्पना परमार्थतः प्रतिपादयितुम्। ‘क्षुद्राविस्फुलिङ्गाः’ (BrhU.2.1.20) ‘ममैवांशः’ (BhG.15.7) इति च श्रूयते स्मर्यते चेति चेत्, न, एकत्वप्रत्ययार्थपरत्वात्; अग्नेर्हि विस्फुलिङ्गः अग्निरेव इत्येकत्वप्रत्ययार्हो दृष्टो लोके; तथा च अंशः अंशिना एकत्वप्रत्ययार्हः; तत्रैवं सति विज्ञानात्मनः परमात्मविकारांशत्ववाचकाः शब्दाः परमात्मैकत्वप्रत्ययाधित्सवः। उपक्रमोपसंहाराभ्यां च – सर्वासु हि उपनिषत्सु पूर्वमेकत्वं प्रतिज्ञाय, दृष्टान्तैर्हेतुभिश्च परमात्मनो विकारांशादित्वं जगतः प्रतिपाद्य, पुनरेकत्वमुपसंहरति; तद्यथा इहैव तावत् ‘इदं सर्वं यदयमात्मा’ (BrhU.2.4.6) इति प्रतिज्ञाय, उत्पत्तिस्थितिलयहेतुदृष्टान्तैः विकारविकारित्वाद्येकत्वप्रत्ययहेतून् प्रतिपाद्य ‘अनन्तरमबाह्यम्’ (BrhU.2.5.19) ‘अयमात्मा ब्रह्म’ (BrhU.2.5.19) इत्युपसंहरिष्यति; तस्मात् उपक्रमोपसंहाराभ्यामयमर्थो निश्चीयते – परमात्मैकत्वप्रत्ययद्रढिम्ने उत्पत्तिस्थितिलयप्रतिपादकानि वाक्यानीति; अन्यथा वाक्यभेदप्रसङ्गाच्च – सर्वोपनिषत्सु हि विज्ञानात्मनः परमात्मना एकत्वप्रत्ययो विधीयत इत्यविप्रतिपत्तिः सर्वेषामुपनिषद्वादिनाम्; तद्विध्येकवाक्ययोगे च सम्भवति उत्पत्त्यादिवाक्यानां वाक्यान्तरत्वकल्पनायां न प्रमाणमस्ति; फलान्तरं च कल्पयितव्यं स्यात्; तस्मादुत्पत्त्यादिश्रुतय आत्मैकत्वप्रतिपादनपराः।
अत्र च सम्प्रदायविद आख्यायिकां सम्प्रचक्षते – कश्चित्किल राजपुत्रः जातमात्र एव मातापितृभ्यामपविद्धः व्याधगृहे संवर्धितः; सः अमुष्य वंश्यतामजानन् व्याधजातिप्रत्ययः व्याधजातिकर्माण्येवानुवर्तते, न राजास्मीति राजजातिकर्माण्यनुवर्तते; यदा पुनः कश्चित्परमकारुणिकः राजपुत्रस्य राजश्रीप्राप्तियोग्यतां जानन् अमुष्य पुत्रतां बोधयति – ‘न त्वं व्याधः, अमुष्य राज्ञः पुत्रः; कथञ्चिद्व्याधगृहमनुप्रविष्टः’ इति – स एवं बोधितः त्यक्त्वा व्याधजातिप्रत्ययकर्माणि पितृपैतामहीम् आत्मनः पदवीमनुवर्तते – राजाहमस्मीति। तथा किल अयं परस्मात् अग्निविस्फुलिङ्गादिवत् तज्जातिरेव विभक्तः इह देहेन्द्रियादिगहने प्रविष्टः असंसारी सन् देहेन्द्रियादिसंसारधर्ममनुवर्तते – देहेन्द्रियसङ्घातोऽस्मि कृशः स्थूलः सुखी दुःखीति – परमात्मतामजानन्नात्मनः; न त्वम् एतदात्मकः परमेव ब्रह्मासि असंसारी – इति प्रतिबोधित आचार्येण, हित्वा एषणात्रयानुवृत्तिं ब्रह्मैवास्मीति प्रतिपद्यते। अत्र राजपुत्रस्य राजप्रत्ययवत् ब्रह्मप्रत्ययो दृढी भवति – विस्फुलिङ्गवदेव त्वं परस्माद्ब्रह्मणो भ्रष्ट इत्युक्ते, विस्फुलिङ्गस्य प्रागग्नेर्भ्रंशात् अग्न्येकत्वदर्शनात्। तस्मात् एकत्वप्रत्ययदार्ढ्याय सुवर्णमणिलोहाग्निविस्फुलिङ्गदृष्टान्ताः, न उत्पत्त्यादिभेदप्रतिपादनपराः। सैन्धवघनवत् प्रज्ञप्त्येकरसनैरन्तर्यावधारणात् ‘एकधैवानुद्रष्टव्यम्’ (BrhU.4.4.20) इति च – यदि च ब्रह्मणः चित्रपटवत् वृक्षसमुद्रादिवच्च उत्पत्त्याद्यनेकधर्मविचित्रता विजिग्राहयिषिता, एकरसं सैन्धवघनवदनन्तरमबाह्यम् – इति नोपसमहरिष्यत्, ‘एकधैवानुद्रष्टव्यम्’ (BrhU.4.4.20) इति च न प्रायोक्ष्यत – ‘य इह नानेव पश्यति’ (BrhU.4.4.19) इति निन्दावचनं च। तस्मात् एकरूपैकत्वप्रत्ययदार्ढ्यायैव सर्ववेदान्तेषु उत्पत्तिस्थितिलयादिकल्पना, न तत्प्रत्ययकरणाय।
न च निरवयवस्य परमात्मनः असंसारिणः संसार्येकदेशकल्पना न्याय्या, स्वतोऽदेशत्वात् परमात्मनः। अदेशस्य परस्य एकदेशसंसारित्वकल्पनायां पर एव संसारीति कल्पितं भवेत्। अथ परोपाधिकृत एकदेशः परस्य, घटकरकाद्याकाशवत्। न तदा तत्र विवेकिनां परमात्मैकदेशः पृथक्संव्यवहारभागिति बुद्धिरुत्पद्यते। अविवेकिनां विवेकिनां च उपचरिता बुद्धिर्दृष्टेति चेत्, न, अविवेकिनां मिथ्याबुद्धित्वात्, विवेकिनां च संव्यवहारमात्रालम्बनार्थत्वात् – यथा कृष्णो रक्तश्च आकाश इति विवेकिनामपि कदाचित् कृष्णता रक्तता च आकाशस्य संव्यवहारमात्रालम्बनार्थत्वं प्रतिपद्यत इति, न परमार्थतः कृष्णो रक्तो वा आकाशो भवितुमर्हति। अतो न पण्डितैर्ब्रह्मस्वरूपप्रतिपत्तिविषये ब्रह्मणः अंशांश्येकदेशैकदेशिविकारविकारित्वकल्पना कार्या, सर्वकल्पनापनयनार्थसारपरत्वात् सर्वोपनिषदाम्। अतो हित्वा सर्वकल्पनाम् आकाशस्येव निर्विशेषता प्रतिपत्तव्या – ‘आकाशवत्सर्वगतश्च नित्यः’ (शत. ब्रा. १०-६-३-२) ‘न लिप्यते लोकदुःखेन बाह्यः’ (KathU.2.2.11) इत्यादिश्रुतिशतेभ्यः। न आत्मानं ब्रह्मविलक्षणं कल्पयेत् – उष्णात्मक इवाग्नौ शीतैकदेशम्, प्रकाशात्मके वा सवितरि तमएकदेशम् – सर्वकल्पनापनयनार्थसारपरत्वात् सर्वोपनिषदाम्। तस्मात् नामरूपोपाधिनिमित्ता एव आत्मनि असंसारधर्मिणि सर्वे व्यवहाराः – ‘रूपं रूपं प्रतिरूपो बभूव’ (BrhU.2.5.19) ‘सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते’ (तै. आ. ३-१२-७) इत्येवमादिमन्त्रवर्णेभ्यः – न स्वत आत्मनः संसारित्वम्, अलक्तकाद्युपाधिसंयोगजनितरक्तस्फटिकादिबुद्धिवत् भ्रान्तमेव न परमार्थतः। ‘ध्यायतीव लेलायतीव’ (BrhU.4.3.7) ‘न कर्मणा वर्धते नो कनीयान्’ (BrhU.4.4.23) ‘न कर्मणा लिप्यते पापकेन’ (BrhU.4.4.23) ‘समं सर्वेषु भूतेषु तिष्ठन्तम्’ (BhG.13.27) ‘शुनि चैव श्वपाके च’ (BhG.5.10) इत्यादिश्रुतिस्मृतिन्यायेभ्यः परमात्मनोऽसंसारितैव। अत एकदेशो विकारः शक्तिर्वा विज्ञानात्मा अन्यो वेति विकल्पयितुं निरवयवत्वाभ्युपगमे विशेषतो न शक्यते। अंशादिश्रुतिस्मृतिवादाश्च एकत्वार्थाः, न तु भेदप्रतिपादकाः, विवक्षितार्थैकवाक्ययोगात् – इत्यवोचाम।
सर्वोपनिषदां परमात्मैकत्वज्ञापनपरत्वे अथ किमर्थं तत्प्रतिकूलोऽर्थः विज्ञानात्मभेदः परिकल्प्यत इति। कर्मकाण्डप्रामाण्यविरोधपरिहारायेत्येके; कर्मप्रतिपादकानि हि वाक्यानि अनेकक्रियाकारकफलभोक्तृकर्त्राश्रयाणि, विज्ञानात्मभेदाभावे हि असंसारिण एव परमात्मन एकत्वे, कथम् इष्टफलासु क्रियासु प्रवर्तयेयुः, अनिष्टफलाभ्यो वा क्रियाभ्यो निवर्तयेयुः? कस्य वा बद्धस्य मोक्षाय उपनिषदारभ्येत? अपि च परमात्मैकत्ववादिपक्षे कथं परमात्मैकत्वोपदेशः? कथं वा तदुपदेशग्रहणफलम्? बद्धस्य हि बन्धनाशाय उपदेशः; तदभावे उपनिषच्छास्त्रं निर्विषयमेव। एवं तर्हि उपनिषद्वादिपक्षस्य कर्मकाण्डवादिपक्षेण चोद्यपरिहारयोः समानः पन्थाः – येन भेदाभावे कर्मकाण्डं निरालम्बनमात्मानं न लभते प्रामाण्यं प्रति, तथा उपनिषदपि। एवं तर्हि यस्य प्रामाण्ये स्वार्थविघातो नास्ति, तस्यैव कर्मकाण्डस्यास्तु प्रामाण्यम्; उपनिषदां तु प्रामाण्यकल्पनायां स्वार्थविघातो भवेदिति मा भूत्प्रामाण्यम्। न हि कर्मकाण्डं प्रमाणं सत् अप्रमाणं भवितुमर्हति; न हि प्रदीपः प्रकाश्यं प्रकाशयति, न प्रकाशयति च इति। प्रत्यक्षादिप्रमाणविप्रतिषेधाच्च – न केवलमुपनिषदो ब्रह्मैकत्वं प्रतिपादयन्त्यः स्वार्थविघातं कर्मकाण्डप्रामाण्यविघातं च कुर्वन्ति; प्रत्यक्षादिनिश्चितभेदप्रतिपत्त्यर्थप्रमाणैश्च विरुध्यन्ते। तस्मादप्रामाण्यमेव उपनिषदाम्; अन्यार्थता वास्तु; न त्वेव ब्रह्मैकत्वप्रतिपत्त्यर्थता।
न उक्तोत्तरत्वात्। प्रमाणस्य हि प्रमाणत्वम् अप्रमाणत्वं वा प्रमोत्पादनानुत्पादननिमित्तम्, अन्यथा चेत् स्तम्भादीनां प्रामाण्यप्रसङ्गात् शब्दादौ प्रमेये। किञ्चातः? यदि तावत् उपनिषदो ब्रह्मैकत्वप्रतिपत्तिप्रमां कुर्वन्ति, कथमप्रमाणं भवेयुः। न कुर्वन्त्येवेति चेत् – यथा अग्निः शीतम् – इति, स भवानेवं वदन् वक्तव्यः – उपनिषत्प्रामाण्यप्रतिषेधार्थं भवतो वाक्यम् उपनिषत्प्रामाण्यप्रतिषेधं किं न करोत्येव, अग्निर्वा रूपप्रकाशम्; अथ करोति – यदि करोति, भवतु तदा प्रतिषेधार्थं प्रमाणं भवद्वाक्यम्, अग्निश्च रूपप्रकाशको भवेत्; प्रतिषेधवाक्यप्रामाण्ये भवत्येवोपनिषदां प्रामाण्यम्। अत्रभवन्तो ब्रुवन्तु कः परिहार इति। ननु अत्र प्रत्यक्षा मद्वाक्य उपनिषत्प्रामाण्यप्रतिषेधार्थप्रतिपत्तिः अग्नौ च रूपप्रकाशनप्रतिपत्तिः प्रमा; कस्तर्हि भवतः प्रद्वेषः ब्रह्मैकत्वप्रत्यये प्रमां प्रत्यक्षं कुर्वतीषु उपनिषत्सु उपलभ्यमानासु? प्रतिषेधानुपपत्तेः। शोकमोहादिनिवृत्तिश्च प्रत्यक्षं फलं ब्रह्मैकत्वप्रतिपत्तिपारम्पर्यजनितम् इत्यवोचाम। तस्मादुक्तोत्तरत्वात् उपनिषदं प्रति अप्रामाण्यशङ्का तावन्नास्ति।
यच्चोक्तम् स्वार्थविघातकरत्वादप्रामाण्यमिति, तदपि न, तदर्थप्रतिपत्तेर्बाधकाभावात्। न हि उपनिषद्भ्यः – ब्रह्मैकमेवाद्वितीयम्, नैव च – इति प्रतिपत्तिरस्ति – यथा अग्निरुष्णः शीतश्चेत्यस्माद्वाक्यात् विरुद्धार्थद्वयप्रतिपत्तिः। अभ्युपगम्य चैतदवोचाम; न तु वाक्यप्रामाण्यसमये एष न्यायः – यदुत एकस्य वाक्यस्य अनेकार्थत्वम्; सति च अनेकार्थत्वे, स्वार्थश्च स्यात्, तद्विघातकृच्च विरुद्धः अन्योऽर्थः। न त्वेतत् – वाक्यप्रमाणकानां विरुद्धमविरुद्धं च, एकं वाक्यम्, अनेकमर्थं प्रतिपादयतीत्येष समयः; अर्थैकत्वाद्धि एकवाक्यता। न च कानिचिदुपनिषद्वाक्यानि ब्रह्मैकत्वप्रतिषेधं कुर्वन्ति। यत्तु लौकिकं वाक्यम् – अग्निरुष्णः शीतश्चेति, न तत्र एकवाक्यता, तदेकदेशस्य प्रमाणान्तरविषयानुवादित्वात्; अग्निः शीत इत्येतत् एकं वाक्यम्; अग्निरुष्ण इति तु प्रमाणान्तरानुभवस्मारकम्, न तु स्वयमर्थावबोधकम्; अतो न अग्निः शीत इत्यनेन एकवाक्यता, प्रमाणान्तरानुभवस्मारणेनैवोपक्षीणत्वात्। यत्तु विरुद्धार्थप्रतिपादकमिदं वाक्यमिति मन्यते, तत् शीतोष्णपदाभ्याम् अग्निपदसामानाधिकरण्यप्रयोगनिमित्ता भ्रान्तिः; न त्वेव एकस्य वाक्यस्य अनेकार्थत्वं लौकिकस्य वैदिकस्य वा।
यच्चोक्तम् – कर्मकाण्डप्रामाण्यविघातकृत् उपनिषद्वाक्यमिति, तन्न, अन्यार्थत्वात्। ब्रह्मैकत्वप्रतिपादनपरा हि उपनिषदः न इष्टार्थप्राप्तौ साधनोपदेशं तस्मिन्वा पुरुषनियोगं वारयन्ति, अनेकार्थत्वानुपपत्तेरेव। न च कर्मकाण्डवाक्यानां स्वार्थे प्रमा नोत्पद्यते। असाधारणे चेत्स्वार्थे प्रमाम् उत्पादयति वाक्यम्, कुतोऽन्येन विरोधः स्यात्। ब्रह्मैकत्वे निर्विषयत्वात् प्रमा नोत्पद्यत एवेति चेत्, न, प्रत्यक्षत्वात्प्रमायाः। ‘दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’ (?) ‘ब्राह्मणो न हन्तव्यः’ (?) इत्येवमादिवाक्येभ्यः प्रत्यक्षा प्रमा जायमाना; सा नैव भविष्यति, यद्युपनिषदो ब्रह्मैकत्वं बोधयिष्यन्तीत्यनुमानम्; न च अनुमानं प्रत्यक्षविरोधे प्रामाण्यं लभते; तस्मादसदेवैतद्गीयते – प्रमैव नोत्पद्यत इति। अपि च यथाप्राप्तस्यैव अविद्याप्रत्युपस्थापितस्य क्रियाकारकफलस्य आश्रयणेन इष्टानिष्टप्राप्तिपरिहारोपायसामान्ये प्रवृत्तस्य तद्विशेषमजानतः तदाचक्षाणा श्रुतिः क्रियाकारकफलभेदस्य लोकप्रसिद्धस्य सत्यताम् असत्यतां वा न आचष्टे न च वारयति, इष्टानिष्टफलप्राप्तिपरिहारोपायविधिपरत्वात्। यथा काम्येषु प्रवृत्ता श्रुतिः कामानां मिथ्याज्ञानप्रभवत्वे सत्यपि यथाप्राप्तानेव कामानुपादाय तत्साधनान्येव विधत्ते, न तु – कामानां मिथ्याज्ञानप्रभवत्वादनर्थरूपत्वं चेति – न विदधाति; तथा नित्याग्निहोत्रादिशास्त्रमपि मिथ्याज्ञानप्रभवं क्रियाकारकभेदं यथाप्राप्तमेव आदाय इष्टविशेषप्राप्तिम् अनिष्टविशेषपरिहारं वा किमपि प्रयोजनं पश्यत् अग्निहोत्रादीनि कर्माणि विधत्ते, न – अविद्यागोचरासद्वस्तुविषयमिति – न प्रवर्तते – यथा काम्येषु। न च पुरुषा न प्रवर्तेरन् अविद्यावन्तः, दृष्टत्वात् – यथा कामिनः। विद्यावतामेव कर्माधिकार इति चेत्, न, ब्रह्मैकत्वविद्यायां कर्माधिकारविरोधस्योक्तत्वात्। एतेन ब्रह्मैकत्वे निर्विषयत्वात् उपदेशेन तद्ग्रहणफलाभावदोषपरिहार उक्तो वेदितव्यः। पुरुषेच्छारागादिवैचित्र्याच्च – अनेका हि पुरुषाणामिच्छा; रागादयश्च दोषा विचित्राः; ततश्च बाह्यविषयरागाद्यपहृतचेतसो न शास्त्रं निवर्तयितुं शक्तम्; नापि स्वभावतो बाह्यविषयविरक्तचेतसो विषयेषु प्रवर्तयितुं शक्तम्; किन्तु शास्त्रात् एतावदेव भवति – इदमिष्टसाधनम् इदमनिष्टसाधनमिति साध्यसाधनसम्बन्धविशेषाभिव्यक्तिः – प्रदीपादिवत् तमसि रूपादिज्ञानम्; न तु शास्त्रं भृत्यानिव बलात् निवर्तयति नियोजयति वा; दृश्यन्ते हि पुरुषा रागादिगौरवात् शास्त्रमप्यतिक्रामन्तः। तस्मात् पुरुषमतिवैचित्र्यमपेक्ष्य साध्यसाधनसम्बन्धविशेषान् अनेकधा उपदिशति। तत्र पुरुषाः स्वयमेव यथारुचि साधनविशेषेषु प्रवर्तन्ते; शास्त्रं तु सवितृप्रदीपादिवत् उदास्त एव। तथा कस्यचित्परोऽपि पुरुषार्थः अपुरुषार्थवदवभासते; यस्य यथावभासः, स तथारूपं पुरुषार्थं पश्यति; तदनुरूपाणि साधनान्युपादित्सते। तथा च अर्थवादोऽपि – ‘त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुः’ (BrhU.5.2.1) इत्यादिः। तस्मात् न ब्रह्मैकत्वं ज्ञापयिष्यन्तो वेदान्ता विधिशास्त्रस्य बाधकाः। न च विधिशास्त्रम् एतावता निर्विषयं स्यात्। नापि उक्तकारकादिभेदं विधिशास्त्रम् उपनिषदां ब्रह्मैकत्वं प्रति प्रामाण्यं निवर्तयति। स्वविषयशूराणि हि प्रमाणानि, श्रोत्रादिवत्।
तत्र पण्डितम्मन्याः केचित् स्वचित्तवशात् सर्वं प्रमाणमितरेतरविरुद्धं मन्यन्ते, तथा प्रत्यक्षादिविरोधमपि चोदयन्ति ब्रह्मैकत्वे – शब्दादयः किल श्रोत्रादिविषया भिन्नाः प्रत्यक्षत उपलभ्यन्ते; ब्रह्मैकत्वं ब्रुवतां प्रत्यक्षविरोधः स्यात्; तथा श्रोत्रादिभिः शब्दाद्युपलब्धारः कर्तारश्च धर्माधर्मयोः प्रतिशरीरं भिन्ना अनुमीयन्ते संसारिणः; तत्र ब्रह्मैकत्वं ब्रुवतामनुमानविरोधश्च; तथा च आगमविरोधं वदन्ति – ‘ग्रामकामो यजेत’ (तै. आ. १७-१०-४) ‘पशुकामो यजेत’ (तै. आ. १६-१२-८) ‘स्वर्गकामो यजेत’ (तै. आ. १६-३-३) इत्येवमादिवाक्येभ्यः ग्रामपशुस्वर्गादिकामाः तत्साधनाद्यनुष्ठातारश्च भिन्ना अवगम्यन्ते। अत्रोच्यते – ते तु कुतर्कदूषितान्तःकरणाः ब्राह्मणादिवर्णापशदाः अनुकम्पनीयाः आगमार्थविच्छिन्नसम्प्रदायबुद्धय इति। कथम्? श्रोत्रादिद्वारैः शब्दादिभिः प्रत्यक्षत उपलभ्यमानैः ब्रह्मण एकत्वं विरुध्यत इति वदन्तो वक्तव्याः – किं शब्दादीनां भेदेन आकाशैकत्वं विरुध्यत इति; अथ न विरुध्यते, न तर्हि प्रत्यक्षविरोधः। यच्चोक्तम् – प्रतिशरीरं शब्दाद्युपलब्धारः धर्माधर्मयोश्च कर्तारः भिन्ना अनुमीयन्ते, तथा च ब्रह्मैकत्वेऽनुमानविरोध इति; भिन्नाः कैरनुमीयन्त इति प्रष्टव्याः; अथ यदि ब्रूयुः – सर्वैरस्माभिरनुमानकुशलैरिति – के यूयम् अनुमानकुशला इत्येवं पृष्टानां किमुत्तरम्; शरीरेन्द्रियमनआत्मसु च प्रत्येकमनुमानकौशलप्रत्याख्याने, शरीरेन्द्रियमनःसाधना आत्मानो वयमनुमानकुशलाः, अनेककारकसाध्यत्वात्क्रियाणामिति चेत् – एवं तर्हि अनुमानकौशले भवतामनेकत्वप्रसङ्गः; अनेककारकसाध्या हि क्रियेति भवद्भिरेवाभ्युपगतम्; तत्र अनुमानं च क्रिया; सा शरीरेन्द्रियमनआत्मसाधनैः कारकैः आत्मकर्तृका निर्वर्त्यत इत्येतत्प्रतिज्ञातम्; तत्र वयमनुमानकुशला इत्येवं वदद्भिः शरीरेन्द्रियमनःसाधना आत्मानः प्रत्येकं वयमनेके – इत्यभ्युपगतं स्यात्; अहो अनुमानकौशलं दर्शितम् अपुच्छशृङ्गैः तार्किकबलीवर्दैः। यो हि आत्मानमेव न जानाति, स कथं मूढः तद्गतं भेदमभेदं वा जानीयात्; तत्र किमनुमिनोति? केन वा लिङ्गेन? न हि आत्मनः स्वतो भेदप्रतिपादकं किञ्चिल्लिङ्गमस्ति, येन लिङ्गेन आत्मभेदं साधयेत्; यानि लिङ्गानि आत्मभेदसाधनाय नामरूपवन्ति उपन्यस्यन्ति, तानि नामरूपगतानि उपाधय एव आत्मनः – घटकरकापवरकभूछिद्राणीव आकाशस्य; यदा आकाशस्य भेदलिङ्गं पश्यति, तदा आत्मनोऽपि भेदलिङ्गं लभेत सः; न ह्यात्मनः परतो विशेषमभ्युपगच्छद्भिस्तार्किकशतैरपि भेदलिङ्गमात्मनो दर्शयितुं शक्यते; स्वतस्तु दूरादपनीतमेव, अविषयत्वादात्मनः। यद्यत् परः आत्मधर्मत्वेनाभ्युपगच्छति, तस्य तस्य नामरूपात्मकत्वाभ्युपगमात्, नामरूपाभ्यां च आत्मनोऽन्यत्वाभ्युपगमात्, ‘आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म’ (ChanU.8.14.1) इति श्रुतेः, ‘नामरूपे व्याकरवाणि’ (ChanU.6.3.2) इति च – उत्पत्तिप्रलयात्मके हि नामरूपे, तद्विलक्षणं च ब्रह्म – अतः अनुमानस्यैवाविषयत्वात् कुतोऽनुमानविरोधः। एतेन आगमविरोधः प्रत्युक्तः। यदुक्तम् – ब्रह्मैकत्वे यस्मै उपदेशः, यस्य च उपदेशग्रहणफलम्, तदभावात् एकत्वोपदेशानर्थक्यमिति – तदपि न, अनेककारकसाध्यत्वात्क्रियाणां कश्चोद्यो भवति; एकस्मिन्ब्रह्मणि निरुपाधिके नोपदेशः, नोपदेष्टा, न च उपदेशग्रहणफलम्; तस्मादुपनिषदां च आनर्थक्यमित्येतत् अभ्युपगतमेव; अथ अनेककारकविषयानर्थक्यं चोद्यते – न, स्वतोऽभ्युपगमविरोधादात्मवादिनाम्। तस्मात् तार्किकचाटभटराजाप्रवेश्यम् अभयं दुर्गमिदम् अल्पबुद्ध्यगम्यं शास्त्रगुरुप्रसादरहितैश्च – ‘कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति’ (KathU.1.2.21) ‘देवैरत्रापि विचिकित्सितं पुरा’ (KathU.1.1.21) ‘नैषा तर्केण मतिरापनेया’ (KathU.1.2.9) – वरप्रसादलभ्यत्वश्रुतिस्मृतिवादेभ्यश्च’ ‘तदेजति तन्नैजति तद्दूरे तद्वन्तिके’ (IsU.5) इत्यादिविरुद्धधर्मसमवायित्वप्रकाशमन्त्रवर्णेभ्यश्च; गीतासु च ‘मत्स्थानि सर्वभूतानि’ (BhG.9.4) इत्यादि। तस्मात् परब्रह्मव्यतिरेकेण संसारी नाम न अन्यत् वस्त्वन्तरमस्ति। तस्मात्सुष्ठूच्यते ‘ब्रह्म वा इदमग्र आसीत् तदात्मानमेवावेत् अहं ब्रह्मास्मीति’ (BrhU.1.4.10) – ‘नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतृ’ इत्यादिश्रुतिशतेभ्यः। तस्मात् परस्यैव ब्रह्मणः सत्यस्य सत्यं नाम उपनिषत् परा॥

Go to Top ('Home' key on many Windows browsers)

BrhU.2.02

🔗  ‘ब्रह्म ज्ञपयिष्यामि’ (BrhU.2.1.15) इति प्रस्तुतम्; तत्र यतो जगज्जातम्, यन्मयम्, यस्मिंश्च लीयते, तदेकं ब्रह्म – इति ज्ञापितम्। किमात्मकं पुनः तज्जगत् जायते, लीयते च? पञ्चभूतात्मकम्; भूतानि च नामरूपात्मकानि; नामरूपे सत्यमिति ह्युक्तम्; तस्य सत्यस्य पञ्चभूतात्मकस्य सत्यं ब्रह्म। कथं पुनः भूतानि सत्यमिति मूर्तामूर्तब्राह्मणम्। मूर्तामूर्तभूतात्मकत्वात् कार्यकरणात्मकानि भूतानि प्राणा अपि सत्यम्। तेषां कार्यकरणात्मकानां भूतानां सत्यत्वनिर्दिधारयिषया ब्राह्मणद्वयमारभ्यते सैव उपनिषद्व्याख्या। कार्यकरणसत्यत्वावधारणद्वारेण हि सत्यस्य सत्यं ब्रह्म अवधार्यते। अत्रोक्तम् ‘प्राणा वै सत्यं तेषामेष सत्यम्’ (BrhU.2.1.20) इति; तत्र के प्राणाः, कियत्यो वा प्राणविषया उपनिषदः का इति च – ब्रह्मोपनिषत्प्रसङ्गेन करणानां प्राणानां स्वरूपमवधारयति – पथिगतकूपारामाद्यवधारणवत्॥
यो ह वै शिशुं साधानं सप्रत्याधानं सस्थूणं सदामं वेद, तस्येदं फलम्; किं तत्? सप्त सप्तसङ्ख्याकान् ह द्विषतः द्वेषकर्तॄन् भ्रातृव्यान् भ्रातृव्या हि द्विविधा भवन्ति, द्विषन्तः अद्विषन्तश्च – तत्र द्विषन्तो ये भ्रातृव्याः तान् द्विषतो भ्रातृव्यान् अवरुणद्धि; सप्त ये शीर्षण्याः प्राणा विषयोपलब्धिद्वाराणि तत्प्रभवा विषयरागाः सहजत्वात् भ्रातृव्याः। ते हि अस्य स्वात्मस्थां दृष्टिं विषयविषयां कुर्वन्ति; तेन ते द्वेष्टारो भ्रातृव्याः, प्रत्यगात्मेक्षणप्रतिषेधकरत्वात्; काठके चोक्तम् – ‘पराञ्चि खानि व्यतृणत्स्वयम्भूस्तस्मात्पराङ्पश्यति नान्तरात्मन्’ (KathU.2.1.1) इत्यादि; तत्र यः शिश्वादीन्वेद, तेषां याथात्म्यमवधारयति, स एतान् भ्रातृव्यान् अवरुणद्धि अपावृणोति विनाशयति। तस्मै फलश्रवणेनाभिमुखीभूतायाह – अयं वाव शिशुः। कोऽसौ? योऽयं मध्यमः प्राणः, शरीरमध्ये यः प्राणो लिङ्गात्मा, यः पञ्चधा शरीरमाविष्टः – बृहन्पाण्डरवासः सोम राजन्नित्युक्तः, यस्मिन् वाङ्मनःप्रभृतीनि करणानि विषक्तानि – पड्वीशशङ्कुनिदर्शनात् स एष शिशुरिव, विषयेष्वितरकरणवदपटुत्वात्; शिशुं साधानमित्युक्तम्; किं पुनस्तस्य शिशोः वत्सस्थानीयस्य करणात्मन आधानम् तस्य इदमेव शरीरम् आधानं कार्यात्मकम् – आधीयतेऽस्मिन्नित्याधानम्; तस्य हि शिशोः प्राणस्य इदं शरीरमधिष्ठानम्; अस्मिन्हि करणान्यधिष्ठितानि लब्धात्मकानि उपलब्धिद्वाराणि भवन्ति, न तु प्राणमात्रे विषक्तानि; तथा हि दर्शितमजातशत्रुणा – उपसंहृतेषु करणेषु विज्ञानमयो नोपलभ्यते, शरीरदेशव्यूढेषु तु करणेषु विज्ञानमय उपलभमान उपलभ्यते – तच्च दर्शितं पाणिपेषप्रतिबोधनेन। इदं प्रत्याधानं शिरः; प्रदेशविशेषेषु – प्रति – प्रत्याधीयत इति प्रत्याधानम्। प्राणः स्थूणा अन्नपानजनिता शक्तिः – प्राणो बलमिति पर्यायः; बलावष्टम्भो हि प्राणः अस्मिन् शरीरे – ‘स यत्रायमात्माबल्यं न्येत्य सम्मोहमिव’ (BrhU.4.4.1) इति दर्शनात् – यथा वत्सः स्थूणावष्टम्भः एवम्। शरीरपक्षपाती वायुः प्राणः स्थूणेति केचित्। अन्नं दाम – अन्नं हि भुक्तं त्रेधा परिणमते; यः स्थूलः परिणामः, स एतद्द्वयं भूत्वा, इमामप्येति – मूत्रं च पुरीषं च; यो मध्यमो रसः, स रसो लोहितादिक्रमेण स्वकार्यं शरीरं साप्तधातुकमुपचिनोति; स्वयोन्यन्नागमे हि शरीरमुपचीयते, अन्नमयत्वात्; विपर्ययेऽपक्षीयते पतति; यस्तु अणिष्ठो रसः – अमृतम् ऊर्क् प्रभावः – इति च कथ्यते, स नाभेरूर्ध्वं हृदयदेशमागत्य, हृदयाद्विप्रसृतेषु द्वासप्ततिनाडीसहस्रेष्वनुप्रविश्य, यत्तत् करणसङ्घातरूपं लिङ्गं शिशुसञ्ज्ञकम्, तस्य शरीरे स्थितिकारणं भवति बलमुपजनयत् स्थूणाख्यम्; तेन अन्नम् उभयतः पाशवत्सदामवत् प्राणशरीरयोर्निबन्धनं भवति॥
प्राणशरीरयोर्निबन्धनं भवति –
तमेताः सप्ताक्षितय उपतिष्ठन्ते – तं करणात्मकं प्राणं शरीरेऽन्नबन्धनं चक्षुष्यूढम् एताः वक्ष्यमाणाः सप्त सप्तसङ्ख्याकाः अक्षितयः, अक्षितिहेतुत्वात्, उपतिष्ठन्ते। यद्यपि मन्त्रकरणे तिष्ठतिरुपपूर्वः आत्मनेपदी भवति, इहापि सप्त देवताभिधानानि मन्त्रस्थानीयानि करणानि; तिष्ठतेः अतः अत्रापि आत्मनेपदं न विरुद्धम्। कास्ता अक्षितय इत्युच्यन्ते – तत् तत्र या इमाः प्रसिद्धाः, अक्षन् अक्षणि लोहिन्यः लोहिताः राजयः रेखाः, ताभिः द्वारभूताभिः एनं मध्यमं प्राणं रुद्रः अन्वायत्तः अनुगतः; अथ याः अक्षन् अक्षणि आपः धूमादिसंयोगेनाभिव्यज्यमानाः, ताभिः अद्भिर्द्वारभूताभिः पर्जन्यो देवतात्मा अन्वायत्तः अनुगत उपतिष्ठत इत्यर्थः। स च अन्नभूतोऽक्षितिः प्राणस्य, ‘पर्जन्ये वर्षत्यानन्दिनः प्राणा भवन्ति’ (PrasU.2.10) इति श्रुत्यन्तरात्। या कनीनका दृक्शक्तिः तया कनीनकया द्वारेण आदित्यो मध्यमं प्राणमुपतिष्ठते। यत्कृष्णं चक्षुषि, तेन एनम् अग्निः उपतिष्ठते। यच्छुक्लं चक्षुषि, तेन इन्द्रःअधरया वर्तन्या पक्ष्मणा एनं पृथिवी अन्वायत्ता, अधरत्वसामान्यात्। द्यौः उत्तरया, ऊर्ध्वत्वसामान्यात्। एताः सप्त अन्नभूताः प्राणस्य सन्ततमुपतिष्ठन्ते – इत्येवं यो वेद, तस्यैतत्फलम् – नास्यान्नं क्षीयते, य एवं वेद
🔗  तत् तत्र एतस्मिन्नर्थे एष श्लोकः मन्त्रो भवतिअर्वाग्बिलश्चमसः इत्यादिः। तत्र मन्त्रार्थमाचष्टे श्रुतिः – अर्वाग्बिलश्चमसः ऊर्ध्वबुध्नः इति। कः पुनरसावर्वाग्बिलश्चमस ऊर्ध्वबुध्नः? इदं तत्; शिरः चमसाकारं हि तत्; कथम्? एष हि अर्वाग्बिलः मुखस्य बिलरूपत्वात्, शिरसो बुध्नाकारत्वात् ऊर्ध्वबुध्नः। तस्मिन् यशो निहितं विश्वरूपमिति – यथा सोमः चमसे, एवं तस्मिन् शिरसि विश्वरूपं नानारूपं निहितं स्थितं भवति। किं पुनस्तत्? यशः – प्राणाः वै यशो विश्वरूपम् – प्राणाः श्रोत्रादयः वायवश्च मरुतः सप्तधा तेषु प्रसृताः यशः – इति एतदाह मन्त्रः, शब्दादिज्ञानहेतुत्वात्। तस्य आसते ऋषयः सप्त तीरे इति – प्राणाः परिस्पन्दात्मकाः, त एव च ऋषयः, प्राणानेतदाह मन्त्रः। वागष्टमी ब्रह्मणा संविदानेति – ब्रह्मणा संवादं कुर्वन्ती अष्टमी भवति; तद्धेतुमाह – वाग्घ्यष्टमी ब्रह्मणा संवित्ते इति॥
🔗  के पुनस्तस्य चमसस्य तीर आसत ऋषय इति – इमावेव गोतमभरद्वाजौ कर्णौ – अयमेव गोतमः अयं भरद्वाजः दक्षिणश्च उत्तरश्च, विपर्ययेण वा। तथा चक्षुषी उपदिशन्नुवाच – इमावेव विश्वामित्रजमदग्नी दक्षिणं विश्वामित्रः उत्तरं जमदग्निः, विपर्ययेण वा। इमावेव वसिष्ठकश्यपौ – नासिके उपदिशन्नुवाच; दक्षिणः पुटो भवति वसिष्ठः; उत्तरः कश्यपः – पूर्ववत्। वागेव अत्रिः अदनक्रियायोगात् सप्तमः; वाचा ह्यन्नमद्यते; तस्माद् अत्तिर्हि वै प्रसिद्धं नामैतत् – अत्तृत्वादत्तिरिति, अत्तिरेव सन् यदत्रिरिति उच्यते परोक्षेण। सर्वस्य एतस्यान्नजातस्य प्राणस्य, अत्रिनिर्वचनविज्ञानाद् अत्ता भवति। अत्तैव भवति नामुष्मिन्नन्येन पुनः प्रत्यद्यते इत्येतदुक्तं भवति – सर्वमस्यान्नं भवति इति। य एवम् एतत् यथोक्तं प्राणयाथात्म्यं वेद, स एवं मध्यमः प्राणो भूत्वा आधानप्रत्याधानगतो भोक्तैव भवति, न भोज्यम्; भोज्याद्व्यावर्तत इत्यर्थः॥

Go to Top ('Home' key on many Windows browsers)

BrhU.2.03

🔗  तत्र प्राणा वै सत्यमित्युक्तम्। याः प्राणानामुपनिषदः, ताः ब्रह्मोपनिषत्प्रसङ्गेन व्याख्याताः – एते ते प्राणा इति च। ते किमात्मकाः कथं वा तेषां सत्यत्वमिति च वक्तव्यमिति पञ्चभूतानां सत्यानां कार्यकरणात्मकानां स्वरूपावधारणार्थम् इदं ब्राह्मणमारभ्यते – यदुपाधिविशेषापनयद्वारेण ‘नेति नेति’ (BrhU.2.3.6) इति ब्रह्मणः सतत्त्वं निर्दिधारयिषितम्। तत्र द्विरूपं ब्रह्म पञ्चभूतजनितकार्यकरणसम्बद्धं मूर्तामूर्ताख्यं मर्त्यामृतस्वभावं तज्जनितवासनारूपं च सर्वज्ञं सर्वशक्ति सोपाख्यं भवति। क्रियाकारकफलात्मकं च सर्वव्यवहारास्पदम्। तदेव ब्रह्म विगतसर्वोपाधिविशेषं सम्यग्दर्शनविषयम् अजरम् अमृतम् अभयम्, वाङ्मनसयोरप्यविषयम् अद्वैतत्वात् ‘नेति नेति’ (BrhU.2.3.6) इति निर्दिश्यते। तत्र यदपोहद्वारेण ‘नेति नेति’ (BrhU.2.3.6) इति निर्दिश्यते ब्रह्म, ते एते द्वे वाव – वावशब्दोऽवधारणार्थः – द्वे एवेत्यर्थः – ब्रह्मणः परमात्मनः रूपे – रूप्यते याभ्याम् अरूपं परं ब्रह्म अविद्याध्यारोप्यमाणाभ्याम्। के ते द्वे? मूर्तं चैव मूर्तमेव च; तथा अमूर्तं च अमूर्तमेव चेत्यर्थः। अन्तर्णीतस्वात्मविशेषणे मूर्तामूर्ते द्वे एवेत्यवधार्येते; कानि पुनस्तानि विशेषणानि मूर्तामूर्तयोरित्युच्यन्ते – मर्त्यं च मर्त्यं मरणधर्मि, अमृतं च तद्विपरीतम्, स्थितं च – परिच्छिन्नं गतिपूर्वकं यत्स्थास्नु, यच्च – यातीति यत् – व्यापि अपरिच्छिन्नं स्थितविपरीतम्, सच्च – सदित्यन्येभ्यो विशेष्यमाणासाधारणधर्मविशेषवत्, त्यच्च – तद्विपरीतम् ‘त्यत्’ इत्येव सर्वदा परोक्षाभिधानार्हम्॥
🔗  तत्र चतुष्टयविशेषणविशिष्टं मूर्तम्, तथा अमूर्तं च; तत्र कानि मूर्तविशेषणानि कानि चेतराणीति विभज्यते। तदेतन्मूर्तं मूर्छितावयवम् इतरेतरानुप्रविष्टावयवं घनं संहतमित्यर्थः। किं तत्? यदन्यत्; कस्मादन्यत्? वायोश्चान्तरिक्षाच्च भूतद्वयात् – परिशेषात्पृथिव्यादिभूतत्रयम्; एतन्मर्त्यम् – यदेतन्मूर्ताख्यं भूतत्रयम् इदं मर्त्यं मरणधर्मि; कस्मात्? यस्मात् स्थितमेतत्; परिच्छिन्नं ह्यर्थान्तरेण सम्प्रयुज्यमानं विरुध्यते – यथा घटः स्तम्भकुड्यादिना; तथा मूर्तं स्थितं परिच्छिन्नम् अर्थान्तरसम्बन्धि ततोऽर्थान्तरविरोधान्मर्त्यम्; एतत्सत् विशेष्यमाणासाधारणधर्मवत्, तस्माद्धि परिच्छिन्नम्, परिच्छिन्नत्वान्मर्त्यम्, अतो मूर्तम्; मूर्तत्वाद्वा मर्त्यम्, मर्त्यत्वात्स्थितम्, स्थितत्वात्सत्। अतः अन्योन्याव्यभिचारात् चतुर्णां धर्माणां यथेष्टं विशेषणविशेष्यभावो हेतुहेतुमद्भावश्च दर्शयितव्यः। सर्वथापि तु भूतत्रयं चतुष्टयविशेषणविशिष्टं मूर्तं रूपं ब्रह्मणः। तत्र चतुर्णामेकस्मिन्गृहीते विशेषणे इतरद्गृहीतमेव विशेषणमित्याह – तस्यैतस्य मूर्तस्य, एतस्य मर्त्यस्य, एतस्य स्थितस्य, एतस्य सतः – चतुष्टयविशेषणस्य भूतत्रयस्येत्यर्थः – एष रसः सार इत्यर्थः; त्रयाणां हि भूतानां सारिष्ठः सविता; एतत्साराणि त्रीणि भूतानि, यत एतत्कृतविभज्यमानरूपविशेषणानि भवन्ति; आधिदैविकस्य कार्यस्यैतद्रूपम् – यत्सविता यदेतन्मण्डलं तपति; सतो भूतत्रयस्य हि यस्मात् एष रसः इति एतद्गृह्यते; मूर्तो हि एष सविता तपति, सारिष्ठश्च। यत्तु आधिदैविकं करणं मण्डलस्याभ्यन्तरम्, तद्वक्ष्यामः॥
🔗  अथामूर्तम् – अथ अधुना अमूर्तम् उच्यते। वायुश्चान्तरिक्षं च यत्परिशेषितं भूतद्वयम् – एतत् अमृतम्, अमूर्तत्वात्, अस्थितम्, अतोऽविरुध्यमानं केनचित्, अमृतम्, अमरणधर्मि; एतत् यत् स्थितविपरीतम्, व्यापि, अपरिच्छिन्नम्; यस्मात् यत् एतत् अन्येभ्योऽप्रविभज्यमानविशेषम्, अतः त्यत् ‘त्यत्’ इति परोक्षाभिधानार्हमेव – पूर्ववत्। तस्यैतस्यामूर्तस्य एतस्यामृतस्य एतस्य यतः एतस्य त्यस्य चतुष्टयविशेषणस्यामूर्तस्य एष रसः; कोऽसौ? य एष एतस्मिन्मण्डले पुरुषः – करणात्मको हिरण्यगर्भः प्राण इत्यभिधीयते यः, स एषः अमूर्तस्य भूतद्वयस्य रसः पूर्ववत् सारिष्ठः। एतत्पुरुषसारं चामूर्तं भूतद्वयम् – हैरण्यगर्भलिङ्गारम्भाय हि भूतद्वयाभिव्यक्तिरव्याकृतात्; तस्मात् तादर्थ्यात् तत्सारं भूतद्वयम्। त्यस्य ह्येष रसः – यस्मात् यः मण्डलस्थः पुरुषो मण्डलवन्न गृह्यते सारश्च भूतद्वयस्य, तस्मादस्ति मण्डलस्थस्य पुरुषस्य भूतद्वयस्य च साधर्म्यम्। तस्मात् युक्तं प्रसिद्धवद्धेतूपादानम् – त्यस्य ह्येष रस इति।
रसः कारणं हिरण्यगर्भविज्ञानात्मा चेतन इति केचित्; तत्र च किल हिरण्यगर्भविज्ञानात्मनः कर्म वाय्वन्तरिक्षयोः प्रयोक्तृ; तत्कर्म वाय्वन्तरिक्षाधारं सत् अन्येषां भूतानां प्रयोक्तृ भवति; तेन स्वकर्मणा वाय्वन्तरिक्षयोः प्रयोक्तेति तयोः रसः कारणमुच्यत इति। तन्न मूर्तरसेन अतुल्यत्वात्; मूर्तस्य तु भूतत्रयस्य रसो मूर्तमेव मण्डलं दृष्टं भूतत्रयसमानजातीयम्; न चेतनः; तथा अमूर्तयोरपि भूतयोः तत्समानजातीयेनैव अमूर्तरसेन युक्तं भवितुम्, वाक्यप्रवृत्तेस्तुल्यत्वात्; यथा हि मूर्तामूर्ते चतुष्टयधर्मवती विभज्येते, तथा रसरसवतोरपि मूर्तामूर्तयोः तुल्येनैव न्यायेन युक्तो विभागः; न त्वर्धवैशसम्। मूर्तरसेऽपि मण्डलोपाधिश्चेतनो विवक्ष्यत इति चेत् – अत्यल्पमिदमुच्यते, सर्वत्रैव तु मूर्तामूर्तयोः ब्रह्मरूपेण विवक्षितत्वात्। पुरुषशब्दः अचेतनेऽनुपपन्न इति चेत्, न, पक्षपुच्छादिविशिष्टस्यैव लिङ्गस्य पुरुषशब्ददर्शनात्, ‘न वा इत्थं सन्तः शक्ष्यामः प्रजाः प्रजनयितुमिमान्सप्त पुरुषानेकं पुरुषं करवामेति त एतान्सप्त पुरुषानेकं पुरुषमकुर्वन्’ (शत. ब्रा. ६-१-१-३) इत्यादौ अन्नरसमयादिषु च श्रुत्यन्तरे पुरुषशब्दप्रयोगात्। इत्यधिदैवतम् इति उक्तोपसंहारः अध्यात्मविभागोक्त्यर्थः॥
🔗  अथ अधुना अध्यात्मं मूर्तामूर्तयोर्विभाग उच्यते। किं तत् मूर्तम्? इदमेव; किञ्चेदम्? यदन्यत् प्राणाच्च वायोः, यश्चायम् अन्तः अभ्यन्तरे आत्मन् आत्मनि आकाशः खम्, शरीरस्थश्च यः प्राणः – एतद्द्वयं वर्जयित्वा यदन्यत् शरीरारम्भकं भूतत्रयम्; एतन्मर्त्यम् इत्यादि समानमन्यत्पूर्वेण। एतस्य सतो ह्येष रसःयच्चक्षुरिति; आध्यात्मिकस्य शरीरारम्भकस्य कार्यस्य एष रसः सारः; तेन हि सारेण सारवदिदं शरीरं समस्तम् – यथा अधिदैवतमादित्यमण्डलेन; प्राथम्याच्च – चक्षुषी एव प्रथमे सम्भवतः सम्भवत इति, ‘तेजो रसो निरवर्तताग्निः’ (BrhU.1.2.2) इति लिङ्गात्; तैजसं हि चक्षुः; एतत्सारम् आध्यात्मिकं भूतत्रयम्; सतो ह्येष रसः इति मूर्तत्वसारत्वे हेत्वर्थः॥
🔗  अथ अधुना अमूर्तम् उच्यते। यत्परिशेषितं भूतद्वयं प्राणश्च यश्चायमन्तर् आत्मन्नाकाशः, एतदमूर्तम्। अन्यत्पूर्ववत्। एतस्य त्यस्य एष रसः सारः, योऽयं दक्षिणेऽक्षन्पुरुषः – दक्षिणेऽक्षन्निति विशेषग्रहणम्, शास्त्रप्रत्यक्षत्वात्; लिङ्गस्य हि दक्षिणेऽक्ष्णि विशेषतोऽधिष्ठातृत्वं शास्त्रस्य प्रत्यक्षम्, सर्वश्रुतिषु तथा प्रयोगदर्शनात्। त्यस्य ह्येष रस इति पूर्ववत् विशेषतः अग्रहणात् अमूर्तत्वसारत्व एव हेत्वर्थः॥
🔗  ब्रह्मण उपाधिभूतयोर्मूर्तामूर्तयोः कार्यकरणविभागेन अध्यात्माधिदैवतयोः विभागो व्याख्यातः सत्यशब्दवाच्ययोः। अथेदानीं तस्य हैतस्य पुरुषस्य करणात्मनो लिङ्गस्य रूपं वक्ष्यामः वासनामयं मूर्तामूर्तवासनाविज्ञानमयसंयोगजनितं विचित्रं पटभित्तिचित्रवत् मायेन्द्रजालमृगतृष्णिकोपमं सर्वव्यामोहास्पदम् – एतावन्मात्रमेव आत्मेति विज्ञानवादिनो वैनाशिका यत्र भ्रान्ताः, एतदेव वासनारूपं पटरूपवत् आत्मनो द्रव्यस्य गुण इति नैयायिका वैशेषिकाश्च सम्प्रतिपन्नाः, इदम् आत्मार्थं त्रिगुणं स्वतन्त्रं प्रधानाश्रयं पुरुषार्थेन हेतुना प्रवर्तत इति सांख्याः।
औपनिषदम्मन्या अपि केचित्प्रक्रियां रचयन्ति – मूर्तामूर्तराशिरेकः, परमात्मराशिरुत्तमः, ताभ्यामन्योऽयं मध्यमः किल तृतीयः कर्त्रा भोक्त्रा विज्ञानमयेन अजातशत्रुप्रतिबोधितेन सह विद्याकर्मपूर्वप्रज्ञासमुदायः; प्रयोक्ता कर्मराशिः, प्रयोज्यः पूर्वोक्तो मूर्तामूर्तभूतराशिः साधनं चेति। तत्र च तार्किकैः सह सन्धिंं कुर्वन्ति। लिङ्गाश्रयश्च एष कर्मराशिरित्युक्त्वा, पुनस्ततस्त्रस्यन्तः सांख्यत्वभयात् – सर्वः कर्म राशिः – पुष्पाश्रय इव गन्धः पुष्पवियोगेऽपि पुटतैलाश्रयो भवति, तद्वत् – लिङ्गवियोगेऽपि परमात्मैकदेशमाश्रयति, सपरमात्मैकदेशः किल अन्यत आगतेन गुणेन कर्मणा सगुणो भवति निर्गुणोऽपि सन्, स कर्ता भोक्ता बध्यते मुच्यते च विज्ञानात्मा – इति वैशेषिकचित्तमप्यनुसरन्ति; स च कर्मराशिः भूतराशेरागन्तुकः, स्वतो निर्गुण एव परमात्मैकदेशत्वात्, स्वत उत्थिता अविद्या अनागन्तुकापि ऊषरवत् अनात्मधर्मः – इत्यनया कल्पनया सांख्यचित्तमनुवर्तन्ते।
सर्वमेतत् तार्किकैः सह सामञ्जस्यकल्पनया रमणीयं पश्यन्ति, न उपनिषत्सिद्धान्तं सर्वन्यायविरोधं च पश्यन्ति; कथम्? उक्ता एव तावत् सावयवत्वे परमात्मनः संसारित्वसव्रणत्वकर्मफलदेशसंसरणानुपपत्त्यादयो दोषाः; नित्यभेदे च विज्ञानात्मनः परेण एकत्वानुपपत्तिः। लिङ्गमेवेति चेत् परमात्मन उपचरितदेशत्वेन कल्पितं घटकरकभूछिद्राकाशादिवत्, तथा लिङ्गवियोगेऽपि परमात्मदेशाश्रयणं वासनायाः। अविद्यायाश्च स्वत उत्थानम् ऊषरवत् – इत्यादिकल्पनानुपपन्नैव। न च वास्यदेशव्यतिरेकेण वासनाया वस्त्वन्तरसञ्चरणं मनसापि कल्पयितुं शक्यम्। न च श्रुतयो अवगच्छन्ति – ‘कामः सङ्कल्पो विचिकित्सा’ (BrhU.1.5.3) ‘हृदये ह्येव रूपाणि’ (BrhU.3.9.20) ‘ध्यायतीव लेलायतीव’ (BrhU.4.3.7) ‘कामा येऽस्य हृदि श्रिताः’ (BrhU.4.4.7) ‘तीर्णो हि तदा सर्वाञ्शोकान्हृदयस्य’ (BrhU.4.3.22) इत्याद्याः। न च आसां श्रुतीनां श्रुतादर्थान्तरकल्पना न्याय्या, आत्मनः परब्रह्मत्वोपपादनार्थपरत्वादासाम्, एतावन्मात्रार्थोपक्षयत्वाच्च सर्वोपनिषदाम्। तस्मात् श्रुत्यर्थकल्पनाकुशलाः सर्व एव उपनिषदर्थमन्यथा कुर्वन्ति। तथापि वेदार्थश्चेत्स्यात्, कामं भवतु, न मे द्वेषः। न च ‘द्वे वाव ब्रह्मणो रूपे’ इति राशित्रयपक्षे समञ्जसम्; यदा तु मूर्तामूर्ते तज्जनितवासनाश्च मूर्तामूर्ते द्वे रूपे, ब्रह्म च रूपि तृतीयम्, न चान्यत् चतुर्थमन्तराले – तदा एतत् अनुकूलमवधारणम्, द्वे एव ब्रह्मणो रूपे इति; अन्यथा ब्रह्मैकदेशस्य विज्ञानात्मनो रूपे इति कल्प्यम्, परमात्मनो वा विज्ञानात्मद्वारेणेति; तदा च रूपे एवेति द्विवचनमसमञ्जसम्; रूपाणीति वासनाभिः सह बहुवचनं युक्ततरं स्यात् – द्वे च मूर्तामूर्ते वासनाश्च तृतीयमिति। अथ मूर्तामूर्ते एव परमात्मनो रूपे, वासनास्तु विज्ञानात्मन इति चेत् – तदा विज्ञानात्मद्वारेण विक्रियमाणस्य परमात्मनः – इतीयं वाचो युक्तिरनर्थिका स्यात्, वासनाया अपि विज्ञानात्मद्वारत्वस्य अविशिष्टत्वात्; न च वस्तु वस्त्वन्तरद्वारेण विक्रियत इति मुख्यया वृत्त्या शक्यं कल्पयितुम्; न च विज्ञानात्मा परमात्मनो वस्त्वन्तरम्, तथा कल्पनायां सिद्धान्तहानात्। तस्मात् वेदार्थमूढानां स्वचित्तप्रभवा एवमादिकल्पना अक्षरबाह्याः; न ह्यक्षरबाह्यो वेदार्थः वेदार्थोपकारी वा, निरपेक्षत्वात् वेदस्य प्रामाण्यं प्रति। तस्मात् राशित्रयकल्पना असमञ्जसा।
‘योऽयं दक्षिणेऽक्षन्पुरुषः’ (BrhU.2.3.5) इति लिङ्गात्मा प्रस्तुतः अध्यात्मे, अधिदैवे च ‘य एष एतस्मिन्मण्डले पुरुषः’ (BrhU.2.3.3) इति, ‘तस्य’ इति प्रकृतोपादनात् स एवोपादीयते – योऽसौ त्यस्यामूर्तस्य रसः, न तु विज्ञानमयः। ननु विज्ञानमयस्यैव एतानि रूपाणि कस्मान्न भवन्ति, विज्ञानमयस्यापि प्रकृतत्वात्, ‘तस्य’ इति च प्रकृतोपादानात् – नैवम्, विज्ञानमयस्य अरूपित्वेन विजिज्ञापयिषितत्वात्; यदि हि तस्यैव विज्ञानमयस्य एतानि माहारजनादीनि रूपाणि स्युः, तस्यैव ‘नेति नेति’ (BrhU.2.3.6) इत्यनाख्येयरूपतया आदेशो न स्यात्। ननु अन्यस्यैव असावादेशः, न तु विज्ञानमयस्येति – न, षष्ठान्ते उपसंहरात् – ‘विज्ञातारमरे केन विजानीयात्’ (BrhU.4.5.15) इति विज्ञानमयं प्रस्तुत्य ‘स एष नेति नेति’ (BrhU.4.5.15) – इति; ‘विज्ञपयिष्यामि’ (BrhU.2.1.15) इति च प्रतिज्ञाया अर्थवत्त्वात् – यदि च विज्ञानमयस्यैव असंव्यवहार्यमात्मस्वरूपं ज्ञापयितुमिष्टं स्यात् प्रध्वस्तसर्वोपाधिविशेषम्, तत इयं प्रतिज्ञा अर्थवती स्यात् – येन असौ ज्ञापितो जानात्यात्मानमेव अहं ब्रह्मास्मीति, शास्त्रनिष्ठां प्राप्नोति, न बिभेति कुतश्चन; अथ पुनः अन्यो विज्ञानमयः, अन्यः ‘नेति नेति’ (BrhU.2.3.6) इति व्यपदिश्यते – तदा अन्यददो ब्रह्म अन्योऽहमस्मीति विपर्ययो गृहीतः स्यात्, न ‘आत्मानमेवावेदहं ब्रह्मास्मि’ (BrhU.1.4.10) इति। तस्मात् ‘तस्य हैतस्य’ इति लिङ्गपुरुषस्यैव एतानि रूपाणि। सत्यस्य च सत्ये परमात्मस्वरूपे वक्तव्ये निरवशेषं सत्यं वक्तव्यम्; सत्यस्य च विशेषरूपाणि वासनाः; तासामिमानि रूपाण्युच्यन्ते।
एतस्य पुरुषस्य प्रकृतस्य लिङ्गात्मन एतानि रूपाणि; कानि तानीत्युच्यन्ते – यथा लोके, महारजनं हरिद्रा तया रक्तं माहारजनम् यथा वासो लोके, एवं स्त्र्यादिविषयसंयोगे तादृशं वासनारूपं रञ्जनाकारमुत्पद्यते चित्तस्य, येनासौ पुरुषो रक्त इत्युच्यते वस्त्रादिवत् – यथा च लोके पाण्ड्वाविकम्, अवेरिदम् आविकम् ऊर्णादि, यथा च तत् पाण्डुरं भवति, तथा अन्यद्वासनारूपम् – यथा च लोके इन्द्रगोपः अत्यन्तरक्तो भवति, एवमस्य वासनारूपम् – क्वचिद्विषयविशेषापेक्षया रागस्य तारतम्यम्, क्वचित्पुरुषचित्तवृत्त्यपेक्षया – यथा च लोके अग्न्यर्चिः भास्वरं भवति, तथा क्वचित् कस्यचित् वासनारूपं भवति – यथा पुण्डरीकं शुक्लम्, तद्वदपि च वासनारूपं कस्यचिद्भवति – यथा सकृद्विद्युत्तम्, यथा लोके सकृद्विद्योतनं सर्वतः प्रकाशकं भवति, तथा ज्ञानप्रकाशविवृद्ध्यपेक्षया कस्यचित् वासनारूपम् – उपजायते। न एषां वासनारूपाणाम् आदिः अन्तः मध्यं सङ्ख्या वा, देशः कालो निमित्तं वा अवधार्यते – असङ्ख्येयत्वाद्वासनायाः, वासनाहेतूनां च आनन्त्यात्। तथा च वक्ष्यति षष्ठे ‘इदम्मयोऽदोमयः’ (BrhU.4.4.5) इत्यादि। तस्मात् न स्वरूपसङ्ख्यावधारणार्था दृष्टान्ताः – ‘यथा माहारजनं वासः’ इत्यादयः; किं तर्हि प्रकारप्रदर्शनार्थाः – एवम्प्रकाराणि हि वासनारूपाणीति। यत्तु वासनारूपमभिहितमन्ते – सकृद्विद्योतनमिवेति, तत्किल हिरण्यगर्भस्य अव्याकृतात्प्रादुर्भवतः तडिद्वत् सकृदेव व्यक्तिर्भवतीति; तत् तदीयं वासनारूपं हिरण्यगर्भस्य यो वेद तस्य सकृद्विद्युत्तेव, ह वै इत्यवधारणार्थौ, एवमेव अस्य श्रीः ख्यातिः भवति इत्यर्थः, यथा हिरण्यगर्भस्य – एवम् एतत् यथोक्तं वासनारूपमन्त्यम् यो वेद
एवं निरवशेषं सत्यस्य स्वरूपमभिधाय, यत्तत्सत्यस्य सत्यमवोचाम तस्यैव स्वरूपावधारणार्थं ब्रह्मण इदमारभ्यते – अथ अनन्तरं सत्यस्वरूपनिर्देशानन्तरम्, यत्सत्यस्य सत्यं तदेवावशिष्यते यस्मात् – अतः तस्मात्, सत्यस्य सत्यं स्वरूपं निर्देक्ष्यामः; आदेशः निर्देशः ब्रह्मणः; कः पुनरसौ निर्देश इत्युच्यते – नेति नेति इत्येवं निर्देशः।
ननु कथम् आभ्यां ‘नेति नेति’ (BrhU.2.3.6) इति शब्दाभ्यां सत्यस्य सत्यं निर्दिदिक्षितमिति, उच्यते – सर्वोपाधिविशेषापोहेन। यस्मिन्न कश्चिद्विशेषोऽस्ति – नाम वा रूपं वा कर्म वा भेदो वा जातिर्वा गुणो वा; तद्द्वारेण हि शब्दप्रवृत्तिर्भवति; न चैषां कश्चिद्विशेषो ब्रह्मण्यस्ति; अतो न निर्देष्टुं शक्यते – इदं तदिति – गौरसौ स्पन्दते शुक्लो विषाणीति यथा लोके निर्दिश्यते, तथा; अध्यारोपितनामरूपकर्मद्वारेण ब्रह्म निर्दिश्यते ‘विज्ञानमानन्दं ब्रह्म’ (BrhU.3.9.28) ‘विज्ञानघन एव ब्रह्मात्मा’ (BrhU.2.4.12) इत्येवमादिशब्दैः। यदा पुनः स्वरूपमेव निर्दिदिक्षितं भवति निरस्तसर्वोपाधिविशेषम्, तदा न शक्यते केनचिदपि प्रकारेण निर्देष्टुम्; तदा अयमेवाभ्युपायः – यदुत प्राप्तनिर्देशप्रतिषेधद्वारेण ‘नेति नेति’ (BrhU.2.3.6) इति निर्देशः।
इदं च नकारद्वयं वीप्साव्याप्त्यर्थम्; यद्यत्प्राप्तं तत्तत् निषिध्यते; तथा च सति अनिर्दिष्टाशङ्का ब्रह्मणः परिहृता भवति; अन्यथा हि नकारद्वयेन प्रकृतद्वयप्रतिषेधे, यदन्यत् प्रकृतात्प्रतिषिद्धद्वयात् ब्रह्म, तन्न निर्दिष्टम्, कीदृशं नु खलु – इत्याशङ्का न निवर्तिष्यते; तथा च अनर्थकश्च स निर्देशः, पुरुषस्य विविदिषाया अनिवर्तकत्वात्; ‘ब्रह्म ज्ञपयिष्यामि’ इति च वाक्यम् अपरिसमाप्तार्थं स्यात्। यदा तु सर्वदिक्कालादिविविदिषा निवर्तिता स्यात् सर्वोपाधिनिराकरणद्वारेण, तदा सैन्धवघनवत् एकरसं प्रज्ञानघनम् अनन्तरमबाह्यं सत्यस्य सत्यम् अहं ब्रह्म अस्मीति सर्वतो निवर्तते विविदिषा, आत्मन्येवावस्थिता प्रज्ञा भवति। तस्मात् वीप्सार्थं नेति नेतीति नकारद्वयम्। ननु महता यत्नेन परिकरबन्धं कृत्वा किं युक्तम् एवं निर्देष्टुं ब्रह्म? बाढम्; कस्मात्? न हि – यस्मात्, ‘इति न, इति न’ इति एतस्मात्इति इति व्याप्तव्यप्रकारा नकारद्वयविषया निर्दिश्यन्ते, यथा ग्रामो ग्रामो रमणीय इति – अन्यत्परं निर्देशनं नास्ति; तस्मादयमेव निर्देशो ब्रह्मणः। यदुक्तम् – ‘तस्योपनिषत्सत्यस्य सत्यम्’ (BrhU.2.1.20) इति, एवम्प्रकारेण सत्यस्य सत्यं तत् परं ब्रह्म; अतो युक्तमुक्तं नामधेयं ब्रह्मणः, नामैव नामधेयम्; किं तत् सत्यस्य सत्यं प्राणा वै सत्यं तेषामेष सत्यम् इति॥

Go to Top ('Home' key on many Windows browsers)

BrhU.2.04

🔗  आत्मेत्येवो पासीत; तदेव एतस्मिन् सर्वस्मिन् पदनीयम् आत्मतत्त्वम्, यस्मात् प्रेयः पुत्रादेः – इत्युपन्यस्तस्य वाक्यस्य व्याख्यानविषये सम्बन्धप्रयोजने अभिहिते – ‘तदात्मानमेवावेदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवत्’ (BrhU.1.4.10) इति; एवं प्रत्यगात्मा ब्रह्मविद्याया विषय इत्येतत् उपन्यस्तम्। अविद्यायाश्च विषयः – ‘अन्योऽसावन्योऽहमस्मीति न स वेद’ (BrhU.1.4.10) इत्यारभ्य चातुर्वर्ण्यप्रविभागादिनिमित्तपाङ्क्तकर्मसाध् यसाधनलक्षणः बीजाङ्कुरवत् व्याकृताव्याकृतस्वभावः नामरूपकर्मात्मकः संसारः ‘त्रयं वा इदं नाम रूपं कर्म’ (BrhU.1.6.1) इत्युपसंहृतः शास्त्रीय उत्कर्षलक्षणो ब्रह्मलोकान्तः अधोभावश्च स्थावरान्तोऽशास्त्रीयः, पूर्वमेव प्रदर्शितः – ‘द्वया ह’ (BrhU.1.3.1) इत्यादिना। एतस्मादविद्याविषयाद्विरक्तस्य प्रत्यगात्मविषयब्रह्मविद्यायाम् अधिकारः कथं नाम स्यादिति – तृतीयेऽध्याये उपसंहृतः समस्तोऽविद्याविषयः। चतुर्थे तु ब्रह्मविद्याविषयं प्रत्यगात्मानम् ‘ब्रह्म ते ब्रवाणि’ (BrhU.2.1.1) इति ‘ब्रह्म ज्ञपयिष्यामि’ (BrhU.2.1.1) इति च प्रस्तुत्य, तत् ब्रह्म एकम् अद्वयं सर्वविशेषशून्यं क्रियाकारकफलस्वभावसत्यशब्दवाच्याशेषभूतधर्मप्रतिषेधद्वारेण ‘नेति नेति’ (BrhU.2.3.6) इति ज्ञापितम्। अस्या ब्रह्मविद्याया अङ्गत्वेन सन्न्यासो विधित्सितः, जायापुत्रवित्तादिलक्षणं पाङ्क्तं कर्म अविद्याविषयं यस्मात् न आत्मप्राप्तिसाधनम्; अन्यसाधनं हि अन्यस्मै फलसाधनाय प्रयुज्यमानं प्रतिकूलं भवति; न हि बुभुक्षापिपासानिवृत्त्यर्थं धावनं गमनं वा साधनम्; मनुष्यलोकपितृलोकदेवलोकसाधनत्वेन हि पुत्रादिसाधनानि श्रुतानि, न आत्मप्राप्तिसाधनत्वेन, विशेषितत्वाच्च; न च ब्रह्मविदो विहितानि, काम्यत्वश्रवणात् – ‘एतावान्वै कामः’ (BrhU.1.4.17) इति, ब्रह्मविदश्च आप्तकामत्वात् आप्तकामस्य कामानुपपत्तेः, ‘येषां नोऽयमात्मायं लोकः’ (BrhU.4.4.22) इति च श्रुतेः। केचित्तु ब्रह्मविदोऽप्येषणासम्बन्धं वर्णयन्ति; तैर्बृहदारण्यकं न श्रुतम्; पुत्राद्येषणानामविद्वद्विषयत्वम्, विद्याविषये च – ‘येषां नोऽयमात्मायं लोकः’ (BrhU.4.4.22) इत्यतः ‘किं प्रजया करिष्यामः’ इति – एष विभागः तैर्न श्रुतः श्रुत्या कृतः; सर्वक्रियाकारकफलोपमर्दस्वरूपायां च विद्यायां सत्याम्, सह कार्येण अविद्याया अनुपपत्तिलक्षणश्च विरोधः तैर्न विज्ञातः; व्यासवाक्यं च तैर्न श्रुतम्। कर्मविद्यास्वरूपयोः विद्याविद्यात्मकयोः प्रतिकूलवर्तनं विरोधः। ‘यदिदं वेदवचनं कुरु कर्म त्यजेति च। कां गतिं विद्यया यान्ति कां च गच्छन्ति कर्मणा’ (मो. ध. २४१-१-२)॥एतद्वै श्रोतुमिच्छामि तद्भवान्प्रब्रवीतु मे। एतावन्योन्यवैरुप्ये वर्तेते प्रतिकूलतः’ इत्येवं पृष्टस्य प्रतिवचनेन – ‘कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते। तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः’ (मो. ध. २४१-७) इत्येवमादि – विरोधः प्रदर्शितः। तस्मात् न साधनान्तरसहिता ब्रह्मविद्या पुरुषार्थसाधनम्, सर्वविरोधात्, साधननिरपेक्षैव पुरुषार्थसाधनम् – इति पारिव्राज्यं सर्वसाधनसन्न्यासलक्षणम् अङ्गत्वेन विधित्स्यते; एतावदेवामृतत्वसाधनमित्यवधारणात्, षष्ठसमाप्तौ, लिङ्गाच्च – कर्मी सन्याज्ञवल्क्यः प्रवव्राजेति। मैत्रेय्यै च कर्मसाधनरहितायै साधनत्वेनामृतत्वस्य ब्रह्मविद्योपदेशात्, वित्तनिन्दावचनाच्च; यदि हि अमृतत्वसाधनं कर्म स्यात्, वित्तसाध्यं पाङ्क्तं कर्मेति – तन्निन्दावचनमनिष्टं स्यात्; यदि तु परितित्याजयिषितं कर्म, ततो युक्ता तत्साधननिन्दा। कर्माधिकारनिमित्तवर्णाश्रमादिप्रत्ययोपमर्दाच्च – ‘ब्रह्म तं परादात्’ (BrhU.2.4.6) ‘क्षत्रं तं परादात्’ (BrhU.2.4.6) इत्यादेः; न हि ब्रह्मक्षत्राद्यात्मप्रत्ययोपमर्दे, ब्राह्मणेनेदं कर्तव्यं क्षत्रियेणेदं कर्तव्यमिति विषयाभावात् आत्मानं लभते विधिः; यस्यैव पुरुषस्य उपमर्दितः प्रत्ययः ब्रह्मक्षत्राद्यात्मविषयः, तस्य तत्प्रत्ययसन्न्यासात् तत्कार्याणां कर्मणां कर्मसाधनानां च अर्थप्राप्तश्च सन्न्यासः। तस्मात् आत्मज्ञानाङ्गत्वेन सन्न्यासविधित्सयैव आख्यायिकेयमारभ्यते॥
मैत्रेयीति होवाच याज्ञवल्क्यः – मैत्रेयीं स्वभार्यामामन्त्रितवान् याज्ञवल्क्यो नाम ऋषिः; उद्यास्यन् ऊर्ध्वं यास्यन् पारिव्राज्याख्यमाश्रमान्तरम् वै; ‘अरे’ इति सम्बोधनम्; अहम्, अस्मात् गार्हस्थ्यात्, स्थानात् आश्रमात्, ऊर्ध्वं गन्तुमिच्छन् अस्मि भवामि; अतः हन्त अनुमतिं प्रार्थयामि ते तव; किञ्चान्यत् – ते तव अनया द्वितीयया भार्यया कात्यायन्या अन्तं विच्छेदं करवाणि; पतिद्वारेण युवयोर्मया सम्बध्यमानयोर्यः सम्बन्ध आसीत्, तस्य सम्बन्धस्य विच्छेदं करवाणि द्रव्यविभागं कृत्वा; वित्तेन संविभज्य युवां गमिष्यामि॥
🔗  सा एवमुक्ता ह उवाचयत् यदि, ‘नु’ इति वितर्के, मे मम इयं पृथिवी, भगोः भगवन्, सर्वा सागरपरिक्षिप्ता वित्तेन धनेन पूर्णा स्यात्; कथम्? न कथञ्चनेत्याक्षेपार्थः, प्रश्नार्थो वा, तेन पृथिवीपूर्णवित्तसाध्येन कर्मणा अग्निहोत्रादिना – अमृता किं स्यामिति व्यवहितेन सम्बन्धः। प्रत्युवाच याज्ञवल्क्यः – कथमिति यद्याक्षेपार्थम्, अनुमोदनम् – नेति होवाच याज्ञवल्क्यः इति; प्रश्नश्चेत् प्रतिवचनार्थम्; नैव स्याः अमृता, किं तर्हि यथैव लोके उपकरणवतां साधनवतां जीवितं सुखोपायभोगसम्पन्नम्, तथैव तद्वदेव तव जीवितं स्यात्; अमृतत्वस्य तु न आशा मनसापि अस्ति वित्तेन वित्तसाध्येन कर्मणा इति
🔗  सा होवाच मैत्रेयी। एवमुक्ता प्रत्युवाच मैत्रेयी – यद्येवं येनाहं नामृता स्याम्, किमहं तेन वित्तेन कुर्याम्? यदेव भगवान् केवलम् अमृतत्वसाधनं वेद, तदेव अमृतत्वसाधनं मे मह्यं ब्रूहि
🔗  स होवाच याज्ञवल्क्यः। एवं वित्तसाध्येऽमृतत्वसाधने प्रत्याख्याते, याज्ञवल्क्यः स्वाभिप्रायसम्पत्तौ तुष्ट आह – स होवाच – प्रिया इष्टा, बत इत्यनुकम्प्याह, अरे मैत्रेयि, नः अस्माकं पूर्वमपि प्रिया सती भवन्ती इदानीं प्रियम् एव चित्तानुकूलं भाषसे। अतः एहि आस्स्व उपविश व्याख्यास्यामि – यत् ते तव इष्टम् अमृतत्वसाधनमात्मज्ञानम् कथयिष्यामि। व्याचक्षाणस्य तु मे मम व्याख्यानं कुर्वतः, निदिध्यासस्व वाक्यानि अर्थतो निश्चयेन ध्यातुमिच्छेति॥
🔗  स होवाच – अमृतत्वसाधनं वैराग्यमुपदिदिक्षुः जायापतिपुत्रादिभ्यो विरागमुत्पादयति तत्सन्न्यासाय। न वै – वै-शब्दः प्रसिद्धस्मरणार्थः; प्रसिद्धमेव एतत् लोके; पत्युः भर्तुः कामाय प्रयोजनाय जायायाः पतिः प्रियो न भवति, किं तर्हि आत्मनस्तु कामाय प्रयोजनायैव भार्यायाः पतिः प्रियो भवति। तथा न वा अरे जायाया इत्यादि समानमन्यत्, न वा अरे पुत्राणाम्, न वा अरे वित्तस्य, न वा अरे ब्रह्मणः, न वा अरे क्षत्रस्य, न वा अरे लोकानाम्, न वा अरे देवानाम्, न वा अरे भूतानाम्, न वा अरे सर्वस्य। पूर्वं पूर्वं यथासन्ने प्रीतिसाधने वचनम्, तत्र तत्र इष्टतरत्वाद्वैराग्यस्य; सर्वग्रहणम् उक्तानुक्तार्थम्। तस्मात् लोकप्रसिद्धमेतत् – आत्मैव प्रियः, नान्यत्। ‘तदेतत्प्रेयः पुत्रात्’ (BrhU.1.4.8) इत्युपन्यस्तम्, तस्यैतत् वृत्तिस्थानीयं प्रपञ्चितम्। तस्मात् आत्मप्रीतिसाधनत्वात् गौणी अन्यत्र प्रीतिः, आत्मन्येव मुख्या। तस्मात् आत्मा वै अरे द्रष्टव्यः दर्शनार्हः, दर्शनविषयमापादयितव्यः; श्रोतव्यः पूर्वम् आचार्यत आगमतश्च; पश्चात् मन्तव्यः तर्कतः; ततो निदिध्यासितव्यः निश्चयेन ध्यातव्यः; एवं ह्यसौ दृष्टो भवति श्रवणमनननिदिध्यासनसाधनैर्निर्वर्तितैः; यदा एकत्वमेतान्युपगतानि, तदा सम्यग्दर्शनं ब्रह्मैकत्वविषयं प्रसीदति, न अन्यथा श्रवणमात्रेण। यत् ब्रह्मक्षत्रादि कर्मनिमित्तं वर्णाश्रमादिलक्षणम् आत्मन्यविद्याध्यारोपितप्रत्ययविषयं क्रियाकारकफलात्मकम् अविद्याप्रत्ययविषयम् – रज्ज्वामिव सर्पप्रत्ययः, तदुपमर्दनार्थमाह – आत्मनि खलु अरे मैत्रेयि दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितं विज्ञातं भवति॥
🔗  ननु कथम् अन्यस्मिन्विदिते अन्यद्विदितं भवति? नैष दोषः; न हि आत्मव्यतिरेकेण अन्यत्किञ्चिदस्ति; यद्यस्ति, न तद्विदितं स्यात्; न त्वन्यदस्ति; आत्मैव तु सर्वम्; तस्मात् सर्वम् आत्मनि विदिते विदितं स्यात्। कथं पुनरात्मैव सर्वमित्येतत् श्रावयति – ब्रह्म ब्राह्मणजातिः तं पुरुषं परादात् परादध्यात् पराकुर्यात्; कम्? यः अन्यत्रात्मनः आत्मस्वरूपव्यतिरेकेण – आत्मैव न भवतीयं ब्राह्मणजातिरिति – तां यो वेद, तं परादध्यात् सा ब्राह्मणजातिः अनात्मस्वरूपेण मां पश्यतीति; परमात्मा हि सर्वेषामात्मा। तथा क्षत्रं क्षत्रियजातिः, तथा लोकाः, देवाः, भूतानि, सर्वम्इदं ब्रह्म इति – यान्यनुक्रान्तानि तानि सर्वाणि, आत्मैव, यदयमात्मा – योऽयमात्मा द्रष्टव्यः श्रोतव्य इति प्रकृतः – यस्मात् आत्मनो जायते आत्मन्येव लीयत आत्ममयं च स्थितिकाले, आत्मव्यतिरेकेणाग्रहणात्, आत्मैव सर्वम्॥
🔗  कथं पुनः इदानीम् इदं सर्वमात्मैवेति ग्रहीतुं शक्यते? चिन्मात्रानुगमात्सर्वत्र चित्स्वरूपतैवेति गम्यते; तत्र दृष्टान्त उच्यते – यत्स्वरूपव्यतिरेकेणाग्रहणं यस्य, तस्य तदात्मत्वमेव लोके दृष्टम्; स यथा – इति दृष्टान्तः; लोके यथा दुन्दुभेः भेर्यादेः, हन्यमानस्य ताड्यमानस्य दण्डादिना, न, बाह्यान् शब्दान् बहिर्भूतान् शब्दविशेषान् दुन्दुभिशब्दसामान्यान्निष्कृष्टान् दुन्दुभिशब्दविशेषान्, न शक्नुयात् ग्रहणाय ग्रहीतुम्; दुन्दुभेस्तु ग्रहणेन, दुन्दुभिशब्दसामान्यविशेषत्वेन, दुन्दुभिशब्दा एते इति, शब्दविशेषा गृहीता भवन्ति, दुन्दुभिशब्दसामान्यव्यतिरेकेणाभावात् तेषाम्; दुन्दुभ्याघातस्य वा, दुन्दुभेराहननम् आघातः – दुन्दुभ्याघातविशिष्टस्य शब्द-सामान्यस्य ग्रहणेन तद्गता विशेषा गृहीता भवन्ति, न तु त एव निर्भिद्य ग्रहीतुं शक्यन्ते, विशेषरूपेणाभावात् तेषाम् – तथा प्रज्ञानव्यतिरेकेण स्वप्नजागरितयोः न कश्चिद्वस्तुविशेषो गृह्यते; तस्मात् प्रज्ञानव्यतिरेकेण अभावो युक्तस्तेषाम्॥
🔗  तथा स यथा शङ्खस्य ध्मायमानस्य शब्देन संयोज्यमानस्य आपूर्यमाणस्य न बाह्यान् शब्दान् शक्नुयात् – इत्येवमादि पूर्ववत्॥
🔗  तथा वीणायै वाद्यमानायै – वीणाया वाद्यमानायाः। अनेकदृष्टान्तोपादानम् इह सामान्यबहुत्वख्यापनार्थम् – अनेके हि विलक्षणाः चेतनाचेतनरूपाः सामान्यविशेषाः – तेषां पारम्पर्यगत्या यथा एकस्मिन् महासामान्ये अन्तर्भावः प्रज्ञानघने, कथं नाम प्रदर्शयितव्य इति; दुन्दुभिशङ्खवीणाशब्दसामान्यविशेषाणां यथा शब्दत्वेऽन्तर्भावः, एवं स्थितिकाले तावत् सामान्यविशेषाव्यतिरेकात् ब्रह्मैकत्वं शक्यमवगन्तुम्॥
🔗  एवम् उत्पत्तिकाले प्रागुत्पत्तेः ब्रह्मैवेति शक्यमवगन्तुम्; यथा अग्नेः विस्फुलिङ्गधूमाङ्गारार्चिषां प्राग्विभागात् अग्निरेवेति भवत्यग्न्येकत्वम्, एवं जगत् नामरूपविकृतं प्रागुत्पत्तेः प्रज्ञानघन एवेति युक्तं ग्रहीतुम् – इत्येतदुच्यते – स यथाआर्द्रैधाग्नेः आर्द्रैरेधोभिरिद्धोऽग्निः आर्द्रैधाग्निः, तस्मात्, अभ्याहितात् पृथग्धूमाः, पृथक् नानाप्रकारम्, धूमग्रहणं विस्फुलिङ्गादिप्रदर्शनार्थम्, धूमविस्फुलिङ्गादयः, विनिश्चरन्ति विनिर्गच्छन्ति; एवम् – यथायं दृष्टान्तः; अरे मैत्रेयि अस्य परमात्मनः प्रकृतस्य महतो भूतस्य निश्वसितमेतत्; निश्वसितमिव निश्वसितम्; यथा अप्रयत्नेनैव पुरुषनिश्वासो भवति, एवं वै अरे। किं तन्निश्वसितमिव ततो जातमित्युच्यते – यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरसः चतुर्विधं मन्त्रजातम्, इतिहासः इति, उर्वशीपुरूरवसोः संवादादिः – ‘उर्वशी हाप्सराः’ (शत. ब्रा. ११-५-१-१) इत्यादि ब्राह्मणमेव, पुराणम् – ‘असद्वा इदमग्र आसीत्’ (TaitU.2.7.1) इत्यादि, विद्या देवजनविद्या – वेदः सोऽयम् – इत्याद्या, उपनिषदः ‘प्रियमित्येतदुपासीत’ (BrhU.4.1.3) इत्याद्याः, श्लोकाः ब्राह्मणप्रभवा मन्त्राः ‘तदेते श्लोकाः’ (BrhU.4.4.8) इत्यादयः, सूत्राणि वस्तुसङ्ग्रहवाक्यानि वेदे यथा – ‘आत्मेत्येवोपासीत’ (BrhU.1.4.7) इत्यादीनि, अनुव्याख्यानानि मन्त्रविवरणानि, व्याख्यानानि अर्थवादाः, अथवा वस्तुसङ्ग्रहवाक्यविवरणान्यनुव्याख्यानानि – यथा चतुर्थाध्याये ‘आत्मेत्येवोपासीत’ (BrhU.1.4.7) इत्यस्य यथा वा ‘अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवम्’ (BrhU.1.4.10) इत्यस्य अयमेवाध्यायशेषः, मन्त्रविवरणानि व्याख्यानानि – एवमष्टविधं ब्राह्मणम्। एवं मन्त्रब्राह्मणयोरेव ग्रहणम्; नियतरचनावतो विद्यमानस्यैव वेदस्याभिव्यक्तिः पुरुषनिश्वासवत्, न च पुरुषबुद्धिप्रयत्नपूर्वकः; अतः प्रमाणं निरपेक्ष एव स्वार्थे; तस्मात् यत् तेनोक्तं तत्तथैव प्रतिपत्तव्यम्, आत्मनः श्रेय इच्छद्भिः, ज्ञानं वा कर्म वेति। नामप्रकाशवशाद्धि रूपस्य विक्रियावस्था; नामरूपयोरेव हि परमात्मोपाधिभूतयोर्व्याक्रियमाणयोः सलिलफेनवत् तत्त्वान्यत्वेनानिर्वक्तव्ययोः सर्वावस्थयोः संसारत्वम् – इत्यतः नाम्न एव निश्वसितत्वमुक्तम्, तद्वचनेनैव इतरस्य निश्वसितत्वसिद्धेः। अथवा सर्वस्य द्वैतजातस्य अविद्याविषयत्वमुक्तम् – ‘ब्रह्म तं परादात् – इदं सर्वं यदयमात्मा’ (BrhU.2.4.6) इति; तेन वेदस्याप्रामाण्यमाशङ्क्येत; तदाशङ्कानिवृत्त्यर्थमिदमुक्तम् – पुरुषनिश्वासवत् अप्रयत्नोत्थितत्वात् प्रमाणं वेदः, न यथा अन्यो ग्रन्थ इति॥
🔗  किञ्चान्यत्; न केवलं स्थित्युत्पत्तिकालयोरेव प्रज्ञानव्यतिरेकेणाभावात् जगतो ब्रह्मत्वम्; प्रलयकाले च; जलबुद्बुदफेनादीनामिव सलिलव्यतिरेकेणाभावः, एवं प्रज्ञानव्यतिरेकेण तत्कार्याणां नामरूपकर्मणां तस्मिन्नेव लीयमानानामभावः; तस्मात् एकमेव ब्रह्म प्रज्ञानघनम् एकरसं प्रतिपत्तव्यमित्यत आह। प्रलयप्रदर्शनाय दृष्टान्तः; इति दृष्टान्तः; यथा येन प्रकारेण, सर्वासां नदीवापीतडागादिगतानामपाम्, समुद्रः अब्धिः एकायनम्, एकगमनम् एकप्रलयः अविभागप्राप्तिरित्यर्थः; यथा अयं दृष्टान्तः, एवं सर्वेषां स्पर्शानां मृदुकर्कशकठिनपिच्छिलादीनां वायोरात्मभूतानां त्वक् एकायनम्, त्वगिति त्वग्विषयं स्पर्शसामान्यमात्रम्, तस्मिन्प्रविष्टाः स्पर्शविशेषाः – आप इव समुद्रम् – तद्व्यतिरेकेणाभावभूता भवन्ति; तस्यैव हि ते संस्थानमात्रा आसन्। तथा तदपि स्पर्शसामान्यमात्रं त्वक्शब्दवाच्यं मनःसङ्कल्पे मनोविषयसामान्यमात्रे, त्वग्विषय इव स्पर्शविशेषाः, प्रविष्टं तद्व्यतिरेकेणाभावभूतं भवति; एवं मनोविषयोऽपि बुद्धिविषयसामान्यमात्रे प्रविष्टः तद्व्यतिरेकेणाभावभूतो भवति; विज्ञानमात्रमेव भूत्वा प्रज्ञानघने परे ब्रह्मणि आप इव समुद्रे प्रलीयते। एवं परम्पराक्रमेण शब्दादौ सह ग्राहकेण करणेन प्रलीने प्रज्ञानघने, उपाध्यभावात् सैन्धवघनवत् प्रज्ञानघनम् एकरसम् अनन्तम् अपारं निरन्तरं ब्रह्म व्यवतिष्ठते। तस्मात् आत्मैव एकमद्वयमिति प्रतिपत्तव्यम्। तथा सर्वेषां गन्धानां पृथिवीविशेषाणां नासिके घ्राणविषयसामान्यम्। तथा सर्वेषां रसानामब्विशेषाणां जिह्वेन्द्रियविषयसामान्यम्। तथा सर्वेषां रूपाणां तेजोविशेषाणां चक्षुः चक्षुर्विषयसामान्यम्। तथा शब्दानां श्रोत्रविषयसामान्यं पूर्ववत्। तथा श्रोत्रादिविषयसामान्यानां मनोविषयसामान्ये सङ्कल्पे; मनोविषयसामान्यस्यापि बुद्धिविषयसामान्ये विज्ञानमात्रे; विज्ञानमात्रं भूत्वा परस्मिन्प्रज्ञानघने प्रलीयते। तथा कर्मेन्द्रियाणां विषया वदनादानगमनविसर्गानन्दविशेषाः तत्तत्क्रियासामान्येष्वेव प्रविष्टा न विभागयोग्या भवन्ति, समुद्र इव अब्विशेषाः; तानि च सामान्यानि प्राणमात्रम्; प्राणश्च प्रज्ञानमात्रमेव – ‘यो वै प्राणः सा प्रज्ञा या वै प्रज्ञा स प्राणः’ (कौ. उ. ३-३) इति कौषीतकिनोऽधीयते। ननु सर्वत्र विषयस्यैव प्रलयोऽभिहितः, न तु करणस्य; तत्र कोऽभिप्राय इति – बाढम्; किन्तु विषयसमानजातीयं करणं मन्यते श्रुतिः, न तु जात्यन्तरम्; विषयस्यैव स्वात्मग्राहकत्वेन संस्थानान्तरं करणं नाम – यथा रूपविशेषस्यैव संस्थानं प्रदीपः करणं सर्वरूपप्रकाशने, एवं सर्वविषयविशेषाणामेव स्वात्मविशेषप्रकाशकत्वेन संस्थानान्तराणि करणानि, प्रदीपवत्; तस्मात् न करणानां पृथक्प्रलये यत्नः कार्यः; विषयसामान्यात्मकत्वात् विषयप्रलयेनैव प्रलयः सिद्धो भवति करणानामिति॥
🔗  तत्र ‘इदं सर्वं यदयमात्मा’ (BrhU.2.4.6) इति प्रतिज्ञातम्; तत्र हेतुरभिहितः – आत्मसामान्यत्वम्, आत्मजत्वम्, आत्मप्रलयत्वं च; तस्मात् उत्पत्तिस्थितिप्रलयकालेषु प्रज्ञानव्यतिरेकेणाभावात् ‘प्रज्ञानं ब्रह्म’ ‘आत्मैवेदं सर्वम्’ इति प्रतिज्ञातं यत्, तत् तर्कतः साधितम्। स्वाभाविकोऽयं प्रलय इति पौराणिका वदन्ति। यस्तु बुद्धिपूर्वकः प्रलयः ब्रह्मविदां ब्रह्मविद्यानिमित्तः, अयम् आत्यन्तिक इत्याचक्षते – अविद्यानिरोधद्वारेण यो भवति; तदर्थोऽयं विशेषारम्भः –
तत्र दृष्टान्त उपादीयते – स यथा इति। सैन्धवखिल्यः – सिन्धोर्विकारः सैन्धवः, सिन्धुशब्देन उदकमभिधीयते, स्यन्दनात् सिन्धुः उदकम्, तद्विकारः तत्र भवो वा सैन्धवः, सैन्धवश्चासौ खिल्यश्चेति सैन्धवखिल्यः, खिल एव खिल्यः, स्वार्थे यत्प्रत्ययः – उदके सिन्धौ स्वयोनौ प्रास्तः प्रक्षिप्तः, उदकमेव विलीयमानम् अनुविलीयते; यत्तत् भौमतैजससम्पर्कात् काठिन्यप्राप्तिः खिल्यस्य स्वयोनिसम्पर्कादपगच्छति – तत् उदकस्य विलयनम्, तत् अनु सैन्धवखिल्यो विलीयत इत्युच्यते; तदेतदाह – उदकमेवानुविलीयेतेति। न ह नैव – अस्य खिल्यस्य उद्ग्रहणाय उद्धृत्य पूर्ववद्ग्रहणाय ग्रहीतुम्, नैव समर्थः कश्चित् स्यात् सुनिपुणोऽपि; इव-शब्दोऽनर्थकः। ग्रहणाय नैव समर्थः; कस्मात्? यतो यतः यस्मात् यस्मात् देशात् तदुदकम् आददीत, गृहीत्वा आस्वादयेत् लवणास्वादमेव तत् उदकम्, न तु खिल्यभावः। यथा अयं दृष्टान्तः, एवम् एव वै अरे मैत्रेयि इदं परमात्माख्यं महद्भूतम् – यस्मात् महतो भूतात् अविद्यया परिच्छिन्ना सती कार्यकरणोपाधिसम्बन्धात्खिल्यभावमापन्नासि, मर्त्या जन्ममरणाशनायापिपासादिसंसारधर्मवत्यसि, नामरूपकार्यात्मिका – अमुष्यान्वयाहमिति, स खिल्यभावस्तव कार्यकरणभूतोपाधिसम्पर्कभ्रान्तिजनितः महति भूते स्वयोनौ महासमुद्रस्थानीये परमात्मनि अजरेऽमरेऽभये शुद्धे सैन्धवघनवदेकरसे प्रज्ञानघनेऽनन्तेऽपारे निरन्तरे अविद्याजनितभ्रान्तिभेदवर्जिते प्रवेशितः; तस्मिन्प्रविष्टे स्वयोनिग्रस्ते खिल्यभावे अविद्याकृते भेदभावे प्रणाशिते – इदमेकमद्वैतं महद्भूतम् – महच्च तद्भूतं च महद्भूतं सर्वमहत्तरत्वात् आकाशादिकारणत्वाच्च, भूतम् – त्रिष्वपि कालेषु स्वरूपाव्यभिचारात् सर्वदैव परिनिष्पन्नमिति त्रैकालिको निष्ठाप्रत्ययः; अथवा भूतशब्दः परमार्थवाची, महच्च पारमार्थिकं चेत्यर्थः; लौकिकं तु यद्यपि महद्भवति, स्वप्नमायाकृतं हिमवदादिपर्वतोपमं न परमार्थवस्तु; अतो विशिनष्टि – इदं तु महच्च तद्भूतं चेति। अनन्तम् नास्यान्तो विद्यत इत्यनन्तम्; कदाचिदापेक्षिकं स्यादित्यतो विशिनष्टि अपारम् इति। विज्ञप्तिः विज्ञानम्, विज्ञानं च तद्घनश्चेति विज्ञानघनः, घनशब्दो जात्यन्तरप्रतिषेधार्थः – यथा सुवर्णघनः अयोघन इति; एव-शब्दोऽवधारणार्थः – नान्यत् जात्यन्तरम् अन्तराले विद्यत इत्यर्थः। यदि इदमेकमद्वैतं परमार्थतः स्वच्छं संसारदुःखासम्पृक्तम्, किन्निमित्तोऽयं खिल्यभाव आत्मनः – जातो मृतः सुखी दुःखी अहं ममेत्येवमादिलक्षणः अनेकसंसारधर्मोपद्रुत इति उच्यते – एतेभ्यो भूतेभ्यः – यान्येतानि कार्यकरणविषयाकारपरिणतानि नामरूपात्मकानि सलिलफेनबुद्बुदोपमानि स्वच्छस्य परमात्मनः सलिलोपमस्य, येषां विषयपर्यन्तानां प्रज्ञानघने ब्रह्मणि परमार्थविवेकज्ञानेन प्रविलापनमुक्तम् नदीसमुद्रवत् – एतेभ्यो हेतुभूतेभ्यः भूतेभ्यः सत्यशब्दवाच्येभ्यः, समुत्थाय सैन्धवखिल्यवत् – यथा अद्भ्यः सूर्यचन्द्रादिप्रतिबिम्बः, यथा वा स्वच्छस्य स्फटिकस्य अलक्तकाद्युपाधिभ्यो रक्तादिभावः, एवं कार्यकरणभूतभूतोपाधिभ्यो विशेषात्मखिल्यभावेन समुत्थाय सम्यगुत्थाय – येभ्यो भूतेभ्य उत्थितः तानि यदा कार्यकरणविषयाकारपरिणतानि भूतानि आत्मनो विशेषात्मखिल्यहेतुभूतानि शास्त्राचार्योपदेशेन ब्रह्मविद्यया नदीसमुद्रवत् प्रविलापितानि विनश्यन्ति, सलिलफेनबुद्बुदादिवत् तेषु विनश्यत्सु अनु एव एष विशेषात्मखिल्यभावो विनश्यति; यथा उदकालक्तकादिहेत्वपनये सूर्यचन्द्रस्फटिकादिप्रतिबिम्बो विनश्यति, चन्द्रादिस्वरूपमेव परमार्थतो व्यवतिष्ठते, तद्वत् प्रज्ञानघनमनन्तमपारं स्वच्छं व्यवतिष्ठते। तत्र प्रेत्य विशेष-सञ्ज्ञास्ति कार्यकरणसङ्घातेभ्यो विमुक्तस्य – इति एवम् अरे मैत्रेयि ब्रवीमि – नास्ति विशेषसञ्ज्ञेति – अहमसौ अमुष्य पुत्रः ममेदं क्षेत्रं धनम् सुखी दुःखीत्येवमादिलक्षणा, अविद्याकृतत्वात्तस्याः; अविद्यायाश्च ब्रह्मविद्यया निरन्वयतो नाशितत्वात् कुतो विशेषसञ्ज्ञासम्भवो ब्रह्मविदः चैतन्यस्वभावावस्थितस्य; शरीरावस्थितस्यापि विशेषसञ्ज्ञा नोपपद्यते किमुत कार्यकरणविमुक्तस्य सर्वतः। इति ह उवाच उक्तवान्किल परमार्थदर्शनं मैत्रेय्यै भार्यायै याज्ञवल्क्यः
🔗  एवं प्रतिबोधिता सा ह किल उवाच उक्तवती मैत्रेयीअत्रैव एतस्मिन्नेव एकस्मिन्वस्तुनि ब्रह्मणि विरुद्धधर्मवत्त्वमाचक्षाणेन भगवता मम मोहः कृतः; तदाह – अत्रैव मा भगवान् पूजावान् अमूमुहत् मोहं कृतवान्। कथं तेन विरुद्धधर्मवत्त्वमुक्तमित्युच्यते – पूर्वं विज्ञानघन एवेति प्रतिज्ञाय, पुनः न प्रेत्य सञ्ज्ञास्तीति; कथं विज्ञानघन एव? कथं वा न प्रेत्य सञ्ज्ञास्तीति? न हि उष्णः शीतश्च अग्निरेवैको भवति; अतो मूढास्मि अत्र। स होवाच याज्ञवल्क्यःन वा अरे मैत्रेयि अहं मोहं ब्रवीमि – मोहनं वाक्यं न ब्रवीमीत्यर्थः। ननु कथं विरुद्धधर्मत्वमवोचः – विज्ञानघनं सञ्ज्ञाभावं च? न मया इदम् एकस्मिन्धर्मिण्यभिहितम्; त्वयैव इदं विरुद्धधर्मत्वेन एकं वस्तु परिगृहीतं भ्रान्त्या; न तु मया उक्तम्; मया तु इदमुक्तम् – यस्तु अविद्याप्रत्युपस्थापितः कार्यकरणसम्बन्धी आत्मनः खिल्यभावः, तस्मिन्विद्यया नाशिते, तन्निमित्ता या विशेषसञ्ज्ञा शरीरादिसम्बन्धिनी अन्यत्वदर्शनलक्षणा, सा कार्यकरणसङ्घातोपाधौ प्रविलापिते नश्यति, हेत्वभावात्, उदकाद्याधारनाशादिव चन्द्रादिप्रतिबिम्बः तन्निमित्तश्च प्रकाशादिः; न पुनः परमार्थचन्द्रादित्यस्वरूपवत् असंसारिब्रह्मस्वरूपस्य विज्ञानघनस्य नाशः; तत् विज्ञानघन इत्युक्तम्; स आत्मा सर्वस्य जगतः; परमार्थतो भूतनाशात् न विनाशी; विनाशी तु अविद्याकृतः खिल्यभावः, ‘वाचारम्भणं विकारो नामधेयम्’ (ChanU.6.1.4), इति श्रुत्यन्तरात्। अयं तु पारमार्थिकः – अविनाशी वा अरेऽयमात्मा; अतः अलं पर्याप्तम् वै अरे इदं महद्भूतमनन्तमपारं यथाव्याख्यातम् विज्ञानाय विज्ञातुम्; ‘न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वात्’ (BrhU.4.5.30) इति हि वक्ष्यति॥
🔗  कथं तर्हि प्रेत्य सञ्ज्ञा नास्तीत्युच्यते शृणु; यत्र यस्मिन् अविद्याकल्पिते कार्यकरणसङ्घातोपाधिजनिते विशेषात्मनि खिल्यभावे, हि यस्मात्, द्वैतमिव – परमार्थतोऽद्वैते ब्रह्मणि द्वैतमिव भिन्नमिव वस्त्वन्तरमात्मनः – उपलक्ष्यते – ननु द्वैतेनोपमीयमानत्वात् द्वैतस्य पारमार्थिकत्वमिति; न, ‘वाचारम्भणं विकारो नामधेयम्’ (ChanU.6.1.4) इति श्रुत्यन्तरात् ‘एकमेवाद्वितीयम्’ (ChanU.6.2.1) ‘आत्मैवेदं सर्वम्’ (ChanU.7.25.2) इति च – तत् तत्र यस्माद्द्वैतमिव तस्मादेव इतरोऽसौ परमात्मनः खिल्यभूत आत्मा अपरमार्थः, चन्द्रादेरिव उदकचन्द्रादिप्रतिबिम्बः, इतरो घ्राता इतरेण घ्राणेन इतरं घ्रातव्यं जिघ्रति; इतर इतरमिति कारकप्रदर्शनार्थम्, जिघ्रतीति क्रियाफलयोरभिधानम् – यथा छिनत्तीति – यथा उद्यम्य उद्यम्य निपातनम् छेद्यस्य च द्वैधीभावः उभयं छिनत्तीत्येकेनैव शब्देन अभिधीते – क्रियावसानत्वात् क्रियाव्यतिरेकेण च तत्फलस्यानुपलम्भात्; इतरो घ्राता इतरेण घ्राणेन इतरं घ्रातव्यं जिघ्रति – तथा सर्वं पूर्ववत् – विजानाति; इयम् अविद्यावदवस्था। यत्र तु ब्रह्मविद्यया अविद्या नाशमुपगमिता तत्र आत्मव्यतिरेकेण अन्यस्याभावः; यत्र वै अस्य ब्रह्मविदः सर्वं नामरूपादि आत्मन्येव प्रविलापितम् आत्मैव संवृत्तम् – यत्र एवम् आत्मैवाभूत्, तत् तत्र केन करणेन कं घ्रातव्यं को जिघ्रेत्? तथा पश्येत्? विजानीयात्; सर्वत्र हि कारकसाध्या क्रिया; अतः कारकाभावेऽनुपपत्तिः क्रियायाः; क्रियाभावे च फलाभावः। तस्मात् अविद्यायामेव सत्यां क्रियाकारकफलव्यवहारः, न ब्रह्मविदः – आत्मत्वादेव सर्वस्य, न आत्मव्यतिरेकेण कारकं क्रियाफलं वास्ति; न च अनात्मा सन् सर्वमात्मैव भवति कस्यचित्; तस्मात् अविद्ययैव अनात्मत्वं परिकल्पितम्; न तु परमार्थत आत्मव्यतिरेकेणास्ति किञ्चित्; तस्मात् परमार्थात्मैकत्वप्रत्यये क्रियाकारकफलप्रत्ययानुपपत्तिः। अतः विरोधात् ब्रह्मविदः क्रियाणां तत्साधनानां च अत्यन्तमेव निवृत्तिः। केन कमिति क्षेपार्थं वचनं प्रकारान्तरानुपपत्तिदर्शनार्थम्, केनचिदपि प्रकारेण क्रियाकरणादिकारकानुपपत्तेः – केनचित् कञ्चित् कश्चित् कथञ्चित् न जिघ्रेदेवेत्यर्थः। यत्रापि अविद्यावस्थायाम् अन्यः अन्यं पश्यति, तत्रापि येनेदं सर्वं विजानाति, तं केन विजानीयात् – येन विजानाति, तस्य करणस्य, विज्ञेये विनियुक्तत्वात्; ज्ञातुश्च ज्ञेय एव हि जिज्ञासा, न आत्मनि; न च अग्नेरिव आत्मा आत्मनो विषयः; न च अविषये ज्ञातुः ज्ञानमुपपद्यते; तस्मात् येन इदं सर्वं विजानाति, तं विज्ञातारं केन करणेन को वा अन्यः विजानीयात् – यदा तु पुनः परमार्थविवेकिनो ब्रह्मविदो विज्ञातैव केवलोऽद्वयो वर्तते, तं विज्ञातारं अरे केन विजानीयादिति॥

Go to Top ('Home' key on many Windows browsers)

BrhU.2.05

🔗  यत् केवलं कर्मनिरपेक्षम् अमृतत्वसाधनम्, तद्वक्तव्यमिति मैत्रेयीब्राह्मणमारब्धम्; तच्च आत्मज्ञानं सर्वसन्न्यासाङ्गविशिष्टम्; आत्मनि च विज्ञाते सर्वमिदं विज्ञातं भवति; आत्मा च प्रियः सर्वस्मात्; तस्मात् आत्मा द्रष्टव्यः; स च श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति च दर्शनप्रकारा उक्ताः; तत्र श्रोतव्यः, आचार्यागमाभ्याम्; मन्तव्यः तर्कतः; तत्र च तर्क उक्तः – ‘आत्मैवेदं सर्वम्’ (ChanU.7.25.2) इति प्रतिज्ञातस्य हेतुवचनम् आत्मैकसामान्यत्वम् आत्मैकोद्भवत्वम् आत्मैकप्रलयत्वं च; तत्र अयं हेतुः असिद्ध इत्याशङ्क्यते आत्मैकसामान्योद्भवप्रलयाख्यः; तदाशङ्कानिवृत्त्यर्थमेतद्ब्राह्मणमारभ्यते। यस्मात् परस्परोपकार्योपकारकभूतं जगत्सर्वं पृथिव्यादि, यच्च लोके परस्परोपकार्योपकारकभूतं तत् एककारणपूर्वकम् एकसामान्यात्मकम् एकप्रलयं च दृष्टम्, तस्मात् इदमपि पृथिव्यादिलक्षणं जगत् परस्परोपकार्योपकारकत्वात् तथाभूतं भवितुमर्हति – एष ह्यर्थ अस्मिन्ब्राह्मणे प्रकाश्यते। अथवा ‘आत्मैवेदं सर्वम्’ (ChanU.7.25.2) इति प्रतिज्ञातस्य आत्मोत्पत्तिस्थितिलयत्वं हेतुमुक्त्वा, पुनः आगमप्रधानेन मधुब्राह्मणेन प्रतिज्ञातस्य अर्थस्य निगमनं क्रियते; तथाहि नैयायिकैरुक्तम् – ‘हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम्’ इति। अन्यैर्व्याख्यातम् – आ दुन्दुभिदृष्टान्तात् श्रोतव्यार्थमागमवचनम्, प्राङ्मधुब्राह्मणात् मन्तव्यार्थम् उपपत्तिप्रदर्शनेन, मधुब्राह्मणेन तु निदिध्यासनविधिरुच्यत इति। सर्वथापि तु यथा आगमेनावधारितम्, तर्कतस्तथैव मन्तव्यम्; यथा तर्कतो मतम्, तस्य तर्कागमाभ्यां निश्चितस्य तथैव निदिध्यासनं क्रियत इति पृथक् निदिध्यासनविधिरनर्थक एव; तस्मात् पृथक् प्रकरणविभाग अनर्थक इत्यस्मदभिप्रायः श्रवणमनननिदिध्यासनानामिति। सर्वथापि तु अध्यायद्वयस्यार्थः अस्मिन्ब्राह्मणे उपसंह्रियते॥
इयं पृथिवी प्रसिद्धा सर्वेषां भूतानां मधु – सर्वेषां ब्रह्मादिस्तम्बपर्यन्तानां भूतानां प्राणिनाम्, मधु कार्यम्, मध्विव मधु; यथा एको मध्वपूपः अनेकैर्मधुकरैर्निर्वर्तितः, एवम् इयं पृथिवी सर्वभूतनिर्वर्तिता। तथा सर्वाणि भूतानि पृथिव्यै पृथिव्या अस्याः, मधु कार्यम्। किञ्च यश्चायं पुरुषः अस्यां पृथिव्यां तेजोमयः चिन्मात्रप्रकाशमयः अमृतमयोऽमरणधर्मा पुरुषः, यश्चायम् अध्यात्मम् शारीरः शरीरे भवः पूर्ववत् तेजोमयोऽमृतमयः पुरुषः, स च लिङ्गाभिमानी – स च सर्वेषां भूतानामुपकारकत्वेन मधु, सर्वाणि च भूतान्यस्य मधु, च-शब्दसामर्थ्यात्। एवम् एतच्चतुष्टयं तावत् एकं सर्वभूतकार्यम्, सर्वाणि च भूतान्यस्य कार्यम्; अतः अस्य एककारणपूर्वकता। यस्मात् एकस्मात्कारणात् एतज्जातम्, तदेव एकं परमार्थतो ब्रह्म, इतरत्कार्यं वाचारम्भणं विकारो नामधेयमात्रम् – इत्येष मधुपर्यायाणां सर्वेषामर्थः सङ्क्षेपतः। अयमेव सः, योऽयं प्रतिज्ञातः – ‘इदं सर्वं यदयम् आत्मा’ (BrhU.2.4.6) इति; इदममृतम् – यत् मैत्रेय्याः अमृतत्वसाधनमुक्तम् आत्मविज्ञानम् – इदं तदमृतम्; इदं ब्रह्म – यत् ‘ब्रह्म ते ब्रवाणि’ (BrhU.2.1.1) ‘ज्ञपयिष्यामि’ (BrhU.2.1.15) इत्यध्यायादौ प्रकृतम्, यद्विषया च विद्या ब्रह्मविद्येत्युच्यते; इदं सर्वम् – यस्मात् ब्रह्मणो विज्ञानात्सर्वं भवति॥
🔗  तथा आपःअध्यात्मं रेतसि अपां विशेषतोऽवस्थानम्॥
🔗  तथा अग्निःवाचि अग्नेर्विशेषतोऽवस्थानम्
🔗  तथा वायुः, अध्यात्मं प्राणः। भूतानां शरीरारम्भकत्वेनोपकारात् मधुत्वम्; तदन्तर्गतानां तेजोमयादीनां करणत्वेनोपकारान्मधुत्वम्; तथा चोक्तम् – ‘तस्यै वाचः पृथिवी शरीरं ज्योतिरूपमयमग्निः’ (BrhU.1.5.11) इति॥
🔗  तथा आदित्यो मधु, चाक्षुषः अध्यात्मम्
🔗  तथा दिशो मधु। दिशां यद्यपि श्रोत्रमध्यात्मम्, शब्दप्रतिश्रवणवेलायां तु विशेषतः सन्निहितो भवतीति अध्यात्मं प्रातिश्रुत्कः – प्रतिश्रुत्कायां प्रतिश्रवणवेलायां भवः प्रातिश्रुत्कः॥
🔗  तथा चन्द्रः, अध्यात्मं मानसः
🔗  तथा विद्युत्, त्वक्तेजसि भवः तैजसः अध्यात्मम्
🔗  तथा स्तनयित्नुः। शब्दे भवः शाब्दोऽध्यात्मं यद्यपि, तथापि स्वरे विशेषतो भवतीति सौवरः अध्यात्मम्
🔗  तथा आकाशः, अध्यात्मं हृद्याकाशः
🔗  आकाशान्ताः पृथिव्यादयो भूतगणा देवतागणाश्च कार्यकरणसङ्घातात्मान उपकुर्वन्तो मधु भवन्ति प्रतिशरीरिणमित्युक्तम्। येन ते प्रयुक्ताः शरीरिभिः सम्बध्यमाना मधुत्वेनोपकुर्वन्ति, तत् वक्तव्यमिति इदमारभ्यते –
अयं धर्मः – ‘अयम्’ इति अप्रत्यक्षोऽपि धर्मः कार्येण तत्प्रयुक्तेन प्रत्यक्षेण व्यपदिश्यते – अयं धर्म इति – प्रत्यक्षवत्। धर्मश्च व्याख्यातः श्रुतिस्मृतिलक्षणः, क्षत्त्रादीनामपि नियन्ता, जगतो वैचित्र्यकृत् पृथिव्यादीनां परिणामहेतुत्वात्, प्राणिभिरनुष्ठीयमानरूपश्च; तेन च ‘अयं धर्मः’ इति प्रत्यक्षेण व्यपदेशः। सत्यधर्मयोश्च अभेदेन निर्देशः कृतः शास्त्राचारलक्षणयोः; इह तु भेदेन व्यपदेश एकत्वे सत्यपि, दृष्टादृष्टभेदरूपेण कार्यारम्भकत्वात्। यस्तु अदृष्टः अपूर्वाख्यो धर्मः, स सामान्यविशेषात्मना अदृष्टेन रूपेण कार्यमारभते – सामान्यरूपेण पृथिव्यादीनां प्रयोक्ता भवति, विशेषरूपेण च अध्यात्मं कार्यकरणसङ्घातस्य; तत्र पृथिव्यादीनां प्रयोक्तरि – यश्चायमस्मिन्धर्मे तेजोमयः; तथा अध्यात्मं कार्यकरणसङ्घातकर्तरि धर्मे भवो धार्मः
🔗  तथा दृष्टेनानुष्ठीयमानेन आचाररूपेण सत्याख्यो भवति, स एव धर्मः; सोऽपि द्विप्रकार एव सामान्यविशेषात्मरूपेण – सामान्यरूपः पृथिव्यादिसमवेतः, विशेषरूपः कार्यकरणसङ्घातसमवेतः; तत्र पृथिव्यादिसमवेते वर्तमानक्रियारूपे सत्ये, तथा अध्यात्मं कार्यकरणसङ्घातसमवेते सत्ये, भवः सात्यः – ‘सत्येन वायुरावाति’ (तै. ना. २-१) इति श्रुत्यन्तरात्॥
🔗  धर्मसत्याभ्यां प्रयुक्तोऽयं कार्यकरणसङ्घातविशेषः, स येन जातिविशेषेण संयुक्तो भवति, स जातिविशेषो मानुषादिः; तत्र मनुषादिजातिविशिष्टा एव सर्वे प्राणिनिकायाः परस्परोपकार्योपकारकभावेन वर्तमाना दृश्यन्ते; अतो मानुषादिजातिरपि सर्वेषां भूतानां मधु। तत्र मानुषादिजातिरपि बाह्या आध्यात्मिकी चेति उभयथा निर्देशभाक् भवति॥
🔗  यस्तु कार्यकरणसङ्घातो मानुषादिजातिविशिष्टः, सोऽयमात्मा सर्वेषां भूतानां मधु। ननु अयं शारीरशब्देन निर्दिष्टः पृथिवीपर्याय एव – न, पार्थिवांशस्यैव तत्र ग्रहणात्; इह तु सर्वात्मा प्रत्यस्तमिताध्यात्माधिभूताधिदैवादिसर्वविशेषः सर्वभूतदेवतागणविशिष्टः कार्यकरणसङ्घातः सः ‘अयमात्मा’ इत्युच्यते। तस्मिन् अस्मिन् आत्मनि तेजोमयोऽमृतमयः पुरुषः अमूर्तरसः सर्वात्मको निर्दिश्यते; एकदेशेन तु पृथिव्यादिषु निर्दिष्टः, अत्र अध्यात्मविशेषाभावात् सः न निर्दिश्यते। यस्तु परिशिष्टो विज्ञानमयः – यदर्थोऽयं देहलिङ्गसङ्घात आत्मा – सः ‘यश्चायमात्मा’ इत्युच्यते॥
🔗  यस्मिन्नात्मनि, परिशिष्टो विज्ञानमयोऽन्त्ये पर्याये, प्रवेशितः, सोऽयमात्मा। तस्मिन् अविद्याकृतकार्यकरणसङ्घातोपाधिविशिष्टे ब्रह्मविद्यया परमार्थात्मनि प्रवेशिते, एवमुक्तः अनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघनभूतः, स वै – स एव अयमात्मा अव्यवहितपूर्वपर्याये ‘तेजोमयः’ इत्यादिना निर्दिष्टो विज्ञानात्मा विद्वान्, सर्वेषां भूतानामयमात्मा – सर्वैरुपास्यः – सर्वेषां भूतानामधिपतिः सर्वभूतानां स्वतन्त्रः – न कुमारामात्यवत् – किं तर्हि सर्वेषां भूतानां राजा, राजत्वविशेषणम् ‘अधिपतिः’ इति – भवति कश्चित् राजोचितवृत्तिमाश्रित्य राजा, न तु अधिपतिः, अतो विशिनष्टि अधिपतिरिति; एवं सर्वभूतात्मा विद्वान् ब्रह्मवित् मुक्तो भवति। यदुक्तम् – ‘ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते, किमु तद्ब्रह्मावेद्यस्मात्तत्सर्वमभवत्’ (BrhU.1.4.9) इतीदम्, तत् व्याख्यातम् एवम् – आत्मानमेव सर्वात्मत्वेन आचार्यागमाभ्यां श्रुत्वा, मत्वा तर्कतः, विज्ञाय साक्षात् एवम्, यथा मधुब्राह्मणे दर्शितं तथा – तस्मात् ब्रह्मविज्ञानात् एवँलक्षणात् पूर्वमपि, ब्रह्मैव सत् अविद्यया अब्रह्म आसीत्, सर्वमेव च सत् असर्वमासीत् – तां तु अविद्याम् अस्माद्विज्ञानात् तिरस्कृत्य ब्रह्मवित् ब्रह्मैव सन् ब्रह्माभवत्, सर्वः सः सर्वमभवत्। परिसमाप्तः शास्त्रार्थः, यदर्थः प्रस्तुतः; तस्मिन् एतस्मिन् सर्वात्मभूते ब्रह्मविदि सर्वात्मनि सर्वं जगत्समर्पितमित्येतस्मिन्नर्थे दृष्टान्त उपादीयते – तद्यथा रथनाभौ च रथनेमौ चाराः सर्वे समर्पिताः इति, प्रसिद्धोऽर्थः, एवमेव अस्मिन् आत्मनि परमात्मभूते ब्रह्मविदि सर्वाणि भूतानि ब्रह्मादिस्तम्बपर्यन्तानि सर्वे देवाः अग्न्यादयः सर्वे लोकाः भूरादयः सर्वे प्राणाः वागादयः सर्व एते आत्मानो जलचन्द्रवत् प्रतिशरीरानुप्रवेशिनः अविद्याकल्पिताः; सर्वं जगत् अस्मिन् समर्पितम्। यदुक्तम्, ब्रह्मवित् वामदेवः प्रतिपेदे – अहं मनुरभवं सूर्यश्चेति, स एष सर्वात्मभावो व्याख्यातः। स एष विद्वान् ब्रह्मवित् सर्वोपाधिः सर्वात्मा सर्वो भवति; निरुपाधिः निरुपाख्यः अनन्तरः अबाह्यः कृत्स्नः प्रज्ञानघनः अजोऽजरोऽमृतोऽभयोऽचलः नेति नेत्यस्थूलोऽनणुरित्येवंविशेषणः भवति। तमेतमर्थम् अजानन्तस्तार्किकाः केचित् पण्डितम्मन्याश्चागमविदः शास्त्रार्थं विरुद्धं मन्यमाना विकल्पयन्तो मोहमगाधमुपयान्ति। तमेतमर्थम् एतौ मन्त्रावनुवदतः – ‘अनेजदेकं मनसो जवीयः’ (IsU.4) ‘तदेजति तन्नैजति’ (IsU.5) इति। तथा च तैत्तिरीयके –, ‘यस्मात्परं नापरमस्ति किञ्चित्’ (तै. ना. १०-४), ‘एतत्सामगायन्नास्ते अहमन्नमहमन्नमहमन्नम्’ (TaitU.3.10.6) इत्यादि। तथा च च्छान्दोग्ये ‘जक्षत्क्रीडन्रममाणः’ (ChanU.8.12.3), ‘स यदि पितृलोककामः’ (ChanU.8.2.1) ‘सर्वगन्धः सर्वरसः’ (ChanU.3.14.2), ‘सर्वज्ञः सर्ववित्’ (MunU.1.1.9) इत्यादि। आथर्वणे च ‘दूरात्सुदूरे तदिहान्तिके च’ (MunU.3.1.7)। कठवल्लीष्वपि ‘अणोरणीयान्महतो महीयान्’ (KathU.1.2.21) ‘कस्तं मदामदं देवम्’ (KathU.1.2.21) ‘तद्धावतोऽन्यानत्येति तिष्टत्’ (IsU.4) इति च। तथा गीतासु ‘अहं क्रतुरहं यज्ञः’ (BhG.9.10) ‘पिताहमस्य जगतः’ (BhG.9.17) ‘नादत्ते कस्यचित्पापम्’ (BhG.5.10) ‘समं सर्वेषु भूतेषु’ (BhG.13.27) ‘अविभक्तं विभक्तेषु’ (BhG.17.20) ‘ग्रसिष्णु प्रभविष्णु च’ (BhG.13.16) इति – एवमाद्यागमार्थं विरुद्धमिव प्रतिभान्तं मन्यमानाः स्वचित्तसामर्थ्यात् अर्थनिर्णयाय विकल्पयन्तः – अस्त्यात्मा नास्त्यात्मा, कर्ता अकर्ता, मुक्तः बद्धः, क्षणिको विज्ञानमात्रं शून्यं च – इत्येवं विकल्पयन्तः न पारमधिगच्छन्त्यविद्यायाः, विरुद्धधर्मदर्शित्वात्सर्वत्र। तस्मात् तत्र य एव श्रुत्याचार्यदर्शितमार्गानुसारिणः, त एवाविद्यायाः पारमधिगच्छन्ति; त एव च अस्मान्मोहसमुद्रादगाधात् उत्तरिष्यन्ति, नेतरे स्वबुद्धिकौशलानुसारिणः।
परिसमाप्ता ब्रह्मविद्या अमृतत्वसाधनभूता, यां मैत्रेयी पृष्टवती भर्तारम् ‘यदेव भगवानमृतत्वसाधनं वेद तदेव मे ब्रूहि’ (BrhU.2.4.3) इति। एतस्या ब्रह्मविद्यायाः स्तुत्यर्था इयमाख्यायिका आनीता। तस्या आख्यायिकायाः सङ्क्षेपतोऽर्थप्रकाशनार्थावेतौ मन्त्रौ भवतः; एवं हि मन्त्रब्राह्मणाभ्यां स्तुतत्वात् अमृतत्वसर्वप्राप्तिसाधनत्वं ब्रह्मविद्यायाः प्रकटीकृतं राजमार्गमुपनीतं भवति – यथा आदित्य उद्यन् शार्वरं तमोऽपनयतीति – तद्वत्। अपि च एवं स्तुता ब्रह्मविद्या – या इन्द्ररक्षिता सा दुष्प्रापा देवैरपि; यस्मात् अश्विभ्यामपि देवभिषग्भ्याम् इन्द्ररक्षिता विद्या महता आयासेन प्राप्ता; ब्राह्मणस्य शिरश्छित्त्वा अश्व्यं शिरः प्रतिसन्धाय, तस्मिन्निन्द्रेण च्छिन्ने पुनः स्वशिर एव प्रतिसन्धाय, तेन ब्राह्मणस्य स्वशिरसैव उक्ता अशेषा ब्रह्मविद्या श्रुता; यस्मात् ततः परतरं किञ्चित्पुरुषार्थसाधनं न भूतं न भावि वा, कुत एव वर्तमानम् – इति नातः परा स्तुतिरस्ति। अपि चैवं स्तूयते ब्रह्मविद्या – सर्वपुरुषार्थानां कर्म हि साधनमिति लोके प्रसिद्धम्; तच्च कर्म वित्तसाध्यम्, तेन आशापि नास्त्यमृतत्वस्य; तदिदममृतत्वं केवलया आत्मविद्यया कर्मनिरपेक्षया प्राप्यते; यस्मात् कर्मप्रकरणे वक्तुं प्राप्तापि सती प्रवर्ग्यप्रकरणे, कर्मप्रकरणादुत्तीर्य कर्मणा विरुद्धत्वात् केवलसन्न्याससहिता अभिहिता अमृतत्वसाधनाय – तस्मात् नातः परं पुरुषार्थसाधनमस्ति। अपि च एवं स्तुता ब्रह्मविद्या – सर्वो हि लोको द्वन्द्वारामः, ‘स वै नैव रेमे तस्मादेकाकी न रमते’ (BrhU.1.4.3) इति श्रुतेः; याज्ञवल्क्यो लोकसाधारणोऽपि सन् आत्मज्ञानबलात् भार्यापुत्रवित्तादिसंसाररतिं परित्यज्य प्रज्ञानतृप्त आत्मरतिर्बभूव। अपि च एवं स्तुता ब्रह्मविद्या – यस्मात् याज्ञवल्क्येन संसारमार्गात् व्युत्तिष्ठतापि प्रियायै भार्यायै प्रीत्यर्थमेव अभिहिता, ‘प्रियं भाषस एह्यास्स्व’ (BrhU.2.4.4) इति लिङ्गात्॥
🔗  तत्र इयं स्तुत्यर्था आख्यायिकेत्यवोचाम; का पुनः सा आख्यायिकेति उच्यते – इदम् इत्यनन्तरनिर्दिष्टं व्यपदिशति, बुद्धौ सन्निहितत्वात्; वै-शब्दः स्मरणार्थः; तदित्याख्यायिकानिर्वृत्तं प्रकरणान्तराभिहितं परोक्षं वै-शब्देन स्मारयन् इह व्यपदिशति; यत् प्रवर्ग्यप्रकरणे सूचितम्, न आविष्कृतं मधु, तद् इदं मधु इह अनन्तरं निर्दिष्टम् – ‘इयं पृथिवी’ (BrhU.2.5.11) इत्यादिना; कथं तत्र प्रकरणान्तरे सूचितम् – `दध्यङ् ह वा आभ्याम् आथर्वणो मधु नाम ब्राह्मणमुवाच; तदेनयोः प्रियं धाम तदेवैनयोरेतेनोपगच्छति; स होवाचेन्द्रेण वा उक्तोऽस्म्येतच्चेदन्यस्मा अनुब्रूयास्तत एव ते शिरश्छिन्द्यामिति; तस्माद्वै बिभेमि यद्वै मे स शिरो न च्छिन्द्यात्तद्वामुपनेष्य इति; तौ होचतुरावां त्वा तस्मात्त्रास्यावहे इति; कथं मा त्रास्येथे इति; यदा नावुपनेष्यसे; अथ ते शिरश्छित्त्वान्यत्राहृत्योपनिधास्यावः; अथाश्वस्य शिर आहृत्य तत्ते प्रतिधास्यावः; तेन नावनुवक्ष्यसि; स यदा नावनुवक्ष्यसि; अथ ते तदिन्द्रः शिरश्छेत्स्यति; अथ ते स्वं शिर आहृत्य तत्ते प्रतिधास्याव इति; तथेति तौ होपनिन्ये; तौ यदोपनिन्ये; अथास्य शिरश्छित्त्वा अन्यत्रोपनिदधतुः; अथाश्वस्य शिर आहृत्य तद्धास्य प्रतिदधतुः; तेन हाभ्यामनूवाच; स यदाभ्यामनूवाच अथास्य तदिन्द्रः शिरश्चिच्छेद; अथास्य स्वं शिर आहृत्य तद्धास्य प्रतिदधतुरिति। यावत्तु प्रवर्ग्यकर्माङ्गभूतं मधु, तावदेव तत्राभिहितम्; न तु कक्ष्यमात्मज्ञानाख्यम्; तत्र या आख्यायिका अभिहिता, सेह स्तुत्यर्था प्रदर्श्यते; इदं वै तन्मधु दध्यङ्ङाथर्वणः अनेन प्रपञ्चेन अश्विभ्यामुवाच। तदेतदृषिः – तदेतत् कर्म, ऋषिः मन्त्रः, पश्यन् उपलभमानः, अवोचत् उक्तवान्; कथम्? तत् दंसः इति व्यवहितेन सम्बन्धः, दंसः इति कर्मणो नामधेयम्; तत् च दंसः किंविशिष्टम्? उग्रं क्रूरम्, वां युवयोः, हे नराः नराकारावश्विनौ; तच्च कर्म किं निमित्तम्? सनये लाभाय; लाभलुब्धो हि लोकेऽपि क्रूरं कर्म आचरति, तथैव एतावुपलभ्येते यथा लोके; तत् आविः प्रकाशं कृणोमि करोमि, यत् रहसि भवद्भ्यां कृतम्; किमिवेत्युच्यते – तन्यतुः पर्जन्यः, इव; नकारस्तु उपरिष्टादुपचार उपमार्थीयो वेदे, न प्रतिषेधार्थः – यथा ‘अश्वं न’ (ऋ. सं. १-६-२४-१) अश्वमिवेति यद्वत्; तन्यतुरिव वृष्टिं यथा पर्जन्यो वृष्टिं प्रकाशयति स्तनयित्न्वादिशब्दैः, तद्वत् अहं युवयोः क्रूरं कर्म आविष्कृणोमीति सम्बन्धः। ननु अश्विनोः स्तुत्यर्थौ कथमिमौ मन्त्रौ स्याताम्? निन्दावचनौ हीमौ – नैष दोषः; स्तुतिरेवैषा, न निन्दावचनौ; यस्मात् ईदृशमप्यतिक्रूरं कर्म कुर्वतोर्युवयोः न लोम च मीयत इति – न चान्यत्किञ्चिद्धीयत एवेति – स्तुतावेतौ भवतः; निन्दां प्रशंसां हि लौकिकाः स्मरन्ति; तथा प्रशंसारूपा च निन्दा लोके प्रसिद्धा। दध्यङ् नाम आथर्वणः; -इत्यनर्थको निपातः; यन्मधु कक्ष्यम् आत्मज्ञानलक्षणम् आथर्वणः वां युवाभ्याम् अश्वस्य शीर्ष्णा शिरसा, प्र यत् ईम् उवाच – यत्प्रोवाच मधु; ईमित्यनर्थको निपातः॥
🔗  इदं वै तन्मधु इत्यादि पूर्ववत् मन्त्रान्तरप्रदर्शनार्थम्। तथा अन्यो मन्त्रः तामेव आख्यायिकामनुसरति स्म। आथर्वणो दध्यङ्नाम – आथर्वणोऽन्यो विद्यत इत्यतो विशिनष्टि – दध्यङ्नाम आथर्वणः, तस्मै दधीचे आथर्वणाय, हे अश्विनौ इति मन्त्रदृशो वचनम्; अश्व्यम् अश्वस्य स्वभूतम्, शिरः, ब्राह्मणस्य शिरसि च्छिन्ने अश्वस्य शिरश्छित्त्वा ईदृशमतिक्रूरं कर्म कृत्वा अश्व्यं शिरः ब्राह्मणं प्रति ऐरयतं गमितवन्तौ, युवाम्; च आथर्वणः वां युवाभ्याम् तन्मधु प्रवोचत्, यत्पूर्वं प्रतिज्ञातम् – वक्ष्यामीति। स किमर्थमेवं जीवितसन्देहमारुह्य प्रवोचदित्युच्यते – ऋतायन् यत्पूर्वं प्रतिज्ञातं सत्यं तत्परिपालयितुमिच्छन्; जीवितादपि हि सत्यधर्मपरिपालना गुरुतरेत्येतस्य लिङ्गमेतत्। किं तन्मधु प्रवोचदित्युच्यते – त्वाष्ट्रम्, त्वष्टा आदित्यः, तस्य सम्बन्धि – यज्ञस्य शिरश्छिन्नं त्वष्ट्रा अभवत्, तत्प्रतिसन्धानार्थं प्रवर्ग्यं कर्म, तत्र प्रवर्ग्यकर्माङ्गभूतं यद्विज्ञानं तत् त्वाष्ट्रं मधु – यत्तस्य चिरश्छेदनप्रतिसन्धानादिविषयं दर्शनं तत् त्वाष्ट्रं यन्मधु; हे दस्रौ दसौ इति परबलानामुपक्षपयितारौ शत्रूणां हिंसितारौ; अपि च न केवलं त्वाष्ट्रमेव मधु कर्मसम्बन्धि युवाभ्यामवोचत्; अपि च कक्ष्यं गोप्यं रहस्यं परमात्मसम्बन्धि यद् विज्ञानं मधु मधुब्राह्मणेनोक्तं अध्यायद्वयप्रकाशितम्, तच्च वां युवाभ्यां प्रवोचदित्यनुवर्तते॥
🔗  इदं वै तन्मधु इति पूर्ववत्। उक्तौ द्वौ मन्त्रौ प्रवर्ग्यसम्बन्ध्याख्यायिकोपसंहर्तारौ; द्वयोः प्रवर्ग्यकर्मार्थयोरध्याययोरर्थ आख्यायिकाभूताभ्यां मन्त्राभ्यां प्रकाशितः। ब्रह्मविद्यार्थयोस्त्वध्याययोरर्थ उत्तराभ्यामृग्भ्यां प्रकाशयितव्य इत्यतः प्रवर्तते। यत् कक्ष्यं च मधु उक्तवानाथर्वणो युवाभ्यामित्युक्तम् – किं पुनस्तन्मध्वित्युच्यते – पुरश्चक्रे, पुरः पुराणि शरीराणि – यत इयमव्याकृतव्याकरणप्रक्रिया – स परमेश्वरो नामरूपे अव्याकृते व्याकुर्वाणः प्रथमं भूरादीन् लोकान्सृष्ट्वा, चक्रे कृतवान्, द्विपदः द्विपादुपलक्षितानि मनुष्यशरीराणि पक्षिशरीराणि; तथा पुरः शरीराणि चक्रे चतुष्पदः चतुष्पादुपलक्षितानि पशुशरीराणि; पुरः पुरस्तात्, ईश्वरः पक्षी लिङ्गशरीरं भूत्वा पुरः शरीराणि – पुरुषः आविशदिति अस्यार्थमाचष्टे श्रुतिः – स वा अयं पुरुषः सर्वासु पूर्षु सर्वशरीरेषु पुरिशयः, पुरि शेत इति पुरिशयः सन् पुरुष इत्युच्यते; न एनेन अनेन किञ्चन किञ्चिदपि अनावृतम् अनाच्छादितम्; तथा न एनेन किञ्चन असंवृतम् अन्तरननुप्रवेशितम् – बाह्यभूतेनान्तर्भूतेन च न अनावृतम्; एवं स एव नामरूपात्मना अन्तर्बहिर्भावेन कार्यकरणरूपेण व्यवस्थितः; पुरश्चक्रे इत्यादिमन्त्रः सङ्क्षेपत आत्मैकत्वमाचष्ट इत्यर्थः॥
🔗  इदं वै तन्मधु इत्यादि पूर्ववत्। रूपं रूपं प्रतिरूपो बभूव – रूपं रूपं प्रति प्रतिरूपः रूपान्तरं बभूवेत्यर्थः; प्रतिरूपोऽनुरूपो वा यादृक्संस्थानौ मातापितरौ तत्संस्थानः तदनुरूप एव पुत्रो जायते; न हि चतुष्पदो द्विपाज्जायते, द्विपदो वा चतुष्पात्; स एव हि परमेश्वरो नामरूपे व्याकुर्वाणः रूपं रूपं प्रतिरूपो बभूव। किमर्थं पुनः प्रतिरूपमागमनं तस्येत्युच्यते – तत् अस्य आत्मनः रूपं प्रतिचक्षणाय प्रतिख्यापनाय; यदि हि नामरूपे न व्याक्रियेते, तदा अस्य आत्मनो निरुपाधिकं रूपं प्रज्ञानघनाख्यं न प्रतिख्यायेत; यदा पुनः कार्यकरणात्मना नामरूपे व्याकृते भवतः, तदा अस्य रूपं प्रतिख्यायेत। इन्द्रः परमेश्वरः मायाभिः प्रज्ञाभिः नामरूपभूतकृतमिथ्याभिमानैर्वा न तु परमार्थतः, पुरुरूपः बहुरूपः, ईयते गम्यते – एकरूप एव प्रज्ञानघनः सन् अविद्याप्रज्ञाभिः। कस्मात्पुनः कारणात्? युक्ताः रथ इव वाजिनः, स्वविषयप्रकाशनाय, हि यस्मात्, अस्य हरयः हरणात् इन्द्रियाणि, शता शतानि, दश च, प्राणिभेदबाहुल्यात् शतानि दश च भवन्ति; तस्मात् इन्द्रियविषयबाहुल्यात् तत्प्रकाशनायैव च युक्तानि तानि न आत्मप्रकाशनाय; ‘पराञ्चि खानि व्यतृणत्स्वयम्भूः’ (KathU.2.1.1) इति हि काठके। तस्मात् तैरेव विषयस्वरूपैरीयते, न प्रज्ञानघनैकरसेन स्वरूपेण। एवं तर्हि अन्यः परमेश्वरः अन्ये हरय इत्येवं प्राप्ते उच्यते – अयं वै हरयोऽयं वै दश च सहस्राणि बहूनि च अनन्तानि च; प्राणिभेदस्य आनन्त्यात्। किं बहुना? तदेतद्ब्रह्म य आत्मा, अपूर्वम् नास्य कारणं पूर्वं विद्यत इत्यपूर्वम्, नास्यापरं कार्यं विद्यत इति अनपरम्, नास्य जात्यन्तरमन्तराले विद्यत इति अनन्तरम्, तथा बहिरस्य न विद्यत इति अबाह्यम्; किं पुनस्तत् निरन्तरं ब्रह्म? अयमात्मा; कोऽसौ? यः प्रत्यगात्मा द्रष्टा, श्रोता मन्ता बोद्धा, विज्ञाता सर्वानुभूः – सर्वात्मना सर्वमनुभवतीति सर्वानुभूः – इति एतद् अनुशासनं सर्ववेदान्तोपदेशः; एष सर्ववेदान्तानामुपसंहृतोऽर्थः; एतदमृतमभयम्; परिसमाप्तश्च शास्त्रार्थः॥

Go to Top ('Home' key on many Windows browsers)

BrhU.2.06

🔗  अथ इदानीं ब्रह्मविद्यार्थस्य मधुकाण्डस्य वंशः स्तुत्यर्थो ब्रह्मविद्यायाः। मन्त्रश्चायं स्वाध्यायार्थो जपार्थश्च। तत्र वंश इव वंशः – यथा वेणुः वंशः पर्वणः पर्वणो हि भिद्यते तद्वत् अग्रात्प्रभृति आ मूलप्राप्तेः अयं वंशः; अध्यायचतुष्टयस्य आचार्यपरम्पराक्रमो वंश इत्युच्यते; तत्र प्रथमान्तः शिष्यः पञ्चम्यन्त आचार्यः; परमेष्ठी विराट्; ब्रह्मणो हिरण्यगर्भात्; ततः परम् आचार्यपरम्परा नास्ति। यत्पुनर् ब्रह्म, तन्नित्यं स्वयम्भु, तस्मै ब्रह्मणे स्वयम्भुवे नमः

Go to Top ('Home' key on many Windows browsers)

br.3.01 br.3.02 br.3.03 br.3.04 br.3.05 br.3.06 br.3.07 br.3.08 br.3.09

🔗 ‘जनको ह वैदेहः’ इत्यादि याज्ञवल्कीयं काण्डमारभ्यते; उपपत्तिप्रधानत्वात् अतिक्रान्तेन मधुकाण्डेन समानार्थत्वेऽपि सति न पुनरुक्तता; मधुकाण्डं हि आगमप्रधानम्; आगमोपपत्ती हि आत्मैकत्वप्रकाशनाय प्रवृत्ते शक्नुतः करतलगतबिल्वमिव दर्शयितुम्; ‘श्रोतव्यो मन्तव्यः’ (BrhU.2.4.5) इति ह्युक्तम्; तस्मादागमार्थस्यैव परीक्षापूर्वकं निर्धारणाय याज्ञवल्कीयं काण्डमुपपत्तिप्रधानमारभ्यते। आख्यायिका तु विज्ञानस्तुत्यर्था उपायविधिपरा वा; प्रसिद्धो ह्युपायो विद्वद्भिः शास्त्रेषु च दृष्टः – दानम्; दानेन ह्युपनमन्ते प्राणिनः; प्रभूतं हिरण्यं गोसहस्रदानं च इहोपलभ्यते; तस्मात् अन्यपरेणापि शास्त्रेण विद्याप्राप्त्युपायदानप्रदर्शनार्था आख्यायिका आरब्धा। अपि च तद्विद्यसंयोगः तैश्च सह वादकरणं विद्याप्राप्त्युपायो न्यायविद्यायां दृष्टः; तच्च अस्मिन्नध्याये प्राबल्येन प्रदर्श्यते; प्रत्यक्षा च विद्वत्संयोगे प्रज्ञावृद्धिः। तस्मात् विद्याप्राप्त्युपायप्रदर्शनार्थैव आख्यायिका॥

Go to Top ('Home' key on many Windows browsers)

BrhU.3.01

🔗  जनको नाम किल सम्राट् राजा बभूव विदेहानाम्; तत्र भवो वैदेहः; स च बहुदक्षिणेन यज्ञेन – शाखान्तरप्रसिद्धो वा बहुदक्षिणो नाम यज्ञः, अश्वमेधो वा दक्षिणाबाहुल्यात् बहुदक्षिण इहोच्यते – तेन इजे अयजत्। तत्र तस्मिन्यज्ञे निमन्त्रिता दर्शनकामा वा कुरूणां देशानां पञ्चालानांब्राह्मणाः – तेषु हि विदुषां बाहुल्यं प्रसिद्धम् – अभिसमेताः अभिसङ्गता बभूवुः। तत्र महान्तं विद्वत्समुदायं दृष्ट्वा तस्य ह किल जनकस्य वैदेहस्य यजमानस्य, को नु खल्वत्र ब्रह्मिष्ठ इति विशेषेण ज्ञातुमिच्छा विजिज्ञासा, बभूव; कथम्? कःस्वित् को नु खलु एषां ब्राह्मणानाम् अनूचानतमः – सर्व इमेऽनूचानाः, कः स्विदेषामतिशयेनानूचान इति। स अनूचानतमविषयोत्पन्नजिज्ञासः सन् तद्विज्ञानोपायार्थं गवां सहस्रं प्रथमवयसाम् अवरुरोध गोष्ठेऽवरोधं कारयामास; किंविशिष्टास्ता गावोऽवरुद्धा इत्युच्यते – पलचतुर्थभागः पादः सुवर्णस्य, दश दश पादाः एकैकस्याः गोः शृङ्गयोः आबद्धा बभूवुः, पञ्च पञ्च पादा एकैकस्मिन् शृङ्गे॥
🔗  गाः एवमवरुध्य ब्राह्मणान् तान्होवाच, हे ब्राह्मणाः भगवन्तः इत्यामन्त्र्य – यः वः युष्माकं ब्रह्मिष्ठः – सर्वे यूयं ब्रह्माणः, अतिशयेन युष्माकं ब्रह्मा यः – सः एता गा उदजताम् उत्कालयतु स्वगृहं प्रति। ते ह ब्राह्मणा न दधृषुः – ते किल एवमुक्ता ब्राह्मणाः ब्रह्मिष्ठतामात्मनः प्रतिज्ञातुं न दधृषुः न प्रगल्भाः संवृत्ताः। अप्रगल्भभूतेषु ब्राह्मणेषु अथ ह याज्ञवल्क्यः स्वम् आत्मीयमेव ब्रह्मचारिणम् अन्तेवासिनम् उवाचएताः गाः हे सोम्य उदज उद्गमय अस्मद्गृहान्प्रति, हे सामश्रवः – सामविधिं हि शृणोति, अतः अर्थाच्चतुर्वेदो याज्ञवल्क्यः। ताः गाः ह उदाचकार उत्कालितवानाचार्यगृहं प्रति। याज्ञवल्क्येन ब्रह्मिष्ठपणस्वीकरणेन आत्मनो ब्रह्मिष्ठता प्रतिज्ञातेति ते ह चुक्रुधुः क्रुद्धवन्तो ब्राह्मणाः। तेषां क्रोधाभिप्रायमाचष्टे – कथं नः अस्माकम् एकैकप्रधानानां ब्रह्मिष्ठोऽस्मीति ब्रुवीतेतिअथ ह एवं क्रुद्धेषु ब्राह्मणेषु जनकस्य यजमानस्य होता ऋत्विक् अश्वलो नाम बभूव आसीत्। स एवं याज्ञवल्क्यम् – ब्रह्मिष्ठाभिमानी राजाश्रयत्वाच्च धृष्टः – याज्ञवल्क्यं पप्रच्छ पृष्टवान्; कथम्? त्वं नु खलु नो याज्ञवल्क्य ब्रह्मिष्ठोऽसी३ इति – प्लुतिः भर्त्सनार्था। स होवाच याज्ञवल्कयः – नमस्कुर्मो वयं ब्रह्मिष्ठाय, इदानीं गोकामाः स्मो वयमितितं ब्रह्मिष्ठप्रतिज्ञं सन्तं तत एव ब्रह्मिष्ठपणस्वीकरणात् प्रष्टुं दध्रे धृतवान्मनो होता अश्वलः
🔗  याज्ञवल्क्येति होवाच। तत्र मधुकाण्डे पाङ्क्तेन कर्मणा दर्शनसमुच्चितेन यजमानस्य मृत्योरत्ययो व्याख्यातः उद्गीथप्रकरणे सङ्क्षेपतः; तस्यैव परीक्षाविषयोऽयमिति तद्गतदर्शनविशेषार्थोऽयं विस्तर आरभ्यते। यदिदं साधनजातम् अस्य कर्मणः ऋत्विगग्न्यादि मृत्युना कर्मलक्षणेन स्वाभाविकासङ्गसहितेन आप्तं व्याप्तम्, न केवलं व्याप्तम् अभिपन्नंमृत्युना वशीकृतं च – केन दर्शनलक्षणेन साधनेन यजमानः मृत्योराप्तिम् अति मृत्युगोचरत्वमतिक्रम्य मुच्यते स्वतन्त्रः मृत्योरवशो भवतीत्यर्थः। ननु उद्गीथ एवाभिहितम् येनातिमुच्यते मुख्यप्राणात्मदर्शनेनेति – बाढमुक्तम्; योऽनुक्तो विशेषस्तत्र, तदर्थोऽयमारम्भ इत्यदोषः। होत्रा ऋत्विजा अग्निना वाचा इत्याह याज्ञवल्क्यः। एतस्यार्थं व्याचष्टे – कः पुनर्होता येन मृत्युमतिक्रामतीति उच्यते – वाग्वै यज्ञस्य यजमानस्य, ‘यज्ञो वै यजमानः’ (शत. ब्राह्म. १४-२-२-२४) इति श्रुतेः, यज्ञस्य यजमानस्य या वाक् सैव होता अधियज्ञे; कथम्? तत् तत्र येयं वाक् यज्ञस्य यजमानस्य, सोऽयं प्रसिद्धोऽग्निः अधिदैवतम्; तदेतत्त्र्यन्नप्रकरणे व्याख्यातम्; चाग्निः होता, ‘अग्निर्वै होता’ (शत. ब्रा. ४-२-६) इति श्रुतेः। यदेतत् यज्ञस्य साधनद्वयम् – होता च ऋत्विक् अधियज्ञम्, अध्यात्मं च वाक्, एतदुभयं साधनद्वयं परिच्छिन्नं मृत्युना आप्तं स्वाभाविकाज्ञानासङ्गप्रयुक्तेन कर्मणा मृत्युना प्रतिक्षणमन्यथात्वमापद्यमानं वशीकृतम्; तत् अनेनाधिदैवतरूपेणाग्निना दृश्यमानं यजमानस्य यज्ञस्य मृत्योरतिमुक्तये भवति; तदेतदाह – स मुक्तिः स होता अग्निः मुक्तिः अग्निस्वरूपदर्शनमेव मुक्तिः; यदैव साधनद्वयमग्निरूपेण पश्यति, तदानीमेव हि स्वाभाविकादासङ्गान्मृत्योर्विमुच्यते आध्यात्मिकात्परिच्छिन्नरूपात् आधिभौतिकाच्च; तस्मात् स होता अग्निरूपेण दृष्टः मुक्तिः मुक्तिसाधनं यजमानस्य। सा अतिमुक्तिः – यैव च मुक्तिः सा अतिमुक्तिः अतिमुक्तिसाधनमित्यर्थः। साधनद्वयस्य परिच्छिन्नस्य या अधिदैवतरूपेण अपरिच्छिन्नेन अग्निरूपेण दृष्टिः, सा मुक्तिः; या असौ मुक्तिः अधिदैवतदृष्टिः सैव – अध्यात्माधिभूतपरिच्छेदविषयाङ्गास्पदं मृत्युमतिक्रम्य अधिदेवतात्वस्य अग्निभावस्य प्राप्तिर्या फलभूता सा अतिमुक्तिरित्युच्यते; तस्या अतिमुक्तेर्मुक्तिरेव साधनमिति कृत्वा सा अतिमुक्तिरित्याह। यजमानस्य हि अतिमुक्तिः वागादीनामग्न्यादिभावः इत्युद्गीथप्रकरणे व्याख्यातम्; तत्र सामान्येन मुख्यप्राणदर्शनमात्रं मुक्तिसाधनमुक्तम्, न तद्विशेषः; वागादीनामग्न्यादिदर्शनमिह विशेषो वर्ण्यते; मृत्युप्राप्त्यतिमुक्तिस्तु सैव फलभूता, या उद्गीथब्राह्मणेन व्याख्याता ‘मृत्युमतिक्रान्तो दीप्यते’ (BrhU.1.3.12), (BrhU.1.3.13), (BrhU.1.3.14), (BrhU.1.3.15), (BrhU.1.3.16), इत्याद्या॥
🔗  याज्ञवल्क्येति होवाच। स्वाभाविकात् अज्ञानासङ्गप्रयुक्तात् कर्मलक्षणान्मृत्योः अतिमुक्तिर्व्याख्याता; तस्य कर्मणः सासङ्गस्य मृत्योराश्रयभूतानां दर्शपूर्णमासादिकर्मसाधनानां यो विपरिणामहेतुः कालः, तस्मात्कालात् पृथक् अतिमुक्तिर्वक्तव्येतीदमारभ्यते, क्रियानुष्ठानव्यतिरेकेणापि प्राक् ऊर्ध्वं च क्रियायाः साधनविपरिणामहेतुत्वेन व्यापारदर्शनात्कालस्य; तस्मात् पृथक् कालादतिमुक्तिर्वक्तव्येत्यत आह – यदिदं सर्वम् अहोरात्राभ्यामाप्तम्, स च कालो द्विरूपः – अहोरात्रादिलक्षणः तिथ्यादिलक्षणश्च; तत्र अहोरात्रादिलक्षणात्तावदतिमुक्तिमाह – अहोरात्राभ्यां हि सर्वं जायते वर्धते विनश्यति च, तथा यज्ञसाधनं च – यज्ञस्य यजमानस्य चक्षुः अध्वर्युश्च; शिष्टान्यक्षराणि पूर्ववन्नेयानि; यजमानस्य चक्षुरध्वर्युश्च साधनद्वयम् अध्यात्माधिभूतपरिच्छेदं हित्वा अधिदैवतात्मना दृष्टं यत् स मुक्तिः – सोऽध्वर्युः आदित्यभावेन दृष्टो मुक्तिः; सैव मुक्तिरेव अतिमुक्तिः इति पूर्ववत्; आदित्यात्मभावमापन्नस्य हि नाहोरात्रे सम्भवतः॥
🔗  इदानीं तिथ्यादिलक्षणादतिमुक्तिरुच्यते – यदिदं सर्वम् – अहोरात्रयोरविशिष्टयोरादित्यः कर्ता, न प्रतिपदादीनां तिथीनाम्; तासां तु वृद्धिक्षयोपगमनेन प्रतिपत्प्रभृतीनां चन्द्रमाः कर्ता; अतः तदापत्त्या पूर्वपक्षापरपक्षात्ययः, आदित्यापत्त्या अहोरात्रात्ययवत्। तत्र यजमानस्य प्राणो वायुः, एव उद्गाता – इत्युद्गीथब्राह्मणेऽवगतम्, ‘वाचा च ह्येव स प्राणेन चोदगायत्’ (BrhU.1.3.24) इति च निर्धारितम्; अथैतस्य प्राणस्यापः शरीरं ज्योतीरूपमसौ चन्द्रः’ इति च; प्राणवायुचन्द्रमसामेकत्वात् चन्द्रमसा वायुना चोपसंहारे न कश्चिद्विशेषः – एवम्मन्यमाना श्रुतिः वायुना अधिदैवतरूपेणोपसंहरति। अपि च वायुनिमित्तौ हि वृद्धिक्षयौ चन्द्रमसः; तेन तिथ्यादिलक्षणस्य कालस्य कर्तुरपि कारयिता वायुः। अतो वायुरूपापन्नः तिथ्यादिकालादतीतो भवतीत्युपपन्नतरं भवति। तेन श्रुत्यन्तरे चन्द्ररूपेण दृष्टिः मुक्तिरतिमुक्तिश्च; इह तु काण्वानां साधनद्वयस्य तत्कारणरूपेण वाय्वात्मना दृष्टिः मुक्तिरतिमुक्तिश्चेति – न श्रुत्योर्विरोधः॥
🔗  मृत्योः कालात् अतिमुक्तिर्व्याख्याता यजमानस्य। सोऽतिमुच्यमानः केनावष्टम्भेन परिच्छेदविषयं मृत्युमतीत्य फलं प्राप्नोति – अतिमुच्यते – इत्युच्यते – यदिदं प्रसिद्धम् अन्तरिक्षम् आकाशः अनारम्बणम् अनालम्बनम् इव-शब्दात् अस्त्येव तत्रालम्बनम्, तत्तु न ज्ञायते इत्यभिप्रायः। यत्तु तत् अज्ञायमानमालम्बनम्, तत् सर्वनाम्ना केनेति पृच्छ्यते, अन्यथा फलप्राप्तेरसम्भवात्; येनावष्टम्भेन आक्रमेण यजमानः कर्मफलं प्रतिपद्यमानः अतिमुच्यते, किं तदिति प्रश्नविषयः; केन आक्रमेण यजमानः स्वर्गं लोकमाक्रमत इति – स्वर्गं लोकं फलं प्राप्नोति अतिमुच्यत इत्यर्थः। ब्रह्मणा ऋत्विजा मनसा चन्द्रेण इत्यक्षर-न्यासः पूर्ववत्। तत्राध्यात्मं यज्ञस्य यजमानस्य यदिदं प्रसिद्धं मनः, सोऽसौ चन्द्रः अधिदैवम्; मनोऽध्यात्मं चन्द्रमा अधिदैवतमिति हि प्रसिद्धम्; एव चन्द्रमा ब्रह्मा ऋत्विक् तेन – अधिभूतं ब्रह्मणः परिच्छिन्नं रूपम् अध्यात्मं च मनसः एतत् द्वयम् अपरिच्छिन्नेन चन्द्रमसो रूपेण पश्यति; तेन चन्द्रमसा मनसा अवलम्बनेन कर्मफलं स्वर्गं लोकं प्राप्नोति अतिमुच्यते इत्यभिप्रायः। इतीत्युपसंहारार्थं वचनम्; इति एवं प्रकारा मृत्योः अतिमोक्षाः; सर्वाणि हि दर्शनप्रकाराणि यज्ञाङ्गविषयाण्यस्मिन्नवसरे उक्तानीति कृत्वा उपसंहारः – इत्यतिमोक्षाः – एवं प्रकारा अतिमोक्षा इत्यर्थः। अथ सम्पदः अथ अधुना सम्पदः उच्यन्ते। सम्पन्नाम केनचित्सामान्येन अग्निहोत्रादीनां कर्मणां फलवतां तत्फलाय सम्पादनम्, सम्पत्फलस्यैव वा; सर्वोत्साहेन फलसाधनानुष्ठाने प्रयतमानानां केनचिद्वैगुण्येनासम्भवः; तत् इदानीमाहिताग्निः सन् यत्कञ्चिित्कर्म अग्निहोत्रादीनां यथासम्भवमादाय आलम्बनीकृत्य कर्मफलविद्वत्तायां सत्यां यत्कर्मफलकामो भवति, तदेव सम्पादयति; अन्यथा राजसूयाश्वमेधपुरुषमेधसर्वमेधलक्षणानामधिकृतानां त्रैवर्णिकानामपि असम्भवः – तेषां तत्पाठः स्वाध्यायार्थ एव केवलः स्यात्, यदि तत्फलप्राप्त्युपायः कश्चन न स्यात्; तस्मात् तेषां सम्पदैव तत्फलप्राप्तिः, तस्मात्सम्पदामपि फलवत्त्वम्, अतः सम्पदं आरभ्यन्ते॥
🔗  याज्ञवल्क्येति होवाच अभिमुखीकरणाय। कतिभिरयमद्यर्ग्भिर्होतास्मिन्यज्ञे – कतिभिः कतिसङ्ख्याभिः ऋग्भिः ऋग्जातिभिः, अयं होता ऋत्विक्, अस्मिन् यज्ञे करिष्यति शस्त्रं शंसति; आह इतरः – तिसृभिः ऋग्जातिभिः – इति – उक्तवन्तं प्रत्याह इतरः – कतमास्तास्तिस्र इति; सङ्ख्येयविषयोऽयं प्रश्नः, पूर्वस्तु सङ्ख्याविषयः। पुरोनुवाक्या च – प्राग्यागकालात् याः प्रयुज्यन्ते ऋचः, सा ऋग्जातिः पुरोनुवाक्येत्युच्यते; यागार्थं याः प्रयुज्यन्ते ऋचः सा ऋग्जातिः याज्या; शस्त्रार्थं याः प्रयुज्यन्ते ऋचः सा ऋग्जातिः शस्या; सर्वास्तु याः काश्चन ऋचः, ताः स्तोत्रिया वा अन्या वा सर्वा एतास्वेव तिसृषु ऋग्जातिष्वन्तर्भवन्ति। किं ताभिर्जयतीति यत्किञ्चेदं प्राणभृदिति – अतश्च सङ्ख्यासामान्यात् यत्किञ्चित्प्राणभृज्जातम्, तत्सर्वं जयति तत्सर्वं फलजातं सम्पादयति सङ्ख्यादिसामान्येन॥
🔗  याज्ञवल्क्येति होवाच इति पूर्ववत्। कत्ययमद्याध्वर्युरस्मिन्यज्ञे आहुतीर्होष्यतीति – कति आहुतिप्रकाराः? तिस्र इति; कतमास्तास्तिस्र इति पूर्ववत्। इतर आह – या हुता उज्ज्वलन्ति समिदाज्याहुतयः, या हुता अतिनेदन्ते अतीव शब्दं कुर्वन्ति मांसाद्याहुतयः, या हुता अधिशेरते अधि अधो गत्वा भूमेः अधि-शेरते पयःसोमाहुतयः। किं ताभिर्जयतीति; ताभिः एवं निर्वर्तिताभिराहुतिभिः किं जयतीति; याः आहुतयो हुता उज्ज्वलन्ति उज्ज्वलनयुक्ता आहुतयो निर्वर्तिताः – फलं च देवलोकाख्यं उज्ज्वलमेव; तेन सामान्येन या मयैता उज्ज्वलन्त्य आहुतयो निर्वर्त्यमानाः, ता एताः – साक्षाद्देवलोकस्य कर्मफलस्य रूपं देवलोकाख्यं फलमेव मया निर्वर्त्यते – इत्येवं सम्पादयति। या हुता अतिनेदन्ते आहुतयः, पितृलोकमेव ताभिर्जयति, कुत्सितशब्दकर्तृत्वसामान्येन; पितृलोकसम्बद्धायां हि संयमिन्यां पुर्यां वैवस्वतेन यात्यमानानां ‘हा हताः स्म, मुञ्च मुञ्च’ इति शब्दो भवति; तथा अवदानाहुतयः; तेन पितृलोकसामान्यात्, पितृलोक एव मया निर्वर्त्यते- इति सम्पादयति। या हुता अधिशेरते, मनुष्यलोकमेव ताभिर्जयति, भूम्युपरिसम्बन्धसामान्यात्; अध इव हि अध एव हि मनुष्यलोकः उपरितनान् साध्यान् लोकानपेक्ष्य, अथवा अधोगमनमपेक्ष्य; अतः मनुष्यलोक एव मया निर्वर्त्यते – इति सम्पादयति पयःसोमाहुतिनिर्वर्तनकाले॥
🔗  याज्ञवल्क्येति होवाच ति पूर्ववत्। अयम् ऋत्विक् ब्रह्मा दक्षिणतो ब्रह्मा आसने स्थित्वा यज्ञं गोपायति। कतिभिर्देवताभिर्गोपायतीति प्रासङ्गिकमेतद्बहुवचनम् – एकया हि देवतया गोपायत्यसौ; एवं ज्ञाते बहुवचनेन प्रश्नो नोपपद्यते स्वयं जानतः; तस्मात् पूर्वयोः कण्डिकयोः प्रश्नप्रतिवचनेषु – कतिभिः कति तिसृभिः तिस्रः – इति प्रसङ्गं दृष्ट्वा इहापि बहुवचनेनैव प्रश्नोपक्रमः क्रियते; अथवा प्रतिवादिव्यामोहार्थं बहुवचनम्। इतर आह – एकयेति; एका सा देवता, यया दक्षिणतः स्थित्वा ब्रह्म आसने यज्ञं गोपायति। कतमा सैकेतिमन एवेति, मनः सा देवता; मनसा हि ब्रह्मा व्याप्रियते ध्यानेनैव, ‘तस्य यज्ञस्य मनश्च वाक्च वर्तनी तयोरन्यतरां मनसा संस्करोति ब्रह्मा’ (ChanU.4.16.1), (ChanU.4.16.2) इति श्रुत्यन्तरात्; तेन मन एव देवता, तया मनसा हि गोपायति ब्रह्मा यज्ञम्। तच्च मनः वृत्तिभेदेन अनन्तम्; वै-शब्दः प्रसिद्धावद्योतनार्थः; प्रसिद्धं मनस आनन्त्यम्; तदानन्त्याभिमानिनो देवाः; अनन्ता वै विश्वे देवाः – ‘सर्वे देवा यत्रैकं भवन्ति’ इत्यादिश्रुत्यन्तरात्; तेन आनन्त्यसामान्यात् अनन्तमेव स तेन लोकं जयति
🔗  याज्ञवल्क्येति होवाच इति पूर्ववत्। कति स्तोत्रियाः स्तोष्यति इति अयमुद्गाता। स्तोत्रिया नाम ऋक् सामसमुदायः कतिपयानामृचाम्। स्तोत्रिया वा शस्या वा याः काश्चन ऋचः, ताः सर्वास्ः तिस्रः एव इति आह; ताश्च व्याख्याताः – पुरोनुवाक्या च याज्या च शस्यैव तृतीयेति। तत्र पूर्वमुक्तम् – यत्किञ्चेदं प्राणभृत्सर्वं यजतीति तत् केन सामान्येनेति; उच्यते – कतमास्तास्तिस्रः ऋचः या अध्यात्मं भवन्ति इति; प्राणः एव पुरोनुवाक्या, प-शब्दसामान्यात्; अपानो याज्या, आनन्तर्यात् – अपानेन हि प्रत्तं हविः देवता ग्रसन्ति, यागश्च प्रदानम्; व्यानः शस्या – ‘अप्राणन्ननपानन्नृचमभिव्याहरति’ (ChanU.1.3.4) इति श्रुत्यन्तरात्। किं ताभिर्जयतीति व्याख्यातम्। तत्र विशेषसम्बन्धसामान्यमनुक्तमिहोच्यते, सर्वमन्यद्व्याख्यातम्; लोकसम्बन्धसामान्येन पृथिवीलोकमेव पुरोनुवाक्यया जयति; अन्तरिक्षलोकं याज्यया, मध्यमत्वसामान्यात्; द्युलोकं शस्यया ऊर्ध्वत्वसामान्यात्। ततो ह तस्मात् आत्मनः प्रश्ननिर्णयात् असौ होता अश्वलः उपरराम – नायम् अस्मद्गोचर इति॥

Go to Top ('Home' key on many Windows browsers)

BrhU.3.02

🔗  आख्यायिकासम्बन्धः प्रसिद्ध एव। मृत्योरतिमुक्तिर्व्याख्याता काललक्षणात् कर्मलक्षणाच्च; कः पुनरसौ मृत्युः, यस्मात् अतिमुक्तिर्व्याख्याता? स च स्वाभाविकाज्ञानसङ्गास्पदः अध्यात्माधिभूतविषयपरिच्छिन्नः ग्रहातिग्रहलक्षणो मृत्युः। तस्मात्परिच्छिन्नरूपान्मृत्योरतिमुक्तस्य रूपाणि अग्न्यादित्यादीनि उद्गीथप्रकरणे व्याख्यातानि; अश्वलप्रश्ने च तद्गतो विशेषः कश्चित्; तच्च एतत् कर्मणां ज्ञानसहितानां फलम्। एतस्मात्साध्यसाधनरूपात्संसारान्मोक्षः कर्तव्य इत्यतः बन्धनरूपस्य मृत्योः स्वरूपमुच्यते; बद्धस्य हि मोक्षः कर्तव्यः। यदपि अतिमुक्तस्य स्वरूपमुक्तम्, तत्रापि ग्रहातिग्रहाभ्यामविनिर्मुक्त एव मृत्युरूपाभ्याम्; तथा चोक्तम् – ‘अशनाया हि मृत्युः’ (BrhU.1.2.1); ‘एष एव मृत्युः’ (श. ब्रा. १०-५-२-३) इति आदित्यस्थं पुरुषमङ्गीकृत्य आह, ‘एको मृत्युर्बहवा’ (श. ब्रा. १०-५-२-१६) इति च; तदात्मभावापन्नो हि मृत्योराप्तिमतिमुच्यत इत्युच्यते; न च तत्र ग्रहातिग्रहौ मृत्युरूपौ न स्तः; ‘अथैतस्य मनसो द्यौः शरीरं ज्योतीरूपमसावादित्यः’ (BrhU.1.5.12) ‘मनश्च ग्रहः स कामेनातिग्राहेण गृहीतः’ (BrhU.3.2.7) इति वक्ष्यति – ‘प्राणो वै ग्रहः सोऽपानेनातिग्राहेण’ (BrhU.3.2.2) इति, ‘वाग्वै ग्रहः स नाम्नातिग्राहेण’ (BrhU.3.2.3) इति च। तथा त्र्यन्नविभागे व्याख्यातमस्माभिः। सुविचारितं चैतत् – यदेव प्रवृत्तिकारणम्, तदेव निवृत्तिकारणं न भवतीति।
केचित्तु सर्वमेव निवृत्तिकारणं मन्यन्ते; अतः कारणात् – पूर्वस्मात्पूर्वस्मात् मृत्योर्मुच्यते उत्तरमुत्तरं प्रतिपद्यमानः – व्यावृत्त्यर्थमेव प्रतिपद्यते, न तु तादर्थ्यम् – इत्यतः आद्वैतक्षयात् सर्वं मृत्युः, द्वैतक्षये तु परमार्थतो मृत्योराप्तिमतिमुच्यते; अतश्च आपेक्षिकी गौणी मुक्तिरन्तराले। सर्वमेतत् एवम् अबार्हदारण्यकम्। ननु सर्वैकत्वं मोक्षः, ‘तस्मात्तत्सर्वमभवत्’ (BrhU.1.4.10) इति श्रुतेः – बाढं भवत्येतदपि; न तु ‘ग्रामकामो यजेत’ (तै. आ. १२-१०-४) ‘पशुकामो यजेत’ (तै. आ. १६-१२-८) इत्यादिश्रुतीनां तादर्थ्यम्; यदि हि अद्वैतार्थत्वमेव आसाम्, ग्रामपशुस्वर्गाद्यर्थत्वं नास्तीति ग्रामपशुस्वर्गादयो न गृह्येरन्; गृह्यन्ते तु कर्मफलवैचित्र्यविशेषाः; यदि च वैदिकानां कर्मणां तादर्थ्यमेव, संसार एव नाभविष्यत्। अथ तादर्थ्येऽपि अनुनिष्पादितपदार्थस्वभावः संसार इति चेत्, यथा च रूपदर्शनार्थ आलोके सर्वोऽपि तत्रस्थः प्रकाश्यत एव – न, प्रमाणानुपपत्तेः; अद्वैतार्थत्वे वैदिकानां कर्मणां विद्यासहितानाम्, अन्यस्यानुनिष्पादितत्वे प्रमाणानुपपत्तिः – न प्रत्यक्षम्, नानुमानम्, अत एव च न आगमः। उभयम् एकेन वाक्येन प्रदर्श्यत इति चेत्, कुल्याप्रणयनालोकादिवत् – तन्नैवम्, वाक्यधर्मानुपपत्तेः; न च एकवाक्यगतस्यार्थस्य प्रवृत्तिनिवृत्तिसाधनत्वमवगन्तुं शक्यते; कुल्याप्रणयनालोकादौ अर्थस्य प्रत्यक्षत्वाददोषः। यदप्युच्यते – मन्त्रा अस्मिन्नर्थे दृष्टा इति – अयमेव तु तावदर्थः प्रमाणागम्यः; मन्त्राः पुनः किमस्मिन्नर्थे आहोस्विदन्यस्मिन्नर्थे इति मृग्यमेतत्। तस्माद्ग्रहातिग्रहलक्षणो मृत्युः बन्धः, तस्मात् मोक्षो वक्तव्य इत्यत इदमारभ्यते। न च जानीमो विषयसम्बन्धाविव अन्तरालेऽवस्थानम् अर्धजरतीयं कौशलम्। यत्तु मृत्योरतिमुच्यते इत्युक्त्वा ग्रहातिग्रहावुच्येते, तत्तु अर्थसम्बन्धात्; सर्वोऽयं साध्यसाधनलक्षणो बन्धः, ग्रहातिग्रहाविनिर्मोकात्; निगडे हि निर्ज्ञाते निगडितस्य मोक्षाय यत्नः कर्तव्यो भवति। तस्मात् तादर्थ्येन आरम्भः॥

अथ हैनम् – ह-शब्द ऐतिह्यार्थः; अथ अनन्तरम् अश्वले उपरते प्रकृतं याज्ञवल्क्यं जरत्कारुगोत्रो जारत्कारवः ऋतभागस्यापत्यम् आर्तभागः पप्रच्छ; याज्ञवल्क्येति होवाचेति अभिमुखीकरणाय; पूर्ववत्प्रश्नः – कति ग्रहाः कत्यतिग्रहा इति। इति-शब्दो वाक्यपरिसमाप्त्यर्थः। तत्र निर्ज्ञातेषु वा ग्रहातिग्रहेषु प्रश्नः स्यात्, अनिर्ज्ञातेषु वा; यदि तावत् ग्रहा अतिग्रहाश्च निर्ज्ञाताः, तदा तद्गतस्यापि गुणस्य सङ्ख्याया निर्ज्ञातत्वात् कति ग्रहाः कत्यतिग्रहा इति सङ्ख्याविषयः प्रश्नो नोपपद्यते; अथ अनिर्ज्ञाताः तदा सङ्ख्येयविषयप्रश्न इति के ग्रहाः केऽतिग्रहा इति प्रष्टव्यम्, न तु कति ग्रहाः कत्यतिग्रहा इति प्रश्नः; अपि च निर्ज्ञातसामान्यकेषु विशेषविज्ञानाय प्रश्नो भवति – यथा कतमेऽत्र कठाः कतमेऽत्र कालापा इति; न चात्र ग्रहातिग्रहा नाम पदार्थाः केचन लोके प्रसिद्धाः, येन विशेषार्थः प्रश्नः स्यात्; ननु च ‘अतिमुच्यते’ (BrhU.3.1.3), (BrhU.3.1.4), (BrhU.3.1.5) इत्युक्तम्, ग्रहगृहीतस्य हि मोक्षः, ‘स मुक्तिः सातिमुक्तिः’ (BrhU.3.1.3), (BrhU.3.1.4), (BrhU.3.1.5), (BrhU.3.1.6) इति हि द्विरुक्तम्, तस्मात्प्राप्ता ग्रहा अतिग्रहाश्च – ननु तत्रापि चत्वारो ग्रहा अतिग्रहाश्च निर्ज्ञाताः वाक्चक्षुःप्राणमनांसि, तत्र कतीति प्रश्नो नोपपद्यते निर्ज्ञातत्वात् – न, अनवधारणार्थत्वात्; न हि चतुष्ट्वं तत्र विवक्षितम्; इह तु ग्रहातिग्रहदर्शने अष्टत्वगुणविवक्षया कतीति प्रश्न उपपद्यत एव; तस्मात् ‘स मुक्तिः सातिमुक्तिः’ (BrhU.3.1.3), (BrhU.3.1.4), (BrhU.3.1.5), (BrhU.3.1.6) इति मुक्त्यतिमुक्ती द्विरुक्ते; ग्रहातिग्रहा अपि सिद्धाः। अतः कतिसङ्ख्याका ग्रहाः, कति वा अतिग्रहाः इति पृच्छति। इतर आह – अष्टौ ग्रहा अष्टावतिग्रहाः इतिये ते अष्टौ ग्रहाः अभिहिताः, कतमे ते नियमेन ग्रहीतव्या इति
🔗  तत्र आह – प्राणो वै ग्रहः – प्राण इति घ्राणमुच्यते, प्रकरणात्; वायुसहितः सः; अपानेन इति गन्धेनेत्येतत्; अपानसचिवत्वात् अपानो गन्ध उच्यते; अपानोपहृतं हि गन्धं घ्राणेन सर्वो लोको जिघ्रति; तदेतदुच्यते – अपानेन हि गन्धाञ्जिघ्रतीति
🔗  वाग्वै ग्रहः – वाचा हि अध्यात्मपरिच्छिन्नया आसङ्गविषयास्पदया असत्यानृतासभ्यबीभत्सादिवचनेषु व्यापृतया गृहीतो लोकः अपहृतः, तेन वाक् ग्रहः; स नाम्नातिग्राहेण गृहीतः – सः वागाख्यो ग्रहः, नाम्ना वक्तव्येन विषयेण, अतिग्राहेण अतिग्राहेणेति दैर्घ्यं छान्दसम्; वक्तव्यार्था हि वाक्; तेन वक्तव्येनार्थेन तादर्थ्येन प्रयुक्ता वाक् तेन वशीकृता; तेन तत्कार्यमकृत्वा नैव तस्या मोक्षः; अतः नाम्नातिग्राहेण गृहीता वागित्युच्यते; वक्तव्यासङ्गन प्रवृत्ता सर्वानर्थैर्युज्यते। समानमन्यत्। इत्येते त्वक्पर्यन्ता अष्टौ ग्रहाः स्पर्शपर्यन्ताश्चैते अष्टौ अतिग्रहाः इति॥
🔗  उपसंहृतेषु ग्रहातिग्रहेष्वाह पुनः – याज्ञवल्क्येति होवाच। यदिदं सर्वं मृत्योरन्नम् – यदिदं व्याकृतं सर्वं मृत्योरन्नम्, सर्वं जायते विपद्येत च ग्रहातिग्रहलक्षणेन मृत्युना ग्रस्तम् – का स्वित् का नु स्यात् सा देवता, यस्याः देवतायाः मृत्युः अपि अन्नं भवेत् – ‘मृत्युर्यस्योपसेचनम्’ (KathU.1.2.25) इति श्रुत्यन्तरात्। अयमभिप्रायः प्रष्टुः – यदि मृत्योर्मृत्युं वक्ष्यति, अनवस्था स्यात्; अथ न वक्ष्यति, अस्माद्ग्रहातिग्रहलक्षणान्मृत्योः मोक्षः नोपपद्यते; ग्रहातिग्रहमृत्युविनाशे हि मोक्षः स्यात्; स यदि मृत्योरपि मृत्युः स्यात् भवेत् ग्रहातिग्रहलक्षणस्य मृत्योर्विनाशः – अतः दुर्वचनं प्रश्नं मन्वानः पृच्छति ‘का स्वित्सा देवता’ इति। अस्ति तावन्मृत्योर्मृत्युः; ननु अनवस्था स्यात् – तस्याप्यन्यो मृत्युरिति – नानवस्था, सर्वमृत्योः मृत्य्वन्तरानुपपत्तेः; कथं पुनरवगम्यते – अस्ति मृत्योर्मृत्युरिति? दृष्टत्वात्; अग्निः तावत् सर्वस्य दृष्टो मृत्युः, विनाशकत्वात्, सोऽद्भिर्भक्ष्यते, सोऽग्निः अपामन्नम्, गृहाण तर्हि अस्ति मृत्योर्मृत्युरिति; तेन सर्वं ग्रहातिग्रहजातं भक्ष्यते मृत्योर्मृत्युना; तस्मिन्बन्धने नाशिते मृत्युना भक्षिते संसारान्मोक्ष उपपन्नो भवति; बन्धनं हि ग्रहातिग्रहलक्षणमुक्तम्; तस्माच्च मोक्ष उपपद्यत इत्येतत्प्रसाधितम्। अतः बन्धमोक्षाय पुरुषप्रयासः सफलो भवति; अतोऽपजयति पुनर्मृत्युम्
🔗  परेण मृत्युना मृत्यौ भक्षिते परमात्मदर्शनेन योऽसौ मुक्तः विद्वान्, सोऽयं पुरुषः यत्र यस्मिन्काले म्रियते, उत् ऊर्ध्वम्, अस्मात् ब्रह्मविदो म्रियमाणात्, प्राणाः वागादयो ग्रहाः नामादयश्चातिग्रहा वासनारूपा अन्तस्थाः प्रयोजकाः – क्रामन्ति ऊर्ध्वम् उत्क्रामन्ति, आहोस्वित् नेतिनेति होवाच याज्ञवल्क्यः – नोत्क्रामन्ति; अत्रैव अस्मिन्नेव परेणात्मना अविभागं गच्छन्ति विदुषि कार्याणि करणानि च स्वयोनौ परब्रह्मसतत्त्वे समवनीयन्ते, एकीभावेन समवसृज्यन्ते, प्रलीयन्त इत्यर्थः – ऊर्मय इव समुद्रे। तथा च श्रुत्यन्तरं कलाशब्दवाच्यानां प्राणानां परस्मिन्नात्मनि प्रलयं दर्शयति – ‘एवमेवास्य परिद्रष्टुरिमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति’ (प्र . ६-५) इति – परेणात्मना अविभागं गच्छन्तीति दर्शितम्। न तर्हि मृतः – न हि; मृतश्च अयम् – यस्मात् स उच्छ्वयति उच्छूनतां प्रतिपद्यते, आध्मायति बाह्येन वायुना पूर्यते, दृतिवत्, आध्मातः मृतः शेते निश्चेष्टः; बन्धननाशे मुक्तस्य न क्वचिद्गमनमिति वाक्यार्थः॥
🔗  मुक्तस्य किं प्राणा एव समवनीयन्ते? आहोस्वित् तत्प्रयोजकमपि सर्वम्? अथ प्राणा एव, न तत्प्रयोजकं सर्वम्, प्रयोजके विद्यमाने पुनः प्राणानां प्रसङ्गः; अथ सर्वमेव कामकर्मादि, ततो मोक्ष उपपद्यते – इत्येवमर्थः उत्तरः प्रश्नः। याज्ञवल्क्येति होवाचयत्रायं पुरुषो म्रियते किमेनं न जहातीति; आह इतरः – नामेति; सर्वं समवनीयते इत्यर्थः; नाममात्रं तु न लीयते, आकृतिसम्बन्धात्; नित्यं हि नाम; अनन्तं वै नाम; नित्यत्वमेव आनन्त्यं नाम्नः। तदानन्त्याधिकृताः अनन्ता वै विश्वे देवाः; अनन्तमेव तेन लोकं जयति – तन्नामानन्त्याधिकृतान् विश्वान्देवान् आत्मत्वेनोपेत्य तेन आनन्त्यदर्शनेन अनन्तमेव लोकं जयति
🔗  ग्रहातिग्रहरूपं बन्धनमुक्तं मृत्युरूपम्; तस्य च मृत्योः मृत्युसद्भावान्मोक्षश्चोपपद्यते; स च मोक्षः ग्रहातिग्रहरूपाणामिहैव प्रलयः, प्रदीपनिर्वाणवत्; यत्तत् ग्रहातिग्रहाख्यं बन्धनं मृत्युरूपम्, तस्य यत्प्रयोजकं तत्स्वरूपनिर्धारणार्थमिदमारभ्यते – याज्ञवल्क्येति होवाच
अत्र केचिद्वर्णयन्ति – ग्रहातिग्रहस्य सप्रयोजकस्य विनाशेऽपि किल न मुच्यते; नामावशिष्टः अविद्यया ऊषरस्थानीयया स्वात्मप्रभवया परमात्मनः परिच्छिन्नः भोज्याच्च जगतो व्यावृत्तः उच्छिन्नकामकर्मा अन्तराले व्यवतिष्ठते; तस्य परमात्मैकत्वदर्शनेन द्वैतदर्शनमपनेतव्यमिति – अतः परं परमात्मदर्शनमारब्धव्यम् – इति; एवम् अपवर्गाख्यामन्तरालावस्थां परिकल्प्य उत्तरग्रन्थसम्बन्धं कुर्वन्ति।
तत्र वक्तव्यम् – विशीर्णेषु करणेषु विदेहस्य परमात्मदर्शनश्रवणमनननिदिध्यसनानि कथमिति; समवनीतप्राणस्य हि नाममात्रावशिष्टस्येति तैरुच्यते; ‘मृतः शेते’ (BrhU.3.2.11) इति ह्युक्तम्; न मनोरथेनाप्येतदुपपादयितुं शक्यते। अथ जीवन्नेव अविद्यामात्रावशिष्टो भोज्यादपावृत्त इति परिकल्प्यते, तत्तु किं निमित्तमिति वक्तव्यम्; समस्तद्वैतैकत्वात्मप्राप्तिनिमित्तमिति यद्युच्येत, तत् पूर्वमेव निराकृतम्; कर्मसहितेन द्वैतैकत्वात्मदर्शनेन सम्पन्नो विद्वान् मृतः समवनीतप्राणः जगदात्मत्वं हिरण्यगर्भस्वरूपं वा प्राप्नुयात्, असमवनीतप्राणः भोज्यात् जीवन्नेव वा व्यावृत्तः विरक्तः परमात्मदर्शनाभिमुखः स्यात्। न च उभयम् एकप्रयत्ननिष्पाद्येन साधनेन लभ्यम्; हिरण्यगर्भप्राप्तिसाधनं चेत्, न ततो व्यावृत्तिसाधनम्; परमात्माभिमुखीकरणस्य भोज्याद्व्यावृत्तेः साधनं चेत्, न हिरण्यगर्भप्राप्तिसाधनम्; न हि यत् गतिसाधनम्, तत् गतिनिवृत्तेरपि। अथ मृत्वा हिरण्यगर्भं प्राप्य ततः समवनीतप्राणः नामावशिष्टः परमात्मज्ञानेऽधिक्रियते, ततः अस्मदाद्यर्थं परमात्मज्ञानोपदेशः अनर्थकः स्यात्; सर्वेषां हि ब्रह्मविद्या पुरुषार्थायोपदिश्यते – ‘तद्यो यो देवानाम्’ (BrhU.1.4.10) इत्याद्यया श्रुत्या। तस्मात् अत्यन्तनिकृष्टा शास्त्रबाह्यैव इयं कल्पना। प्रकृतं तु वर्तयिष्यामः।
तत्र केन प्रयुक्तं ग्रहातिग्रहलक्षणं बन्धनमित्येतन्निर्दिधारयिषया आह – यत्रास्य पुरुषस्य असम्यग्दर्शिनः शिरःपाण्यादिमतो मृतस्यवाक् अग्निमप्येति, वातं प्राणोऽप्येति, चक्षुरादित्यम् अप्येति – इति सर्वत्र सम्बध्यते; मनः चन्द्रम्, दिशः श्रोत्रम्, पृथिवीं शरीरम्, आकाशमात्मा इत्यत्र आत्मा अधिष्ठानं हृदयाकाशमुच्यते; स आकाशमप्येति; ओषधीः अपियन्ति लोमानि; वनस्पतीन् अपियन्ति केशाः; अप्सु लोहितं च रेतश्चनिधीयते इति – पुनरादानलिङ्गम्; सर्वत्र हि वागादिशब्देन देवताः परिगृह्यन्ते; न तु करणान्येवापक्रामन्ति प्राङ्मोक्षात्; तत्र देवताभिरनधिष्ठितानि करणानि न्यस्तदात्राद्युपमानानि, विदेहश्च कर्ता पुरुषः अस्वतन्त्रः किमाश्रितो भवतीति पृच्छ्यते – क्वायं तदा पुरुषो भवतीति – किमाश्रितः तदा पुरुषो भवतीति; यम् आश्रयमाश्रित्य पुनः कार्यकरणसङ्घातमुपादत्ते, येन ग्रहातिग्रहलक्षणं बन्धनं प्रयुज्यते तत् किमिति प्रश्नः। अत्रोच्यते – स्वभावयदृच्छाकालकर्मदैवविज्ञानमात्रशून्यानि वादिभिः परिकल्पितानि; अतः अनेकविप्रतिपत्तिस्थानत्वात् नैव जल्पन्यायेन वस्तुनिर्णयः; अत्र वस्तुनिर्णयं चेदिच्छसि, आहर सोम्य हस्तम् आर्तभाग हे – आवामेव एतस्य त्वत्पृष्टस्य वेदितव्यं यत्, तत् वेदिष्यावः निरूपयिष्यावः; कस्मात्? न नौ आवयोः एतत् वस्तु सजने जनसमुदाये निर्णेतुं शक्यते; अत एकान्तं गमिष्यावः विचारणाय। तौ हेत्यादि श्रुतिवचनम्। तौ याज्ञवल्क्यार्तभागौ एकान्तं गत्वा किं चक्रतुरित्युच्यते – तौ ह उत्क्रम्य सजनात् देशात् मन्त्रयाञ्चक्राते; आदौ लौकिकवादिपक्षाणाम् एकैकं परिगृह्य विचारितवन्तौ। तौ ह विचार्य यदूचतुः अपोह्य पूर्वपक्षान्सर्वानेव – तच्छृणु; कर्म हैव आश्रयं पुनः पुनः कार्यकरणोपादानहेतुम् तत् तत्र ऊचतुः उक्तवन्तौ – न केवलम्; कालकर्मदैवेश्वरेष्वभ्युपगतेषु हेतुषु यत्प्रशशंसतुः तौ, कर्म हैव तत्प्रशशंसतुः – यस्मान्निर्धारितमेतत् कर्मप्रयुक्तं ग्रहातिग्रहादिकार्यकरणोपादानं पुनः पुनः, तस्मात् पुण्यो वै शास्त्रविहितेन पुण्येन कर्मणा भवति, तद्विपरीतेन विपरीतो भवति पापः पापेनइति एवं याज्ञवल्क्येन प्रश्नेषु निर्णीतेषु, ततः अशक्यप्रकम्पत्वात् याज्ञवल्कयस्य, ह जारत्कारव आर्तभाग उपरराम

Go to Top ('Home' key on many Windows browsers)

BrhU.3.03

🔗  अथ हैनं भुज्युर्लाह्यायनिः पप्रच्छ। ग्रहातिग्रहलक्षणं बन्धनमुक्तम्; यस्मात् सप्रयोजकात् मुक्तः मुच्यते, येन वा बद्धः संसरति, स मृत्युः; तस्माच्च मोक्ष उपपद्यते, यस्मात् मृत्योर्मृत्युरस्ति; मुक्तस्य च न गतिः क्वचित् – सर्वोत्सादः नाममात्रावशेषः प्रदीपनिर्वाणवदिति चावधृतम्। तत्र संसरतां मुच्यमानानां च कार्यकरणानां स्वकारणसंसर्गे समाने, मुक्तानामत्यन्तमेव पुनरनुपादानम् – संसरतां तु पुनः पुनरुपादानम् – येन प्रयुक्तानां भवति, तत् कर्म – इत्यवधारितं विचारणापूर्वकम्; तत्क्षये च नामावशेषेण सर्वोत्सादो मोक्षः। तच्च पुण्यपापाख्यं कर्म, ‘पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन’ (BrhU.3.2.13) इत्यवधारितत्वात्; एतत्कृतः संसारः। तत्र अपुण्येन स्थावरजङ्गमेषु स्वभावदुःखबहुलेषु नरकतिर्यक्प्रेतादिषु च दुःखम् अनुभवति पुनः पुनर्जायमानः म्रियमाणश्च इत्येतत् राजवर्त्मवत् सर्वलोकप्रसिद्धम्। यस्तु शास्त्रीयः पुण्यो वै पुण्येन कर्मणा भवति, तत्रैव आदरः क्रियत इह श्रुत्या। पुण्यमेव च कर्म सर्वपुरुषार्थसाधनमिति सर्वे श्रुतिस्मृतिवादाः। मोक्षस्यापि पुरुषार्थत्वात् तत्साध्यता प्राप्ता; यावत् यावत् पुण्योत्कर्षः तावत् तावत् फलोत्कर्षप्राप्तिः; तस्मात् उत्तमेन पुण्योत्कर्षेण मोक्षो भविष्यतीत्यशङ्का स्यात्; सा निवर्तयितव्या। ज्ञानसहितस्य च प्रकृष्टस्य कर्मण एतावती गतिः, व्याकृतनामरूपास्पदत्वात् कर्मणः तत्फलस्य च; न तु अकार्ये नित्ये अव्याकृतधर्मिणि अनामरूपात्मके क्रियाकारकफलस्वभाववर्जिते कर्मणो व्यापारोऽस्ति; यत्र च व्यापारः स संसार एव इत्यस्यार्थस्य प्रदर्शनाय ब्राह्मणमारभ्यते।
यत्तु कैश्चिदुच्यते – विद्यासहितं कर्म निरभिसन्धिविषदध्यादिवत् कार्यान्तरमारभत इति – तन्न, अनारभ्यत्वान्मोक्षस्य; बन्धननाश एव हि मोक्षः, न कार्यभूतः; बन्धनं च अविद्येत्यवोचाम; अविद्यायाश्च न कर्मणा नाश उपपद्यते, दृष्टविषयत्वाच्च कर्मसामर्थ्यस्य; उत्पत्त्याप्तिविकारसंस्कारा हि कर्मसामर्थ्यस्य विषयाः; उत्पादयितुं प्रापयितुं विकर्तुं संस्कर्तुं च सामर्थ्यं कर्मणः, न अतो व्यतिरिक्तविषयोऽस्ति कर्मसामर्थ्यस्य, लोके अप्रसिद्धत्वात्; न च मोक्ष एषां पदार्थानामन्यतमः; अविद्यामात्रव्यवहित इत्यवोचाम। बाढम्; भवतु केवलस्यैव कर्मण एवं स्वभावता; विद्यासंयुक्तस्य तु निरभिसन्धेः भवति अन्यथा स्वभावः; दृष्टं हि अन्यशक्तित्वेन निर्ज्ञातानामपि पदार्थानां विषदध्यादीनां विद्यामन्त्रशर्करादिसंयुक्तानाम् अन्यविषये सामर्थ्यम्; तथा कर्मणोऽप्यस्त्विति चेत् – न। प्रमाणाभावात्। तत्र हि कर्मण उक्तविषयव्यतिरेकेण विषयान्तरे सामर्थ्यास्तित्वे प्रमाणं न प्रत्यक्षं नानुमानं नोपमानं नार्थापत्तिः न शब्दोऽस्ति। ननु फलान्तराभावे चोदनान्यथानुपपत्तिः प्रमाणमिति; न हि नित्यानां कर्मणां विश्वजिन्न्यायेन फलं कल्प्यते; नापि श्रुतं फलमस्ति; चोद्यन्ते च तानि; पारिशेष्यात् मोक्षः तेषां फलमिति गम्यते; अन्यथा हि पुरुषा न प्रवर्तेरन्। ननु विश्वजिन्न्याय एव आयातः, मोक्षस्य फलस्य कल्पितत्वात् – मोक्षे वा अन्यस्मिन्वा फले अकल्पिते पुरुषा न प्रवर्तेरन्निति मोक्षः फलं कल्प्यते श्रुतार्थापत्त्या, यथा विश्वजिति; ननु एवं सति कथमुच्यते, विश्वजिन्न्यायो न भवतीति; फलं च कल्प्यते विश्वजिन्न्यायश्च न भवतीति विप्रतिषिद्धमभिधीयते। मोक्षः फलमेव न भवतीति चेत्, न, प्रतिज्ञाहानात्; कर्म कार्यान्तरं विषदध्यादिवत् आरभत इति हि प्रतिज्ञातम्; स चेन्मोक्षः कर्मणः कार्यं फलमेव न भवति, सा प्रतिज्ञा हीयेत। कर्मकार्यत्वे च मोक्षस्य स्वर्गादिफलेभ्यो विशेषो वक्तव्यः। अथ कर्मकार्यं न भवति, नित्यानां कर्मणां फलं मोक्ष इत्यस्या वचनव्यक्तेः कोऽर्थ इति वक्तव्यम्। न च कार्यफलशब्दभेदमात्रेण विशेषः शक्यः कल्पयितुम्। अफलं च मोक्षः, नित्यैश्च कर्मभिः क्रियते – नित्यानां कर्मणां फलं न, कार्यम् – इति च एषोऽर्थः विप्रतिषिद्धोऽभिधीयते – यथा अग्निः शीत इति। ज्ञानवदिति चेत् – यथा ज्ञानस्य कार्यं मोक्षः ज्ञानेनाक्रियमाणोऽप्युच्यते, तद्वत् कर्मकार्यत्वमिति चेत् – न, अज्ञाननिवर्तकत्वात् ज्ञानस्य; अज्ञानव्यवधाननिवर्तकत्वात् ज्ञानस्य मोक्षो ज्ञानकार्यमित्युपचर्यते। न तु कर्मणा निवर्तयितव्यमज्ञानम्; न च अज्ञानव्यतिरेकेण मोक्षस्य व्यवधानान्तरं कल्पयितुं शक्यम् – नित्यत्वान्मोक्षस्य साधकस्वरूपाव्यतिरेकाच्च – यत्कर्मणा निवर्त्येत। अज्ञानमेव निवर्तयतीति चेत्, न, विलक्षणत्वात् – अनभिव्यक्तिः अज्ञानम् अभिव्यक्तिलक्षणेन ज्ञानेन विरुध्यते; कर्म तु नाज्ञानेन विरुध्यते; तेन ज्ञानविलक्षणं कर्म। यदि ज्ञानाभावः, यदि संशयज्ञानम्, यदि विपरीतज्ञानं वा उच्यते अज्ञानमिति, सर्वं हि तत् ज्ञानेनैव निवर्त्यते; न तु कर्मणा अन्यतमेनापि विरोधाभावात्। अथ अदृष्टं कर्मणाम् अज्ञाननिवर्तकत्वं कल्प्यमिति चेत्, न, ज्ञानेन अज्ञाननिवृत्तौ गम्यमानायाम् अदृष्टनिवृत्तिकल्पनानुपपत्तेः; यथा अवघातेन व्रीहीणां तुषनिवृत्तौ गम्यमानायाम् अग्निहोत्रादिनित्यकर्मकार्या अदृष्टा न कल्प्यते तुषनिवृत्तिः, तद्वत् अज्ञाननिवृत्तिरपि नित्यकर्मकार्या अदृष्टा न कल्प्यते। ज्ञानेन विरुद्धत्वं च असकृत् कर्मणामवोचाम। यत् अविरुद्धं ज्ञानं कर्मभिः, तत् देवलोकप्राप्तिनिमित्तमित्युक्तम् – ‘विद्यया देवलोकः’ (BrhU.1.5.16) इति श्रुतेः। किञ्चान्यत् कल्प्ये च फले नित्यानां कर्मणां श्रुतानाम्, यत् कर्मभिर्विरुध्यते – द्रव्यगुणकर्मणां कार्यमेव न भवति – किं तत् कल्प्यताम्, यस्मिन् कर्मणः सामर्थ्यमेव न दृष्टम्? किं वा यस्मिन् दृष्टं सामर्थ्यम्, यच्च कर्मणां फलमविरुद्धम्, तत्कल्प्यतामिति। पुरुषप्रवृत्तिजननाय अवश्यं चेत् कर्मफलं कल्पयितव्यम् – कर्माविरुद्धविषय एव श्रुतार्थापत्तेः क्षीणत्वात् नित्यो मोक्षः फलं कल्पयितुं न शक्यः, तद्व्यवधानाज्ञाननिवृत्तिर्वा, अविरुद्धत्वात् दृष्टसामर्थ्यविषयत्वाच्चेति पारिशेष्यन्यायात् मोक्ष एव कल्पयितव्य इति चेत् – सर्वेषां हि कर्मणां सर्वं फलम्; न च अन्यत् इतरकर्मफलव्यतिरेकेण फलं कल्पनायोग्यमस्ति; परिशिष्टश्च मोक्षः; स च इष्टः वेदविदां फलम्; तस्मात् स एव कल्पयितव्यः इति चेत् – न, कर्मफलव्यक्तीनाम् आनन्त्यात् पारिशेष्यन्यायानुपपत्तेः; न हि पुरुषेच्छाविषयाणां कर्मफलानाम् एतावत्त्वं नाम केनचित् असर्वज्ञेनावधृतम्, तत्साधनानां वा, पुरुषेच्छानां वा अनियतदेशकालनिमित्तत्वात् पुरुषेच्छाविषयसाधनानां च पुरुषेष्टफलप्रयुक्तत्वात्; प्रतिप्राणि च इच्छावैचित्र्यात् फलानां तत्साधनानां च आनन्त्यसिद्धिः; तदानन्त्याच्च अशक्यम् एतावत्त्वं पुरुषैर्ज्ञातुम्; अज्ञाते च साधनफलैतावत्त्वे कथं मोक्षस्य परिशेषसिद्धिरिति। कर्मफलजातिपारिशेष्यमिति चेत् – सत्यपि इच्छाविषयाणां तत्साधनानां च आनन्त्ये, कर्मफलजातित्वं नाम सर्वेषां तुल्यम्; मोक्षस्तु अकर्मफलत्वात् परिशिष्टः स्यात्; तस्मात् परिशेषात् स एव युक्तः कल्पयितुमिति चेत् – न; तस्यापि नित्यकर्मफलत्वाभ्युपगमे कर्मफलसमानजातीयत्वोपपत्तेः परिशेषानुपपत्तिः। तस्मात् अन्यथाप्युपपत्तेः क्षीणा श्रुतार्थापत्तिः; उत्पत्त्याप्तिविकारसंस्काराणामन्यतममपि नित्यानां कर्मणां फलमुपपद्यत इति क्षीणा श्रुतार्थापत्तिः चतुर्णामन्यतम एव मोक्ष इति चेत् – न तावत् उत्पाद्यः, नित्यत्वात्; अत एव अविकार्यः; असंस्कार्यश्च अत एव – असाधनद्रव्यात्मकत्वाच्च – साधनात्मकं हि द्रव्यं संस्क्रियते, यथा पात्राज्यादि प्रोक्षणादिना; न च संस्क्रियमाणः, संस्कारनिर्वर्त्यो वा – यूपादिवत्; पारिशेष्यात् आप्यः स्यात्; न आप्योऽपि, आत्मस्वभावत्वात् एकत्वाच्च। इतरैः कर्मभिर्वैलक्षण्यात् नित्यानां कर्मणाम्, तत्फलेनापि विलक्षणेन भवितव्यमिति चेत्, न – कर्मत्वसालक्षण्यात् सलक्षणं कस्मात् फलं न भवति इतरकर्मफलैः? निमित्तवैलक्षण्यादिति चेत्, न, क्षामवत्यादिभिः समानत्वात्; यथा हि – गृहदाहादौ निमित्ते क्षामवत्यादीष्टिः, यथा – ‘भिन्ने जुहोति, स्कन्ने जुहोति’ इति – एवमादौ नैमित्तिकेषु कर्मसु न मोक्षः फलं कल्प्यते – तैश्चाविशेषान्नैमित्तिकत्वेन, जीवनादिनिमित्ते च श्रवणात्, तथा नित्यानामपि न मोक्षः फलम्। आलोकस्य सर्वेषां रूपदर्शनसाधनत्वे, उलूकादयः आलोकेन रूपं न पश्यन्तीति उलूकादिचक्षुषो वैलक्षण्यादितरलोकचक्षुर्भिः, न रसादिविषयत्वं परिकल्प्यते, रसादिविषये सामर्थ्यस्यादृष्टत्वात्। सुदूरमपि गत्वा यद्विषयं दृष्टं सामर्थ्यं तत्रैव कश्चिद्विशेषः कल्पयितव्यः। यत्पुनरुक्तम्, विद्यामन्त्रशर्करादिसंयुक्तविषदध्यादिवत् नित्यानि कार्यान्तरमारभन्त इति – आरभ्यतां विशिष्टं कार्यम्, तत् इष्टत्वादविरोधः; निरभिसन्धेः कर्मणो विद्यासंयुक्तस्य विशिष्टकार्यान्तरारम्भे न कश्चिद्विरोधः, देवयाज्यात्मयाजिनोः आत्मयाजिनो विशेषश्रवणात् – ‘देवयाजिनः श्रेयानात्मयाजी’ (शत. ब्रा. ११-२-६-१३) इत्यादौ ‘यदेव विद्यया करोति’ (ChanU.1.1.10) इत्यादौ च। यस्तु परमात्मदर्शनविषये मनुनोक्तः आत्मयाजिशब्दः ‘सम्पश्यन्नात्मयाजी’ (मनु. १२-९१) इत्यत्र – समं पश्यन् आत्मयाजी भवतीत्यर्थः। अथवा भूतपूर्वगत्या – आत्मयाजी आत्मसंस्कारार्थं नित्यानि कर्माणि करोति – ‘इदं मेऽनेनाङ्गं संस्क्रियते’ (शत. ब्रा. ११-२-६-१३) इति श्रुतेः; तथा ‘गार्भैर्होमैः’ (मनु. २-२७) इत्यादिप्रकरणे कार्यकरणसंस्कारार्थत्वं नित्यानां कर्मणां दर्शयति; संस्कृतश्च य आत्मयाजी तैः कर्मभिः समं द्रष्टुं समर्थो भवति, तस्य इह जन्मान्तरे वा समम् आत्मदर्शनमुत्पद्यते; समं पश्यन् स्वाराज्यमधिगच्छतीत्येषोऽर्थः; आत्मयाजिशब्दस्तु भूतपूर्वगत्या प्रयुज्यते ज्ञानयुक्तानां नित्यानां कर्मणां ज्ञानोत्पत्तिसाधनत्वप्रदर्शनार्थम्। किञ्चान्यत् – ‘ब्रह्माविश्वसृजो धर्मो महानव्यक्तमेव च। उत्तमां सात्त्विकीमेतां गतिमाहुर्मनीषिणः’ (मनु. १२-५०) इति च देवसार्ष्टिव्यतिरेकेण भूताप्ययं दर्शयति – ‘भूतान्यप्येति पञ्च वै’ (मनु. १२-९०) ‘भूतान्यत्येति’ इति पाठं ये कुर्वन्ति, तेषां वेदविषये परिच्छिन्नबुद्धित्वाददोषः; न च अर्थवादत्वम् – अध्यायस्य ब्रह्मान्तकर्मविपाकार्थस्य तद्व्यतिरिक्तात्मज्ञानार्थस्य च कर्मकाण्डोपनिषद्भ्यां तुल्यार्थत्वदर्शनात्, विहिताकरणप्रतिषिद्धकर्मणां च स्थावरश्वसूकरादिफलदर्शनात्, वान्ताश्यादिप्रेतदर्शनाच्च। न च श्रुतिस्मृतिविहितप्रतिषिद्धव्यतिरेकेण विहितानि वा प्रतिषिद्धानि वा कर्माणि केनचिदवगन्तुं शक्यन्ते, येषाम् अकरणादनुष्ठानाच्च प्रेतश्वसूकरस्थावरादीनि कर्मफलानि प्रत्यक्षानुमानाभ्यामुपलभ्यन्ते; न च एषाम् कर्मफलत्वं केनचिदभ्युपगम्यते। तस्मात् विहिताकरणप्रतिषिद्धसेवानां यथा एते कर्मविपाकाः प्रेततिर्यक्स्थावरादयः, तथा उत्कृष्टेष्वपि ब्रह्मान्तेषु कर्मविपाकत्वं वेदितव्यम्; तस्मात् ‘स आत्मनो वपामुदखिदत्’ (तै. सं. २-१-१-४) ‘सोऽरोदीत्’ (तै. सं. १-५-१-१) इत्यादिवत् न अभूतार्थवादत्वम्। तत्रापि अभूतार्थवादत्वं मा भूदिति चेत् – भवत्वेवम्; न च एतावता अस्य न्यायस्य बाधो भवति; न च अस्मत्पक्षो वा दुष्यति। न च ‘ब्रह्मा विश्वसृजः’ इत्यादीनां काम्यकर्मफलत्वं शक्यं वक्तुम्, तेषां देवसार्ष्टितायाः फलस्योक्तत्वात्। तस्मात् साभिसन्धीनां नित्यानां कर्मणां सर्वमेधाश्वमेधादीनां च ब्रह्मत्वादीनि फलानि; येषां पुनः नित्यानि निरभिसन्धीनि आत्मसंस्कारार्थानि, तेषां ज्ञानोत्पत्त्यर्थानि तानि, ‘ब्राह्मीयं क्रियते तनुः’ (मनु. २-२८) इति स्मरणात्; तेषाम् आरादुपकारत्वात् मोक्षसाधनान्यपि कर्माणि भवन्तीति न विरुध्यते; यथा चायमर्थः, षष्ठे जनकाख्यायिकासमाप्तौ वक्ष्यामः। यत्तु विषदध्यादिवदित्युक्तम्, तत्र प्रत्यक्षानुमानविषयत्वादविरोधः; यस्तु अत्यन्तशब्दगम्योऽर्थः, तत्र वाक्यस्याभावे तदर्थप्रतिपादकस्य न शक्यं कल्पयितुं विषदध्यादिसाधर्म्यम्। न च प्रमाणान्तरविरुद्धार्थविषये श्रुतेः प्रामाण्यं कल्प्यते, यथा – शीतोऽग्निः क्लेदयतीति; श्रुते तु तादर्थ्ये वाक्यस्य, प्रमाणान्तरस्य आभासत्वम् – यथा ‘खद्योतोऽग्निः’ इति ‘तलमलिनमन्तरिक्षम्’ इति बालानां यत्प्रत्यक्षमपि, तद्विषयप्रमाणान्तरस्य यथार्थत्वे निश्चिते, निश्चितार्थमपि बालप्रत्यक्षम् आभासी भवति; तस्मात् वेदप्रामाण्यस्याव्यभिचारात् तादर्थ्ये सति वाक्यस्य तथात्वं स्यात्, न तु पुरुषमतिकौशलम्; न हि पुरुषमतिकौशलात् सविता रूपं न प्रकाशयति; तथा वेदवाक्यान्यपि न अन्यार्थानि भवन्ति। तस्मात् न मोक्षार्थानि कर्माणीति सिद्धम्। अतः कर्मफलानां संसारत्वप्रदर्शनायैव ब्राह्मणमारभ्यते –

अथ अनन्तरम् उपरते जारत्कारवे, भुज्युः इति नामतः, लह्यस्यापत्यं लाह्यः तदपत्यं लाह्यायनिः, प्रपच्छ; याज्ञवल्क्येति होवाच। आदावुक्तम् अश्वमेधदर्शनम्; समष्टिव्यष्टिफलश्चाश्वमेधक्रतुः, ज्ञानसमुच्चितो वा केवलज्ञानसम्पादितो वा, सर्वकर्मणां परा काष्ठा; भ्रूणहत्याश्वमेधाभ्यां न परं पुण्यपापयोरिति हि स्मरन्ति; तेन हि समष्टिं व्यष्टीश्च प्राप्नोति; तत्र व्यष्टयो निर्ज्ञाता अन्तरण्डविषया अश्वमेधयागफलभूताः; ‘मृत्युरस्यात्मा भवत्येतासां देवतानामेको भवति’ (BrhU.1.2.7) इत्युक्तम्; मृत्युश्च अशनायालक्षणो बुद्ध्यात्मा समष्टिः प्रथमजः वायुः सूत्रं सत्यं हिरण्यगर्भः; तस्य व्याकृतो विषयः – यदात्मकं सर्वं द्वैतकत्वम्, यः सर्वभूतान्तरात्मा लिङ्गम् अमूर्तरसः यदाश्रितानि सर्वभूतकर्माणि, यः कर्मणां कर्मसम्बद्धानां च विज्ञानानां परा गतिः परं फलम्। तस्य कियान् गोचरः कियती व्याप्तिः सर्वतः परिमण्डलीभूता, सा वक्तव्या; तस्याम् उक्तायाम्, सर्वः संसारो बन्धगोचर उक्तो भवति; तस्य च समष्टिव्यष्ट्यात्मदर्शनस्य अलौकिकत्वप्रदर्शनार्थम् आख्यायिकामात्मनो वृत्तां प्रकुरुते; तेन च प्रतिवादिबुद्धिं व्यामोहयिष्यामीति मन्यते।
मद्रेषु – मद्रा नाम जनपदाः तेषु, चरकाः – अध्ययनार्थं व्रतचरणाच्चरकाः अध्वर्यवो वा, पर्यव्रजाम पर्यटितवन्तः; ते पतञ्जलस्य – ते वयं पर्यटन्तः, पतञ्जलस्य नामतः, काप्यस्य कपिगोत्रस्य, गृहान् ऐम गतवन्तः; तस्यासीद् दुहिता गन्धर्वगृहीता – गन्धर्वेण अमानुषेण सत्त्वेन केनचित् आविष्टा; गन्धर्वो वा धिष्ण्योऽग्निः ऋत्विक् देवता विशिष्टविज्ञानत्वात् अवसीयते; न हि सत्त्वमात्रस्य ईदृशं विज्ञानमुपपद्यते। तं सर्वे वयं परिवारिताः सन्तः अपृच्छामकोऽसीति – कस्त्वमसि किन्नामा किंसतत्त्वः। सोऽब्रवीद् गन्धर्वः – सुधन्वा नामतः, आङ्गिरसो गोत्रतः। तं यदा यस्मिन्काले लोकानाम् अन्तान् पर्यवसानानि अपृच्छाम, अथ एनं गन्धर्वम् अब्रूम – भुवनकोशपरिमाणज्ञानाय प्रवृत्तेषु सर्वेषु आत्मानं श्लाघयन्तः पृष्टवन्तो वयम्; कथम्? क्व पारिक्षिताः अभवन्निति। स च गन्धर्वः सर्वमस्मभ्यमब्रवीत्। तेन दिव्येभ्यो मया लब्धं ज्ञानम्; तत् तव नास्ति; अतो निगृहीतोऽसि’ – इत्यभिप्रायः। सोऽहं विद्यासम्पन्नो लब्धागमो गन्धर्वात् त्वा त्वाम् पृच्छामि याज्ञवल्क्य – क्व पारिक्षिता अभवन् – तत् त्वं किं जानासि? हे याज्ञवल्क्य, कथय, पृच्छामि – क्व पारिक्षिता अभवन्निति
🔗  स होवाच याज्ञवल्क्यः; उवाच वै सः – वै-शब्दः स्मरणार्थः – उवाच वै गन्धर्वः तुभ्यम्। अगच्छन्वै ते पारिक्षिताः, तत् तत्र; क्व? यत्र यस्मिन् अश्वमेधयाजिनो गच्छन्तिइति निर्णीते प्रश्न आह – क्व नु कस्मिन् अश्वमेधयाजिनो गच्छन्तीति। तेषां गतिविवक्षया भुवनकोशापरिमाणमाह – द्वात्रिंशतं वै, द्वे अधिके त्रिंशत्, द्वात्रिंशतं वै, देवरथाह्न्यानि – देव आदित्यः तस्य रथो देवरथः तस्य रथस्य गत्या अह्ना यावत्परिच्छिद्यते देशपरिमाणं तत् देवरथाह्न्यम्, तद्द्वात्रिंशद्गुणितं देवरथाह्न्यानि, तावत्परिमाणोऽयं लोकः लोकालोकगिरिणा परिक्षिप्तः – यत्र वैराजं शरीरम्, यत्र च कर्मफलोपभोगः प्राणिनाम्, स एष लोकः; एतावान् लोकः, अतः परम् अलोकः, तं लोकं समन्तं समन्ततः, लोकविस्तारात् द्वि-गुण-परिमाण-विस्तारेण परिमाणेन, तं लोकं परिक्षिप्ता पर्येति पृथिवी; तां पृथिवीं तथैव समन्तम्, द्विस्तावत् – द्विगुणेन परिमाणेन समुद्रः पर्येति, यं घनोदमाचक्षते पौराणिकाः। तत्र अण्डकपालयोर्विवरपरिमाणमुच्यते, येन विवरेण मार्गेण बहिर्निर्गच्छन्तो व्याप्नुवन्ति अश्वमेधयाजिनः; तत्र यावती यावत्परिमाणा क्षुरस्य धारा अग्रम्, यावद्वा सौक्ष्म्येण युक्तं मक्षिकायाः पत्रम्, तावान् तावत्परिमाणः, अन्तरेण मध्येऽण्डकपालयोः, आकाशः छिद्रम्, तेन आकाशेनेत्येतत्; तान् पारिक्षितानश्वमेधयाजिनः प्राप्तान् इन्द्रः परमेश्वरः – योऽश्वमेधेऽग्निश्चितः, सुपर्णः – यद्विषयं दर्शनमुक्तम् ‘तस्य प्राची दिक्शिरः’ (BrhU.1.2.4) इत्यादिना – सुपर्णः पक्षी भूत्वा, पक्षपुच्छात्मकः सुपर्णो भूत्वा, वायवे प्रायच्छत् – मूर्तत्वान्नास्त्यात्मनो गतिस्तत्रेति। तान् पारिक्षितान् वायुः आत्मनि धित्वा स्थापयित्वा स्वात्मभूतान्कृत्वा तत्र तस्मिन् अगमयत्; क्व? यत्र पूर्वे अतिक्रान्ताः पारिक्षिता अश्वमेधयाजिनोऽभवन्नितिएवमिव वै – एवमेव गन्धर्वः वायुमेव प्रशशंस पारिक्षितानां गतिम्। समाप्ता आख्यायिका; आख्यायिकानिर्वृत्तं तु अर्थम् आख्यायिकातोऽपसृत्य स्वेन श्रुतिरूपेणैव आचष्टेऽस्मभ्यम्। यस्मात् वायुः स्थावरजङ्गमानां भूतानामन्तरात्मा, बहिश्च स एव, तस्मात् अध्यात्माधिभूताधिदैवभावेन वि-विधा या अष्टिः व्याप्तिः स वायुरेव; तथा समष्टिः केवलेन सूत्रात्मना वायुरेव। एवं वायुमात्मानं समष्टिव्यष्टिरूपात्मकत्वेन उपगच्छति यःएवं वेद, तस्य किं फलमित्याह – अप पुनर्मृत्युं जयति, सकृन्मृत्वा पुनर्न म्रियते। ततः आत्मनः प्रश्ननिर्णयात् भुज्युर्लाह्यायनिरुपरराम

Go to Top ('Home' key on many Windows browsers)

BrhU.3.04

🔗  अथ हैनमुषस्तश्चाक्रायणः पप्रच्छ। पुण्यपापप्रयुक्तैर्ग्रहातिग्रहैर्गृहीतः पुनः पुनः ग्रहातिग्रहान् त्यजन् उपाददत् संसरतीत्युक्तम्; पुण्यस्य च पर उत्कर्षो व्याख्यातः व्याकृतविषयः समष्टिव्यष्टिरूपः द्वैतैकत्वात्मप्राप्तिः। यस्तु ग्रहातिग्रहैर्ग्रस्तः संसरति, सः अस्ति वा, न अस्ति; अस्तित्वे च किंलक्षणः – इति आत्मन एव विवेकाधिगमाय उषस्तप्रश्न आरभ्यते। तस्य च निरुपाधिस्वरूपस्य क्रियाकारकविनिर्मुक्तस्वभावस्य अधिगमात् यथोक्ताद्बन्धनात् विमुच्यते सप्रयोजकात् आख्यायिकसम्बन्धस्तु प्रसिद्धः –
अथ ह एनं प्रकृतं याज्ञवल्क्यम्, उषस्तो नामतः, चक्रस्यापत्यं चाक्रायणः, पप्रच्छयत् ब्रह्म साक्षात् अव्यवहितं केनचित् द्रष्टुः अपरोक्षात् – अगौणम् – न श्रोत्रब्रह्मादिवत् – किं तत्? य आत्मा – आत्मशब्देन प्रत्यगात्मोच्यते, तत्र आत्मशब्दस्य प्रसिद्धत्वात्; सर्वस्याभ्यन्तरः सर्वान्तरः; यद्यःशब्दाभ्यां प्रसिद्ध आत्मा ब्रह्मेति – तम् आत्मानम्, मे मह्यम्, व्याचक्ष्वेति – विस्पष्टं शृङ्गे गृहीत्वा यथा गां दर्शयति तथा आचक्ष्व, सोऽयमित्येवं कथयस्वेत्यर्थः। एवमुक्तः प्रत्याह याज्ञवल्क्यः – एषः ते तव आत्मा सर्वान्तरः सर्वस्याभ्यन्तरः; सर्वविशेषणोपलक्षणार्थं सर्वान्तरग्रहणम्; यत् साक्षात् अव्यवहितम् अपरोक्षात् अगौणम् ब्रह्म बृहत्तमम् आत्मा सर्वस्य सर्वस्याभ्यन्तरः, एतैर्गुणैः समस्तैर्युक्तः एषः, कोऽसौ तवात्मा? योऽयं कार्यकरणसङ्घातः तव सः येनात्मना आत्मवान् स एष तव आत्मा – तव कार्यकरणसङ्घातस्येत्यर्थः। तत्र पिण्डः, तस्याभ्यन्तरे लिङ्गात्मा करणसङ्घातः, तृतीयो यश्च सन्दिह्यमानः – तेषु कतमो मम आत्मा सर्वान्तरः त्वया विवक्षित इत्युक्ते इतर आह – यः प्राणेन मुखनासिकासञ्चारिणा प्राणिति प्राणचेष्टां करोति, येन प्राणः प्रणीयत इत्यर्थः – सः ते तव कार्यकरणसङ्घातस्य आत्मा विज्ञानमयः; समानमन्यत्; योऽपानेनापानीति यो व्यानेन व्यानीति इति – छान्दसं दैर्घ्यम्। सर्वाः कार्यकरणसङ्घातगताः प्राणनादिचेष्टा दारुयन्त्रस्येव येन क्रियन्ते – न हि चेतनावदनधिष्ठितस्य दारुयन्त्रस्येव प्राणनादिचेष्टा विद्यन्ते; तस्मात् विज्ञानमयेनाधिष्ठितं विलक्षणेन दारुयन्त्रवत् प्राणनादिचेष्टां प्रतिपद्यते – तस्मात् सोऽस्ति कार्यकरणसङ्घातविलक्षणः, यश्चेष्टयति॥
🔗  स होवाचोषस्तश्चाक्रायणः; यथा कश्चित् अन्यथा प्रतिज्ञाय पूर्वम्, पुनः वि-प्रतिपन्नो ब्रूयाद् अन्यथा – असौ गौरः असावश्वः यश्चलति धावति इति वा, पूर्वं प्रत्यक्षं दर्शयामीति प्रतिज्ञाय, पश्चात् चलनादिलिङ्गैर्व्यपदिशति – एवमेव एतद् ब्रह्म प्राणनादिलिङ्गैः व्यपदिष्टं भवति त्वया; किं बहुना? त्यक्त्वा गोतृष्णानिमित्तं व्याजम्, यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः, तं मे व्याचक्ष्वेति। इतर आह – यथा मया प्रथमं प्रतिज्ञातः तव आत्मा – एवँलक्षण इति – तां प्रतिज्ञामनुवर्त एव; तत् तथैव, यथोक्तं मया। यत्पुनरुक्तम्, तमात्मानं घटादिवत् विषयीकुर्विति – तत् अशक्यत्वान्न क्रियते। कस्मात्पुनः तदशक्यमित्याह – वस्तुस्वाभाव्यात्; किं पुनः तत् वस्तुस्वाभाव्यम्? दृष्ट्यादिद्रष्टृत्वम्; दृष्टेर्द्रष्टा ह्यात्मा; दृष्टिरिति द्विविधा भवति – लौकिकी पारमार्थिकी चेति; तत्र लौकिकी चक्षुःसंयुक्तान्तःकरणवृत्तिः; सा क्रियत इति जायते विनश्यति च; या तु आत्मनो दृष्टिः अग्न्युष्णप्रकाशादिवत्, सा च द्रष्टुः स्वरूपत्वात्, न जायते न विनश्यति च; सा क्रियमाणया उपाधिभूतया संसृष्टेवेति, व्यपदिश्यते – द्रष्टेति, भेदवच्च – द्रष्टा दृष्टिरिति च; यासौ लौकिकी दृष्टिः चक्षुर्द्वारा रूपोपरक्ता जायमानैव नित्यया आत्मदृष्ट्या संसृष्टेव, तत्प्रतिच्छाया – तया व्याप्तैव जायते, तथा विनश्यति च; तेन उपचर्यते द्रष्टा सदा पश्यन्नपि – पश्यति न पश्यति चेति; न तु पुनः द्रष्टुर्दृष्टेः कदाचिदप्यन्यथात्वम्; तथा च वक्ष्यति षष्ठे – ‘ध्यायतीव लेलायतीव’ (BrhU.4.3.7), ‘न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते’ (BrhU.4.3.23) इति च। तमिममर्थमाह – लौकिक्या दृष्टेः कर्मभूतायाः, द्रष्टारं स्वकीयया नित्यया दृष्ट्या व्याप्तारम्, न पश्येः; यासौ लौकिकी दृष्टिः कर्मभूता, सा रूपोपरक्ता रूपाभिव्यञ्जिका न आत्मानं स्वात्मनो व्याप्तारं प्रत्यञ्चं व्याप्नोति; तस्मात् तं प्रत्यगात्मानं दृष्टेर्द्रष्टारं न पश्येः। तथा श्रुतेः श्रोतारं न शृणुयाः। तथा मतेः मनोवृत्तेः केवलाया व्याप्तारं न मन्वीथाः। तथा विज्ञातेः केवलाया बुद्धिवृत्तेः व्याप्तारं न विजानीयाः। एष वस्तुनः स्वभावः; अतः नैव दर्शयितुं शक्यते गवादिवत्।
‘न दृष्टेर्द्रष्टारम्’ इत्यत्र अक्षराणि अन्यथा व्याचक्षते केचित् – न दृष्टेर्द्रष्टारम् दृष्टेः कर्तारम् दृष्टिभेदमकृत्वा दृष्टिमात्रस्य कर्तारम्, न पश्येरिति; दृष्टेरिति कर्मणि षष्ठी; सा दृष्टिः क्रियमाणा घटवत् कर्म भवति; द्रष्टारमिति तृजन्तेन द्रष्टुर्दृष्टिकर्तृत्वमाचष्टे; तेन असौ दृष्टेर्द्रष्टा दृष्टेः कर्तेति व्याख्यातॄणामभिप्रायः। तत्र दृष्टेरिति षष्ठ्यन्तेन दृष्टिग्रहणं निरर्थकमिति दोषं न पश्यन्ति; पश्यतां वा पुनरुक्तम् असारः प्रमादपाठ इति वा न आदरः; कथं पुनराधिक्यम्? तृजन्तेनैव दृष्टिकर्तृत्वस्य सिद्धत्वात् दृष्टेरिति निरर्थकम्; तदा ‘द्रष्टारं न पश्येः’ इत्येतावदेव वक्तव्यम्; यस्माद्धातोः परः तृच् श्रूयते, तद्धात्वर्थकर्तरि हि तृच् स्मर्यते; ‘गन्तारं भेत्तारं वा नयति’ इत्येतावानेव हि शब्दः प्रयुज्यते; न तु ‘गतेर्गन्तारं भिदेर्भेत्तारम्’ इति असति अर्थविशेषे प्रयोक्तव्यः; न च अर्थवादत्वेन हातव्यां सत्यां गतौ; न च प्रमादपाठः, सर्वेषामविगानात्; तस्मात् व्याख्यातॄणामेव बुद्धिदौर्बल्यम्, नाध्येतृप्रमादः। यथा तु अस्माभिर्व्याख्यातम् – लौकिकदृष्टेर्विविच्य नित्यदृष्टिविशिष्ट आत्मा प्रदर्शयितव्यः – तथा कर्तृकर्मविशेषणत्वेन दृष्टिशब्दस्य द्विः प्रयोग उपपद्यते आत्मस्वरूपनिर्धारणाय; ‘न हि द्रष्टुर्दृष्टेः’ इति च प्रदेशान्तरवाक्येन एकवाक्यतोपपन्ना भवति; तथा च ‘चक्षूंषि पश्यति’ (KenU.1.7) ‘श्रोत्रमिदं श्रुतम्’ (KenU.1.8) इति श्रुत्यन्तरेण एकवाक्यता उपपन्ना। न्यायाच्च – एवमेव हि आत्मनो नित्यत्वमुपपद्यते विक्रियाभावे; विक्रियावच्च नित्यमिति च विप्रतिषिद्धम्। ‘ध्यायतीव लेलायतीव’ (BrhU.4.3.7) ‘न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते’ (BrhU.4.3.23) ‘एष नित्यो महिमा ब्राह्मणस्य’ (BrhU.4.4.23) इति च श्रुत्यक्षराणि अन्यथा न गच्छन्ति। ननु द्रष्टा श्रोता मन्ता विज्ञाता इत्येवमादीन्यक्षराणि आत्मनोऽविक्रियत्वे न गच्छन्तीति – न, यथाप्राप्तलौकिकवाक्यानुवादित्वात् तेषाम्; न आत्मतत्त्वनिर्धारणार्थानि तानि; ‘न दृष्टेर्द्रष्टारम्’ इत्येवमादीनाम् अन्यार्थासम्भवात् यथोक्तार्थपरत्वमवगम्यते। तस्मात् अनवबोधादेव हि विशेषणं परित्यक्तं दृष्टेरिति। एषः ते तव आत्मा सर्वैरुक्तैर्विशेषणैर्विशिष्टः; अतः एतस्मादात्मनः अन्यदार्तम् – कार्यं वा शरीरम्, करणात्मकं वा लिङ्गम्; एतदेव एकम् अनार्तम् अविनाशि कूटस्थम्। ततो ह उषस्तश्चाक्रायण उपरराम

Go to Top ('Home' key on many Windows browsers)

BrhU.3.05

🔗  बन्धनं सप्रयोजकमुक्तम्। यश्च बद्धः, तस्यापि अस्तित्वमधिगतम्, व्यतिरिक्तत्वं च। तस्य इदानीं बन्धमोक्षसाधनं ससन्न्यासमात्मज्ञानं वक्तव्यमिति कहोलप्रश्न आरभ्यते –
अथ ह एनं कहोलो नामतः, कुषीतकस्यापत्यं कौषीतकेयः, पप्रच्छ; याज्ञवल्क्येति होवाच इति, पूर्ववत् – यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः तं मे व्याचक्ष्वेति – यं विदित्वा बन्धनात्प्रमुच्यते। याज्ञवल्क्य आह – एष ते तव आत्मा
किम् उषस्तकहोलाभ्याम् एक आत्मा पृष्टः, किं वा भिन्नावात्मानौ तुल्यलक्षणाविति। भिन्नाविति युक्तम्, प्रश्नयोरपुनरुक्तत्वोपपत्तेः; यदि हि एक आत्मा उषस्तकहोलप्रश्नयोर्विवक्षितः, तत्र एकेनैव प्रश्नेन अधिगतत्वात् तद्विषयो द्वितीयः प्रश्नोऽनर्थकः स्यात्; न च अर्थवादरूपत्वं वाक्यस्य; तस्मात् भिन्नावेतावात्मानौ क्षेत्रज्ञपरमात्माख्याविति केचिद्व्याचक्षते। तन्न, ‘ते’ इति प्रतिज्ञानात्; ‘एष त आत्मा’ इति हि प्रतिवचने प्रतिज्ञातम्; न च एकस्य कार्यकरणसङ्घातस्य द्वावात्मानौ उपपद्येते; एको हि कार्यकरणसङ्घातः एकेन आत्मना आत्मवान्; न च उषस्तस्यान्यः कहोलस्यान्यः जातितो भिन्न आत्मा भवति, द्वयोः अगौणत्वात्मत्वसर्वान्तरत्वानुपपत्तेः; यदि एकमगौणं ब्रह्म द्वयोः इतरेण अवश्यं गौणेन भवितव्यम्; तथा आत्मत्वं सर्वान्तरत्वं च – विरुद्धत्वात्पदार्थानाम्; यदि एकं सर्वान्तरं ब्रह्म आत्मा मुख्यः, इतरेण असर्वान्तरेण अनात्मना अमुख्येन अवश्यं भवितव्यम्; तस्मात् एकस्यैव द्विः श्रवणं विशेषविवक्षया। यत्तु पूर्वोक्तेन समानं द्वितीये प्रश्नान्तर उक्तम्, तावन्मात्रं पूर्वस्यैवानुवादः – तस्यैव अनुक्तः कश्चिद्विशेषः वक्तव्य इति। कः पुनरसौ विशेष इत्युच्यते – पूर्वस्मिन्प्रश्ने – अस्ति व्यतिरिक्त आत्मा यस्यायं सप्रयोजको बन्ध उक्त इति द्वितीये तु – तस्यैव आत्मनः अशनायादिसंसारधर्मातीतत्वं विशेष उच्यते – यद्विशेषपरिज्ञानात् सन्न्याससहितात् पूर्वोक्ताद्बन्धनात् विमुच्यते। तस्मात् प्रश्नप्रतिवचनयोः ‘एष त आत्मा’ इत्येवमन्तयोः तुल्यार्थतैव। ननु कथम् एकस्यैव आत्मनः अशनायाद्यतीतत्वं तद्वत्त्वं चेति विरुद्धधर्मसमवायित्वमिति – न, परिहितत्वात्; नामरूपविकारकार्यकरणलक्षणसङ्घातोपाधिभेदसम्पर्कजनितभ्रान्तिमात्रं हि संसारित्वमित्यसकृदवोचाम, विरुद्धश्रुतिव्याख्यानप्रसङ्गेन च; यथा रज्जुशुक्तिकागगनादयः सर्परजतमलिना भवन्ति पराध्यारोपितधर्मविशिष्टाः, स्वतः केवला एव रज्जुशुक्तिकागगनादयः – न च एवं विरुद्धधर्मसमवायित्वे पदार्थानां कश्चन विरोधः। नामरूपोपाध्यस्तित्वे ‘एकमेवाद्वितीयम्’ (ChanU.6.2.1) ‘नेह नानास्ति किञ्चन’ (BrhU.4.4.19) इति श्रुतयो विरुध्येरन्निति चेत् – न, सलिलफेनदृष्टान्तेन परिहृतत्वात् मदादिदृष्टान्तैश्च; यदा तु परमार्थदृष्ट्या परमात्मतत्त्वात् श्रुत्यनुसारिभिः अन्यत्वेन निरूप्यमाणे नामरूपे मृदादिविकारवत् वस्त्वन्तरे तत्त्वतो न स्तः – सलिलफेनघटादिविकारवदेव, तदा तत् अपेक्ष्य ‘एकमेवाद्वितीयम्’ (ChanU.6.2.1) ‘नेह नानास्ति किञ्चन’ (BrhU.4.4.19) इत्यादिपरमार्थदर्शनगोचरत्वं प्रतिपद्यते; रूपवदेव स्वेन रूपेण वर्तमानं केनचिदस्पृष्टस्वभावमपि सत् नामरूपकृतकार्यकरणोपाधिभ्यो विवेकेन नावधार्यते, नामरूपोपाधिदृष्टिरेव च भवति स्वाभाविकी, तदा सर्वोऽयं वस्त्वन्तरास्तित्वव्यवहारः। अस्ति चायं भेदकृतो मिथ्याव्यवहारः, येषां ब्रह्मतत्त्वादन्यत्वेन वस्तु विद्यते, येषां च नास्ति; परमार्थवादिभिस्तु श्रुत्यनुसारेण निरूप्यमाणे वस्तुनि – किं तत्त्वतोऽस्ति वस्तु किं वा नास्तीति, ब्रह्मैकमेवाद्वितीयं सर्वसंव्यवहारशून्यमिति निर्धार्यते; तेन न कश्चिद्विरोधः। न हि परमार्थावधारणनिष्ठायां वस्त्वन्तरास्तित्वं प्रतिपद्यामहे – ‘एकमेवाद्वितीयम्’ (ChanU.6.2.1) ‘अनन्तरमबाह्यम्’ (BrhU.2.5.19), (BrhU.3.8.8) इति श्रुतेः; न च नामरूपव्यवहारकाले तु अविवेकिनां क्रियाकारकफलादिसंव्यवहारो नास्तीति प्रतिषिध्यते। तस्मात् ज्ञानाज्ञाने अपेक्ष्य सर्वः संव्यवहारः शास्त्रीयो लौकिकश्च; अतो न काचन विरोधशङ्का। सर्ववादिनामप्यपरिहार्यः परमार्थसंव्यवहारकृतो व्यवहारः।
तत्र परमार्थात्मस्वरूपमपेक्ष्य प्रश्नः पुनः – कतमो याज्ञवल्क्य सर्वान्तरः इति। प्रत्याह इतरः – योऽशनायापिपासे, अशितुमिच्छा अशनाया, पातुमिच्छा पिपासा; ते अशनायापिपासे योऽत्येति इति वक्ष्यमाणेन सम्बन्धः। अविवेकिभिः तलमलवदिव गगनं गम्यमानमेव तलमले अत्येति – परमार्थतः – ताभ्यामसंसृष्टस्वभावत्वात् – तथा मूढैः अशनायापिपासादिमद्ब्रह्म गम्यमानमपि – क्षुधितोऽहं पिपासितोऽहमिति, ते अत्येत्येव – परमार्थतः – ताभ्यामसंसृष्टस्वभावत्वात्; ‘न लिप्यते लोकदुःखेन बाह्यः’ (KathU.2.2.11) इति श्रुतेः – अविद्वल्लोकाध्यारोपितदुःखेनेत्यर्थः। प्राणैकधर्मत्वात् समासकरणमशनायापिपासयोः। शोकं मोहम् – शोक इति कामः; इष्टं वस्तु उद्दिश्य चिन्तयतो यत् अरमणम्, तत् तृष्णाभिभूतस्य कामबीजम्; तेन हि कामो दीप्यते; मोहस्तु विपरीतप्रत्ययप्रभवोऽविवेकः भ्रमः; स च अविद्या सर्वस्यानर्थस्य प्रसवबीजम्; भिन्नकार्यत्वात्तयोः शोकमोहयोः असमासकरणम्। तौ मनोऽधिकरणौ; तथा शरीराधिकरणौ जरां मृत्युं च अत्येति; जरेति कार्यकरणसङ्घातविपरिणामः वलीपलितादिलिङ्गः; मृत्युरिति तद्विच्छेदः विपरिणामावसानः; तौ जरामृत्यू शरीराधिकरणौ अत्येति। ये ते अशनायादयः प्राणमनःशरीराधिकरणाः प्राणिषु अनवरतं वर्तमानाः अहोरात्रादिवत् समुद्रोर्मिवच्च प्राणिषु संसार इत्युच्यन्ते; योऽसौ दृष्टेर्दृष्टेत्यादिलक्षणः साक्षादव्यवहितः अपरोक्षादगौणः सर्वान्तर आत्मा ब्रह्मादिस्तम्बपर्यन्तानां भूतानाम् अशनायापिपासादिभिः संसारधर्मैः सदा न स्पृश्यते – आकाश इव घनादिमलैः – तम् एतं वै आत्मानं स्वं तत्त्वम्, विदित्वा ज्ञात्वा – अयमहमस्मि परं ब्रह्म सदा सर्वसंसारविनिर्मुक्तं नित्यतृप्तमिति, ब्राह्मणाः – ब्राह्मणानामेवाधिकारो व्युत्थाने, अतो ब्राह्मणग्रहणम् – व्युत्थाय वैपरीत्येनोत्थानं कृत्वा; कुत इत्याह – पुत्रैषणायाः पुत्रार्थैषणा पुत्रैषणा – पुत्रेणेमं लोकं जयेयमिति लोकजयसाधनं पुत्रं प्रति इच्छा एषणा दारसङ्ग्रहः; दारसङ्ग्रहमकृत्वेत्यर्थः; वित्तैषणायाश्च – कर्मसाधनस्य गवादेरुपदानम् – अनेन कर्मकृत्वा पितृलोकं जेष्यामीति, विद्यासंयुक्तेन वा देवलोकम्, केवलया वा हिरण्यगर्भविद्यया दैवेन वित्तेन देवलोकम्। दैवाद्वित्तात् व्युत्थानमेव नास्तीति केचित्, यस्मात् तद्बलेन हि किल व्युत्थानमिति – तदसत्, ‘एतावान्वै कामः’ (BrhU.1.4.17) इति पठितत्वात् एषणामध्ये दैवस्य वित्तस्य; हिरण्यगर्भादिदेवताविषयैव विद्या वित्तमित्युच्यते, देवलोकहेतुत्वात्; नहि निरुपाधिकप्रज्ञानघनविषया ब्रह्मविद्या देवलोकप्राप्तिहेतुः, ‘तस्मात्तत्सर्वमभवत्’ (BrhU.1.4.10) ‘आत्मा ह्येषां स भवति’ (BrhU.1.4.1) इति श्रुतेः; तद्बलेन हि व्युत्थानम्, ‘एतं वै तमात्मानं विदित्वा’ (BrhU.3.5.1) इति विशेषवचनात्। तस्मात् त्रिभ्योऽप्येतेभ्यः अनात्मलोकप्राप्तिसाधनेभ्यः एषणाविषयेभ्यो व्युत्थाय – एषणा कामः, ‘एतावान्वै कामः’ (BrhU.1.4.17) इति श्रुतेः – एतस्मिन् विविधे अनात्मलोकप्राप्तिसाधने तृष्णामकृत्वेत्यर्थः। सर्वा हि साधनेच्छा फलेच्छैव, अतो व्याचष्टे श्रुतिः – एकैव एषणेति; कथम्? या ह्येव पुत्रैषणा सा वित्तैषणा, दृष्टफलसाधनत्वतुल्यत्वात्; या वित्तैषणा सा लोकैषणा; फलार्थैव सा; सर्वः फलार्थप्रयुक्त एव हि सर्वं साधनमुपादत्ते; अत एकैव एषणा या लोकैषणा सा साधनमन्तरेण सम्पादयितुं न शक्यत इति, साध्यसाधनभेदेन उभे हि यस्मात् एते एषणे एव भवतः। तस्मात् ब्रह्मविदो नास्ति कर्म कर्मसाधनं वा – अतो येऽतिक्रान्ता ब्राह्मणाः, सर्वं कर्म कर्मसाधनं च सर्वं देवपितृमानुषनिमित्तं यज्ञोपवीतादि – तेन हि दैवं पित्र्यं मानुषं च कर्म क्रियते, ‘निवीतं मनुष्याणाम्’ (तै. सं. २-५-११-१) इत्यादिश्रुतेः। तस्मात् पूर्वे ब्राह्मणाः ब्रह्मविदः व्युत्थाय कर्मभ्यः कर्मसाधनेभ्यश्च यज्ञोपवीतादिभ्यः, परमहंसपारिव्राज्यं प्रतिपद्य, भिक्षाचर्यं चरन्ति – भिक्षार्थं चरणं भिक्षाचर्यम्, चरन्ति – त्यक्त्वा स्मार्तं लिङ्गं केवलमाश्रममात्रशरणानां जीवनसाधनं पारिव्राज्यव्यञ्जकम्; विद्वान् लिङ्गवर्जितः – ‘तस्मादलिङ्गो धर्मज्ञोऽव्यक्तलिङ्गोऽव्यक्ताचारः’ (अश्व. ४६-५१) (व. १०-१२) इत्यादिस्मृतिभ्यः, ‘अथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः’ (जा. उ. ५) इत्यादिश्रुतेः, ‘सशिखान्केशान्निकृत्य विसृज्य यज्ञोपवीतम्’ (क. रु. १) इति च।
ननु ‘व्युत्थायाथ भिक्षाचर्यं चरन्ति’ इति वर्तमानापदेशात् अर्थवादोऽयम्; न विधायकः प्रत्ययः कश्चिच्छ्रूयते लिङ्लोट्तव्यानामन्यतमोऽपि; तस्मात् अर्थवादमात्रेण श्रुतिस्मृतिविहितानां यज्ञोपवीतादीनां साधनानां न शक्यते परित्यागः कारयितुम्; ‘यज्ञोपवीत्येवाधीयीत याजयेद्यजेत वा’ (तै. आ. २-१-१)। पारिव्राज्ये तावदध्ययनं विहितम् – ‘वेदसन्न्यसनाच्छूद्रस्तस्माद्वेदं न सन्न्यसेत्’ इति; ‘स्वाध्याय एवोत्सृज्यमानो वाचम्’ (आ. ध. २-२१-१०) इति च आपस्तम्बः; ‘ब्रह्मोज्झं वेदनिन्दा च कौटसाक्ष्यं सुहृद्वधः। गर्हितान्नाद्ययोर्जग्धिः सुरापानसमानि षट्’ (मनु. ११-५६) – इति वेदपरित्यागे दोषश्रवणात्। ‘उपासने गुरूणां वृद्धानामतिथीनां होमे जप्यकर्मणि भोजन आचमने स्वाध्याये च यज्ञोपवीती स्यात्’ (आ. ध. १-१५-१) इति परिव्राजकधर्मेषु च गुरूपासनस्वाध्याय भोजनाचमनादीनां कर्मणां श्रुतिस्मृतिषु कर्तव्यतया चोदितत्वात् गुर्वाद्युपासनाङ्गत्वेन यज्ञोपवीतस्य विहितत्वात् तत्परित्यागो नैवावगन्तुं शक्यते। यद्यपि एषणाभ्यो व्युत्थानं विधीयत एव, तथापि पुत्राद्येषणाभ्यस्तिसृभ्य एव व्युत्थानम्, न तु सर्वस्मात्कर्मणः कर्मसाधनाच्च व्युत्थानम्; सर्वपरित्यागे च अश्रुतं कृतं स्यात्, श्रुतं च यज्ञोपवीतादि हापितं स्यात्; तथा च महानपराधः विहिताकरणप्रतिषिद्धाचरणनिमित्तः कृतः स्यात्; तस्मात् यज्ञोपवीतादिलिङ्गपरित्यागोऽन्धपरम्परैव।
न, ‘यज्ञोपवीतं वेदांश्च सर्वं तद्वर्जयेद्यतिः’ (क. रु. २) इति श्रुतेः। अपि च आत्मज्ञानपरत्वात्सर्वस्या उपनिषदः – आत्मा द्रष्टव्यः श्रोतव्यो मन्तव्य इति हि प्रस्तुतम्; स च आत्मैव साक्षादपरोक्षात्सर्वान्तरः अशनायादिसंसारधर्मवर्जित इत्येवं विज्ञेय इति तावत् प्रसिद्धम्; सर्वा हीयमुपनिषत् एवम्परेति विध्यन्तरशेषत्वं तावन्नास्ति, अतो नार्थवादः, आत्मज्ञानस्य कर्तव्यत्वात्। आत्मा च अशनायादिधर्मवान्न भवतीति साधनफलविलक्षणो ज्ञातव्यः; अतोऽव्यतिरेकेण आत्मनो ज्ञानमविद्या – ‘अन्योऽसावन्योऽहमस्मीति’, (BrhU.1.4.10) न स वेद, ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’, (BrhU.4.4.19) ‘एकधैवानुद्रष्टव्यम्’, (ChanU.6.2.1) ‘एकमेवाद्वितीयम्’, ‘तत्त्वमसि’ (ChanU.6.8.7) इत्यादिश्रुतिभ्यः। क्रियाफलं साधनं अशनायादिसंसारधर्मातीतादात्मनोऽन्यत् अविद्याविषयम् – ‘यत्र हि द्वैतमिव भवति’ (BrhU.2.4.14) ‘अन्योऽसावन्योऽहमस्मीति,’ (BrhU.1.4.10) ‘न स वेद’ ‘अथ येऽन्यथातो विदुः’ (ChanU.7.25.2) इत्यादिवाक्यशतेभ्यः। न च विद्याविद्ये एकस्य पुरुषस्य सह भवतः, विरोधात् – तमःप्रकाशाविव; तस्मात् आत्मविदः अविद्याविषयोऽधिकारो न द्रष्टव्यः क्रियाकारकफलभेदरूपः, ‘मृत्योः स मृत्युमाप्नोति’ (BrhU.4.4.19) इत्यादिनिन्दितत्वात्, सर्वक्रियासाधनफलानां च अविद्याविषयाणां तद्विपरीतात्मविद्यया हातव्यत्वेनेष्टत्वात्, यज्ञोपवीतादिसाधनानां च तद्विषयत्वात्। तस्मात् असाधनफलस्वभावादात्मनः अन्यविषया विलक्षणा एषणा; उभे ह्येते साधनफले एषणे एव भवतः यज्ञोपवीतादेस्तत्साध्यकर्मणां च साधनत्वात्, ‘उभे ह्येते एषणे एव’ इति हेतुवचनेनावधारणात्। यज्ञोपवीतादिसाधनात् तत्साध्येभ्यश्च कर्मभ्यः अविद्याविषयत्वात् एषणारूपत्वाच्च जिहासितव्यरूपत्वाच्च व्युत्थानं विधित्सितमेव। ननूपनिषद आत्मज्ञानपरत्वात् व्युत्थानश्रुतिः तत्स्तुत्यर्था, न विधिः – न, विधित्सितविज्ञानेन समानकर्तृकत्वश्रवणात्; न हि अकर्तव्येन कर्तव्यस्य समानकर्तृकत्वेन वेदे कदाचिदपि श्रवणं सम्भवति; कर्तव्यानामेव हि अभिषवहोमभक्षाणां यथा श्रवणम् – अभिषुत्य हुत्वा भक्षयन्तीति, तद्वत् आत्मज्ञानैषणाव्युत्थानभिक्षाचर्याणां कर्तव्यानामेव समानकर्तृकत्वश्रवणं भवेत्। अविद्याविषयत्वात् एषणात्वाच्च अर्थप्राप्त आत्मज्ञानविधेरेव यज्ञोपवीतादिपरित्यागः, न तु विधातव्य इति चेत् – न; सुतरामात्मनज्ञानविधिनैव विहितस्य समानकर्तृकत्वश्रवणेन दार्ढ्योपपत्तिः, तथा भिक्षाचर्यस्य च। यत्पुनरुक्तम्, वर्तमानापदेशादर्थवादमात्रमिति – न, औदुम्बरयूपादिविधिसमानत्वाददोषः।
‘व्युत्थाय भिक्षाचर्यं चरन्ति’ इत्यनेन पारिव्राज्यं विधीयते; पारिव्राज्याश्रमे च यज्ञोपवीतादिसाधनानि विहितानि लिङ्गं च श्रुतिभिः स्मृतिभिश्च; अतः तत् वर्जयित्वा अन्यस्माद्व्युत्थानम् एषणात्वेऽपीति चेत् – न, विज्ञानसमानकर्तृकात्पारिव्राज्यात् एषणाव्युत्थानलक्षणात् पारिव्राज्यान्तरोपपत्तेः; यद्धि तत् एषणाभ्यो व्युत्थानलक्षणं पारिव्राज्यम्, तत् आत्मज्ञानाङ्गम्, आत्मज्ञानविरोध्येषणापरित्यागरूपत्वात्, अविद्याविषयत्वाच्चैषणायाः; तद्व्यतिरेकेण च अस्ति आश्रमरूपं पारिव्राज्यं ब्रह्मलोकादिफलप्राप्तिसाधनम्, यद्विषयं यज्ञोपवीतादिसाधनविधानं लिङ्गविधानं च। न च एषणारूपसाधनोपादानस्य आश्रमधर्ममात्रेण पारिव्राज्यान्तरे विषये सम्भवति सति, सर्वोपनिषद्विहितस्य आत्मज्ञानस्य बाधनं युक्तम्, यज्ञोपवीताद्यविद्याविषयैषणारूपसाधनोपादित्सायां च अवश्यम् असाधनफलरूपस्य अशनायादिसंसारधर्मवर्जितस्य अहं ब्रह्मास्मीति विज्ञानं बाध्यते। न च तद्बाधनं युक्तम्, सर्वोपनिषदां तदर्थपरत्वात्। ‘भिक्षाचर्यं चरन्ति’ इत्येषणां ग्राहयन्ती श्रुतिः स्वयमेव बाधत इति चेत् – अथापि स्यादेषणाभ्यो व्युत्थानं विधाय पुनरेषणैकदेशं भिक्षाचर्यं ग्राहयन्ती तत्सम्बद्धमन्यदपि ग्राहयतीति चेत् – न, भिक्षाचर्यस्याप्रयोजकत्वात् – हुत्वोत्तरकालभक्षणवत्; शेषप्रतिपत्तिकर्मत्वात् अप्रयोजकं हि तत्; असंस्कारकत्वाच्च – भक्षणं पुरुषसंस्कारकमपि स्यात्, न तु भिक्षाचर्यम्; नियमादृष्टस्यापि ब्रह्मविदः अनिष्टत्वात्। नियमादृष्टस्यानिष्टत्वे किं भिक्षाचर्येणेति चेत् – न, अन्यसाधनात् व्युथ्तानस्य विहितत्वात्। तथापि किं तेनेति चेत् – यदि स्यात्, बाढम् अभ्युपगम्यते हि तत्। यानि पारिव्राज्येऽभिहितानि वचनानि ‘यज्ञोपवीत्येवाधीयीत’ (तै. आ. २-१-१) इत्यादीनि, तानि अविद्वत्पारिव्राज्यमात्रविषयाणीति परिहृतानि; इतरथात्मज्ञानबाधः स्यादिति ह्युक्तम्; ‘निराशिषमनारम्भं निर्नमस्कारमस्तुतिम्। अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः’ (मो. ध. २६३-३४) इति सर्वकर्माभावं दर्शयति स्मृतिः विदुषः – ‘विद्वांल्लिङ्गविवर्जितः’ (?), ‘तस्मादलिङ्गो धर्मज्ञः’ (अश्व. ४६-५१) इति च। तस्मात् परमहंसपारिव्राज्यमेव व्युत्थानलक्षणं प्रतिपद्येत आत्मवित् सर्वकर्मसाधनपरित्यागरूपमिति।
यस्मात् पूर्वे ब्राह्मणा एतमात्मानम् असाधनफलस्वभावं विदित्वा सर्वस्मात् साधनफलस्वरूपात् एषणालक्षणात् व्युत्थाय भिक्षाचर्यं चरन्ति स्म, दृष्टादृष्टार्थं कर्म तत्साधनं च हित्वा – तस्मात् अद्यत्वेऽपि ब्राह्मणः ब्रह्मवित्, पाण्डित्यं पण्डितभावम्, एतदात्मविज्ञानं पाण्डित्यम्, तत् निर्विद्य निःशेषं विदित्वा, आत्मविज्ञानं निरवशेषं कृत्वेत्यर्थः – आचार्यत आगमतश्च एषणाभ्यो व्युत्थाय – एषणाव्युत्थानावसानमेव हि तत्पाण्डित्यम्, एषणातिरस्कारोद्भवत्वात् एषणाविरुद्धत्वात्; एषणामतिरस्कृत्य न ह्यात्मविषयस्य पाण्डित्यस्योद्भव इति आत्मज्ञानेनैव विहितमेषणाव्युत्थानम् आत्मज्ञानसमानकर्तृकत्वाप्रत्ययोपादानलिङ्गश्रुत्या दृढीकृतम्। तस्मात् एषणाभ्यो व्युत्थाय ज्ञानबलभावेन बाल्येन तिष्ठासेत् स्थातुमिच्छेत्; साधनफलाश्रयणं हि बलम् इतरेषामनात्मविदाम्; तद्बलं हित्वा विद्वान् असाधनफलस्वरूपात्मविज्ञानमेव बलं तद्भावमेव केवलम् आश्रयेत्, तदाश्रयणे हि करणानि एषणाविषये एनं हृत्वा स्थापयितुं नोत्सहन्ते; ज्ञानबलहीनं हि मूढं दृष्टादृष्टविषयायामेषणायामेव एनं करणानि नियोजयन्ति; बलं नाम आत्मविद्यया अशेषविषयदृष्टितिरस्करणम्; अतः तद्भावेन बाल्येन तिष्ठासेत्, तथा ‘आत्मना विन्दते वीर्यम्’ (KenU.2.4) इति श्रुत्यन्तरात्, ‘नायमात्मा बलहीनेन लभ्यः’ (MunU.3.2.4) इति च। बाल्यं च पाण्डित्यं च निर्विद्य निःशेषं कृत्वा अथ मननान् मुनिः योगी भवति; एतावद्धि ब्राह्मणेन कर्तव्यम्, यदुत सर्वानात्मप्रत्ययतिरस्करणम्; एतत्कृत्वा कृतकृत्यो योगी भवति। अमौनं च आत्मज्ञानानात्मप्रत्ययतिरस्कारौ पाण्डित्यबाल्यसञ्ज्ञकौ निःशेषं कृत्वा, मौनं नाम अनात्मप्रत्ययतिरस्करणस्य पर्यवसानं फलम् – तत् च निर्विद्य अथ ब्राह्मणः कृतकृत्यो भवति – ब्रह्मैव सर्वमिति प्रत्यय उपजायते। स ब्राह्मणः कृतकृत्यः, अतो ब्राह्मणः; निरुपचरितं हि तदा तस्य ब्राह्मण्यं प्राप्तम्; अत आह – स ब्राह्मणः केन स्यात् केन चरणेन भवेत्? येन स्यात् – येन चरणेन भवेत्, तेन ईदृशः एव अयम् – येन केनचित् चरणेन स्यात्, तेन ईदृश एव उक्तलक्षण एव ब्राह्मणो भवति; येन केनचिच्चरणेनेति स्तुत्यर्थम् – येयं ब्राह्मण्यावस्था सेयं स्तूयते, न तु चरणेऽनादरः। अतः एतस्माद्ब्राह्मण्यावस्थानात् अशनायाद्यतीतात्मस्वरूपात् नित्यतृप्तात्, अन्यत् अविद्याविषयमेषणालक्षणं वस्त्वन्तरम्, आर्तम् विनाशि आर्तिपरिगृहीतं स्वप्नमायामरीच्युदकसमम् असारम्, आत्मैव एकः केवलो नित्यमुक्त इति। ततो ह कहोलः कौषीतकेयः उपरराम

Go to Top ('Home' key on many Windows browsers)

BrhU.3.06

🔗  यत्साक्षादपरोक्षाद्ब्रह्म सर्वान्तर आत्मेत्युक्तम्, तस्य सर्वान्तरस्य स्वरूपाधिगमाय आ शाकल्यब्राह्मणात् ग्रन्थ आरभ्यते। पृथिव्यादीनि ह्याकाशान्तानि भूतानि अन्तर्बहिर्भावेन व्यवस्थितानि; तेषां यत् बाह्यं बाह्यम्, अधिगम्याधिगम्य निराकुर्वन् द्रष्टुः साक्षात्सर्वान्तरोऽगौण आत्मा सर्वसंसारधर्मविनिर्मुक्तो दर्शयितव्य इत्यारम्भः – अथ हैनं गार्गी नामतः, वाचक्नवी वचक्नोर्दुहिता, पप्रच्छ; याज्ञवल्क्येति होवाच; यदिदं सर्वं पार्थिवं धातुजातम् अप्सु उदके ओतं च प्रोतं च – ओतं दीर्घपटतन्तुवत्, प्रोतं तिर्यक्तन्तुवत्, विपरीतं वा – अद्भिः सर्वतोऽन्तर्बहिर्भूताभिर्व्याप्तमित्यर्थः; अन्यथा सक्तुमुष्टिवद्विशीर्येत। इदं तावत् अनुमानमुपन्यस्तम् – यत् कार्यं परिच्छिन्नं स्थूलम्, कारणेन अपरिच्छिन्नेन सूक्ष्मेण व्याप्तमिति दृष्टम् – यथा पृथिवी अद्भिः; तथा पूर्वं पूर्वम् उत्तरेणोत्तरेण व्यापिना भवितव्यम् – इत्येष आ सर्वान्तरादात्मनः प्रश्नार्थः। तत्र भूतानि पञ्च संहतान्येव उत्तरमुत्तरं सूक्ष्मभावेन व्यापकेन कारणरूपेण च व्यवतिष्ठन्ते; न च परमात्मनोऽर्वाक् तद्व्यतिरेकेण वस्त्वन्तरमस्ति, ‘सत्यस्य सत्यम्’ (BrhU.2.3.6) इति श्रुतेः; सत्यं च भूतपञ्चकम्, सत्यस्य सत्यं च पर आत्मा। कस्मिन्नु खल्वाप ओताश्च प्रोताश्चेति – तासामपि कार्यत्वात् स्थूलत्वात् परिच्छिन्नत्वाच्च क्वचिद्धि ओतप्रोतभावेन भवितव्यम्; क्व तासाम् ओतप्रोतभाव इति। एवमुत्तरोत्तरप्रश्नप्रसङ्गो योजयितव्यः। वायौ गार्गीति; ननु अग्नाविति वक्तव्यम् – नैष दोषः; अग्नेः पार्थिवं वा आप्यं वा धातुमनाश्रित्य इतरभूतवत् स्वातन्त्र्येण आत्मलाभो नास्तीति तस्मिन् ओतप्रोतभावो नोपदिश्यते। कस्मिन्नु खलु वायुरोतश्च प्रोतश्च इति अन्तरिक्षलोकेषु गार्गीति। तान्येव भूतानि संहतानि अन्तरिक्षलोकाः; तान्यपि – गन्धर्वलोकेषु गन्धर्वलोकाः, आदित्यलोकेषु आदित्यलोकाः, चन्द्रलोकेषु चन्द्रलोकाः नक्षत्रलोकेषु नक्षत्रलोकाः, देवलोकेषु देवलोकाः, इन्द्रलोकेषु इन्द्रलोकाः, विराट्-शरीरारम्भकेषु भूतेषु प्रजापतिलोकेषु प्रजापतिलोकाः, ब्रह्मलोकेषु ब्रह्मलोका नाम – अण्डारम्भकाणि भूतानि; सर्वत्र हि सूक्ष्मतारतम्यक्रमेण प्राण्युपभोगाश्रयाकारपरिणतानि भूतानि संहतानि तान्येव पञ्चेति बहुवचनभाञ्जि। कस्मिन्नु खलु ब्रह्मलोकाः ओताश्च प्रोताश्चेतिस होवाच याज्ञवल्क्यः – हे गार्गि मातिप्राक्षीः स्वं प्रश्नम्, न्यायप्रकारमतीत्य आगमेन प्रष्टव्यां देवताम् अनुमानेन मा प्राक्षीरित्यर्थः; पृच्छन्त्याश्च मा ते तव मूर्धा शिरः व्यपप्तत् विस्पष्टं पतेत्; देवतायाः स्वप्रश्न आगमविषयः; तं प्रश्नविषयमतिक्रान्तो गार्ग्याः प्रश्नः, आनुमानिकत्वात्; स यस्या देवतायाः प्रश्नः सा अतिप्रश्न्या, न अतिप्रश्न्या अनतिप्रश्न्या, स्वप्रश्नविषयैव, केवलागमगम्येत्यर्थः; ताम् अनतिप्रश्न्यां वै देवताम् अतिपृच्छसि। अतो गार्गी मातिप्राक्षीः, मर्तुं चेन्नेच्छसि। ततो ह गार्गी वाचक्नव्युपरराम

Go to Top ('Home' key on many Windows browsers)

BrhU.3.07

🔗  इदानीं ब्रह्मलोकानाम् अन्तरतमं सूत्रं वक्तव्यमिति तदर्थ आरम्भः; तच्च आगमेनैव प्रष्टव्यमिति इतिहासेन आगमोपन्यासः क्रियते – अथ हैनम् उद्दालको नामतः, अरुणस्यापत्यम् आरुणिः पप्रच्छ; याज्ञवल्क्येति होवाच; मद्रेषु देशेषु अवसाम उषितवन्तः, पतञ्जलस्य – पतञ्जलो नामतः – तस्यैव कपिगोत्रस्य काप्यस्य गृहेषु यज्ञमधीयानाः यज्ञशास्त्राध्ययनं कुर्वाणाः। तस्य आसीत् भार्या गन्धर्वगृहीता; तमपृच्छामकोऽसीतिसोऽब्रवीत्कबन्धो नामतः, अथर्वणोऽपत्यम् आथर्वण इति। सोऽब्रवीद् गन्धर्वः पतञ्जलं काप्यं याज्ञिकांश्च तच्छिष्यान् – वेत्थ नु त्वं हे काप्य जानीषे तत् सूत्रम्; किं तत्? येन सूत्रेण अयं च लोकः इदं च जन्म, परश्च लोकः परं च प्रतिपत्तव्यं जन्म, सर्वाणि च भूतानि ब्रह्मादिस्तम्बपर्यन्तानि, सन्दृब्धानि सङ्ग्रथितानि स्रगिव सूत्रेण विष्टब्धानि भवन्ति येन – तत् किं सूत्रं वेत्थ। सोऽब्रवीत् एवं पृष्टः काप्यः – नाहं तद्भगवन्वेदेति – तत् सूत्रं नाहं जाने हे भगवन्निति सम्पूजयन्नाह। सोऽब्रवीत् पुनर्गन्धर्वः उपाध्यायमस्मांश्च – वेत्थ नु त्वं काप्य तमन्तर्यामिणम् – अन्तर्यामीति विशेष्यते – य इमं च लोकं परं च लोकं सर्वाणि च भूतानि यः अन्तरः अभ्यन्तरः सन् यमयति नियमयति, दारुयन्त्रमिव भ्रामयति, स्वं स्वमुचितव्यापारं कारयतीति। सोऽब्रवीद् एवमुक्तः पतञ्जलः काप्यः – नाहं तं जाने भगवन् इति सम्पूजयन्नाह। सोऽब्रवीत् पुनर्गन्धर्वः; सूत्रतदन्तर्गतान्तर्यामिणोर्विज्ञानं स्तूयते – यः कश्चिद् वै तत् सूत्रं हे काप्य विद्यात् विजानीयात् तं च अन्तर्यामिणं सूत्रान्तर्गतं तस्यैव सूत्रस्य नियन्तारं विद्यात् यः इति एवमुक्तेन प्रकारेण – हि ब्रह्मवित् परमात्मवित्, स लोकान् च भूरादीनन्तर्यामिणा नियम्यमानान् लोकान् वेत्ति, स देवांश्चाग्न्यादीन् लोकिनः जानाति, वेदांश्च सर्वप्रमाणभूतान्वेत्ति, भूतानि च ब्रह्मादीनि सूत्रेण ध्रियमाणानि तदन्तर्गतेनान्तर्यामिणा नियम्यमानानि वेत्ति, स आत्मानं च कर्तृत्वभोक्तृत्वविशिष्टं तेनैवान्तर्यामिणा नियम्यमानं वेत्ति, सर्वं च जगत् तथाभूतं वेत्ति – इति; एवं स्तुते सूत्रान्तर्यामिविज्ञाने प्रलुब्धः काप्योऽभिमुखीभूतः, वयं च; तेभ्यश्च अस्मभ्यम् अभिमुखीभूतेभ्यः अब्रवीद्गन्धर्वः सूत्रमन्तर्यामिणं च; तदहं सूत्रान्तर्यामिविज्ञानं वेद गन्धर्वाल्लब्धागमः सन्; तच्चेत् याज्ञवल्क्य सूत्रम्, तं चान्तर्यामिणम् अविद्वान् चेत्, अब्रह्मवित्सन् यदि ब्रह्मगवीरुदजसे ब्रह्मविदां स्वभूता गा उदजस उन्नयसि त्वम् अन्यायेन, ततो मच्छापदग्धस्य मूर्धा शिरः ते तव वि-स्पष्टं पतिष्यति। एवमुक्तो याज्ञवल्क्य आह – वेद जानामि अहम्, हे गौतम इति गोत्रतः, तत् सूत्रम् – यत् गन्धर्वस्तुभ्यमुक्तवान्; यं च अन्तर्यामिणं गन्धर्वाद्विदितवन्तो यूयम्, तं च अन्तर्यामिणं वेद अहम् – इति; एवमुक्ते प्रत्याह गौतमः – यः कश्चित् प्राकृत इदं यत्त्वयोक्तं ब्रूयात् – कथम्? वेद वेदेति – आत्मानं श्लाघयन्, किं तेन गर्जितेन? कार्येण दर्शय; यथा वेत्थ, तथा ब्रूहीति
🔗  स होवाच याज्ञवल्क्यः। ब्रह्मलोका यस्मिन्नोताश्च प्रोताश्च वर्तमाने काले, यथा पृथिवी अप्सु, तत् सूत्रम् आगमगम्यं वक्तव्यमिति – तदर्थं प्रश्नान्तरमुत्थापितम्; अतस्तन्निर्णयाय आह – वायुर्वै गौतम तत् सूत्रम्; नान्यत्; वायुरिति – सूक्ष्ममाकाशवत् विष्टम्भकं पृथिव्यादीनाम्, यदात्मकं सप्तदशविधं लिङ्गं कर्मवासनासमवायि प्राणिनाम्, यत्तत्समष्टिव्यष्ट्यात्मकम्, यस्य बाह्या भेदाः सप्तसप्त मरुद्गणाः समुद्रस्येवोर्मयः – तदेतद्वायव्यं तत्त्वं सूत्रमित्यभिधीयते। वायुना वै गौतम सूत्रेण अयं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति सङ्ग्रथितानि भवन्तीति प्रसिद्धमेतत्; अस्ति च लोके प्रसिद्धिः; कथम्? यस्मात् वायुः सूत्रम्, वायुना विधृतं सर्वम्, तस्माद्वै गौतम पुरुषं प्रेतमाहुः कथयन्ति – व्यस्रंसिषत विस्रस्तानि अस्य पुरुषस्य अङ्गानीति; सूत्रापगमे हि मण्यादीनां प्रोतानामवस्रंसनं दृष्टम्; एवं वायुः सूत्रम्; तस्मिन्मणिवत्प्रोतानि यदि अस्याङ्गानि स्युः, ततो युक्तमेतत् वाय्वपगमे अवस्रंसनमङ्गानाम्। अतो वायुना हि गौतम सूत्रेण सन्दृब्धानि भवन्तीति निगमयति। एवमेवैतत् याज्ञवल्क्य, सम्यगुक्तं सूत्रम्; तदन्तर्गतं तु इदानीं तस्यैव सूत्रस्य नियन्तारम् अन्तर्यामिणं ब्रूहि इति उक्तः आह॥
🔗  यः पृथिव्यां तिष्ठन् भवति, सोऽन्तर्यामी। सर्वः पृथिव्यां तिष्ठतीति सर्वत्र प्रसङ्गो मा भूदिति विशिनष्टि – पृथिव्याः अन्तरः अभ्यन्तरः। तत्रैतत्स्यात्, पृथिवी देवतैव अन्तर्यामीति – अत आह – यम् अन्तर्यामिणं पृथिवी देवतापि न वेद – मय्यन्यः कश्चिद्वर्तत इति। यस्य पृथिवी शरीरम् – यस्य च पृथिव्येव शरीरम्, नान्यत् – पृथिवीदेवताया यच्छरीरम्, तदेव शरीरं यस्य; शरीरग्रहणं च उपलक्षणार्थम्; करणं च पृथिव्याः तस्य; स्वकर्मप्रयुक्तं हि कार्यं करणं च पृथिवीदेवतायाः; तत् अस्य स्वकर्माभावात् अन्तर्यामिणो नित्यमुक्तत्वात्, परार्थकर्तव्यतास्वभावत्वात् परस्य यत्कार्यं करणं च – तदेवास्य, न स्वतः; तदाह – यस्य पृथिवी शरीरमिति। देवताकार्यकरणस्य ईश्वरसाक्षिमात्रसान्निध्येन हि नियमेन प्रवृत्तिनिवृत्ती स्याताम्; ईदृगीश्वरो नारायणाख्यः, पृथिवीं पृथिवीदेवताम्, यमयति नियमयति स्वव्यापारे, अन्तरः अभ्यन्तरस्तिष्ठन्, एष ते आत्मा, ते तव, मम च सर्वभूतानां च इत्युपलक्षणार्थमेतत्, अन्तर्यामी यस्त्वया पृष्टः, अमृतः सर्वसंसारधर्मवर्जित इत्येतत्॥
🔗  समानमन्यत्। योऽप्सु तिष्ठन्, अग्नौ, अन्तरिक्षे, वायौ, दिवि, आदित्ये, दिक्षु, चन्द्रतारके, आकाशे, यस्तमस्यावरणात्मके बाह्ये तमसि, तेजसि तद्विपरीते प्रकाशसामान्ये – इत्येवम् अधिदैवतम् अन्तर्यामिविषयं दर्शनं देवतासु। अथ अधिभूतं भूतेषु ब्रह्मादिस्तम्बपर्यन्तेषु अन्तर्यामिदर्शनमधिभूतम्॥
🔗  अथाध्यात्मम्यः प्राणे प्राणवायुसहिते घ्राणे, यो वाचि, चक्षुषि, श्रोत्रे, मनसि, त्वचि, विज्ञाने, बुद्धौ, रेतसि प्रजनने। कस्मात्पुनः कारणात् पृथिव्यादिदेवता महाभागाः सत्यः मनुष्यादिवत् आत्मनि तिष्ठन्तम् आत्मनो नियन्तारमन्तर्यामिणं न विदुरित्यत आह – अदृष्टः न दृष्टो न विषयीभूतश्चक्षुर्दर्शनस्य कस्यचित्, स्वयं तु चक्षुषि सन्निहितत्वात् दृशिस्वरूप इति द्रष्टा। तथा अश्रुतः श्रोत्रगोचरत्वमनापन्नः कस्यचित्, स्वयं तु अलुप्तश्रवणशक्तिः सर्वश्रोत्रेषु सन्निहितत्वात् श्रोता। तथा अमतः मनस्सङ्कल्पविषयतामनापन्नः; दृष्टश्रुते एव हि सर्वः सङ्कल्पयति; अदृष्टत्वात् अश्रुतत्वादेव अमतः; अलुप्तमननशक्तित्वात् सर्वमनःसु सन्निहितत्वाच्च मन्ता। तथा अविज्ञातः निश्चयगोचरतामनापन्नः रूपादिवत् सुखादिवद्वा, स्वयं तु अलुप्तविज्ञानशक्तित्वात् तत्सन्निधानाच्च विज्ञाता। तत्र यं पृथिवी न वेद यं सर्वाणि भूतानि न विदुरिति च अन्ये नियन्तव्या विज्ञातारः अन्यो नियन्ता अन्तर्यामीति प्राप्तम्; तदन्यत्वाशङ्कानिवृत्त्यर्थमुच्यते – नान्योऽतः – नान्यःअतः अस्मात् अन्तर्यामिणः नान्योऽस्ति द्रष्टा; तथा नान्योऽतोऽस्ति श्रोता; नान्योऽतोऽस्ति मन्ता; नान्योऽतोऽस्ति विज्ञाता। यस्मात्परो नास्ति द्रष्टा श्रोता मन्ता विज्ञाता, यः अदृष्टो द्रष्टा, अश्रुतः श्रोता, अमतो मन्ता, अविज्ञातो विज्ञाता, अमृतः सर्वसंसारधर्मवर्जितः सर्वसंसारिणां कर्मफलविभागकर्ता – एष ते आत्मा अन्तर्याम्यमृतः; अस्मादीश्वरादात्मनोऽन्यत् आर्तम्ततो होद्दालक आरुणिरुपरराम

Go to Top ('Home' key on many Windows browsers)

BrhU.3.08

🔗  अतः परम् अशनायादिविनिर्मुक्तं निरुपाधिकं साक्षादपरोक्षात्सर्वान्तरं ब्रह्म वक्तव्यमित्यत आरम्भः –
अथ ह वाचक्नव्युवाच। पूर्वं याज्ञवल्क्येन निषिद्धा मूर्धपातभयादुपरता सती पुनः प्रष्टुं ब्राह्मणानुज्ञां प्रार्थयते हे ब्राह्मणाः भगवन्तः पूजावन्तः शृणुत मम वचः; हन्त अहम् इमं याज्ञवल्क्यं पुनः द्वौ प्रश्नौ प्रक्ष्यामि, यद्यनुमतिर्भवतामस्ति; तौ प्रश्नौ चेत् यदि वक्ष्यति कथयिष्यति मे, कथञ्चित् न वै जातु कदाचित्, युष्माकं मध्ये इमं याज्ञवल्क्यं कश्चित् ब्रह्मोद्यं ब्रह्मवदनं प्रति जेता – न वै कश्चित् भवेत् – इति। एवमुक्ता ब्राह्मणा अनुज्ञां प्रददुः – पृच्छ गार्गीति
🔗  लब्धानुज्ञा ह याज्ञवल्क्यं सा ह उवाचअहं वै त्वा त्वाम् द्वौ प्रश्नौ प्रक्ष्यामीत्यनुषज्यते; कौ ताविति जिज्ञासायां तयोर्दुरुत्तरत्वं द्योतयितुं दृष्टान्तपूर्वकं तावाह – हे याज्ञवल्क्य यथा लोके काश्यः – काशिषु भवः काश्यः, प्रसिद्धं शौर्यं काश्ये – वैदेहो वा विदेहानां वा राजा, उग्रपुत्रः शूरान्वय इत्यर्थः, उज्ज्यम् अवतारितज्याकम् धनुः पुनः अधिज्यम् आरोपितज्याकं कृत्वा, द्वौ बाणवन्तौ – बाणशब्देन शराग्रे यो वंशखण्डः सन्धीयते, तेन विनापि शरो भवतीत्यतो विशिनष्टि बाणवन्ताविति – द्वौ बाणवन्तौ शरौ, तयोरेव विशेषणम् – सपत्नातिव्याधिनौ शत्रोः पीडाकरावतिशयेन, हस्ते कृत्वा उप उत्तिष्ठेत् समीपत आत्मानं दर्शयेत् – एवमेव अहं त्वा त्वाम् शरस्थानीयाभ्यां प्रश्नाभ्यां द्वाभ्याम् उपोदस्थां उत्थितवत्यस्मि त्वत्समीपे। तौ मे ब्रूहीति – ब्रह्मविच्चेत्। आह इतरः – पृच्छ गार्गीति
🔗  सा होवाचयत् ऊर्ध्वम् उपरि दिवः अण्डकपालात्, यत्अवाक् अधः पृथिव्याः अधोऽण्डकपालात्, यत्अन्तरा मध्ये द्यावापृथिवी द्यावापृथिव्योः अण्डकपालयोः, इमे च द्यावापृथिवी, यद्भूतं यच्चातीतम्, भवच्च वर्तमानं स्वव्यापारस्थम्, भविष्यच्च वर्तमानादूर्ध्वकालभावि लिङ्गगम्यम् – यत्सर्वमेतद् आचक्षते कथयन्त्यागमतः – तत् सर्वं द्वैतजातं यस्मिन्नेकीभवतीत्यर्थः – तत् सूत्रसञ्ज्ञं पूर्वोक्तं कस्मिन् ओतं च प्रोतं च पृथिवीधातुरिवाप्सु॥
🔗  स होवाच इतरः – हे गार्गि, यत् त्वयोक्तम् ‘ऊर्ध्वं दिवः’ इत्यादि, तत्सर्वम् – यत्सूत्रमाचक्षते – तत् सूत्रम्, आकाशे तत् ओतं च प्रोतं च – यदेतत् व्याकृतं सूत्रात्मकं जगत् अव्याकृताकाशे, अप्सु इव पृथिवीधातुः, त्रिष्वपि कालेषु वर्तते उत्पत्तौ स्थितौ लये च॥
🔗  पुनः सा होवाच; नमस्तेऽस्त्वित्यादिप्रश्नस्य दुर्वचत्वप्रदर्शनार्थम्; यः मे मम एतं प्रश्नं व्यवोचः विशेषेणापाकृतवानसि; एतस्य दुर्वचत्वे कारणम् – सूत्रमेव तावदगम्यम् इतरैर्दुर्वाच्यम्; किमुत तत्, यस्मिन्नोतं च प्रोतं चेति; अतो नमोऽस्तु ते तुभ्यम्; अपरस्मै द्वितीयाय प्रश्नाय धारयस्व दृढीकुरु आत्मानमित्यर्थः। पृच्छ गार्गीति इतर आह॥
🔗  व्याख्यातमन्यत्। सा होवाच यदूर्ध्वं याज्ञवल्क्य इत्यादिप्रश्नः प्रतिवचनं च उक्तस्यैवार्थस्यावधारणार्थं पुनरुच्यते; न किञ्चिदपूर्वमर्थान्तरमुच्यते॥
🔗  सर्वं यथोक्तं गार्ग्या प्रत्युच्चार्य तमेव पूर्वोक्तमर्थमवधारितवान् आकाशे एवेति याज्ञवल्क्यः। गार्ग्याह – कस्मिन्नु खल्वाकाशः ओतश्च प्रोतश्चेति। आकाशमेव तावत्कालत्रयातीतत्वात् दुर्वाच्यम्, ततोऽपि कष्टतरम् अक्षरम्, यस्मिन्नाकाशमोतं च प्रोतं च, अतः अवाच्यम् – इति कृत्वा, न प्रतिपद्यते सा अप्रतिपत्तिर्नाम निग्रहस्थानं तार्किकसमये; अथ अवाच्यमपि वक्ष्यति, तथापि विप्रतिपत्तिर्नाम निग्रहस्थानम्; विरुद्धा प्रतिपत्तिर्हि सा, यदवाच्यस्य वदनम्; अतो दुर्वचनम् प्रश्नं मन्यते गार्गी॥
🔗  तद्दोषद्वयमपि परिजिहीर्षन्नाह – स होवाच याज्ञवल्क्यः; एतद्वै तत्, यत्पृष्टवत्यसि – कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति; किं तत्? अक्षरम् – यन्न क्षीयते न क्षरतीति वा अक्षरम् – तदक्षरं हे गार्गि ब्राह्मणाः ब्रह्मविदः अभिवदन्ति; ब्राह्मणाभिवदनकथनेन, नाहमवाच्यं वक्ष्यामि न च न प्रतिपद्येयमित्येवं दोषद्वयं परिहरति। एवमपाकृते प्रश्ने, पुनर्गार्ग्याः प्रतिवचनं द्रष्टव्यम् – ब्रूहि किं तदक्षरम्, यद्ब्राह्मणा अभिवदन्ति – इत्युक्त आह – अस्थूलम् तत् स्थूलादन्यत्; एवं तर्ह्यणु – अनणु; अस्तु तर्हि ह्रस्वम् – अह्रस्वम्; एवं तर्हि दीर्घम् – नापि दीर्घम् अदीर्घम्; एवमेतैश्चतुर्भिः परिमाणप्रतिषेधैर्द्रव्यधर्मः प्रतिषिद्धः, न द्रव्यं तदक्षरमित्यर्थः। अस्तु तर्हि लोहितो गुणः – ततोऽप्यन्यत् अलोहितम्; आग्नेयो गुणो लोहितः; भवतु तर्ह्यपां स्नेहनम् – न अस्नेहम्; अस्तु तर्हि छाया – सर्वथापि अनिर्देश्यत्वात् छायाया अप्यन्यत् अच्छायम्; अस्तु तर्हि तमः – अतमः; भवतु वायुस्तर्हि – अवायुः; भवेत्तर्ह्याकाशम् – अनाकाशम्; भवतु तर्हि सङ्गात्मकं जतुवत् – असङ्गम्; रसोऽस्तु तर्हि – अरसम्; तथा गन्धोऽस्तु – अगन्धम्; अस्तु तर्हि चक्षुः – अचक्षुष्कम्, न हि चक्षुरस्य करणं विद्यते, अतोऽचक्षुष्कम्, ‘पश्यत्यचक्षुः’ (श्वे. ३-१९) इति मन्त्रवर्णात्; तथा अश्रोत्रम्, ‘स शृणोत्यकर्णः’ (शे. ३-१९) इति; भवतु तर्हि वाक् – अवाक्; तथा अमनः, तथा अतेजस्कम् अविद्यमानं तेजोऽस्य तत् अतेजस्कम्; न हि तेजः अग्न्यादिप्रकाशवत् अस्य विद्यते; अप्राणम् – आध्यात्मिको वायुः प्रतिषिध्यतेऽप्राणमिति; मुखं तर्हि द्वारं तत् – अमुखम्; अमात्रम् – मीयते येन तन्मात्रम्, अमात्रम् मात्रारूपं तन्न भवति, न तेन किञ्चिन्मीयते; अस्तु तर्हि च्छिद्रवत् – अनन्तरम् नास्यान्तरमस्ति; सम्भवेत्तर्हि बहिस्तस्य – अबाह्यम्; अस्तु तर्हि भक्षयितृ तत् – न तदश्नाति किञ्चन; भवेत् तर्हि भक्ष्यं कस्यचित् – न तदश्नाति कश्चन। सर्वविशेषणरहितमित्यर्थः। एकमेवाद्वितीयं हि तत् – केन किं विशिष्यते॥
🔗  अनेकविशेषणप्रतिषेधप्रयासात् अस्तित्वं तावदक्षरस्योपगमितं श्रुत्या; तथापि लोकबुद्धिमपेक्ष्य आशङ्क्यते यतः, अतोऽस्तित्वाय अनुमानं प्रमाणमुपन्यस्यति – एतस्य वा अक्षरस्य। यदेतदधिगतमक्षरं सर्वान्तरं साक्षादपरोक्षाद्ब्रह्म, य आत्मा अशनायादिधर्मातीतः, एतस्य वा अक्षरस्य प्रशासने – यथा राज्ञः प्रशासने राज्यमस्फुटितं नियतं वर्तते, एवमेतस्याक्षरस्य प्रशासने – हे गार्गि सूर्याचन्द्रमसौ, सूर्यश्च चन्द्रमाश्च सूर्याचन्द्रमसौ अहोरात्रयोर्लोकप्रदीपौ, तादर्थ्येन प्रशासित्रा ताभ्यां निर्वर्त्यमानलोकप्रयोजनविज्ञानवता निर्मितौ च, स्याताम् – साधारणसर्वप्राणिप्रकाशोपकारकत्वात् लौकिकप्रदीपवत्। तस्मादस्ति तत्, येन विधृतौ ईश्वरौ स्वतन्त्रौ सन्तौ निर्मितौ तिष्ठतः नियतदेशकालनिमित्तोदयास्तमयवृद्धिक्षयाभ्यां वर्तेते; तदस्ति एवमेतयोः प्रशासितृ अक्षरम्, प्रदीपकर्तृविधारयितृवत्। एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ – द्यौश्च पृथिवी च सावयवत्वात् स्फुटनस्वभावे अपि सत्यौ गुरुत्वात्पतनस्वभावे संयुक्तत्वाद्वियोगस्वभावे चेतनावदभिमानिदेवताधिष्ठितत्वात्स्वतन्त्रे अपि – एतस्याक्षरस्य प्रशासने वर्तेते विधृते तिष्ठतः; एतद्धि अक्षरं सर्वव्यवस्थासेतुः सर्वमर्यादाविधरणम्; अतो नास्याक्षरस्य प्रशासनं द्यावापृथिव्यावतिक्रामतः; तस्मात् सिद्धमस्यास्तित्वमक्षरस्य; अव्यभिचारि हि तल्लिङ्गम्, यत् द्यावापृथिव्यौ नियते वर्तेते; चेतनावन्तं प्रशासितारमसंसारिणमन्तरेण नैतद्युक्तम्, ‘येन द्यौरुग्रा पृथिवी च दृढा’ (ऋ. सं. १०-१२१-५) इति मन्त्रवर्णात्। एतस्य वा अक्षरस्य प्रशासने गार्गि, निमेषाः मुहूर्ताः इत्येते कालावयवाः सर्वस्यातीतानागतवर्तमानस्य जनिमतः कलयितारः – यथा लोके प्रभुणा नियतो गणकः सर्वम् आयं व्ययं च अप्रमत्तो गणयति, तथा प्रभुस्थानीय एषां कालावयवानां नियन्ता। तथा प्राच्यः प्रागञ्चनाः पूर्वदिग्गमनाः नद्यः स्यन्दन्ते स्रवन्ति, श्वेतेभ्यः हिमवदादिभ्यः पर्वतेभ्यः गिरिभ्यः, गङ्गाद्या नद्यः – ताश्च यथा प्रवर्तिता एव नियताः प्रवर्तन्ते, अन्यथापि प्रवर्तितुमुत्सहन्त्यः; तदेतल्लिङ्गं प्रशास्तुः। प्रतीच्योऽन्याः प्रतीचीं दिशमञ्चन्ति सिन्ध्वाद्या नद्यः; अन्याश्च यां यां दिशमनु-प्रवृत्ताः, तां तां न व्यभिचरन्ति; तच्च लिङ्गम्। किञ्च ददतः हिरण्यादीन्प्रयच्छतः आत्मपीडां कुर्वतोऽपि प्रमाणज्ञा अपि मनुष्याः प्रशंसन्ति; तत्र यच्च दीयते, ये च ददति, ये च प्रतिगृह्णन्ति, तेषामिहैव समागमो विलयश्च अन्वक्षो दृश्यते; अदृष्टस्तु परः समागमः; तथापि मनुष्या ददतां दानफलेन संयोगं पश्यन्तः प्रमाणज्ञतया प्रशंसन्ति; तच्च, कर्मफलेन संयोजयितरि कर्तुः – कर्मफलविभागज्ञे प्रशास्तरि असति, न स्यात्, दानक्रियायाः प्रत्यक्षविनाशित्वात्; तस्मादस्ति दानकर्तॄणां फलेन संयोजयिता। अपूर्वमिति चेत्, न, तत्सद्भावे प्रमाणानुपपत्तेः। प्रशास्तुरपीति चेत्, न, आगमतात्पर्यस्य सिद्धत्वात्; अवोचाम हि आगमस्य वस्तुपरत्वम्। किञ्चान्यत् – अपूर्वकल्पनायां च अर्थापत्तेः क्षयः, अन्यथैवोपपत्तेः, सेवाफलस्य सेव्यात्प्राप्तिदर्शनात्; सेवायाश्च क्रियात्वात् तत्सामान्याच्च यागदानहोमादीनां सेव्यात् ईश्वरादेः फलप्राप्तिरुपपद्यते। दृष्टक्रियाधर्मसामर्थ्यमपरित्यज्यैव फलप्राप्तिकल्पनोपपत्तौ दृष्टक्रियाधर्मसामर्थ्यपरित्यागो न न्याय्यः। कल्पनाधिक्याच्च – ईश्वरः कल्प्यः, अपूर्वं वा; तत्र क्रियायाश्च स्वभावः सेव्यात्फलप्राप्तिः दृष्टा, न त्वपूर्वात्; न च अपूर्वं दृष्टम्, तत्र अपूर्वमदृष्टं कल्पयितव्यम्, तस्य च फलदातृत्वे सामर्थ्यम्, सामर्थ्ये च सति दानं च अभ्यधिकमिति; इह तु ईश्वरस्य सेव्यस्य सद्भावमात्रं कल्प्यम्, न तु फलदानसामर्थ्यं दातृत्वं च, सेव्यात्फलप्राप्तिदर्शनात्। अनुमानं च दर्शितम् – ‘द्यावापृथिव्यौ विधृते तिष्ठतः’ इत्यादि। तथा च यजमानं देवाः ईश्वराः सन्तो जीवनार्थेऽनुगताः चरुपुरोडाशाद्युपजीवनप्रयोजनेन, अन्यथापि जीवितुमुत्सहन्तः कृपणां दीनां वृत्तिमाश्रित्य स्थिताः – तच्च प्रशास्तुः प्रशासनात्स्यात्। तथा पितरोऽपि तदर्थम्, दर्वीम् दर्वीहोमम् अन्वायत्ता अनुगताः इत्यर्थः समानं सर्वमन्यत्॥
🔗  इतश्चास्ति तदक्षरम्, यस्मात् तदज्ञाने नियता संसारोपपत्तिः; भवितव्यं तु तेन, यद्विज्ञानात् तद्विच्छेदः, न्यायोपपत्तेः। ननु क्रियात एव तद्विच्छित्तिः स्यादिति चेत्, न – यो वा एतदक्षरं हे गार्गि अविदित्वा अविज्ञाय अस्मिन् लोके जुहोति यजते तपस्तप्यते यद्यपि बहूनि वर्षसहस्राणि, अन्तवदेवास्य तत् फलं भवति, तत्फलोपभोगान्ते क्षीयन्त एवास्य कर्माणि। अपि च यद्विज्ञानात्कार्पण्यात्ययः संसारविच्छेदः, यद्विज्ञानाभावाच्च कर्मकृत् कृपणः कृतफलस्यैवोपभोक्ता जननमरणप्रबन्धारूढः संसरति – तदस्ति अक्षरं प्रशासितृ; तदेतदुच्यते – यो वा एतदक्षरं गार्ग्यविदित्वास्माल्लोकात्प्रैति स कृपणः, पणक्रीत इव दासादिः। अथ य एतदक्षरं गार्गि विदित्वा अस्माल्लोकात्प्रैति स ब्राह्मणः
🔗  अग्नेर्दहनप्रकाशकत्ववत् स्वाभाविकमस्य प्रशास्तृत्वम् अचेतनस्यैवेत्यत आह –
तद्वा एतदक्षरं गार्गि अदृष्टम्, न केनचिद्दृष्टम्, अविषयत्वात् स्वयं तु द्रष्टृ दृष्टिस्वरूपत्वात्। तथा अश्रुतं श्रोत्राविषयत्वात्, स्वयं श्रोतृ श्रुतिस्वरूपत्वात्। तथा अमतं मनसोऽविषयत्वात् स्वयं मन्तृ मतिस्वरूपत्वात्। तथा अविज्ञातं बुद्धेरविषयत्वात्, स्वयं विज्ञातृ विज्ञानस्वरूपत्वात्। किञ्च नान्यत् अतः अस्मादक्षरात् अस्ति – नास्ति किञ्चिद् द्रष्टृ दर्शनक्रियाकर्तृ; एतदेवाक्षरं दर्शनक्रियाकर्तृ सर्वत्र। तथा नान्यदतोऽस्ति श्रोतृ; तदेवाक्षरं श्रोतृ सर्वत्र। नान्यदतोऽस्ति मन्तृ; तदेवाक्षरं मन्तृ सर्वत्र सर्वमनोद्वारेण। नान्यदतोऽस्ति विज्ञातृ विज्ञानक्रियाकर्तृ, तदेवाक्षरं सर्वबुद्धिद्वारेण विज्ञानक्रियाकर्तृ, नाचेतनं प्रधानम् अन्यद्वा। एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चेति। यदेव साक्षादपरोक्षाद्ब्रह्म, य आत्मा सर्वान्तरः अशनायादिसंसारधर्मातीतः, यस्मिन्नाकाश ओतश्च प्रोतश्च – एषा परा काष्ठा, एषा परा गतिः, एतत्परं ब्रह्म, एतत्पृथिव्यादेराकाशान्तस्य सत्यस्य सत्यम्॥
🔗  सा होवाच – हे ब्राह्मणाः भगवन्तः शृणुत मदीयं वचः; तदेव बहु मन्येध्वम्; किं तत्? यदस्मात् याज्ञवल्क्यात् नमस्कारेण मुच्येध्वम् – अस्मै नमस्कारं कृत्वा, तदेव बहुमन्यध्वमित्यर्थः; जयस्त्वस्य मनसापि नाशंसनीयः, किमुत कार्यतः; कस्मात्? न वै युष्माकं मध्ये जातु कदाचिदपि इमं याज्ञवल्क्यं ब्रह्मोद्यं प्रति जेता। प्रश्नौ चेन्मह्यं वक्ष्यति, न वै जेता भविता – इति पूर्वमेव मया प्रतिज्ञातम्; अद्यापि ममायमेव निश्चयः – ब्रह्मोद्यं प्रति एतत्तुल्यो न कश्चिद्विद्यत इति। ततो ह वाचक्नव्युपरराम
अत्र अन्तर्यामिब्राह्मणे एतदुक्तम् – यं पृथिवी न वेद, यं सर्वाणि भूतानि न विदुरिति च, यमन्तर्यामिणं न विदुः, ये च न विदुः, यच्च तदक्षरं दर्शनादिक्रियाकर्तृत्वेन सर्वेषां चेतनाधातुरित्युक्तम् – कस्तु एषां विशेषः, किं वा सामान्यमिति। तत्र केचिदाचक्षते – परस्य महासमुद्रस्थानीयस्य ब्रह्मणः अक्षरस्य अप्रचलितस्वरूपस्य ईषत्प्रचलितावस्था अन्तर्यामी; अत्यन्तप्रचलितावस्था क्षेत्रज्ञः, यः तं न वेद अन्तर्यामिणम्; तथा अन्याः पञ्चावस्थाः परिकल्पयन्ति; तथा अष्टावस्था ब्रह्मणो भवन्तीति वदन्ति। अन्ये अक्षरस्य शक्तय एता इति वदन्ति, अनन्तशक्तिमदक्षरमिति च। अन्ये तु अक्षरस्य विकारा इति वदन्ति। अवस्थाशक्ती तावन्नोपपद्येते, अक्षरस्य अशनायादिसंसारधर्मातीतत्वश्रुतेः; न हि अशनायाद्यतीतत्वम् अशनायादिधर्मवदवस्थावत्त्वं च एकस्य युगपदुपपद्यते; तथा शक्तिमत्त्वं च। विकारावयवत्वे च दोषाः प्रदर्शिताश्चतुर्थे। तस्मात् एता असत्याः सर्वाः कल्पनाः। कस्तर्हि भेद एषाम्? उपाधिकृत इति ब्रूमः; न स्वत एषां भेदः अभेदो वा, सैन्धवघनवत् प्रज्ञानघनैकरसस्वाभाव्यात्, ‘अपूर्वमनपरमनन्तरमबाह्यम्’ (BrhU.2.5.19) ‘अयमात्मा ब्रह्म’ (BrhU.2.5.19) इति च श्रुतेः – ‘सबाह्याभ्यन्तरो ह्यजः’ (MunU.2.1.2) इति च आथर्वणे। तस्मात् निरुपाधिकस्य आत्मनो निरूपाख्यत्वात् निर्विशेषत्वात् एकत्वाच्च ‘नेति नेति’ (BrhU.2.3.6) इति व्यपदेशो भवति; अविद्याकामकर्मविशिष्टकार्यकरणोपाधिरात्मा संसारी जीव उच्यते; नित्यनिरतिशयज्ञानशक्त्युपाधिरात्मा अन्तर्यामी ईश्वर उच्यते; स एव निरुपाधिः केवलः शुद्धः स्वेन स्वभावेन अक्षरं पर उच्यते। तथा हिरण्यगर्भाव्याकृतदेवताजातिपिण्डमनुष्यतिर्यक्प्रेतादिकार्यकरणोपाधिभिर्विशिष्टः तदाख्यः तद्रूपो भवति। तथा ‘तदेजति तन्नैजति’ (IsU.5) इति व्याख्यातम्। तथा ‘एष त आत्मा’ (BrhU.3.4.1), (BrhU.3.5.1) ‘एष सर्वभूतान्तरात्मा’ (MunU.2.1.4) ‘एष सर्वेषु भूतेषु गूढः’ (KathU.1.3.12) ‘तत्त्वमसि’ (ChanU.6.8.7) ‘अहमेवेदं सर्वम्’ (ChanU.7.25.1) ‘आत्मैवेदं सर्वम्’ ‘नान्योऽतोऽस्ति द्रष्टा’ (BrhU.3.7.23) इत्यादिश्रुतयो न विरुध्यन्ते। कल्पनान्तरेषु एताः श्रुतयो न गच्छन्ति। तस्मात् उपाधिभेदेनैव एषां भेदः, नान्यथा, ‘एकमेवाद्वितीयम्’ इत्यवधारणात्सर्वोपनिषत्सु॥

Go to Top ('Home' key on many Windows browsers)

BrhU.3.09

🔗  अथ हैनं विदग्धः शाकल्यः पप्रच्छ। पृथिव्यादीनां सूक्ष्मतारतम्यक्रमेण पूर्वस्य पूर्वस्य उत्तरस्मिन्नुत्तरस्मिन् ओतप्रोतभावं कथयन् सर्वान्तरं ब्रह्म प्रकाशितवान्; तस्य च ब्रह्मणो व्याकृतविषये सूत्रभेदेषु नियन्तृत्वमुक्तम् – व्याकृतविषये व्यक्ततरं लिङ्गमिति। तस्यैव ब्रह्मणः साक्षादपरोक्षत्वे नियन्तव्यदेवताभेदसङ्कोचविकासद्वारेणाधिगन्तव्ये इति तदर्थं शाकल्यब्राह्मणमारभ्यते –
अथ हैनं विदग्धः इति नामतः, शकलस्यापत्यं शाकल्यः, पप्रच्छ – कतिसङ्ख्याका देवाः हे याज्ञवल्क्येति याज्ञवल्क्यः, किल, एतयैव वक्ष्यमाणया निविदा प्रतिपेदे सङ्ख्याम्, यां सङ्ख्यां पृष्टवान् शाकल्यः; यावन्तः यावत्सङ्ख्याका देवाः वैश्वदेवस्य शस्त्रस्य निविदि – निविन्नाम देवतासङ्ख्यावाचकानि मन्त्रपदानि कानिचिद्वैश्वदेवे शस्त्रे शस्यन्ते, तानि निवित्सञ्ज्ञकानि; तस्यां निविदि यावन्तो देवाः श्रूयन्ते, तावन्तो देवा इति। का पुनः सा निविदिति तानि निवित्पदानि प्रदर्श्यन्ते – त्रयश्च त्री च शता त्रयश्च देवाः, देवानां त्री च त्रीणि च शतानि; पुनरप्येवं त्रयश्च, त्री च सहस्रा सहस्राणि – एतावन्तो देवा इति। शाकल्योऽपि ओमिति होवाच। एवमेषां मध्यमा सङ्ख्या सम्यक्तया ज्ञाता; पुनस्तेषामेव देवानां सङ्कोचविषयां सङ्ख्यां पृच्छति – कत्येव देवा याज्ञवल्क्येति; त्रयस्त्रिंशत्, षट्, त्रयः, द्वौ, अध्यर्धः, एकः – इति। देवतासङ्कोचविकासविषयां सङ्ख्यां पृष्ट्वा पुनः सङ्ख्येयस्वरूपं पृच्छति – कतमे ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति
🔗  स होवाच इतरः – महिमानः विभूतयः, एषां त्रयस्त्रिंशतः देवानाम्, एते त्रयश्च त्री च शतेत्यादयः; परमार्थतस्तु त्रयस्त्रिंशत्त्वेव देवाः इतिकतमे ते त्रयस्त्रिंशय् इति उच्यते – अष्टौ वसवः, एकादश रुद्राः, द्वादश आदित्याःते एकत्रिंशत्इन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिंशौ इति त्रयस्त्रिंशतः पूरणौ॥
🔗  कतमे वसव इति तेषां स्वरूपं प्रत्येकं पृच्छ्यते; अग्निश्च पृथिवी चेति – अग्न्याद्या नक्षत्रान्ता एते वसवः – प्राणिनां कर्मफलाश्रयत्वेन कार्यकरणसङ्घातरूपेण तन्निवासत्वेन च विपरिणमन्तः जगद् इदं सर्वं वासयन्ति वसन्ति च; ते यस्माद्वासयन्ति तस्माद् वसव इति
🔗  कतमे रुद्रा इतिदश इमे पुरुषे, कर्मबुद्धीन्द्रियाणि प्राणाः, आत्मा मनः एकादशः – एकादशानां पूरणः; ते एते प्राणाः यदा अस्माच्छरीरात् मर्त्यात् प्राणिनां कर्मफलोपभोगक्षये उत्क्रामन्तिअथ तदा रोदयन्ति तत्सम्बन्धिनः। तत् तत्र यस्माद् रोदयन्ति ते सम्बन्धिनः, तस्मात् रुद्रा इति
🔗  कतम आदित्या इतिद्वादश वै मासाः संवत्सरस्य कालस्य अवयवाः प्रसिद्धाः, एते आदित्याः; कथम्? एते हि यस्मात् पुनः पुनः परिवर्तमानाः प्राणिनामायूंषि कर्मफलं च आददानाः गृह्णन्त उपाददतः यन्ति गच्छन्ति – ते यत् यस्मात् एवम् इदं सर्वमाददाना यन्ति, तस्मादादित्या इति
🔗  कतम इन्द्रः कतमः प्रजापतिरिति, स्तनयित्नुरेवेन्द्रो यज्ञः प्रजापतिरिति, कतमः स्तनयित्नुरित्यशनिरिति। अशनिः वज्रं वीर्यं बलम्, यत् प्राणिनः प्रमापयति, स इन्द्रः; इन्द्रस्य हि तत् कर्म। कतमो यज्ञ इति पशव इति – यज्ञस्य हि साधनानि पशवः; यज्ञस्यारूपत्वात् पशुसाधनाश्रयत्वाच्च पशवो यज्ञ इत्युच्यते॥
🔗  कतमे षडिति। त एव अग्न्यादयो वसुत्वेन पठिताः चन्द्रमसं नक्षत्राणि च वर्जयित्वा षड्भवन्ति – षट्सङ्ख्याविशिष्टाः। एते हि यस्मात्, त्रयस्त्रिंशदादि यदुक्तम् इदं सर्वम्, एत एव षड् भवन्ति; सर्वो हि वस्वादिविस्तर एतेष्वेव षट्सु अन्तर्भवतीत्यर्थः॥
🔗  कतमे ते त्रयो देवा इति; इम एव त्रयो लोका इति – पृथिवीमग्निं च एकीकृत्य एको देवः, अन्तरिक्षं वायुं च एकीकृत्य द्वितीयः, दिवमादित्यं च एकीकृत्य तृतीयः – ते एव त्रयो देवा इति। एषु, हि यस्मात्, त्रिषु देवेषु सर्वे देवाः अन्तर्भवन्ति, तेन एत एव देवास्त्रयः – इति एष नैरुक्तानां केषाञ्चित्पक्षः। कतमौ तौ द्वौ देवावितिअन्नं चैव प्राणश्च एतौ द्वौ देवौ; अनयोः सर्वेषामुक्तानामन्तर्भावः। कतमोऽध्यर्ध इतियोऽयं पवते वायुः॥
🔗  तत् तत्र आहुः चोदयन्ति – यदयं वायुः एक इवैव एक एव पवते; अथ कथमध्यर्ध इतियत् अस्मिन् इदं सर्वमध्यार्ध्नोत् – अस्मिन्वायौ सति इदं सर्वमध्यार्ध्नोत् – अधि ऋद्धिं प्राप्नोति – तेनाध्यर्धः इति। कतम एको देव इति, प्राण इति प्राणो ब्रह्म – सर्वदेवात्मकत्वान्महद्ब्रह्म, तेन स ब्रह्म त्यदित्याचक्षते – त्यदिति तद्ब्रह्माचक्षते परोक्षाभिधायकेन शब्देन। देवानामेतत् एकत्वं नानात्वं च – अनन्तानां देवानां निवित्सङ्ख्याविशिष्टेष्वन्तर्भावः; तेषामपि त्रयस्त्रिंशदादिषूत्तरोत्तरेषु यावदेकस्मिन्प्राणे; प्राणस्यैव चैकस्य सर्वः अनन्तसङ्ख्यातो विस्तरः। एवमेकश्च अनन्तश्च अवान्तरसङ्ख्याविशिष्टश्च प्राण एव। तत्र च देवस्यैकस्य नामरूपकर्मगुणशक्तिभेदः अधिकारभेदात्॥
🔗  इदानीं तस्यैव प्राणस्य ब्रह्मणः पुनरष्टधा भेद उपदिश्यते –
पृथिव्येव यस्य देवस्य आयतनम् आश्रयः; अग्निर्लोको यस्य – लोकयत्यनेनेति लोकः, पश्यतीति – अग्निना पश्यतीत्यर्थः; मनोज्योतिः – मनसा ज्योतिषा सङ्कल्पविकल्पादिकार्यं करोति यः, सोऽयं मनोज्योतिः; पृथिवीशरीरः अग्निदर्शनः मनसा सङ्कल्पयिता पृथिव्यभिमानी कार्यकरणसङ्घातवान्देव इत्यर्थः। एवं विशिष्टं वै तं पुरुषं विद्यात् विजानीयात्, सर्वस्य आत्मनः आध्यात्मिकस्य कार्यकरणसङ्घातस्य आत्मनः परमयनम् पर आश्रयः तं परायणम् – मातृजेन त्वङ्मांसरुधिररूपेण क्षेत्रस्थानीयेन बीजस्थानीयस्य पितृजस्य अस्थिमज्जाशुक्ररूपस्य परम् अयनम्, करणात्मनश्च – स वै वेदिता स्यात्; य एतदेवं वेत्ति स वै वेदिता पण्डितः स्यादित्यभिप्रायः। याज्ञवल्क्य त्वं तमजानन्नेव पण्डिताभिमानीत्यभिप्रायः। यदि तद्विज्ञाने पाण्डित्यं लभ्यते, वेद वै अहं तं पुरुषम्सर्वस्य आत्मनः परायणं यमात्थ यं कथयसि – तमहं वेद। तत्र शाकल्यस्य वचनं द्रष्टव्यम् – यदि त्वं वेत्थ तं पुरुषम्, ब्रूहि किंविशेषणोऽसौ। शृणु, यद्विशेषणः सः – य एवायं शारीरः पार्थिवांशे शरीरे भवः शारीरः मातृजकोशत्रयरूप इत्यर्थः; स एष देवः, यस्त्वया पृष्टः, हे शाकल्य; किन्तु अस्ति तत्र वक्तव्यं विशेषणान्तरम्; तत् वदैव पृच्छैवेत्यर्थः, हे शाकल्य। स एवं प्रक्षोभितोऽमर्षवशग आह, तोत्रार्दित इव गजः – तस्य देवस्य शारीरस्य का देवता – यस्मान्निष्पद्यते, यः ‘सा तस्य देवता’ इत्यस्मिन्प्रकरणे विवक्षितः; अमृतमिति होवाच – अमृतमिति यो भुक्तस्यान्नस्य रसः मातृजस्य लोहितस्य निष्पत्तिहेतुः; तस्माद्धि अन्नरसाल्लोहितं निष्पद्यते स्त्रियां श्रितम्; ततश्च लोहितमयं शरीरं बीजाश्रयम्। समानमन्यत्॥
🔗  काम एव यस्यायतनम्। स्त्रीव्यतिकराभिलाषः कामः कामशरीर इत्यर्थः। हृदयं लोकः, हृदयेन बुद्ध्या पश्यति। य एवायं काममयः पुरुषः अध्यात्ममपि काममय एव, तस्य का देवतेतिस्त्रिय इति होवाच; स्त्रीतो हि कामस्य दीप्तिर्जायते॥
🔗  रूपाण्येव यस्यायतनम्। रूपाणि शुक्लकृष्णादीनि। य एवासावादित्ये पुरुषः – सर्वेषां हि रूपाणां विशिष्टं कार्यमादित्ये पुरुषः, तस्य का देवतेतिसत्यमिति होवाच; सत्यमिति चक्षुरुच्यते; चक्षुषो हि अध्यात्मत आदित्यस्याधिदैवतस्य निष्पत्तिः॥
🔗  आकाश एव यस्यायतनम्। य एवायं श्रोत्रे भवः श्रौत्रः, तत्रापि प्रतिश्रवणवेलायां विशेषतो भवतीति प्रातिश्रुत्कः, तस्य का देवतेतिदिश इति होवाच; दिग्भ्यो ह्यसौ आध्यात्मिको निष्पद्यते॥
🔗  तम एव यस्यायतनम्। तम इति शार्वराद्यन्धकारः परिगृह्यते; अध्यात्मं छायामयः अज्ञानमयः पुरुषः; तस्य का देवतेतिमृत्युरिति होवाच; मृत्युरधिदैवतं तस्य निष्पत्तिकारणम्॥
🔗  रूपाण्येव यस्यायतनम्। पूर्वं साधारणानि रूपाण्युक्तानि इह तु प्रकाशकानि विशिष्टानि रूपाणि गृह्यन्ते; रूपायतनस्य देवस्य विशेषायतनं प्रतिबिम्बाधारमादर्शादि; तस्य का देवतेतिअसुरिति होवाच; तस्य प्रतिबिम्बाख्यस्य पुरुषस्य निष्पत्तिः असोः प्राणात्॥
🔗  आप एव यस्य आयतनम्। साधारणाः सर्वा आप आयतनम्; वापीकूपतडागाद्याश्रयासु अप्सु विशेषावस्थानम्; तस्य का देवतेति, वरुण इति – वरुणात् सङ्घातकर्त्र्यः अध्यात्मम् आप एव वाप्याद्यपां निष्पत्तिकारणम्॥
🔗  रेत एव यस्यायतनम्; य एवायं पुत्रमयः विशेषायतनं रेतआयतनस्य – पुत्रमय इति च अस्थिमज्जाशुक्राणि पितुर्जातानि; तस्य का देवतेति, प्रजापतिरिति होवाच – प्रजापतिः पितोच्यते, पितृतो हि पुत्रस्योत्पत्तिः॥
🔗  अष्टधा देवलोकपुरुषभेदेन त्रिधा त्रिधा आत्मानं प्रविभज्य अवस्थित एकैको देवः प्राणभेद एव उपासनार्थं व्यपदिष्टः; अधुना दिग्विभागेन पञ्चधा प्रविभक्तस्य आत्मन्युपसंहारार्थम् आह; तूष्णीम्भूतं शाकल्यं याज्ञवल्क्यो ग्रहेणेव आवेशयन्नाह – शाकल्येति होवाच याज्ञवल्क्यः; त्वां स्विद् इति वितर्के, इमे नूनं ब्राह्मणाः, अङ्गारावक्षयणम् – अङ्गाराः अवक्षीयन्ते यस्मिन् सन्दंशादौ तत् अङ्गारावक्षयणम् – तत् नूनं त्वाम् अक्रत कृतवन्तः ब्राह्मणाः, त्वं तु तन्न बुध्यसे आत्मानं मया दह्यमानमित्यभिप्रायः॥
🔗  याज्ञवल्क्येति होवाच शाकल्यःयदिदं कुरुपञ्चालानां ब्राह्मणान् अत्यवादीः अत्युक्तवानसि – स्वयं भीतास्त्वामङ्गारावक्षयणं कृतवन्त इति – किं ब्रह्म विद्वान् सन् एवमधिक्षिपसि ब्राह्मणान्। याज्ञवल्क्य आह – ब्रह्मविज्ञानं तावदिदं मम; किं तत्? दिशो वेद दिग्विषयं विज्ञानं जाने; तच्च न केवलं दिश एव, सदेवाः देवैः सह दिगधिष्ठातृभिः, किञ्च सप्रतिष्ठाः प्रतिष्ठाभिश्च सह। इतर आह – यत् यदि दिशो वेत्थ सदेवाः सप्रतिष्टाः इति, सफलं यदि विज्ञानं त्वया प्रतिज्ञातम्॥
🔗  किन्देवतः का देवता अस्य तव दिग्भूतस्य। असौ हि याज्ञवल्क्यः हृदयमात्मानं दिक्षु पञ्चधा विभक्तं दिगात्मभूतम्, तद्द्वारेण सर्वं जगत् आत्मत्वेनोपगम्य, अहमस्मि दिगात्मेति व्यवस्थितः, पूर्वाभिमुखः – सप्रतिष्ठावचनात्; यथा याज्ञवल्क्यस्य प्रतिज्ञा तथैव पृच्छति – किन्देवतस्त्वम् अस्यां दिश्यसीति। सर्वत्र हि वेदे यां यां देवतामुपास्ते इहैव तद्भूतः तां तां प्रतिपद्यत इति; तथा च वक्ष्यति – ‘देवो भूत्वा देवानप्येति’ (BrhU.4.1.2) इति। अस्यां प्राच्यां का देवता दिगात्मनस्तव अधिष्ठात्री, कया देवतया त्वं प्राचीदिग्रूपेण सम्पन्न इत्यर्थः। इतर आह – आदित्यदेवतः इति; प्राच्यां दिशि मम आदित्यो देवता, सोऽहमादित्यदेवतः। सदेवा इत्येतत् उक्तम्, सप्रतिष्ठा इति तु वक्तव्यमित्याह – स आदित्यः कस्मिन् प्रतिष्ठितः इति, चक्षुषीति; अध्यात्मतश्चक्षुष आदित्यो निष्पन्न इति हि मन्त्रब्राह्मणवादाः – ‘चक्षोः सूर्यो अजायत’ (ऋ. सं. १०-९०-१३) ‘चक्षुष आदित्यः’ (AitU.1.1.4) इत्यादयः; कार्यं हि कारणे प्रतिष्ठितं भवति। कस्मिन्नु चक्षुः प्रतिष्ठितमिति, रूपेष्विति; रूपग्रहणाय हि रूपात्मकं चक्षुः रूपेण प्रयुक्तम्; यैर्हि रूपैः प्रयुक्तं तैरात्मग्रहणाय आरब्धं चक्षुः; तस्मात् सादित्यं चक्षुः सह प्राच्या दिशा सह तत्स्थैः सर्वैः रूपेषु प्रतिष्ठितम्। चक्षुषा सह प्राची दिक्सर्वा रूपभूता; तानि च कस्मिन्नु रूपाणि प्रतिष्ठितानीति; हृदय इति होवाच; हृदयारब्धानि रूपाणि; रूपाकारेण हि हृदयं परिणतम्; यस्मात् हृदयेन हि रूपाणि सर्वो लोको जानाति; हृदयमिति बुद्धिमनसी एकीकृत्य निर्देशः; तस्मात् हृदये ह्येव रूपाणि प्रतिष्ठितानि; हृदयेन हि स्मरणं भवति रूपाणां वासनात्मनाम्; तस्मात् हृदये रूपाणि प्रतिष्ठितानीत्यर्थः। एवमेवैतद्याज्ञवल्क्य
🔗  किन्देवतोऽस्यां दक्षिणायां दिश्यसीति पूर्ववत् – दक्षिणायां दिशि का देवता तव। यमदेवत इति – यमो देवता मम दक्षिणादिग्भूतस्य। स यमः कस्मिन्प्रतिष्ठित इति, यज्ञ इति – यज्ञे कारणे प्रतिष्ठितो यमः सह दिशा। कथं पुनर्यज्ञस्य कार्यं यम इत्युच्यते – ऋत्विग्भिर्निष्पादितो यज्ञः; दक्षिणया यजमानस्तेभ्यो यज्ञं निष्क्रीय तेन यज्ञेन दक्षिणां दिशं सह यमेनाभिजायति; तेन यज्ञे यमः कार्यत्वात्प्रतिष्ठितः सह दक्षिणया दिशा। कस्मिन्नु यज्ञः प्रतिष्ठित इति, दक्षिणायामिति – दक्षिणया स निष्क्रीयते; तेन दक्षिणाकार्यं यज्ञः। कस्मिन्नु दक्षिणा प्रतिष्ठितेति, श्रद्धायामिति – श्रद्धा नाम दित्सुत्वम् आस्तिक्यबुद्धिर्भक्तिसहिता। कथं तस्यां प्रतिष्ठिता दक्षिणा? यस्मात् यदा ह्येव श्रद्धत्ते अथ दक्षिणां ददाति, न अश्रद्दधत् दक्षिणां ददाति; तस्मात् श्रद्धायां ह्येव दक्षिणा प्रतिष्ठितेतिकस्मिन्नु श्रद्धा प्रतिष्ठितेति, हृदय इति होवाच – हृदयस्य हि वृत्तिः श्रद्धा यस्मात्, हृदयेन हि श्रद्धां जानाति; वृत्तिश्च वृत्तिमति प्रतिष्ठिता भवति; तस्माद् हृदये ह्येव श्रद्धा प्रतिष्ठिता भवतीतिएवमेवैतद्याज्ञवल्क्य
🔗  किं देवतोऽस्यां प्रतीच्यां दिश्यसीति। तस्यां वरुणोऽधि-देवता मम। स वरुणः कस्मिन् प्रतिष्ठित इति, अप्स्विति – अपां हि वरुणः कार्यम्, ‘श्रद्धा वा आपः’ (तै. सं. १-६-८-१) ‘श्रद्धातो वरुणमसृजत’ (? ) इति श्रुतेः। कस्मिन्न्वापः प्रतिष्ठिता इति, रेतसीति – ‘रेतसो ह्यापः सृष्टाः’ (? ) इति श्रुतेः। कस्मिन्नु रेतः प्रतिष्ठितमिति, हृदय इति – यस्मात् हृदयस्य कार्यं रेतः; कामो हृदयस्य वृत्तिः; कामिनो हि हृदयात् रेतोऽधिस्कन्दति; तस्मादपि प्रतिरूपम् अनुरूपं पुत्रं जातम् आहुः लौकिकाः – अस्य पितुः हृदयाद् इव अयं पुत्रः सृप्तः विनिःसृतः, हृदयाद् इव निर्मितो यथा सुवर्णेन निर्मितः कुण्डलः। तस्मात् हृदये ह्येव रेतः प्रतिष्ठितं भवतीतिएवमेवैतद्याज्ञवल्क्य
🔗  किन्देवतोऽस्यामुदीच्यां दिश्यसीति, सोमदेवत इति – सोम इति लतां सोमं देवतां चैकीकृत्य निर्देशः। स सोमः कस्मिन्प्रतिष्ठित इति, दीक्षायामिति – दीक्षितो हि यजमानः सोमं क्रीणाति; क्रीतेन सोमेन इष्ट्वा ज्ञानवानुत्तरां दिशं प्रतिपद्यते सोमदेवताधिष्ठितां सौम्याम्। कस्मिन्नु दीक्षा प्रतिष्ठितेति, सत्य इति – कथम्? यस्मात्सत्ये दीक्षा प्रतिष्ठिता, तस्मादपि दीक्षितमाहुःसत्यं वदेति – कारणभ्रेषे कार्यभ्रेषो मा भूदिति। सत्ये ह्येव दीक्षा प्रतिष्ठितेति। कस्मिन्नु सत्यं प्रतिष्ठितमिति; हृदय इति होवाच; हृदयेन हि सत्यं जानाति; तस्मात् हृदये ह्येव सत्यं प्रतिष्ठितं भवतीतिएवमेवैतद्याज्ञवल्क्य
🔗  किन्देवतोऽस्यां ध्रुवायां दिश्यसीति। मेरोः समन्ततो वसतामव्यभिचारात् ऊर्ध्वा दिक् ध्रुवेत्युच्यते। अग्निदेवत इति – ऊर्ध्वायां हि प्रकाशभूयस्त्वम्, प्रकाशश्च अग्निः सोऽग्निः कस्मिन्प्रतिष्ठित इति, वाचीतिकस्मिन्नु वाक्प्रतिष्ठितेति, हृदये इति। तत्र याज्ञवल्क्यः सर्वासु दिक्षु विप्रसृतेन हृदयेन सर्वा दिश आत्मत्वेनाभिसम्पन्नः; सदेवाः सप्रतिष्ठा दिश आत्मभूतास्तस्य नामरूपकर्मात्मभूतस्य याज्ञवल्क्यस्य; यत् रूपं तत् प्राच्यादिशा सह हृदयभूतं याज्ञवल्क्यस्य; यत्केवलं कर्म पुत्रोत्पादनलक्षणं च ज्ञानसहितं च सह फलेन अधिष्ठात्रीभिश्च देवताभिः दक्षिणाप्रतीच्युदीच्यः कर्मफलात्मिकाः हृदयमेव आपन्नास्तस्य; ध्रुवया दिशा सह नाम सर्वं वाग्द्वारेण हृदयमेव आपन्नम्; एतावद्धीदं सर्वम्; यदुत रूपं वा कर्म वा नाम वेति तत्सर्वं हृदयमेव; तत् सर्वात्मकं हृदयं पृच्छ्यते – कस्मिन्नु हृदयं प्रतिष्ठितमिति
🔗  अहल्लिकेति होवाच याज्ञवल्क्यः – नामान्तरेण सम्बोधनं कृतवान्। यत्र यस्मिन्काले, एतत् हृदयं आत्मा अस्य शरीरस्य अन्यत्र क्वचिद्देशान्तरे, अस्मत् अस्मत्तः, वर्तत इति मन्यासै मन्यसे – यद्धि यदि हि एतद् हृदयम् अन्यत्रास्मत् स्यात् भवेत्, श्वानो वा एनत् शरीरम् तदा अद्युः, वयांसि वा पक्षिणो वा एनत् विमथ्नीरन् विलोडयेयुः विकर्षेरन्निति। तस्मात् मयि शरीरे हृदयं प्रतिष्ठितमित्यर्थः। शरीरस्यापि नामरूपकर्मात्मकत्वाद्धृदये प्रतिष्ठितत्वम्॥
🔗  हृदयशरीरयोरेवमन्योन्यप्रतिष्ठा उक्ता कार्यकरणयोः; अतस्त्वां पृच्छामि – कस्मिन्नु त्वं च शरीरम् आत्मा च तव हृदयं प्रतिष्ठितौ स्थ इति; प्राण इति; देहात्मानौ प्राणे प्रतिष्ठितौ स्यातां प्राणवृत्तौ। कस्मिन्नु प्राणः प्रतिष्ठित इति, अपाने इति – सापि प्राणवृत्तिः प्रागेव प्रेयात्, अपानवृत्त्या चेन्न निगृह्येत। कस्मिन्न्वपानः प्रतिष्ठित इति, व्याने इति – साप्यपानवृत्तिः अध एव यायात् प्राणवृत्तिश्च प्रागेव, मध्यस्थया चेत् व्यानवृत्त्या न निगृह्येत। कस्मिन्नु व्यानः प्रतिष्ठित इति, उदाने इति – सर्वास्तिस्रोऽपि वृत्तय उदाने कीलस्थानीये चेन्न निबद्धाः, विष्वगेवेयुः। कस्मिन्नूदानः प्रतिष्ठित इति, समाने इति – समानप्रतिष्ठा ह्येताः सर्वा वृत्तयः। एतदुक्तं भवति – शरीरहृदयवायवोऽन्योन्यप्रतिष्ठाः। सङ्घातेन नियता वर्तन्ते विज्ञानमयार्थप्रयुक्ता इति। सर्वमेतत् येन नियतम् यस्मिन्प्रतिष्ठितम् आकाशान्तम् ओतं च प्रोतं च, तस्य निरुपाधिकस्य साक्षादपरोक्षाद्ब्रह्मणो निर्देशः कर्तव्य इत्ययमारम्भः। स एषः – स यो नेति नेति (BrhU.2.3.6) इति निर्दिष्टो मधुकाण्डे एष सः, सोऽयम् आत्मा अगृह्यः न गृह्यः; कथम्? यस्मात्सर्वकार्यधर्मातीतः, तस्मादगृह्यः; कुतः? यस्मात् न हि गृह्यते; यद्धि करणगोचरं व्याकृतं वस्तु, तद्ग्रहणगोचरम्; इदं तु तद्विपरीतमात्मतत्त्वम्। तथा अशीर्यः – यद्धि मूर्तं संहतं शरीरादि तच्छीर्यते; अयं तु तद्विपरीतः; अतो न हि शीर्यते। तथा असङ्गः – मूर्तो मूर्तान्तरेण सम्बध्यमानः सज्यते; अयं च तद्विपरीतः; अतो न हि सज्यते। तथा असितः अबद्धः – यद्धि मूर्तं तत् बध्यते; अयं तु तद्विपरीतत्वात् असितः; अबद्धत्वाद् न व्यथते; अतो न रिष्यति – ग्रहणविशरणसङ्गबन्धकार्यधर्मरहितत्वान्न रिष्यति न हिंसामापद्यते न विनश्यतीत्यर्थः। क्रममतिक्रम्य औपनिषदस्य पुरुषस्य आख्यायिकातोऽपसृत्य श्रुत्या स्वेन रूपेण त्वरया निर्देशः कृतः; ततः पुनः आख्यायिकामेवाश्रित्याह – एतानि यान्युक्तानि अष्टावायतनानि ‘पृथिव्येव यस्यायतनम्’ इत्येवमादीनि, अष्टौ लोकाः अग्निलोकादयः, अष्टौ देवाः ‘अमृतमिति होवाच’ (BrhU.3.9.10) इत्येवमादयः, अष्टौ पुरुषाः ‘शरीरः पुरुषः’ इत्यादयः – स यः कश्चित् तान्पुरुषान् शारीरप्रभृतीन् निरुह्य निश्चयेनोह्य गमयित्वा अष्टचतुष्कभेदेन लोकस्थितिमुपपाद्य, पुनः प्राचीदिगादिद्वारेण प्रत्युह्य उपसंहृत्य स्वात्मनि हृदये अत्यक्रामत् अतिक्रान्तवानुपाधिधर्मं हृदयाद्यात्मत्वम्; स्वेनैवात्मना व्यवस्थितो य औपनिषदः पुरुषः अशनायादिवर्जित उपनिषत्स्वेव विज्ञेयः नान्यप्रमाणगम्यः, तं त्वा त्वां विद्याभिमानिनं पुरुषं पृच्छामितं चेत् यदि मे न विवक्ष्यसि विस्पष्टं न कथयिष्यसि, मूर्धा ते विपतिष्यति इति आह याज्ञवल्क्यः। तं त्वौपनिषदं पुरुषं शाकल्यो न मेने ह न विज्ञातवान्किल। तस्य ह मूर्धा विपपात विपतितः। समाप्ता आख्यायिका। श्रुतेर्वचनम्, ‘तं ह न मेने’ इत्यादि। किञ्च अपि ह अस्य परिमोषिणः तस्कराः अस्थीनि अपि संस्कारार्थं शिष्यैर्नीयमानानि गृहान् प्रति अपजह्रुः अपहृतवन्तः – किं निमित्तम् – अन्यत् धनं नीयमानं मन्यमानाः। पूर्ववृत्ता ह्याख्यायिकेह सूचिता। अष्टाध्याय्यां किल शाकल्येन याज्ञवल्क्यस्य समानान्त एव संवादो निर्वृत्तः; तत्र याज्ञवल्क्येन शापो दत्तः – ‘पुरेऽतिथ्ये मरिष्यसि न तेऽस्थीनिचन गृहान्प्राप्स्यन्ति’ (शत. ब्रा. ११-६-३-११) इति ‘स ह तथैव ममार; तस्य हाप्यन्यन्मन्यमानाः परिमोषिणोऽस्थीन्यपजह्रुः; तस्मान्नोपवादी स्यादुत ह्येवंवित्परो भवतीति’ (शत. ब्रा. ११-६-३-११)। सैषा आख्यायिका आचारार्थं सूचिता विद्यास्तुतये च इह॥
🔗  यस्य नेति नेतीत्यन्यप्रतिषेधद्वारेण ब्रह्मणो निर्देशः कृतः तस्य विधिमुखेन कथं निर्देशः कर्तव्य इति पुनराख्यायिकामेवाश्रित्याह मूलं च जगतो वक्तव्यमिति। आख्यायिकासम्बन्धस्त्वब्रह्मविदो ब्राह्मणाञ्जित्वा गोधनं हर्तव्यमिति। न्यायं मत्वाह –
अथ होवाच। अथ अनन्तरं तूष्णीम्भूतेषु ब्राह्मणेषु ह उवाच, हे ब्राह्मणा भगवन्तः इत्येवं सम्बोध्य – यो वः युष्माकं मध्ये कामयते इच्छति – याज्ञवल्क्यं पृच्छामीति, स मा माम् आगत्य पृच्छतु; सर्वे वा मा पृच्छत – सर्वे वा यूयं मा मां पृच्छत; यो वः कामयते – याज्ञवल्क्यो मां पृच्छत्विति, तं वः पृच्छामि; सर्वान् वा वः युष्मान् अहं पृच्छामिते ह ब्राह्मणा न दधृषुः – ते ब्राह्मणा एवमुक्ता अपि न प्रगल्भाः संवृत्ताः किञ्चिदपि प्रत्युत्तरं वक्तुम्॥
🔗  तेष्वप्रगल्भभूतेषु ब्राह्मणेषु तान् ह एतैः वक्ष्यमाणैः श्लोकैः पप्रच्छ पृष्टवान्। यथा लोके वृक्षो वनस्पतिः, वृक्षस्य विशेषणं वनस्पतिरिति, तथैव पुरुषोऽमृषा – अमृषा सत्यमेतत्; तस्य लोमानि – तस्य पुरुषस्य लोमानि इतरस्य वनस्पतेः पर्णानि; त्वगस्योत्पाटिका बहिः – त्वक् अस्य पुरुषस्य इतरस्य उत्पाटिका वनस्पतेः॥१॥
त्वच एव सकाशात् अस्य पुरुषस्य रुधिरं प्रस्यन्दि, वनस्पतेः त्वचः उत्पटः – त्वच एव उत्स्फुटति यस्मात्; एवं सर्वं समानमेव वनस्पतेः पुरुषस्य च; तस्मात् आतृण्णात् हिंसितात् प्रैति तत् रुधिरं निर्गच्छति, वृक्षादिव आहतात् छिन्नात् रसः॥२॥
एवं मांसानि अस्य पुरुषस्य, वनस्पतेः तानि शकराणि शकलानीत्यर्थः। किनाटम्, वृक्षस्य किनाटं नाम शकलेभ्योऽभ्यन्तरं वल्कलरूपं काष्ठसँलग्नम्, तत् स्नाव पुरुषस्य; तत् स्थिरम् – तच्च किनाटं स्नाववत् दृढं हि तत्; अस्थीनि पुरुषस्य, स्नाव्नोऽन्तरतः अस्थीनि भवन्ति; तथा किनाटस्याभ्यन्तरतो दारूणि काष्ठानि; मज्जा, मज्जा इव वनस्पतेः पुरुषस्य च मज्जोपमा कृता, मज्जाया उपमा मज्जोपमा, नान्यो विशेषोऽस्तीत्यर्थः; यथा वनस्पतेर्मज्जा तथा पुरुषस्य, यथा पुरुषस्य तथा वनस्पतेः॥३॥
यत् यदि वृक्षो वृक्णः छिन्नः रोहति पुनः पुनः प्ररोहति प्रादुर्भवति मूलात् पुनर्नवतरः पूर्वस्मादभिनवतरः; यदेतस्माद्विशेषणात्प्राक् वनस्पतेः पुरुषस्य च, सर्वं सामान्यमवगतम्; अयं तु वनस्पतौ विशेषो दृश्यते – यत् छिन्नस्य प्ररोहणम्; न तु पुरुषे मृत्युना वृक्णे पुनः प्ररोहणं दृश्यते; भवितव्यं च कुतश्चित्प्ररोहणेन; तस्मात् वः पृच्छामि – मर्त्यः मनुष्यः स्वित् मृत्युना वृक्णः कस्मात् मूलात् प्ररोहति, मृतस्य पुरुषस्य कुतः प्ररोहणमित्यर्थः॥४॥
यदि चेदेवं वदथ – रेतसः प्ररोहति इति, मा वोचत मैवं वक्तुमर्हथ; कस्मात्? यस्मात् जीवतः पुरुषात् तत् रेतः प्रजायते, न मृतात्। अपि च धानारुहः धाना बीजम्, बीजरुहोऽपि वृक्षो भवति, न केवलं काण्डरुह एव; इव-शब्दोऽनर्थकः; वै वृक्षः अञ्जसा साक्षात् प्रेत्य मृत्वा सम्भवः धानातोऽपि प्रेत्य सम्भवो भवेत् अञ्जसा पुनर्वनस्पतेः॥५॥
यत् यदि सह मूलेन धानया वा आवृहेयुः उद्यच्छेयुः उत्पाटयेयुः वृक्षम्, न पुनराभवेत् पुनरागत्य न भवेत्। तस्माद्वः पृच्छामि – सर्वस्यैव जगतो मूलं मर्त्यः स्वित् मृत्युना वृक्णः कस्मात् मूलात् प्ररोहति॥६॥
जात एव इति, मन्यध्वं यदि, किमत्र प्रष्टव्यमिति – जनिष्यमाणस्य हि सम्भवः प्रष्टव्यः, न जातस्य; अयं तु जात एव अतोऽस्मिन्विषये प्रश्न एव नोपपद्यत इति चेत् – न; किं तर्हि? मृतः पुनरपि जायत एव अन्यथा अकृताभ्यागमकृतनाशप्रसङ्गात्; अतो वः पृच्छामि – को न्वेनं मृतं पुनर्जनयेत्। तत् न विजज्ञुर्ब्राह्मणाः – यतो मृतः पुनः प्ररोहति जगतो मूलं न विज्ञातं ब्राह्मणैः; अतो ब्रह्मिष्ठत्वात् हृता गावः; याज्ञवल्क्येन जिता ब्राह्मणाः। समाप्ता आख्यायिका। यज्जगतो मूलम्, येन च शब्देन साक्षाद्व्यपदिश्यते ब्रह्म, यत् याज्ञवल्क्यो ब्राह्मणान्पृष्टवान्, तत् स्वेन रूपेण श्रुतिरस्मभ्यमाह – विज्ञानं विज्ञप्तिः विज्ञानम्, तच्च आनन्दम्, न विषयविज्ञानवद्दुःखानुविद्धम्, किं तर्हि प्रसन्नं शिवमतुलमनायासं नित्यतृप्तमेकरसमित्यर्थः। किं तत् ब्रह्म उभयविशेषणवद् रातिः रातेः षष्ठ्यर्थे प्रथमा, धनस्येत्यर्थः; धनस्य दातुः कर्मकृतो यजमानस्य परायणं परा गतिः कर्मफलस्य प्रदातृ। किञ्च व्युत्थायैषणाभ्यः तस्मिन्नेव ब्रह्मणि तिष्ठति अकर्मकृत्, तत् ब्रह्म वेत्तीति तद्विच्च, तस्य – तिष्ठमानस्यतद्विदः, ब्रह्मविद इत्यर्थः, परायणमिति॥७॥
अत्रेदं विचार्यते – आनन्दशब्दो लोके सुखवाची प्रसिद्धः; अत्र च ब्रह्मणो विशेषणत्वेन आनन्दशब्दः श्रूयते आनन्दं ब्रह्मेति; श्रुत्यन्तरे च – ‘आनन्दो ब्रह्मेति व्यजानात्’ (TaitU.3.6.9) ‘आनन्दं ब्रह्मणो विद्वान्’ (TaitU.2.9.1) ‘यदेष आकाश आनन्दो न स्यात्’ (TaitU.2.7.1) ‘यो वै भूमा तत्सुखम्’ (ChanU.7.23.1) इति च; ‘एष परम आनन्दः’ इत्येवमाद्याः; संवेद्ये च सुखे आनन्दशब्दः प्रसिद्धः; ब्रह्मानन्दश्च यदि संवेद्यः स्यात्, युक्ता एते ब्रह्मणि आनन्दशब्दाः। ननु च श्रुतिप्रामाण्यात् संवेद्यानन्दस्वरूपमेव ब्रह्म, किं तत्र विचार्यमिति – न, विरुद्धश्रुतिवाक्यदर्शनात् – सत्यम्, आनन्दशब्दो ब्रह्मणि श्रूयते; विज्ञानप्रतिषेधश्च एकत्वे – ‘यत्र त्वस्य सर्वमात्मैवाभूत्, तत्केन कं पश्येत्, तत्केन किं विजानीयात्’ (BrhU.4.5.15) ‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा’ (ChanU.7.24.1) ‘प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद’ (BrhU.4.3.21) इत्यादि; विरुद्धश्रुतिवाक्यदर्शनात् तेन कर्तव्यो विचारः। तस्मात् युक्तं वेदवाक्यार्थनिर्णयाय विचारयितुम्। मोक्षवादिविप्रतिपत्तेश्च – सांख्या वैशेषिकाश्च मोक्षवादिनो नास्ति मोक्षे सुखं संवेद्यमित्येवं विप्रतिपन्नाः; अन्ये निरतिशयं सुखं स्वसंवेद्यमिति।
किं तावद्युक्तम्? आनन्दादिश्रवणात् ‘जक्षत्क्रीडन्रममाणः’ (ChanU.8.12.3) ‘स यदि पितृलोककामो भवति’ (ChanU.8.2.1) ‘यः सर्वज्ञः सर्ववित्’ (MunU.1.1.9) ‘सर्वान्कामान्समश्नुते’ (TaitU.2.5.1) इत्यादिश्रुतिभ्यः मोक्षे सुखं संवेद्यमिति। ननु एकत्वे कारकविभागाभावात् विज्ञानानुपपत्तिः, क्रियायाश्चानेककारकसाध्यत्वात् विज्ञानस्य च क्रियात्वात् – नैष दोषः; शब्दप्रामाण्यात् भवेत् विज्ञानमानन्दविषये; ‘विज्ञानमानन्दम्’ इत्यादीनि आनन्दस्वरूपस्यासंवेद्यत्वेऽनुपपन्नानि वचनानीत्यवोचाम। ननु वचनेनापि अग्नेः शैत्यम् उदकस्य च औष्ण्यं न क्रियत एव, ज्ञापकत्वाद्वचनानाम्; न च देशान्तरेऽग्निः शीत इति शक्यते ज्ञापयितुम्; अगम्ये वा देशान्तरे उष्णमुदकमिति – न, प्रत्यगात्मन्यानन्दविज्ञानदर्शनात्; न ‘विज्ञानमानन्दम्’ इत्येवमादीनां वचनानां शीतोऽग्निरित्यादिवाक्यवत् प्रत्यक्षादिविरुद्धार्थप्रतिपादकत्वम्। अनुभूयते तु अविरुद्धार्थता; सुखी अहम् इति सुखात्मकमात्मानं स्वयमेव वेदयते; तस्मात् सुतरां प्रत्यक्षाविरुद्धार्थता; तस्मात् आनन्दं ब्रह्म विज्ञानात्मकं सत् स्वयमेव वेदयते। तथा आनन्दप्रतिपादिकाः श्रुतयः समञ्जसाः स्युः ‘जक्षत्क्रीडन्रममाणः’ इत्येवमाद्याः पूर्वोक्ताः।
न, कार्यकरणाभावे अनुपपत्तेर्विज्ञानस्य – शरीरवियोगो हि मोक्ष आत्यन्तिकः; शरीराभावे च करणानुपपत्तिः, आश्रयाभावात्; ततश्च विज्ञानानुपपत्तिः अकार्यकरणत्वात्; देहाद्यभावे च विज्ञानोत्पत्तौ सर्वेषां कार्यकरणोपादानानर्थक्यप्रसङ्गः। एकत्वविरोधाच्च – परं चेद्ब्रह्म आनन्दात्मकम् आत्मानं नित्यविज्ञानत्वात् नित्यमेव विजानीयात्, तन्न; संसार्यपि संसारविनिर्मुक्तः स्वाभाव्यं प्रतिपद्येत; जलाशय इवोदकाञ्जलिः क्षिप्तः न पृथक्त्वेन व्यवतिष्ठते आनन्दात्मकब्रह्मविज्ञानाय; तदा मुक्त आनन्दात्मकमात्मानं वेदयत इत्येतदनर्थकं वाक्यम्। अथ ब्रह्मानन्दम् अन्यः सन् मुक्तो वेदयते, प्रत्यगात्मानं च, अहमस्म्यानन्दस्वरूप इति; तदा एकत्वविरोधः; तथा च सति सर्वश्रुतिविरोधः। तृतीया च कल्पना नोपपद्यते। किञ्चान्यत्, ब्रह्मणश्च निरन्तरात्मानन्दविज्ञाने विज्ञानाविज्ञानकल्पनानर्थक्यम्; निरन्तरं चेत् आत्मानन्दविषयं ब्रह्मणो विज्ञानम्, तदेव तस्य स्वभाव इति आत्मानन्दं विजानातीति कल्पना अनुपपन्ना; अतद्विज्ञानप्रसङ्गे हि कल्पनाया अर्थवत्त्वम्, यथा आत्मानं परं च वेत्तीति; न हि इष्वाद्यासक्तमनसो नैरन्तर्येण इषुज्ञानाज्ञानकल्पनाया अर्थवत्त्वम्। अथ विच्छिन्नमात्मानन्दं विजानाति – विज्ञानस्य आत्मविज्ञानच्छिद्रे अन्यविषयत्वप्रसङ्गः; आत्मनश्च विक्रियावत्त्वम्, ततश्चानित्यत्वप्रसङ्गः। तस्मात् ‘विज्ञानमानन्दम्’ इति स्वरूपान्वाख्यानपरैव श्रुतिः, नात्मानन्दसंवेद्यत्वार्था। ‘जक्षत्क्रीडन्’ (ChanU.8.12.3) इत्यादिश्रुतिविरोधोऽसंवेद्यत्व इति चेन्न, सर्वात्मैकत्वे यथाप्राप्तानुवादित्वात् – मुक्तस्य सर्वात्मभावे सति यत्र क्वचित् योगिषु देवेषु वा जक्षणादि प्राप्तम्; तत् यथाप्राप्तमेवानूद्यते – तत् तस्यैव सर्वात्मभावादिति सर्वात्मभावमोक्षस्तुतये। यथाप्राप्तानुवादित्वे दुःखित्वमपीति चेत् – योग्यादिषु यथाप्राप्तजक्षणादिवत् स्थावरादिषु यथाप्राप्तदुःखित्वमपीति चेत् – न, नामरूपकृतकार्यकरणोपाधिसम्पर्कजनितभ्रान्त्यध्यारोपितत्वात् सुखित्वदुःखित्वादिविशेषस्येति परिहृतमेतत्सर्वम्। विरुद्धश्रुतीनां च विषयमवोचाम। तस्मात् ‘एषोऽस्य परम आनन्दः’ (BrhU.4.3.32) इतिवत् सर्वाण्यानन्दवाक्यानि द्रष्टव्यानि॥

Go to Top ('Home' key on many Windows browsers)

br.4.01 br.4.02 br.4.03 br.4.04 br.4.05 br.4.06

🔗  जनको ह वैदेह आसाञ्चक्रे। अस्य सम्बन्धः – शारीराद्यानष्टौ पुरुषान्निरुह्य, प्रत्युह्य पुनर्हृदये, दिग्भेदेन च पुनः पञ्चधा व्यूह्य, हृदये प्रत्युह्य, हृदयं शरीरं च पुनरन्योन्यप्रतिष्ठं प्राणादिपञ्चवृत्त्यात्मके समानाख्ये जगदात्मनि सूत्र उपसंहृत्य, जगदात्मानं शरीरहृदयसूत्रावस्थमतिक्रान्तवान् य औपनिषदः पुरुषः नेति नेतीति व्यपदिष्टः, स साक्षाच्च उपादानकारणस्वरूपेण च निर्दिष्टः ‘विज्ञानमानन्दम्’ इति। तस्यैव वागादिदेवताद्वारेण पुनरधिगमः कर्तव्य इति अधिगमनोपायान्तरार्थोऽयमारम्भो ब्राह्मणद्वयस्य। आख्यायिका तु आचारप्रदर्शनार्था॥

Go to Top ('Home' key on many Windows browsers)

BrhU.4.01

🔗  जनको ह वैदेह आसाञ्चक्रे आसनं कृतवान् आस्थायिकां दत्तवानित्यर्थः, दर्शनकामेभ्यो राज्ञः। अथ ह तस्मिन्नवसरे याज्ञवल्क्यः आवव्राज आगतवान् आत्मनो योगक्षेमार्थम्, राज्ञो वा विविदिषां दृष्ट्वा अनुग्रहार्थम्। तम् आगतं याज्ञवल्क्यं यथावत्पूजां कृत्वा उवाच ह उक्तवान् जनकः – हे याज्ञवल्क्य किमर्थम् अचारीः आगतोऽसि; किं पशूनिच्छन् पुनरपि आहोस्वित् अण्वन्तान् सूक्ष्मान्तान् सूक्ष्मवस्तुनिर्णयान्तान् प्रश्नान् मत्तः श्रोतुमिच्छन्निति। उभयमेव पशून्प्रश्नांश्च, हे सम्राट् – सम्राडिति वाजपेययाजिनो लिङ्गम्; यश्चाज्ञया राज्यं प्रशास्ति, स सम्राट्; तस्यामन्त्रणं हे सम्राडिति; समस्तस्य वा भारतस्य वर्षस्य राजा॥
🔗  किं तु यत् ते तुभ्यम्, कश्चित् अब्रवीत् आचार्यः; अनेकाचार्यसेवी हि भवान्; तच्छृणवामेति। इतर आह – अब्रवीत् उक्तवान् मे मम आचार्यः, जित्वा नामतः, शिलिनस्यापत्यं शैलिनिःवाग्वै ब्रह्मेति वाग्देवता ब्रह्मेति। आहेतरः – यथा मातृमान् माता यस्य विद्यते पुत्रस्य सम्यगनुशास्त्री अनुशासनकर्त्री स मातृमान्; अत ऊर्ध्वं पिता यस्यानुशास्ता स पितृमान्; उपनयनादूर्ध्वम् आ समावर्तनात् आचार्यो यस्यानुशास्ता स आचार्यवान्; एवं शुद्धित्रयहेतुसंयुक्तः स साक्षादाचार्यः स्वयं न कदाचिदपि प्रामाण्याद्व्यभिचरति; स यथा ब्रूयात् शिष्याय तथा असौ जित्वा शैलिनिः उक्तवान् – वाग्वै ब्रह्मेति; अवदतो हि किं स्यादिति – न हि मूकस्य इहार्थम् अमुत्रार्थं वा किञ्चन स्यात्। किं तु अब्रवीत् उक्तवान् ते तुभ्यम् तस्य ब्रह्मणः आयतनं प्रतिष्ठां च – आयतनं नाम शरीरम्; प्रतिष्ठा त्रिष्वपि कालेषु य आश्रयः। आहेतरः – न मेऽब्रवीदिति। इतर आह – यद्येवम् एकपात् वै एतत्, एकः पादो यस्य ब्रह्मणः तदिदमेकपाद्ब्रह्म त्रिभिः पादैः शून्यम् उपास्यमानमिति न फलाय भवतीत्यर्थः। यद्येवम्, त्वं विद्वान्सन् नः अस्मभ्यं ब्रूहि हे याज्ञवल्क्य इति। स च आह – वागेव आयतनम्, वाग्देवस्य ब्रह्मणः वागेव करणम् आयतनं शरीरम्, आकाशः अव्याकृताख्यः प्रतिष्ठा उत्पत्तिस्थितिलयकालेषु। प्रज्ञेत्येनदुपासीत – प्रज्ञेतीयमुपनिषत् ब्रह्मणश्चतुर्थः पादः – प्रज्ञेति कृत्वा एनत् ब्रह्म उपासीत। का प्रज्ञता याज्ञवल्क्य, किं स्वयमेव प्रज्ञा, उत प्रज्ञानिमित्ता – यथा आयतनप्रतिष्ठे ब्रह्मणो व्यतिरिक्ते, तद्वत्किम्। न; कथं तर्हि? वागेव, सम्राट्, इति होवाच; वागेव प्रज्ञेति ह उवाच उक्तवान्, न व्यतिरिक्ता प्रज्ञेति। कथं पुनर्वागेव प्रज्ञेति उच्यते – वाचा वै, सम्राट्, बन्धुः प्रज्ञायते – अस्माकं बन्धुरित्युक्ते प्रज्ञायते बन्धुः; तथा ऋग्वेदादि, इष्टं यागनिमित्तं धर्मजातम्, हुतं होमनिमित्तं च, आशितम् अन्नदाननिमित्तम्, पायितं पानदाननिमित्तम्, अयं च लोकः, इदं च जन्म, परश्च लोकः, प्रतिपत्तव्यं च जन्म, सर्वाणि च भूतानिवाचैव, सम्राट्, प्रज्ञायन्ते; अतो वाग्वै, सम्राट्, परमं ब्रह्मन एनं यथोक्तब्रह्मविदं वाग्जहाति; सर्वाण्येनं भूतान्यभिक्षरन्ति बलिदानादिभिः; इह देवो भूत्वा पुनः शरीरपातोत्तरकालं देवान् अप्येति अपिगच्छति, य एवं विद्वानेतदुपास्ते। विद्यानिष्क्रयार्थं हस्तितुल्य ऋषभो हस्त्यृषभः यस्मिन्गोसहस्रे तत् हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहःस होवाच याज्ञवल्क्यःअननुशिष्य शिष्यं कृतार्थमकृत्वा शिष्यात् धनं न हरेतेति मे मम पिताअमन्यत; ममाप्ययमेवाभिप्रायः॥
🔗  यदेव ते कश्चिदब्रवीत् उदङ्को नामतः शुल्बस्यापत्यं शौल्बायनः अब्रवीत्; प्राणो वै ब्रह्मेति, प्राणो वायुर्देवता – पूर्ववत्। प्राण एव आयतनम् आकाशः प्रतिष्ठा; उपनिषत् – प्रियमित्येनदुपासीत। कथं पुनः प्रियत्वम्? प्राणस्य वै, हे सम्राट्, कामाय प्राणस्यार्थाय अयाज्यं याजयति पतितादिकमपि; अप्रतिगृह्यस्याप्युग्रादेः प्रतिगृह्णात्यपि; तत्र तस्यां दिशि वधनिमित्तमाशङ्कम् – वधाशङ्का इत्यर्थः – यां दिशमेति तस्कराद्याकीर्णां च, तस्यां दिशि वधाशङ्का; तच्चैतत्सर्वं प्राणस्य प्रियत्वे भवति, प्राणस्यैव, सम्राट्, कामाय। तस्मात् प्राणो वै, सम्राट्, परमं ब्रह्म; नैनं प्राणो जहाति; समानमन्यत्॥
🔗  यदेव ते कश्चित् बर्कुः इति नामतः वृष्णस्यापत्यं वार्ष्णः; चक्षुर्वै ब्रह्मेति – आदित्यो देवता चक्षुषि। उपनिषत् – सत्यम्; यस्मात् श्रोत्रेण श्रुतमनृतमपि स्यात्, न तु चक्षुषा दृष्टम्, तस्माद्वै, सम्राट्, पश्यन्तमाहुःअद्राक्षीः त्वं हस्तिनम् इति, चेत् अद्राक्षमित्याह, तत्सत्यम् एव भवति; यस्त्वन्यो ब्रूयात् – अहमश्रौषमिति, तद्व्यभिचरति; यत्तु चक्षुषा दृष्टं तत् अव्यभिचारित्वात् सत्यमेव भवति॥
🔗  यदेव ते गर्दभीविपीतः इति नामतः भारद्वाजो गोत्रतः; श्रोत्रं वै ब्रह्मेति – श्रोत्रे दिक् देवता। अनन्त इत्येनदुपासीत; का अनन्तता श्रोत्रस्य? दिश एव श्रोत्रस्य आनन्त्यं यस्मात्, तस्माद्वै, सम्राट्, प्राचीमुदीचीं वा यां काञ्चिदपि दिशं गच्छति, नैवास्य अन्तं गच्छति कश्चिदपि; अतोऽनन्ता हि दिशः; दिशो वै सम्राट्, श्रोत्रम्; तस्मात् दिगानन्त्यमेव श्रोत्रस्य आनन्त्यम्॥
🔗  सत्यकामः इति नामतः जबालाया अपत्यं जाबालः। चन्द्रमा मनसि देवता। आनन्द इत्युपनिषत्; यस्माद् मन एव आनन्दः, तस्मात् मनसा वै, सम्राट्, स्त्रियम् अभिकामयमानः अभिहार्यते प्रार्थयत इत्यर्थः; तस्मात् यां स्त्रियमभिकामयमानोऽभिहार्यते, तस्यां प्रतिरूपः अनुरूपः पुत्रो जायते; स आनन्दहेतुः पुत्रः; स येन मनसा निर्वर्त्यते, तन्मनः आनन्दः॥
🔗  विदग्धः शाकल्यःहृदयं वै ब्रह्मेतिहृदयं वै, सम्राट्, सर्वेषां भूतानामायतनम्। नामरूपकर्मात्मकानि हि भूतानि हृदयाश्रयाणीत्यवोचाम शाकल्यब्राह्मणे हृदयप्रतिष्ठानि चेति। तस्मात् हृदये ह्येव, सम्राट्, सर्वाणि भूतानि प्रतिष्ठितानि भवन्ति। तस्मात् हृदयं स्थितिरित्युपासीत; हृदये च प्रजापतिर्देवता॥

Go to Top ('Home' key on many Windows browsers)

BrhU.4.02

🔗  जनको ह वैदेहः। यस्मात्सविशेषणानि सर्वाणि ब्रह्माणि जानाति याज्ञवल्क्यः, तस्मात् आचार्यकत्वं हित्वा जनकः कूर्चात् आसनविशेषात् उत्थाय उप समीपम् अवसर्पन्, पादयोर्निपतन्नित्यर्थः, उवाच उक्तवान् – नमः ते तुभ्यम् अस्तु हे याज्ञवल्क्य; अनु मा शाधि अनुशाधि मामित्यर्थः; इति-शब्दो वाक्यपरिसमाप्त्यर्थः। स होवाच याज्ञवल्क्यः – यथा वै लोके, हे सम्राट्, महान्तं दीर्घम् अध्वानम् एष्यन् गमिष्यन्, रथं वा स्थलेन गमिष्यन्, नावं वा जलेन गमिष्यन् समाददीतएवमेव एतानि ब्रह्माणि एताभिरुपनिषद्भिः युक्तानि उपासीनः समाहितात्मा असि, अत्यन्तमेताभिरुपनिषद्भिः संयुक्तात्मा असि; न केवलमुपनिषत्समाहितः; एवं वृन्दारकः पूज्यश्च आढ्यः च ईश्वरः न दरिद्र इत्यर्थः, अधीत-वेदः अधीतो वेदो येन स त्वमधीतवेदः, उक्ताश्चोपनिषद आचार्यैस्तुभ्यं स त्वम् उक्तोपनिषत्कः; एवं सर्वविभूतिसम्पन्नोऽपि सन् भयमध्यस्थ एव परमात्मज्ञानेन विना अकृतार्थ एव तावदित्यर्थः – यावत्परं ब्रह्म न वेत्सि; इतः अस्माद्देहात् विमुच्यमानः एताभिर्नौरथस्थानीयाभिः समाहितः क्व कस्मिन् गमिष्यसि, किं वस्तु प्राप्स्यसि इतिनाहं तद् वस्तु, भगवन् पूजावन्, वेद जाने, यत्र गमिष्यामीतिअथ यद्येवं न जानीषे यत्र गतः कृतार्थः स्याः, अहं वै ते तुभ्यं तद् वक्ष्यामि यत्र गमिष्यसीतिब्रवीतु भगवानिति, यदि प्रसन्नो मां प्रति। शृणु –
🔗  इन्धो ह वै नाम। इन्ध इत्येवन्नामा, यः चक्षुर्वै ब्रह्मेति पुरोक्त आदित्यान्तर्गतः पुरुषःएषः, योऽयं दक्षिणे अक्षन् अक्षणि विशेषेण व्यवस्थितः – स च सत्यनामा; तं वै एतं पुरुषम्, दीप्तिगुणत्वात् प्रत्यक्षं नाम अस्य इन्ध इति, तम् इन्धं सन्तम् इन्द्र इत्याचक्षते परोक्षेण। यस्मात् परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः प्रत्यक्षनामग्रहणं द्विषन्ति। एष त्वं वैश्वानरमात्मानं सम्पन्नोऽसि॥
🔗  अथैतत् वामेऽक्षणि पुरुषरूपम्, एषा अस्य पत्नी – यं त्वं वैश्वानरमात्मानं सम्पन्नोऽसि तस्यास्य इन्द्रस्य भोक्तुः भोग्या एषा पत्नी, विराट् अन्नं भोग्यत्वादेव; तदेतत् अन्नं च अत्ता च एकं मिथुनं स्वप्ने। कथम्? तयोरेषः – इन्द्राण्याः इन्द्रस्य च एषः संस्तावः, सम्भूय यत्र संस्तवं कुर्वाते अन्योन्यं स एष संस्तावः; कोऽसौ? य एषोऽन्तर्हृदय आकाशः – अन्तर्हृदये हृदयस्य मांसपिण्डस्य मध्ये; अथैनयोः एतत् वक्ष्यमाणम् अन्नं भोज्यं स्थितिहेतुः; किं तत्? य एषोऽन्तर्हृदये लोहितपिण्डः – लोहित एव पिण्डाकारापन्नो लोहितपिण्डः; अन्नं जग्धं द्वेधा परिणमते; यत्स्थूलं तदधो गच्छति; यदन्यत् तत्पुनरग्निना पच्यमानं द्वेधा परिणमते – यो मध्यमो रसः स लोहितादिक्रमेण पाञ्चभौतिकं पिण्डं शरीरमुपचिनोति; योऽणिष्ठो रसः स एष लोहितपिण्ड इन्द्रस्य लिङ्गात्मनो हृदये मिथुनीभूतस्य, यं तैजसमाचक्षते; स तयोरिन्द्रेन्द्राण्योर्हृदये मिथुनीभूतयोः सूक्ष्मासु नाडीष्वनुप्रविष्टः स्थितिहेतुर्भवति – तदेतदुच्यते – अथैनयोरेतदन्नमित्यादि। किञ्चान्यत्; अथैनयोरेतत्प्रावरणम् – भुक्तवतोः स्वपतोश्च प्रावरणं भवति लोके, तत्सामान्यं हि कल्पयति श्रुतिः; किं तदिह प्रावरणम्? यदेतदन्तर्हृदये जालकम् इव अनेकनाडीछिद्रबहुलत्वात् जालकमिव। अथैनयोरेषा सृतिः मार्गः, सञ्चरतोऽनयेति सञ्चरणी, स्वप्नाज्जागरितदेशागमनमार्गः; का सा सृतिः? यैषा हृदयात् हृदयदेशात् ऊर्ध्वा अभिमुखी सती उच्चरति नाडी; तस्याः परिमाणमिदमुच्यते – यथा लोके केशः सहस्रधा भिन्नः अत्यन्तसूक्ष्मो भवति एवं सूक्ष्माः अस्य देहस्य सम्बन्धिन्यः हिता नाम हिता इत्येवं ख्याताः नाड्यः, ताश्च अन्तर्हृदये मांसपिण्डे प्रतिष्ठिता भवन्ति; हृदयाद्विप्ररूढास्ताः सर्वत्र कदम्बकेसरवत्; एताभिः नाडीभिरत्यन्तसूक्ष्माभिः एतद् अन्नम् आस्रवत् गच्छत् आस्रवति गच्छति; तदेतद्देवता-शरीरम् अनेनान्नेन दामभूतेनोपचीयमानं तिष्ठति। तस्मात् – यस्मात् स्थूलेनान्नेन उपचितः पिण्डः, इदं तु देवताशरीरं लिङ्गं सूक्ष्मेणान्नेनोपचितं तिष्ठति, पिण्डोपचयकरमप्यन्नं प्रविविक्तमेव मूत्रपुरीषादिस्थूलमपेक्ष्य, लिङ्गस्थितिकरं तु अन्नं ततोऽपि सूक्ष्मतरम् – अतः प्रविविक्ताहारः पिण्डः, तस्मात् प्रविविक्ताहारादपि प्रविविक्ताहारतरः एष लिङ्गात्मा इव एव भवति, अस्माच्छरीरात् शरीरमेव शारीरं तस्माच्छारीरात्, आत्मनः वैश्वानरात् – तैजसः सूक्ष्मान्नोपचितो भवति॥
🔗  स एष हृदयभूतः तैजसः सूक्ष्मभूतेन प्राणेन विध्रियमाणः प्राण एव भवति; तस्य अस्य विदुषः क्रमेण वैश्वानरात् तैजसं प्राप्तस्य हृदयात्मानमापन्नस्य हृदयात्मनश्च प्राणात्मानमापन्नस्य प्राची दिक् प्राञ्चः प्राग्गताः प्राणाः; तथा दक्षिणा दिक् दक्षिणे प्राणाः; तथा प्रतीची दिक् प्रत्यञ्चः प्राणाः; उदीची दिक् उदञ्चः प्राणाः; ऊर्ध्वा दिक् ऊर्ध्वाः प्राणाः; अवाची दिक् अवाञ्चः प्राणाः; सर्वा दिशः सर्वे प्राणाः। एवं विद्वान् क्रमेण सर्वात्मकं प्राणमात्मत्वेनोपगतो भवति; तं सर्वात्मानं प्रत्यगात्मन्युपसंहृत्य द्रष्टुर्हि द्रष्टृभावं नेति नेतीत्यात्मानं तुरीयं प्रतिपद्यते; यम् एष विद्वान् अनेन क्रमेण प्रतिपद्यते, स एष नेति नेत्यात्मा इत्यादि न रिष्यति इत्यन्तं व्याख्यातमेतत्। अभयं वै जन्ममरणादिनिमित्तभयशून्यम्, हे जनक, प्राप्तोऽसिइति ह एवं किल उवाच उक्तवान् याज्ञवल्क्यः। तदेतदुक्तम् – अथ वै तेऽहं तद्वक्ष्यामि यत्र गमिष्यसीति। स होवाच जनको वैदेहःअभयम् एव त्वा त्वामपि गच्छतात् गच्छतु, यः त्वं नः अस्मान् हे याज्ञवल्क्य भगवन् पूजावन् अभयं ब्रह्म वेदयसे ज्ञापयसि प्रापितवान् उपाधिकृताज्ञानव्यवधानापनयनेनेत्यर्थः; किमन्यदहं विद्यानिष्क्रयार्थं प्रयच्छामि, साक्षादात्मानमेव दत्तवते; अतो नमस्तेऽस्तु; इमे विदेहाः तव यथेष्टं भुज्यन्ताम्; अयंअहमस्मि दासभावे स्थितः; यथेष्टं मां राज्यं च प्रतिपद्यस्वेत्यर्थः॥

Go to Top ('Home' key on many Windows browsers)

BrhU.4.03

🔗  जनकं ह वैदेहं याज्ञवल्क्यो जगामेत्यस्याभिसम्बन्धः। विज्ञानमय आत्मा साक्षादपरोक्षाद्ब्रह्म सर्वान्तरः पर एव – ‘नान्योऽतोऽस्ति द्रष्टा नान्यदतोऽस्ति द्रष्टृ’ (BrhU.3.7.23) इत्यादिश्रुतिभ्यः। स एष इह प्रविष्टः वदनादिलिङ्गः अस्ति व्यतिरिक्त इति मधुकाण्डे अजातशत्रुसंवादे प्राणादिकर्तृत्वभोक्तृत्वप्रत्याख्यानेनाधिगतोऽपि सन्, पुनः प्राणनादिलिङ्गमुपन्यस्य औषस्तप्रश्ने प्राणनादिलिङ्गो यः सामान्येनाधिगतः ‘प्राणेन प्राणिति’ इत्यादिना, ‘दृष्टेर्द्रष्टा’ इत्यादिना अलुप्तशक्तिस्वभावोऽधिगतः। तस्य च परोपाधिनिमित्तः संसारः – यथा रज्जूषरशुक्तिकागगनादिषु सर्पोदकरजतमलिनत्वादि परोपाध्यारोपणनिमित्तमेव, न स्वतः, तथा; निरुपाधिको निरुपाख्यः नेति नेतीति व्यपदेश्यः साक्षादपरोक्षात्सर्वान्तरः आत्मा ब्रह्म अक्षरम् अन्तर्यामी प्रशास्ता औपनिषदः पुरुषः विज्ञानमानन्दं ब्रह्मेत्यधिगतम्। तदेव पुनरिन्धसञ्ज्ञः प्रविविक्ताहारः; ततोऽन्तर्हृदये लिङ्गात्मा प्रविविक्ताहारतरः; ततः परेण जगदात्मा प्राणोपाधिः; ततोऽपि प्रविलाप्य जगदात्मानमुपाधिभूतं रज्ज्वादाविव सर्पादिकं विद्यया, ‘स एष नेति नेति –’ इति साक्षात्सर्वान्तरं ब्रह्म अधिगतम्। एवम् अभयं परिप्रापितो जनकः याज्ञवल्क्येन आगमतः सङ्क्षेपतः। अत्र च जाग्रत्स्वप्नसुषुप्ततुरीयाण्युपन्यस्तानि अन्यप्रसङ्गेन – इन्धः, प्रविविक्ताहारतरः, सर्वे प्राणाः, स एष नेति नेतीति। इदानीं जाग्रत्स्वप्नादिद्वारेणैव महता तर्केण विस्तरतोऽधिगमः कर्तव्यः; अभयं प्रापयितव्यम्; सद्भावश्च आत्मनः विप्रतिपत्त्याशङ्कानिराकरणद्वारेण – व्यतिरिक्तत्वं शुद्धत्वं स्वयञ्ज्योतिष्ट्वम् अलुप्तशक्तिस्वरूपत्वं निरतिशयानन्दस्वाभाव्यम् अद्वैतत्वं च अधिगन्तव्यमिति – इदमारभ्यते। आख्यायिका तु विद्यासम्प्रदानग्रहणविधिप्रकाशनार्था, विद्यास्तुतये च विशेषतः, वरदानादिसूचनात्॥
जनकं ह वैदेहं याज्ञवल्क्यो जगाम च गच्छन् एवं मेने चिन्तितवान् – न वदिष्ये किञ्चिदपि राज्ञे; गमनप्रयोजनं तु योगक्षेमार्थम्। न वदिष्य इत्येवंसङ्कल्पोऽपि याज्ञवल्क्यः यद्यत् जनकः पृष्टवान् तत्तत् प्रतिपेदे; तत्र को हेतुः सङ्कल्पितस्यान्यथाकरणे – इत्यत्र आख्यायिकामाचष्टे। पूर्वत्र किल जनकयाज्ञवल्क्ययोः संवाद आसीत् अग्निहोत्रे निमित्ते; तत्र जनकस्याग्निहोत्रविषयं विज्ञानमुपलभ्य परितुष्टो याज्ञवल्क्यः तस्मै जनकाय किल वरं ददौ; च जनकः ह कामप्रश्नम् एव वरं वव्रे वृतवान्; तं च वरं ह अस्मै ददौ याज्ञवल्क्यः; तेन वरप्रदानसामर्थ्येन अव्याचिख्यासुमपि याज्ञवल्क्यं तूष्णीं स्थितमपि सम्राडेव जनकः पूर्वं पप्रच्छ। तत्रैव अनुक्तिः, ब्रह्मविद्यायाः कर्मणा विरुद्धत्वात्; विद्यायाश्च स्वातन्त्र्यात् – स्वतन्त्रा हि ब्रह्मविद्या सहकारिसाधनान्तरनिरपेक्षा पुरुषार्थसाधनेति च॥
🔗  हे याज्ञवल्क्य इत्येवं सम्बोध्य अभिमुखीकरणाय, किञ्ज्योतिरयं पुरुष इति – किमस्य पुरुषस्य ज्योतिः, येन ज्योतिषा व्यवहरति? सोऽयं किञ्ज्योतिः? अयं प्राकृतः कार्यकरणसङ्घातरूपः शिरःपाण्यादिमान् पुरुषः पृच्छ्यते – किमयं स्वावयवसङ्घातबाह्येन ज्योतिरन्तरेण व्यवहरति, आहोस्वित् स्वावयवसङ्घातमध्यपातिना ज्योतिषा ज्योतिष्कार्यम् अयं पुरुषो निर्वर्तयति – इत्येतदभिप्रेत्य – पृच्छति। किञ्चातः, यदि व्यतिरिक्तेन यदि वा अव्यतिरिक्तेन ज्योतिषा ज्योतिष्कार्यं निर्वर्तयति? शृणु तत्र कारणम् – यदि व्यतिरिक्तेनैव ज्योतिषा ज्योतिष्कार्यनिर्वर्तकत्वम् अस्य स्वभावो निर्धारितो भवति, ततः अदृष्टज्योतिष्कार्यविषयेऽप्यनुमास्यामहे व्यतिरिक्तज्योतिर्निमित्तमेवेदं कार्यमिति; अथाव्यतिरिक्तेनैव स्वात्मना ज्योतिषा व्यवहरति, ततः अप्रत्यक्षेऽपि ज्योतिषि ज्योतिष्कार्यदर्शने अव्यतिरिक्तमेव ज्योतिः अनुमेयम्; अथानियम एव – व्यतिरिक्तम् अव्यतिरिक्तं वा ज्योतिः पुरुषस्य व्यवहारहेतुः, ततः अनध्यवसाय एव ज्योतिर्विषये – इत्येवं मन्वानः पृच्छति जनको याज्ञवल्क्यम् – किञ्ज्योतिरयं पुरुष इति। ननु एवमनुमानकौशले जनकस्य किं प्रश्नेन, स्वयमेव कस्मान्न प्रतिपद्यत इति – सत्यमेतत्; तथापि लिङ्गलिङ्गिसम्बन्धविशेषाणामत्यन्तसौक्ष्म्यात् दुरवबोधतां मन्यते बहूनामपि पण्डितानाम्, किमुतैकस्य; अत एव हि धर्मसूक्ष्मनिर्णये परिषद्व्यापार इष्यते, पुरुषविशेषश्चापेक्ष्यते – दशावरा परिषत्, त्रयो वा एको वेति; तस्मात् यद्यपि अनुमानकौशलं राज्ञः, तथापि तु युक्तो याज्ञवल्क्यः प्रष्टुम्, विज्ञानकौशलतारतम्योपपत्तेः पुरुषाणाम्। अथवा श्रुतिः स्वयमेव आख्यायिकाव्याजेन अनुमानमार्गमुपन्यस्य अस्मान्बोधयति पुरुषमतिमनुसरन्ती। याज्ञवल्क्योऽपि जनकाभिप्रायाभिज्ञतया व्यतिरिक्तमात्मज्योतिर्बोधयिष्यन् जनकं व्यतिरिक्तप्रतिपादकमेव लिङ्गं प्रतिपेदे, यथा – प्रसिद्धम् आदित्यज्योतिः सम्राट् इति होवाच। कथम्? आदित्येनैव स्वावयवसङ्घातव्यतिरिक्तेन चक्षुषोऽनुग्राहकेण ज्योतिषा अयं प्राकृतः पुरुषः आस्ते उपविशति, पल्ययते पर्येति क्षेत्रमरण्यं वा, तत्र गत्वा कर्म कुरुते, विपल्येति विपर्येति च यथागतम्। अत्यन्तव्यतिरिक्तज्योतिष्ट्वप्रसिद्धताप्रदर्शनार्थम् अनेकविशेषणम्; बाह्यानेकज्योतिःप्रदर्शनं च लिङ्गस्याव्यभिचारित्वप्रदर्शनार्थम्। एवमेवैतद्याज्ञवल्क्य
🔗  तथा अस्तमिते आदित्ये, याज्ञवल्क्य, किञ्ज्योतिरेवायं पुरुष इतिचन्द्रमा एवास्य ज्योतिः
🔗  अस्तमित आदित्ये, चन्द्रमस्यस्तमिते अग्निर्ज्योतिः
🔗  शान्तेऽग्नौ वाक् ज्योतिः; वागिति शब्दः परिगृह्यते; शब्देन विषयेण श्रोत्रमिन्द्रियं दीप्यते; श्रोत्रेन्द्रिये सम्प्रदीप्ते, मनसि विवेक उपजायते; तेन मनसा बाह्यां चेष्टां प्रतिपद्यते – ‘मनसा ह्येव पश्यति मनसा शृणोति’ (BrhU.1.5.3) इति ब्राह्मणम्। कथं पुनः वाग्ज्योतिरिति, वाचो ज्योतिष्ट्वमप्रसिद्धमित्यत आह – तस्माद्वै सम्राट्, यस्मात् वाचा ज्योतिषा अनुगृहीतोऽयं पुरुषो व्यवहरति, तस्मात् प्रसिद्धमेतद्वाचो ज्योतिष्ट्वम्; कथम्? अपि – यत्र यस्मिन्काले प्रावृषि प्रायेण मेघान्धकारे सर्वज्योतिःप्रत्यस्तमये स्वोऽपि पाणिः हस्तः न वि-स्पष्टं निर्ज्ञायतेअथ तस्मिन्काले सर्वचेष्टानिरोधे प्राप्ते बाह्यज्योतिषोऽभावात् यत्र वागुच्चरति, श्वा वा भषति, गर्दभो वा रौति, उपैव तत्र न्येति – तेन शब्देन ज्योतिषा श्रोत्रमनसोर्नैरन्तर्यं भवति, तेन ज्योतिष्कार्यत्वं वाक् प्रतिपद्यते, तेन वाचा ज्योतिषा उपन्येत्येव उपगच्छत्येव तत्र सन्निहितो भवतीत्यर्थः; तत्र च कर्म कुरुते, विपल्येति। तत्र वाग्ज्योतिषो ग्रहणं गन्धादीनामुपलक्षणार्थम्; गन्धादिभिरपि हि घ्राणादिष्वनुगृहीतेषु प्रवृत्तिनिवृत्त्यादयो भवन्ति; तेन तैरप्यनुग्रहो भवति कार्यकरणसङ्घातस्य। एवमेवैतद्याज्ञवल्क्य
🔗  शान्तायां पुनः वाचि, गन्धादिष्वपि च शान्तेषु बाह्येष्वनुग्राहकेषु, सर्वप्रवृत्तिनिरोधः प्राप्तोऽस्य पुरुषस्य। एतदुक्तं भवति – जाग्रद्विषये बहिर्मुखानि करणानि चक्षुरादीनि आदित्यादिज्योतिर्भिरनुगृह्यमाणानि यदा, तदा स्फुटतरः संव्यवहारोऽस्य पुरुषस्य भवतीति; एवं तावत् जागरिते स्वावयवसङ्घातव्यतिरिक्तेनैव ज्योतिषा ज्योतिष्कार्यसिद्धिरस्य पुरुषस्य दृष्टा; तस्मात् ते वयं मन्यामहे – सर्वबाह्यज्योतिःप्रत्यस्तमयेऽपि स्वप्नसुषुप्तकाले जागरिते च तादृगवस्थायां स्वावयवसङ्घातव्यतिरिक्तेनैव ज्योतिषा ज्योतिष्कार्यसिद्धिरस्येति; दृश्यते च स्वप्ने ज्योतिष्कार्यसिद्धिः – बन्धुसङ्गमनवियोगदर्शनं देशान्तरगमनादि च; सुषुप्ताच्च उत्थानम् – सुखमहमस्वाप्सं न किञ्चिदवेदिषमिति; तस्मादस्ति व्यतिरिक्तं किमपि ज्योतिः; किं पुनस्तत् शान्तायां वाचि ज्योतिः भवतीति। उच्यते – आत्मैवास्य ज्योतिर्भवतीति। आत्मेति कार्यकरणस्वावयवसङ्घातव्यतिरिक्तं कार्यकरणावभासकम् आदित्यादिबाह्यज्योतिर्वत् स्वयमन्येनानवभास्यमानम् अभिधीयते ज्योतिः; अन्तःस्थं च तत् पारिशेष्यात् – कार्यकरणव्यतिरिक्तं तदिति तावत्सिद्धम्; यच्च कार्यकरणव्यतिरिक्तं कार्यकरणसङ्घातानुग्राहकं च ज्योतिः तत् बाह्यैश्चक्षुरादिकरणैरुपलभ्यमानं दृष्टम्; न तु तथा तत् चक्षुरादिभिरुपलभ्यते, आदित्यादिज्योतिष्षु उपरतेषु; कार्यं तु ज्योतिषो दृश्यते यस्मात्, तस्मात् आत्मनैवायं ज्योतिषा आस्ते पल्ययते कर्म कुरुते विपल्येतीति; तस्मात् नूनम् अन्तःस्थं ज्योतिरित्यवगम्यते। किञ्च आदित्यादिज्योतिर्विलक्षणं तत् अभौतिकं च; स एव हेतुः यत् चक्षुराद्यग्राह्यत्वम्, आदित्यादिवत्।
न, समानजातीयेनैवोपकारदर्शनात् – यत् आदित्यादिविलक्षणं ज्योतिरान्तरं सिद्धमिति, एतदसत्; कस्मात्? उपक्रियमाणसमानजातीयेनैव आदित्यादिज्योतिषा कार्यकरणसङ्घातस्य भौतिकस्य भौतिकेनैव उपकारः क्रियमाणो दृश्यते; यथादृष्टं चेदम् अनुमेयम्; यदि नाम कार्यकरणादर्थान्तरं तदुपकारकम् आदित्यादिवत् ज्योतिः, तथापि कार्यकरणसङ्घातसमानजातीयमेवानुमेयम्, कार्यकरणसङ्घातोपकारकत्वात्, आदित्यादिज्योतिर्वत्। यत्पुनः अन्तःस्थत्वादप्रत्यक्षत्वाच्च वैलक्षण्यमुच्यते, तत् चक्षुरादिज्योतिर्भिः अनैकान्तिकम्; यतः अप्रत्यक्षाणि अन्तःस्थानि च चक्षुरादिज्योतींषि भौतिकान्येव। तस्मात् तव मनोरथमात्रम् – विलक्षणमात्मज्योतिः सिद्धमिति। कार्यकरणसङ्घातभावभावित्वाच्च सङ्घातधर्मत्वमनुमीयते ज्योतिषः। सामान्यतो दृष्टस्य च अनुमानस्य व्यभिचारित्वादप्रामाण्यम्; सामान्यतो दृष्टबलेन हि भवान् आदित्यादिवत् व्यतिरिक्तं ज्योतिः साधयति कार्यकरणेभ्यः; न च प्रत्यक्षम् अनुमानेन बाधितुं शक्यते; अयमेव तु कार्यकरणसङ्घातः प्रत्यक्षं पश्यति शृणोति मनुते विजानाति च; यदि नाम ज्योतिरन्तरमस्य उपकारकं स्यात् आदित्यादिवत्, न तत् आत्मा स्यात् ज्योतिरन्तरम् आदित्यादिवदेव; य एव तु प्रत्यक्षं दर्शनादिक्रियां करोति, स एव आत्मा स्यात् कार्यकरणसङ्घातः, नान्यः, प्रत्यक्षविरोधे अनुमानस्याप्रामाण्यात्। ननु अयमेव चेत् दर्शनादिक्रियाकर्ता आत्मा सङ्घातः, कथम् अविकलस्यैवास्य दर्शनादिक्रियाकर्तृत्वं कदाचिद्भवति, कदाचिन्नेति – नैष दोषः, दृष्टत्वात्; न हि दृष्टेऽनुपपन्नं नाम; न हि खद्योते प्रकाशाप्रकाशकत्वेन दृश्यमाने कारणान्तरमनुमेयम्; अनुमेयत्वे च केनचित्सामान्यात् सर्व सर्वत्रानुमेयं स्यात्; तच्चानिष्टम्; न च पदार्थस्वभावो नास्ति; न हि अग्ने उष्णस्वाभाव्यम् अन्यनिमित्तम्, उदकस्य वा शैत्यम्; प्राणिधर्माधर्माद्यपेक्षमिति चेत्, धर्माधर्मादेर्निमित्तान्तरापेक्षस्वभावप्रसङ्गः; अस्त्विति चेत्, न, तदनवस्थाप्रसङ्गः; स चानिष्टः।
न, स्वप्नस्मृत्योर्दृष्टस्यैव दर्शनात् – यदुक्तं स्वभाववादिना, देहस्यैव दर्शनादिक्रिया न व्यतिरिक्तस्येति, तन्न; यदि हि देहस्यैव दर्शनादिक्रिया, स्वप्ने दृष्टस्यैव दर्शनं न स्यात्; अन्धः स्वप्नं पश्यन् दृष्टपूर्वमेव पश्यति, न शाकद्वीपादिगतमदृष्टरूपम्; ततश्च एतत्सिद्धं भवति – यः स्वप्ने पश्यति दृष्टपूर्वं वस्तु, स एव पूर्वं विद्यमाने चक्षुषि अद्राक्षीत्, न देह इति; देहश्चेत् द्रष्टा, स येनाद्राक्षीत् तस्मिन्नुद्धृते चक्षुषि स्वप्ने तदेव दृष्टपूर्वं न पश्येत्; अस्ति च लोके प्रसिद्धिः – पूर्वं दृष्टं मया हिमवतः शृङ्गम् अद्याहं स्वप्नेऽद्राक्षमिति उद्धृतचक्षुषामन्धानामपि; तस्मात् अनुद्धृतेऽपि चक्षुषि, यः स्वप्नदृक् स एव द्रष्टा, न देह इत्यवगम्यते। तथा स्मृतौ द्रष्टृस्मर्त्रोः एकत्वे सति, य एव द्रष्टा स एव स्मर्ता; यदा चैवं तदा निमीलिताक्षोऽपि स्मरन् दृष्टपूर्वं यद्रूपं तत् दृष्टवदेव पश्यतीति; तस्मात् यत् निमीलितं तन्न द्रष्टृ; यत् निमीलिते चक्षुषि स्मरत् रूपं पश्यति, तदेव अनिमीलितेऽपि चक्षुषि द्रष्टृ आसीदित्यवगम्यते। मृते च देहे अविकलस्यैव च रूपादिदर्शनाभावात् – देहस्यैव द्रष्टृत्वे मृतेऽपि दर्शनादिक्रिया स्यात्। तस्मात् यदपाये देहे दर्शनं न भवति, यद्भावे च भवति, तत् दर्शनादिक्रियाकर्तृ, न देह इत्यवगम्यते। चक्षुरादीन्येव दर्शनादिक्रियाकर्तॄणीति चेत्, न, यदहमद्राक्षं तत्स्पृशामीति भिन्नकर्तृकत्वे प्रतिसन्धानानुपपत्तेः। मनस्तर्हीति चेत्, न, मनसोऽपि विषयत्वात् रूपादिवत् द्रष्टृत्वाद्यनुपपत्तिः। तस्मात् अन्तःस्थं व्यतिरिक्तम् आदित्यादिवदिति सिद्धम्। यदुक्तम् – कार्यकरणसङ्घातसमानजातीयमेव ज्योतिरन्तरमनुमेयम्, आदित्यादिभिः तत्समानजातीयैरेव उपक्रियमाणत्वादिति – तदसत्, उपकार्योपकारकभावस्यानियमदर्शनात्; कथम्? पार्थिवैरिन्धनैः पार्थिवत्वसमानजातीयैस्तृणोलपादिभिरग्नेः प्रज्वलनोपकारः क्रियमाणो दृश्यते; न च तावता तत्समानजातीयैरेव अग्नेः प्रज्वलनोपकारः सर्वत्रानुमेयः स्यात्, येन उदकेनापि प्रज्वलनोपकारः भिन्नजातीयेन वैद्युतस्याग्नेः जाठरस्य च क्रियमाणो दृश्यते; तस्मात् उपकार्योपकारकभावे समानजातीयासमानजातीयनियमो नास्ति; कदाचित् समानजातीया मनुष्या मनुष्यैरेवोपक्रियन्ते, कदाचित् स्थावरपश्वादिभिश्च भिन्नजातीयैः; तस्मात् अहेतुः कार्यकरणसङ्घातसमानजातीयैरेव आदित्यादिज्योतिर्भिरुपक्रियमाणत्वादिति। यत्पुनरात्थ – चक्षुरादिभिः आदित्यादिज्योतिर्वत् अदृश्यत्वात् इत्ययं हेतुः ज्योतिरन्तरस्य अन्तःस्थत्वं वैलक्षण्यं च न साधयति, चक्षुरादिभिरनैकान्तिकत्वादिति – तदसत्, चक्षुरादिकरणेभ्योऽन्यत्वे सतीति हेतोर्विशेषणत्वोपपत्तेः। कार्यकरणसङ्घातधर्मत्वं ज्योतिष इति यदुक्तम्, तन्न, अनुमानविरोधात्; आदित्यादिज्योतिर्वत् कार्यकरणसङ्घातादर्थान्तरं ज्योतिरिति हि अनुमानमुक्तम्; तेन विरुध्यते इयं प्रतिज्ञा – कार्यकरणसङ्घातधर्मत्वं ज्योतिष इति। तद्भावभावित्वं तु असिद्धम्, मृते देहे ज्योतिषः अदर्शनात्। सामान्यतो दृष्टस्यानुमानस्य अप्रामाण्ये सति पानभोजनादिसर्वव्यवहारलोपप्रसङ्गः; स चानिष्टः; पानभोजनादिषु हि क्षुत्पिपासादिनिवृत्तिमुपलब्धवतः तत्सामान्यात् पानभोजनाद्युपादानं दृश्यमानं लोके न प्राप्नोति; दृश्यन्ते हि उपलब्धपानभोजनाः सामान्यतः पुनः पानभोजनान्तरैः क्षुत्पिपासादिनिवृत्तिमनुमिन्वन्तः तादर्थ्येन प्रवर्तमानाः। यदुक्तम् – अयमेव तु देहो दर्शनादिक्रियाकर्तेति, तत् प्रथममेव परिहृतम् – स्वप्नस्मृत्योः देहादर्थान्तरभूतो द्रष्टेति। अनेनैव ज्योतिरन्तरस्य अनात्मत्वमपि प्रत्युक्तम्। यत्पुनः खद्योतादेः कादाचित्कं प्रकाशाप्रकाशकत्वम्, तदसत्, पक्षाद्यवयवसङ्कोचविकासनिमित्तत्वात् प्रकाशाप्रकाशकत्वस्य। यत्पुनरुक्तम्, धर्माधर्मयोरवश्यं फलदातृत्वं स्वभावोऽभ्युपगन्तव्य इति – तदभ्युपगमे भवतः सिद्धान्तहानात्। एतेन अनवस्थादोषः प्रत्युक्तः। तस्मात् अस्ति व्यतिरिक्तं च अन्तःस्थं ज्योतिः आत्मेति॥
🔗  यद्यपि व्यतिरिक्तत्वादि सिद्धम्, तथापि समानजातीयानुग्राहकत्वदर्शननिमित्तभ्रान्त्या करणानामेवान्यतमः व्यतिरिक्तो वा इत्यविवेकतः पृच्छति – कतम इति; न्यायसूक्ष्मताया दुर्विज्ञेयत्वात् उपपद्यते भ्रान्तिः। अथवा शरीरव्यतिरिक्ते सिद्धेऽपि करणानि सर्वाणि विज्ञानवन्तीव, विवेकत आत्मनः अनुपलब्धत्वात्; अतोऽहं पृच्छामि – कतम आत्मेति; कतमोऽसौ देहेन्द्रियप्राणमनःसु, यः त्वयोक्तः आत्मा, येन ज्योतिषास्त इत्युक्तम्। अथवा योऽयमात्मा त्वया अभिप्रेतो विज्ञानमयः, सर्व इमे प्राणा विज्ञानमया इव, एषु प्राणेषु कतमः – यथा समुदितेषु ब्राह्मणेषु, सर्व इमे तेजस्विनः कतम एषु षडङ्गविदिति। पूर्वस्मिन्व्याख्याने कतम आत्मेत्येतावदेव प्रश्नवाक्यम्, योऽयं विज्ञानमय इति प्रतिवचनम्; द्वितीये तु व्याख्याने प्राणेष्वित्येवमन्तं प्रश्नवाक्यम्। अथवा सर्वमेव प्रश्नवाक्यम् – विज्ञानमयो हृद्यन्तर्ज्योतिः पुरुषः कतम इत्येतदन्तम्। योऽयं विज्ञानमय इत्येतस्य शब्दस्य निर्धारितार्थविशेषविषयत्वम्, कतम आत्मेतीतिशब्दस्य प्रश्नवाक्यपरिसमाप्त्यर्थत्वम् – व्यवहितसम्बन्धमन्तरेण युक्तमिति कृत्वा, कतम आत्मेतीत्येवमन्तमेव प्रश्नवाक्यम्, योऽयमित्यादि परं सर्वमेव प्रतिवचनमिति निश्चीयते।
योऽयम् इति आत्मनः प्रत्यक्षत्वान्निर्देशः; विज्ञानमयः विज्ञानप्रायः बुद्धिविज्ञानोपाधिसम्पर्काविवेकाद्विज्ञानमय इत्युच्यते – बुद्धिविज्ञानसम्पृक्त एव हि यस्मादुपलभ्यते, राहुरिव चन्द्रादित्यसम्पृक्तः; बुद्धिर्हि सर्वार्थकरणम्, तमसीव प्रदीपः पुरोवस्थितः; ‘मनसा ह्येव पश्यति मनसा शृणोति’ (BrhU.1.5.3) इति ह्युक्तम्; बुद्धिविज्ञानालोकविशिष्टमेव हि सर्वं विषयजातमुपलभ्यते, पुरोवस्थितप्रदीपालोकविशिष्टमिव तमसि; द्वारमात्राणि तु अन्यानि करणानि बुद्धेः; तस्मात् तेनैव विशेष्यते – विज्ञानमय इति। येषां परमात्मविज्ञप्तिविकार इति व्याख्यानम्, तेषाम् ‘विज्ञानमयः’,‘वमनोमयः’ (BrhU.4.4.5) इत्यादौ विज्ञानमयशब्दस्य अन्यार्थदर्शनात् अश्रौतार्थता अवसीयते; सन्दिग्धश्च पदार्थः अन्यत्र निश्चितप्रयोगदर्शनात् निर्धारयितुं शक्यः, वाक्यशेषात्, निश्चितन्यायबलाद्वा; सधीरिति चोत्तरत्र पाठात्। ‘हृद्यन्तः’ इति वचनात् युक्तं विज्ञानप्रायत्वमेव। प्राणेषु इति व्यतिरेकप्रदर्शनार्था सप्तमी – यथा वृक्षेषु पाषाण इति सामीप्यलक्षणा; प्राणेषु हि व्यतिरेकाव्यतिरेकता सन्दिह्यत आत्मनः; प्राणेषु प्राणेभ्यो व्यतिरिक्त इत्यर्थः; यो हि येषु भवति, स तद्व्यतिरिक्तो भवत्येव – यथा पाषाणेषु वृक्षः। हृदि – तत्रैतत्स्यात्, प्राणेषु प्राणजातीयैव बुद्धिः स्यादिति, अत आह – हृद्यन्तः ईति। हृच्छब्देन पुण्डरीकाकारो मांसपिण्डः, तात्स्थ्यात् बुद्धिः हृत्, तस्याम्, हृदि बुद्धौ। अन्तरिति बुद्धिवृत्तिव्यतिरेकप्रदर्शनार्थम्। ज्योतिः अवभासात्मकत्वात् आत्मा उच्यते। तेन हि अवभासकेन आत्मना ज्योतिषा आस्ते पल्ययते कर्म कुरुते, चेतनावानिव हि अयं कार्यकरणपिण्डः – यथा आदित्यप्रकाशस्थो घटः; यथा वा मरकतादिर्मणिः क्षीरादिद्रव्ये प्रक्षिप्तः परीक्षणाय, आत्मच्छायामेव तत् क्षीरादिद्रव्यं करोति, तादृगेतत् आत्मज्योतिः बुद्धेरपि हृदयात् सूक्ष्मत्वात् हृद्यन्तःस्थमपि हृदयादिकं कार्यकरणसङ्घातं च एकीकृत्य आत्मज्योतिश्छायां करोति, पारम्पर्येण सूक्ष्मस्थूलतारतम्यात्, सर्वान्तरतमत्वात्। बुद्धिस्तावत् स्वच्छत्वात् आनन्तर्याच्च आत्मचैतन्यज्योतिःप्रतिच्छाया भवति; तेन हि विवेकिनामपि तत्र आत्माभिमानबुद्धिः प्रथमा; ततोऽप्यानन्तर्यात् मनसि चैतन्यावभासता, बुद्धिसम्पर्कात्; तत इन्द्रियेषु, मनस्संयोगात्; ततोऽनन्तरं शरीरे, इन्द्रियसम्पर्कात्। एवं पारम्पर्येण कृत्स्नं कार्यकरणसङ्घातम् आत्मा चैतन्यस्वरूपज्योतिषा अवभासयति। तेन हि सर्वस्य लोकस्य कार्यकरणसङ्घाते तद्वृत्तिषु च अनियतात्माभिमानबुद्धिः यथाविवेकं जायते। तथा च भगवतोक्तं गीतासु – ‘यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः। क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत’ (BhG.13.33) ‘यदादित्यगतं तेजः-’ (BhG.15.12) इत्यादि च। ‘नित्योऽनित्यानां चेतनश्चेतनानाम्’ (KathU.2.2.13) इति च काठके, ‘तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति’ (KathU.2.2.15) इति च। ‘येन सूर्यस्तपति तेजसेद्धः’ (तै. ब्रा. ३-१२-९-७) इति च मन्त्रवर्णः। तेनायं हृद्यन्तर्ज्योतिः। पुरुषः – आकाशवत्सर्वगतत्वात् पूर्ण इति पुरुषः; निरतिशयं च अस्य स्वयञ्ज्योतिष्ट्वम्, सर्वावभासकत्वात् स्वयमन्यानवभास्यत्वाच्च; स एष पुरुषः स्वयमेव ज्योतिःस्वभावः, यं त्वं पृच्छसि – कतम आत्मेति।
बाह्यानां ज्योतिषां सर्वकरणानुग्राहकाणां प्रत्यस्तमये अन्तःकरणद्वारेण हृद्यन्तर्ज्योतिः पुरुष आत्मा अनुग्राहकः करणानामित्युक्तम्। यदापि बाह्यकरणानुग्राहकाणाम् आदित्यादिज्योतिषां भावः, तदापि आदित्यादिज्योतिषां परार्थत्वात् कार्यकरणसङ्घातस्याचैतन्ये स्वार्थानुपपत्तेः स्वार्थज्योतिष आत्मनः अनुग्रहाभावे अयं कार्यकरणसङ्घातः न व्यवहाराय कल्पते; आत्मज्योतिरनुग्रहेणैव हि सर्वदा सर्वः संव्यवहारः, ‘यदेतद्धृदयं मनश्चैतत्सञ्ज्ञानम्’ (AitU.3.1.2) इत्यादिश्रुत्यन्तरात्; साभिमानो हि सर्वप्राणिसंव्यवहारः; अभिमानहेतुं च मरकतमणिदृष्ठान्तेनावोचाम। यद्यप्येवमेतत्, तथापि जाग्रद्विषये सर्वकरणागोचरत्वात् आत्मज्योतिषः बुद्ध्यादिबाह्याभ्यन्तरकार्यकरणव्यवहारसन्निपातव्याकुलत्वात् न शक्यते तज्ज्योतिः आत्माख्यं मुञ्जेषीकावत् निष्कृष्य दर्शयितुमित्यतः स्वप्ने दिदर्शयिषुः प्रक्रमते – स समानः सन्नुभौ लोकावनुसञ्चरति। यः पुरुषः स्वयमेव ज्योतिरात्मा, स समानः सदृशः सन् – केन? प्रकृतत्वात् सन्निहितत्वाच्च हृदयेन; ‘हृदि’ इति च हृच्छब्दवाच्या बुद्धिः प्रकृता सन्निहिता च; तस्मात् तयैव सामान्यम्। किं पुनः सामान्यम्? अश्वमहिषवत् विवेकतोऽनुपलब्धिः; अवभास्या बुद्धिः, अवभासकं तत् आत्मज्योतिः, आलोकवत्; अवभास्यावभासकयोः विवेकतोऽनुपलब्धिः प्रसिद्धा; विशुद्धत्वाद्धि आलोकः अवभास्येन सदृशो भवति; यथा रक्तमवभासयन् रक्तसदृशो रक्ताकारो भवति, यथा हरितं नीलं लोहितं च अवभासयन् आलोकः तत्समानो भवति, तथा बुद्धिमवभासयन् बुद्धिद्वारेण कृत्स्नं क्षेत्रमवभासयति – इत्युक्तं मरकतमणिनिदर्शनेन। तेन सर्वेण समानः बुद्धिसामान्यद्वारेण; ‘सर्वमयः’ (BrhU.4.4.5) इति च अत एव वक्ष्यति। तेन असौ कुतश्चित्प्रविभज्य मुञ्जेषीकावत् स्वेन ज्योतीरूपेण दर्शयितुं न शक्यत इति, सर्वव्यापारं तत्राध्यारोप्य नामरूपगतम्, ज्योतिर्धर्मं च नामरूपयोः, नामरूपे च आत्मज्योतिषि, सर्वो लोकः मोमुह्यते – अयमात्मा नायमात्मा, एवन्धर्मा नैवन्धर्मा, कर्ता अकर्ता, शुद्धः अशुद्धः, बद्धः मुक्तः, स्थितः गतः आगतः, अस्ति नास्ति – इत्यादिविकल्पैः। अतः समानः सन् उभौ लोकौ प्रतिपन्नप्रतिपत्तव्यौ इहलोकपरलोकौ उपात्तदेहेन्द्रियादिसङ्घातत्यागान्योपादानसन्तानप्रबन्धशतसन्निपातैः अनु-क्रमेण सञ्चरति। धीसादृश्यमेवोभयलोकसञ्चरणहेतुः, न स्वत इति – तत्र नामरूपोपाधिसादृश्यं भ्रान्तिनिमित्तं यत् तदेव हेतुः, न स्वतः – इत्येतदुच्यते – यस्मात् सः समानः सन् उभौ लोकावनुक्रमेण सञ्चरति – तदेतत् प्रत्यक्षम् इत्येतत् दर्शयति – यतः ध्यायति इव ध्यानव्यापारं करोतीव, चिन्तयतीव, ध्यानव्यापारवतीं बुद्धिं सः तत्स्थेन चित्स्वभावज्योतीरूपेण अवभासयन् तत्सदृशः तत्समानः सन् ध्यायति इव, आलोकवदेव – अतः भवति चिन्तयतीति भ्रान्तिर्लोकस्य; न तु परमार्थतो ध्यायति। तथा लेलायति इव अत्यर्थं चलतीव, तेष्वेव करणेषु बुद्ध्यादिषु वायुषु च चलत्सु तदवभासकत्वात् तत्सदृशं तदिति – लेलायति इव, न तु परमार्थतः चलनधर्मकं तत् आत्मज्योतिः। कथं पुनः एतदवगम्यते, तत्समानत्वभ्रान्तिरेव उभयलोकसञ्चरणादिहेतुः न स्वतः – इत्यस्यार्थस्य प्रदर्शनाय हेतुरुपदिश्यते – सः आत्मा, हि यस्मात् स्वप्नो भूत्वा – सः यया धिया समानः, सा धीः यद्यत् भवति, तत्तत् असावपि भवतीव; तस्मात् यदा असौ स्वप्नो भवति स्वापवृत्तिं प्रतिपद्यते धीः, तदा सोऽपि स्वप्नवृत्तिं प्रतिपद्यते; यदा धीः जिजागरिषति, तदा असावपि; अत आह – स्वप्नो भूत्वा स्वप्नवृत्तिमवभासयन् धियः स्वापवृत्त्याकारो भूत्वा इमं लोकम् जागरितव्यवहारलक्षणं कार्यकरणसङ्घातात्मकं लौकिकशास्त्रीयव्यवहारास्पदम्, अतिक्रामति अतीत्य क्रामति विविक्तेन स्वेन आत्मज्योतिषा स्वप्नात्मिकां धीवृत्तिमवभासयन्नवतिष्ठते यस्मात् – तस्मात् स्वयञ्ज्योतिःस्वभाव एवासौ, विशुद्धः स कर्तृक्रियाकारकफलशून्यः परमार्थतः, धीसादृश्यमेव तु उभयलोकसञ्चारादिसंव्यवहारभ्रान्तिहेतुः। मृत्यो रूपाणि – मृत्युः कर्माविद्यादिः, न तस्य अन्यद्रूपं स्वतः, कार्यकरणान्येव अस्य रूपाणि, अतः तानि मृत्यो रूपाणि अतिक्रामति क्रियाफलाश्रयाणि।
ननु नास्त्येव धिया समानम् अन्यत् धियोऽवभासकम् आत्मज्योतिः, धीव्यतिरेकेण प्रत्यक्षेण वा अनुमानेन वा अनुपलम्भात् – यथा अन्या तत्काल एव द्वितीया धीः। यत्तु अवभास्यावभासकयोः अन्यत्वेऽपि विवेकानुपलम्भात् सादृश्यमिति घटाद्यालोकयोः – तत्र भवतु, अन्यत्वेन आलोकस्योपलम्भात् घटादेः, संश्लिष्टयोः सादृश्यं भिन्नयोरेव; न च तथा इह घटादेरिव धियोऽवभासकं ज्योतिरन्तरं प्रत्यक्षेण वा अनुमानेन वा उपलभामहे; धीरेव हि चित्स्वरूपावभासकत्वेन स्वाकारा विषयाकारा च; तस्मात् नानुमानतः नापि प्रत्यक्षतः धियोऽवभासकं ज्योतिः शक्यते प्रतिपादयितुं व्यतिरिक्तम्। यदपि दृष्टान्तरूपमभिहितम् – अवभास्यावभासकयोर्भिन्नयोरेव घटाद्यालोकयोः संयुक्तयोः सादृश्यमिति – तत्र अभ्युपगममात्रमस्माभिरुक्तम्; न तु तत्र घटाद्यवभास्यावभासकौ भिन्नौ; परमार्थतस्तु घटादिरेव अवभासात्मकः सालोकः; अन्यः अन्यः हि घटादिरुत्पद्यते; विज्ञानमात्रमेव सालोकघटादिविषयाकारमवभासते; यदा एवम्, तदा न बाह्यो दृष्टान्तोऽस्ति, विज्ञानस्वलक्षणमात्रत्वात्सर्वस्य। एवं तस्यैव विज्ञानस्य ग्राह्यग्राहकाकारताम् अलं परिकल्प्य, तस्यैव पुनर्विशुद्धिं परिकल्पयन्ति। तत् ग्राह्यग्राहकविनिर्मुक्तं विज्ञानं स्वच्छीभूतं क्षणिकं व्यवतिष्ठत इति केचित्। तस्यापि शान्तिं केचिदिच्छन्ति; तदपि विज्ञानं संवृतं ग्राह्यग्राहकांशविनिर्मुक्तं शून्यमेव घटादिबाह्यवस्तुवत् इत्यपरे माध्यमिका आचक्षते।
सर्वा एताः कल्पनाः बुद्धिविज्ञानावभासकस्य व्यतिरिक्तस्य आत्मज्योतिषोऽपह्नवात् अस्य श्रेयोमार्गस्य प्रतिपक्षभूता वैदिकस्य। तत्र येषां बाह्योऽर्थः अस्ति, तान्प्रत्युच्यते – न तावत् स्वात्मावभासकत्वं घटादेः; तमसि अवस्थितः घटादिस्तावत् न कदाचिदपि स्वात्मना अवभास्यते, प्रदीपाद्यालोकसंयोगेन तु नियमेनैवावभास्यमानो दृष्टः सालोको घट इति – संश्लिष्टयोरपि घटालोकयोः अन्यत्वमेव, पुनः पुनः संश्लेषे विश्लेषे च विशेषदर्शनात्, रज्जुघटयोरिव; अन्यत्वे च व्यतिरिक्तावभासकत्वम्; न स्वात्मनैव स्वमात्मानमवभासयति। ननु प्रदीपः स्वात्मानमेव अवभासयन् दृष्ट इति – न हि घटादिवत् प्रदीपदर्शनाय प्रकाशान्तरम् उपाददते लौकिकाः; तस्मात् प्रदीपः स्वात्मानं प्रकाशयति – न, अवभास्यत्वाविशेषात् – यद्यपि प्रदीपः अन्यस्यावभासकः स्वयमवभासात्मकत्वात्, तथापि व्यतिरिक्तचैतन्यावभास्यत्वं न व्यभिचरति, घटादिवदेव; यदा चैवम्, तदा व्यतिरिक्तावभास्यत्वं तावत् अवश्यम्भावि। ननु यथा घटः चैतन्यावभास्यत्वेऽपि व्यतिरिक्तमालोकान्तरमपेक्षते, न त्वेवं प्रदीपः अन्यमालोकान्तरमपेक्षते; तस्मात् प्रदीपः अन्यावभास्योऽपि सन् आत्मानं घटं च अवभासयति – न, स्वतः परतो वा विशेषाभावात् – यथा चैतन्यावभास्यत्वं घटस्य, तथा प्रदीपस्यापि चैतन्यावभास्यत्वमविशिष्टम्। यत्तूच्यते, प्रदीप आत्मानं घटं चावभासयतीति, तदसत्; कस्मात्? यदा आत्मानं नावभासयति, तदा कीदृशः स्यात्; न हि तदा प्रदीपस्य स्वतो वा परतो वा विशेषः कश्चिदुपलभ्यते; स हि अवभास्यो भवति, यस्यावभासकसन्निधौ असन्निधौ च विशेष उपलभ्यते; न हि प्रदीपस्य स्वात्मसन्निधिः असन्निधिर्वा शक्यः कल्पयितुम्; असति च कादाचित्के विशेषे, आत्मानं प्रदीपः प्रकाशयतीति मृषैवोच्यते। चैतन्यग्राह्यत्वं तु घटादिभिरविशिष्टं प्रदीपस्य। तस्माद् विज्ञानस्य आत्मग्राह्यग्राहकत्वे न प्रदीपो दृष्टान्तः। चैतन्यग्राह्यत्वं च विज्ञानस्य बाह्यविषयैः अविशिष्टम्; चैतन्यग्राह्यत्वे च विज्ञानस्य, किं ग्राह्यविज्ञानग्राह्यतैव किं वा ग्राहकविज्ञानग्राह्यतेति तत्र सन्दिह्यमाने वस्तुनि, योऽन्यत्र दृष्टो न्यायः, स कल्पयितुं युक्तः, न तु दृष्टविपरीतः; तथा च सति यथा व्यतिरिक्तेनैव ग्राहकेण बाह्यानां प्रदीपानां ग्राह्यत्वं दृष्टम्, तथा विज्ञानस्यापि चैतन्यग्राह्यत्वात् प्रकाशकत्वे सत्यपि प्रदीपवत् व्यतिरिक्तचैतन्यग्राह्यत्वं युक्तं कल्पयितुम्, न तु अनन्यग्राह्यत्वम्; यश्चान्यः विज्ञानस्य ग्रहीता, स आत्मा ज्योतिरन्तरं विज्ञानात्। तदा अनवस्थेति चेत्, न; ग्राह्यत्वमात्रं हि तद्ग्राहकस्य वस्त्वन्तरत्वे लिङ्गमुक्तं न्यायतः; न तु एकान्ततो ग्राहकत्वे तद्ग्राहकान्तरास्तित्वे वा कदाचिदपि लिङ्गं सम्भवति; तस्मात् न तदनवस्थाप्रसङ्गः। विज्ञानस्य व्यतिरिक्तग्राह्यत्वे करणान्तरापेक्षायाम् अनवस्थेति चेत्, न, नियमाभावात् – न हि सर्वत्र अयं नियमो भवति; यत्र वस्त्वन्तरेण गृह्यते वस्त्वन्तरम्, तत्र ग्राह्यग्राहकव्यतिरिक्तं करणान्तरं स्यादिति नैकान्तेन नियन्तुं शक्यते, वैचित्र्यदर्शनात्; कथम्? घटस्तावत् स्वात्मव्यतिरिक्तेन आत्मना गृह्यते; तत्र प्रदीपादिरालोकः ग्राह्यग्राहकव्यतिरिक्तं करणम्; न हि प्रदीपाद्यालोकः घटांशः चक्षुरंशो वा; घटवत् चक्षुर्ग्राह्यत्वेऽपि प्रदीपस्य, चक्षुः प्रदीपव्यतिरेकेण न बाह्यमालोकस्थानीयं किञ्चित्करणान्तरमपेक्षते; तस्मात् नैव नियन्तुं शक्यते – यत्र यत्र व्यतिरिक्तग्राह्यत्वं तत्र तत्र करणान्तरं स्यादेवेति। तस्मात् विज्ञानस्य व्यतिरिक्तग्राहकग्राह्यत्वे न करणद्वारा अनवस्था, नापि ग्राहकत्वद्वारा कदाचिदपि उपपादयितुं शक्यते। तस्मात् सिद्धं विज्ञानव्यतिरिक्तमात्मज्योतिरन्तरमिति। ननु नास्त्येव बाह्योऽर्थः घटादिः प्रदीपो वा विज्ञानव्यतिरिक्तः; यद्धि यद्व्यतिरेकेण नोपलभ्यते, तत् तावन्मात्रं वस्तु दृष्टम् – यथा स्वप्नविज्ञानग्राह्यं घटपटादिवस्तु; स्वप्नविज्ञानव्यतिरेकेणानुपलम्भात् स्वप्नघटप्रदीपादेः स्वप्नविज्ञानमात्रता अवगम्यते, तथा जागरितेऽपि घटप्रदीपादेः जाग्रद्विज्ञानव्यतिरेकेण अनुपलम्भात् जाग्रद्विज्ञानमात्रतैव युक्ता भवितुम्; तस्मात् नास्ति बाह्योऽर्थः घटप्रदीपादिः, विज्ञानमात्रमेव तु सर्वम्; तत्र यदुक्तम्, विज्ञानस्य व्यतिरिक्तावभास्यत्वात् विज्ञानव्यतिरिक्तमस्ति ज्योतिरन्तरं घटादेरिवेति, तन्मिथ्या, सर्वस्य विज्ञानमात्रत्वे दृष्टान्ताभावात्। न, यावत् तावदभ्युपगमात् – न तु बाह्योऽर्थः भवता एकान्तेनैव नाभ्युपगम्यते; ननु मया नाभ्युपगम्यत एव – न, विज्ञानं घटः प्रदीप इति च शब्दार्थपृथक्त्वात् यावत्, तावदपि बाह्यमर्थान्तरम् अवश्यमभ्युपगन्तव्यम्; विज्ञानादर्थान्तरं वस्तु न चेदभ्युपगम्यते, विज्ञानं घटः पट इत्येवमादीनां शब्दानाम् एकार्थत्वे पर्यायशब्दत्वं प्राप्नोति; तथा साधनानां फलस्य च एकत्वे, साध्यसाधनभेदोपदेशशास्त्रानर्थक्यप्रसङ्गः; तत्कर्तुः अज्ञानप्रसङ्गो वा। किञ्चान्यत् – विज्ञानव्यतिरेकेण वादिप्रतिवादिवाददोषाभ्युपगमात्; न हि आत्मविज्ञानमात्रमेव वादिप्रतिवादिवादः तद्दोषो वा अभ्युपगम्यते, निराकर्तव्यत्वात्, प्रतिवाद्यादीनाम्; न हि आत्मीयं विज्ञानं निराकर्तव्यमभ्युपगम्यते, स्वयं वा आत्मा कस्यचित्; तथा च सति सर्वसंव्यवहारलोपप्रसङ्गः; न च प्रतिवाद्यादयः स्वात्मनैव गृह्यन्त इत्यभ्युपगमः; व्यतिरिक्तग्राह्या हि ते अभ्युपगम्यन्ते; तस्मात् तद्वत् सर्वमेव व्यतिरिक्तग्राह्यं वस्तु, जाग्रद्विषयत्वात्, जाग्रद्वस्तुप्रतिवाद्यादिवत् – इति सुलभो दृष्टान्तः – सन्तत्यन्तरवत्, विज्ञानान्तरवच्चेति। तस्मात् विज्ञानवादिनापि न शक्यं विज्ञानव्यतिरिक्तं ज्योतिरन्तरं निराकर्तुम्। स्वप्ने विज्ञानव्यतिरेकाभावात् अयुक्तमिति चेत्, न, अभावादपि भावस्य वस्त्वन्तरत्वोपपत्तेः – भवतैव तावत् स्वप्ने घटादिविज्ञानस्य भावभूतत्वमभ्युपगतम्; तत् अभ्युपगम्य तद्व्यतिरेकेण घटाद्यभाव उच्यते; स विज्ञानविषयो घटादिः यद्यभावः यदि वा भावः स्यात्, उभयथापि घटादिविज्ञानस्य भावभूतत्वमभ्युपगतमेव; न तु तत् निवर्तयितुं शक्यते, तन्निवर्तकन्यायाभावात्। एतेन सर्वस्य शून्यता प्रत्युक्ता। प्रत्यगात्मग्राह्यता च आत्मनः अहमिति मीमांसकपक्षः प्रत्युक्तः।
यत्तूक्तम्, सालोकः अन्यश्च अन्यश्च घटो जायत इति, तदसत्, क्षणान्तरेऽपि स एवायं घट इति प्रत्यभिज्ञानात्। सादृश्यात् प्रत्यभिज्ञानं कृत्तोत्थितकेशनखादिष्विवेति चेत्, न, तत्रापि क्षणिकत्वस्य असिद्धत्वात्, जात्येकत्वाच्च। कृत्तेषु पुनरुत्थितेषु च केशनखादिषु केशनखत्वजातेरेकत्वात् केशनखत्वप्रत्ययः तन्निमित्तः अभ्रान्त एव; न हि दृश्यमानलूनोत्थितकेशनखादिषु व्यक्तिनिमित्तः स एवेति प्रत्ययो भवति; कस्यचित् दीर्घकालव्यवहितदृष्टेषु च तुल्यपरिमाणेषु, तत्कालीनवालादितुल्या इमे केशनखाद्या इति प्रत्ययो भवति, न तु त एवेति; घटादिषु पुनर्भवति स एवेति प्रत्ययः; तस्मात् न समो दृष्टान्तः। प्रत्यक्षेण हि प्रत्यभिज्ञायमाने वस्तुनि तदेवेति, न च अन्यत्वम् अनुमातुं युक्तम्, प्रत्यक्षविरोधे लिङ्गस्य आभासत्वोपपत्तेः। सादृश्यप्रत्ययानुपपत्तेश्च, ज्ञानस्य क्षणिकत्वात्; एकस्य हि वस्तुदर्शिनः वस्त्वन्तरदर्शने सादृश्यप्रत्ययः स्यात्; न तु वस्तुदर्शी एकः वस्त्वन्तरदर्शनाय क्षणान्तरमवतिष्ठते, विज्ञानस्य क्षणिकत्वात् सकृद्वस्तुदर्शनेनैव क्षयोपपत्तेः। तेन इदं सदृशमिति हि सादृश्यप्रत्ययो भवति; तेनेति दृष्टस्मरणम्, इदमिति वर्तमानप्रत्ययः; तेनेति दृष्टं स्मृत्वा, यावत् इदमिति वर्तमानक्षणकालम् अवतिष्ठेत, ततः क्षणिकवादहानिः; अथ तेनेत्येव उपक्षीणः स्मार्तः प्रत्ययः, इदमिति च अन्य एव वार्तमानिकः प्रत्ययः क्षीयते, ततः सादृश्यप्रत्ययानुपपत्तेः – तेनेदं सदृशमिति, अनेकदर्शिनः एकस्य अभावात्; व्यपदेशानुपपत्तिश्च – द्रष्टव्यदर्शनेनैव उपक्षयाद्विज्ञानस्य, इदं पश्यामि अदोऽद्राक्षमिति व्यपदेशानुपपत्तिः, दृष्टवतो व्यपदेशक्षणानवस्थानात्; अथ अवतिष्ठेत, क्षणिकवादहानिः; अथ अदृष्टवतो व्यपदेशः सादृश्यप्रत्ययश्च, तदानीं जात्यन्धस्येव रूपविशेषव्यपदेशः तत्सादृश्यप्रत्ययश्च सर्वमन्धपरम्परेति प्रसज्येत सर्वज्ञशास्त्रप्रणयनादि; न चैतदिष्यते। अकृताभ्यागमकृतविप्रणाशदोषौ तु प्रसिद्धतरौ क्षणवादे। दृष्टव्यपदेशहेतुः पूर्वोत्तरसहित एक एव हि शृङ्खलावत् प्रत्ययो जायत इति चेत्, तेनेदं सदृशमिति च – न, वर्तमानातीतयोः भिन्नकालत्वात् – तत्र वर्तमानप्रत्यय एकः शृङ्खलावयवस्थानीयः, अतीतश्चापरः, तौ प्रत्ययौ भिन्नकालौ; तदुभयप्रत्ययविषयस्पृक् चेत् शृङ्खलाप्रत्ययः, ततः क्षणद्वयव्यापित्वादेकस्य विज्ञानस्य पुनः क्षणवादहानिः। ममतवतादिविशेषानुपपत्तेश्च सर्वसंव्यवहारलोपप्रसङ्गः।
सर्वस्य च स्वसंवेद्यविज्ञानमात्रत्वे, विज्ञानस्य च स्वच्छावबोधावभासमात्रस्वाभाव्याभ्युपगमात्, तद्दर्शिनश्चान्यस्याभावे, अनित्यदुःखशून्यानात्मत्वाद्यनेककल्पनानुपपत्तिः। न च दाडिमादेरिव विरुद्धानेकांशवत्त्वं विज्ञानस्य, स्वच्छावभासस्वाभाव्याद्विज्ञानस्य। अनित्यदुःखादीनां विज्ञानांशत्वे च सति अनुभूयमानत्वात् व्यतिरिक्तविषयत्वप्रसङ्गः। अथ अनित्यदुःखाद्यात्मैकत्वमेव विज्ञानस्य, तदा तद्वियोगात् विशुद्धिकल्पनानुपपत्तिः; संयोगिमलवियोगाद्धि विशुद्धिर्भवति, यथा आदर्शप्रभृतीनाम्; न तु स्वाभाविकेन धर्मेण कस्यचिद्वियोगो दृष्टः; न हि अग्नेः स्वाभाविकेन प्रकाशेन औष्ण्येन वा वियोगो दृष्टः; यदपि पुष्पगुणानां रक्तत्वादीनां द्रव्यान्तरयोगेन वियोजनं दृश्यते, तत्रापि संयोगपूर्वत्वमनुमीयते – बीजभावनया पुष्पफलादीनां गुणान्तरोत्पत्तिदर्शनात्; अतः विज्ञानस्य विशुद्धिकल्पनानुपपत्तिः। विषयविषय्याभासत्वं च यत् मलं परिकल्प्यते विज्ञानस्य, तदपि अन्यसंसर्गाभावात् अनुपपन्नम्; न हि अविद्यमानेन विद्यमानस्य संसर्गः स्यात्; असति च अन्यसंसर्गे, यो धर्मो यस्य दृष्टः, स तत्स्वभावत्वात् न तेन वियोगमर्हति – यथा अग्नेरौष्ण्यम्, सवितुर्वा प्रभा; तस्मात् अनित्यसंसर्गेण मलिनत्वं तद्विशुद्धिश्च विज्ञानस्येति इयं कल्पना अन्धपरम्परैव प्रमाणशून्येत्यवगम्यते। यदपि तस्य विज्ञानस्य निर्वाणं पुरुषार्थं कल्पयन्ति, तत्रापि फलाश्रयानुपपत्तिः; कण्टकविद्धस्य हि कण्टकवेधजनितदुःखनिवृत्तिः फलम्; न तु कण्टकविद्धमरणे तद्दुःखनिवृत्तिफलस्य आश्रय उपपद्यते; तद्वत् सर्वनिर्वाणे, असति च फलाश्रये, पुरुषार्थकल्पना व्यर्थैव; यस्य हि पुरुषशब्दवाच्यस्य सत्त्वस्य आत्मनो विज्ञानस्य च अर्थः परिकल्प्यते, तस्य पुनः पुरुषस्य निर्वाणे, कस्यार्थः पुरुषार्थ इति स्यात्। यस्य पुनः अस्ति अनेकार्थदर्शी विज्ञानव्यतिरिक्त आत्मा, तस्य दृष्टस्मरणदुःखसंयोगवियोगादि सर्वमेव उपपन्नम्, अन्यसंयोगनिमित्तं कालुष्यम्, तद्वियोगनिमित्ता च विशुद्धिरिति। शून्यवादिपक्षस्तु सर्वप्रमाणविप्रतिषिद्ध इति तन्निराकरणाय न आदरः क्रियते॥
🔗  यथैव इह एकस्मिन्देहे स्वप्नो भूत्वा मृत्यो रूपाणि कार्यकरणानि अतिक्रम्य स्वप्ने स्वे आत्मज्योतिषि आस्ते, एवं स वै प्रकृतः पुरुषः अयं जायमानः – कथं जायमान इत्युच्यते – शरीरं देहेन्द्रियसङ्घातम् अभिसम्पद्यमानः, शरीरे आत्मभावमापद्यमान इत्यर्थः, पाप्मभिः पाप्मसमवायिभिर्धर्माधर्माश्रयैः कार्यकरणैरित्यर्थः, संसृज्यते संयुज्यते; एव उत्क्रामन् शरीरान्तरम् ऊर्ध्वं क्रामन् गच्छन् म्रियमाणः इत्येतस्य व्याख्यानमुत्क्रामन्निति, तानेव संश्लिष्टान् पाप्मरूपान् कार्यकरणलक्षणान्, विजहाति तैर्वियुज्यते, तान्परित्यजति। यथा अयं स्वप्नजाग्रद्वृत्त्योः वर्तमाने एव एकस्मिन्देहे पाप्मरूपकार्यकरणोपादानपरित्यागाभ्याम् अनवरतं सञ्चरति धिया समानः सन्, तथा सोऽयं पुरुषः उभाविहलोकपरलोकौ, जन्ममरणाभ्यां कार्यकरणोपादानपरित्यागौ अनवरतं प्रतिपद्यमानः, आ संसारमोक्षात् सञ्चरति। तस्मात् सिद्धम् अस्य आत्मज्योतिषः अन्यत्वं कार्यकरणरूपेभ्यः पाप्मभ्यः, संयोगवियोगाभ्याम्; न हि तद्धर्मत्वे सति, तैरेव संयोगः वियोगो वा युक्तः॥
🔗  ननु न स्तः, अस्य उभौ लोकौ, यौ जन्ममरणाभ्यामनुक्रमेण सञ्चरति स्वप्नजागरिते इव; स्वप्नजागरिते तु प्रत्यक्षमवगम्येते, न त्विहलोकपरलोकौ केनचित्प्रमाणेन; तस्मात् एते एव स्वप्नजागरिते इहलोकपरलोकाविति। उच्यते –
तस्य एतस्य पुरुषस्य वै द्वे एव स्थाने भवतः, न तृतीयं चतुर्थं वा; के ते? इदं च यत् प्रतिपन्नं वर्तमानं जन्म शरीरेन्द्रियविषयवेदनाविशिष्टं स्थानं प्रत्यक्षतोऽनुभूयमानम्, परलोक एव स्थानम् परलोकस्थानम् – तच्च शरीरादिवियोगोत्तरकालानुभाव्यम्। ननु स्वप्नोऽपि परलोकः; तथा च सति द्वे एवेत्यवधारणमयुक्तम् – न; कथं तर्हि? सन्ध्यं तत् – इहलोकपरलोकयोर्यः सन्धिः तस्मिन्भवं सन्ध्यम्, यत् तृतीयं तत् स्वप्नस्थानम्; तेन स्थानद्वित्वावधारणम्; न हि ग्रामयोः सन्धिः तावेव ग्रामावपेक्ष्य तृतीयत्वपरिगणनमर्हति। कथं पुनः तस्य परलोकस्थानस्य अस्तित्वमवगम्यते, यदपेक्ष्य स्वप्नस्थानं सन्ध्यं भवेत् – यतः तस्मिन्सन्ध्ये स्वप्न-स्थाने तिष्ठन् भवन् वर्तमानः एते उभे स्थाने पश्यति; के ते उभे? इदं च परलोकस्थानं च। तस्मात् स्तः स्वप्नजागरितव्यतिरेकेण उभौ लोकौ, यौ धिया समानः सन् अनुसञ्चरति जन्ममरणसन्तानप्रबन्धेन। कथं पुनः स्वप्ने स्थितः सन् उभौ लोकौ पश्यति, किमाश्रयः केन विधिना – इत्युच्यते – अथ कथं पश्यतीति शृणु – यथाक्रमः आक्रामति अनेन इत्याक्रमः आश्रयः अवष्टम्भ इत्यर्थः; यादृशः आक्रमोऽस्य, सोऽयं यथाक्रमः; अयं पुरुषः, परलोकस्थाने प्रतिपत्तव्ये निमित्ते, यथाक्रमो भवति यादृशेन परलोकप्रतिपत्तिसाधनेन विद्याकर्मपूर्वप्रज्ञालक्षणेन युक्तो भवतीत्यर्थः; तम् आक्रमम् परलोकस्थानायोन्मुखीभूतं प्राप्ताङ्कुरीभावमिव बीजं तमाक्रमम् आक्रम्य अवष्टभ्य आश्रित्य उभयान्पश्यति – बहुवचनं धर्माधर्मफलानेकत्वात् – उभयान् उभयप्रकारानित्यर्थः; कांस्तान्? पाप्मनः पापफलानि – न तु पुनः साक्षादेव पाप्मनां दर्शनं सम्भवति, तस्मात् पापफलानि दुःखानीत्यर्थः – आनन्दांश्च धर्मफलानि सुखानीत्येतत् – तानुभयान् पाप्मनः आनन्दांश्च पश्यति जन्मान्तरदृष्टवासनामयान्; यानि च प्रतिपत्तव्यजन्मविषयाणि क्षुद्रधर्माधर्मफलानि, धर्माधर्मप्रयुक्तो देवतानुग्रहाद्वा पश्यति। तत्कथमवगम्यते परलोकस्थानभावितत्पाप्मानन्ददर्शनं स्वप्ने – इत्युच्यते – यस्मात् इह जन्मनि अननुभाव्यमपि पश्यति बहु; न च स्वप्नो नाम अपूर्वं दर्शनम्; पूर्वदृष्टस्मृतिर्हि स्वप्नः प्रायेण; तेन स्वप्नजागरितस्थानव्यतिरेकेण स्तः उभौ लोकौ। यत् आदित्यादिबाह्यज्योतिषामभावे अयं कार्यकरणसङ्घातः पुरुषः येन व्यतिरिक्तेन आत्मना ज्योतिषा व्यवहरतीत्युक्तम् – तदेव नास्ति, यत् आदित्यादिज्योतिषामभावगमनम्, यत्र इदं विविक्तं स्वयञ्ज्योतिः उपलभ्येत; येन सर्वदैव अयं कार्यकरणसङ्घातः संसृष्ट एवोपलभ्यते; तस्मात् असत्समः असन्नेव वा स्वेन विविक्तस्वभावेन ज्योतीरूपेण आत्मेति। अथ क्वचित् विविक्तः स्वेन ज्योतीरूपेण उपलभ्येत बाह्याध्यात्मिकभूतभौतिकसंसर्गशून्यः, ततः यथोक्तं सर्वं भविष्यतीत्येतदर्थमाह – सः यः प्रकृत आत्मा, यत्र यस्मिन्काले, प्रस्वपिति प्रकर्षेण स्वापमनुभवति; तदा किमुपादानः केन विधिना स्वपिति सन्ध्यं स्थानं प्रतिपद्यत इत्युच्यते – अस्य दृष्टस्य लोकस्य जागरितलक्षणस्य, सर्वावतः सर्वमवतीति सर्वावान् अयं लोकः कार्यकरणसङ्घातः विषयवेदनासंयुक्तः; सर्वावत्त्वम् अस्य व्याख्यातम् अन्नत्रयप्रकरणे ‘अथो अयं वा आत्मा’ (BrhU.1.4.16) इत्यादिना – सर्वा वा भूतभौतिकमात्राः अस्य संसर्गकारणभूता विद्यन्त इति सर्ववान्, सर्ववानेव सर्वावान्, तस्य सर्वावतः मात्राम् एकदेशम् अवयवम्, अपादाय अपच्छिद्य आदाय गृहीत्वा – दृष्टजन्मवासनावासितः सन्नित्यर्थः, स्वयम् आत्मनैव विहत्य देहं पातयित्वा निःसम्बोधमापाद्य – जागरिते हि आदित्यादीनां चक्षुरादिष्वनुग्रहो देहव्यवहारार्थः, देहव्यवहारश्च आत्मनो धर्माधर्मफलोपभोगप्रयुक्तः, तद्धर्माधर्मफलोपभोगोपरमणम् अस्मिन्देहे आत्मकर्मोपरमकृतमिति आत्मा अस्य विहन्तेत्युच्यते – स्वयं निर्माय निर्माणं कृत्वा वासनामयं स्वप्नदेहं मायामयमिव, निर्माणमपि तत्कर्मापेक्षत्वात् स्वयङ्कर्तृकमुच्यते – स्वेन आत्मीयेन, भासा मात्रोपादानलक्षणेन भासा दीप्त्या प्रकाशेन, सर्ववासनात्मकेन अन्तःकरणवृत्तिप्रकाशेनेत्यर्थः – सा हि तत्र विषयभूता सर्ववासनामयी प्रकाशते, सा तत्र स्वयं भा उच्यते – तेन स्वेन भासा विषयभूतेन, स्वेनज्योतिषा तद्विषयिणा विविक्तरूपेण अलुप्तदृक्स्वभावेन तद्भारूपं वासनात्मकं विषयीकुर्वन् प्रस्वपिति। यत् एवं वर्तनम्, तत् प्रस्वपितीत्युच्यते। अत्र एतस्यामवस्थायाम् एतस्मिन्काले, अयं पुरुषः आत्मा, स्वयम् एव विविक्त-ज्योतिः भवति बाह्याध्यात्मिकभूतभौतिकसंसर्गरहितं ज्योतिः भवति। ननु अस्य लोकस्य मात्रोपादानं कृतम्, कथं तस्मिन् सति अत्रायं पुरुषः स्वयं ज्योतिर्भवतीत्युच्यते? नैष दोषः; विषयभूतमेव हि तत्; तेनैव च अत्र अयं पुरुषः स्वयं ज्योतिः दर्शयितुं शक्यः; न तु अन्यथा असति विषये कस्मिंश्चित् सुषुप्तकाल इव; यदा पुनः सा भा वासनात्मिका विषयभूता उपलभ्यमाना भवति, तदा असिः कोशादिव निष्कृष्टः सर्वसंसर्गरहितं चक्षुरादिकार्यकरणव्यावृत्तस्वरूपम् अलुप्तदृक् आत्मज्योतिः स्वेन रूपेण अवभासयत् गृह्यते। तेन अत्रायं पुरुषः स्वयं ज्योतिर्भवतीति सिद्धम्॥
🔗  ननु अत्र कथं पुरुषः स्वयं ज्योतिः? येन जागरित इव ग्राह्यग्राहकादिलक्षणः सर्वो व्यवहारो दृश्यते, चक्षुराद्यनुग्राहकाश्च आदित्याद्यालोकाः तथैव दृश्यन्ते यथा जागरिते – तत्र कथं विशेषावधारणं क्रियते – अत्र अयं पुरुषः स्वयं ज्योतिर्भवतीति। उच्यते – वैलक्षण्यात् स्वप्नदर्शनस्य; जागरिते हि इन्द्रियबुद्धिमनआलोकादिव्यापारसङ्कीर्णमात्मज्योतिः; इह तु स्वप्ने इन्द्रियाभावात् तदनुग्राहकादित्याद्यालोकाभावाच्च विविक्तं केवलं भवति तस्माद्विलक्षणम्। ननु तथैव विषया उपलभ्यन्ते स्वप्नेऽपि, यथा जागरिते; तत्र कथम् इन्द्रियाभावात् वैलक्षण्यमुच्यत इति। शृणु –
न तत्र विषयाः स्वप्ने रथादि-लक्षणाः; तथा न रथयोगाः, रथेषु युज्यन्त इति रथयोगाः अश्वादयः तत्र न विद्यन्ते; पन्थानः रथमार्गाः भवन्तिअथ रथान् रथयोगान् पथःसृजते स्वयम्। कथं पुनः सृजते रथादिसाधनानां वृक्षादीनामभावे। उच्यते – ननु उक्तम् ‘अस्य लोकस्य सर्वावतो मात्रामपादाय स्वयं विहत्य स्वयं निर्माय’ इति; अन्तःकरणवृत्तिः अस्य लोकस्य वासना मात्रा, तामपादाय, रथादिवासनारूपान्तःकरणवृत्तिः तदुपलब्धिनिमित्तेन कर्मणा चोद्यमाना दृश्यत्वेन व्यवतिष्ठते; तदुच्यते – स्वयं निर्मायेति; तदेव आह – रथादीन्सृजत इति; न तु तत्र करणं वा, करणानुग्राहकाणि वा आदित्यादिज्योतींषि, तदवभास्या वा रथादयो विषयाः विद्यन्ते; तद्वासनामात्रं तु केवलं तदुपलब्धिकर्मनिमित्तचोदितोद्भूतान्तःकरणवृत्त्याश्रय दृश्यते। तत् यस्य ज्योतिषो दृश्यते अलुप्तदृशः, तत् आत्मज्योतिः अत्र केवलम् असिरिव कोशात् विविक्तम्। तथा तत्र आनन्दाः सुखविशेषाः, मुदः हर्षाः पुत्रादिलाभनिमित्ताः, प्रमुदः ते एव प्रकर्षोपेताः; अथआनन्दादीन् सृजते। तथा न तत्र वेशान्ताः पल्वलाः, पुष्करिण्यः तडागाः, स्रवन्त्यः नद्यः भवन्ति; अथ वेशान्तादीन्सृजते वासनामात्ररूपान्। यस्मात् सः हि कर्ता; तद्वासनाश्रयचित्तवृत्त्युद्भवनिमित्तकर्महेतुत्वेनेति अवोचाम तस्य कर्तृत्वम्; न तु साक्षादेव तत्र क्रिया सम्भवति, साधनाभावात्; न हि कारकमन्तरेण क्रिया सम्भवति; न च तत्र हस्तपादादीनि क्रियाकारकाणि सम्भवन्ति; यत्र तु तानि विद्यन्ते जागरिते, तत्र आत्मज्योतिरवभासितैः कार्यकरणैः रथादिवासनाश्रयान्तःकरणवृत्त्युद्भवनिमित्तं कर्म निर्वर्त्यते; तेनोच्यते – स हि कर्तेति; तदुक्तम् ‘आत्मनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते’ (BrhU.4.3.6) इति; तत्रापि न परमार्थतः स्वतः कर्तृत्वं चैतन्यज्योतिषः अवभासकत्वव्यतिरेकेण – यत् चैतन्यात्मज्योतिषा अन्तःकरणद्वारेण अवभासयति कार्यकरणानि, तदवभासितानि कर्मसु व्याप्रियन्ते कार्यकरणानि, तत्र कर्तृत्वमुपचर्यते आत्मनः। यदुक्तम् ‘ध्यायतीव लेलायतीव’ (BrhU.4.3.7) इति, तदेव अनूद्यते – स हि कर्तेति इह हेत्वर्थम्॥
🔗  तद् एते – एतस्मिन् उक्तेऽर्थे एते श्लोकाः मन्त्राः भवन्तिस्वप्नेन स्वप्नभावेन, शारीरम् शरीरम्, अभिप्रहत्य निश्चेष्टमापाद्य असुप्तः स्वयम् अलुप्तदृगादिशक्तिस्वाभाव्यात्, सुप्तान् वासनाकारोद्भूतान् अन्तःकरणवृत्त्याश्रयान् बाह्याध्यात्मिकान् सर्वानेव भावान् स्वेन रूपेण प्रत्यस्तमितान् सुप्तान्, अभिचाकशीति अलुप्तया आत्मदृष्ट्या पश्यति अवभासयतीत्यर्थः। शुक्रम् शुद्धं ज्योतिष्मदिन्द्रियमात्रारूपम्, आदाय गृहीत्वा, पुनः कर्मणे जागरितस्थानम् ऐति आगच्छति, हिरण्मयः हिरण्मय इव चैतन्यज्योतिःस्वभावः, पुरुषः, एकहंसः एक एव हन्तीत्येकहंसः – एकः जाग्रत्स्वप्नेहलोकपरलोकादीन् गच्छतीत्येकहंसः॥
🔗  तथा प्राणेन पञ्चवृत्तिना, रक्षन् परिपालयन् – अन्यथा मृतभ्रान्तिः स्यात्, अवरम् निकृष्टम् अनेकाशुचिसङ्घातत्वादत्यन्तबीभत्सम्, कुलायं नीडं शरीरम्, स्वयं तु बहिः तस्मात् कुलायात्, चरित्वा – यद्यपि शरीरस्थ एव स्वप्नं पश्यति तथापि तत्सम्बन्धाभावात् तत्स्थ इव आकाशः बहिश्चरित्वेत्युच्यते, अमृतः स्वयममरणधर्मा, ईयते गच्छति, यत्र कामम् – यत्र यत्र कामः विषयेषु उद्भूतवृत्तिर्भवति तं तं कामं वासनारूपेण उद्भूतं गच्छति॥
🔗  किञ्च स्वप्नान्ते स्वप्नस्थाने, उच्चावचम् – उच्चं देवादिभावम् अवचं तिर्यगादिभावं निकृष्टम् तदुच्चावचम्, ईयमानः गम्यमानः प्राप्नुवन्, रूपाणि, देवः द्योतनावान्, कुरुते निर्वर्तयति वासनारूपाणि बहूनि असङ्ख्येयानि। उत अपि, स्त्रीभिः सह मोदमानः इव, जक्षत् इव हसन्निव वयस्यैः, उत इव अपि भयानि – बिभेति एभ्य इति भयानि सिंहव्याघ्रादीनि, पश्यन् इव॥
🔗  आरामम् आरमणम् आक्रीडाम् अनेन निर्मितां वासनारूपाम् अस्य आत्मनः, पश्यन्ति सर्वे जनाः – ग्रामं नगरं स्त्रियम् अन्नाद्यमित्यादिवासनानिर्मितम् आक्रीडनरूपम्; न तं पश्यति तं न पश्यति कश्चन। कष्टं भोः! वर्तते अत्यन्तविविक्तं दृष्टिगोचरापन्नमपि – अहो भाग्यहीनता लोकस्य! यत् शक्यदर्शनमपि आत्मानं न पश्यति – इति लोकं प्रति अनुक्रोशं दर्शयति श्रुतिः। अत्यन्तविविक्तः स्वयं ज्योतिरात्मा स्वप्ने भवतीत्यभिप्रायः। तं नायतं बोधयेदित्याहुः – प्रसिद्धिरपि लोके विद्यते, स्वप्ने आत्मज्योतिषो व्यतिरिक्तत्वे; का असौ? तम् आत्मानं सुप्तम्, आयतम् सहसा भृशम्, न बोधयेत्इत्याहुः एवं कथयन्ति चिकित्सकादयो जना लोके; नूनं ते पश्यन्ति – जाग्रद्देहात् इन्द्रियद्वारतः अपसृत्य केवलो बहिर्वर्तत इति, यत आहुः – तं नायतं बोधयेदिति। तत्र च दोषं पश्यन्ति – भृशं हि असौ बोध्यमानः तानि इन्द्रियद्वाराणि सहसा प्रतिबोध्यमानः न प्रतिपद्यत इति; तदेतदाह – दुर्भिषज्यं हास्मै भवति यमेष न प्रतिपद्यते; यम् इन्द्रियद्वारदेशम् – यस्माद्देशात् शुक्रमादाय अपसृतः तम् इन्द्रियदेशम् – एषः आत्मा पुनः न प्रतिपद्यते, कदाचित् व्यत्यासेन इन्द्रियमात्राः प्रवेशयति, ततः आन्ध्यबाधिर्यादिदोषप्राप्तौ दुर्भिषज्यम् दुःखभिषक्कर्मता ह अस्मै देहाय भवति, दुःखेन चिकित्सनीयोऽसौ देहो भवतीत्यर्थः। तस्मात् प्रसिद्ध्यापि स्वप्ने स्वयञ्ज्योतिष्ट्वम् अस्य गम्यते। स्वप्नो भूत्वा अतिक्रान्तो मृत्यो रूपाणीति तस्मात् स्वप्ने स्वयं ज्योतिरात्मा। अथो अपि खलु अन्ये आहुःजागरितदेश एवास्य एषः, यः स्वप्नः – न सन्ध्यं स्थानान्तरम् इहलोकपरलोकाभ्यां व्यतिरिक्तम्, किं तर्हि इहलोक एव जागरितदेशः। यद्येवम्, किञ्च अतः? शृणु अतो यद्भवति – यदा जागरितदेश एवायं स्वप्नः, तदा अयमात्मा कार्यकरणेभ्यो न व्यावृत्तः तैर्मिश्रीभूतः, अतो न स्वयं ज्योतिरात्मा – इत्यतः स्वयञ्ज्योतिष्ट्वबाधनाय अन्ये आहुः – जागरितदेश एवास्यैष इति। तत्र च हेतुमाचक्षते – जागरितदेशत्वे यानि हि यस्मात् हस्त्यादीनि पदार्थजातानि, जाग्रत् जागरितदेशे, पश्यति लौकिकः, तान्येव सुप्तोऽपि पश्यति इति। तदसत्, इन्द्रियोपरमात्; उपरतेषु हि इन्द्रियेषु स्वप्नान्पश्यति; तस्मात् नान्यस्य ज्योतिषः तत्र सम्भवोऽस्ति; तदुक्तम् ‘न तत्र रथा न रथयोगाः’ (BrhU.4.3.10) इत्यादि; तस्मात् अत्रायं पुरुषः स्वयं ज्योतिर्भवति एव। स्वयं ज्योतिः आत्मा अस्तीति स्वप्ननिदर्शनेन प्रदर्शितम्, अतिक्रामति मृत्यो रूपाणीति च; क्रमेण सञ्चरन् इहलोकपरलोकादीन् इहलोकपरलोकादिव्यतिरिक्तः, तथा जाग्रत्स्वप्नकुलायाभ्यां व्यतिरिक्तः, तत्र च क्रमसञ्चारान्नित्यश्च – इत्येतत् प्रतिपादितं याज्ञवल्क्येन। अतः विद्यानिष्क्रयार्थं सहस्रं ददामीत्याह जनकः; सोऽहम् एवं बोधितः त्वया भगवते तुभ्यम् सहस्रं ददामि; विमोक्षश्च कामप्रश्नो मया अभिप्रेतः; तदुपयोगी अयं तादर्थ्यात् तदेकदेश एव; अतः त्वां नियोक्ष्यामि समस्तकामप्रश्ननिर्णयश्रवणेन – विमोक्षाय अत ऊर्ध्वं ब्रूहीति, येन संसारात् विप्रमुच्येयं त्वत्प्रसादात्। विमोक्षपदार्थैकदेशनिर्णयहेतोः सहस्रदानम्॥
🔗  यत् प्रस्तुतम् – आत्मनैवायं ज्योतिषास्ते इति, तत् प्रत्यक्षतः प्रतिपादितम् – ‘अत्रायं पुरुषः स्वयं ज्योतिर्भवति’ इति स्वप्ने। यत्तु उक्तम् – ‘स्वप्नो भूत्वेमं लोकमतिक्रामति मृत्यो रूपाणि’ (BrhU.4.3.7) इति, तत्र एतत् आशङ्क्यते – मृत्यो रूपाण्येव अतिक्रामति, न मृत्युम्; प्रत्यक्षं ह्येतत् स्वप्ने कार्यकरणव्यावृत्तस्यापि मोदत्रासादिदर्शनम्; तस्मात् नूनं नैवायं मृत्युमतिक्रामति; कर्मणो हि मृत्योः कार्यं मोदत्रासादि दृश्यते; यदि च मृत्युना बद्ध एव अयं स्वभावतः, ततः विमोक्षो नोपपद्यते; न हि स्वभावात्कश्चित् विमुच्यते; अथ स्वभावो न भवति मृत्युः, ततः तस्मात् मोक्ष उपपत्स्यते; यथा असौ मृत्युः आत्मीयो धर्मो न भवति, तथा प्रदर्शनाय – अत ऊर्ध्वं विमोक्षाय ब्रूहीत्येवं जनकेन पर्यनुयुक्तः याज्ञवल्क्यः तद्दिदर्शयिषया प्रववृते –
स वै प्रकृतः स्वयं ज्योतिः पुरुषः, एषः यः स्वप्ने प्रदर्शितः, एतस्मिन्सम्प्रसादे – सम्यक् प्रसीदति अस्मिन्निति सम्प्रसादः; जागरिते देहेन्द्रियव्यापारशतसन्निपातजं हित्वा कालुष्यं तेभ्यो विप्रमुक्तः ईषत् प्रसीदति स्वप्ने, इह तु सुषुप्ते सम्यक् प्रसीदति – इत्यतः सुषुप्तं सम्प्रसाद उच्यते; ‘तीर्णो हि तदा सर्वाञ्शोकान्’ (BrhU.4.3.22) इति ‘सलिल एको द्रष्टा’ (BrhU.4.3.31) इति हि वक्ष्यति सुषुप्तस्थम् आत्मानम् – स वै एषः एतस्मिन् सम्प्रसादे क्रमेण सम्प्रसन्नः सन् सुषुप्ते स्थित्वा; कथं सम्प्रसन्नः? स्वप्नात् सुषुप्तं प्रविविक्षुः स्वप्नावस्थ एव रत्वा रतिमनुभूय मित्रबन्धुजनदर्शनादिना, चरित्वा विहृत्य अनेकधा चरणफलं श्रममुपलभ्येत्यर्थः, दृष्ट्वैव न कृत्वेत्यर्थः, पुण्यं च पुण्यफलम्, पापं च पापफलम्; न तु पुण्यपापयोः साक्षाद्दर्शनमस्तीत्यवोचाम; तस्मात् न पुण्यपापाभ्यामनुबद्धः; यो हि करोति पुण्यपापे, स ताभ्यामनुबध्यते; न हि दर्शनमात्रेण तदनुबद्धः स्यात्। तस्मात् स्वप्नो भूत्वा मृत्युमतिक्रामत्येव, न मृत्युरूपाण्येव केवलम्। अतः न मृत्योः आत्मस्वभावत्वाशङ्का; मृत्युश्चेत् स्वभावोऽस्य, स्वप्नेऽपि कुर्यात्; न तु करोति; स्वभावश्चेत् क्रिया स्यात्; अनिर्मोक्षतैव स्यात्; न तु स्वभावः, स्वप्ने अभावात्, अतः विमोक्षः अस्य उपपद्यते मृत्योः पुण्यपापाभ्याम्। ननु जागरिते अस्य स्वभाव एव – न; बुद्ध्याद्युपाधिकृतं हि तत्; तच्च प्रतिपादितं सादृश्यात् ‘ध्यायतीव लेलायतीव’ (BrhU.4.3.7) इति। तस्मात् एकान्तेनैव स्वप्ने मृत्युरूपातिक्रमणात् न स्वाभाविकत्वाशङ्का अनिर्मोक्षता वा। तत्र ‘चरित्वा’ इति – चरणफलं श्रममुपलभ्येत्यर्थः, ततः सम्प्रसादानुभवोत्तरकालं पुनः प्रतिन्यायं यथान्यायं यथागतम् – निश्चित आयः न्यायः, अयनम् आयः निर्गमनम्, पुनः पूर्वगमनवैपरीत्येन यत् आगमनं स प्रतिन्यायः – यथागतं पुनरागच्छतीत्यर्थः। प्रतियोनि यथास्थानम्; स्वप्नस्थानाद्धि सुषुप्तं प्रतिपन्नः सन् यथास्थानमेव पुनरागच्छति – प्रतियोनि आद्रवति, स्वप्नायैव स्वप्नस्थानायैव। ननु स्वप्ने न करोति पुण्यपापे तयोः फलमेव पश्यतीति कथमवगम्यते? यथा जागरिते तथा करोत्येव स्वप्नेऽपि, तुल्यत्वाद्दर्शनस्य – इत्यत आह – सः आत्मा, यत् किञ्चित् तत्र स्वप्ने पश्यति पुण्यपापफलम्, अनन्वागतः अननुबद्धः तेन दृष्टेन भवति, नैव अनुबद्धो भवति; यदि हि स्वप्ने कृतमेव तेन स्यात्, तेन अनुबध्येत; स्वप्नादुत्थितोऽपि समन्वागतः स्यात्; न च तत् लोके – स्वप्नकृतकर्मणा अन्वागतत्वप्रसिद्धिः; न हि स्वप्नकृतेन आगसा आगस्कारिणमात्मानं मन्यते कश्चित्; न च स्वप्नदृश आगः श्रुत्वा लोकः तं गर्हति परिहरति वा; अतः अनन्वागत एव तेन भवति; तस्मात् स्वप्ने कुर्वन्निव उपलभ्यते, न तु क्रिया अस्ति परमार्थतः; ‘उतेव स्त्रीभिः सह मोदमानः’ (BrhU.4.3.13) इति श्लोक उक्तः; आख्यातारश्च स्वप्नस्य सह इव-शब्देन आचक्षते – हस्तिनोऽद्य घटीकृताः धावन्तीव मया दृष्टा इति। अतो न तस्य कर्तृत्वमिति। कथं पुनरस्याकर्तृत्वमिति – कार्यकरणैर्मूर्तैः संश्लेषः मूर्तस्य, स तु क्रियाहेतुर्दृष्टः; न ह्यमूर्तः कश्चित् क्रियावान् दृश्यते; अमूर्तश्च आत्मा, अतोऽसङ्गः; यस्माच्च असङ्गोऽयं पुरुषः, तस्मात् अनन्वागतः तेन स्वप्नदृष्टेन; अत एव न क्रियाकर्तृत्वमस्य कथञ्चिदुपपद्यते; कार्यकरणसंश्लेषेण हि कर्तृत्वं स्यात्; स च संश्लेषः सङ्गः अस्य नास्ति, यतः असङ्गो ह्ययं पुरुषः; तस्मात् अमृतः। एवमेव एतत् याज्ञवल्क्य; सोऽहं भगवते सहस्रं ददामि; अत ऊर्ध्वं विमोक्षायैव ब्रूहि; मोक्षपदार्थैकदेशस्य कर्मप्रविवेकस्य सम्यग्दर्शितत्वात्; अत ऊर्ध्वं विमोक्षायैव ब्रूहीति॥
🔗  तत्र ‘असङ्गो ह्ययं पुरुषः’ (BrhU.4.3.15) इति असङ्गता अकर्तृत्वे हेतुरुक्तः; उक्तं च पूर्वम् – कर्मवशात् स ईयते यत्र काममिति; कामश्च सङ्गः; अतः असिद्धो हेतुरुक्तः – ‘असङ्गो ह्ययं पुरुषः’ (BrhU.4.3.15) इति। न तु एतत् अस्ति; कथं तर्हि? असङ्ग एव इत्येतदुच्यते – स वा एष एतस्मिन्स्वप्ने, स वै एष पुरुषः सम्प्रसादात्प्रत्यागतः स्वप्ने रत्वा चरित्वा यथाकामम्, दृष्ट्वैव पुण्यं च पापं च – इति सर्वं पूर्ववत्; बुद्धान्तायैव जागरितस्थानाय। तस्मात् असङ्गः एव अयं पुरुषः; यदि स्वप्ने सङ्गवान् स्यात् कामी, ततः तत्सङ्गजैर्दोषैः बुद्धान्ताय प्रत्यागतो लिप्येत॥
🔗  यथा असौ स्वप्ने असङ्गत्वात् स्वप्नप्रसङ्गजैर्दोषैः जागरिते प्रत्यागतो न लिप्यते, एवं जागरितसङ्गजैरपि दोषैः न लिप्यत एव बुद्धान्ते; तदेतदुच्यत –
स वै एषः एतस्मिन् बुद्धान्ते जागरिते रत्वा चरित्वा इत्यादि पूर्ववत्। स यत् तत्र बुद्धान्ते किञ्चित्पश्यति, अनन्वागतः तेन भवति – असङ्गो ह्ययं पुरुष इति। ननु दृष्ट्वैवेति कथमवधार्यते? करोति च तत्र पुण्यपापे; तत्फलं च पश्यति – न, कारकावभासकत्वेन कर्तृत्वोपपत्तेः; ‘आत्मनैवायं ज्योतिषास्ते’ (BrhU.4.3.6) इत्यादिना आत्मज्योतिषा अवभासितः कार्यकरणसङ्घातः व्यवहरति; तेन अस्य कर्तृत्वमुपचर्यते, न स्वतः कर्तृत्वम्; तथा चोक्तम् ‘ध्यायतीव लेलायतीव’ (BrhU.4.3.7) इति – बुद्ध्याद्युपाधिकृतमेव न स्वतः; इह तु परमार्थापेक्षया उपाधिनिरपेक्ष उच्यते – दृष्ट्वैव पुण्यं च पापं च न कृत्वेति; तेन न पूर्वापरव्याघाताशङ्का, यस्मात् निरुपाधिकः परमार्थतो न करोति, न लिप्यते क्रियाफलेन; तथा च भगवतोक्तम् – ‘अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः। शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते’ (BhG.13.11) इति। तथा सहस्रदानं तु कामप्रविवेकस्य दर्शितत्वात्। तथा ‘स वा एष एतस्मिन्स्वप्ने’ ‘स वा एष एतस्मिन्बुद्धान्ते’ इत्येताभ्यां कण्डिकाभ्याम् असङ्गतैव प्रतिपादिता; यस्मात् बुद्धान्ते कृतेन स्वप्नान्तं गतः सम्प्रसन्नः असम्बद्धो भवति स्तैन्यादिकार्यादर्शनात्, तस्मात् त्रिष्वपि स्थानेषु स्वतः असङ्ग एव अयम्; अतः अमृतः स्थानत्रयधर्मविलक्षणः। प्रतियोन्याद्रवति स्वप्नान्तायैव, सम्प्रसादायेत्यर्थः – दर्शनवृत्तेः स्वप्नस्य स्वप्नशब्देन अभिधानदर्शनात्, अन्तशब्देन च विशेषणोपपत्तेः; ‘एतस्मा अन्ताय धावति’ (BrhU.4.3.19) इति च सुषुप्तं दर्शयिष्यति। यदि पुनः एवमुच्यते – ‘स्वप्नान्ते रत्वा चरित्वा’ (BrhU.4.3.34) ‘एतावुभावन्तावनुसञ्चरति स्वप्नान्तं च बुद्धान्तं च’ (BrhU.4.3.18) इति दर्शनात्, ‘स्वप्नान्तायैव’ इत्यत्रापि दर्शनवृत्तिरेव स्वप्न उच्यत इति – तथापि न किञ्चिद्दुष्यति; असङ्गता हि सिषाधयिषिता सिध्यत्येव; यस्मात् जागरिते दृष्ट्वैव पुण्यं च पापं च रत्वा चरित्वा च स्वप्नान्तमागतः, न जागरितदोषेणानुगतो भवति॥
🔗  एवम् अयं पुरुष आत्मा स्वयं ज्योतिः कार्यकरणविलक्षणः तत्प्रयोजकाभ्यां कामकर्मभ्यां विलक्षणः – यस्मात् असङ्गो ह्ययं पुरुषः, असङ्गत्वात् – इत्ययमर्थः ‘स वा एष एतस्मिन्सम्प्रसादे’ (BrhU.4.3.15) इत्याद्याभिस्तिसृभिः कण्डिकाभिः प्रतिपादितः; तत्र असङ्गतैव आत्मनः कुतः – यस्मात्, जागरितात् स्वप्नम्, स्वप्नाच्च सम्प्रसादम्, सम्प्रसादाच्च पुनः स्वप्नम्, क्रमेण बुद्धान्तं जागरितम्, बुद्धान्ताच्च पुनः स्वप्नान्तम् – इत्येवम् अनुक्रमसञ्चारेण स्थानत्रयस्य व्यतिरेकः साधितः। पूर्वमप्युपन्यस्तोऽयमर्थः ‘स्वप्नो भूत्वेमं लोकमतिक्रामति मृत्यो रूपाणि’ (BrhU.4.3.7) इति – तं विस्तरेण प्रतिपाद्य, केवलं दृष्टान्तमात्रमवशिष्टम्, तद्वक्ष्यामीत्यारभ्यते –
तत् तत्र एतस्मिन्, यथा – प्रदर्शितेऽर्थे दृष्टान्तोऽयमुपादीयते – यथा लोके महामत्स्यः, महांश्चासौ मत्स्यश्च, नादेयेन स्रोतसा अहार्य इत्यर्थः, स्रोतश्च विष्टम्भयति, स्वच्छन्दचारी, उभे कूले नद्याः पूर्वं च अपरं च अनु-क्रमेण सञ्चरति; सञ्चरन्नपि कूलद्वयं तन्मध्यवर्तिना उदकस्रोतोवेगेन न परवशी क्रियते – एवमेव अयं पुरुषः एतौ उभौ अन्तौ अनुसञ्चरति; कौ तौ? स्वप्नान्तं च बुद्धान्तं च। दृष्टान्तप्रदर्शनफलं तु – मृत्युरूपः कार्यकरणसङ्घातः सह तत्प्रयोजकाभ्यां कामकर्मभ्याम् अनात्मधर्मः; अयं च आत्मा एतस्माद्विलक्षणः – इति विस्तरतो व्याख्यातम्॥
🔗  अत्र च स्थानत्रयानुसञ्चारेण स्वयञ्ज्योतिष आत्मनः कार्यकरणसङ्घातव्यतिरिक्तस्य कामकर्मभ्यां विविक्तता उक्ता; स्वतः नायं संसारधर्मवान्, उपाधिनिमित्तमेव तु अस्य संसारित्वम् अविद्याध्यारोपितम् – इत्येष समुदायार्थ उक्तः। तत्र च जाग्रत्स्वप्नसुषुप्तस्थानानां त्रयाणां विप्रकीर्णरूपः उक्तः, न पुञ्जीकृत्य एकत्र दर्शितः – यस्मात् जागरिते ससङ्गः समृत्युः सकार्यकरणसङ्घातः उपलक्ष्यते अविद्यया; स्वप्ने तु कामसंयुक्तः मृत्युरूपविनिर्मुक्त उपलभ्यते; सुषुप्ते पुनः सम्प्रसन्नः असङ्गो भवतीति असङ्गतापि दृश्यते; एकवाक्यतया तु उपसंह्रियमाणं फलं नित्यमुक्तबुद्धशुद्धस्वभावता अस्य न एकत्र पुञ्जीकृत्य प्रदर्शितेति, तत्प्रदर्शनाय कण्डिका आरभ्यते। सुषुप्ते हि एवंरूपता अस्य वक्ष्यमाणा ‘तद्वा अस्यैतदतिच्छन्दा अपहतपाप्माभयं रूपम्’ (BrhU.4.3.21) इति; यस्मात् एवंरूपं विलक्षणम्, सुषुप्तं प्रविविक्षति; तत् कथमिति आह – दृष्टान्तेन अस्य अर्थस्य प्रकटीभावो भवतीति तत्र दृष्टान्त उपादीयते –
तत् यथाअस्मिन्नाकाशे भौतिके श्येनो वा सुपर्णो वा, सुपर्णशब्देन क्षिप्रः श्येन उच्यते, यथा आकाशेऽस्मिन् विहृत्य विपरिपत्य श्रान्तः नानापरिपतनलक्षणेन कर्मणा परिखिन्नः, संहत्य पक्षौ सङ्गमय्य सम्प्रसार्य पक्षौ, सम्यक् लीयते अस्मिन्निति संलयः, नीडः नीडायैव, ध्रियते स्वात्मनैव धार्यते स्वयमेव; यथा अयं दृष्टान्तः, एवमेव अयं पुरुषः, एतस्मा एतस्मै, अन्ताय धावति। अन्तशब्दवाच्यस्य विशेषणम् – यत्र यस्मिन् अन्ते सुप्तः, न कञ्चन न कञ्चिदपि, कामं कामयते; तथा न कञ्चन स्वप्नं पश्यति। ‘न कञ्चन कामम्’ इति स्वप्नबुद्धान्तयोः अविशेषेण सर्वः कामः प्रतिषिध्यते, ‘कञ्चन’ इत्यविशेषिताभिधानात्; तथा ‘न कञ्चन स्वप्नम्’ इति – जागरितेऽपि यत् दर्शनम्, तदपि स्वप्नं मन्यते श्रुतिः, अत आह – न कञ्चन स्वप्नं पश्यतीति; तथा च श्रुत्यन्तरम् ‘तस्य त्रय आवसथास्त्रयः स्वप्नाः’ (AitU.1.3.12) इति। यथा दृष्टान्ते पक्षिणः परिपतनजश्रमापनुत्तये स्वनीडोपसर्पणम्, एवं जाग्रत्स्वप्नयोः कार्यकरणसंयोगजक्रियाफलैः संयुज्यमानस्य, पक्षिणः परिपतनज इव, श्रमो भवति; तच्छ्रमापनुत्तये स्वात्मनो नीडम् आयतनं सर्वसंसारधर्मविलक्षणं सर्वक्रियाकारकफलायासशून्यं स्वमात्मानं प्रविशति॥
🔗  यदि अस्य अयं स्वभावः – सर्वसंसारधर्मशून्यता, परोपाधिनिमित्तं च अस्य संसारधर्मित्वम्; यन्निमित्तं च अस्य परोपाधिकृतं संसारधर्मित्वम्, सा च अविद्या – तस्या अविद्यायाः किं स्वाभाविकत्वम्, आहोस्वित् कामकर्मादिवत् आगन्तुकत्वम्; यदि च आगन्तुकत्वम्, ततो विमोक्ष उपपद्यते; तस्याश्च आगन्तुकत्वे का उपपत्तिः, कथं वा न आत्मधर्मः अविद्येति – सर्वानर्थबीजभूताया अविद्यायाः सतत्त्वावधारणार्थं परा कण्डिका आरभ्यते –
ताः वै, अस्य शिरःपाण्यादिलक्षणस्य पुरुषस्य, एताः हिता नाम नाड्यः, यथा केशः सहस्रधा भिन्नः, तावता तावत्परिमाणेन अणिम्ना अणुत्वेन तिष्ठन्ति; ताश्च शुक्लस्य रसस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णाः, एतैः शुक्लत्वादिभिः रसविशेषैः पूर्णा इत्यर्थः; एते च रसानां वर्णविशेषाः वातपित्तश्लेष्मणामितरेतरसंयोगवैषम्यविशेषात् विचित्रा बहवश्च भवन्ति। तासु एवंविधासु नाडीषु सूक्ष्मासु वालाग्रसहस्रभेदपरिमाणासु शुक्लादिरसपूर्णासु सकलदेहव्यापिनीषु सप्तदशकं लिङ्गं वर्तते; तदाश्रिताः सर्वा वासना उच्चावचसंसारधर्मानुभवजनिताः; तत् लिङ्गं वासनाश्रयं सूक्ष्मत्वात् स्वच्छं स्फटिकमणिकल्पं नाडीगतरसोपाधिसंसर्गवशात् धर्माधर्मप्रेरितोद्भूतवृत्तिविशेषं स्त्रीरथहस्त्याद्याकारविशेषैर्वासनाभिः प्रत्यवभासते; अथ एवं सति, यत्र यस्मिन्काले, केचन शत्रवः अन्ये वा तस्कराः मामागत्य घ्नन्ति – इति मृषैव वासनानिमित्तः प्रत्ययः अविद्याख्यः जायते, तदेतदुच्यते – एनं स्वप्नदृशं घ्नन्तीव इति; तथा जिनन्तीव वशीकुर्वन्तीव; न केचन घ्नन्ति, नापि वशीकुर्वन्ति, केवलं तु अविद्यावासनोद्भवनिमित्तं भ्रान्तिमात्रम्; तथा हस्तीव एनं विच्छाययति विच्छादयति विद्रावयति धावयतीवेत्यर्थः; गर्तमिव पतति – गर्तं जीर्णकूपादिकमिव पतन्तम् आत्मानमुपलक्षयति; तादृशी हि अस्य मृषा वासना उद्भवति अत्यन्तनिकृष्टा अधर्मोद्भासितान्तःकरणवृत्त्याश्रया, दुःखरूपत्वात्। किं बहुना, यदेव जाग्रत् भयं पश्यति हस्त्यादिलक्षणम्, तद् एव भयरूपम् अत्र अस्मिन्स्वप्ने विनैव हस्त्यादिरूपं भयम् अविद्या-वासनया मृषैव उद्भूतया मन्यतेअथ पुनः यत्र अविद्या अपकृष्यमाणा विद्या चोत्कृष्यमाणा – किंविषया किंलक्षणा चेत्युच्यते – अथ पुनः यत्र यस्मिन्काले, देव इव स्वयं भवति, देवताविषया विद्या यदा उद्भूता जागरितकाले, तदा उद्भूतया वासनया देवमिव आत्मानं मन्यते; स्वप्नेऽपि तदुच्यते – देव इव, राजेव राज्यस्थः अभिषिक्तः, स्वप्नेऽपि राजा अहमिति मन्यते राजवासनावासितः। एवम् अत्यन्तप्रक्षीयमाणा अविद्या उद्भूता च विद्या सर्वात्मविषया यदा, तदा स्वप्नेऽपि तद्भावभावितः – अहमेवेदं सर्वोऽस्मीति मन्यते; यः सर्वात्मभावः, सोऽस्य आत्मनः परमो लोकः परम आत्मभावः स्वाभाविकः। यत्तु सर्वात्मभावादर्वाक् वालाग्रमात्रमपि अन्यत्वेन दृश्यते – नाहमस्मीति, तदवस्था अविद्या; तया अविद्यया ये प्रत्युपस्थापिताः अनात्मभावा लोकाः, ते अपरमाः स्थावरान्ताः; तान् संव्यवहारविषयान् लोकानपेक्ष्य अयं सर्वात्मभावः समस्तोऽनन्तरोऽबाह्यः, सोऽस्य परमो लोकः। तस्मात् अपकृष्यमाणायाम् अविद्ययाम्, विद्यायां च काष्ठं गतायाम्, सर्वात्मभावो मोक्षः, यथा स्वयञ्ज्योतिष्ट्वं स्वप्ने प्रत्यक्षत उपलभ्यते तद्वत्, विद्याफलम् उपलभ्यत इत्यर्थः। तथा अविद्यायामप्युत्कृष्यमाणायाम्, तिरोधीयमानायां च विद्यायाम्, अविद्यायाः फलं प्रत्यक्षत एवोपलभ्यते – ‘अथ यत्रैनं घ्नन्तीव जिनन्तीव’ इति। ते एते विद्याविद्याकार्ये, सर्वात्मभावः परिच्छिन्नात्मभावश्च; विद्यया शुद्धया सर्वात्मा भवति; अविद्यया च असर्वो भवति; अन्यतः कुतश्चित्प्रविभक्तो भवति; यतः प्रविभक्तो भवति, तेन विरुध्यते; विरुद्धत्वात् हन्यते जीयते विच्छाद्यते च; असर्वविषयत्वे च भिन्नत्वात् एतद्भवति; समस्तस्तु सन् कुतो भिद्यते, येन विरुध्येत; विरोधाभावे, केन हन्यते जीयते विच्छाद्यते च। अत इदम् अविद्यायाः सतत्त्वमुक्तं भवति – सर्वात्मानं सन्तम् असर्वात्मत्वेन ग्राहयति, आत्मनः अन्यत् वस्त्वन्तरम् अविद्यमानं प्रत्युपस्थापयति, आत्मानम् असर्वमापादयति; ततस्तद्विषयः कामो भवति; यतो भिद्यते कामतः, क्रियामुपादत्ते, ततः फलम् – तदेतदुक्तम्। वक्ष्यमाणं च ‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति’ (BrhU.2.4.14), (BrhU.4.5.15) इत्यादि। इदम् अविद्यायाः सतत्त्वं सह कार्येण प्रदर्शितम्; विद्यायाश्च कार्यं सर्वात्मभावः प्रदर्शितः अविद्याया विपर्ययेण। सा चाविद्या न आत्मनः स्वाभाविको धर्मः – यस्मात् विद्यायामुत्कृष्यमाणायां स्वयमपचीयमाना सती, काष्ठां गतायां विद्यायां परिनिष्ठिते सर्वात्मभावे सर्वात्मना निवर्तते, रज्ज्वामिव सर्पज्ञानं रज्जुनिश्चये; तच्चोक्तम् – ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (BrhU.2.4.14) इत्यादि; तस्मात् न आत्मधर्मः अविद्या; न हि स्वाभाविकस्योच्छित्तिः कदाचिदप्युपपद्यते, सवितुरिव औष्ण्यप्रकाशयोः। तस्मात् तस्या मोक्ष उपपद्यते॥
🔗  इदानीं योऽसौ सर्वात्मभावो मोक्षः विद्याफलं क्रियाकारकफलशून्यम्, स प्रत्यक्षतो निर्दिश्यते, यत्र अविद्याकामकर्माणि न सन्ति। तत् एतत् प्रस्तुतम् – ‘यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति’ (BrhU.4.3.19) इति, तदेतत् वै अस्य रूपम् – यः सर्वात्मभावः ‘सोऽस्य परमो लोकः’ (BrhU.4.3.20) इत्युक्तः – तत्; अतिच्छन्दा अतिच्छन्दमित्यर्थः, रूपपरत्वात्; छन्दः कामः, अतिगतः छन्दः यस्माद्रूपात् तत् अतिच्छन्दं रूपम्; अन्योऽसौ सान्तः छन्दःशब्दः गायत्र्यादिच्छन्दोवाची; अयं तु कामवचनः, अतः स्वरान्त एव; तथापि ‘अतिच्छन्दा’ इति पाठः स्वाध्यायधर्मो द्रष्टव्यः; अस्ति च लोके कामवचनप्रयुक्तः छन्दशब्दः ‘स्वच्छन्दः’ ‘परच्छन्दः’ इत्यादौ; अतः ‘अतिच्छन्दम्’ इत्येवम् उपनेयम्, कामवर्जितमेतद्रूपमित्यस्मिन् अर्थे तथा अपहतपाप्म – पाप्मशब्देन धर्माधर्मावुच्येते, ‘पाप्मभिः संसृज्यते’‘पाप्मनो विजहाति’ (BrhU.4.3.8) इत्युक्तत्वात्; अपहतपाप्म धर्माधर्मवर्जितमित्येतत्। किञ्च, अभयम् – भयं हि नाम अविद्याकार्यम्, ‘अविद्यया भयं मन्यते’ (BrhU.4.3.20) इति ह्युक्तम्; तत् कार्यद्वारेण कारणप्रतिषेधोऽयम्; अभयं रूपमिति अविद्यावर्जितमित्येतत्। यदेतत् विद्याफलं सर्वात्मभावः, तदेतत् अतिच्छन्दापहतपाप्माभयं रूपम् – सर्वसंसारधर्मवर्जितम्, अतः अभयं रूपम् एतत्। इदं च पूर्वमेवोपन्यस्तम् अतीतानन्तरब्राह्मणसमाप्तौ ‘अभयं वै जनक प्राप्तोऽसि’ (BrhU.4.2.4) इत्यागमतः; इह तु तर्कतः प्रपञ्चितं दर्शितागमार्थप्रत्ययदार्ढ्याय। अयमात्मा स्वयं चैतन्यज्योतिःस्वभावः सर्वं स्वेन चैतन्यज्योतिषा अवभासयति – स यत्तत्र किञ्चित्पश्यति, रमते, चरति, जानाति चेत्युक्तम्; स्थितं चैतत् न्यायतः नित्यं स्वरूपं चैतन्यज्योतिष्ट्वमात्मनः। सः यद्यात्मा अत्र अविनष्टः स्वेनैव रूपेण वर्तते, कस्मात् अयम् – अहमस्मीत्यात्मानं वा, बहिर्वा – इमानि भूतानीति, जाग्रत्स्वप्नयोरिव, न जानाति – इत्यत्र उच्यते; शृणु अत्र अज्ञानहेतुम्; एकत्वमेव अज्ञानहेतुः; तत्कथमिति उच्यते; दृष्टान्तेन हि प्रत्यक्षी भवति विवक्षितोऽर्थ इत्याह – तत् तत्र यथा लोके प्रियया इष्टया स्त्रिया सम्परिष्वक्तः सम्यक्परिष्वक्तः कामयन्त्या कामुकः सन्, न बाह्यम् आत्मनः किञ्चन किञ्चिदपि वेद – मत्तोऽन्यद्वस्त्विति, न च आन्तरम् – अयमहमस्मि सुखी दुःखी वेति; अपरिष्वक्तस्तु तया प्रविभक्तो जानाति सर्वमेव बाह्यम् आभ्यान्तरं च; परिष्वङ्गोत्तरकालं तु एकत्वापत्तेः न जानाति – एवमेव, यथा दृष्टान्तः अयं पुरुषः क्षेत्रज्ञः भूतमात्रासंसर्गतः सैन्धवखिल्यवत् प्रविभक्तः, जलादौ चन्द्रादिप्रतिबिम्बवत् कार्यकरण इह प्रविष्टः, सोऽयं पुरुषः, प्राज्ञेन परमार्थेन स्वाभाविकेन स्वेन आत्मना परेण ज्योतिषा, सम्परिष्वक्तः सम्यक्परिष्वक्तः एकीभूतः निरन्तरः सर्वात्मा, न बाह्यं किञ्चन वस्त्वन्तरम्, अपि आन्तरम् आत्मनि – अयमहमस्मि सुखी दुःखी वेति वेद। तत्र चैतन्यज्योतिःस्वभावत्वे कस्मादिह न जानातीति यदप्राक्षीः, तत्र अयं हेतुः मयोक्तः एकत्वम्, यथा स्त्रीपुंसयोः सम्परिष्वक्तयोः। तत्र अर्थात् नानात्वं विशेषविज्ञानहेतुरित्युक्तं भवति; नानात्वे च कारणम् – आत्मनो वस्त्वन्तरस्य प्रत्युपस्थापिका अविद्येत्युक्तम्। तत्र च अविद्याया यदा प्रविविक्तो भवति, तदा सर्वेण एकत्वमेव अस्य भवति; ततश्च ज्ञानज्ञेयादिकारकविभागे असति, कुतो विशेषविज्ञानप्रादुर्भावः कामो वा सम्भवति स्वाभाविके स्वरूपस्थ आत्मज्योतिषि। यस्मात् एवं सर्वैकत्वमेव अस्य रूपम्, अतः तत् वै अस्य आत्मनः स्वयञ्ज्योतिःस्वभावस्य एतत् रूपम् आप्तकामम् – यस्मात् समस्तमेतत् तस्मात् आप्ताः कामा अस्मिन् रूपे तदिदम् आप्तकामम्; यस्य हि अन्यत्वेन प्रविभक्तः कामः, तत् अनाप्तकामं भवति, यथा जागरितावस्थायां देवदत्तादिरूपम्; न त्विदं तथा कुतश्चित्प्रविभज्यते; अतः तत् आप्तकामं भवति। किम् अन्यस्मात् वस्त्वन्तरात् न प्रविभज्यते, आहोस्वित् आत्मैव तत् वस्त्वन्तरम्, अत आह – नान्यदस्ति आत्मनः; कथम्? यत आत्मकामम् – आत्मैव कामाः यस्मिन् रूपे, अन्यत्र प्रविभक्ता इव अन्यत्वेन काम्यमानाः यथा जाग्रत्स्वप्नयोः, तस्य आत्मैव अन्यत्वप्रत्युपस्थापकहेतोरविद्याया अभावात् – आत्मकामम्; अत एव अकामम् एतद् रूपं काम्यविषयाभावात्; शोकान्तरम् शोकच्छिद्रं शोकशून्यमित्येतत्, शोकमध्यमिति वा, सर्वथापि अशोकमेतद्रूपम् शोकवर्जितमित्यर्थः॥
🔗  प्रकृतः स्वयञ्ज्योतिरात्मा अविद्याकामकर्मविनिर्मुक्त इत्युक्तम्, असङ्गत्वादात्मनः, आगन्तुकत्वाच्च तेषाम्। तत्र एवमाशङ्का जायते; चैतन्यस्वभावत्वे सत्यपि एकीभावात् न जानाति स्त्रीपुंसयोरिव सम्परिष्वक्तयोरित्युक्तम्; तत्र प्रासङ्गिकम् एतत् उक्तम् – कामकर्मादिवत् स्वयञ्ज्योतिष्ट्वमपि अस्य आत्मना न स्वभावः, यस्मात् सम्प्रसादे नोपलभ्यते – इत्याशङ्कायां प्राप्तायाम्, तन्निराकरणाय, स्त्रीपुंसयोर्दृष्टान्तोपादानेन, विद्यमानस्यैव स्वयञ्ज्योतिष्ट्वस्य सुषुप्ते अग्रहणम् एकीभावाद्धेतोः, न तु कामकर्मादिवत् आगन्तुकम् – इत्येतत् प्रासङ्गिकमभिधाय, यत्प्रकृतं तदेवानुप्रवर्तयति। अत्र च एतत् प्रकृतम् – अविद्याकामकर्मविनिर्मुक्तमेव तद्रूपम्, यत् सुषुप्ते आत्मनो गृह्यते प्रत्यक्षत इति; तदेतत् यथाभूतमेवाभिहितम् – सर्वसम्बन्धातीतम् एतद्रूपमिति; यस्मात् अत्र एतस्मिन् सुषुप्तस्थाने अतिच्छन्दापहतपाप्माभयम् एतद्रूपम्, तस्मात् अत्र पिता जनकः – तस्य च जनयितृत्वात् यत् पितृत्वं पुत्रं प्रति, तत् कर्मनिमित्तम्; तेन च कर्मणा अयमसम्बद्धः अस्मिन्काले; तस्मात् पिता पुत्रसम्बन्धनिमित्तात्कर्मणो विनिर्मुक्तत्वात् पितापि अपिता भवति; तथा पुत्रोऽपि पितुरपुत्रो भवतीति सामर्थ्याद्गम्यते; उभयोर्हि सम्बन्धनिमित्तं कर्म, तत् अयम् अतिक्रान्तो वर्तते; ‘अपहतपाप्म’ (BrhU.4.3.21) इति हि उक्तम्। तथा माता अमाता; लोकाः कर्मणा जेतव्याः जिताश्च – तत्कर्मसम्बन्धाभावात् लोकाः अलोकाः; तथा देवाः कर्माङ्गभूताः – तत्कर्मसम्बन्धात्ययात् देवा अदेवाः; तथा वेदाः – साध्यसाधनसम्बन्धाभिधायकाः, मन्त्रलक्षणाश्च अभिधायकत्वेन कर्माङ्गभूताः, अधीताः अध्येतव्याश्च – कर्मनिमित्तमेव सम्बध्यन्ते पुरुषेण; तत्कर्मातिक्रमणात् एतस्मिन्काले वेदा अपि अवेदाः सम्पद्यन्ते। न केवलं शुभकर्मसम्बन्धातीतः, किं तर्हि, अशुभैरपि अत्यन्तघोरैः कर्मभिः असम्बद्ध एवायं वर्तते इत्येतमर्थमाह – अत्र स्तेनः ब्राह्मणसुवर्णहर्ता, भ्रूणघ्ना सह पाठादवगम्यते – सः तेन घोरेण कर्मणा एतस्मिन्काले विनिर्मुक्तो भवति, येन अयं कर्मणा महापातकी स्तेन उच्यते। तथा भ्रूणहा अभ्रूणहा। तथा चाण्डालः न केवलं प्रत्युत्पन्नेनैव कर्मणा विनिर्मुक्तः, किं तर्हि सहजेनापि अत्यन्तनिकृष्टजातिप्रापकेणापि विनिर्मुक्त एव अयम्; चाण्डालो नाम शूद्रेण ब्राह्मण्यामुत्पन्नः, चण्डाल एव चाण्डालः; सः जातिनिमित्तेन कर्मणा असम्बद्धत्वात् अचाण्डालो भवति। पौल्कसः, पुल्कस एव पौल्कसः, शूद्रेणैव क्षत्त्रियायामुत्पन्नः; सोऽपि अपुल्कसो भवति। तथा आश्रमलक्षणैश्च कर्मभिः असम्बद्धो भवतीत्युच्यते; श्रमणः परिव्राट् – यत्कर्मनिमित्तो भवति, सः तेन विनिर्मुक्तत्वात् अश्रमणः; तथा तापसः वानप्रस्थः अतापसः; सर्वेषां वर्णाश्रमादीनामुपलक्षणार्थम् उभयोर्ग्रहणम्। किं बहुना? अनन्वागतम् – न अन्वागतम् अनन्वागतम् असम्बद्धमित्येतत्, पुण्येन शास्त्रविहितेन कर्मणा, तथा पापेन विहिताकरणप्रतिषिद्धक्रियालक्षणेन; रूपपरत्वात् नपुंसकलिङ्गम्; ‘अभयं रूपम्’ (BrhU.4.3.21) इति हि अनुवर्तते। किं पुनः असम्बद्धत्वे कारणमिति तद्धेतुरुच्यते – तीर्णः अतिक्रान्तः, हि यस्मात्, एवंरूपः, तदा तस्मिन्काले, सर्वान् शोकान् – शोकाः कामाः; इष्टविषयप्रार्थना हि तद्विषयवियोगे शोकत्वमापद्यते; इष्टं हि विषयम् अप्राप्तं वियुक्तं च उद्दिश्य चिन्तयानस्तद्गुणान् सन्तप्यते पुरुषः; अतः शोको रतिः काम इति पर्यायाः। यस्मात् सर्वकामातीतो हि अत्र अयं भवति – ‘न कञ्चन कामं कामयते’ (BrhU.4.3.19) ‘अतिच्छन्दा’ (BrhU.4.3.20) इति ह्युक्तम्, तत्प्रक्रियापतितोऽयं शोकशब्दः कामवचन एव भवितुमर्हति; कामश्च कर्महेतुः; वक्ष्यति हि ‘स यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते’ (BrhU.4.4.5) इति – अतः सर्वकामातितीर्णत्वात् युक्तमुक्तम् ‘अनन्वागतं पुण्येन’ इत्यादि। हृदयस्य – हृदयमिति पुण्डरीकाकारो मांसपिण्डः, तत्स्थम् अन्तःकरणं बुद्धिः हृदयमित्युच्यते, तात्स्थ्यात्, मञ्चक्रोशनवत्, हृदयस्य बुद्धेः ये शोकाः; बुद्धिसंश्रया हि ते, ‘कामः सङ्कल्पो विचिकित्सेत्यादि – सर्वं मन एव’ (BrhU.1.5.3) इत्युक्तत्वात्; वक्ष्यति च ‘कामा येऽस्य हृदि श्रिताः’ (BrhU.4.4.7) इति; आत्मसंश्रयभ्रान्त्यपनोदाय हि इदं वचनम् ‘हृदि श्रिताः’ ‘हृदयस्य शोकाः’ इति च। हृदयकरणसम्बन्धातीतश्च अयम् अस्मिन्काले ‘अतिक्रामति मृत्यो रूपाणि’ (BrhU.4.3.7) इति हि उक्तम्; हृदयकरणसम्बन्धातीतत्वात्, तत्संश्रयकामसम्बन्धातीतो भवतीति युक्ततरं वचनम्।
ये तु वादिनः – हृदि श्रिताः कामा वासनाश्च हृदयसम्बन्धिनमात्मानमुपसृप्य उपश्लिष्यन्ति, हृदयवियोगेऽपि च अत्मनि अवतिष्ठन्ते पुटतैलस्थ इव पुष्पादिगन्धः – इत्याचक्षते; तेषाम् ‘कामः सङ्कल्पः’ (BrhU.1.5.3) ‘हृदये ह्येव रूपाणि’ (BrhU.3.9.20) ‘हृदयस्य शोकाः’ इत्यादीनां वचनानामानर्थक्यमेव। हृदयकरणोत्पाद्यत्वादिति चेत्, न, ‘हृदि श्रिताः’ (BrhU.4.4.7) इति विशेषणात्; न हि हृदयस्य करणमात्रत्वे ‘हृदि श्रिताः’ (BrhU.4.4.7) इति वचनं समञ्जसम्, ‘हृदये ह्येव रूपाणि प्रतिष्ठितानि’ (BrhU.3.9.20) इति च। आत्मविशुद्धेश्च विवक्षितत्वात् हृच्छ्रयणवचनं यथार्थमेव युक्तम्; ‘ध्यायतीव लेलायतीव’ (BrhU.4.3.7) इति च श्रुतेः अन्यार्थासम्भवात्। ‘कामा येऽस्य हृदि श्रिताः’ इति विशेषणात् आत्माश्रया अपि सन्तीति चेत्, न, अनाश्रितापेक्षत्वात्। न अत्र आश्रयान्तरमपेक्ष्य ‘ये हृदि’ इति विशेषणम्, किं तर्हि ये हृदि अनाश्रिताः कामाः तानपेक्ष्य विशेषणम्; ये तु अप्ररूढा भविष्यन्तः भूताश्च प्रतिपक्षतो निवृत्ताः, ते नैव हृदि श्रिताः; सम्भाव्यन्ते च ते; अतो युक्तं तानपेक्ष्य विशेषणम् – ये प्ररूढा वर्तमाना विषये ते सर्वे प्रमुच्यन्ते इति। तथापि विशेषणानर्थक्यमिति चेत्, न, तेषु यत्नाधिक्यात्, हेयार्थत्वात्; इतरथा अश्रुतमनिष्टं च कल्पितं स्यात् आत्माश्रयत्वं कामानाम्। ‘न कञ्चन कामं कामयते’ (BrhU.4.3.19) इति प्राप्तप्रतिषेधात् आत्माश्रयत्वं कामानां श्रुतमेवेति चेत्, न, ‘सधीः स्वप्नो भूत्वा’ (BrhU.4.3.7) इति परनिमित्तत्वात् कामाश्रयत्वप्राप्तेः; असङ्गवचनाच्च; न हि कामास्रयत्वे असङ्गवचनमुपपद्यते; सङ्गश्च काम इत्यवोचाम। ‘आत्मकामः’ (BrhU.4.3.21) इति श्रुतेः आत्मविषयोऽस्य कामो भवतीति चेत्, न, व्यतिरिक्तकामाभावार्थत्वात् तस्याः। वैशेषिकादितन्त्रन्यायोपपन्नम् आत्मनः कामाद्याश्रयत्वमिति चेत्, न, ‘हृदि श्रिताः’ (BrhU.4.4.7) इत्यादिविशेषश्रुतिविरोधात् अनपेक्ष्याः ताः वैशेषिकादितन्त्रोपपत्तयः; श्रुतिविरोधे न्यायाभासत्वोपगमात्। स्वयञ्ज्योतिष्ट्वबाधनाच्च; कामादीनां च स्वप्ने केवलदृशिमात्रविषयत्वात् स्वयञ्ज्योतिष्ट्वं सिद्धं स्थितं च बाध्येत – आत्मसमवायित्वे दृश्यत्वानुपपत्तेः, चक्षुर्गतविशेषवत्; द्रष्टुर्हि दृश्यम् अर्थान्तरभूतमिति, द्रष्टुः स्वयञ्ज्योतिष्ट्वं सिद्धम्; तत् बाधितं स्यात्, यदि कामाद्याश्रयत्वं परिकल्प्येत। सर्वशास्त्रार्थविप्रतिषेधाच्च – परस्य एकदेशकल्पनायां कामाद्याश्रयत्वे च सर्वशास्त्रार्थजातं कुप्येत; एतच्च विस्तरेण चतुर्थेऽवोचाम; महता हि प्रयत्नेन कामाद्याश्रयत्वकल्पनाः प्रतिषेद्धव्याः, आत्मनः परेणैकत्वशास्त्रार्थसिद्धये; तत्कल्पनायां पुनः क्रियमाणायां शास्त्रार्थ एव बाधितः स्यात्। यथा इच्छादीनामात्मधर्मत्वं कल्पयन्तः वैशेषिका नैयायिकाश्च उपनिषच्छास्त्रार्थेन न सङ्गच्छन्ते, तथा इयमपि कल्पना उपनिषच्छास्त्रार्थबाधनात् न आदरणीया॥
🔗  स्त्रीपुंसयोरिव एकत्वात् न पश्यतीत्युक्तम्, स्वयञ्ज्योतिरिति च; स्वयञ्ज्योतिष्ट्वं नाम चैतन्यात्मस्वभावता; यदि हि अग्न्युष्णत्वादिवत् चैतन्यात्मस्वभाव आत्मा, सः कथम् एकत्वेऽपि हि स्वभावं जह्यात्, न जानीयात्? अथ न जहाति, कथमिह सुषुप्ते न पश्यति? विप्रतिषिद्धमेतत् – चैतन्यमात्मस्वभावः, न जानाति चेति। न विप्रतिषिद्धम्, उभयमप्येतत् उपपद्यत एव; कथम् –
यद्वै सुषुप्ते तत् न पश्यति, पश्यन्वै तत् तत्र पश्यन्नेव न पश्यति। यत् तत्र सुषुप्ते न पश्यतीति जानीषे, तत् न तथा गृह्णीयाः; कस्मात्? पश्यन्वै भवति तत्र। ननु एवं न पश्यतीति सुषुप्ते जानीमः, यतः न चक्षुर्वा मनो वा दर्शने करणं व्यापृतमस्ति; व्यापृतेषु हि दर्शनश्रवणादिषु, पश्यतीति व्यवहारो भवति, शृणोतीति वा; न च व्यापृतानि करणानि पश्यामः; तस्मात् न पश्यत्येव अयम्। न हि; किं तर्हि पश्यन्नेव भवति; कथम्? हि यस्मात् द्रष्टुः दृष्टिकर्तुः या दृष्टिः, तस्या दृष्टेः विपरिलोपः विनाशः, सः न विद्यते। यथा अग्नेरौष्ण्यं यावदग्निभावि, तथा अयं च आत्मा द्रष्टा अविनाशी, अतः अविनाशित्वात् आत्मनो दृष्टिरपि अविनाशिनी, यावद्द्रष्टृभाविनी हि सा। ननु विप्रतिषिद्धमिदमभिधीयते – द्रष्टुः सा दृष्टिः न विपरिलुप्यते इति च; दृष्टिश्च द्रष्ट्रा क्रियते; दृष्टिकर्तृत्वात् हि द्रष्टेत्युच्यते; क्रियमाणा च द्रष्ट्रा दृष्टिः न विपरिलुप्यत इति च अशक्यं वक्तुम्; ननु न विपरिलुप्यते इति वचनात् अविनाशिनी स्यात्, न, वचनस्य ज्ञापकत्वात्; न हि न्यायप्राप्तो विनाशः कृतकस्य वचनशतेनापि वारयितुं शक्यते, वचनस्य यथाप्राप्तार्थज्ञापकत्वात्। नैष दोषः, आदित्यादिप्रकाशकत्ववत् दर्शनोपपत्तेः; यथा आदित्यादयः नित्यप्रकाशस्वभावा एव सन्तः स्वाभाविकेन नित्येनैव प्रकाशेन प्रकाशयन्ति; न हि अप्रकाशात्मानः सन्तः प्रकाशं कुर्वन्तः प्रकाशयन्तीत्युच्यन्ते, किं तर्हि स्वभावेनैव नित्येन प्रकाशेन – तथा अयमपि आत्मा अविपरिलुप्तस्वभावया दृष्ट्या नित्यया द्रष्टेत्युच्यते। गौणं तर्हि द्रष्टृत्वम्, न, एवमेव मुख्यत्वोपपत्तेः; यदि हि अन्यथापि आत्मनो द्रष्टृत्वं दृष्टम्, तदा अस्य द्रष्टृत्वस्य गौणत्वम्; न तु आत्मनः अन्यो दर्शनप्रकारोऽस्ति; तत् एवमेव मुख्यं द्रष्टृत्वमुपपद्यते, नान्यथा – यथा आदित्यादीनां प्रकाशयितृत्वं नित्येनैव स्वाभाविकेन अक्रियमाणेन प्रकाशेन, तदेव च प्रकाशयितृत्वं मुख्यम्, प्रकाशयितृत्वान्तरानुपपत्तेः। तस्मात् न द्रष्टुः दृष्टिः विपरिलुप्यते इति न विप्रतिषेधगन्धोऽप्यस्ति। ननु अनित्यक्रियाकर्तृविषय एव तृच्प्रत्ययान्तस्य शब्दस्य प्रयोगो दृष्टः – यथा छेत्ता भेत्ता गन्तेति, तथा द्रष्टेत्यत्रापीति चेत् – न, प्रकाशयितेति दृष्टत्वात्। भवतु प्रकाशकेषु, अन्यथा असम्भवात्, न त्वात्मनीति चेत् – न,दृष्ट्यविपरिलोपश्रुतेः। पश्यामि – न पश्यामि – इत्यनुभवदर्शनात् नेति चेत्, न, करणव्यापारविशेषापेक्षत्वात्; उद्धृतचक्षुषां च स्वप्ने आत्मदृष्टेरविपरिलोपदर्शनात्। तस्मात् अविपरिलुप्तस्वभावैव आत्मनो दृष्टिः; अतः तया अविपरिलुप्तया दृष्ट्या स्वयञ्ज्योतिःस्वभावया पश्यन्नेव भवति सुषुप्ते।
कथं तर्हि न पश्यतीति उच्यते – न तु तदस्ति; किं तत्? द्वितीयं विषयभूतम्; किंविशिष्टम्? ततः द्रष्टुः अन्यत् अन्यत्वेन विभक्तम् यत्पश्येत् यदुपलभेत। यद्धि तद्विशेषदर्शनकारणमन्तःकरणम् चक्षू रूपं च, तत् अविद्यया अन्यत्वेन प्रत्युपस्थापितमासीत्; तत् एतस्मिन्काले एकीभूतम्, आत्मनः परेण परिष्वङ्गात्; द्रष्टुर्हि परिच्छिन्नस्य विशेषदर्शनाय करणम् अन्यत्वेन व्यवतिष्ठते; अयं तु स्वेन सर्वात्मना सम्परिष्वक्तः – स्वेन परेण प्राज्ञेन आत्मना, प्रिययेव पुरुषः; तेन न पृथक्त्वेन व्यवस्थितानि करणानि, विषयाश्च; तदभावात् विशेषदर्शनं नास्ति; करणादिकृतं हि तत्, न आत्मकृतम्; आत्मकृतमिव प्रत्यवभासते। तस्मात् तत्कृता इयं भ्रान्तिः – आत्मनो दृष्टिः परिलुप्यते इति॥
🔗  समानमन्यत् – यद्वै तन्न जिघ्रति, यद्वै तन्न रसयते, यद्वै तन्न वदति, यद्वै तन्न शृणोति, यद्वै तन्न मनुते, यद्वै तन्न स्पृशति, यद्वै तन्न विजानातीति। मननविज्ञानयोः दृष्ट्यादिसहकारित्वेऽपि सति चक्षुरादिनिरपेक्षो भूतभविष्यद्वर्तमानविषयव्यापारो विद्यत इति पृथग्ग्रहणम्।
किं पुनः दृष्ट्यादीनाम् अग्नेरोष्ण्यप्रकाशनज्वलनादिवत् धर्मभेदः, आहोस्वित् अभिन्नस्यैव धर्मस्य परोपाधिनिमित्तं धर्मान्यत्वमिति। अत्र केचिद्व्याचक्षते – आत्मवस्तुनः स्वत एव एकत्वं नानात्वं च – यथा गोः गोद्रव्यतया एकत्वम्, सास्नादीनां धर्माणां परस्परतो भेदः; यथा स्थूलेषु एकत्वं नानात्वं च, तथा निरवयवेषु अमूर्तवस्तुषु एकत्वं नानात्वं च अनुमेयम्; सर्वत्र अव्यभिचारदर्शनात् आत्मनोऽपि तद्वदेव दृष्ट्यादीनां परस्परं नानात्वम्, आत्मना चैकत्वमिति। न, अन्यपरत्वात् – न हि दृष्ट्यादिधर्मभेदप्रदर्शनपरम् इदं वाक्यम् ‘यद्वै तत्’ इत्यादि; किं तर्हि, यदि चैतन्यात्मज्योतिः, कथं न जानाति सुषुप्ते? नूनम् अतो न चैतन्यात्मज्योतिः इत्येवमाशङ्काप्राप्तौ, तन्निराकरणाय एतदारब्धम् ‘यद्वै तत्’ इत्यादि। यत् अस्य जाग्रत्स्वप्नयोः चक्षुराद्यनेकोपाधिद्वारं चैतन्यात्मज्योतिःस्वाभाव्यम् उपलक्षितं दृष्ट्याद्यभिधेयव्यवहारापन्नम्, सुषुप्ते उपाधिभेदव्यापारनिवृत्तौ अनुद्भास्यमानत्वात् अनुपलक्ष्यमाणस्वभावमपि उपाधिभेदेन भिन्नमिव – यथाप्राप्तानुवादेनैव विद्यमानत्वमुच्यते; तत्र दृष्ट्यादिधर्मभेदकल्पना विवक्षितार्थानभिज्ञतया; सैन्धवघनवत् प्रज्ञानैकरसघनश्रुतिविरोधाच्च; ‘विज्ञानमानन्दम्’ (BrhU.3.9.28) ‘सत्यं ज्ञानम्’ (TaitU.2.1.1) ‘प्रज्ञानं ब्रह्म’ (AitU.3.1.3) इत्यादिश्रुतिभ्यश्च। शब्दप्रवृत्तेश्च – लौकिकी च शब्दप्रवृत्तिः – ‘चक्षुषा रूपं विजानाति’ ‘श्रोत्रेण शब्दं विजानाति’ ‘रसनेनान्नस्य रसं विजानाति’ इति च सर्वत्रैव च दृष्ट्यादिशब्दाभिधेयानां विज्ञानशब्दवाच्यतामेव दर्शयति; शब्दप्रवृत्तिश्च प्रमाणम्। दृष्टान्तोपपत्तेश्च – यथा हि लोके स्वच्छस्वाभाव्ययुक्तः स्फटिकः तन्निमित्तमेव केवलं हरितनीललोहिताद्युपाधिभेदसंयोगात् तदाकारत्वं भजते, न च स्वच्छस्वाभाव्यव्यतिरेकेण हरितनीललोहितादिलक्षणा धर्मभेदाः स्फटिकस्य कल्पयितुं शक्यन्ते – तथा चक्षुराद्युपाधिभेदसंयोगात् प्रज्ञानघनस्वभावस्यैव आत्मज्योतिषः दृष्ट्यादिशक्तिभेद उपलक्ष्यते, प्रज्ञानघनस्य स्वच्छस्वाभाव्यात् स्फटिकस्वच्छस्वाभाव्यवत्। स्वयञ्ज्योतिष्ट्वाच्च – यथा च आदित्यज्योतिः अवभास्यभेदैः संयुज्यमानं हरितनीलपीतलोहितादिभेदैरविभाज्यं तदाकाराभासं भवति, तथा च कृत्स्नं जगत् अवभासयत् चक्षुरादीनि च तदाकारं भवति; तथा चोक्तम् – ‘आत्मनैवायं ज्योतिषास्ते’ (BrhU.4.3.6) इत्यादि। न च निरवयवेषु अनेकात्मता शक्यते कल्पयितुम्, दृष्टान्ताभावात्। यदपि आकाशस्य सर्वगतत्वादिधर्मभेदः परिकल्प्यते, परमाण्वादीनां च गन्धरसाद्यनेकगुणत्वम्, तदपि निरूप्यमाणं परोपाधिनिमित्तमेव भवति; आकाशस्य तावत् सर्वगतत्वं नाम न स्वतो धर्मोऽस्ति; सर्वोपाधिसंश्रयाद्धि सर्वत्र स्वेन रूपेण सत्त्वमपेक्ष्य सर्वगतत्वव्यवहारः; न तु आकाशः क्वचिद्गतो वा, अगतो वा स्वतः; गमनं हि नाम देशान्तरस्थस्य देशान्तरेण संयोगकारणम्; सा च क्रिया नैव अविशेषे सम्भवति; एवं धर्मभेदा नैव सन्त्याकाशे। तथा परमाण्वादावपि। परमाणुर्नाम पृथिव्या गन्धघनायाः परमसूक्ष्मः अवयवः गन्धात्मक एव; न तस्य पुनः गन्धवत्त्वं नाम शक्यते कल्पयितुम्; अथ तस्यैव रसादिमत्त्वं स्यादिति चेत्, न, तत्रापि अबादिसंसर्गनिमित्तत्वात्। तस्मात् न निरवयवस्य अनेकधर्मवत्त्वे दृष्टान्तोऽस्ति। एतेन दृगादिशक्तिभेदानां पृथक् चक्षूरूपादिभेदेन परिणामभेदकल्पना परमात्मनि प्रत्युक्ता॥
🔗  जाग्रत्स्वप्नयोरिव यद्विजानीयात्, तत् द्वितीयं प्रविभक्तमन्यत्वेन नास्तीत्युक्तम्; अतः सुषुप्ते न विजानाति विशेषम्। ननु यदि अस्य अयमेव स्वभावः, किन्निमित्तम् अस्य विशेषविज्ञानं स्वभावपरित्यागेन; अथ विशेषविज्ञानमेव अस्य स्वभावः, कस्मादेष विशेषं न विजानातीति। उच्यते, शृणु – यत्र यस्मिन् जागरिते स्वप्ने वा अन्यदिव आत्मनो वस्त्वन्तरमिव अविद्यया प्रत्युपस्थापितं भवति, तत्र तस्मादविद्याप्रत्युपस्थापितात् अन्यः अन्यमिव आत्मानं मन्यमानः – असति आत्मनः प्रविभक्ते वस्त्वन्तरे असति च आत्मनि ततः प्रविभक्तेः, अन्यः अन्यत् पश्येत् उपलभेत; तच्च दर्शितं स्वप्ने प्रत्यक्षतः – ‘घ्नन्तीव जिनन्तीव’ (BrhU.4.3.20) इति। तथा अन्यः अन्यत् जिघ्रेत् रसयेत् वदेत् शृणुयात् मन्वीत स्पृशेत् विजानीयात् इति॥
🔗  यत्र पुनः सा अविद्या सुषुप्ते वस्त्वन्तरप्रत्युपस्थापिका शान्ता, तेन अन्यत्वेन अविद्याप्रविभक्तस्य वस्तुनः अभावात्, तत् केन कं पश्येत् जिघ्रेत् विजानीयाद्वा। अतः स्वेनैव हि प्राज्ञेन आत्मना स्वयञ्ज्योतिःस्वभावेन सम्परिष्वक्तः समस्तः सम्प्रसन्नः आप्तकामः आत्मकामः, सलिलवत् स्वच्छीभूतः – सलिल इव सलिलः, एकः द्वितीयस्याभावात्; अविद्यया हि द्वितीयः प्रविभज्यते; सा च शान्ता अत्र, अतः एकः; द्रष्टा दृष्टेरविपरिलुप्तत्वात् आत्मज्योतिःस्वभावायाः अद्वैतः द्रष्टव्यस्य द्वितीयस्याभावात्। एतत् अमृतम् अभयम्; एष ब्रह्मलोकः, ब्रह्मैव लोकः ब्रह्मलोकः; पर एव अयम् अस्मिन्काले व्यावृत्तकार्यकरणोपाधिभेदः स्वे आत्मज्योतिषि शान्तसर्वसम्बन्धो वर्तते, हे सम्राट्इति ह एवं , एनं जनकम् अनुशशास अनुशिष्टवान् याज्ञवल्क्यः इति श्रुतिवचनमेतत्। कथं वा अनुशशास? एषा अस्य विज्ञानमयस्य परमा गतिः; यास्तु अन्याः देहग्रहणलक्षणाः ब्रह्मादिस्तम्बपर्यन्ताः अविद्याकल्पिताः, ता गतयः अतः अपरमाः,अविद्याविषयत्वात्; इयं तु देवत्वादिगतीनां कर्मविद्यासाध्यानां परमा उत्तमा – यः समस्तात्मभावः, यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानातीति। एषा एव च परमा सम्पत् – सर्वासां सम्पदां विभूतीनाम् इयं परमा, स्वाभाविकत्वात् अस्याः; कृतका हि अन्याः सम्पदः। तथा एषोऽस्य परमो लोकः; ये अन्ये कर्मफलाश्रया लोकाः, ते अस्मात् अपरमाः; अयं तु न केनचन कर्मणा मीयते, स्वाभाविकत्वात्; एषोऽस्य परमो लोकः। तथा एषोऽस्य परम आनन्दः; यानि अन्यानि विषयेन्द्रियसम्बन्धजनितानि आनन्दजातानि, तान्यपेक्ष्य एषोऽस्य परम आनन्दः, नित्यत्वात्; ‘यो वै भूमा तत्सुखम्’ (ChanU.7.23.1) इति श्रुत्यन्तरात्; यत्र अन्यत्पश्यति अन्यद्विजानाति, तत् अल्पं मर्त्यम् अमुख्यं सुखम्; इदं तु तद्विपरीतम्; अत एव एषोऽस्य परम आनन्दः। एतस्यैव आनन्दस्य मात्रां कलाम् अविद्याप्रत्युपस्थापितां विषयेन्द्रियसम्बन्धकालविभाव्याम् अन्यानि भूतानि उपजीवन्ति; कानि तानि? तत एव आनन्दात् अविद्यया प्रविभज्यमानस्वरूपाणि, अन्यत्वेन तानि ब्रह्मणः परिकल्प्यमानानि अन्यानि सन्ति उपजीवन्ति भूतानि, विषयेन्द्रियसम्पर्कद्वारेण विभाव्यमानाम्॥
🔗  यस्य परमानन्दस्य मात्रा अवयवाः ब्रह्मादिभिर्मनुष्यपर्यन्तैः भूतैः उपजीव्यन्ते, तदानन्दमात्राद्वारेण मात्रिणं परमानन्दम् अधिजिगमयिषन् आह, सैन्धवलवणशकलैरिव लवणशैलम्। सः यः कश्चित् मनुष्याणां मध्ये, राद्धः संसिद्धः अविकलः समग्रावयव इत्यर्थः, समृद्धः उपभोगोपकरणसम्पन्नः भवति; किञ्च अन्येषां समानजातीयानाम् अधिपतिः स्वतन्त्रः पतिः, न माण्डलिकः; सर्वैः समस्तैः, मानुष्यकैः इति दिव्यभोगोपकरणनिवृत्त्यर्थम्, मनुष्याणामेव यानि भोगोपकरणानि तैः – सम्पन्नानामपि अतिशयेन सम्पन्नः सम्पन्नतमःस मनुष्याणां परम आनन्दः। तत्र आनन्दानन्दिनोः अभेदनिर्देशात् न अर्थान्तरभूतत्वमित्येतत्; परमानन्दस्यैव इयं विषयविषय्याकारेण मात्रा प्रसृतेति हि उक्तम् ‘यत्र वा अन्यदिव स्यात्’ (BrhU.4.3.31) इत्यादिवाक्येन; तस्मात् युक्तोऽयम् – ‘परम आनन्दः’ इत्यभेदनिर्देशः। युधिष्ठिरादितुल्यो राजा अत्र उदाहरणम्। दृष्टं मनुष्यानन्दम् आदिं कृत्वा शतगुणोत्तरोत्तरक्रमेण उन्नीय परमानन्दम्, यत्र भेदो निवर्तते तमधिगमयति; अत्र अयमानन्दः शतगुणोत्तरोत्तरक्रमेण वर्धमानः यत्र वृद्धिकाष्ठामनुभवति, यत्र गणितभेदो निवर्तते, अन्यदर्शनश्रवणमननाभावात्,तं परमानन्दं विवक्षन् आह – अथ ये मनुष्याणाम् एवम्प्रकाराः शतम् आनन्द-भेदाः, स एकः पितृणाम्; तेषां विशेषणम् – जितलोकानाम् इति; श्राद्धादिकर्मभिः पितॄन् तोषयित्वा तेन कर्मणा जितो लोको येषाम्, ते जितलोकाः पितरः; तेषां पितृणां जितलोकानां मनुष्यानन्दशतगुणीकृतपरिमाण एक आनन्दो भवति। सोऽपि शतगुणीकृतः गन्धर्वलोके एक आनन्दो भवति। स च शतगुणीकृतः कर्मदेवानाम् एक आनन्दः; अग्निहोत्रादिश्रौत-कर्मणा ये देवत्वं प्राप्नुवन्ति, ते कर्मदेवाः। तथैव आजान-देवानाम् एक आनन्दः; आजानत एव उत्पत्तित एव ये देवाः, ते आजानदेवाः; यश्च श्रोत्रियः अधीतवेदः, अवृजिनः वृजिनं पापम् तद्रहितः यथोक्तकारीत्यर्थः, अकामहतः वीततृष्णः आजानदेवेभ्योऽर्वाक् यावन्तो विषयाः तेषु –तस्य च एवम्भूतस्य आजानदेवैः समान आनन्द इत्येतदन्वाकृष्यते च-शब्दात्। तच्छतगुणीकृतपरिमाणः प्रजापतिलोके एक आनन्दो विराट्शरीरे; तथा तद्विज्ञानवान् श्रोत्रियः अधीतवेदश्च अवृजिन इत्यादि पूर्ववत्। तच्छतगुणीकृतपरिमाण एक आनन्दो ब्रह्मलोके हिरण्यगर्भात्मनि; यश्चेत्यादि पूर्ववदेव। अतः परं गणितनिवृत्तिः; एष परम आनन्द इत्युक्तः, यस्य च परमानन्दस्य ब्रह्मलोकाद्यानन्दा मात्राः, उदधेरिव विप्रुषः। एवं शतगुणोत्तरोत्तरवृद्ध्युपेता आनन्दाः यत्र एकतां यान्ति, यश्च श्रोत्रियप्रत्यक्षः, अथ एष एव सम्प्रसादलक्षणः परम आनन्दः; तत्र हि नान्यत्पश्यति नान्यच्छृणोति; अतो भूमा, भूमत्वादमृतः; इतरे तद्विपरीताः। अत्र च श्रोत्रियत्वावृजिनत्वे तुल्ये; अकामहतत्वकृतो विशेषः आनन्दशतगुणवृद्धिहेतुः; अत्र एतानि साधनानि श्रोत्रियत्वावृजिनत्वाकामहतत्वानि तस्य तस्य आनन्दस्य प्राप्तौ अर्थादभिहितानि, यथा कर्माणि अग्निहोत्रादीनि देवानां देवत्वप्राप्तौ; तत्र च श्रोत्रियत्वावृजिनत्वलक्षणे कर्मणी अधरभूमिष्वपि समाने इति न उत्तरानन्दप्राप्तिसाधने अभ्युपेयेते; अकामहतत्वं तु वैराग्यतारतम्योपपत्तेः उत्तरोत्तरभूम्यानन्दप्राप्तिसाधनमित्यवगम्यते। स एष परमः आनन्दः वितृष्णश्रोत्रियप्रत्यक्षः अधिगतः। तथा च वेदव्यासः – ‘यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम्। तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्’ (मो. ध. १७७-५०) इति। एष ब्रह्मलोकः, हे सम्राट्इति ह उवाच याज्ञवल्क्यःसोऽहम् एवम् अनुशिष्टः भगवते तुभ्यम् सहस्रं ददामि गवाम्; अत ऊर्ध्वं विमोक्षायैव ब्रूहिइति व्याख्यातमेतत्। अत्र ह विमोक्षायेत्यस्मिन्वाक्ये, याज्ञवल्क्यः बिभयाञ्चकार भीतवान्; याज्ञवल्क्यस्य भयकारणमाह श्रुतिः – न याज्ञवल्क्यो वक्तृत्वसामर्थ्याभावाद्भीतवान्, अज्ञानाद्वा; किं तर्हि मेधावी राजा सर्वेभ्यः, मा माम्, अन्तेभ्यः प्रश्ननिर्णयावसानेभ्यः, उदरौत्सीत् आवृणोत् अवरोधं कृतवानित्यर्थः; यद्यत् मया निर्णीतं प्रश्नरूपं विमोक्षार्थम्, तत्तत् एकदेशत्वेनैव कामप्रश्नस्य गृहीत्वा पुनः पुनः मां पर्यनुयुङ्क्त एव, मेधावित्वात् – इत्येतद्भयकारणम् – सर्वं मदीयं विज्ञानं कामप्रश्नव्याजेन उपादित्सतीति॥
🔗  अत्र विज्ञानमयः स्वयञ्ज्योतिः आत्मा स्वप्ने प्रदर्शितः, स्वप्नान्तबुद्धान्तसञ्चारेण कार्यकरणव्यतिरिक्तता, कामकर्मप्रविवेकश्च असङ्गतया महामत्स्यदृष्टान्तेन प्रदर्शितः; पुनश्च अविद्याकार्यं स्वप्न एव ‘घ्नन्तीव’ (BrhU.4.3.20) इत्यादिना प्रदर्शितम्; अर्थात् अविद्यायाः सतत्त्वं निर्धारितम् अतद्धर्माध्यारोपणरूपत्वम् अनात्मधर्मत्वं च; तथा विद्यायाश्च कार्यं प्रदर्शितम्, सर्वात्मभावः, स्वप्ने एव प्रत्यक्षतः – ‘सर्वोऽस्मीति मन्यते सोऽस्य परमो लोकः’ (BrhU.4.3.20) इति; तत्र च सर्वात्मभावः स्वभावोऽस्य, एवम् अविद्याकामकर्मादिसर्वसंसारधर्मसम्बन्धातीतं रूपमस्य, साक्षात् सुषुप्ते गृह्यते – इत्येतद्विज्ञापितम्; स्वयञ्ज्योतिरात्मा एषः परम आनन्दः, एष विद्याया विषयः, स एष परमः सम्प्रसादः, सुखस्य च परा काष्ठा – इत्येतत् एवमन्तेन ग्रन्थेन व्याख्यातम्। तच्च एतत् सर्वं विमोक्षपदार्थस्य दृष्टान्तभूतम्, बन्धनस्य च; ते च एते मोक्षबन्धने सहेतुके सप्रपञ्चे निर्दिष्टे विद्याविद्याकार्ये, तत्सर्वं दृष्टान्तभूतमेव – इति, तद्दार्ष्टान्तिकस्थानीये मोक्षबन्धने सहेतुके कामप्रश्नार्थभूते त्वया वक्तव्ये इति पुनः पर्यनुयुङ्क्ते जनकः – अत ऊर्ध्वं विमोक्षायैव ब्रूहीति। तत्र महामत्स्यवत् स्वप्नबुद्धान्तौ असङ्गः सञ्चरति एक आत्मा स्वयञ्ज्योतिरित्युक्तम्; यथा च असौ कार्यकरणानि मृत्युरूपाणि परित्यजन् उपाददानश्च महामत्स्यवत् स्वप्नबुद्धान्तावनुसञ्चरति, तथा जायमानो म्रियमाणश्च तैरेव मृत्युरूपैः संयुज्यते वियुज्यते च – ‘उभौ लोकावनुसञ्चरति’ (BrhU.4.3.7) इति सञ्चरणं स्वप्नबुद्धान्तानुसञ्चारस्य दार्ष्टान्तिकत्वेन सूचितम्। तदिह विस्तरेण सनिमित्तं सञ्चरणं वर्णयितव्यमिति तदर्थोऽयमारम्भः। तत्र च बुद्धान्तात् स्वप्नान्तरम् अयमात्मा अनुप्रवेशितः; तस्मात् सम्प्रसादस्थानं मोक्षदृष्टान्तभूतम्; ततः प्राच्यव्य बुद्धान्ते संसारव्यवहारः प्रदर्शयितव्य इति तेन अस्य सम्बन्धः। स वै बुद्धान्तात् स्वप्नान्तक्रमेण सम्प्रसन्नः एषः एतस्मिन् सम्प्रसादे स्थित्वा, ततः पुनः ईषत्प्रच्युतः – स्वप्नान्ते रत्वा चरिवा इत्यादि पूर्ववत् – बुद्धान्तायैव आद्रवति
🔗  इत आरभ्य अस्य संसारो वर्ण्यते। यथा अयमात्मा स्वप्नान्तात् बुद्धान्तमागतः; एवम् अयम् अस्माद्देहात् देहान्तरं प्रतिपत्स्यत इति आह अत्र दृष्टान्तम् – तत् तत्र यथा लोके अनः शकटम्, सुसमाहितं सुष्ठु भृशं वा समाहितम् भाण्डोपस्करणेन उलूखलमुसलशूर्पपिठरादिना अन्नाद्येन च सम्पन्नम् सम्भारेण आक्रान्तमित्यर्थः; तथा भाराक्रान्तं सत्, उत्सर्जत् शब्दं कुर्वत्, यथा यायात् गच्छेत् शाकटिकेनाधिष्ठितं सत्; एवमेव यथा उक्तो दृष्टान्तः, अयं शारीरः शरीरे भवः – कोऽसौ? आत्मा लिङ्गोपाधिः, यः स्वप्नबुद्धान्ताविव जन्ममरणाभ्यां पाप्मसंसर्गवियोगलक्षणाभ्याम् इहलोकपरलोकावनुसञ्चरति, यस्योत्क्रमणमनु प्राणाद्युत्क्रमणम् – सः प्राज्ञेन परेण आत्मना स्वयञ्ज्योतिःस्वभावेन अन्वारूढः अधिष्ठितः अवभास्यमानः – तथा चोक्तम् ‘आत्मनैवायं ज्योतिषास्ते पल्ययते’ (BrhU.4.3.6) इति – उत्सर्जन्याति। तत्र चैतन्यात्मज्योतिषा भास्ये लिङ्गे प्राणप्रधाने गच्छति, तदुपाधिरप्यात्मा गच्छतीव; तथा श्रुत्यन्तरम् – ‘कस्मिन्न्वहम्’ (PrasU.6.3) इत्यादि, ‘ध्यायतीव’ (BrhU.4.3.7) इति च; अत एवोक्तम् – प्राज्ञेनात्मनान्वारूढ इति; अन्यथा प्राज्ञेन एकीभूतः शकटवत् कथम् उत्सर्जयन् याति। तेन लिङ्गोपाधिरात्मा उत्सर्जन् मर्मसु निकृत्यमानेषु दुःखवेदनया आर्तः शब्दं कुर्वन् याति गच्छति। तत् कस्मिन्काले इत्युच्यते – यत्र एतद्भवति, एतदिति क्रियाविशेषणम्, ऊर्ध्वोच्छ्वासी, यत्र ऊर्ध्वोच्छ्वासित्वमस्य भवतीत्यर्थः। दृश्यमानस्याप्यनुवदनं वैराग्यहेतोः; ईदृशः कष्टः खलु अयं संसारः – येन उत्क्रान्तिकाले मर्मसु उत्कृत्यमानेषु स्मृतिलोपः दुःखवेदनार्तस्य पुरुषार्थसाधनप्रतिपत्तौ च असामर्थ्यं परवशीकृतचित्तस्य; तस्मात् यावत् इयमवस्था न आगमिष्यति, तावदेव पुरुषार्थसाधनकर्तव्यतायाम् अप्रमत्तो भवेत् – इत्याह कारुण्यात् श्रुतिः॥
🔗  तदस्य ऊर्ध्वोच्छ्वासित्वं कस्मिन्काले किन्निमित्तं कथं किमर्थं वा स्यादित्येतदुच्यते – सोऽयं प्राकृतः शिरःपाण्यादिमान् पिण्डः, यत्र यस्मिन्काले अयम् अणिमानम् अणोर्भावम् अणुत्वम् कार्श्यमित्यर्थः, न्येति निगच्छति; किन्निमित्तम्? जरया वा स्वयमेव कालपक्वफलवत् जीर्णः कार्श्यं गच्छति; उपतपतीति उपतपन् ज्वरादिरोगः तेन उपतपता वा; उपतप्यमानो हि रोगेण विषमाग्नितया अन्नं भुक्तं न जरयति, ततः अन्नरसेन अनुपचीयमानः पिण्डः कार्श्यमापद्यते, तदुच्यते – उपतपता वेति; अणिमानं निगच्छति। यदा अत्यन्तकार्श्यं प्रतिपन्नः जरादिनिमित्तैः, तदा ऊर्ध्वोच्छ्वासी भवति; यदा ऊर्ध्वोच्छ्वासी, तदा भृशाहितसम्भारशकटवत् उत्सर्जन्याति। जराभिभवः रोगादिपीडनं कार्श्यापत्तिश्च शरीरवतः अवश्यम्भाविन एतेऽनर्था इति वैराग्याय इदमुच्यते। यदा असौ उत्सर्जन्याति, तदा कथं शरीरं विमुञ्चतीति दृष्टान्त उच्यते – तत् तत्र यथा आम्रं वा फलम्, उदुम्बरं वा फलम्, पिप्पलं वा फलम्; विषमानेकदृष्टान्तोपादानं मरणस्यानियतनिमित्तत्वख्यापनार्थम्; अनियतानि हि मरणस्य निमित्तानि असङ्ख्यातानि च; एतदपि वैराग्यार्थमेव – यस्मात् अयम् अनेकमरणनिमित्तवान् तस्मात् सर्वदा मृत्योरास्ये वर्तते इति। बन्धनात् – बध्यते येन वृन्तेन सह, स बन्धनकारणो रसः, यस्मिन्वा बध्यत इति वृन्तमेव उच्यते बन्धनम् – तस्मात् रसात् वृन्ताद्वा बन्धनात् प्रमुच्यते वाताद्यनेकनिमित्तम्; एवमेव अयं पुरुषः लिङ्गात्मा लिङ्गोपाधिः एभ्योऽङ्गेभ्यः चक्षुरादिदेहावयवेभ्यः, सम्प्रमुच्य सम्यङ् निर्लेपेन प्रमुच्य – न सुषुप्तगमनकाल इव प्राणेन रक्षन्, किं तर्हि सह वायुना उपसंहृत्य, पुनः प्रतिन्यायम् – पुनःशब्दात् पूर्वमपि अयं देहात् देहान्तरम् असकृत् गतवान् यथा स्वप्नबुद्धान्तौ पुनः पुनर्गच्छति तथा, पुनः प्रतिन्यायम् प्रतिगमनं यथागतमित्यर्थः, प्रतियोनिं योनिं योनिं प्रति कर्मश्रुतादिवशात् आद्रवति; किमर्थम्? प्राणायैव प्राणव्यूहायैवेत्यर्थः; सप्राण एव हि गच्छति, ततः ‘प्राणायैव’ इति विशेषणमनर्थकम्; प्राणव्यूहाय हि गमनं देहात् देहान्तरं प्रति; तेन हि अस्य कर्मफलोपभोगार्थसिद्धिः, न प्राणसत्तामात्रेण। तस्मात् तादर्थ्यार्थं युक्तं विशेषणम् – प्राणव्यूहायेति॥
🔗  तत्र अस्य इदं शरीरं परित्यज्य गच्छतः न अन्यस्य देहान्तरस्योपादाने सामर्थ्यमस्ति, देहेन्द्रियवियोगात्; न च अन्ये अस्य भृत्यस्थानीयाः, गृहमिव राज्ञे, शरीरान्तरं कृत्वा प्रतीक्षमाणा विद्यन्ते; अथैवं सति, कथम् अस्य शरीरान्तरोपादानमिति। उच्यते – सर्वं ह्यस्य जगत् स्वकर्मफलोपभोगसाधनत्वाय उपात्तम्; स्वकर्मफलोपभोगाय च अयं प्रवृत्तः देहाद्देहान्तरं प्रतिपित्सुः; तस्मात् सर्वमेव जगत् स्वकर्मणा प्रयुक्तं तत्कर्मफलोपभोगयोग्यं साधनं कृत्वा प्रतीक्षत एव, ‘कृतं लोकं पुरुषोऽभिजायते’ (शत. ब्रा. ६-२-२-२७) इति श्रुतेः – यथा स्वप्नात् जागरितं प्रतिपित्सोः। तत्कथमिति लोकप्रसिद्धो दृष्टान्त उच्यते –
तत् तत्र यथा राजानं राज्याभिषिक्तम् आयान्तं स्वराष्ट्रे, उग्राः जातिविशेषाः क्रूरकर्माणो वा, प्रत्येनसः – प्रति प्रति एनसि पापकर्मणि नियुक्ताः प्रत्येनसः, तस्करादिदण्डनादौ नियुक्ताः, सूताश्च ग्रामण्यश्च सूतग्रामण्यः – सूताः वर्णसङ्करजातिविशेषाः, ग्रामण्यः ग्रामनेतारः, ते पूर्वमेव राज्ञ आगमनं बुद्ध्वा, अन्नैः भोज्यभक्ष्यादिप्रकारैः, पानैः मदिरादिभिः, आवसथैः च प्रासादादिभिः, प्रतिकल्पन्ते निष्पन्नैरेव प्रतीक्षन्ते – अयं राजा आयाति अयमम् आगच्छति इत्येवं वदन्तः। यथा अयं दृष्टान्तः, एवं ह एवंविदं कर्मफलस्य वेदितारं संसारिणमित्यर्थः; कर्मफलं हि प्रस्तुतम्, तत् एवंशब्देन परामृश्यते; सर्वाणि भूतानि शरीरकर्तॄणि, करणानुग्रहीतॄणि च आदित्यादीनि, तत्कर्मप्रयुक्तानि कृतैरेव कर्मफलोपभोगसाधनैः प्रतीक्षन्ते – इदं ब्रह्म भोक्तृ कर्तृ च अस्माकम् आयाति, तथा इदम् आगच्छति इति एवमेव च कृत्वा प्रतीक्षन्त इत्यर्थः॥
🔗  तमेवं जिगमिषुं के सह गच्छन्ति; ये वा गच्छन्ति, ते किं तत्क्रियाप्रणुन्नाः, आहोस्वित् तत्कर्मवशात् स्वयमेव गच्छन्ति – परलोकशरीरकर्तॄणि च भूतानीति। अत्रोच्यते दृष्टान्तः – तद्यथा राजानं प्रयियासन्तम् प्रकर्षेण यातुमिच्छन्तम्, उग्राः प्रत्येनसः सूतग्रामण्यः तं यथा अभिसमायन्ति आभिमुख्येन समायन्ति, एकीभावेन तमभिमुखा आयन्ति अनाज्ञप्ता एव राज्ञा केवलं तज्जिगमिषाभिज्ञाः, एवमेव इममात्मानं भोक्तारम् अन्तकाले मरणकाले सर्वे प्राणाः वागादयः अभिसमायन्तियत्रैतदूर्ध्वोच्छ्वासी भवति इति व्याख्यातम्॥

Go to Top ('Home' key on many Windows browsers)

BrhU.4.04

🔗  स यत्रायमात्मा। संसारोपवर्णनं प्रस्तुतम्; ‘तत्रायं पुरुष एभ्योऽङ्गेभ्यः सम्प्रमुच्य’ (BrhU.4.3.36) इत्युक्तम्। तत्सम्प्रमोक्षणं कस्मिन्काले कथं वेति सविस्तरं संसरणं वर्णयितव्यमित्यारभ्यते –
सोऽयम् आत्मा प्रस्तुतः, यत्र यस्मिन्काले, अबल्यम् अबलभावम्, नि एत्य गत्वा – यत् देहस्य दौर्बल्यम्, तत् आत्मन एव दौर्बल्यमित्युपचर्यते ‘अबल्यं न्येत्य’ इति; न ह्यसौ स्वतः अमूर्तत्वात् अबलभावं गच्छति – तथा सम्मोहम् इव सम्मूढता सम्मोहः विवेकाभावः सम्मूढतामिव न्येति निगच्छति; न चास्य स्वतः सम्मोहः असम्मोहो वा अस्ति, नित्यचैतन्यज्योतिःस्वभावत्वात्; तेन इवशब्दः – सम्मोहमिव न्येतीति; उत्क्रान्तिकाले हि करणोपसंहारनिमित्तो व्याकुलीभावः आत्मन इव लक्ष्यते लौकिकैः; तथा च वक्तारो भवन्ति – सम्मूढः सम्मूढोऽयमिति। अथ वा उभयत्र इवशब्दप्रयोगो योज्यः – अबल्यमिव न्येत्य सम्मोहमिव न्येतीति, उभयस्य परोपाधिनिमित्तत्वाविशेषात्, समानकर्तृकनिर्देशाच्च। अथ अस्मिन्काले एते प्राणाः वागादयः एनम् आत्मानम् अभिसमायन्ति; तदा अस्य शारीरस्यात्मनः अङ्गेभ्यः सम्प्रमोक्षणम्। कथं पुनः सम्प्रमोक्षणम्, केन वा प्रकारेण आत्मानमभिसमायन्तीत्युच्यते – सः आत्मा, एतास्तेजोमात्राः तेजसो मात्राः तेजोमात्राः तेजोवयवाः रूपादिप्रकाशकत्वात्, चक्षुरादीनि करणानीत्यर्थः, ता एताः समभ्याददानः सम्यक् निर्लेपेन अभ्याददानः आभिमुख्येन आददानः संहरमाणः; तत् स्वप्नापेक्षया विशेषणं ‘सम्’ इति; न तु स्वप्ने निर्लेपेन सम्यगादानम्; अस्ति तु आदानमात्रम्; ‘गृहीता वाक् गृहीतं चक्षुः’ (BrhU.2.1.17) ‘अस्य लोकस्य सर्वावतो मात्रामपादाय’ (BrhU.4.3.9) ‘शुक्रमादाय’ (BrhU.4.3.11) इत्यादिवाक्येभ्यः। हृदयमेव पुण्डरीकाकाशम् अन्ववक्रामति अन्वागच्छति, हृदयेऽभिव्यक्तविज्ञानो भवतीत्यर्थः – बुद्ध्यादिविक्षेपोपसंहारे सति; न हि तस्य स्वतश्चलनं विक्षेपोपसंहारादिविक्रिया वा, ‘ध्यायतीव लेलायतीव’ (BrhU.4.3.2) इत्युक्तत्वात्; बुद्ध्याद्युपाधिद्वारैव हि सर्वविक्रिया अध्यारोप्यते तस्मिन्। कदा पुनः तस्य तेजोमात्राभ्यादानमित्युच्यते – सः यत्र एषः, चक्षुषि भवः चाक्षुषः पुरुषः आदित्यांशः भोक्तुः कर्मणा प्रयुक्तः यावद्देहधारणं तावत् चक्षुषोऽनुग्रहं कुर्वन् वर्तते; मरणकाले तु अस्य चक्षुरनुग्रहं परित्यजति, स्वम् आदित्यात्मानं प्रतिपद्यते; तदेतदुक्तम् – ‘यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यम्’ (BrhU.3.2.13) इत्यादि; पुनः देहग्रहणकाले संश्रयिष्यन्ति; तथा स्वप्स्यतः प्रबुध्यतश्च; तदेतदाह – चाक्षुषः पुरुषः यत्र यस्मिन्काले, पराङ् पर्यावर्तते – परि समन्तात् पराङ् व्यावर्तते इति; अथ अत्र अस्मिन्काले अरूपज्ञो भवति, मुमूर्षुः रूपं न जानाति; तदा अयमात्मा चक्षुरादितेजोमात्राः समभ्याददानो भवति, स्वप्नकाल इव॥
🔗  एकीभवति करणजातं स्वेन लिङ्गात्मना, तदा एनं पार्श्वस्था आहुःन पश्यतीति; तथा घ्राणदेवतानिवृत्तौ घ्राणम् एकीभवति लिङ्गात्मना, तदा न जिघ्रतीत्याहुः। समानमन्यत्। जिह्वायां सोमो वरुणो वा देवता, तन्निवृत्त्यपेक्षया न रसयते इत्याहुः। तथा न वदति न शृणोति न मनुते न स्पृशति न विजानातीत्याहुः। तदा उपलक्ष्यते देवतानिवृत्तिः, करणानां च हृदय एकीभावः। तत्र हृदये उपसंहृतेषु करणेषु योऽन्तर्व्यापारः स कथ्यते – तस्य ह एतस्य प्रकृतस्य हृदयस्य हृदयच्छिद्रस्येत्येतत्, अग्रम् नाडीमुखं निर्गमनद्वारम्, प्रद्योतते, स्वप्नकाल इव, स्वेन भासा तेजोमात्रादानकृतेन, स्वेनैव ज्योतिषा आत्मनैव च; तेन आत्मज्योतिषा प्रद्योतेन हृदयाग्रेण एष आत्मा विज्ञानमयो लिङ्गोपाधिः निर्गच्छति निष्क्रामति। तथा आथर्वणे ‘कस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति स प्राणमसृजत’ (PrasU.6.3) इति। तत्र च आत्मचैतन्यज्योतिः सर्वदा अभिव्यक्ततरम्; तदुपाधिद्वारा हि आत्मनि जन्ममरणगमनागमनादिसर्वविक्रियालक्षणः संव्यवहारः; तदात्मकं हि द्वादशविधं करणं बुद्ध्यादि, तत् सूत्रम्, तत् जीवनम्, सोऽन्तरात्मा जगतः तस्थुषश्च। तेन प्रद्योतेन हृदयाग्रप्रकाशेन निष्क्रममाणः केन मार्गेण निष्क्रामतीत्युच्यते – चक्षुष्टो वा, आदित्यलोकप्राप्तिनिमित्तं ज्ञानं कर्म वा यदि स्यात्; मूर्ध्नो वा ब्रह्मलोकप्राप्तिनिमित्तं चेत्; अन्येभ्यो वा शरीरदेशेभ्यः शरीरावयवेभ्यः यथाकर्म यथाश्रुतम्। तं विज्ञानात्मानम्, उत्क्रामन्तम् परलोकाय प्रस्थितम्, परलोकाय उद्भूताकूतमित्यर्थः, प्राणः सर्वाधिकारिस्थानीयः राज्ञ इव अनूत्क्रामति; तं च प्राणमनूत्क्रामन्तं वागादयः सर्वे प्राणाः अनूत्क्रामन्ति। यथाप्रधानान्वाचिख्यासा इयम्, न तु क्रमेण सार्थवत् गमनम् इह विवक्षितम्। तदा एष आत्मा सविज्ञानो भवति स्वप्न इव विशेषविज्ञानवान् भवति कर्मवशात्, न स्वतन्त्रः; स्वातन्त्र्येण हि सविज्ञानत्वे सर्वः कृतकृत्यः स्यात्; नैव तु तत् लभ्यते; अत एवाह व्यासः – ‘सदा तद्भावभावितः’ (BhG.8.6) इति; कर्मणा तु उद्भाव्यमानेन अन्तःकरणवृत्तिविशेषाश्रितवासनात्मकविशेषविज्ञानेन सर्वो लोकः एतस्मिन्काले सविज्ञानो भवति; सविज्ञानमेव च गन्तव्यम् अन्ववक्रामति अनुगच्छति विशेषविज्ञानोद्भासितमेवेत्यर्थः। तस्मात् तत्काले स्वातन्त्र्यार्थं योगधर्मानुसेवनम् परिसङ्ख्यानाभ्यासश्च विशिष्टपुण्योपचयश्च श्रद्दधानैः परलोकार्थिभिः अप्रमत्तैः कर्तव्य इति। सर्वशास्त्राणां यत्नतो विधेयोऽर्थः – दुश्चरिताच्च उपरमणम्। न हि तत्काले शक्यते किञ्चित्सम्पादयितुम्, कर्मणा नीयमानस्य स्वातन्त्र्याभावात्। ‘पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन’ (BrhU.3.2.13) इत्युक्तम्। एतस्य ह्यनर्थस्य उपशमोपायविधानाय सर्वशाखोपनिषदः प्रवृत्ताः। न हि तद्विहितोपायानुसेवनं मुक्त्वा आत्यन्तिकः अस्य अनर्थस्य उपशमोपायः अस्ति। तस्मात् अत्रैव उपनिषद्विहितोपाये यत्नपरैर्भवितव्यम् – इत्येष प्रकरणार्थः।
शकटवत्सम्भृतसम्भार उत्सर्जन्यातीत्युक्तम्, किं पुनः तस्य परलोकाय प्रवृत्तस्य पथ्यदनं शाकटिकसम्भारस्थानीयम्, गत्वा वा परलोकं यत् भुङ्क्ते, शरीराद्यारम्भकं च यत् तत्किम् इत्युच्यते – तं परलोकाय गच्छन्तमात्मानम्, विद्याकर्मणी – विद्या च कर्म च विद्याकर्मणी विद्या सर्वप्रकारा विहिता प्रतिषिद्धा च अविहिता अप्रतिषिद्धा च, तथा कर्म विहितं प्रतिषिद्धं च अविहितमप्रतिषिद्धं च, समन्वारभेते सम्यगन्वारभेते अन्वालभेते अनुगच्छतः; पूर्वप्रज्ञा च – पूर्वानुभूतविषया प्रज्ञा पूर्वप्रज्ञा अतीतकर्मफलानुभववासनेत्यर्थः; सा च वासना अपूर्वकर्मारम्भे कर्मविपाके च अङ्गं भवति; तेन असावपि अन्वारभते; न हि तया वासनया विना कर्म कर्तुं फलं च उपभोक्तुं शक्यते; न हि अनभ्यस्ते विषये कौशलम् इन्द्रियाणां भवति; पूर्वानुभववासनाप्रवृत्तानां तु इन्द्रियाणाम् इह अभ्यासमन्तरेण कौशलमुपपद्यते; दृश्यते च केषाञ्चित् कासुचित्क्रियासु चित्रकर्मादिलक्षणासु विनैव इह अभ्यासेन जन्मत एव कौशलम्, कासुचित् अत्यन्तसौकर्ययुक्तास्वपि अकौशलं केषाञ्चित्; तथा विषयोपभोगेषु स्वभावत एव केषाञ्चित् कौशलाकौशले दृश्येते; तच्च एतत्सर्वं पूर्वप्रज्ञोद्भवानुद्भवनिमित्तम्; तेन पूर्वप्रज्ञया विना कर्मणि वा फलोपभोगे वा न कस्यचित् प्रवृत्तिरुपपद्यते। तस्मात् एतत् त्रयं शाकटिकसम्भारस्थानीयं परलोकपथ्यदनं विद्याकर्मपूर्वप्रज्ञाख्यम्। यस्मात् विद्याकर्मणी पूर्वप्रज्ञा च देहान्तरप्रतिपत्त्युपभोगसाधनम्, तस्मात् विद्याकर्मादि शुभमेव समाचरेत्, यथा इष्टदेहसंयोगोपभोगौ स्याताम् – इति प्रकरणार्थः॥
🔗  एवं विद्यादिसम्भारसम्भृतो देहान्तरं प्रतिपद्यमानः, मुक्त्वा पूर्वं देहम्, पक्षीव वृक्षान्तरम्, देहान्तरं प्रतिपद्यते; अथवा आतिवाहिकेन शरीरान्तरेण कर्मफलजन्मदेशं नीयते। किञ्चात्रस्थस्यैव सर्वगतानां करणानां वृत्तिलाभो भवति, आहोस्वित् शरीरस्थस्य सङ्कुचितानि करणानि मृतस्य भिन्नघटप्रदीपप्रकाशवत् सर्वतो व्याप्य पुनः देहान्तरारम्भे सङ्कोचमुपगच्छन्ति – किञ्च मनोमात्रं वैशेषिकसमय इव देहान्तरारम्भदेशं प्रति गच्छति, किं वा कल्पनान्तरमेव वेदान्तसमये – इत्युच्यते – ‘त एते सर्व एव समाः सर्वेऽनन्ताः’ (BrhU.1.5.13) इति श्रुतः सर्वात्मकानि तावत्करणानि, सर्वात्मकप्राणसंश्रयाच्च; तेषाम् आध्यात्मिकाधिभौतिकपरिच्छेदः प्राणिकर्मज्ञानभावनानिमित्तः; अतः तद्वशात् स्वभावतः सर्वगतानामनन्तानामपि प्राणानां कर्मज्ञानवासनानुरूपेणैव देहान्तरारम्भवशात् प्राणानां वृत्तिः सङ्कुचति विकसति च; तथा चोक्तम् ‘समः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण’ (BrhU.1.3.22) इति; तथा च इदं वचनमनुकूलम् – ‘स यो हैताननन्तानुपास्ते’ (BrhU.1.5.13) इत्यादि, ‘तं यथा यथोपासते’ इति च। तत्र वासना पूर्वप्रज्ञाख्या विद्याकर्मतन्त्रा जलूकावत् सन्ततैव स्वप्नकाल इव कर्मकृतं देहाद्देहान्तरम् आरभते हृदयस्थैव; पुनर्देहान्तरारम्भे देहान्तरं पूर्वाश्रयं विमुञ्चति – इत्येतस्मिन्नर्थे दृष्टान्त उपादीयते –
तत् तत्र देहान्तरसञ्चारे इदं निदर्शनम् – यथा येन प्रकारेण तृणजलायुका तृणजलूका तृणस्य अन्तम् अवसानम्, गत्वा प्राप्य, अन्यं तृणान्तरम्, आक्रमम् – आक्रम्यत इत्याक्रमः – तमाक्रमम्, आक्रम्य आश्रित्य, आत्मानम् आत्मनः पूर्वावयवम् उपसंहरति अन्त्यावयवस्थाने; एवमेव अयमात्मा यः प्रकृतः संसारी इदं शरीरं पूर्वोपात्तम्, निहत्य स्वप्नं प्रतिपित्सुरिव पातयित्वा अविद्यां गमयित्वा अचेतनं कृत्वा स्वात्मोपसंहारेण, अन्यम् आक्रमम् तृणान्तरमिव तृणजलूका शरीरान्तरम्, गृहीत्वा प्रसारितया वासनया, आत्मानम् उपसंहरति, तत्र आत्मभावमारभते – यथा स्वप्ने देहान्तरस्थ एव शरीरारम्भदेशे – आरभ्यमाणे देहे जङ्गमे स्थावरे वा। तत्र च कर्मवशात् करणानि लब्धवृत्तीनि संहन्यन्ते; बाह्यं च कुशमृत्तिकास्थानीयं शरीरमारभ्यते; तत्र च करणव्यूहमपेक्ष्य वागाद्यनुग्रहाय अग्न्यादिदेवताः संश्रयन्ते। एष देहान्तरारम्भविधिः॥
🔗  तत्र देहान्तरारम्भे नित्योपात्तमेव उपादानम् उपमृद्य उपमृद्य देहान्तरमारभते, आहोस्वित् अपूर्वमेव पुनः पुनरादत्ते – इत्यत्र उच्यते दृष्ठान्तः –
तत् तत्र एतस्मिन्नर्थे, यथा पेशस्कारी – पेशः सुवर्णम् तत् करोतीति पेशस्कारी सुवर्णकारः, पेशसः सुवर्णस्य मात्राम्, अप आदाय अपच्छिद्य गृहीत्वा, अन्यत् पूर्वस्मात् रचनाविशेषात् नवतरम् अभिनवतरम्, कल्याणात् कल्याणतरम्, रूपं तनुते निर्मिनोति; एवमेवायमात्मा इत्यादि पूर्ववत्। नित्योपात्तान्येव पृथिव्यादीनि आकाशान्तानि पञ्च भूतानि यानि ‘द्वे वाव ब्रह्मणो रूपे’ (BrhU.2.3.1) इति चतुर्थे व्याख्यातानि, पेशःस्थानीयानि तान्येव उपमृद्य, उपमृद्य, अन्यदन्यच्च देहान्तरं नवतरं कल्याणतरं रूपं संस्थानविशेषम्, देहान्तरमित्यर्थः, कुरुते – पित्र्यं वा पितृभ्यो हितम्, पितृलोकोपभोगयोग्यमित्यर्थः, गान्धर्वं गन्धर्वाणामुपभोगयोग्यम्, तथा देवानां दैवम्, प्रजापतेः प्राजापत्यम्, ब्रह्मण इदं ब्राह्मं वा, यथाकर्म यथाश्रुतम्, अन्येषां वा भूतानां सम्बन्धि – शरीरान्तरं कुरुते इत्यभिसम्बध्यते॥
🔗  ये अस्य बन्धनसञ्ज्ञकाः उपाधिभूताः, यैः संयुक्तः तन्मयोऽयमिति विभाव्यते, ते पदार्थाः पुञ्जीकृत्य इह एकत्र प्रतिनिर्दिश्यन्ते –
सः वै अयम् यः एवं संसरति आत्माब्रह्म एव पर एव, यः अशनायाद्यतीतः; विज्ञानमयः – विज्ञानं बुद्धिः, तेन उपलक्ष्यमाणः, तन्मयः; ‘कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु’ (BrhU.4.3.7) इति हि उक्तम्; विज्ञानमयः विज्ञानप्रायः, यस्मात् तद्धर्मत्वमस्य विभाव्यते – ‘ध्यायतीव लेलायतीव’ (BrhU.4.3.7) इति; तथा मनोमयः मनःसन्निकर्षान्मनोमयः; तथा प्राणमयः, प्राणः पञ्चवृत्तिः तन्मयः, येन चेतनः चलतीव लक्ष्यते; तथा चक्षुर्मयः रूपदर्शनकाले; एवं श्रोत्रमयः शब्दश्रवणकाले। एवं तस्य तस्य इन्द्रियस्य व्यापारोद्भवे तत्तन्मयो भवति। एवं बुद्धिप्राणद्वारेण चक्षुरादिकरणमयः सन् शरीरारम्भकपृथिव्यादिभूतमयो भवति; तत्र पार्थिवशरीरारम्भे पृथिवीमयो भवति; तथा वरुणादिलोकेषु आप्यशरीरारम्भे आपोमयो भवति; तथा वायव्यशरीरारम्भे वायुमयो भवति; तथा आकाशशरीरारम्भे आकाशमयो भवति; एवम् एतानि तैजसानि देवशरीराणि; तेष्वारभ्यमाणेषु तन्मयः तेजोमयो भवति। अतो व्यतिरिक्तानि पश्वादिशरीराणि नरकप्रेतादिशरीराणि च अतेजोमयानि; तान्यपेक्ष्य आह – अतेजोमय इति। एवं कार्यकरणसङ्घातमयः सन् आत्मा प्राप्तव्यं वस्त्वन्तरं पश्यन् – इदं मया प्राप्तम्, अदो मया प्राप्तव्यम् – इत्येवं विपरीतप्रत्ययः तदभिलाषः काममयो भवति। तस्मिन्कामे दोषं पश्यतः तद्विषयाभिलाषप्रशमे चित्तं प्रसन्नम् अकलुषं शान्तं भवति, तन्मयः अकाममयः। एवं तस्मिन्विहते कामे केनचित्, सकामः क्रोधत्वेन परिणमते, तेन तन्मयो भवन् क्रोधमयः। स क्रोधः केनचिदुपायेन निवर्तितो यदा भवति, तदा प्रसन्नम् अनाकुलं चित्तं सत् अक्रोधः उच्यते, तेन तन्मयः। एवं कामक्रोधाभ्याम् अकामक्रोधाभ्यां च तन्मयो भूत्वा, धर्ममयः अधर्ममयः च भवति; न हि कामक्रोधादिभिर्विना धर्मादिप्रवृत्तिरुपपद्यते, ‘यद्यद्धि कुरुते कर्म तत्तत्कामस्य चेष्टितम्’ (मनु. २-४) इति स्मरणात्। धर्ममयः अधर्ममयश्च भूत्वा सर्वमयो भवति – समस्तं धर्माधर्मयोः कार्यम्, यावत्किञ्चिद्व्याकृतम्, तत्सर्वं धर्माधर्मयोः फलम्, तत् प्रतिपद्यमानः तन्मयो भवति। किं बहुना, तदेतत् सिद्धमस्य – यत् अयम् इदम्मयः गृह्यमाणविषयादिमयः, तस्मात् अयम् अदोमयः; अद इति परोक्षं कार्येण गृह्यमाणेन निर्दिश्यते; अनन्ता हि अन्तःकरणे भावनाविशेषाः; नैव ते विशेषतो निर्देष्टुं शक्यन्ते; तस्मिन्तस्मिन् क्षणे कार्यतोऽवगम्यन्ते – इदमस्य हृदि वर्तते, अदः अस्येति; तेन गृह्यमाणकार्येण इदम्मयतया निर्दिश्यते परोक्षः अन्तःस्थो व्यवहारः – अयमिदानीमदोमय इति। सङ्क्षेपतस्तु यथा कर्तुं यथा वा चरितुं शीलमस्य सोऽयं यथाकारी यथाचारी, सः तथा भवति; करणं नाम नियता क्रिया विधिप्रतिषेधादिगम्या, चरणं नाम अनियतमिति विशेषः। साधुकारी साधुर्भवति इति यथाकारीत्यस्य विशेषणम्; पापकारी पापो भवति इति च यथाचारीत्यस्य। ताच्छील्यप्रत्ययोपादानात् अत्यन्ततात्पर्यतैव तन्मयत्वम्, न तु तत्कर्ममात्रेण – इत्याशङ्क्याह – पुण्यः पुण्येन कर्मणा भवति पापः पापेन इति; पुण्यपापकर्ममात्रेणैव तन्मयता स्यात्, न तु ताच्छील्यमपेक्षते; ताच्छील्ये तु तन्मयत्वातिशय इत्ययं विशेषः। तत्र कामक्रोधादिपूर्वकपुण्यापुण्यकारिता सर्वमयत्वे हेतुः, संसारस्य कारणम्, देहात् देहान्तरसञ्चारस्य च; एतत्प्रयुक्तो हि अन्यदन्यद्देहान्तरमुपादत्ते; तस्मात् पुण्यापुण्ये संसारस्य कारणम्; एतद्विषयौ हि विधिप्रतिषेधौ; अत्र शास्त्रस्य साफल्यमिति।
अथो अपि अन्ये बन्धमोक्षकुशलाः खलु आहुः – सत्यं कामादिपूर्वके पुण्यापुण्ये शरीरग्रहणकारणम्; तथापि कामप्रयुक्तो हि पुरुषः पुण्यापुण्ये कर्मणी उपचिनोति; कामप्रहाणे तु कर्म विद्यमानमपि पुण्यापुण्योपचयकरं न भवति; उपचिते अपि पुण्यापुण्ये कर्मणी कामशून्ये फलारम्भके न भवतः; तस्मात् काम एव संसारस्य मूलम्। तथा चोक्तमाथर्वणे – ‘कामान्यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र’ (MunU.3.2.2) इति। तस्मात् काममयः एवायं पुरुषः, यत् अन्यमयत्वं तत् अकारणं विद्यमानमपि – इत्यतः अवधारयति ‘काममय एव’ इति। यस्मात् च काममयः सन् यादृशेन कामेन यथाकामो भवति, तत्क्रतुर्भवति – स काम ईषदभिलाषमात्रेणाभिव्यक्तो यस्मिन्विषये भवति, सः अविहन्यमानः स्फुटीभवन् क्रतुत्वमापद्यते; क्रतुर्नाम अध्यवसायः निश्चयः, यदनन्तरा क्रिया प्रवर्तते। यत्क्रतुर्भवति – यादृक्कामकार्येण क्रतुना यथारूपः क्रतुः अस्य सोऽयं यत्क्रतुः भवति – तत्कर्म कुरुते – यद्विषयः क्रतुः, तत्फलनिर्वृत्तये यत् योग्यं कर्म, तत् कुरुते निर्वर्तयति। यत् कर्म कुरुते, तत् अभिसम्पद्यते – तदीयं फलमभिसम्पद्यते। तस्मात् सर्वमयत्वे अस्य संसारित्वे च काम एव हेतुरिति॥
🔗  तत् तस्मिन्नर्थे एष श्लोकः मन्त्रोऽपि भवतितदेव एति तदेव गच्छति, सक्तः आसक्तः तत्र उद्भूताभिलाषः सन्नित्यर्थः; कथमेति? सह कर्मणा – यत् कर्म फलासक्तः सन् अकरोत्, तेन कर्मणा सहैव तत् एति तत्फलमेति; किं तत्? लिङ्गं मनः – मनःप्रधानत्वाल्लिङ्गस्य मनो लिङ्गमित्युच्यते; अथवा लिङ्ग्यते अवगम्यते – अवगच्छति – येन, तत् लिङ्गम्, तत् मनः – यत्र यस्मिन् निषक्तं निश्चयेन सक्तम् उद्भूताभिलाषम् अस्य संसारिणः; तदभिलाषो हि तत्कर्म कृतवान्; तस्मात्तन्मनोऽभिषङ्गवशादेव अस्य तेन कर्मणा तत्फलप्राप्तिः। तेन एतत्सिद्धं भवति, कामो मूलं संसारस्येति। अतः उच्छिन्नकामस्य विद्यमानान्यपि कर्माणि ब्रह्मविदः वन्ध्याप्रसवानि भवन्ति, ‘पर्याप्तकामस्य कृतात्मनश्च इहैव सर्वे प्रविलीयन्ति कामाः’ (MunU.3.2.2) इति श्रुतेः। किञ्च प्राप्यान्तं कर्मणः – प्राप्य भुक्त्वा अन्तम् अवसानं यावत्, कर्मणः फलपरिसमाप्तिं कृत्वेत्यर्थः; कस्य कर्मणोऽन्तं प्राप्येत्युच्यते – तस्य, यत्किञ्च कर्म इह अस्मिन् लोके करोति निर्वर्तयति अयम्, तस्य कर्मणः फलं भुक्त्वा अन्तं प्राप्य, तस्मात् लोकात् पुनः ऐति आगच्छति, अस्मै लोकाय कर्मणे – अयं हि लोकः कर्मप्रधानः, तेनाह ‘कर्मणे’ इति – पुनः कर्मकरणाय; पुनः कर्म कृत्वा फलासङ्गवशात् पुनरमुं लोकं याति – इत्येवम्। इति नु एवं नु, कामयमानः संसरति। यस्मात् कामयमान एव एवं संसरति, अथ तस्मात्, अकामयमानो न क्वचित्संसरति। फलासक्तस्य हि गतिरुक्ता; अकामस्य हि क्रियानुपपत्तेः अकामयमानो मुच्यत एव। कथं पुनः अकामयमानो भवति? यः अकामो भवति, असौ अकामयमानः। कथमकामतेत्युच्यते – यो निष्कामः यस्मान्निर्गताः कामाः सोऽयं निष्कामः। कथं कामा निर्गच्छन्ति? य आप्तकामः भवति आप्ताः कामा येन स आप्तकामः। कथमाप्यन्ते कामाः? आत्मकामत्वेन, यस्य आत्मैव नान्यः कामयितव्यो वस्त्वन्तरभूतः पदार्थो भवति; आत्मैव अनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एकरसः नोर्ध्वं न तिर्यक् नाधः आत्मनोऽन्यत् कामयितव्यं वस्वन्तरम् – यस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्, शृणुयात्, मन्वीत, विजानीयाद्वा – एवं विजानन्कं कामयेत। ज्ञायमानो ह्यन्यत्वेन पदार्थः कामयितव्यो भवति; न चासावन्यः ब्रह्मविद आप्तकामस्यास्ति। य एवात्मकामतया आप्तकामः, स निष्कामः अकामः अकामयमानश्चेति मुच्यते। न हि यस्य आत्मैव सर्वं भवति, तस्य अनात्मा कामयितव्योऽस्ति। अनात्मा चान्यः कामयितव्यः, सर्वं च आत्मैवाभूदिति विप्रतिषिद्धम्। सर्वात्मदर्शिनः कामयितव्याभावात्कर्मानुपपत्तिः। ये तु प्रत्यवायपरिहारार्थं कर्म कल्पयन्ति ब्रह्मविदोऽपि, तेषां न आत्मैव सर्वं भवति, प्रत्यवायस्य जिहासितव्यस्य आत्मनोऽन्यस्य अभिप्रेतत्वात्। येन च अशनायाद्यतीतः नित्यं प्रत्यवायासम्बद्धः विदित आत्मा, तं वयं ब्रह्मविदं ब्रूमः; नित्यमेव अशनायाद्यतीतमात्मानं पश्यति; यस्माच्च जिहासितव्यमन्यम् उपादेयं वा यो न पश्यति, तस्य कर्म न शक्यत एव सम्बन्धुम्। यस्तु अब्रह्मवित्, तस्य भवत्येव प्रत्यवायपरिहारार्थं कर्मेति न विरोधः। अतः कामाभावात् अकामयमानो न जायते, मुच्यत एव।
तस्य एवमकामयमानस्य कर्माभावे गमनकारणाभावात् प्राणाः वागादयः, नोत्क्रामन्ति नोर्ध्वं क्रामन्ति देहात्। स च विद्वान् आप्तकामः आत्मकामतया इहैव ब्रह्मभूतः। सर्वात्मनो हि ब्रह्मणः दृष्टान्तत्वेन प्रदर्शितम् एतद्रूपम् – ‘तद्वा अस्यैतदाप्तकाममकामं रूपम्’ (BrhU.4.3.21) इति; तस्य हि दार्ष्टान्तिकभूतोऽयमर्थ उपसंह्रियते – अथाकामयमान इत्यादिना। स कथमेवम्भूतो मुच्यत इत्युच्यते – यो हि सुषुप्तावस्थमिव निर्विशेषमद्वैतम् अलुप्तचिद्रूपज्योतिःस्वभावम् आत्मानं पश्यति, तस्यैव अकामयमानस्य कर्माभावे गमनकारणाभावात् प्राणा वागादयो नोत्क्रामन्ति। किन्तु विद्वान् सः इहैव ब्रह्म, यद्यपि देहवानिव लक्ष्यते; स ब्रह्मैव सन् ब्रह्म अप्येति। यस्मात् न हि तस्य अब्रह्मत्वपरिच्छेदहेतवः कामाः सन्ति, तस्मात् इहैव ब्रह्मैव सन् ब्रह्म अप्येति न शरीरपातोत्तरकालम्। न हि विदुषो मृतस्य भावान्तरापत्तिः जीवतोऽन्यः भावः, देहान्तरप्रतिसन्धानाभावमात्रेणैव तु ब्रह्माप्येतीत्युच्यते। भावान्तरापत्तौ हि मोक्षस्य सर्वोपनिषद्विवक्षितोऽर्थः आत्मैकत्वाख्यः स बाधितो भवेत्; कर्महेतुकश्च मोक्षः प्राप्नोति, न ज्ञाननिमित्त इति; स चानिष्टः; अनित्यत्वं च मोक्षस्य प्राप्नोति; न हि क्रियानिर्वृत्तः अर्थः नित्यो दृष्टः; नित्यश्च मोक्षोऽभ्युपगम्यते, ‘एष नित्यो महिमा’ (BrhU.4.4.23) इति मन्त्रवर्णात्। न च स्वाभाविकात् स्वभावात् अन्यत् नित्यं कल्पयितुं शक्यम्। स्वाभाविकश्चेत् अग्न्युष्णवत् आत्मनः स्वभावः, स न शक्यते पुरुषव्यापारानुभावीति वक्तुम्; न हि अग्नेरौष्ण्यं प्रकाशो वा अग्निव्यापारानन्तरानुभावी; अग्निव्यापारानुभावी स्वाभाविकश्चेति विप्रतिषिद्धम्। ज्वलनव्यापारानुभावित्वम् उष्णप्रकाशयोरिति चेत्, न, अन्योपलब्धिव्यवधानापगमाभिव्यक्त्यपेक्षत्वात्; ज्वलनादिपूर्वकम् अग्निः उष्णप्रकाशगुणाभ्यामभिव्यज्यते, तत् न अग्न्यपेक्षया; किं तर्हि अन्यदृष्टेः अग्नेरौष्ण्यप्रकाशौ धर्मौ व्यवहितौ, कस्यचिद्दृष्ट्या तु असम्बध्यमानौ, ज्वलनापेक्षया व्यवधानापगमे दृष्टेरभिव्यज्येते; तदपेक्षया भ्रान्तिरुपजायते – ज्वलनपूर्वकौ एतौ उष्णप्रकाशौ धर्मौ जाताविति। यदि उष्णप्रकाशयोरपि स्वाभाविकत्वं न स्यात् – यः स्वाभाविकोऽग्नेर्धर्मः, तमुदाहरिष्यामः; न च स्वाभाविको धर्म एव नास्ति पदार्थानामिति शक्यं वक्तुम्।
न च निगडभङ्ग इव अभावभूतो मोक्षः बन्धननिवृत्तिरुपपद्यते, परमात्मैकत्वाभ्युपगमात्, ‘एकमेवाद्वितीयम्’ (ChanU.6.2.1) इति श्रुतेः; न चान्यो बद्धोऽस्ति, यस्य निगडनिवृत्तिवत् बन्धननिवृत्तिः मोक्षः स्यात्; परमात्मव्यतिरेकेण अन्यस्याभावं विस्तरेण अवादिष्म। तस्मात् अविद्यानिवृत्तिमात्रे मोक्षव्यवहार इति च अवोचाम, यथा रज्ज्वादौ सर्पाद्यज्ञाननिवृत्तौ सर्पादिनिवृत्तिः।
येऽप्याचक्षते – मोक्षे विज्ञानान्तरम् आनन्दान्तरं च अभिव्यज्यत इति, तैर्वक्तव्यः अभिव्यक्तिशब्दार्थः। यदि तावत् लौकिक्येव उपलब्धिविषयव्याप्तिः अभिव्यक्तिशब्दार्थः, ततो वक्तव्यम् – किं विद्यमानमभिव्यज्यते, अविद्यमानमिति वा। विद्यमानं चेत्, यस्य मुक्तस्य तदभिव्यज्यते तस्य आत्मभूतमेव तत् इति, उपलब्धिव्यवधानानुपपत्तेः नित्याभिव्यक्तत्वात्, मुक्तस्य अभिव्यज्यत इति विशेषवचनमनर्थकम्। अथ कदाचिदेव अभिव्यज्यते, उपलब्धिव्यवधानात् अनात्मभूतं तदिति, अन्यतोऽभिव्यक्तिप्रसङ्गः; तथा च अभिव्यक्तिसाधनापेक्षता। उपलब्धिसमानाश्रयत्वे तु व्यवधानकल्पनानुपपत्तेः सर्वदा अभिव्यक्तिः, अनभिव्यक्तिर्वा; न तु अन्तरालकल्पनायां प्रमाणमस्ति। न च समानाश्रयाणाम् एकस्य आत्मभूतानां धर्माणाम् इतरेतरविषयविषयित्वं सम्भवति। विज्ञानसुखयोश्च प्रागभिव्यक्तेः संसारित्वम्, अभिव्यक्त्युत्तरकालं च मुक्तत्वं यस्य – सोऽन्यः परस्मात् नित्याभिव्यक्तज्ञानस्वरूपात् अत्यन्तवैलक्षण्यात्, शैत्यमिव औष्ण्यात्; परमात्मभेदकल्पनायां च वैदिकः कृतान्तः परित्यक्तः स्यात्। मोक्षस्य इदानीमिव निर्विशेषत्वे तदर्थाधिकयत्नानुपपत्तिः शास्त्रवैयर्थ्यं च प्राप्नोतीति चेत्, न, अविद्याभ्रमापोहार्थत्वात्; न हि वस्तुतो मुक्तामुक्तत्वविशेषोऽस्ति, आत्मनो नित्यैकरूपत्वात्; किन्तु तद्विषया अविद्या अपोह्यते शास्त्रोपदेशजनितविज्ञानेन; प्राक्तदुपदेशप्राप्तेः तदर्थश्च प्रयत्न उपपद्यत एव। अविद्यावतः अविद्यानिवृत्त्यनिवृत्तिकृतः विशेषः आत्मनः स्यादिति चेत्, न, अविद्याकल्पनाविषयत्वाभ्युपगमात्, रज्जूषरशुक्तिकागगनानां सर्पोदकरजतमलिनत्वादिवत्, अदोष इत्यवोचाम। तिमिरातिमिरदृष्टिवत् अविद्याकर्तृत्वाकर्तृत्वकृत आत्मनो विशेषः स्यादिति चेत्, न, ‘ध्यायतीव लेलायतीव’ (BrhU.4.3.7) इति स्वतः अविद्याकर्तृत्वस्य प्रतिषिद्धत्वात्; अनेकव्यापारसन्निपातजनितत्वाच्च अविद्याभ्रमस्य; विषयत्वोपपत्तेश्च; यस्य च अविद्याभ्रमो घटादिवत् विविक्तो गृह्यते, सः न अविद्याभ्रमवान्। अहं न जाने मुग्धोऽस्मीति प्रत्ययदर्शनात्; अविद्याभ्रमवत्त्वमेवेति चेत्, न, तस्यापि विवेकग्रहणात्; न हि यो यस्य विवेकेन ग्रहीता, स तस्मिन्भ्रान्त इत्युच्यते; तस्य च विवेकग्रहणम्, तस्मिन्नेव च भ्रमः – इति विप्रतिषिद्धम्; न जाने मुग्धोऽस्मीति दृश्यते इति ब्रवीषि – तद्दर्शिनश्च अज्ञानं मुग्धरूपता दृश्यत इति च – तद्दर्शनस्य विषयो भवति, कर्मतामापद्यत इति; तत् कथं कर्मभूतं सत् कर्तृस्वरूपदृशिविशेषणम् अज्ञानमुग्धते स्याताम्? अथ दृशिविशेषणत्वं तयोः, कथं कर्म स्याताम् – दृशिना व्याप्येते? कर्म हि कर्तृक्रियया व्याप्यमानं भवति; अन्यश्च व्याप्यम्, अन्यम् व्यापकम्; न तेनैव तत् व्याप्यते; वद, कथम् एवं सति, अज्ञानमुग्धते दृशिविशेषणे स्याताम्? न च अज्ञानविवेकदर्शी अज्ञानम् आत्मनः कर्मभूतमुपलभमानः उपलब्धृधर्मत्वेन गृह्णाति, शरीरे कार्श्यरूपादिवत् तथा। सुखदुःखेच्छाप्रयत्नादीन् सर्वो लोकः गृह्णातीति चेत्, तथापि ग्रहीतुर्लोकस्य विविक्ततैव अभ्युपगता स्यात्। न जानेऽहं त्वदुक्तं मुग्ध एव इति चेत् – भवतु अज्ञो मुग्धः, यस्तु एवन्दर्शी, तं ज्ञम् अमुग्धं प्रतिजानीमहे वयम्। तथा व्यासेनोक्तम् – ‘इच्छादि कृत्स्नं क्षेत्रं क्षेत्री प्रकाशयतीति’(भ.गी.१३/३३), ‘समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्। विनश्यत्स्वविनश्यन्तम् –’ (BhG.13.27) इत्यादि शतश उक्तम्। तस्मात् न आत्मनः स्वतः बद्धमुक्तज्ञानाज्ञानकृतो विशेषः अस्ति, सर्वदा समैकरसस्वाभाव्याभ्युपगमात्। ये तु अतोऽन्यथा आत्मवस्तु परिकल्प्य बन्धमोक्षादिशास्त्रं च अर्थवादमापादयन्ति, ते उत्सहन्ते – खेऽपि शाकुनं पदं द्रष्टुम्, खं वा मुष्टिना आक्रष्टुम्, चर्मवद्वेष्टितुम्; वयं तु तत् कर्तुमशक्ताः; सर्वदा समैकरसम् अद्वैतम् अविक्रियम् अजम् अजरम् अमरम् अमृतम् अभयम् आत्मतत्त्वं ब्रह्मैव स्मः – इत्येष सर्ववेदान्तनिश्चितोऽर्थ इत्येवं प्रतिपद्यामहे। तस्मात् ब्रह्मात्येतीति उपचारमात्रमेतत्, विपरीतग्रहवद्देहसन्ततेः विच्छेदमात्रं विज्ञानफलमपेक्ष्य॥
🔗  स्वप्नबुद्धान्तगमनदृष्टान्तस्य दार्ष्टान्तिकः संसारो वर्णितः। संसारहेतुश्च विद्याकर्मपूर्वप्रज्ञा वर्णिता। यैश्च उपाधिभूतैः कार्यकरणलक्षणभूतैः परिवेष्टितः संसारित्वमनुभवति, तानि चोक्तानि। तेषां साक्षात्प्रयोजकौ धर्माधर्माविति पूर्वपक्षं कृत्वा, काम एवेत्यवधारितम्। यथा च ब्राह्मणेन अयम् अर्थः अवधारितः, एवं मन्त्रेणापीति बन्धं बन्धकारणं च उक्त्वा उपसंहृतं प्रकरणम् – ‘इति नु कामयमानः’ (BrhU.4.4.6) इति। ‘अथाकामयमानः’ (BrhU.4.4.6) इत्यारभ्य सुषुप्तदृष्टान्तस्य दार्ष्टान्तिकभूतः सर्वात्मभावो मोक्ष उक्तः। मोक्षकारणं च आत्मकामतया यत् आप्तकामत्वमुक्तम्, तच्च सामर्थ्यात् न आत्मज्ञानमन्तरेण आत्मकामतया आप्तकामत्वमिति – सामर्थ्यात् ब्रह्मविद्यैव मोक्षकारणमित्युक्तम्। अतः यद्यपि कामो मूलमित्युक्तम्, तथापि मोक्षकारणविपर्ययेण बन्धकारणम् अविद्या इत्येतदपि उक्तमेव भवति। अत्रापि मोक्षः मोक्षसाधनं च ब्राह्मणेनोक्तम्; तस्यैव दृढीकरणाय मन्त्र उदाह्रियते श्लोकशब्दवाच्यः –
तत् तस्मिन्नेवार्थे एष श्लोकः मन्त्रो भवतियदा यस्मिन्काले सर्वे समस्ताः कामाः तृष्णाप्रभेदाः प्रमुच्यन्ते, आत्मकामस्य ब्रह्मविदः समूलतो विशीर्यन्ते, ये प्रसिद्धा लोके इहामुत्रार्थाः पुत्रवित्तलोकैषणालक्षणाः अस्य प्रसिद्धस्य पुरुषस्य हृदि बुद्धौ श्रिताः आश्रिताः – अथ तदा, मर्त्यः मरणधर्मा सन्, कामवियोगात्समूलतः, अमृतो भवति; अर्थात् अनात्मविषयाः कामा अविद्यालक्षणाः मृत्यवः इत्येतदुक्तं भवति; अतः मृत्युवियोगे विद्वान् जीवन्नेव अमृतो भवति। अत्र अस्मिन्नेव शरीरे वर्तमानः ब्रह्म समश्नुते, ब्रह्मभावं मोक्षं प्रतिपद्यत इत्यर्थः। अतः मोक्षः न देशान्तरगमनादि अपेक्षते। तस्मात् विदुषो नोत्क्रामन्ति प्राणाः, यथावस्थिता एव स्वकारणे पुरुषे समवनीयन्ते; नाममात्रं हि अवशिष्यते – इत्युक्तम्। कथं पुनः समवनीतेषु प्राणेषु, देहे च स्वकारणे प्रलीने, विद्वान् मुक्तः अत्रैव सर्वात्मा सन् वर्तमानः पुनः पूर्ववत् देहित्वं संसारित्वलक्षणं न प्रतिपद्यते – इत्यत्रोच्यते – तत् तत्र अयं दृष्टान्तः; यथा लोके अहिः सर्पः, तस्य निर्ल्वयनी, निर्मोकः, सा अहिनिर्ल्वयनी, वल्मीके सर्पाश्रये वल्मीकादावित्यर्थः, मृता प्रत्यस्ता प्रक्षिप्ता अनात्मभावेन सर्पेण परित्यक्ता, शयीत वर्तेत – एवमेव, यथा अयं दृष्टान्तः, इदं शरीरं सर्पस्थानीयेन मुक्तेन अनात्मभावेन परित्यक्तं मृतमिव शेतेअथ इतरः सर्पस्थानीयो मुक्तः सर्वात्मभूतः सर्पवत् तत्रैव वर्तमानोऽपि अशरीरः एव, न पूर्ववत् पुनः सशरीरो भवति। कामकर्मप्रयुक्तशरीरात्मभावेन हि पूर्वं सशरीरः मर्त्यश्च; तद्वियोगात् अथ इदानीम् अशरीरः, अत एव च अमृतः; प्राणः, प्राणितीति प्राणः – ‘प्राणस्य प्राणम्’ (BrhU.4.4.18) इति हि वक्ष्यमाणे श्लोके, ‘प्राणबन्धनं हि सोम्य मनः’ (ChanU.6.8.2) इति च श्रुत्यन्तरे; प्रकरणवाक्यसामर्थ्याच्च पर एव आत्मा अत्र प्राणशब्दवाच्यः; ब्रह्मैव परमात्मैव। किं पुनस्तत्? तेजः एव विज्ञानम् ज्योतिः, येन आत्मज्योतिषा जगत् अवभास्यमानं प्रज्ञानेत्रं विज्ञानज्योतिष्मत् सत् अविभ्रंशत् वर्तते। यः कामप्रश्नो विमोक्षार्थः याज्ञवल्क्येन वरो दत्तो जनकाय, सहेतुकः बन्धमोक्षार्थलक्षणः दृष्टान्तदार्ष्टान्तिकभूतः स एष निर्णीतः सविस्तरः जनकयाज्ञवल्क्याख्यायिकारूपधारिण्या श्रुत्या; संसारविमोक्षोपाय उक्तः प्राणिभ्यः। इदानीं श्रुतिः स्वयमेवाह – विद्यानिष्क्रयार्थं जनकेनैवमुक्तमिति; कथम्? सोऽहम् एवं विमोक्षितस्त्वया भगवते तुभ्यं विद्यानिष्क्रयार्थं सहस्रं ददामिइति ह एवं किल उवाच उक्तवान् जनको वैदेहः। अत्र कस्माद्विमोक्षपदार्थे निर्णीते, विदेहराज्यम् आत्मानमेव च न निवेदयति, एकदेशोक्ताविव सहस्रमेव ददाति? तत्र कोऽभिप्राय इति। अत्र केचिद्वर्णयन्ति – अध्यात्मविद्यारसिको जनकः श्रुतमप्यर्थं पुनर्मन्त्रैः शुश्रूषति; अतो न सर्वमेव निवेदयति; श्रुत्वाभिप्रेतं याज्ञवल्क्यात् पुनरन्ते निवेदयिष्यामीति हि मन्यते; यदि चात्रैव सर्वं निवेदयामि, निवृत्ताभिलाषोऽयं श्रवणादिति मत्वा, श्लोकान् न वक्ष्यति – इति च भयात् सहस्रदानं शुश्रूषालिङ्गज्ञापनायेति। सर्वमप्येतत् असत्, पुरुषस्येव प्रमाणभूतायाः श्रुतेः व्याजानुपपत्तेः; अर्थशेषोपपत्तेश्च – विमोक्षपदार्थे उक्तेऽपि आत्मज्ञानसाधने, आत्मज्ञानशेषभूतः सर्वैषणापरित्यागः सन्न्यासाख्यः वक्तव्योऽर्थशेषः विद्यते; तस्मात् श्लोकमात्रशुश्रूषाकल्पना अनृज्वी; अगतिका हि गतिः पुनरुक्तार्थकल्पना; सा च अयुक्ता सत्यां गतौ। न च तत् स्तुतिमात्रमित्यवोचाम। ननु एवं सति ‘अत ऊर्ध्वं विमोक्षायैव’ इति वक्तव्यम् – नैष दोषः; आत्मज्ञानवत् अप्रयोजकः सन्न्यासः पक्षे, प्रतिपत्तिकर्मवत् – इति हि मन्यते; ‘सन्न्यासेन तनुं त्यजेत्’ इति स्मृतेः। साधनत्वपक्षेऽपि न ‘अत ऊर्ध्वं विमोक्षायैव’ इति प्रश्नमर्हति, मोक्षसाधनभूतात्मज्ञानपरिपाकार्थत्वात्॥
🔗  आत्मकामस्य ब्रह्मविदो मोक्ष इत्येतस्मिन्नर्थे मन्त्रब्राह्मणोक्ते, विस्तरप्रतिपादका एते श्लोका भवन्तिअणुः सूक्ष्मः पन्थाः दुर्विज्ञेयत्वात्, विततः विस्तीर्णः, विस्पष्टतरणहेतुत्वाद्वा ‘वितरः’ इति पाठान्तरात्, मोक्षसाधनो ज्ञानमार्गः पुराणः चिरन्तनः नित्यश्रुतिप्रकाशितत्वात्, न तार्किकबुद्धिप्रभवकुदृष्टिमार्गवत् अर्वाक्कालिकः, मां स्पृष्टः मया लब्ध इत्यर्थः; यो हि येन लभ्यते, स तं स्पृशतीव सम्बध्यते; तेन अयं ब्रह्मविद्यालक्षणो मोक्षमार्गः मया लब्धत्वात् ‘मां स्पृष्टः’ इत्युच्यते। न केवलं मया लब्धः, किंतु अनुवित्तो मयैव; अनुवेदनं नाम विद्यायाः परिपाकापेक्षया फलावसानतानिष्ठा प्राप्तिः, भुजेरिव तृप्त्यवसानता; पूर्वं तु ज्ञानप्राप्तिसम्बन्धमात्रमेवेति विशेषः। किम् असावेव मन्त्रदृक् एकः ब्रह्मविद्याफलं प्राप्तः, नान्यः प्राप्तवान्, येन ‘अनुवित्तो मयैव’ इत्यवधारयति – नैष दोषः, अस्याः फलम् आत्मसाक्षिकमनुत्तममिति ब्रह्मविद्यायाः स्तुतिपरत्वात्; एवं हि कृतार्थात्माभिमानकरम् आत्मप्रत्ययसाक्षिकम् आत्मज्ञानम्, किमतः परम् अन्यत्स्यात् – इति ब्रह्मविद्यां स्तौति; न तु पुनः अन्यो ब्रह्मवित् तत्फलं न प्राप्नोतीति, ‘तद्यो यो देवानाम्’ (BrhU.1.4.10) इति सर्वार्थश्रुतेः; तदेवाह – तेन ब्रह्मविद्यामार्गेण धीराः प्रज्ञावन्तः अन्येऽपि ब्रह्मविदः इत्यर्थः, अपियन्ति अपिगच्छन्ति, ब्रह्मविद्याफलं मोक्षं स्वर्गं लोकम्; स्वर्गलोकशब्दः त्रिविष्टपवाच्यपि सन् इह प्रकरणात् मोक्षाभिधायकः; इतः अस्माच्छरीरपातात् ऊर्ध्वं जीवन्त एव विमुक्ताः सन्तः॥
🔗  तस्मिन् मोक्षसाधनमार्गे विप्रतिपत्तिर्मुमुक्षूणाम्; कथम्? तस्मिन् शुक्लं शुद्धं विमलम् आहुः केचित् मुमुक्षवः; नीलम् अन्ये, पिङ्गलम् अन्ये, हरितं लोहितं च – यथादर्शनम्। नाड्यस्तु एताः सुषुम्नाद्याः श्लेष्मादिरससम्पूर्णाः – शुक्लस्य नीलस्य पिङ्गलस्येत्याद्युक्तत्वात्। आदित्यं वा मोक्षमार्गम् एवंविधं मन्यन्ते – ‘एष शुक्ल एष नीलः’ (ChanU.8.6.1) इत्यादिश्रुत्यन्तरात्। दर्शनमार्गस्य च शुक्लादिवर्णासम्भवात्। सर्वथापि तु प्रकृतात् ब्रह्मविद्यामार्गात् अन्ये एते शुक्लादयः। ननु शुक्लः शुद्धः अद्वैतमार्गः – न, नीलपीतादिशब्दैः वर्णवाचकैः सह अनुद्रवणात्; यान् शुक्लादीन् योगिनो मोक्षपथान् आहुः, न ते मोक्षमार्गाः; संसारविषया एव हि ते – ‘चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यः’ (BrhU.4.4.2) इति शरीरदेशान्निःसरणसम्बन्धात्, ब्रह्मादिलोकप्रापका हि ते। तस्मात् अयमेव मोक्षमार्गः – यः आत्मकामत्वेन आप्तकामतया सर्वकामक्षये गमनानुपपत्तौ प्रदीपनिर्वाणवत् चक्षुरादीनां कार्यकरणानाम् अत्रैव समवनयः – इति एषः ज्ञानमार्गः पन्थाः, ब्रह्मणा परमात्मस्वरूपेणैव ब्राह्मणेन त्यक्तसर्वैषणेन, अनुवित्तःतेन ब्रह्मविद्यामार्गेण ब्रह्मवित् अन्यः अपि एति। कीदृशो ब्रह्मवित् तेन एतीत्युच्यते – पूर्वं पुण्यकृद् भूत्वा पुनस्त्यक्तपुत्राद्येषणः, परमात्मतेजस्यात्मानं संयोज्य तस्मिन्नभिनिर्वृत्तः तैजसश्च – आत्मभूतः इहैव इत्यर्थः; ईदृशो ब्रह्मवित् तेन मार्गेण एति। न पुनः पुण्यादिसमुच्चयकारिणो ग्रहणम्, विरोधादित्यवोचाम; ‘अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः। शान्ताः सन्न्यासिनो यान्ति तस्मै मोक्षात्मने नमः’ (महा. भा. रा. ध. ४७-५५) इति च स्मृतेः; ‘त्यज धर्ममधर्मं च’ (मो. ध. ३२९-४०) इत्यादि पुण्यापुण्यत्यागोपदेशात्; ‘निराशिषमनारम्भं निर्नमस्कारमस्तुतिम्। अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः’ (मो. ध. २६३-३४) ‘नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च। शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः’ (मो. ध. १७५-३७) इत्यादिस्मृतिभ्यश्च। उपदेक्ष्यति च इहापि तु – ‘एष नित्यो महिमा ब्राह्मणस्य न वर्धते कर्मणा नो कनीयान्’ (BrhU.4.4.23) इति कर्मप्रयोजनाभावे हेतुमुक्त्वा, ‘तस्मादेवंविच्छान्तो दान्तः’ (BrhU.4.4.23) इत्यादिना सर्वक्रियोपरमम्। तस्मात् यथाव्याख्यातमेव पुण्यकृत्त्वम्। अथवा यो ब्रह्मवित् तेन एति, स पुण्यकृत् तैजसश्च – इति ब्रह्मवित्स्तुतिरेषा; पुण्यकृति तैजसे च योगिनि महाभाग्यं प्रसिद्धं लोके, ताभ्याम् अतः ब्रह्मवित् स्तूयते प्रख्यातमहाभाग्यत्वाल्लोके॥
🔗  अन्धम् अदर्शनात्मकं तमः संसारनियामकं प्रविशन्ति प्रतिपद्यन्ते; के? ये अविद्यां विद्यातोऽन्यां साध्यसाधनलक्षणाम्, उपासते, कर्म अनुवर्तन्त इत्यर्थः; ततः तस्मादपि भूय इव बहुतरमिव तमः प्रविशन्ति; के? ये उ विद्यायाम् अविद्यावस्तुप्रतिपादिकायां कर्मार्थायां त्रय्यामेव विद्यायाम्, रताः अभिरताः; विधिप्रतिषेधपर एव वेदः, नान्योऽस्ति – इति, उपनिषदर्थानपेक्षिण इत्यर्थः॥
🔗  यदि ते अदर्शनलक्षणं तमः प्रविशन्ति, को दोष इत्युच्यते – अनन्दाः अनानन्दाः असुखा नाम ते लोकाः, तेन अन्धेन अदर्शनलक्षणेन तमसा आवृताः व्याप्ताः, – ते तस्य अज्ञानतमसो गोचराः; तान् ते प्रेत्य मृत्वा अभिगच्छन्ति अभियान्ति; के? ये अविद्वांस; किं सामान्येन अविद्वत्तामात्रेण? नेत्युच्यते – अबुधः, बुधेः अवगमनार्थस्य धातोः क्विप्प्रत्ययान्तस्य रूपम्, आत्मावगमवर्जिता इत्यर्थः; जनाः प्राकृता एव जननधर्माणो वा इत्येतत्॥
🔗  आत्मानं स्वं परं सर्वप्राणिमनीषितज्ञं हृत्स्थम् अशनायादिधर्मातीतम्, चेत् यदि, विजानीयात् सहस्रेषु कश्चित्; चेदिति आत्मविद्याया दुर्लभत्वं दर्शयति; कथम्? अयम् पर आत्मा सर्वप्राणिप्रत्ययसाक्षी, यः नेति नेतीत्याद्युक्तः, यस्मान्नान्योऽस्ति द्रष्टा श्रोता मन्ता विज्ञाता, समः सर्वभूतस्थो नित्यशुद्धबुद्धमुक्तस्वभावः – अस्मि भवामि – इति; पूरुषः पुरुषः; सः किमिच्छन् – तत्स्वरूपव्यतिरिक्तम् अन्यद्वस्तु फलभूतं किमिच्छन् कस्य वा अन्यस्य आत्मनो व्यतिरिक्तस्य कामाय प्रयोजनाय; न हि तस्य आत्मन एष्टव्यं फलम्, न चाप्यात्मनोऽन्यः अस्ति, यस्य कामाय इच्छति, सर्वस्य आत्मभूतत्वात्; अतः किमिच्छन् कस्य कामाय शरीरम् अनु सञ्ज्वरेत्, भ्रंशेत्, शरीरोपाधिकृतदुःखमनु दुःखी स्यात्, शरीरतापमनुतप्येत। अनात्मदर्शिनो हि तद्व्यतिरिक्तवस्त्वन्तरेप्सोः; ‘ममेदं स्यात्, पुत्रस्य इदम्, भार्याया इदम्’ इत्येवमीहमानः पुनःपुनर्जननमरणप्रबन्धरूढः शरीररोगमनुरुज्यते; सर्वात्मदर्शिनस्तु तदसम्भव इत्येतदाह॥
🔗  किञ्च यस्य ब्राह्मणस्य, अनुवित्तः अनुलब्धः, प्रतिबुद्धः साक्षात्कृतः, कथम्? अहमस्मि परं ब्रह्मेत्येवं प्रत्यगात्मत्वेनावगतः, आत्मा अस्मिन्सन्देह्ये सन्देहे अनेकानर्थसङ्कटोपचये, गहने विषमे अनेकशतसहस्रविवेकविज्ञानप्रतिपक्षे विषमे, प्रविष्टः; स यस्य ब्राह्मणस्यानुवित्तः प्रतिबोधेनेत्यर्थः; स विश्वकृत् विश्वस्य कर्ता; कथं विश्वकृत्त्वम्, तस्य किं विश्वकृदिति नाम इत्याशङ्क्याह – सः हि यस्मात् सर्वस्य कर्ता, न नाममात्रम्; न केवलं विश्वकृत् परप्रयुक्तः सन्, किं तर्हि तस्य लोकः सर्वः; किमन्यो लोकः अन्योऽसावित्युच्यते – स उ लोक एव; लोकशब्देन आत्मा उच्यते; तस्य सर्व आत्मा, स च सर्वस्यात्मेत्यर्थः। य एष ब्राह्मणेन प्रत्यगात्मा प्रतिबुद्धतया अनुवित्तः आत्मा अनर्थसङ्कटे गहने प्रविष्टः, स न संसारी, किं तु पर एव; यस्मात् विश्वस्य कर्ता सर्वस्य आत्मा, तस्य च सर्व आत्मा। एक एवाद्वितीयः पर एवास्मीत्यनुसन्धातव्य इति श्लोकार्थः॥
🔗  किञ्च इहैव अनेकानर्थसङ्कुले, सन्तः भवन्तः अज्ञानदीर्घनिद्रामोहिताः सन्तः, कथञ्चिदिव ब्रह्मतत्त्वम् आत्मत्वेन अथ विद्मः विजानीमः, तत् एतद्ब्रह्म प्रकृतम्; अहो वयं कृतार्था इत्यभिप्रायः। यदेतद्ब्रह्म विजानीमः, तत् न चेत् विदितवन्तो वयम् – वेदनं वेदः, वेदोऽस्यास्तीति वेदी, वेद्येव वेदिः, न वेदिः अवेदिः, ततः अहम् अवेदिः स्याम्। यदि अवेदिः स्याम्, को दोषः स्यात्? महती अनन्तपरिमाणा जन्ममरणादिलक्षणा विनष्टिः विनशनम्। अहो वयम् अस्मान्महतो विनाशात् निर्मुक्ताः, यत् अद्वयं ब्रह्म विदितवन्त इत्यर्थः। यथा च वयं ब्रह्म विदित्वा अस्माद्विनशनाद्विप्रमुक्ताः, एवं ये तद्विदुः अमृतास्ते भवन्ति; ये पुनः नैवं ब्रह्म विदुः, ते इतरे ब्रह्मविद्भ्योऽन्ये अब्रह्मविद इत्यर्थः, दुःखमेव जन्ममरणादिलक्षणमेव अपियन्ति प्रतिपद्यन्ते, न कदाचिदपि अविदुषां ततो विनिवृत्तिरित्यर्थः; दुःखमेव हि ते आत्मत्वेनोपगच्छन्ति॥
🔗  यदा पुनः एतम् आत्मानम्, कथञ्चित् परमकारुणिकं कञ्चिदाचार्यं प्राप्य ततो लब्धप्रसादः सन्, अनु पश्चात् पश्यति साक्षात्करोति स्वम् आत्मानम्, देवं द्योतनवन्तम् दातारं वा सर्वप्राणिकर्मफलानां यथाकर्मानुरूपम्, अञ्जसा साक्षात्, ईशानं स्वामिनम् भूतभव्यस्य कालत्रयस्येत्येतत् – न ततः तस्मादीशानाद्देवात् आत्मानं वि-शेषेण जुगुप्सते गोपायितुमिच्छति। सर्वो हि लोक ईश्वराद्गुप्तिमिच्छति भेददर्शी; अयं तु एकत्वदर्शी न बिभेति कुतश्चन; अतो न तदा विजुगुप्सते, यदा ईशानं देवम् अञ्जसा आत्मत्वेन पश्यति। न तदा निन्दति वा कञ्चित्, सर्वम् आत्मानं हि पश्यति, स एवं पश्यन् कम् असौ निन्द्यात्॥
🔗  किञ्च यस्मात् ईशानात् अर्वाक्, यस्मादन्यविषय एवेत्यर्थः, संवत्सरः कालात्मा सर्वस्य जनिमतः परिच्छेत्ता, यम् अपरिच्छिन्दन् अर्वागेव वर्तते, अहोभिः स्वावयवैः अहोरात्रैरित्यर्थः; तत् ज्योतिषां ज्योतिः आदित्यादिज्योतिषामप्यवभासकत्वात्, आयुः इति उपासते देवाः, अमृतं ज्योतिः – अतोऽन्यन्म्रियते, न हि ज्योतिः; सर्वस्य हि एतज्ज्योतिः आयुः। आयुर्गुणेन यस्मात् देवाः तत् ज्योतिरुपासते, तस्मात् आयुष्मन्तस्ते। तस्मात् आयुष्कामेन आयुर्गुणेन उपास्यं ब्रह्मेत्यर्थः॥
🔗  किञ्च यस्मिन् यत्र ब्रह्मणि, पञ्च पञ्चजनाः – गन्धर्वादयः पञ्चैव सङ्ख्याताः गन्धर्वाः पितरो देवा असुरा रक्षांसि – निषादपञ्चमा वा वर्णाः, आकाशश्च अव्याकृताख्यः – यस्मिन् सूत्रम् ओतं च प्रोतं च – यस्मिन् प्रतिष्ठितः; ‘एतस्मिन्नु खल्वक्षरे गार्ग्याकाशः’ (BrhU.3.8.11) इत्युक्तम्; तमेव आत्मानम् अमृतं ब्रह्म मन्ये अहम्, न चाहमात्मानं ततोऽन्यत्वेन जाने। किं तर्हि? अमृतोऽहम् ब्रह्म विद्वान् सन्; अज्ञानमात्रेण तु मर्त्योऽहम् आसम्; तदपगमात् विद्वानहम् अमृत एव॥
🔗  किञ्च तेन हि चैतन्यात्मज्योतिषा अवभास्यमानः प्राणः आत्मभूतेन प्राणिति, तेन प्राणस्यापि प्राणः सः, तं प्राणस्य प्राणम्; तथा चक्षुषोऽपि चक्षुः; उत श्रोत्रस्य अपि श्रोत्रम्; ब्रह्मशक्त्याधिष्ठितानां हि चक्षुरादीनां दर्शनादिसामर्थ्यम्; स्वतः काष्ठलोष्टसमानि हि तानि चैतन्यात्मज्योतिःशून्यानि; मनसोऽपि मनः – इति ये विदुः – चक्षुरादिव्यापारानुमितास्तित्वं प्रत्यगात्मानम्, न विषयभूतम् ये विदुः – ते निचिक्युः निश्चयेन ज्ञातवन्तः ब्रह्म, पुराणं चिरन्तनम्, अग्र्यम् अग्रे भवम्। ‘तद्यदात्मविदो विदुः’ (MunU.2.2.10) इति ह्याथर्वणे॥
🔗  तद्ब्रह्मदर्शने साधनमुच्यते – मनसैव परमार्थज्ञानसंस्कृतेन आचार्योपदेशपूर्वकं च अनुद्रष्टव्यम्। तत्र च दर्शनविषये ब्रह्मणि न इह नाना अस्ति किञ्चन किञ्चिदपि; असति नानात्वे, नानात्वमध्यारोपयति अविद्यया। सः मृत्योः मरणात्, मृत्युं मरणम् आप्नोति; कोऽसौ? य इह नानेव पश्यति। अविद्याध्यारोपणव्यतिरेकेण नास्ति परमार्थतो द्वैतमित्यर्थः॥
🔗  यस्मादेवम् तस्मात्, एकधैव एकेनैव प्रकारेण विज्ञानघनैकरसप्रकारेण आकाशवन्निरन्तरेण अनुद्रष्टव्यम्; यस्मात् एतद् ब्रह्म अप्रमयम् अप्रमेयम्, सर्वैकत्वात्; अन्येन हि अन्यत् प्रमीयते; इदं तु एकमेव, अतः अप्रमेयम्; ध्रुवं नित्यं कूटस्थम् अविचालीत्यर्थः। ननु विरुद्धमिदमुच्यते – अप्रमेयं ज्ञायत इति च; ‘ज्ञायते’ इति प्रमाणैर्मीयत इत्यर्थः, ‘अप्रमेयम्’ इति च तत्प्रतिषेधः – नैष दोषः, अन्यवस्तुवत् अनागमप्रमाणप्रमेयत्वप्रतिषेधार्थत्वात्; यथा अन्यानि वस्तूनि आगमनिरपेक्षैः प्रमाणैः विषयीक्रियन्ते, न तथा एतत् आत्मतत्त्वं प्रमाणान्तरेण विषयीकर्तुं शक्यते; सर्वस्यात्मत्वे केन कं पश्येत् विजानीयात् – इति प्रमातृप्रमाणादिव्यापारप्रतिषेधेनैव आगमोऽपि विज्ञापयति, न तु अभिधानाभिधेयलक्षणवाक्यधर्माङ्गीकरणेन; तस्मात् न आगमेनापि स्वर्गमेर्वादिवत् तत् प्रतिपाद्यते; प्रतिपादयित्रात्मभूतं हि तत्; प्रतिपादयितुः प्रतिपादनस्य प्रतिपाद्यविषयत्वात्, भेदे हि सति तत् भवति। ज्ञानं च तस्मिन् परात्मभावनिवृत्तिरेव; न तस्मिन् साक्षात् आत्मभावः कर्तव्यः, विद्यमानत्वादात्मभावस्य; नित्यो हि आत्मभावः सर्वस्य अतद्विषय इव प्रत्यवभासते; तस्मात् अतद्विषयाभासनिवृत्तिव्यतिरेकेण न तस्मिन्नात्मभावो विधीयते; अन्यात्मभावनिवृत्तौ, आत्मभावः स्वात्मनि स्वाभाविको यः, स केवलो भवतीति – आत्मा ज्ञायत इत्युच्यते; स्वतश्चाप्रमेयः प्रमाणान्तरेण न विषयीक्रियते इति उभयमप्यविरुद्धमेव। विरजः विगतरजः, रजो नाम धर्माधर्मादिमलम् तद्रहित इत्येतत्। परः – परो व्यतिरिक्तः सूक्ष्मो व्यापी वा आकाशाद् अपि अव्याकृताख्यात्। अजः न जायते; जन्मप्रतिषेधात् उत्तरेऽपि भावविकाराः प्रतिषिद्धाः, सर्वेषां जन्मादित्वात्। आत्मा, महान् परिमाणतः, महत्तरः सर्वस्मात्। ध्रुवः अविनाशी॥
🔗  तम् ईदृशमात्मानमेव, धीरः धीमान् विज्ञाय उपदेशतः शास्त्रतश्च, प्रज्ञां शास्त्राचर्योपदिष्टविषयां जिज्ञासापरिसमाप्तिकरीम्, कुर्वीत ब्राह्मणः – एवं प्रज्ञाकरणसाधनानि सन्न्यासशमदमोपरमतितिक्षासमाधानानि कुर्यादित्यर्थः। न अनुध्यायात् नानुचिन्तयेत्, बहून् प्रभूतान् शब्दान्; तत्र बहुत्वप्रतिषेधात् केवलात्मैकत्वप्रतिपादकाः स्वल्पाः शब्दा अनुज्ञायन्ते; ‘ओमित्येवं ध्यायथ आत्मानम्’ (MunU.2.2.6) ‘अन्या वाचो विमुञ्चथ’ (MunU.2.2.5) इति च आथर्वणे। वाचो विग्लापनं विशेषेण ग्लानिकरं श्रमकरम्, हि यस्मात्, तत् बहुशब्दाभिध्यानमिति॥
🔗  सहेतुकौ बन्धमोक्षौ अभिहितौ मन्त्रब्राह्मणाभ्याम्; श्लोकैश्च पुनः मोक्षस्वरूपं विस्तरेण प्रतिपादितम्; एवम् एतस्मिन् आत्मविषये सर्वो वेदः यथा उपयुक्तो भवति, तत् तथा वक्तव्यमिति तदर्थेयं कण्डिका आरभ्यते। तच्च यथा अस्मिन्प्रपाठके अभिहितं सप्रयोजनम् अनूद्य अत्रैव उपयोगः कृत्स्नस्य वेदस्य काम्यराशिवर्जितस्य – इत्येवमर्थ उक्तार्थानुवादः ‘स वा एषः’ इत्यादिः। इति उक्तपरामर्शार्थः; कोऽसौ उक्तः परामृश्यते? तं प्रतिनिर्दिशति – य एष विज्ञानमयः इति – अतीतानन्तरवाक्योक्तसम्प्रत्ययो मा भूदिति, यः एषः; कतमः एषः इत्युच्यते – विज्ञानमयः प्राणेषु इति; उक्तवाक्योल्लिङ्गनं संशयनिवृत्त्यर्थम्; उक्तं हि पूर्वं जनकप्रश्नारम्भे ‘कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु’ (BrhU.4.3.7) इत्यादि। एतदुक्तं भवति – योऽयम् ‘विज्ञानमयः प्राणेषु’ इत्यादिना वाक्येन प्रतिपादितः स्वयं ज्योतिरात्मा, स एषः कामकर्माविद्यानामनात्मधर्मत्वप्रतिपादनद्वारेण मोक्षितः परमात्मभावमापादितः – पर एवायं नान्य इति; एष सः साक्षान् महानजः आत्मा इत्युक्तः। योऽयं विज्ञानमयः प्राणेष्विति यथाव्याख्यातार्थ एव। य एषः अन्तर्हृदये हृदयपुण्डरीकमध्ये य एष आकाशो बुद्धिविज्ञानसंश्रयः, तस्मिन् आकाशे बुद्धिविज्ञानसहिते शेते तिष्ठति; अथवा सम्प्रसादकाले अन्तर्हृदये य एष आकाशः पर एव आत्मा निरुपाधिकः विज्ञानमयस्य स्वस्वभावः, तस्मिन् स्वस्वभावे परमात्मनि आकाशाख्ये शेते; चतुर्थे एतद्व्याख्यातम् ‘क्वैष तदाभूत्’ (BrhU.2.1.16) इत्यस्य प्रतिवचनत्वेन। स च सर्वस्य ब्रह्मेन्द्रादेः वशी; सर्वो हि अस्य वशे वर्तते; उक्तं च ‘एतस्य वा अक्षरस्य प्रशासने’ (BrhU.3.8.9) इति। न केवलं वशी, सर्वस्य ईशानः ईशिता च ब्रह्मेन्द्रप्रभृतीनाम्। ईशितृत्वं च कदाचित् जातिकृतम्, यथा राजकुमारस्य बलवत्तरानपि भृत्यान्प्रति, तद्वन्मा भूदित्याह – सर्वस्य अधिपतिः अधिष्ठाय पालयिता, स्वतन्त्र इत्यर्थः; न राजपुत्रवत् अमात्यादिभृत्यतन्त्रः। त्रयमप्येतत् वशित्वादि हेतुहेतुमद्रूपम् – यस्मात् सर्वस्याधिपतिः, ततोऽसौ सर्वस्येशानः; यो हि यमधिष्ठाय पालयति, स तं प्रतीष्ट एवेति प्रसिद्धम्, यस्माच्च सर्वस्येशानः, तस्मात् सर्वस्य वशीति। किञ्चान्यत् एवम्भूतो हृद्यन्तर्ज्योतिः पुरुषो विज्ञानमयः न साधुना शास्त्रविहितेन कर्मणा भूयान् भवति, न वर्धते पूर्वावस्थातः केनचिद्धर्मेण; नो एव शास्त्रप्रतिषिद्धेन असाधुना कर्मणा कनीयान् अल्पतरो भवति, पूर्वावस्थातो न हीयत इत्यर्थः। किञ्च सर्वो हि अधिष्ठानपालनादि कुर्वन् परानुग्रहपीडाकृतेन धर्माधर्माख्येन युज्यते; अस्यैव तु कथं तदभाव इत्युच्यते – यस्मात् एष सर्वेश्वरः सन् कर्मणोऽपीशितुं भवत्येव शीलमस्य, तस्मात् न कर्मणा सम्बध्यते। किञ्च एष भूताधिपतिः ब्रह्मादिस्तम्बपर्यन्तानां भूतानामधिपतिरित्युक्तार्थं पदम्। एष भूतानां तेषामेव पालयिता रक्षिता। एष सेतुः; किंविशिष्ट इत्याह – विधरणः वर्णाश्रमादिव्यवस्थाया विधारयिता; तदाह – एषां भूरादीनां ब्रह्मलोकान्तानां लोकानाम् असम्भेदाय असम्भिन्नमर्यादायै; परमेश्वरेण सेतुवदविधार्यमाणा लोकाः सम्भिन्नमर्यादाः स्युः; अतो लोकानामसम्भेदाय सेतुभूतोऽयं परमेश्वरः, यः स्वयं ज्योतिरात्मैव एवंवित् सर्वस्य वशी – इत्यादि ब्रह्मविद्यायाः फलमेतन्निर्दिष्टम्। ‘किञ्ज्योतिरयं पुरुषः’ (BrhU.4.3.2) इत्येवमादिषष्ठप्रपाठकविहितायामेतस्यां ब्रह्मविद्यायाम् एवंफलायाम् काम्यैकदेशवर्जितं कृत्स्नं कर्मकाण्डं तादर्थ्येन विनियुज्यते; तत् कथमित्युच्यते – तमेतम् एवम्भूतमौपनिषदं पुरुषम्, वेदानुवचनेन मन्त्रब्राह्मणाध्ययनेन नित्यस्वाध्यायलक्षणेन, विविदिषन्ति वेदितुमिच्छन्ति; के? ब्राह्मणाः; ब्राह्मणग्रहणमुपलक्षणार्थम्; अविशिष्टो हि अधिकारः त्रयाणां वर्णानाम्; अथवा कर्मकाण्डेन मन्त्रब्राह्मणेन वेदानुवचनेन विविदिषन्ति; कथं विविदिषन्तीत्युच्यते – यज्ञेनेत्यादि।
ये पुनः मन्त्रब्राह्मणलक्षणेन वेदानुवचनेन प्रकाश्यमानं विविदिषन्ति – इति व्याचक्षते, तेषाम् आरण्यकमात्रमेव वेदानुवचनं स्यात्; न हि कर्मकाण्डेन पर आत्मा प्रकाश्यते; ‘तं त्वौपनिषदम्’ (BrhU.3.9.26) इति विशेषश्रुतेः। वेदानुवचनेनेति च अविशेषितत्वात् समस्तग्राहि इदं वचनम्; न च तदेकदेशोत्सर्गः युक्तः। ननु त्वत्पक्षेऽपि उपनिषद्वर्जमिति एकदेशत्वं स्यात् – न, आद्यव्याख्याने अविरोधात् अस्मत्पक्षे नैष दोषो भवति; यदा वेदानुवचनशब्देन नित्यः स्वाध्यायो विधीयते, तदा उपनिषदपि गृहीतैवेति, वेदानुवचनशब्दार्थैकदेशो न परित्यक्तो भवति। यज्ञादिसहपाठाच्च – यज्ञादीनि कर्माण्येव अनुक्रमिष्यन् वेदानुवचनशब्दं प्रयुङ्क्ते; तस्मात् कर्मैव वेदानुवचनशब्देनोच्यत इति गम्यते; कर्म हि नित्यस्वाध्यायः।
कथं पुनः नित्यस्वाध्यायादिभिः कर्मभिः आत्मानं विविदिषन्ति? नैव हि तानि आत्मानं प्रकाशयन्ति, यथा उपनिषदः – नैष दोषः, कर्मणां विशुद्धिहेतुत्वात्; कर्मभिः संस्कृता हि विशुद्धात्मानः शक्नुवन्ति आत्मानमुपनिषत्प्रकाशितम् अप्रतिबन्धेन वेदितुम्; तथा ह्याथर्वणे – ‘विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः’ (MunU.3.1.8) इति; स्मृतिश्च ‘ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः’ (मो. ध. २०४-८) इत्यादिः। कथं पुनः नित्यानि कर्माणि संस्कारार्थानीत्यवगम्यते? ‘स ह वा आत्मयाजी यो वेदेदं मेऽनेनाङ्गं संस्क्रियत इदं मेऽनेनाङ्गमुपधीयते’ (शत. ब्रा. ११-२-६-१३) इत्यादिश्रुतेः; सर्वेषु च स्मृतिशास्त्रेषु कर्माणि संस्कारार्थान्येव आचक्षते ‘अष्टाचत्वारिंशत्संस्काराः’ (गौ. ध. १-८-८ तः २२, २४, २५) इत्यादिषु। गीतासु च – ‘यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्।’ (BhG.18.5) ‘सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः’ (BhG.4.30) इति। यज्ञेन इति – द्रव्ययज्ञा ज्ञानयज्ञाश्च संस्कारार्थाः; संस्कृतस्य च विशुद्धसत्त्वस्य ज्ञानोत्पत्तिरप्रतिबन्धेन भविष्यति; अतो यज्ञेन विविदिषन्ति। दानेन – दानमपि पापक्षयहेतुत्वात् धर्मवृद्धिहेतुत्वाच्च। तपसा, तप इति अविशेषेण कृच्छ्रचान्द्रायणादिप्राप्तौ विशेषणम् – अनाशकेन इति; कामानशनम् अनाशकम्, न तु भोजननिवृत्तिः; भोजननिवृत्तौ म्रियत एव, न आत्मवेदनम्। वेदानुवचनयज्ञदानतपःशब्देन सर्वमेव नित्यं कर्म उपलक्ष्यते; एवं काम्यवर्जितं नित्यं कर्मजातं सर्वम् आत्मज्ञानोत्पत्तिद्वारेण मोक्षसाधनत्वं प्रतिपद्यते; एवं कर्मकाण्डेन अस्य एकवाक्यतावगतिः। एवं यथोक्तेन न्यायेन एतमेव आत्मानं विदित्वा यथाप्रकाशितम्, मुनिर्भवति, मननान्मुनिः, योगी भवतीत्यर्थः; एतमेव विदित्वा मुनिर्भवति, नान्यम्। ननु अन्यवेदनेऽपि मुनित्वं स्यात्; कथमवधार्यते – एतमेवेति – बाढम्, अन्यवेदनेऽपि मुनिर्भवेत्; किं तु अन्यवेदने न मुनिरेव स्यात्, किं तर्हि कर्म्यपि भवेत् सः; एतं तु औपनिषदं पुरुषं विदित्वा, मुनिरेव स्यात्, न तु कर्मी; अतः असाधारणं मुनित्वं विवक्षितमस्येति अवधारयति – एतमेवेति; एतस्मिन्हि विदिते, केन कं पश्येदित्येवं क्रियासम्भवात् मननमेव स्यात्। किञ्च एतमेव आत्मानं स्वं लोकम् इच्छन्तः प्रार्थयन्तः प्रव्राजिनः प्रव्रजनशीलाः प्रव्रजन्ति प्रकर्षेण व्रजन्ति, सर्वाणि कर्माणि सन्न्यस्यन्तीत्यर्थः। ‘एतमेव लोकमिच्छन्तः’ इत्यवधारणात् न बाह्यलोकत्रयेप्सूनां पारिव्राज्ये अधिकार इति गम्यते; न हि गङ्गाद्वारं प्रतिपित्सुः काशीदेशनिवासी पूर्वाभिमुखः प्रैति। तस्मात् बाह्यलोकत्रयार्थिनां पुत्रकर्मापरब्रह्मविद्याः साधनम्, ‘पुत्रेणायं लोको जय्यो नान्येन कर्मणा’ (BrhU.1.5.16) इत्यादिश्रुतेः; अतः तदर्थिभिः पुत्रादिसाधनं प्रत्याख्याय, न पारिव्राज्यं प्रतिपत्तुं युक्तम्, अतत्साधनत्वात्पारिव्राज्यस्य। तस्मात् ‘एतमेव लोकमिच्छन्तः प्रव्रजन्ति’ इति युक्तमवधारणम्। आत्मलोकप्राप्तिर्हि अविद्यानिवृत्तौ स्वात्मन्यवस्थानमेव। तस्मात् आत्मानं चेत् लोकमिच्छति यः, तस्य सर्वक्रियोपरम एव आत्मलोकसाधनं मुख्यम् अन्तरङ्गम्, यथा पुत्रादिरेव बाह्यलोकत्रयस्य, पुत्रादिकर्मण आत्मलोकं प्रति असाधनत्वात्। असम्भवेन च विरुद्धत्वमवोचाम। तस्मात् आत्मानं लोकमिच्छन्तः प्रव्रजन्त्येव, सर्वक्रियाभ्यो निवर्तेरन्नेवेत्यर्थः। यथा च बाह्यलोकत्रयार्थिनः प्रतिनियतानि पुत्रादीनि साधनानि विहितानि, एवमात्मलोकार्थिनः सर्वैषणानिवृत्तिः पारिव्राज्यं ब्रह्मविदो विधीयत एव। कुतः पुनः ते आत्मलोकार्थिनः प्रव्रजन्त्येवेत्युच्यते; तत्र अर्थवादवाक्यरूपेण हेतुं दर्शयति – एतद्ध स्म वै तत्। तदेतत् पारिव्राज्ये कारणमुच्यते – ह स्म वै किल पूर्वे अतिक्रान्तकालीना विद्वांसः आत्मज्ञाः, प्रजां कर्म अपरब्रह्मविद्यां च; प्रजोपलक्षितं हि त्रयमेतत् बाह्यलोकत्रयसाधनं निर्दिश्यते ‘प्रजाम्’ इति। प्रजां किम्? न कामयन्ते, पुत्रादिलोकत्रयसाधनं न अनुतिष्ठन्तीत्यर्थः। ननु अपरब्रह्मदर्शनमनुतिष्ठन्त्येव, तद्बलाद्धि व्युत्थानम् – न अपवादात्; ‘ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद’ (BrhU.2.4.6) ‘सर्वं तं परादात् –’ इति अपरब्रह्मदर्शनमपि अपवदत्येव, अपरब्रह्मणोऽपि सर्वमध्यान्तर्भावात्; ‘यत्र नान्यत्पश्यति’ (ChanU.7.24.1) इति च; पूर्वापरबाह्यान्तरदर्शनप्रतिषेधाच्च अपूर्वमनपरमनन्तरमबाह्यमिति; ‘तत्केन कं पश्येद्विजानीयात्’ (BrhU.2.4.14) इति च; तस्मात् न आत्मदर्शनव्यतिरेकेण अन्यत् व्युत्थानकारणमपेक्षते। कः पुनः तेषामभिप्राय इत्युच्यते – किं प्रयोजनं फलं साध्यं करिष्यामः प्रजया साधनेन; प्रजा हि बाह्यलोकसाधनं निर्ज्ञाता; स च बाह्यलोको नास्ति अस्माकम् आत्मव्यतिरिक्तः; सर्वं हि अस्माकम् आत्मभूतमेव, सर्वस्य च वयम् आत्मभूताः; आत्मा च नः आत्मत्वादेव न केनचित् सोधनेन उत्पाद्यः आप्यः विकार्यः संस्कार्यो वा। यदपि आत्मयाजिनः संस्कारार्थं कर्मेति, तदपि कार्यकरणात्मदर्शनविषयमेव, इदं मे अनेन अङ्गं संस्क्रियते – इति अङ्गाङ्गित्वादिश्रवणात्; न हि विज्ञानघनैकरसनैरन्तर्यदर्शिनः अङ्गाङ्गिसंस्कारोपधानदर्शनं सम्भवति। तस्मात् न किञ्चित् प्रजादिसाधनैः करिष्यामः; अविदुषां हि तत् प्रजादिसाधनैः कर्तव्यं फलम्; न हि मृगतृष्णिकायामुदकपानाय तदुदकदर्शी प्रवृत्त इति, तत्र ऊषरमात्रमुदकाभावं पश्यतोऽपि प्रवृत्तिर्युक्ता; एवम् अस्माकमपि परमार्थात्मलोकदर्शिनां प्रजादिसाधनसाध्ये मृगतृष्णिकादिसमे अविद्वद्दर्शनविषये न प्रवृत्तिर्युक्तेत्यभिप्रायः। तदेतदुच्यते – येषाम् अस्माकं परमार्थदर्शिनां नः, अयमात्मा अशनायादिविनिर्मुक्तः साध्वसाधुभ्यामविकार्यः अयं लोकः फलमभिप्रेतम्; न चास्य आत्मनः साध्यसाधनादिसर्वसंसारधर्मविनिर्मुक्तस्य साधनं किञ्चित् एषितव्यम्; साध्यस्य हि साधनान्वेषणा क्रियते; असाध्यस्य साधनान्वेषणायां हि, जलबुद्ध्या स्थल इव तरणं कृतं स्यात्, खे वा शाकुनपदान्वेषणम्। तस्मात् एतमात्मानं विदित्वा प्रव्रजेयुरेव ब्राह्मणाः, न कर्म आरभेरन्नित्यर्थः, यस्मात् पूर्वे ब्राह्मणा एवं विद्वांसः प्रजामकामयमानाः। ते एवं साध्यसाधनसंव्यवहारं निन्दन्तः अविद्वद्विषयोऽयमिति कृत्वा, किं कृतवन्त इत्युच्यते – ते ह स्म किल पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थाय अथ भिक्षाचर्यं चरन्ति इत्यादि व्याख्यातम्।
तस्मात् आत्मानं लोकमिच्छन्तः प्रव्रजन्ति प्रव्रजेयुः – इत्येष विधिः अर्थवादेन सङ्गच्छते; न हि सार्थवादस्य अस्य लोकस्तुत्याभिमुख्यम् उपपद्यते; प्रव्रजन्तीत्यस्यार्थवादरूपो हि ‘एतद्ध स्म’ इत्यादिरुत्तरो ग्रन्थः; अर्थवादश्चेत्, नार्थवादान्तरमपेक्षेत; अपेक्षते तु ‘एतद्ध स्म’ इत्याद्यर्थवादं ‘प्रव्रजन्ति’ इत्येतत्। यस्मात् पूर्वे विद्वांसः प्रजादिकर्मभ्यो निवृत्ताः प्रव्रजितवन्त एव, तस्मात् अधुनातना अपि प्रव्रजन्ति प्रव्रजेयुः – इत्येवं सम्बध्यमानं न लोकस्तुत्यभिमुखं भवितुमर्हति; विज्ञानसमानकर्तृकत्वोपदेशादित्यादिना अवोचाम। वेदानुवचनादिसहपाठाच्च; यथा आत्मवेदनसाधनत्वेन विहितानां वेदानुवचनादीनां यथार्थत्वमेव, नार्थवादत्वम्, तथा तैरेव सह पठितस्य पारिव्राज्यस्य आत्मलोकप्राप्तिसाधनत्वेन अर्थवादत्वमयुक्तम्। फलविभागोपदेशाच्च; ‘एतमेवात्मानं लोकं विदित्वा’ इति अन्यस्मात् बाह्यात् लोकात् आत्मानं फलान्तरत्वेन प्रविभजति, यथा – पुत्रेणैवायं लोको जय्यः नान्येन कर्मणा, कर्मणा पितृलोकः – इति। न च प्रव्रजन्तीत्येतत् प्राप्तवत् लोकस्तुतिपरम्, प्रधानवच्च अर्थवादापेक्षम् – सकृच्छ्रुतं स्यात्। तस्मात् भ्रान्तिरेव एषा – लोकस्तुतिपरमिति। न च अनुष्ठेयेन पारिव्राज्येन स्तुतिरुपपद्यते; यदि पारिव्राज्यम् अनुष्ठेयमपि सत् अन्यस्तुत्यर्थं स्यात्, दर्शपूर्णमासादीनामपि अनुष्ठेयानां स्तुत्यर्थता स्यात्। न च अन्यत्र कर्तव्यता एतस्माद्विषयात् निर्ज्ञाता, यत इह स्तुत्यर्थो भवेत्। यदि पुनः क्वचिद्विधिः परिकल्प्येत पारिव्राज्यस्य, स इहैव मुख्यः नान्यत्र सम्भवति। यदपि अनधिकृतविषये पारिव्राज्यं परिकल्प्यते, तत्र वृक्षाद्यारोहणाद्यपि पारिव्राज्यवत् कल्प्येत, कर्तव्यत्वेन अनिर्ज्ञातत्वाविशेषात्। तस्मात् स्तुतित्वगन्धोऽपि अत्र न शक्यः कल्पयितुम्।
यदि अयमात्मा लोक इष्यते, किमर्थं तत्प्राप्तिसाधनत्वेन कर्माण्येव न आरभेरन्, किं पारिव्राज्येन – इत्यत्रोच्यते – अस्य आत्मलोकस्य कर्मभिरसम्बन्धात्; यमात्मानमिच्छन्तः प्रव्रजेयुः, स आत्मा साधनत्वेन फलत्वेन च उत्पाद्यत्वादिप्रकाराणामन्यतमत्वेनापि कर्मभिः न सम्बध्यते; तस्मात् – स एष नेति नेत्यात्मा अगृह्यो न हि गृह्यते – इत्यादिलक्षणः; यस्मात् एवंलक्षण आत्मा कर्मफलसाधनासम्बन्धी सर्वसंसारधर्मविलक्षणः अशनायाद्यतीतः अस्थूलादिधर्मवान् अजोऽजरोऽमरोऽमृतोऽभयः सैन्धवघनवद्विज्ञानैकरसस्वभावः स्वयं ज्योतिः एक एवाद्वयः अपूर्वोऽनपरोऽनन्तरोऽबाह्यः – इत्येतत् आगमतस्तर्कतश्च स्थापितम्, विशेषतश्चेह जनकयाज्ञवल्क्यसंवादे अस्मिन्; तस्मात् एवंलक्षणे आत्मनि विदिते आत्मत्वेन नैव कर्मारम्भ उपपद्यते। तस्मादात्मा निर्विशेषः। न हि चक्षुष्मान् पथि प्रवृत्तः अहनि कूपे कण्टके वा पतति; कृत्स्नस्य च कर्मफलस्य विद्याफलेऽन्तर्भावात्; न च अयत्नप्राप्ये वस्तुनि विद्वान् यत्नमातिष्ठति; ‘अत्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत्। इष्टस्यार्थस्य सम्प्राप्तौ को विद्वान्यत्नमाचरेत्’ ‘सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते –’ (BhG.4.33) इति गीतासु। इहापि च एतस्यैव परमानन्दस्य ब्रह्मवित्प्राप्यस्य अन्यानि भूतानि मात्रामुपजीवन्तीत्युक्तम्। अतो ब्रह्मविदां न कर्मारम्भः।
यस्मात् सर्वैषणाविनिवृत्तः स एष नेति नेत्यात्मानमात्मत्वेनोपगम्य तद्रूपेणैव वर्तते, तस्मात् एतम् एवंविदं नेति नेत्यात्मभूतम्, उ ह एव एते वक्ष्यमाणे न तरतः न प्राप्नुतः – इति युक्तमेवेति वाक्यशेषः। के ते इत्युच्यते – अतः अस्मान्निमित्तात् शरीरधारणादिहेतोः, पापम् अपुण्यं कर्म अकरवं कृतवानस्मि – कष्टं खलु मम वृत्तम्, अनेन पापेन कर्मणा अहं नरकं प्रतिपत्स्ये – इति योऽयं पश्चात् पापं कर्म कृतवतः – परितापः स एवं नेति नेत्यात्मभूतं न तरति; तथा अतः कल्याणं फलविषयकामान्निमित्तात् यज्ञदानादिलक्षणं पुण्यं शोभनं कर्म कृतवानस्मि, अतोऽहम् अस्य फलं सुखमुपभोक्ष्ये देहान्तरे – इत्येषोऽपि हर्षः तं न तरति। उभे उ ह एव एषः ब्रह्मवित् एते कर्मणी तरति पुण्यपापलक्षणे। एवं ब्रह्मविदः सन्न्यासिन उभे अपि कर्मणी क्षीयेते – पूर्वजन्मनि कृते ये ते, इह जन्मनि कृते ये ते च; अपूर्वे च न आरभ्येते। किञ्च नैनं कृताकृते, कृतं नित्यानुष्ठानम्, अकृतं तस्यैव अक्रिया, ते अपि कृताकृते एनं न तपतः; अनात्मज्ञं हि, कृतं फलदानेन, अकृतं प्रत्यवायोत्पादनेन, तपतः; अयं तु ब्रह्मवित् आत्मविद्याग्निना सर्वाणि कर्माणि भस्मीकरोति, ‘यथैधांसि समिद्धोऽग्निः’ (BhG.4.37) इत्यादिस्मृतेः; शरीरारम्भकयोस्तु उपभोगेनैव क्षयः। अतो ब्रह्मवित् अकर्मसम्बन्धी॥
🔗  तदेतद् वस्तु ब्राह्मणेनोक्तम् ऋचा मन्त्रेण अभ्युक्तं प्रकाशितम्। एषः नेति नेत्यादिलक्षणः नित्यो महिमा; अन्ये तु महिमानः कर्मकृता इत्यनित्याः; अयं तु तद्विलक्षणो महिमा स्वाभाविकत्वान्नित्यः ब्रह्मविदः ब्राह्मणस्य त्यक्तसर्वैषणस्य। कुतोऽस्य नित्यत्वमिति हेतुमाह – कर्मणा न वर्धते शुभलक्षणेन कृतेन वृद्धिलक्षणां विक्रियां न प्राप्नोति; अशुभेन कर्मणा नो कनीयान् नाप्यपक्षयलक्षणां विक्रियां प्राप्नोति; उपचयापचयहेतुभूता एव हि सर्वा विक्रिया इति एताभ्यां प्रतिषिध्यन्ते; अतः अविक्रियात्वात् नित्य एष महिमा। तस्मात् तस्यैव महिम्नः, स्यात् भवेत्, पदवित् – पदस्य वेत्ता, पद्यते गम्यते ज्ञायत इति महिम्नः स्वरूपमेव पदम्, तस्य पदस्य वेदिता। किं तत्पदवेदनेन स्यादित्युच्यते – तं विदित्वा महिमानम्, न लिप्यते न सम्बध्यते कर्मणा पापकेन धर्माधर्मलक्षणेन, उभयमपि पापकमेव विदुषः। यस्माद् एवम् अकर्मसम्बन्धी एष ब्राह्मणस्य महिमा नेति नेत्यादिलक्षणः, तस्मात् एवंवित् शान्तः बाह्येन्द्रियव्यापारत उपशान्तः, तथा दान्तः अन्तःकरणतृष्णातो निवृत्तः, उपरतः सर्वैषणाविनिर्मुक्तः सन्न्यासी, तितिक्षुः द्वन्द्वसहिष्णुः, समाहितः इन्द्रियान्तःकरणचलनरूपाद्व्यावृत्त्या ऐकाग्र्यरूपेण समाहितो भूत्वा; तदेतदुक्तं पुरस्तात् ‘बाल्यं च पाण्डित्यं च निर्विद्य’ (BrhU.3.5.1) इति; आत्मन्येव स्वे कार्यकरणसङ्घाते आत्मानं प्रत्यक्चेतयितारं पश्यति। तत्र किं तावन्मात्रं परिच्छिन्नम्? नेत्युच्यते – सर्वं समस्तम् आत्मानम् एव पश्यति, नान्यत् आत्मव्यतिरिक्तं वालाग्रमात्रमप्यस्तीत्येवं पश्यति; मननात् मुनिर्भवति जाग्रत्स्वप्नसुषुप्ताख्यं स्थानत्रयं हित्वा। एवं पश्यन्तं ब्राह्मणं नैनं पाप्मा पुण्यपापलक्षणः तरति, न प्राप्नोति; अयं तु ब्रह्मवित् सर्वं पाप्मानं तरति आत्मभावेनैव व्याप्नोति अतिक्रामति। नैनं पाप्मा कृताकृतलक्षणः तपति इष्टफलप्रत्यवायोत्पादनाभ्याम्; सर्वं पाप्मानम् अयं तपति ब्रह्मवित् सर्वात्मदर्शनवह्निना भस्मीकरोति। स एष एवंवित् विपापः विगतधर्माधर्मः, विरजः विगतरजः, रजः कामः, विगतकामः, अविचिकित्सः छिन्नसंशयः, अहमस्मि सर्वात्मा परं ब्रह्मेति निश्चितमतिः ब्राह्मणो भवति – अयं तु एवम्भूतः एतस्यामवस्थायां मुख्यो ब्राह्मणः, प्रागेतस्मात् ब्रह्मस्वरूपावस्थानात् गौणमस्य ब्राह्मण्यम्। एष ब्रह्मलोकः – ब्रह्मैव लोको ब्रह्मलोकः मुख्यो निरुपचरितः सर्वात्मभावलक्षणः, हे सम्राट्एनं ब्रह्मलोकं परि-प्रापितोऽसि अभयं नेति नेत्यादिलक्षणम् – इति होवाच याज्ञवल्क्यः। एवं ब्रह्मभूतो जनकः याज्ञवल्क्येन ब्रह्मभावमापादितः प्रत्याह – सोऽहं त्वया ब्रह्मभावमापादितः सन् भगवते तुभ्यम् विदेहान् देशान् मम राज्यं समस्तं ददामि, मां च सह विदेहैः दास्याय दासकर्मणे – ददामीति च-शब्दात्सम्बध्यते। परिसमापिता ब्रह्मविद्या सह सन्न्यासेन साङ्गा सेतिकर्तव्यताका; परिसमाप्तः परमपुरुषार्थः; एतावत् पुरुषेण कर्तव्यम्, एष निष्ठा, एषा परा गतिः, एतन्निःश्रेयसम्, एतत्प्राप्य कृतकृत्यो ब्राह्मणो भवति, एतत् सर्ववेदानुशासनमिति॥
🔗  योऽयं जनकयाज्ञवल्क्याख्यायिकायां व्याख्यात आत्मा स वै एषः महान् अजः आत्मा अन्नादः सर्वभूतस्थः सर्वान्नानामत्ता, वसुदानः – वसु धनं सर्वप्राणिकर्मफलम् – तस्य दाता, प्राणिनां यथाकर्म फलेन योजयितेत्यर्थः; तमेतत् अजमन्नादं वसुदानमात्मानम् अन्नादवसुदानगुणाभ्यां युक्तम् यो वेद, सः सर्वभूतेष्वात्मभूतः अन्नमत्ति, विन्दतेवसु सर्वं कर्मफलजातं लभते सर्वात्मत्वादेव, य एवं यथोक्तं वेद। अथवा दृष्टफलार्थिभिरपि एवङ्गुण उपास्यः; तेन अन्नादः वसोश्च लब्धा, दृष्टेनैव फलेन अन्नात्तृत्वेन गोश्वादिना च अस्य योगो भवतीत्यर्थः॥
🔗  इदानीं समस्तस्यैव आरण्यकस्य योऽर्थ उक्तः, स समुच्चित्य अस्यां कण्डिकायां निर्दिश्यते, एतावान्समस्तारण्यकार्थ इति। स वा एष महानज आत्मा अजरः न जीर्यत इति, न विपरिणमत इत्यर्थः; अमरः – यस्माच्च अजरः, तस्मात् अमरः, न म्रियत इत्यमरः; यो हि जायते जीर्यते च, स विनश्यति म्रियते वा; अयं तु अजत्वात् अजरत्वाच्च अविनाशी यतः, अत एव अमृतः। यस्मात् जनिप्रभृतिभिः त्रिभिर्भावविकारैः वर्जितः, तस्मात् इतरैरपि भावविकारैस्त्रिभिः तत्कृतैश्च कामकर्ममोहादिभिर्मृत्युरूपैर्वर्जित इत्येतत्। अभयः अत एव; यस्माच्च एवं पूर्वोक्तविशेषणः, तस्माद्भयवर्जितः; भयं च हि नाम अविद्याकार्यम्; तत्कार्यप्रतिषेधेन भावविकारप्रतिषेधेन च अविद्यायाः प्रतिषेधः सिद्धो वेदितव्यः। अभय आत्मा एवङ्गुणविशिष्टः किमसौ? ब्रह्म परिवृढं निरतिशयं महदित्यर्थः। अभयं वै ब्रह्म; प्रसिद्धमेतत् लोके – अभयं ब्रह्मेति। तस्माद्युक्तम् एवङ्गुणविशिष्ट आत्मा ब्रह्मेति। य एवं यथोक्तमात्मानमभयं ब्रह्म वेद, सः अभयं हि वै ब्रह्म भवति। एष सर्वस्या उपनिषदः सङ्क्षिप्तोऽर्थ उक्तः। एतस्यैवार्थस्य सम्यक्प्रबोधाय उत्पत्तिस्थितिप्रलयादिकल्पना क्रियाकारकफलाध्यारोपणा च आत्मनि कृता; तदपोहेन च नेति नेतीत्यध्यारोपितविशेषापनयद्वारेण पुनः तत्त्वमावेदितम्। यथा एकप्रभृत्यापरार्धसङ्ख्यास्वरूपपरिज्ञानाय रेखाध्यारोपणं कृत्वा – एकेयं रेखा, दशेयम्, शतेयम्, सहस्रेयम् – इति ग्राहयति, अवगमयति सङ्ख्यास्वरूपं केवलम्, न तु सङ्ख्याया रेखात्मत्वमेव; यथा च अकारादीन्यक्षराणि विजिग्राहयिषुः पत्रमषीरेखादिसंयोगोपायमास्थाय वर्णानां सतत्त्वमावेदयति, न पत्रमष्याद्यात्मतामक्षराणां ग्राहयति – तथा चेह उत्पत्त्याद्यनेकोपायमास्थाय एकं ब्रह्मतत्त्वमावेदितम्, पुनः तत्कल्पितोपायजनितविशेषपरिशोधनार्थं नेति नेतीति तत्त्वोपसंहारः कृतः। तदुपसंहृतं पुनः परिशुद्धं केवलमेव सफलं ज्ञानम् अन्तेऽस्यां कण्डिकायामिति॥

Go to Top ('Home' key on many Windows browsers)

BrhU.4.05

🔗  आगमप्रधानेन मधुकाण्डेन ब्रह्मतत्त्वं निर्धारितम्। पुनः तस्यैव उपपत्तिप्रधानेन याज्ञवल्कीयेन काण्डेन पक्षप्रतिपक्षपरिग्रहं कृत्वा विगृह्यवादेन विचारितम्। शिष्याचार्यसम्बन्धेन च षष्ठे प्रश्नप्रतिवचनन्यायेन सविस्तरं विचार्योपसंहृतम्। अथेदानीं निगमनस्थानीयं मैत्रेयीब्राह्मणमारभ्यते; अयं च न्यायः वाक्यकोविदैः परिगृहीतः – ‘हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम्’ (न्या. सू. १-१-३९) इति। अथवा आगमप्रधानेन मधुकाण्डेन यत् अमृतत्वसाधनं ससन्न्यासमात्मज्ञानमभिहितम्, तदेव तर्केणापि अमृतत्वसाधनं ससन्न्यासमात्मज्ञानमधिगम्यते; तर्कप्रधानं हि याज्ञवल्कीयं काण्डम्; तस्मात् शास्त्रतर्काभ्यां निश्चितमेतत् – यदेतत् आत्मज्ञानं ससन्न्यासम् अमृतत्वसाधनमिति; तस्मात् शास्त्रश्रद्धावद्भिः अमृतत्वप्रतिपित्सुभिः एतत् प्रतिपत्तव्यमिति; आगमोपपत्तिभ्यां हि निश्चितोऽर्थः श्रद्धेयो भवति अव्यभिचारादिति। अक्षराणां तु चतुर्थे यथा व्याख्यातोऽर्थः, तथा प्रतिपत्तव्योऽत्रापि; यान्यक्षराणि अव्याख्यातानि तानि व्याख्यास्यामः –
अथ इति हेतूपदेशानन्तर्यप्रदर्शनार्थः। हेतुप्रधानानि हि वाक्यानि अतीतानि। तदनन्तरम् आगमप्रधानेन प्रतिज्ञातोऽर्थः निगम्यते मैत्रेयीब्राह्मणेन। ह-शब्दः वृत्तावद्योतकः। याज्ञवल्क्यस्य ऋषेः किल द्वे भार्ये पत्न्यौ बभूवतुः आस्ताम् – मैत्रेयी च नामत एका, अपरा कात्यायनी नामतः। तयोः भार्ययोः मैत्रेयी ह किल ब्रह्मवादिनी ब्रह्मवदनशीला बभूव आसीत्; स्त्रीप्रज्ञा – स्त्रियां या उचिता सा स्त्रीप्रज्ञा – सैव यस्याः प्रज्ञा गृहप्रयोजनान्वेषणालक्षणा, सा स्त्रीप्रज्ञा एव तर्हि तस्मिन्काले आसीत् कात्यायनीअथ एवं सति किल याज्ञवल्क्यः अन्यत् पूर्वस्माद्गार्हस्थ्यलक्षणाद्वृत्तात् पारिव्राज्यलक्षणं वृत्तम् उपाकरिष्यन् उपाचिकीर्षुः सन्॥
🔗  हे मैत्रेयीति ज्येष्ठां भार्यामामन्त्रयामास; आमन्त्र्य च उवाच हप्रव्रजिष्यन् पारिव्राज्यं करिष्यन् वै अरे मैत्रेयि अस्मात् स्थानात् गार्हस्थ्यात् अहम् अस्मि भवामि। मैत्रेयि अनुजानीहि माम्; हन्त इच्छसि यदि, ते अनया कात्यायन्या अन्तम् करवाणि – इत्यादि व्याख्यातम्॥
🔗  सा एवमुक्ता उवाच मैत्रेयीसर्वा इयं पृथिवी वित्तेन पूर्णा स्यात्, नु किम् स्याम्, किम् अहं वित्तसाध्येन कर्मणा अमृता, आहो न स्यामिति। नेति होवाच याज्ञवल्क्यः इत्यादि (BrhU.2.4.2–3) समानमन्यत्॥
🔗  सः ह उवाचप्रिया एव पूर्वं खलु नः अस्मभ्यम् भवती, भवन्ती सती, प्रियम् एव अवृधत् वर्धितवती निर्धारितवती असि; अतः तुष्टोऽहम्; हन्त इच्छसि चेत् अमृतत्वसाधनं ज्ञातुम्, हे भवति, ते तुभ्यं तत् अमृत्वसाधनं व्याख्यास्यामि
🔗  आत्मनि खलु अरे मैत्रेयि दृष्टे; कथं दृष्ट आत्मनीति, उच्यते – पूर्वम् आचार्यागमाभ्यां श्रुते, पुनः तर्केणोपपत्त्या मते विचारिते, श्रवणं तु आगममात्रेण, मते उपपत्त्या, पश्चात् विज्ञाते – एवमेतत् नान्यथेति निर्धारिते; किं भवतीत्युच्यते – इदं विदितं भवति; इदं सर्वम् इति यत् आत्मनोऽन्यत्, आत्मव्यतिरेकेणाभावात्॥
🔗  तम् अयथार्थदर्शिनं परादात् पराकुर्यात्, कैवल्यासम्बन्धिनं कुर्यात् – अयमनात्मस्वरूपेण मां पश्यतीत्यपराधादिति भावः॥
🔗  चतुर्थे शब्दनिश्वासेनैव लोकाद्यर्थनिश्वासः सामर्थ्यात् उक्तो भवतीति पृथक् नोक्तः। इह तु सर्वशास्त्रार्थोपसंहार इति कृत्वा अर्थप्राप्तोऽप्यर्थः स्पष्टीकर्तव्य इति पृथगुच्यते॥
🔗  सर्वकार्यप्रलये विद्यानिमित्ते, सैन्धव-घनवत् अनन्तरः अबाह्यः कृत्स्नः प्रज्ञानघनः एक आत्मा अवतिष्ठते; पूर्वं तु भूतमात्रासंसर्गविशेषात् लब्धविशेषविज्ञानः सन्; तस्मिन् प्रविलापिते विद्यया विशेषविज्ञाने तन्निमित्ते च भूतसंसर्गे न प्रेत्य सञ्ज्ञा अस्तिइति एवं याज्ञवल्क्येनोक्ता॥
🔗  सा होवाचअत्रैव मा भगवान् एतस्मिन्नेव वस्तुनि प्रज्ञानघन एव, न प्रेत्य सञ्ज्ञास्तीति, मोहान्तं मोहमध्यम्, आपीपिपत् आपीपदत् अवगमितवानसि, सम्मोहितवानसीत्यर्थः; अतः न वा अहम् इमम् आत्मानम् उक्तलक्षणं विजानामि विवेकत इतिस होवाचनाहं मोहं ब्रवीमि, अविनाशी वा अरेऽयमात्मा यतः; विननं शीलमस्येति विनाशी, न विनाशी अविनाशी, विनाशशब्देन विक्रिया, अविनाशीति अविक्रिय आत्मेत्यर्थः; अरे मैत्रेयि, अयमात्मा प्रकृतः अनुच्छित्ति-धर्मा; उच्छित्तिरुच्छेदः, उच्छेदः अन्तः विनाशः, उच्छित्तिः धर्मः अस्य इति उच्छित्तिधर्मा, न उच्छित्तिधर्मा अनुच्छित्तिधर्मा, नापि विक्रियालक्षणः, नाप्युच्छेदलक्षणः विनाशः अस्य विद्यत इत्यर्थः॥
🔗  चतुर्ष्वपि प्रपाठकेषु एक आत्मा तुल्यो निर्धारितः परं ब्रह्म; उपायविशेषस्तु तस्याधिगमे अन्यश्चान्यश्च; उपेयस्तु स एव आत्मा, यः चतुर्थे – ‘अथात आदेशो नेति नेति’ (BrhU.2.3.6) इति निर्दिष्टः; स एव पञ्चमे प्राणपणोपन्यासेन शाकल्ययाज्ञवल्क्यसंवादे निर्धारितः, पुनः पञ्चमसमाप्तौ, पुनर्जनकयाज्ञवल्क्यसंवादे, पुनः इह उपनिषत्समाप्तौ। चतुर्णामपि प्रपाठकानाम् एतदात्मनिष्ठता, नान्योऽन्तराले कश्चिदपि विवक्षितोऽर्थः – इत्येतत्प्रदर्शनाय अन्ते उपसंहारः – स एष नेति नेत्यादिः। यस्मात् प्रकारशतेनापि निरूप्यमाणे तत्त्वे, नेति नेत्यात्मैव निष्ठा, न अन्या उपलभ्यते तर्केण वा आगमेन वा; तस्मात् एतदेवामृतत्वसाधनम्, यदेतत् नेति नेत्यात्मपरिज्ञानं सर्वसन्न्यासश्च इत्येतमर्थमुपसञ्जिहीर्षन्नाह – एतावत् एतावन्मात्रम् यदेतत् नेति नेत्यद्वैतात्मदर्शनम्; इदं च अन्यसहकारिकारणनिरपेक्षमेव अरे मैत्रेयि अमृतत्वसाधनम्। यत्पृष्टवत्यसि – यदेव भगवान्वेद तदेव मे ब्रूह्यमृतत्वसाधनमिति, तत् एतावदेवेति विज्ञेयं त्वया – इति ह एवं किल अमृतत्वसाधनमात्मज्ञानं प्रियायै भार्यायै उक्त्वा याज्ञवल्क्यः – किं कृतवान्? यत्पूर्वं प्रतिज्ञातम् ‘प्रव्रजिष्यन्नस्मि’ (BrhU.4.5.2) इति, तच्चकार, विजहार प्रव्रजितवानित्यर्थः। परिसमाप्ता ब्रह्मविद्या सन्न्यासपर्यवसाना। एतावान् उपदेशः, एतत् वेदानुशासनम्, एषा परमनिष्ठा, एष पुरुषार्थकर्तव्यतान्त इति।
इदानीं विचार्यते शास्त्रार्थविवेकप्रतिपत्तये। यत आकुलानि हि वाक्यानि दृश्यन्ते – ‘यावज्जीवमग्निहोत्रं जुहुयात्’ ‘यावज्जीवं दर्शपूर्णमासाभ्यां यजेत’ ‘कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः’ (IsU.2) ‘एतद्वै जरामर्यं सत्रं यदग्निहोत्रम्’ (शत. ब्रा. १२-४-१-१) इत्यादीनि ऐकाश्रम्यज्ञापकानि; अन्यानि च आश्रमान्तरप्रतिपादकानि वाक्यानि ‘विदित्वा व्युत्थाय प्रव्रजन्ति’ (BrhU.3.5.1) ‘ब्रह्मचर्यं समाप्य गृही भवेद्गृहाद्वनी भूत्वा प्रव्रजेत् यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा’ (जा. उ. ४) इति, ‘द्वावेव पन्थानावनुनिष्क्रान्ततरौ भवतः, क्रियापथश्चैव पुरस्तात्सन्न्यासश्च, तयोः सन्न्यास एवातिरेचयति’ (? ) इति, ‘न कर्मणा न प्रजया धनेन त्यागेनैकेऽमृतत्वमानशुः’ (तै. ना. १०-५) इत्यादीनि। तथा स्मृतयश्च – ‘ब्रह्मचर्यवान्प्रव्रजति’ (आ. ध. २-२१-८-१०) ‘अविशीर्णब्रह्मचर्यो यमिच्छेत्तमावसेत्’ (व. ८-२?) ‘तस्याश्रमविकल्पमेके ब्रुवते’ (गौ. ध. ३-१); तथा ‘वेदानधीत्य ब्रह्मचर्येण पुत्रपौत्रानिच्छेत्पावनार्थं पितॄणाम्। अग्नीनाधाय विधिवच्चेष्टयज्ञो वनं प्रविश्याथ मुनिर्बुभूषेत्’ (मो. ध. १७५-६)। ‘प्राजापत्यां निरूप्येष्टिं सर्ववेदसदक्षिणाम्। आत्मन्यग्नीन्समारोप्य ब्राह्मणः प्रव्रजेद्गृहात्’ (मनु. ६-३८) इत्याद्याः। एवं व्युत्थानविकल्पक्रमयथेष्टाश्रमप्रतिपत्तिप्रतिपादकानि हि श्रुतिस्मृतिवाक्यानि शतश उपलभ्यन्त इतरेतरविरुद्धानि। आचारश्च तद्विदाम्। विप्रतिपत्तिश्च शास्त्रार्थप्रतिपत्तॄणां बहुविदामपि। अतो न शक्यते शास्त्रार्थो मन्दबुद्धिभिर्विवेकेन प्रतिपत्तुम्। परिनिष्ठितशास्त्रन्यायबुद्धिभिरेव हि एषां वाक्यानां विषयविभागः शक्यते अवधारयितुम्। तस्मात् एषां विषयविभागज्ञापनाय यथाबुद्धिसामर्थ्यं विचारयिष्यामः।
यावज्जीवश्रुत्यादिवाक्यानामन्यार्थासम्भवात् क्रियावसान एव वेदार्थः; ‘तं यज्ञपात्रैर्दहन्ति’ (? ) इत्यन्त्यकर्मश्रवणात्; जरामर्यश्रवणाच्च; लिङ्गाच्च ‘भस्मान्तं शरीरम्’ (IsU.17) इति; न हि पारिव्राज्यपक्षे भस्मान्तता शरीरस्य स्यात्। स्मृतिश्च – ‘निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः। तस्य शास्त्रेऽधिकारोऽस्मिञ्ज्ञेयो नान्यस्य कस्यचित्’ (मनु. २-१६) इति; स मन्त्रकं हि यत्कर्म वेदेन इह विधीयते, तस्य श्मशानान्ततां दर्शयति स्मृतिः; अधिकाराभावप्रदर्शनाच्च – अत्यन्तमेव श्रुत्यधिकाराभावः अकर्मिणो गम्यते। अग्न्युद्वासनापवादाच्च, ‘वीरहा वा एष देवानां योऽग्निमुद्वासयते’ (तै. सं. १-५-२-१) इति। ननु व्युत्थानादिविधानात् वैकल्पिकं क्रियावसानत्वं वेदार्थस्य – न, अन्यार्थत्वात् व्युत्थानादिश्रुतीनाम्; ‘यावज्जीवमग्निहोत्रं जुहोति’ (? ) ‘यावज्जीवं दर्शपूर्णमासाभ्यां यजेत’ (? ) इत्येवमादीनां श्रुतीनां जीवनमात्रनिमित्तत्वात् यदा न शक्यते अन्यार्थता कल्पयितुम्, तदा व्युत्थानादिवाक्यानां कर्मानधिकृतविषयत्वसम्भवात्; ‘कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः’ (IsU.2) इति च मन्त्रवर्णात्, जरया वा ह्येवास्मान्मुच्यते मृत्युना वा – इति च जरामृत्युभ्यामन्यत्र कर्मवियोगच्छिद्रासम्भवात् कर्मिणां श्मशानान्तत्वं न वैकल्पिकम्; काणकुब्जादयोऽपि कर्मण्यनधिकृता अनुग्राह्या एव श्रुत्येति व्युत्थानाद्याश्रमान्तरविधानं नानुपपन्नम्। पारिव्राज्यक्रमविधानस्य अनवकाशत्वमिति चेत्, न, विश्वजित्सर्वमेधयोः यावज्जीवविध्यपवादत्वात्; यावज्जीवाग्निहोत्रादिविधेः विश्वजित्सर्वमेधयोरेव अपवादः, तत्र च क्रमप्रतिपत्तिसम्भवः – ‘ब्रह्मचर्यं समाप्य गृही भवेद्गृहाद्वनी भूत्वा प्रव्रजेत्’ (जा. उ. ४) इति। विरोधानुपपत्तेः; न हि एवंविषयत्वे पारिव्राज्यक्रमविधानवाक्यस्य, कश्चिद्विरोधः क्रमप्रतिपत्तेः; अन्यविषयपरिकल्पनायां तु यावज्जीवविधानश्रुतिः स्वविषयात्सङ्कोचिता स्यात्; क्रमप्रतिपत्तेस्तु विश्वजित्सर्वमेधविषयत्वात् न कश्चिद्बाधः।
न, आत्मज्ञानस्य अमृतत्वहेतुत्वाभ्युपगमात्। यत्तावत् ‘आत्मेत्येवोपासीत’ (BrhU.1.4.7) इत्यारभ्य स एष नेति नेत्येतदन्तेन ग्रन्थेन यदुपसंहृतम् आत्मज्ञानम्, तत् अमृतत्वसाधनमित्यभ्युपगतं भवता; तत्र एतावदेवामृतत्वसाधनम् अन्यनिरपेक्षमित्येतत् न मृष्यते। तत्र भवन्तं पृच्छामि, किमर्थमात्मज्ञानं मर्षयति भवानिति। शृणु तत्र कारणम् – यथा स्वर्गकामस्य स्वर्गप्राप्त्युपायमजानतः अग्निहोत्रादि स्वर्गप्राप्तिसाधनं ज्ञापयति, तथा इहाप्यमृतत्वप्रतिपित्सोः अमृतत्वप्राप्त्युपायमजानतः ‘यदेव भगवान्वेद तदेव मे ब्रूहि’ (BrhU.4.5.4) इत्येवमाकाङ्क्षितम् अमृतत्वसाधनम् ‘एतावदरे’ (BrhU.4.5.15) इत्येवमादौ वेदेन ज्ञाप्यत इति। एवं तर्हि, यथा ज्ञापितमग्निहोत्रादि स्वर्गसाधनमभ्युपगम्यते, तथा इहापि आत्मज्ञानम् – यथा ज्ञाप्यते तथाभूतमेव अमृतत्वसाधनमात्मज्ञानमभ्युपगन्तुं युक्तम्; तुल्यप्रामाण्यादुभयत्र। यद्येवं किं स्यात्? सर्वकर्महेतूपमर्दकत्वादात्मज्ञानस्य विद्योद्भवे कर्मनिवृत्तिः स्यात्; दाराग्निसम्बद्धानां तावत् अग्निहोत्रादिकर्मणां भेदबुद्धिविषयसम्प्रदानकारकसाध्यत्वम्; अन्यबुद्धिपरिच्छेद्यां हि अन्यादिदेवतां सम्प्रदानकारकभूतामन्तरेण, न हि तत्कर्म निर्वर्त्यते; यया हि सम्प्रदानकारकबुद्ध्या सम्प्रदानकारकं कर्मसाधनत्वेनोपदिश्यते, सा इह विद्यया निवर्त्यते – ‘अन्योऽसावन्योऽहमस्मीति न स वेद’ (BrhU.1.4.10) ‘देवास्तं परादुर्योऽन्यत्रात्मनो देवान्वेद’ (BrhU.4.5.12) ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ (BrhU.4.4.19) ‘एकधैवानुद्रष्टव्यं सर्वमात्मानं पश्यति’ (BrhU.4.4.20) इत्यादिश्रुतिभ्यः। न च देशकालनिमित्ताद्यपेक्षत्वम्, व्यवस्थितात्मवस्तुविषयत्वात् आत्मज्ञानस्य। क्रियायास्तु पुरुषतन्त्रत्वात् स्यात् देशकालनिमित्ताद्यपेक्षत्वम्; ज्ञानं तु वस्तुतन्त्रत्वात् न देशकालनिमित्तादि अपेक्षते; यथा अग्निः उष्णः, आकाशः अमूर्तः – इति, तथा आत्मविज्ञानमपि। ननु एवं सति प्रमाणभूतस्य कर्मविधेः निरोधः स्यात्; न च तुल्यप्रमाणयोः इतरेतरनिरोधो युक्तः – न, स्वाभाविकभेदबुद्धिमात्रनिरोधकत्वात्; न हि विध्यन्तरनिरोधकम् आत्मज्ञानम्, स्वाभाविकभेदबुद्धिमात्रं निरुणद्धि। तथापि हेत्वपहारात् कर्मानुपपत्तेः विधिनिरोध एव स्यादिति चेत् – न, कामप्रतिषेधात् काम्यप्रवृत्तिनिरोधवत् अदोषात्; यथा ‘स्वर्गकामो यजेत’ (BrhU.4.4.23) इति स्वर्गसाधने यागे प्रवृत्तस्य कामप्रतिषेधविधेः कामे विहते काम्ययागानुष्ठानप्रवृत्तिः निरुध्यते; न च एतावता काम्यविधिर्निरुद्धो भवति। कामप्रतिषेधविधिना काम्यविधेः अनर्थकत्वज्ञानात् प्रवृत्त्यनुपपत्तेः निरुद्ध एव स्यादिति चेत् – भवतु एवं कर्मविधिनिरोधोऽपि। यथा कामप्रतिषेधे काम्यविधेः, एवं प्रामाण्यानुपपत्तिरिति चेत् – अननुष्ठेयत्वे अनुष्ठातुरभावात् अनुष्ठानविध्यानर्थक्यात् अप्रामाण्यमेव कर्मविधीनामिति चेत् – न, प्रागात्मज्ञानात् प्रवृत्त्युपपत्तेः; स्वाभाविकस्य क्रियाकारकफलभेदविज्ञानस्य प्रागात्मज्ञानात् कर्महेतुत्वमुपपद्यत एव; यथा कामविषये दोषविज्ञानोत्पत्तेः प्राक् काम्यकर्मप्रवृत्तिहेतुत्वं स्यादेव स्वर्गादीच्छायाः स्वाभाविक्याः, तद्वत्। तथा सति अनर्थार्थो वेद इति चेत् – न, अर्थानर्थयोः अभिप्रायतन्त्रत्वात्; मोक्षमेकं वर्जयित्वा अन्यस्याविद्याविषयत्वात्; पुरुषाभिप्रायतन्त्रौ हि अर्थानर्थौ, मरणादिकाम्येष्टिदर्शनात्। तस्मात् यावदात्मज्ञानविधेराभिमुख्यम्, तावदेव कर्मविधयः; तस्मात् न आत्मज्ञानसहभावित्वं कर्मणामित्यतः सिद्धम् आत्मज्ञानमेव अमृतत्वसाधनम् ‘एतावदरे खल्वमृतत्वम्’ (BrhU.4.5.15) इति, कर्मनिरपेक्षत्वात् ज्ञानस्य। अतो विदुषस्तावत् पारिव्राज्यं सिद्धम्, सम्प्रदानादिकर्मकारकजात्यादिशून्याविक्रियब्रह्मात्मदृढप्रतिपत्तिमात्रेण वचनमन्तरेणापि उक्तन्यायतः। तथा च व्याख्यातमेतत् – ‘येषां नोऽयमात्माऽयं लोकः’ (BrhU.4.4.22) इति हेतुवचनेन, पूर्वेविद्वांसः प्रजामकामयमाना व्युत्तिष्ठन्तीति – पारिव्राज्यम् विदुषाम् आत्मलोकावबोधादेव। तथा च विविदिषोरपि सिद्धं पारिव्राज्यम्, ‘एतमेवात्मानं लोकमिच्छन्तः प्रव्रजन्ति’ (BrhU.4.4.22) इति वचनात्; कर्मणां च अविद्वद्विषयत्वमवोचाम; अविद्याविषये च उत्पत्त्यादिविकारसंस्कारार्थानि कर्माणीत्यतः – आत्मसंस्कारद्वारेण आत्मज्ञानसाधनत्वमपि कर्मणामवोचाम – यज्ञादिभिर्विविदिषन्तीति। अथ एवं सति अविद्वद्विषयाणाम् आश्रमकर्मणां बलाबलविचारणायाम्, आत्मज्ञानोत्पादनं प्रति यमप्रधानानाम् अमानित्वादीनाम् मानसानां च ध्यानज्ञानवैराग्यादीनाम् सन्निपत्योपकारकत्वम्; हिंसारागद्वेषादिबाहुल्यात् बहुक्लिष्टकर्मविमिश्रिता इतरे – इति; अतः पारिव्राज्यं मुमुक्षूणां प्रशंसन्ति – ‘त्याग एव हि सर्वेषामुक्तानामपि कर्मणाम्। वैराग्यं पुनरेतस्य मोक्षस्य परमोऽवधिः’ (? ) ‘किं ते धनेन किमु बन्धुभिस्ते किं ते दारैर्ब्राह्मण यो मरिष्यसि। आत्मानमन्विच्छ गुहां प्रविष्टं पितामहास्ते क्व गताः पिता च’ (मो. ध. १७५-३८, २७७-३८)। एवं सांख्ययोगशास्त्रेषु च सन्न्यासः ज्ञानं प्रति प्रत्यासन्न उच्यते; कामप्रवृत्त्यभावाच्च; कामप्रवृत्तेर्हि ज्ञानप्रतिकूलता सर्वशास्त्रेषु प्रसिद्धा। तस्मात् विरक्तस्य मुमुक्षोः विनापि ज्ञानेन ‘ब्रह्मचर्यादेव प्रव्रजेत्’ (जा. उ. ४) इत्यादि उपपन्नम्। ननु सावकाशत्वात् अनधिकृतविषयमेतदित्युक्तम्, यावज्जीवश्रुत्युपरोधात् – नैष दोषः, नितरां सावकाशत्वात् यावज्जीवश्रुतीनाम्; अविद्वत्कामिकर्तव्यतां हि अवोचाम सर्वकर्मणाम्; न तु निरपेक्षमेव जीवननिमित्तमेव कर्तव्यं कर्म; प्रायेण हि पुरुषाः कामबहुलाः; कामश्च अनेकविषयः अनेककर्मसाधनसाध्यश्च; अनेकफलसाधनानि च वैदिकानि कर्माणि दाराग्निसम्बन्धपुरुषकर्तव्यानि, पुनः पुनश्च अनुष्ठीयमानानि बहुफलानि कृष्यादिवत्, वर्षशतसमाप्तीनि च गार्हस्थ्ये वा अरण्ये वा; अतः तदपेक्षया यावज्जीवश्रुतयः; ‘कुर्वन्नेवेह कर्माणि’ (IsU.2) इति च मन्त्रवर्णः। तस्मिंश्च पक्षे विश्वजित्सर्वमेधयोः कर्मपरित्यागः, यस्मिंश्च पक्षे यावज्जीवानुष्ठानम्, तदा श्मशानान्तत्वम् भस्मान्तता च शरीरस्य। इतरवर्णापेक्षया वा यावज्जीवश्रुतिः; न हि क्षत्त्रियवैश्ययोः पारिव्राज्यप्रतिपत्तिरस्ति; तथा ‘मन्त्रैर्यस्योदितो विधिः’ (मनु. २-१६) ‘ऐकाश्रम्यं त्वाचार्याः’ (गौ. ध. १-३-३५) इत्येवमादीनां क्षत्त्रियवैश्यापेक्षत्वम्। तस्मात् पुरुषसामर्थ्यज्ञानवैराग्यकामाद्यपेक्षया व्युत्थानविकल्पक्रमपारिव्राज्यप्रतिपत्तिप्रकाराः न विरुध्यन्ते; अनधिकृतानां च पृथग्विधानात् पारिव्राज्यस्य ‘स्नातको वास्नातको वोत्सन्नाग्निरनग्निको वा’ (जा. उ. ४) इत्यादिना; तस्मात् सिद्धानि आश्रमान्तराणि अधिकृतानामेव॥

Go to Top ('Home' key on many Windows browsers)

BrhU.4.06

🔗  अथ अनन्तरं याज्ञवल्कीयस्य काण्डस्य वंशः आरभ्यते, यथा मधुकाण्डस्य वंशः। व्याख्यानं तु पूर्ववत्। ब्रह्म स्वयम्भु ब्रह्मणे नमः ओमिति॥

Go to Top ('Home' key on many Windows browsers)

br.5.01 br.5.02 br.5.03 br.5.04 br.5.05 br.5.06 br.5.07 br.5.08 br.5.09 br.5.10 br.5.11 br.5.12 br.5.13 br.5.14 br.5.15

Go to Top ('Home' key on many Windows browsers)

BrhU.5.01

🔗  पूर्णमद इत्यादि खिलकाण्डमारभ्यते। अध्यायचतुष्टयेन यदेव साक्षादपरोक्षाद्ब्रह्म, य आत्मा सर्वान्तरः निरुपाधिकः अशनायाद्यतीतः नेति नेतीति व्यपदेश्यः निर्धारितः, यद्विज्ञानं केवलममृतत्वसाधनम् –
अधुना तस्यैव आत्मनः सोपाधिकस्य शब्दार्थादिव्यवहारविषयापन्नस्य पुरस्तादनुक्तानि उपासनानि कर्मभिरविरुद्धानि प्रकृष्टाभ्युदयसाधनानि क्रममुक्तिभाञ्जि च; तानि वक्तव्यानीति परः सन्दर्भः; सर्वोपासनशेषत्वेन ओङ्कारो दमं दानं दयाम् इत्येतानि च विधित्सितानि। पूर्णमदः – पूर्णम् न कुतश्चित् व्यावृत्तं व्यापीत्येतत्; निष्ठा च कर्तरि द्रष्टव्या; अद इति परोक्षाभिधायि सर्वनाम, तत् परं ब्रह्मेत्यर्थः; तत् सम्पूर्णम् आकाशवद्व्यापि निरन्तरं निरुपाधिकं च; तदेव इदं सोपाधिकं नामरूपस्थं व्यवहारापन्नं पूर्णं स्वेन रूपेण परमात्मना व्याप्येव, न उपाधिपरिच्छिन्नेन विशेषात्मना; तदिदं विशेषापन्नं कार्यात्मकं ब्रह्म पूर्णात् कारणात्मनः उदच्यते उद्रिच्यते, उद्गच्छतीत्येतत्। यद्यपि कार्यात्मना उद्रिच्यते तथापि यत्स्वरूपं पूर्णत्वम् परमात्मभावं तन्न जहाति, पूर्णमेव उद्रिच्यते। पूर्णस्य कार्यात्मनो ब्रह्मणः, पूर्णं पूर्णत्वम्, आदाय गृहीत्वा आत्मस्वरूपैकरसत्वमापद्य विद्यया, अविद्याकृतं भूतमात्रोपाधिसंसर्गजम् अन्यत्वावभासं तिरस्कृत्य, पूर्णमेव अनन्तरमबाह्यं प्रज्ञानघनैकरसस्वभावं केवलं ब्रह्म अवशिष्यते। यदुक्तम् – ‘ब्रह्म वा इदमग्र आसीत् तदात्मानमेवावेत् तस्मात्तत्सर्वमभवत्’ (BrhU.1.4.10) इति – एषः अस्य मन्त्रस्यार्थः; तत्र ‘ब्रह्म’ इत्यस्यार्थः ‘पूर्णमदः’ इति; इदं पूर्णम् इति ‘ब्रह्म वा इदमग्र आसीत्’ इत्यस्यार्थः; तथा च श्रुत्यन्तरम् – ‘यदेवेह तदमुत्र यदमुत्र तदन्विह’ (KathU.2.1.10) इति; अतः अदःशब्दवाच्यं पूर्णं ब्रह्म, तदेव इदं पूर्णं कार्यस्थं नामरूपोपाधिसंयुक्तम् अविद्यया उद्रिक्तम् तस्मादेव परमार्थस्वरूपात् अन्यदिव प्रत्यवभासमानम् – तत्, यत् आत्मानमेव परं पूर्णं ब्रह्म विदित्वा – अहम् अदः पूर्णं ब्रह्मास्मि इत्येवम्, पूर्णमादाय, तिरस्कृत्य अपूर्णस्वरूपताम् अविद्याकृतां नामरूपोपाधिसम्पर्कजाम् एतया ब्रह्मविद्यया पूर्णमेव केवलम् अवशिष्यते; तथा चोक्तम् ‘तस्मात्तत्सर्वमभवत्’ इति। यः सर्वोपनिषदर्थो ब्रह्म, स एषः अनेन मन्त्रेण अनूद्यते, उत्तरसम्बन्धार्थम्। ब्रह्मविद्यासाधनत्वेन हि वक्ष्यमाणानि साधनानि ओङ्कारदमदानदयाख्यानि विधित्सितानि, खिलप्रकरणसम्बन्धात् सर्वोपासनाङ्गभूतानि च।
अत्रैके वर्णयन्ति – पूर्णात् कारणात् पूर्णं कार्यम् उद्रिच्यते; उद्रिक्तं कार्यं वर्तमानकालेऽपि पूर्णमेव परमार्थवस्तुभूतं द्वैतरूपेण; पुनः प्रलयकाले पूर्णस्य कार्यस्य पूर्णताम् आदाय आत्मनि धित्वा पूर्णमेव अवशिष्यते कारणरूपम्; एवम् उत्पत्तिस्थितिप्रलयेषु त्रिष्वपि कालेषु कार्यकारणयोः पूर्णतैव; सा च एकैव पूर्णता कार्यकारणयोर्भेदेन व्यपदिश्यते; एवं च द्वैताद्वैतात्मकमेकं ब्रह्म। यथा किल समुद्रो जलतरङ्गफेनबुद्बुदाद्यात्मक एव, यथा च जलं सत्यं तदुद्भवाश्च तरङ्गफेनबुद्बुदादयः समुद्रात्मभूता एव आविर्भावतिरोभावधर्माणः परमार्थसत्या एव – एवं सर्वमिदं द्वैतं परमार्थसत्यमेव जलतरङ्गादिस्थानीयम्, समुद्रजलस्थानीयं तु परं ब्रह्म। एवं च किल द्वैतस्य सत्यत्वे कर्मकाण्डस्य प्रामाण्यम्, यदा पुनर्द्वैतं द्वैतमिवाविद्याकृतं मृगतृष्णिकावदनृतम्, अद्वैतमेव परमार्थतः, तदा किल कर्मकाण्डं विषयाभावात् अप्रमाणं भवति; तथा च विरोध एव स्यात्। वेदैकदेशभूता उपनिषत् प्रमाणम्, परमार्थाद्वैतवस्तुप्रतिपादकत्वात्; अप्रमाणं कर्मकाण्डम्, असद्द्वैतविषयत्वात्। तद्विरोधपरिजिहीर्षया श्रुत्या एतदुक्तं कार्यकारणयोः सत्यत्वं समुद्रवत् ‘पूर्णमदः’ इत्यादिना इति। तदसत्, विशिष्टविषयापवादविकल्पयोरसम्भवात्। न हि इयं सुविवक्षिता कल्पना। कस्मात् ? यथा क्रियाविषये उत्सर्गप्राप्तस्य एकदेशे अपवादः क्रियते, यथा ‘अहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्यः’ (ChanU.1.1.1) इति हिंसा सर्वभूतविषया उत्सर्गेण निवारिता तीर्थे विशिष्टविषये ज्योतिष्टोमादावनुज्ञायते, न च तथा वस्तुविषये इह अद्वैतं ब्रह्म उत्सर्गेण प्रतिपाद्य पुनः तदेकदेशे अपवदितुं शक्यते, ब्रह्मणः अद्वैतत्वादेव एकदेशानुपपत्तेः। तथा विकल्पानुपपत्तेश्च; यथा ‘अतिरात्रे षोडशिनं गृह्णाति’ ‘नातिरात्रे षोडशिनं गृह्णाति’ इति ग्रहणाग्रहणयोः पुरुषाधीनत्वात् विकल्पो भवति; न त्विह तथा वस्तुविषये द्वैतं वा स्यात् अद्वैतं वेति विकल्पः सम्भवति, अपुरुषतन्त्रत्वादात्मवस्तुनः, विरोधाच्च द्वैताद्वैतत्वयोरेकस्य। तस्मात् न सुविवक्षिता इयं कल्पना। श्रुतिन्यायविरोधाच्च। सैन्धवघनवत् प्रज्ञानैकरसघनं निरन्तरं पूर्वापरबाह्याभ्यन्तरभेदविवर्जितं सबाह्याभ्यन्तरम् अजं नेति नेति अस्थूलमनण्वह्रस्वमजरमभयममृतम् – इत्येवमाद्याः श्रुतयः निश्चितार्थाः संशयविपर्यासाशङ्कारहिताः सर्वाः समुद्रे प्रक्षिप्ताः स्युः, अकिञ्चित्करत्वात्। तथा न्यायविरोधोऽपि, सावयवस्यानेकात्मकस्य क्रियावतो नित्यत्वानुपपत्तेः; नित्यत्वं च आत्मनः स्मृत्यादिदर्शनात् अनुमीयते; तद्विरोधश्च प्राप्नोति अनित्यत्वे; भवत्कल्पनानर्थक्यं च; स्फुटमेव च अस्मिन्पक्षे कर्मकाण्डानर्थक्यम्, अकृताभ्यागमकृतविप्रणाशप्रसङ्गात्। ननु ब्रह्मणो द्वैताद्वैतात्मकत्वे समुद्रादिदृष्टान्ता विद्यन्ते; कथमुच्यते भवता एकस्य द्वैताद्वैतत्वं विरुद्धमिति ? न, अन्यविषयत्वात्; नित्यनिरवयववस्तुविषयं हि विरुद्धत्वम् अवोचाम द्वैताद्वैतत्वस्य, न कार्यविषये सावयवे। तस्मात् श्रुतिस्मृतिन्यायविरोधात् अनुपपन्नेयं कल्पना। अस्याः कल्पनायाः वरम् उपनिषत्परित्याग एव। अध्येयत्वाच्च न शास्त्रार्था इयं कल्पना; न हि जननमरणाद्यनर्थशतसहस्रभेदसमाकुलं समुद्रवनादिवत् सावयवम् अनेकरसं ब्रह्म ध्येयत्वेन विज्ञेयत्वेन वा श्रुत्या उपदिश्यते; प्रज्ञानघनतां च उपदिशति; ‘एकधैवानुद्रष्टव्यम्’ (BrhU.4.4.20) इति च; अनेकधादर्शनापवादाच्च ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ (BrhU.4.4.19) इति; यच्च श्रुत्या निन्दितम्, तन्न कर्तव्यम्; यच्च न क्रियते, न स शास्त्रार्थः; ब्रह्मणोऽनेकरसत्वम् अनेकधात्वं च द्वैतरूपं निन्दितत्वात् न द्रष्टव्यम्; अतो न शास्त्रार्थः; यत्तु एकरसत्वं ब्रह्मणः तत् द्रष्टव्यत्वात् प्रशस्तम्, प्रशस्तत्वाच्च शास्त्रार्थो भवितुमर्हति। यत्तूक्तं वेदैकदेशस्य अप्रामाण्यं कर्मविषये द्वैताभावात्, अद्वैते च प्रामाण्यमिति – तन्न, यथाप्राप्तोपदेशार्थत्वात्; न हि द्वैतम् अद्वैतं वा वस्तु जातमात्रमेव पुरुषं ज्ञापयित्वा पश्चात्कर्म वा ब्रह्मविद्यां वा उपदिशति शास्त्रम्; न च उपदेशार्हं द्वैतम्, जातमात्रप्राणिबुद्धिगम्यत्वात्; न च द्वैतस्य अनृतत्वबुद्धिः प्रथममेव कस्यचित् स्यात्, येन द्वैतस्य सत्यत्वमुपदिश्य पश्चात् आत्मनः प्रामाण्यं प्रतिपादयेत् शास्त्रम्। नापि पाषण्डिभिरपि प्रस्थापिताः शास्त्रस्य प्रामाण्यं न गृह्णीयुः। तस्मात् यथाप्राप्तमेव द्वैतम् अविद्याकृतं स्वाभाविकम् उपादाय स्वाभाविक्यैव अविद्यया युक्ताय रागद्वेषादिदोषवते यथाभिमतपुरुषार्थसाधनं कर्म उपदिशत्यग्रे; पश्चात् प्रसिद्धक्रियाकारकफलस्वरूपदोषदर्शनवते तद्विपरीतौदासीन्यस्वरूपावस्थानफलार्थिने तदुपायभूताम् आत्मैकत्वदर्शनात्मिकां ब्रह्मविद्याम् उपदिशति। अथैवं सति तदौदासीन्यस्वरूपावस्थाने फले प्राप्ते शास्त्रस्य प्रामाण्यं प्रति अर्थित्वं निवर्तते; तदभावात् शास्त्रस्यापि शास्त्रत्वं तं प्रति निवर्तत एव। तथा प्रतिपुरुषं परिसमाप्तं शास्त्रम् इति न शास्त्रविरोधगन्धोऽपि अस्ति, अद्वैतज्ञानावसानत्वात् शास्त्रशिष्यशासनादिद्वैतभेदस्य; अन्यतमावस्थाने हि विरोधः स्यात् अवस्थितस्य; इतरेतरापेक्षत्वात्तु शास्त्रशिष्यशासनानां नान्यतमोऽपि अवतिष्ठते; सर्वसमाप्तौ तु कस्य विरोध आशङ्क्येत अद्वैते केवले शिवे सिद्धे; नाप्यविरोधता, अत एव। अथापि अभ्युपगम्य ब्रूमः – द्वैताद्वैतात्मकत्वेऽपि शास्त्रविरोधस्य तुल्यत्वात्; यदापि समुद्रादिवत् द्वैताद्वैतात्मकमेकं ब्रह्म अभ्युपगच्छामः नान्यद्वस्त्वन्तरम्, तदापि भवदुक्तात् शास्त्रविरोधात् न मुच्यामहे; कथम्? एकं हि परं ब्रह्म द्वैताद्वैतात्मकम्; तत् शोकमोहाद्यतीतत्वात् उपदेशं न काङ्क्षति; न च उपदेष्टा अन्यः ब्रह्मणः; द्वैताद्वैतरूपस्य ब्रह्मणः एकस्यैव अभ्युपगमात्। अथ द्वैतविषयस्य अनेकत्वात् अन्योन्योपदेशः, न ब्रह्मविषय उपदेश इति चेत् – तदा द्वैताद्वैतात्मकम् एकमेव ब्रह्म, नान्यदस्ति इति विरुध्यते। यस्मिन्द्वैतविषये अन्योन्योपदेशः, सः अन्यः द्वैतं च अन्यदेव इति समुद्रदृष्टान्तो विरुद्धः। न च समुद्रोदकैकत्ववत् विज्ञानैकत्वे ब्रह्मणः अन्यत्र उपदेशग्रहणादिकल्पना सम्भवति; न हि हस्तादिद्वैताद्वैतात्मके देवदत्ते वाक्कर्णयोः देवदत्तैकदेशभूतयोः वाक् उपदेष्ट्री कर्णः केवल उपदेशस्य ग्रहीता, देवदत्तस्तु न उपदेष्टा नाप्युपदेशस्य ग्रहीता – इति कल्पयितुं शक्यते, समुद्रैकोदकात्मत्ववत् एकविज्ञानवत्त्वात् देवदत्तस्य। तस्मात् श्रुतिन्यायविरोधश्च अभिप्रेतार्थासिद्धिश्च एवंकल्पनायां स्यात्। तस्मात् यथाव्याख्यात एव अस्माभिः पूर्णमदः इत्यस्य मन्त्रस्य अर्थः।
ओं खं ब्रह्म इति मन्त्रः; अयं च अन्यत्र अविनियुक्तः इह ब्राह्मणेन ध्यानकर्मणि विनियुज्यते। अत्र च ब्रह्म इति विशेष्याभिधानम्, खम् इति विशेषणम्। विशेषणविशेष्ययोश्च सामानाधिकरण्येन निर्देशः नीलोत्पलवत् – खं ब्रह्मेति ब्रह्मशब्दो बृहद्वस्तुमात्रास्पदः अविशेषितः, अतः विशेष्यते – खं ब्रह्मेति; यत्तत् खं ब्रह्म, तत् ओंशब्दवाच्यम्, ओंशब्दस्वरूपमेव वा; उभयथापि सामानाधिकरण्यम् अविरुद्धम्। इह च ब्रह्मोपासनसाधनत्वार्थम् ओंशब्दः प्रयुक्तः, तथा च श्रुत्यन्तरात् ‘एतदालम्बनं श्रेष्ठमेतदालम्बनं परम्’ (KathU.1.2.17) ‘ओमित्यात्मानं युञ्जीत’ (तै. ना. २४-१) ‘ओमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत’ (PrasU.5.5) ‘ओमित्येवं ध्यायथ आत्मानम्’ (MunU.2.2.6) इत्यादेः। अन्यार्थासम्भवाच्च उपदेशस्य। यथा अन्यत्र ‘ओमिति शंसति ओमित्युद्गायति’ (ChanU.1.1.9) इत्येवमादौ स्वाध्यायारम्भापवर्गयोश्च ओङ्कारप्रयोगः विनियोगादवगम्यते, न च तथा अर्थान्तरम् इह अवगम्यते। तस्मात् ध्यानसाधनत्वेनैव इह ओङ्कारशब्दस्य उपदेशः। यद्यपि ब्रह्मात्मादिशब्दा ब्रह्मणो वाचकाः, तथापि श्रुतिप्रामाण्यात् ब्रह्मणो नेदिष्ठमभिधानम् ओङ्कारः। अत एव ब्रह्मप्रतिपत्तौ इदं परं साधनम्। तच्च द्विप्रकारेण, प्रतीकत्वेन अभिधानत्वेन च। प्रतीकत्वेन – यथा विष्ण्वादिप्रतिमा अभेदेन, एवम् ओङ्कारः ब्रह्मेति प्रतिपत्तव्यः। तथा ह्योङ्कारालम्बनस्य ब्रह्म प्रसीदति, ‘एतदालम्बनं श्रेष्ठमेतदालम्बनं परम्। एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते’ (KathU.1.2.17) इति श्रुतेः।
तत्र खमिति भौतिके खे प्रतीतिर्मा भूत् इत्याह – खं पुराणं चिरन्तनं खं परमात्माकाशमित्यर्थः। यत्तत्परमात्माकाशं पुराणं खम्, तत् चक्षुराद्यविषयत्वात् निरालम्बनम् अशक्यं ग्रहीतुमिति श्रद्धाभक्तिभ्यां भावविशेषेण च ओङ्कारे आवेशयति – यथा विष्ण्वङ्गाङ्कितायां शिलादिप्रतिमायां विष्णुं लोकः, एवम्। वायुरं खम्, वायुः अस्मिन् विद्यत इति वायुरम्, खं खमात्रं खमित्युच्यते, न पुराणं खम् – इति एवम् आह स्म। कोऽसौ? कौरव्यायणी-पुत्रः। वायुरे हि खे मुख्यः खशब्दव्यवहारः; तस्मान्मुख्ये सम्प्रत्ययो युक्त इति मन्यते। तत्र यदि पुराणं खं ब्रह्म निरुपाधिस्वरूपम्, यदि वा वायुरं खं सोपाधिकं ब्रह्म, सर्वथापि ओङ्कारः प्रतीकत्वेनैव प्रतिमावत् साधनत्वं प्रतिपद्यते, ‘एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः’ (PrasU.5.2) इति श्रुत्यन्तरात्। केवलं खशब्दार्थे विप्रतिपत्तिः। वेदोऽयम् ओङ्कारः, वेद विजानाति अनेन यद्वेदितव्यम् तस्माद्वेदः ओङ्कारः वाचकः अभिधानम्; तेनाभिधानेन यद्वेदितव्यं ब्रह्म प्रकाश्यमानम् अभिधीयमानं वेद साधको विजानाति उपलभते, तस्मात् वेदोऽयमिति ब्राह्मणा विदुः; तस्मात् ब्राह्मणानामभिधानत्वेन साधनत्वमभिप्रेतम् ओङ्कारस्य। अथवा वेदोऽयमित्यादि अर्थवादः; कथम् ओङ्कारः ब्रह्मणः प्रतीकत्वेन विहितः; ओं खं ब्रह्म इति सामानाधिकरण्यात् तस्य स्तुतिः इदानीं वेदत्वेन; सर्वो हि अयं वेद ओङ्कार एव; एतत्प्रभवः एतदात्मकः सर्वः ऋग्यजुःसामादिभेदभिन्नः एष ओङ्कारः, ‘तद्यथा शङ्कुना सर्वाणि पर्णानि’ (ChanU.2.23.3) इत्यादिश्रुत्यन्तरात्; इतश्चायं वेदः ओङ्कारः, यद्वेदितव्यम्, तत्सर्वं वेदितव्यम् ओङ्कारेणैव वेद एनेन; अतः अयमोङ्कारो वेदः; इतरस्यापि वेदस्य वेदत्वम् अत एव; तस्मात् विशिष्टोऽयमोङ्कारः साधनत्वेन प्रतिपत्तव्य इति। अथवा वेदः सः; कोऽसौ? यं ब्राह्मणा विदुः ओङ्कारम्; ब्राह्मणानां हि असौ प्रणवोद्गीथादिविकल्पैर्विज्ञेयः; तस्मिन्हि प्रयुज्यमाने साधनत्वेन सर्वो वेदः प्रयुक्तो भवतीति॥

Go to Top ('Home' key on many Windows browsers)

BrhU.5.02

🔗  अधुना दमादिसाधनत्रयविधानार्थोऽयमारम्भः – त्रयाः, त्रि-सङ्ख्याकाः प्राजापत्याः प्रजापतेरपत्यानि प्राजापत्याः, ते किम्? प्रजापतौ पितरि ब्रह्मचर्यं शिष्यत्ववृत्तेर्ब्रह्मचर्यस्य प्राधान्यात् शिष्याः सन्तो ब्रह्मचर्यम् ऊषुः उषितवन्त इत्यर्थः। के ते? विशेषतः देवाः मनुष्याः असुराः च। ते च उषित्वा ब्रह्मचर्यं किमकुर्वन्नित्युच्यते – तेषां देवाः ऊचुः पितरं प्रजापतिम्। किमिति? ब्रवीतु कथयतु, नः अस्मभ्यम् यदनुशासनं भवानितितेभ्यः एवमर्थिभ्यः ह एतदक्षरं वर्णमात्रम् उवाचद इति। उक्त्वा च तान् पप्रच्छ पिता – किं व्यज्ञासिष्टा३ इति, मया उपदेशार्थमभिहितस्याक्षरस्य अर्थं विज्ञातवन्तः आहोस्विन्नेति। देवा ऊचुःव्यज्ञासिष्मेति, विज्ञातवन्तो वयम्। यद्येवम्, उच्यतां किं मयोक्तमिति। देवा ऊचुः – दाम्यत, अदान्ता यूयं स्वभावतः अतो दान्ता भवत इति नः अस्मान् आत्थ कथयसि। इतर आह – ओमिति सम्यग् व्यज्ञासिष्टेति
🔗  समानमन्यत्। स्वभावतो लुब्धा यूयम्, अतो यथाशक्ति संविभजत दत्तेति नः अस्मान् आत्थ, किमन्यद्ब्रूयात् नो हितमिति मनुष्याः॥
🔗  तथा असुराः दयध्वम् इति; क्रूरा यूयं हिंसादिपराः, अतो दयध्वं प्राणिषु दयां कुरुतेति। तदेतत् प्रजापतेरनुशासनम् अद्याप्यनुवर्तत एव। यः पूर्वं प्रजापतिर्देवादीननुशशास सोऽद्यापि अनुशास्त्येव दैव्या स्तनयित्नुलक्षणया वाचा। कथम्? एषा श्रूयते दैवी वाक्? कासौ स्तनयित्नुः? द द द इति, दाम्यत दत्त दयध्वमिति – एषां वाक्यानामुपलक्षणाय त्रिर्दकार उच्चार्यते अनुकृतिः; न तु स्तनयित्नुशब्दः त्रिरेव, सङ्ख्यानियमस्य लोके अप्रसिद्धत्वात्। यस्मात् अद्यापि प्रजापतिः दाम्यत दत्त दयध्वमित्यनुशास्त्येव, तस्मात्कारणात् एतत् त्रयम्; किं तत् त्रयमित्युच्यते – दमं दानं दयामिति शिक्षेत् उपादद्यात् प्रजापतेरनुशासनमस्माभिः कर्तव्यमित्येवं मतिं कुर्यात्। तथा च स्मृतिः – ‘त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः। कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्’ (BhG.16.21) इति। अस्य हि विधेः शेषः पूर्वः। तथापि देवादीनुद्दिश्य किमर्थं दकारत्रयमुच्चारितवान् प्रजापतिः पृथगनुशासनार्थिभ्यः; ते वा कथं विवेकेन प्रतिपन्नाः प्रजापतेर्मनोगतं समानेनैव दकारवर्णमात्रेणेति पराभिप्रायज्ञा विकल्पयन्ति। अत्रैके आहुः – अदान्तत्वादातृत्वादयालुत्वैः अपराधित्वमात्मनो मन्यमानाः शङ्किता एव प्रजापतावूषुः, किं नो वक्ष्यतीति; तेषां च दकारश्रवणमात्रादेव आत्माशङ्कावशेन तदर्थप्रतिपत्तिरभूत्; लोकेऽपि हि प्रसिद्धम् – पुत्राः शिष्याश्चानुशास्याः सन्तो दोषात् निवर्तयितव्या इति; अतो युक्तं प्रजापतेर्दकारमात्रोच्चारणम्; दमादित्रये च दकारान्वयात् आत्मनो दोषानुरूप्येण देवादीनां विवेकेन प्रतिपत्तुं चेति; फलं तु एतत् आत्मदोषज्ञाने सति दोषात् निवर्तयितुं शक्यते अल्पेनाप्युपदेशेन, यथा देवादयो दकारमात्रेणेति। ननु एतत् त्रयाणां देवादीनामनुशासनं देवादिभिरपि एकैकमेव उपादेयम्, अद्यत्वेऽपि न तु त्रयं मनुष्यैः शिक्षितव्यमिति। अत्रोच्यते – पूर्वैर्देवादिभिर्विशिष्टैरनुष्ठितम् एतत्त्रयम्, तस्मात् मनुष्यैरेव शिक्षितव्यमिति। तत्र दयालुत्वस्याननुष्ठेयत्वं स्यात्, कथम्? असुरैरप्रशस्तैरनुष्ठितत्वादिति चेत् – न, तुल्यत्वात् त्रयाणाम्; अतः अन्योऽत्राभिप्रायः – प्रजापतेः पुत्रा देवादयस्त्रयः; पुत्रेभ्यश्च हितमेव पित्रा उपदेष्टव्यम्; प्रजापतिश्च हितज्ञः नान्यथा उपदिशति; तस्मात् पुत्रानुशासनं प्रजापतेः परमम् एतत् हितम्; अतो मनुष्यैरेव एतत् त्रयं शिक्षितव्यमिति। अथवा न देवाः असुरा वा अन्ये केचन विद्यन्ते मनुष्येभ्यः; मनुष्याणामेव अदान्ताः ये अन्यैरुत्तमैर्गुणैः सम्पन्नाः; ते देवाः; लोभप्रधाना मनुष्याः; तथा हिंसापराः क्रूरा असुराः; ते एव मनुष्याः अदान्तत्वादिदोषत्रयमपेक्ष्य देवादिशब्दभाजो भवन्ति, इतरांश्च गुणान् सत्त्वरजस्तमांसि अपेक्ष्य; अतः मनुष्यैरेव शिक्षितव्यम् एतत्त्रयमिति, तदपेक्षयैव प्रजापतिनोपदिष्टत्वात्; तथा हि मनुष्या अदान्ता लुब्धाः क्रूराश्च दृश्यन्ते; तथा च स्मृतिः – ‘कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्’ (BhG.16.21) इति॥

Go to Top ('Home' key on many Windows browsers)

BrhU.5.03

🔗  दमादिसाधनत्रयं सर्वोपासनशेषं विहितम्; दान्तः अलुब्धः दयालुः सन् सर्वोपासनेष्वधिक्रियते। तत्र निरुपाधिकस्य ब्रह्मणो दर्शनम् अतिक्रान्तम्; अथ अधुना सोपाधिकस्य तस्यैव अभ्युदयफलानि वक्तव्यानीत्येवमर्थोऽयमारम्भः –
एष प्रजापतिः यद् हृदयं प्रजापतिः अनुशास्तीत्यनन्तरमेवाभिहितम्। कः पुनरसौ अनुशास्ता प्रजापतिरित्युच्यते – एष प्रजापतिः; कोसौ? यद्धृदयम्, हृदयमिति हृदयस्था बुद्धिरुच्यते; यस्मिन् शाकल्यब्राह्मणान्ते नामरूपकर्मणामुपसंहार उक्तो दिग्विभागद्वारेण, तदेतत् सर्वभूतप्रतिष्ठं सर्वभूतात्मभूतं हृदयं प्रजापतिः प्रजानां स्रष्टा; एतत् ब्रह्म, बृहत्त्वात् सर्वात्मत्वाच्च ब्रह्म; एतत्सर्वम्; उक्तं पञ्चमाध्याये हृदयस्य सर्वत्वम्; तत्सर्वं यस्मात् तस्मादुपास्यं हृदयं ब्रह्म। तत्र हृदयनामाक्षरविषयमेव तावत् उपासनमुच्यते; तदेतत् हृदयमिति नाम त्र्यक्षरम्, त्रीणि अक्षराणि अस्येति त्र्यक्षरम्; कानि पुनस्तानि त्रीण्यक्षराण्युच्यन्ते; हृ इत्येकमक्षरम्; अभिहरन्ति, हृतेराहृतिकर्मणः हृ इत्येतद्रूपमिति यो वेद, यस्मात् हृदयाय ब्रह्मणे स्वाश्च इन्द्रियाणि अन्ये च विषयाः शब्दादयः स्वं स्वं कार्यमभिहरन्ति, हृदयं च भोक्त्रर्थमभिहरति – अतः हृदयनाम्नः हृ इत्येतदक्षरमिति यो वेदअस्मै विदुषे अभिहरन्ति स्वाश्च ज्ञातयः अन्ये च असम्बद्धाः, बलिमिति वाक्यशेषः। विज्ञानानुरूप्येण एतत्फलम्। तथा द इति एतदपि एकमक्षरम्; एतदपि दानार्थस्य ददातेः द इत्येतद्रूपं हृदयनामाक्षरत्वेन निबद्धम्। अत्रापि – हृदयाय ब्रह्मणे स्वाश्च करणानि अन्ये च विषयाः स्वं स्वं वीर्यं ददति, हृदयं भोक्त्रे ददाति स्वं वीर्यम्, अतो दकार इत्येवं यो वेद, अस्मै ददति स्वाश्च अन्ये च। तथा यमित्येतदप्येकमक्षरम्; इणो गत्यर्थस्य यमित्येतद्रूपम् अस्मिन्नाम्नि निबद्धमिति यो वेद, स स्वर्गं लोकम् एति। एवं नामाक्षरादपि ईदृशं विशिष्टं फलं प्राप्नोति, किमु वक्तव्यं हृदयस्वरूपोपासनात् – इति हृदयस्तुतये नामाक्षरोपन्यासः॥

Go to Top ('Home' key on many Windows browsers)

BrhU.5.04

🔗  तस्यैव हृदयाख्यस्य ब्रह्मणः सत्यमित्युपासनं विधित्सन्नाह – तत्, तद् इति हृदयं ब्रह्म परामृष्टम्; वै इति स्मरणार्थम्; तत् यत् हृदयं ब्रह्म स्मर्यत इत्येकः तच्छब्दः; तदेतदुच्यते प्रकारान्तरेणेति द्वितीयः तच्छब्दः। किं पुनः तत्प्रकारान्तरम्? एतदेव तद् इति एतच्छब्देन सम्बध्यते तृतीयस्तच्छब्दः; एतदिति वक्ष्यमाणं बुद्धौ सन्निधीकृत्य आह; आस बभूव; किं पुनः एतदेव आस? यदुक्तं हृदयं ब्रह्मेति, तत् इति, तृतीयः तच्छब्दो विनियुक्तः। किं तदिति विशेषतो निर्दिशति; सत्यमेव, सच्च त्यच्च मूर्तं चामूर्तं च सत्यं ब्रह्म, पञ्चभूतात्मकमित्येतत्। स यः कश्चित् सत्यात्मानम् एतम्, महत् महत्त्वात्, यक्षं पूज्यम्, प्रथमजं प्रथमजातम्, सर्वस्मात्संसारिण एतदेवाग्रे जातं ब्रह्म अतः प्रथमजम्, वेद विजानाति सत्यं ब्रह्मेति; तस्येदं फलमुच्यते – यथा सत्येन ब्रह्मणा इमे लोका आत्मसात्कृता जिताः, एवं सत्यात्मानं ब्रह्म महद्यक्षं प्रथमजं वेद, स जयति इमान् लोकान्; किञ्च जितो वशीकृतः, इनु इत्थम्, यथा ब्रह्मणा असौ शत्रुरिति वाक्यशेषः। असत् च असद्भवेत् असौ शत्रुः जितो भवेदित्यर्थः। कस्य एतत्फलमिति पुनर्निगमयति – य एवमेतन् महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति। अतो विद्यानुरूपं फलं युक्तम्, सत्यं ह्येव यस्माद्ब्रह्म॥

Go to Top ('Home' key on many Windows browsers)

BrhU.5.05

🔗  सत्यस्य ब्रह्मणः स्तुत्यर्थमिदमाह। महद्यक्षं प्रथमजमित्युक्तम्, तत्कथं प्रथमजत्वमित्युच्यते – आपः एवेदमग्र आसुः; आप इति कर्मसमवायिन्यः अग्निहोत्राद्याहुतयः; अग्निहोत्राद्याहुतेः द्रवात्मकत्वात् अप्त्वम्; ताश्च आपः अग्निहोत्रादिकर्मापवर्गोत्तरकालं केनचिददृष्टेन सूक्ष्मेण आत्मना कर्मसमवायित्वमपरित्यजन्त्यः इतरभूतसहिता एव न केवलाः, कर्मसमवायित्वात्तु प्राधान्यमपाम् – इति सर्वाण्येव भूतानि प्रागुत्पत्तेः अव्याकृतावस्थानि कर्तृसहितानि निर्दिश्यन्ते ‘आपः’ इति; ता आपः बीजभूता जगतः अव्याकृतात्मना अवस्थिताः; ताः एव इदं सर्वं नामरूपविकृतं जगत् अग्रे आसुः, नान्यत्किञ्चिद्विकारजातमासीत्; ताः पुनः आपः सत्यम् असृजन्त; तस्मात्सत्यं ब्रह्म प्रथमजम्; तदेतत् हिरण्यगर्भस्य सूत्रात्मनो जन्म, यदव्याकृतस्य जगतो व्याकरणम्, तत् सत्यं ब्रह्म कुतः? महत्त्वात्; कथं महत्त्वमित्याह – यस्मात् सर्वस्य स्रष्टृ; कथम्? यत् सत्यं ब्रह्म, तत् प्रजापतिं प्रजानां पतिं विराजं सूर्यादिकरणम् असृजत इत्यनुषङ्गः; प्रजापतिः देवान्, स विराट् प्रजापतिः देवानसृजत; यस्मात् सर्वमेवं क्रमेण सत्याद्ब्रह्मणो जातम्, तस्मान्महत्सत्यं ब्रह्म। कथं पुनर्यक्षमित्युच्यते – ते एवं सृष्टा देवाः पितरमपि विराजमतीत्य, तद् एव सत्यं ब्रह्म उपासते; अत एतत् प्रथमजं महत् यक्षम्; तस्मात् सर्वात्मना उपास्यं तत्; तस्यापि सत्यस्य ब्रह्मणो नाम सत्यमिति; तदेतत् त्र्यक्षरम्; कानि तान्यक्षराणीत्याह – स इत्येकमक्षरम्; तीत्येकमक्षरम्, तीति ईकारानुबन्धो निर्देशार्थः; यमित्येकमक्षरम्; तत्र तेषां प्रथमोत्तमे अक्षरे सकारयकारौ सत्यम्, मृत्युरूपाभावात्; मध्यतः मध्ये अनृतम्; अनृतं हि मृत्युः मृत्य्वनृतयोः तकारसामान्यात्। तदेतत् अनृतं तकाराक्षरं मृत्युरूपम् उभयतः सत्येन सकारयकारलक्षणेन परिगृहीतं व्याप्तम् अन्तर्भावितं सत्यरूपाभ्याम्, अतः अकिञ्चित्करं तत्, सत्यभूयमेव सत्यबाहुल्यमेव भवति; एवं सत्यबाहुल्यं सर्वस्य मृत्योरनृतस्य अकिञ्चित्करत्वं च यो विद्वान्, तमेवं विद्वांसम् अनृतं कदाचित् प्रमादोक्तं न हिनस्ति
🔗  अस्याधुना सत्यस्य ब्रह्मणः संस्थानविशेषे उपासनमुच्यते – तद्यत्; किं तत्? सत्यं ब्रह्म प्रथमजम्; किम्? असौ सः; कोऽसौ? आदित्यः; कः पुनरसावादित्यः? य एषः; क एषः? यः एतस्मिन् आदित्य-मण्डले पुरुषः अभिमानी, सोऽसौ सत्यं ब्रह्म। यश्चायम् अध्यात्मम् योऽयं दक्षिणेऽक्षन् अक्षणि पुरुषः; च-शब्दात् स च सत्यं ब्रह्मेति सम्बन्धः। तौ एतौ आदित्याक्षिस्थौ पुरुषौ एकस्य सत्यस्य ब्रह्मणः संस्थानविशेषौ यस्मात्, तस्मात् अन्योन्यस्मिन् इतरेतरस्मिन् आदित्यश्चाक्षुषे चाक्षुषश्च आदित्ये प्रतिष्ठितौ, अध्यात्माधिदैवतयोः अन्योन्योपकार्योपकारकत्वात्; कथं प्रतिष्ठितावित्युच्यते – रश्मिभिः प्रकाशेन अनुग्रहं कुर्वन् एष आदित्यः अस्मिन् चाक्षुषे अध्यात्मे प्रतिष्ठितः; अयं च चाक्षुषः प्राणैः आदित्यमनुगृह्णन् अमुष्मिन् आदित्ये अधिदैवे प्रतिष्ठितः; सः अस्मिन् शरीरे विज्ञानमयो भोक्ता यदा यस्मिन्काले उत्क्रमिष्यन्भवति, तदा असौ चाक्षुष आदित्यपुरुषः रश्मीनुपसंहृत्य केवलेन औदासीन्येन रूपेण व्यवतिष्ठते; तदा अयं विज्ञानमयः पश्यति शुद्धमेव केवलं विरश्मि एतन्मण्डलं चन्द्रमण्डलमिव; तदेतत् अरिष्टदर्शनम् प्रासङ्गिकं प्रदर्श्यते, कथं नाम पुरुषः करणीये यत्नवान्स्यादिति; एवं चाक्षुषं पुरुषमुररीकृत्य तं प्रत्यनुग्रहाय एते रश्मयः स्वामिकर्तव्यवशात्पूर्वमागच्छन्तोऽपि, पुनः तत्कर्मक्षयमनुरुध्यमाना इव नोपयन्ति न प्रत्यागच्छन्ति एनम्। अतोऽवगम्यते परस्परोपकार्योपकारकभावात् सत्यस्यैव एकस्य आत्मनः अंशौ एताविति॥
🔗  तत्र यः, असौ कः? यः एषः एतस्मिन्मण्डले पुरुषः सत्यनामा; तस्य व्याहृतयः अवयवाः; कथम्? भूरिति येयं व्याहृतिः, सा तस्य शिरः, प्राथम्यात्; तत्र सामान्यं स्वयमेवाह श्रुतिः – एकम् एकसङ्ख्यायुक्तं शिरः, तथा एतत् अक्षरम् एकं भूरिति। भुव इति बाहू, द्वित्वसामान्यात्; द्वौ बाहू, द्वे एते अक्षरे। तथा स्वरिति प्रतिष्ठा; द्वे प्रतिष्ठे द्वे एते अक्षरे; प्रतिष्ठे पादौ प्रतितिष्ठत्याभ्यामिति। तस्य अस्य व्याहृत्यवयवस्य सत्यस्य ब्रह्मण उपनिषत् रहस्यम् अभिधानम्, येनाभिधानेन अभिधीयमानं तद्ब्रह्म अभिमुखी भवति लोकवत्; कासावित्याह – अहरिति; अहरिति चैतत् रूपं हन्तेर्जहातेश्चेति यो वेद, स हन्ति जहाति च पाप्मानं य एवं वेद
🔗  एवं योऽयं दक्षिणेऽक्षन्पुरुषः, तस्य भूरिति शिरः इत्यादि सर्वं समानम्। तस्योपनिषत्अहमिति, प्रत्यगात्मभूतत्वात्। पूर्ववत् हन्तेः जहातेश्चेति॥

Go to Top ('Home' key on many Windows browsers)

BrhU.5.06

🔗  उपाधीनामनेकत्वादनेकविशेषणत्वाच्च तस्यैव प्रकृतस्य ब्रह्मणो मनउपाधिविशिष्टस्योपासनं विधित्सन्नाह –
मनोमयः मनःप्रायः, मनसि उपलभ्यमानत्वात्; मनसा चोपलभत इति मनोमयोऽयं पुरुषः; भाः सत्यः, भा एव सत्यं सद्भावः स्वरूपं यस्य सोऽयं भाःसत्यः, भास्वर इत्येतत्; मनसः सर्वार्थावभासकत्वात् मनोमयत्वाच्च अस्य भास्वरत्वम्; तस्मिन् अन्तर्हृदये हृदयस्यान्तः तस्मिन्नित्येतत्; यथा व्रीहिर्वा यवो वा परिमाणतः, एवम्परिमाणः तस्मिन्नन्तर्हृदये योगिभिर्दृश्यत इत्यर्थः। स एषः सर्वस्येशानः सर्वस्य स्वभेदजातस्य ईशानः स्वामी; स्वामित्वेऽपि सति कश्चिदमात्यादितन्त्रः, अयं तु न तथा; किं तर्हि? अधिपतिः अधिष्ठाय पालयिता; सर्वमिदं प्रशास्ति, यदिदं किञ्च यत्किञ्चित्सर्वं जगत्, तत्सर्वं प्रशास्ति। एवं मनोमयस्योपासनात् तथारूपापत्तिरेव फलम्। ‘तं यथा यथोपासते तदेव भवति’ (शत. ब्रा. १०-५-२-२०) इति ब्राह्मणम्॥

Go to Top ('Home' key on many Windows browsers)

BrhU.5.07

🔗  तथैव उपासनान्तरं सत्यस्य ब्रह्मणो विशिष्टफलमारभ्यते – विद्युद् ब्रह्मेत्याहुः। विद्युतो ब्रह्मणो निर्वचनमुच्यते – विदानात् अवखण्डनात् तमसो मेघान्धकारं विदार्य हि अवभासते, अतो विद्युत्; एवङ्गुणं विद्युत् ब्रह्मेति यो वेद, असौ विद्यति अवखण्डयति विनाशयति पाप्मनः, एनम् आत्मानं प्रति प्रतिकूलभूताः पाप्मानो ये तान् सर्वान् पाप्मनः अवखण्डयतीत्यर्थः। य एवं वेद विद्युद् ब्रह्मेति तस्यानुरूपं फलम्, विद्युत् हि यस्मात् ब्रह्म

Go to Top ('Home' key on many Windows browsers)

BrhU.5.08

🔗  पुनः उपासनान्तरम् तस्यैव ब्रह्मणः वाग्वै ब्रह्मेति; वागिति शब्दः त्रयी; तां वाचं धेनुम्, धेनुरिव धेनुः, यथा धेनुः चतुर्भिः स्तनैः स्तन्यं पयः क्षरति वत्साय एवं वाग्धेनुः वक्ष्यमाणैः स्तनैः पय इव अन्नं क्षरति देवादिभ्यः। के पुनः ते स्तनाः? के वा ते, येभ्यः क्षरति? तस्याः एतस्या वाचो धेन्वाः, द्वौ स्तनौ देवा उपजीवन्ति वत्सस्थानीयाः; कौ तौ? स्वाहाकारंवषट्कारं च; आभ्यां हि हविः दीयते देवेभ्यः। हन्तकारं मनुष्याः; हन्तेति मनुष्येभ्यः अन्नं प्रयच्छन्ति। स्वधाकारं पितरः; स्वधाकारेण हि पितृभ्यः स्वधां प्रयच्छन्ति। तस्या धेन्वा वाचः प्राणः ऋषभः; प्राणेन हि वाक्प्रसूयते; मनो वत्सः; मनसा हि प्रस्राव्यते; मनसा ह्यालोचिते विषये वाक् प्रवर्तते; तस्मात् मनः वत्सस्थानीयम्। एवं वाग्धेनूपासकः ताद्भाव्यमेव प्रतिपद्यते॥

Go to Top ('Home' key on many Windows browsers)

BrhU.5.09

🔗  अयमग्निर्वैश्वानरः, पूर्ववदुपासनान्तरम्; अयम् अग्निः वैश्वानरः; कोऽयमग्निरित्याह – योऽयमन्तः पुरुषे। किं शरीरारम्भकः? नेत्युच्यते – येन अग्निना वैश्वानराख्येन इदमन्नं पच्यते। किं तदन्नम्? यदिदम् अद्यते भुज्यते अन्नं प्रजाभिः, जाठरोऽग्निरित्यर्थः। तस्य साक्षादुपलक्षणार्थमिदमाह – तस्याग्नेः अन्नं पचतः जाठरस्य एष घोषो भवति; कोऽसौ? यं घोषम्, एतद् इति क्रियाविशेषणम्, कर्णावपिधाय अङ्गुलीभ्यामपिधानं कृत्वा शृणोति। तं प्रजापतिमुपासीत वैश्वानरमग्निम्। अत्रापि ताद्भाव्यं फलम्। तत्र प्रासङ्गिकमिदमरिष्टलक्षणमुच्यते – सोऽत्र शरीरे भोक्ता यदा उत्क्रमिष्यन्भवति, नैनं घोषं शृणोति

Go to Top ('Home' key on many Windows browsers)

BrhU.5.10

🔗  सर्वेषामस्मिन्प्रकरणे उपासनानां गतिरियं फलं चोच्यते – यदा वै पुरुषः विद्वान् अस्मात् लोकात् प्रैति शरीरं परित्यजति, सः तदा वायुम् आगच्छति, अन्तरिक्षे तिर्यग्भूतो वायुः स्तिमितः अभेद्यस्तिष्ठति; वायुः तत्र स्वात्मनि तस्मै सम्प्राप्ताय विजिहीते स्वात्मावयवान् विगमयति छिद्रीकरोत्यात्मानमित्यर्थः। किम्परिमाणं छिद्रमित्युच्यते – यथा रथचक्रस्य खं छिद्रं प्रसिद्धपरिमाणम्; तेन छिद्रेण विद्वान् ऊर्ध्वः आक्रमते ऊर्ध्वः सन् गच्छति। स आदित्यमागच्छति; आदित्यः ब्रह्मलोकं जिगमिषोर्मार्गनिरोधं कृत्वा स्थितः; सोऽपि एवंविदे उपासकाय द्वारं प्रयच्छति; तस्मै स तत्र विजिहीते; यथा लम्बरस्य खं वादित्रविशेषस्य छिद्रपरिमाणम्; तेन स ऊर्ध्व आक्रमतेस चन्द्रमसम् आगच्छति; सोऽपि तस्मै तत्र विजिहीते; यथा दुन्दुभेः खं प्रसिद्धम्; तेन स ऊर्ध्व आक्रमतेस लोकं प्रजापतिलोकम् आगच्छति; किंविशिष्टम्? अशोकं मानसेन दुःखेन विवर्जितमित्येतत्; अहिमं हिमवर्जितं शारीरदुःखवर्जितमित्यर्थः; तं प्राप्य तस्मिन् वसति शाश्वतीः नित्याः समाः संवत्सरानित्यर्थः; ब्रह्मणो बहून्कल्पान् वसतीत्येतत्॥

Go to Top ('Home' key on many Windows browsers)

BrhU.5.11

🔗  एतद्वै परमं तपः; किं तत्? यत् व्याहितः व्याधितः ज्वरादिपरिगृहीतः सन् यत् तप्यते तदेतत् परमं तप इत्येवं चिन्तयेत्, दुःखसामान्यात्। तस्य एवं चिन्तयतो विदुषः कर्मक्षयहेतुः तदेव तपो भवति अनिन्दतः अविषीदतः। स एव च तेन विज्ञानतपसा दग्धकिल्बिषः परमं हैव लोकं जयति, य एवं वेद। तथा मुमूर्षुः आदावेव कल्पयति; किम्? एतद्वै परमं तपः, यं प्रेतं मां ग्रामाद् अरण्यं हरन्ति ऋत्विजः अन्त्यकर्मणे, तत् ग्रामादरण्यगमनसामान्यात् परमं मम तत् तपो भविष्यति; ग्रामादरण्यगमनं परमं तप इति हि प्रसिद्धम्। परमं हैव लोकं जयति, य एवं वेद। तथा एतद्वै परमं तपः यं प्रेतमग्नावभ्यादधति, अग्निप्रवेशसामान्यात्। परमं हैव लोकं जयति य एवं वेद

Go to Top ('Home' key on many Windows browsers)

BrhU.5.12

🔗  अन्नं ब्रह्मेति, तथा एतत् उपासनान्तरं विधित्सन्नाह – अन्नं ब्रह्म, अन्नम् अद्यते यत् तत् ब्रह्म इत्येके आचार्या आहुः; तत् न तथा ग्रहीतव्यम् अन्नं ब्रह्मेति। अन्ये च आहुःप्राणो ब्रह्मेति; तत्तथा न ग्रहीतव्यम्। किमर्थं पुनः अन्नं ब्रह्मेति न ग्राह्यम्? यस्मात् पूयति क्लिद्यते पूतिभावमापद्यते ऋते प्राणात्, तत्कथं ब्रह्म भवितुमर्हति; ब्रह्म हि नाम तत्, यदविनाशि। अस्तु तर्हि प्राणो ब्रह्म; नैवम्; यस्मात् शुष्यति वै प्राणः शोषमुपैति ऋते अन्नात्; अत्ता हि प्राणः; अतः अन्नेन आद्येन विना न शक्नोति आत्मानं धारयितुम्; तस्मात् शुष्यति वै प्राणः ऋतेऽन्नात्; अतः एकैकस्य ब्रह्मता नोपपद्यते यस्मात्, तस्मात् एते ह तु एव अन्नप्राण-देवते एकधाभूयम् एकधाभावं भूत्वा गत्वा परमतां परमत्वं गच्छतः ब्रह्मत्वं प्राप्नुतः। तद् एतत् एवमध्यवस्य ह स्म आह – स्म प्रातृदो नाम पितरम् आत्मनः; किंस्वित् स्विदिति वितर्के; यथा मया ब्रह्म परिकल्पितम्, एवं विदुषे किंस्वित् साधु कुर्याम्, साधु शोभनं पूजाम्, कां तु अस्मै पूजां कुर्याम् इत्यभिप्रायः; किमेव अस्मै विदुषे असाधु कुर्याम्, कृतकृत्योऽसौ इत्यभिप्रायः। अन्नप्राणौ सहभूतौ ब्रह्मेति विद्वान् नासौ असाधुकरणेन खण्डितो भवति, नापि साधुकरणेन महीकृतः। तम् एवंवादिनं पिता ह स्म आह पाणिना हस्तेन निवारयन्, मा प्रातृद मा एवं वोचः। कस्तु एनयोः अन्नप्राणयोः एकधाभूयं भूत्वा परमतां कस्तु गच्छति? न कश्चिदपि विद्वान् अनेन ब्रह्मदर्शनेन परमतां गच्छति; तस्मात् नैवं वक्तुमर्हसि कृतकृत्योऽसाविति; यद्येवम्, ब्रवीतु भवान् कथं परमतां गच्छतीति। तस्मै उ ह एतत् वक्ष्यमाणं वच उवाच। किं तत्? वि इति; किं तत् वि इत्युच्यते – अन्नं वै वि; अन्ने हि यस्मात् इमानि सर्वाणि भूतानि विष्टानि आश्रितानि, अतः अन्नं वि इत्युच्यते। किञ्च रम् इति; रमिति च उक्तवान्पिता; किं पुनस्तत् रम्? प्राणो वै रम्; कुत इत्याह; प्राणे हि यस्मात् बलाश्रये सति सर्वाणि भूतानि रमन्ते, अतो रं प्राणः। सर्वभूताश्रयगुणमन्नम्, सर्वभूतरतिगुणश्च प्राणः। न हि कश्चिदनायतनः निराश्रयः रमते; नापि सत्यप्यायतने अप्राणो दुर्बलो रमते; यदा तु आयतनवान्प्राणी बलवांश्च तदा कृतार्थमात्मानं मन्यमानो रमते लोकः; ‘युवा स्यात्साधुयुवाध्यायकः’ (TaitU.2.8.3) इत्यादिश्रुतेः। इदानीम् एवंविदः फलमाह – सर्वाणि ह वै अस्मिन् भूतानि विशन्ति अन्नगुणज्ञानात्, सर्वाणि भूतानि रमन्ते प्राणगुणज्ञानात्, य एवं वेद

Go to Top ('Home' key on many Windows browsers)

BrhU.5.13

🔗  उक्थम् – तथा उपासनान्तरम्; उक्थं शस्त्रम्; तद्धि प्रधानं महाव्रते क्रतौ; किं पुनस्तदुक्थम्; प्राणो वै उक्थम्; प्राणश्च प्रधान इन्द्रियाणाम्, उक्थं च शस्त्राणाम्, अत उक्थमित्युपासीत। कथं प्राण उक्थमित्याह – प्राणः हि यस्मात् इदं सर्वम् उत्थापयति; उत्थापनात् उक्थं प्राणः; न हि अप्राणः कश्चिदुत्तिष्ठति; तदुपासनफलमाह – उत् ह अस्मात् एवंविदः उक्थवित् प्राणवित् वीरः पुत्रः उत्तिष्ठति ह – दृष्टम् एतत्फलम्; अदृष्टं तु उक्थस्य सायुज्यं सलोकतां जयति, य एवं वेद
🔗  यजुः इति चोपासीत प्राणम्; प्राणो वै यजुः; कथं यजुः प्राणः? प्राणे हि यस्मात् सर्वाणि भूतानि युज्यन्ते; न हि असति प्राणे केनचित् कस्यचित् योगसामर्थ्यम्; अतो युनक्तीति प्राणो यजुः। एवंविदः फलमाह – युज्यन्ते उद्यच्छन्ते इत्यर्थः, ह अस्मै एवंविदे, सर्वाणि भूतानि, श्रैष्ठ्यं श्रेष्ठभावः तस्मै श्रैष्ठ्याय श्रेष्ठभावाय, अयं नः श्रेष्ठो भवेदिति; यजुषः प्राणस्य सायुज्यम् इत्यादि सर्वं समानम्॥
🔗  साम इति चोपासीत प्राणम्। प्राणो वै साम; कथं प्राणः साम? प्राणे हि यस्मात् सर्वाणि भूतानि सम्यञ्चि सङ्गच्छन्ते, सङ्गमनात् साम्यापत्तिहेतुत्वात् साम प्राणः; सम्यञ्चि सङ्गच्छन्ते ह अस्मै सर्वाणि भूतानि; न केवलं सङ्गच्छन्त एव, श्रेष्ठभावाय च अस्मै कल्पन्ते समर्थ्यन्ते; साम्नः सायुज्यम् इत्यादि पूर्ववत्॥
🔗  तं प्राणं क्षत्त्रम् इत्युपासीत। प्राणो वै क्षत्त्रम्; प्रसिद्धम् एतत् – प्राणो हि वै क्षत्त्रम्। कथं प्रसिद्धतेत्याह – त्रायते पालयति एनं पिण्डं देहं प्राणः, क्षणितोः शस्त्रादिहिंसितात् पुनः मांसेन आपूरयति यस्मात्, तस्मात् क्षतत्राणात् प्रसिद्धं क्षत्त्रत्वं प्राणस्य। विद्वत्फलमाह – प्र क्षत्त्रमत्रम्, न त्रायते अन्येन केनचिदित्यत्रम्, क्षत्त्रं प्राणः, तम् अत्रं क्षत्त्रं प्राणं प्राप्नोति इत्यर्थः। शाखान्तरे वा पाठात् क्षत्त्रमात्रं प्राप्नोति, प्राणो भवतीत्यर्थः। क्षत्त्रस्य सायुज्यं सलोकतां जयति, य एवं वेद

Go to Top ('Home' key on many Windows browsers)

BrhU.5.14

🔗  ब्रह्मणो हृदयाद्यनेकोपाधिविशिष्टस्य उपासनमुक्तम्; अथ इदानीं गायत्र्युपाधिविशिष्टस्य उपासनं वक्तव्यमित्यारभ्यते। सर्वच्छन्दसां हि गायत्रीछन्दः प्रधानभूतम्; तत्प्रयोक्तृगयत्राणात् गायत्रीति वक्ष्यति; न च अन्येषां छन्दसां प्रयोक्तृप्राणत्राणसामर्थ्यम्; प्राणात्मभूता च सा; सर्वच्छन्दसां च आत्मा प्राणः; प्राणश्च क्षतत्राणात् क्षत्त्रमित्युक्तम्; प्राणश्च गायत्री; तस्मात् तदुपासनमेव विधित्स्यते; द्विजोत्तमजन्महेतुत्वाच्च – ‘गायत्र्या ब्राह्मणमसृजत त्रिष्टुभा राजन्यं जगत्या वैश्यम्’ (? ) इति द्विजोत्तमस्य द्वितीयं जन्म गायत्रीनिमित्तम्; तस्मात् प्रधाना गायत्री; ‘ब्रह्मणा व्युत्थाय ब्राह्मणा अभिवदन्ति, स ब्राह्मणो विपापो विरजोऽविचिकित्सो ब्राह्मणो भवति’ (BrhU.3.5.1), (BrhU.3.8.8), (BrhU.3.8.10), (BrhU.4.4.23) इत्युत्तमपुरुषार्थसम्बन्धं ब्राह्मणस्य दर्शयति; तच्च ब्राह्मणत्वं गायत्रीजन्ममूलम्; अतो वक्तव्यं गायत्र्याः सतत्त्वम्। गायत्र्या हि यः सृष्टो द्विजोत्तमः निरङ्कुश एव उत्तमपुरुषार्थसाधने अधिक्रियते; अतः तन्मूलः परमपुरुषार्थसम्बन्धः। तस्मात् तदुपासनविधानाय आह – भूमिरन्तरिक्षं द्यौरित्येतानि अष्टावक्षराणि; अष्टाक्षरम् अष्ठावक्षराणि यस्य तत् इदमष्टाक्षरम्; ह वै प्रसिद्धावद्योतकौ; एकं प्रथमम्, गायत्र्यै गायत्र्याः, पदम्; यकारेणैव अष्टत्वपूरणम्। एतत् उ ह एव एतदेव अस्याः गायत्र्याः पदं पादः प्रथमः भूम्यादिलक्षणः त्रैलोक्यात्मा, अष्टाक्षरत्वसामान्यात्। एवम् एतत् त्रैलोक्यात्मकं गायत्र्याः प्रथमं पदं यो वेद, तस्यैतत्फलम् – विद्वान् यावत् किञ्चित् एषु त्रिषु लोकेषु जेतव्यम्, तावत् सर्वं ह जयति, यः अस्यै एतदेवं पदं वेद
🔗  तथा ऋचः यजूंषि सामानीति त्रयीविद्यानामाक्षराणि एतान्यपि अष्टावेव; तथैव अष्टाक्षरं ह वै एकं गायत्र्यै पदं द्वितीयम्, एतत् उ ह एव अस्याः एतत् ऋग्यजुःसामलक्षणम् अष्टाक्षरत्वसामान्यादेव। सः यावती इयं त्रयी विद्या त्रय्या विद्यया यावत्फलजातम् आप्यते, तावत् ह जयति, योऽस्या एतत् गायत्र्याः त्रैविद्यलक्षणं पदं वेद
🔗  तथा प्राणः अपानः व्यानः एतान्यपि प्राणाद्यभिधानाक्षराणि अष्टौ; तच्च गायत्र्यास्तृतीयं पदम्; यावदिदं प्राणिजातम्, तावत् ह जयति, योऽस्या एतदेवं गायत्र्यास्तृतीयं पदं वेदअथ अनन्तरं गायत्र्यास्त्रिपदायाः शब्दात्मिकायास्तुरीयं पदमुच्यते अभिधेयभूतम्, अस्याः प्रकृताया गायत्र्याः एतदेव वक्ष्यमाणं तुरीयं दर्शतं पदं परोरजाः य एष तपति; तुरीयमित्यादिवाक्यपदार्थं स्वयमेव व्याचष्टे श्रुतिः – यद्वै चतुर्थं प्रसिद्धं लोके, तद् इह तुरीय-शब्देनाभिधीयते; दर्शतं पदम् इति अस्य कोऽर्थ इत्युच्यते – ददृशे इव दृश्यते इव हि एषः मण्डलान्तर्गतः पुरुषः; अतो दर्शतं पदमुच्यते; परोरजाः इति अस्य पदस्य कोऽर्थ इत्युच्यते – सर्वं समस्तम् उ हि एव एषः मण्डलस्थः पुरुषः रजः रजोजातं समस्तं लोकमित्यर्थः, उपर्युपरि आधिपत्यभावेन सर्वं लोकं रजोजातं तपति; उपर्युपरीति वीप्सा सर्वलोकाधिपत्यख्यापनार्था; ननु सर्वशब्देनैव सिद्धत्वात् वीप्सा अनर्थिका – नैष दोषः; येषाम् उपरिष्टात् सविता दृश्यते तद्विषय एव सर्वशब्दः स्यादित्याशङ्कानिवृत्त्यर्था वीप्सा, ‘ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां च’ (ChanU.1.6.8) इति श्रुत्यन्तरात्; तस्मात् सर्वावरोधार्था वीप्सा; यथा असौ सविता सर्वाधिपत्यलक्षणया श्रिया यशसा च ख्यात्या तपति, एवं हैव श्रिया यशसातपति, योऽस्या एतदेवं तुरीयं दर्शतं पदं वेद
🔗  सैषा त्रिपदा उक्ता या त्रैलोक्यत्रैविद्यप्राणलक्षणा गायत्री एतस्मिन् चतुर्थे तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता, मूर्तामूर्तरसत्वात् आदित्यस्य; रसापाये हि वस्तु नीरसम् अप्रतिष्ठितं भवति, यथा काष्ठादि दग्धसारम्, तद्वत्; तथा मूर्तामूर्तात्मकं जगत् त्रिपदा गायत्री आदित्ये प्रतिष्ठिता तद्रसत्वात् सह त्रिभिः पादैः; तद्वै तुरीयं पदं सत्ये प्रतिष्ठितम्; किं पुनः तत् सत्यमित्युच्यते – चक्षुर्वै सत्यम्। कथं चक्षुः सत्यमित्याह – प्रसिद्धमेतत्, चक्षुर्हि वै सत्यम्। कथं प्रसिद्धतेत्याह – तस्मात्यत् यदि इदानीम् एव द्वौ विवदमानौ विरुद्धं वदमानौ एयाताम् आगच्छेयाताम्; अहम् अदर्शं दृष्टवानस्मीति अन्य आह; अहम् अश्रौषम् – त्वया दृष्टं न तथा तद्वस्तु इति; तयोः य एवं ब्रूयात्अहमद्राक्षमिति, तस्मै एव श्रद्दध्याम; न पुनः यः ब्रूयात् अहमश्रौषमिति; श्रोतुः मृषा श्रवणमपि सम्भवति; न तु चक्षुषो मृषा दर्शनम्; तस्मात् न अश्रौषमित्युक्तवते श्रद्दध्याम; तस्मात् सत्यप्रतिपत्तिहेतुत्वात् सत्यं चक्षुः; तस्मिन् सत्ये चक्षुषि सह त्रिभिः इतरैः पादैः तुरीयं पदं प्रतिष्ठितमित्यर्थः। उक्तं च ‘स आदित्यः कस्मिन्प्रतिष्ठित इति चक्षुषीति’ (BrhU.3.9.20)। तद्वै तुरीयपदाश्रयं सत्यं बले प्रतिष्ठितम्; किं पुनः तत् बलमित्याह – प्राणो वै बलम्; तस्मिन् प्राणे बले प्रतिष्ठितं सत्यम्। तथा चोक्तम् – ‘सूत्रे तदोतं च प्रोतं च’ (BrhU.3.7.2) इति। यस्मात् बले सत्यं प्रतिष्ठितम्, तस्मादाहुःबलं सत्याद् ओगीयः ओजीयः ओजस्तरमित्यर्थः; लोकेऽपि यस्मिन्हि यदाश्रितं भवति, तस्मादाश्रितात् आश्रयस्य बलवत्तरत्वं प्रसिद्धम्; न हि दुर्बलं बलवतः क्वचित् आश्रयभूतं दृष्टम्; एवं उक्तन्यायेन उ एषा गायत्री अध्यात्मम् अध्यात्मे प्राणे प्रतिष्ठिता; सैषा गायत्री प्राणः; अतो गायत्र्यां जगत्प्रतिष्ठितम्; यस्मिन्प्राणे सर्वे देवा एकं भवन्ति, सर्वे वेदाः, कर्माणि फलं च; सैवं गायत्री प्राणरूपा सती जगत आत्मा। सा ह एषा गयान् तत्रे त्रातवती; के पुनर्गयाः? प्राणाः वागादयः वै गयाः, शब्दकरणात्; तान् तत्रे सैषा गायत्री। तत् तत्र यत् यस्मात् गयान् तत्रे, तस्मात् गायत्री नाम; गयत्राणात् गायत्रीति प्रथिता। सः आचार्यः उपनीयमाणवकमष्टवर्षं यामेव अमूं गायत्रीं सावित्रीं सवितृदेवताकाम् अन्वाह पच्छः अर्धर्चशः समस्तां च, एषैव स साक्षात् प्राणः जगत आत्मा माणवकाय समर्पिता इह इदानीं व्याख्याता, नान्या; स आचार्यः यस्मै माणवकाय अन्वाह अनुवक्ति, तस्य माणवकस्य गयान् प्राणान् त्रायते नरकादिपतनात्॥
🔗  तामेतां सावित्रीं ह एके शाखिनः अनुष्टुभम् अनुष्टुप्प्रभवाम् अनुष्टुप्छन्दस्काम् अन्वाहुरुपनीताय। तदभिप्रायमाह – वाक् अनुष्टुप्, वाक्च शरीरे सरस्वती, तामेव हि वाचं सरस्वतीं माणवकाय अनुब्रूम इत्येतद् वदन्तः। न तथा कुर्यात् न तथा विद्यात्, यत् ते आहुः मृषैव तत्; किं तर्हि गायत्रीमेव सावित्रीमनुब्रूयात्; कस्मात्? यस्मात् प्राणो गायत्रीत्युक्तम्; प्राणे उक्ते, वाक्च सरस्वती च अन्ये च प्राणाः सर्वं माणवकाय समर्पितं भवति। किञ्चेदं प्रासङ्गिकमुक्त्वा गायत्रीविदं स्तौति – यदि ह वै अपि एवंवित् बह्विव – न हि तस्य सर्वात्मनो बहु नामास्ति किञ्चित्, सर्वात्मकत्वाद्विदुषः – प्रतिगृह्णाति, न हैव तत् प्रतिग्रहजातं गायत्र्याः एकञ्चन एकमपि पदं प्रति पर्याप्तम्॥
🔗  स य इमांस्त्रीन् – स यः गायत्रीवित् इमान् भूरादीन् त्रीन् गोश्वादिधन-पूर्णान् लोकान् प्रतिगृह्णीयात्, प्रतिग्रहः, अस्याः गायत्र्याः एतत्प्रथमं पदं यद्व्याख्यातम् आप्नुयात् प्रथमपदविज्ञानफलम्, तेन भुक्तं स्यात्, न त्वधिकदोषोत्पादकः स प्रतिग्रहः। अथ पुनः यावती इयं त्रयी विद्या, यस्तावत् प्रतिगृह्णीयात्, सोऽस्या एतद्द्वितीयं पदमाप्नुयात्, द्वितीयपद विज्ञानफलं तेन भुक्तं स्यात्। तथा यावदिदं प्राणि, यस्तावत्प्रतिगृह्णीयात्, सोऽस्या एतत्तृतीयं पदमाप्नुयात्, तेन तृतीयपदविज्ञानफलं भुक्तं स्यात्। कल्पयित्वेदमुच्यते; पादत्रयसममपि यदि कश्चित्प्रतिगृह्णीयात्, तत्पादत्रयविज्ञानफलस्यैव क्षयकारणम्, न त्वन्यस्य दोषस्य कर्तृत्वे क्षमम्; न चैवं दाता प्रतिग्रहीता वा; गायत्रीविज्ञानस्तुतये कल्प्यते; दाता प्रतिग्रहीता च यद्यप्येवं सम्भाव्यते, नासौ प्रतिग्रहः अपराधक्षमः; कस्मात्? यतः अभ्यधिकमपि पुरुषार्थविज्ञानम् अवशिष्टमेव चतुर्थपादविषयं गायत्र्याः; तद्दर्शयति – अथ अस्याः एतदेव तुरीयं दर्शतं पदं परोरजाः य एष तपति; यद्यैतत् नैव केनचन केनचिदपि प्रतिग्रहेण आप्यं नैव प्राप्यमित्यर्थः, यथा पूर्वोक्तानि त्रीणि पदानि; एतान्यपि नैव आप्यानि केनचित्; कल्पयित्वा एवमुक्तम्; परमार्थतः कुत उ एतावत् प्रतिगृह्णीयात् त्रैलोक्यादिसमम्। तस्मात् गायत्री एवम्प्रकारा उपास्येत्यर्थः॥
🔗  तस्या उपस्थानम् – तस्याः गायत्र्याः उपस्थानम् उपेत्य स्थानं नमस्करणम् अनेन मन्त्रेण। कोऽसौ मन्त्र इत्याह – हे गायत्रि असि भवसि त्रैलोक्यपादेन एकपदी, त्रयीविद्यारूपेण द्वितीयेन द्विपदी, प्राणादिना तृतीयेन त्रिपदी असि, चतुर्थेन तुरीयेण चतुष्पदी असि; एवं चतुर्भिः पादैः उपासकैः पद्यसे ज्ञायसे; अतः परं परेण निरुपाधिकेन स्वेन आत्मना अपदसि – अविद्यमानं पदं यस्यास्तव, येन पद्यसे – सा त्वं अपत् असि, यस्मात् न हि पद्यसे, नेति नेत्यात्मत्वात्। अतो व्यवहारविषयाय नमस्ते तुरीयाय दर्शताय पदाय परोरजसेअसौ शत्रुः पाप्मा त्वत्प्राप्तिविघ्नकरः, अदः तत् आत्मनः कार्यं यत् त्वत्प्राप्तिविघ्नकर्तृत्वम्, मा प्रापत् मैव प्राप्नोतु; इति-शब्दो मन्त्रपरिसमाप्त्यर्थः; यं द्विष्यात् यं प्रति द्वेषं कुर्यात् स्वयं विद्वान्, तं प्रति अनेनोपस्थानम्; असौ शत्रुः अमुकनामेति नाम गृह्णीयात्; अस्मै यज्ञदत्ताय अभिप्रेतः कामः मा समृद्धि समृद्धिं मा प्राप्नोत्विति वा उपतिष्ठते; न हैवास्मै देवदत्ताय स कामः समृध्यते; कस्मै? यस्मै एवमुपतिष्ठतेअहं अदः देवदत्ताभिप्रेतं प्रापमिति वा उपतिष्ठते। असावदो मा प्रापदित्यादित्रयाणां मन्त्रपदानां यथाकामं विकल्पः॥
🔗  गायत्र्या मुखविधानाय अर्थवाद उच्यते – एतत् ह किल वै स्मर्यते, तत् तत्र गायत्रीविज्ञानविषये; जनको वैदेहः, बुडिलो नामतः, अश्वतराश्वस्यापत्यम् आश्वतराश्विः, तं किल उक्तवान्; यत् नु इति वितर्के, हो अहो इत्येतत्, तत् यत् त्वं गायत्रीविद् अब्रूथाः, गायत्रीविदस्मीति यदब्रूथाः, किमिदं तस्य वचसोऽननुरूपम्; अथ कथम्, यदि गायत्रीवित्, प्रतिग्रहदोषेण हस्तीभूतो वहसीति। स प्रत्याह राज्ञा स्मारितः – मुखं गायत्र्याः हि यस्मात् अस्याः, हे सम्राट्, न विदाञ्चकार न विज्ञातवानस्मि – इति होवाच; एकाङ्गविकलत्वात् गायत्रीविज्ञानं मम अफलं जातम्।
शृणु तर्हि; तस्याः गायत्र्याः अग्निरेव मुखम्; यदि ह वै अपि बह्विव इन्धनम् अग्नावभ्यादधति लौकिकाः, सर्वमेव तत्सन्दहति एवेन्धनम् अग्निः – एवं ह एव एवंवित् गायत्र्या अग्निर्मुखमित्येवं वेत्तीत्येवंवित् स्यात् स्वयं गायत्र्यात्मा अग्निमुखः सन्। यद्यपि बह्विव पापं कुरुते प्रतिग्रहादिदोषम्, तत्सर्वं पापजातं सम्प्साय भक्षयित्वा शुद्धः अग्निवत् पूतः च तस्मात्प्रतिग्रहदोषात् गायत्र्यात्मा अजरोऽमृतःसम्भवति

Go to Top ('Home' key on many Windows browsers)

BrhU.5.15

🔗  यो ज्ञानकर्मसमुच्चयकारी सः अन्तकाले आदित्यं प्रार्थयति; अस्ति च प्रसङ्गः; गायत्र्यास्तुरीयः पादो हि सः; तदुपस्थानं प्रकृतम्; अतः स एव प्रार्थ्यते। हिरण्मयेन ज्योतिर्मयेन पात्रेण, यथा पात्रेण इष्टं वस्तु अपिधीयते, एवमिदं सत्याख्यं ब्रह्म ज्योतिर्मयेन मण्डलेनापिहितमिव असमाहितचेतसामदृश्यत्वात्; तदुच्यते – सत्यस्यापिहितं मुखं मुख्यं स्वरूपम्; तत् अपिधानं पात्रमपिधानमिव दर्शनप्रतिबन्धकारणम्, तत् त्वम्, हे पूषन्, जगतः पोषणात्पूषा सविता, अपावृणु अपावृतं कुरु दर्शनप्रतिबन्धकारणमपनयेत्यर्थः; सत्यधर्माय सत्यं धर्मोऽस्य मम सोऽहं सत्यधर्मा, तस्मै त्वदात्मभूतायेत्यर्थः; दृष्टये दर्शनाय; पूषन्-इत्यादीनि नामानि आमन्त्रणार्थानि सवितुः; एकर्षे, एकश्चासावृषिश्च एकर्षिः, दर्शनादृषिः; स हि सर्वस्य जगत आत्मा चक्षुश्च सन् सर्वं पश्यति; एको वा गच्छतीत्येकर्षिः, ‘सूर्य एकाकी चरति’ (तै. सं. ८-४-१८) इति मन्त्रवर्णात्; यम, सर्वं हि जगतः संयमनं त्वत्कृतम्; सूर्य, सुष्ठु ईरयते रसान् रश्मीन् प्राणान् धियो वा जगत इति; प्राजापत्य, प्रजापतेरीश्वरस्यापत्यं हिरण्यगर्भस्य वा, हे प्राजापत्य; व्यूह विगमय रश्मीन्; समूह सङ्क्षिप आत्मनः तेजः, येनाहं शक्नुयां द्रष्टुम्; तेजसा ह्यपहतदृष्टिः न शक्नुयां त्वत्स्वरूपमञ्जसा द्रष्टुम्, विद्योतन इव रूपाणाम्; अत उपसंहर तेजः; यत् ते तव रूपं सर्वकल्याणानामतिशयेन कल्याणं कल्याणतमम्; तत् ते तव पश्यामि पश्यामो वयम्, वचनव्यत्ययेन। योऽसौ भूर्भुवःस्वर्व्याहृत्यवयवः पुरुषः, पुरुषाकृतित्वात्पुरुषः, सोऽहमस्मि भवामि; ‘अहरहम्’ इति च उपनिषद उक्तत्वादादित्यचाक्षुषयोः तदेवेदं परामृश्यते; सोऽहमस्म्यमृतमिति सम्बन्धः; ममामृतस्य सत्यस्य शरीरपाते, शरीरस्थो यः प्राणो वायुःअनिलं बाह्यं वायुमेव प्रतिगच्छतु; तथा अन्या देवताः स्वां स्वां प्रकृतिं गच्छन्तु; अथ इदमपि भस्मान्तं सत् पृथिवीं यातु शरीरम्। अथेदानीम् आत्मनः सङ्कल्पभूतां मनसि व्यवस्थिताम् अग्निदेवतां प्रार्थयते – ओं क्रतो; ओमिति क्रतो इति च सम्बोधनार्थावेव; ओङ्कारप्रतीकत्वात् ओं; मनोमयत्वाच्च क्रतुः; हे ओं, हे क्रतो, स्मर स्मर्तव्यम्; अन्तकाले हि त्वत्स्मरणवशात् इष्टा गतिः प्राप्यते; अतः प्रार्थ्यते – यत् मया कृतम्, तत् स्मर; पुनरुक्तिः आदरार्था। किञ्च हे अग्ने, नय प्रापय, सुपथा शोभनेन मार्गेण, राये धनाय कर्मफलप्राप्तये इत्यर्थः; न दक्षिणेन कृष्णेन पुनरावृत्तियुक्तेन, किं तर्हि शुक्लेनैव सुपथा; अस्मान् विश्वानि सर्वाणि, हे देव, वयुनानि प्रज्ञानानि सर्वप्राणिनां विद्वान्; किञ्च युयोधि अपनय वियोजय अस्मत् अस्मत्तः, जुहुराणं कुटिलम्, एनः पापं पापजातं सर्वम्; तेन पापेन वियुक्ता वयम् एष्याम उत्तरेण पथा त्वत्प्रसादात्; किं तु वयं तुभ्यम् परिचर्यां कर्तुं न शक्नुमः; भूयिष्ठां बहुतमां ते तुभ्यं नम-उक्तिनम-उक्तिं नमस्कारवचनं विधेम नमस्कारोक्त्या परिचरेमेत्यर्थः, अन्यत्कर्तुमशक्ताः सन्त इति॥

Go to Top ('Home' key on many Windows browsers)

br.6.01 br.6.02 br.6.03 br.6.04 br.6.05

Go to Top ('Home' key on many Windows browsers)

BrhU.6.01

🔗  ओं प्राणो गायत्रीत्युक्तम्। कस्मात्पुनः कारणात् प्राणभावः गायत्र्याः, न पुनर्वागादिभाव इति, यस्मात् ज्येष्ठश्च श्रेष्ठश्च प्राणः, न वागादयो ज्यैष्ठ्यश्रैष्ठ्यभाजः; कथं ज्येष्ठत्वं श्रेष्ठत्वं च प्राणस्येति तन्निर्दिधारयिषया इदमारभ्यते। अथवा उक्थयजुःसामक्षत्त्रादिभावैः प्राणस्यैव उपासनमभिहितम्, सत्स्वपि अन्येषु चक्षुरादिषु; तत्र हेतुमात्रमिह आनन्तर्येण सम्बध्यते; न पुनः पूर्वशेषता। विवक्षितं तु खिलत्वादस्य काण्डस्य पूर्वत्र यदनुक्तं विशिष्टफलं प्राणविषयमुपासनं तद्वक्तव्यमिति। यः कश्चित्, ह वै इत्यवधारणार्थौ; यो ज्येष्ठश्रेष्ठ-गुणं वक्ष्यमाणं यो वेद असौ भवति एव ज्येष्ठश्च श्रेष्ठश्च; एवं फलेन प्रलोभितः सन् प्रश्नाय अभिमुखीभूतः; तस्मै चाह – प्राणो वै ज्येष्ठश्च श्रेष्ठश्च। कथं पुनरवगम्यते प्राणो ज्येष्ठश्च श्रेष्ठश्चेति, यस्मात् निषेककाल एव शुक्रशोणितसम्बन्धः प्राणादिकलापस्याविशिष्टः? तथापि न अप्राणं शुक्रं विरोहतीति प्रथमो वृत्तिलाभः प्राणस्य चक्षुरादिभ्यः; अतो ज्येष्ठो वयसा प्राणः; निषेककालादारभ्य गर्भं पुष्यति प्राणः; प्राणे हि लब्धवृत्तौ पश्चाच्चक्षुरादीनां वृत्तिलाभः; अतो युक्तं प्राणस्य ज्येष्ठत्वं चक्षुरादिषु; भवति तु कश्चित्कुले ज्येष्ठः, गुणहीनत्वात्तु न श्रेष्ठः; मध्यमः कनिष्ठो वा गुणाढ्यत्वात् भवेत् श्रेष्ठः, न ज्येष्ठः; न तु तथा इहेत्याह – प्राण एव तु ज्येष्ठश्च श्रेष्ठश्च। कथं पुनः श्रैष्ठ्यमवगम्यते प्राणस्य? तदिह संवादेन दर्शयिष्यामः। सर्वथापि तु प्राणं ज्येष्ठश्रेष्ठगुणं यो वेद उपास्ते, स स्वानां ज्ञातीनां ज्येष्ठश्च श्रेष्ठश्च भवति, ज्येष्ठश्रेष्ठगुणोपासनसामर्थ्यात्; स्वव्यतिरेकेण अपि च येषां मध्ये ज्येष्ठश्च श्रेष्ठश्च भविष्यामीति बुभूषति भवितुमिच्छति, तेषामपि ज्येष्ठश्रेष्ठप्राणदर्शी ज्येष्ठश्च श्रेष्ठश्च भवति। ननु वयोनिमित्तं ज्येष्ठत्वम्, तत् इच्छातः कथं भवतीत्युच्यते – नैष दोषः, प्राणवत् वृत्तिलाभस्यैव ज्येष्ठत्वस्य विवक्षितत्वात्॥
🔗  यो ह वै वसिष्ठां वेद वसिष्ठः स्वानां भवति। तद्दर्शनानुरूप्येण फलम्। येषां च ज्ञातिव्यतिरेकेण वसिष्ठो भवितुमिच्छति, तेषां च वसिष्ठो भवति। उच्यतां तर्हि, कासौ वसिष्ठेति; वाग्वै वसिष्ठा; वासयत्यतिशयेन वस्ते वेति वसिष्ठा; वाग्ग्मिनो हि धनवन्तो वसन्त्यतिशयेन; आच्छादनार्थस्य वा वसेर्वसिष्ठा; अभिभवन्ति हि वाचा वाग्ग्मिनः अन्यान्। तेन वसिष्ठगुणवत्परिज्ञानात् वसिष्ठगुणो भवतीति दर्शनानुरूपं फलम्॥
🔗  यो ह वै प्रतिष्ठां वेद, प्रतितिष्ठत्यनयेति प्रतिष्ठा, तां प्रतिष्ठां प्रतिष्ठागुणवतीं यो वेद, तस्य एतत्फलम्; प्रतितिष्ठति समे देशे काले च; तथा दुर्गे विषमे च दुर्गमने च देशे दुर्भिक्षादौ वा काले विषमे। यद्येवमुच्यताम्, कासौ प्रतिष्ठा; चक्षुर्वै प्रतिष्ठा; कथं चक्षुषः प्रतिष्ठात्वमित्याह – चक्षुषा हि समे च दुर्गे च दृष्ट्वा प्रतितिष्ठति। अतोऽनुरूपं फलम्, प्रतितिष्ठति समे, प्रतितिष्ठति दुर्गे, य एवं वेद इति॥
🔗  यो ह वै सम्पदं वेद, सम्पद्गुणयुक्तं यो वेद, तस्य एतत्फलम्; अस्मै विदुषे सम्पद्यते ह; किम्? यं कामं कामयते, स कामः। किं पुनः सम्पद्गुणकम्? श्रोत्रं वै सम्पत्। कथं पुनः श्रोत्रस्य सम्पद्गुणत्वमित्युच्यते – श्रोत्रे सति हि यस्मात् सर्वे वेदाः अभिसम्पन्नाः, श्रोत्रेन्द्रियवतोऽध्येयत्वात्; वेदविहितकर्मायत्ताश्च कामाः; तस्मात् श्रोत्रं सम्पत्। अतो विज्ञानानुरूपं फलम्, सं हास्मै पद्यते, यं कामं कामयते, य एवं वेद
🔗  यो ह वा आयतनं वेद; आयतनम् आश्रयः, तत् यो वेद, आयतनं स्वानां भवति, आयतनं जनानाम् अन्येषामपि। किं पुनः तत् आयतनमित्युच्यते – मनो वै आयतनम् आश्रयः इन्द्रियाणां विषयाणां च; मनआश्रिता हि विषया आत्मनो भोग्यत्वं प्रतिपद्यन्ते; मनःसङ्कल्पवशानि च इन्द्रियाणि प्रवर्तन्ते निवर्तन्ते च; अतो मन आयतनम् इन्द्रियाणाम्। अतो दर्शनानुरूप्येण फलम्, आयतनं स्वानां भवति, आयतनं जनानाम्, य एवं वेद
🔗  यो ह वै प्रजातिं वेद, प्रजायते ह प्रजया पशुभिः च सम्पन्नो भवति। रेतो वै प्रजातिः; रेतसा प्रजननेन्द्रियमुपलक्ष्यते। तद्विज्ञानानुरूपं फलम्, प्रजायते ह प्रजया पशुभिः, य एवं वेद
🔗  ते हेमे प्राणाः वागादयः, अहंश्रेयसे अहं श्रेयानित्येतस्मै प्रयोजनाय, विवदमानाः विरुद्धं वदमानाः, ब्रह्म जग्मुः ब्रह्म गतवन्तः, ब्रह्मशब्दवाच्यं प्रजापतिम्; गत्वा च तद् ब्रह्म ह ऊचुः उक्तवन्तः – कः नः अस्माकं मध्ये, वसिष्ठः, कोऽस्माकं मध्ये वसति च वासयति च। तद् ब्रह्म तैः पृष्टं सत् ह उवाच उक्तवत् – यस्मिन् वः युष्माकं मध्ये उत्क्रान्ते निर्गते शरीरात्, इदं शरीरं पूर्वस्मादतिशयेन पापीयः पापतरं मन्यते लोकः; शरीरं हि नाम अनेकाशुचिसङ्घातत्वात् जीवतोऽपि पापमेव, ततोऽपि कष्टतरं यस्मिन् उत्क्रान्ते भवति; वैराग्यार्थमिदमुच्यते – पापीय इति; स वः युष्माकं मध्ये वसिष्ठो भविष्यति। जानन्नपि वसिष्ठं प्रजापतिः नोवाच अयं वसिष्ठ इति इतरेषाम् अप्रियपरिहाराय॥
🔗  ते एवमुक्ता ब्रह्मणा प्राणाः आत्मनो वीर्यपरीक्षणाय क्रमेण उच्चक्रमुः। तत्र वाग् एव प्रथमं अस्मात् शरीरात् उच्चक्राम उत्क्रान्तवती; सा चोत्क्रम्य, संवत्सरं प्रोष्य प्रोषिता भूत्वा, पुनः आगत्योवाचकथम् अशकत शक्तवन्तः यूयम्, मदृते मां विना, जीवितुमितिते एवमुक्ताः ऊचुःयथा लोके अकलाः मूकाः, अवदन्तः वाचा, प्राणन्तः प्राणनव्यापारं कुर्वन्तः प्राणेन, पश्यन्तः दर्शनव्यापारं चक्षुषा कुर्वन्तः, तथा शृण्वन्तः श्रोत्रेण, विद्वांसः मनसा कार्याकार्यादिविषयम्, प्रजायमानाः रेतसा पुत्रान् उत्पादयन्तः, एवमजीविष्म वयम् – इति एवं प्राणैः दत्तोत्तरा वाक् आत्मनः अस्मिन् अवसिष्ठत्वं बुद्ध्वा, प्रविवेश ह वाक्
🔗  तथा चक्षुर्होच्चक्राम-इत्यादि पूर्ववत्। श्रोत्रं मनः प्रजातिरिति॥
🔗  अथ ह प्राणः उत्क्रमिष्यन् उत्क्रमणं करिष्यन्; तदानीमेव स्वस्थानात्प्रचलिता वागादयः। किमिवेत्याह – यथा लोके, महांश्चासौ सुहयश्च महासुहयः, शोभनो हयः लक्षणोपेतः, महान् परिमाणतः, सिन्धुदेशे भवः सैन्धवः अभिजनतः, पड्वीशशङ्कून् पादबन्धनशङ्कून्, पड्वीशाश्च ते शङ्कवश्च तान्, संवृहेत् उद्यच्छेत् युगपदुत्खनेत् अश्वारोहे आरूढे परीक्षणाय; एवं ह एव इमान् वागादीन् प्राणान् संववर्ह उद्यतवान् स्वस्थानात् भ्रंशितवान्। ते वागादयः ह ऊचुः – हे भगवः भगवन् मा उत्क्रमीः; यस्मात् न वै शक्ष्यामः त्वदृते त्वां विना जीवितुमिति। यद्येवं मम श्रेष्ठता विज्ञाता भवद्भिः, अहमत्र श्रेष्ठः, तस्य उ मे मम बलिं करं कुरुत करं प्रयच्छत इति। अयं च प्राणसंवादः कल्पितः विदुषः श्रेष्ठपरीक्षणप्रकारोपदेशः; अनेन हि प्रकारेण विद्वान् को नु खलु अत्र श्रेष्ठ इति परीक्षणं करोति; स एष परीक्षणप्रकारः संवादभूतः कथ्यते; न हि अन्यथा संहत्यकारिणां सताम् एषाम् अञ्जसैव संवत्सरमात्रमेव एकैकस्य निर्गमनादि उपपद्यते; तस्मात् विद्वानेव अनेन प्रकारेण विचारयति वागादीनां प्रधानबुभुत्सुः उपासनाय; बलिं प्रार्थिताः सन्तः प्राणाः, तथेति प्रतिज्ञातवन्तः॥
🔗  सा ह वाक् प्रथमं बलिदानाय प्रवृत्ता ह किल उवाच उक्तवती – यत् वै अहं वसिष्ठा अस्मि, यत् मम वसिष्ठत्वम्, तत् तवैव; तेन वसिष्ठगुणेन त्वं तद्वसिष्ठोऽसीतियत् वै अहं प्रतिष्ठास्मि, त्वं तत्प्रतिष्ठोऽसि, या मम प्रतिष्ठा सा त्वमसि इति चक्षुः। समानम् अन्यत्। सम्पदायतनप्रजातित्वगुणान् क्रमेण समर्पितवन्तः। यद्येवम्, साधु बलिं दत्तवन्तो भवन्तः; ब्रूत – तस्य उ मे एवङ्गुणविशिष्टस्य किमन्नम्, किं वासः इति; आहुरितरे – यदिदं लोके किञ्च किञ्चित् अन्नं नाम आ श्वभ्यः आ कृमिभ्यः आ कीटपतङ्गेभ्यः, यच्च श्वान्नं कृम्यन्नं कीटपतङ्गान्नं च, तेन सह सर्वमेव यत्किञ्चित् प्राणिभिरद्यमानम् अन्नम्, तत् सर्वं तव अन्नम्। सर्वं प्राणस्यान्नमिति दृष्टिः अत्र विधीयते।
केचित्तु सर्वभक्षणे दोषाभावं वदन्ति प्राणान्नविदः; तत् असत्, शास्त्रान्तरेण प्रतिषिद्धत्वात्। तेनास्य विकल्प इति चेत्, न, अविधायकत्वात्। न ह वा अस्यानन्नं जग्धं भवतीति – सर्वं प्राणस्यान्नमित्येतस्य विज्ञानस्य विहितस्य स्तुत्यर्थमेतत्; तेनैकवाक्यतापत्तेः; न तु शास्त्रान्तरविहितस्य बाधने सामर्थ्यम्, अन्यपरत्वादस्य। प्राणमात्रस्य सर्वमन्नम् इत्येतदृर्शनम् इह विधित्सितम्, न तु सर्वं भक्षयेदिति। यत्तु सर्वभक्षणे दोषाभावज्ञानम्, तत् मिथ्यैव, प्रमाणाभावात्। विदुषः प्राणत्वात् सर्वान्नोपपत्तेः सामर्थ्यात् अदोष एवेति चेत्, न, अशेषान्नत्वानुपपत्तेः; सत्यं यद्यपि विद्वान् प्राणः, येन कार्यकरणसङ्घातेन विशिष्टस्य विद्वत्ता तेन कार्यकरणसङ्घातेन कृमिकीटदेवाद्यशेषान्नभक्षणं नोपपद्यते; तेन तत्र अशेषान्नभक्षणे दोषाभावज्ञापनमनर्थकम्, अप्राप्तत्वादशेषान्नभक्षणदोषस्य। ननु प्राणः सन् भक्षयत्येव कृमिकीटाद्यन्नमपि; बाढम्, किन्तु न तद्विषयः प्रतिषेधोऽस्ति; तस्मात् – दैवरक्तं किंशुकम् – तत्र दोषाभावः; अतः तद्रूपेण दोषाभावज्ञापनमनर्थकम्, अप्राप्तत्वात् अशेषान्नभक्षणदोषस्य। येन तु कार्यकरणसङ्घातसम्बन्धेन प्रतिषेधः क्रियते, तत्सम्बन्धेन तु इह नैव प्रतिप्रसवोऽस्ति। तस्मात् तत्प्रतिषेधातिक्रमे दोष एव स्यात्, अन्यविषयत्वात् ‘न ह वै’ इत्यादेः। न च ब्राह्मणादिशरीरस्य सर्वान्नत्वदर्शनमिह विधीयते, किन्तु प्राणमात्रस्यैव। यथा च सामान्येन सर्वान्नस्य प्राणस्य किञ्चित् अन्नजातं कस्यचित् जीवनहेतुः, यथा विषं विषजस्य क्रिमेः, तदेव अन्यस्य प्राणान्नमपि सत् दृष्टमेव दोषमुत्पादयति मरणादिलक्षणम् – तथा सर्वान्नस्यापि प्राणस्य प्रतिषिद्धान्नभक्षणे ब्राह्मणत्वादिदेहसम्बन्धात् दोष एव स्यात्। तस्मात् मिथ्याज्ञानमेव अभक्ष्यभक्षणे दोषाभावज्ञानम्।
आपो वास इति; आपः भक्ष्यमाणाः वासःस्थानीयास्तव। अत्र च प्राणस्य आपो वास इत्येतद्दर्शनं विधीयते; न तु वासःकार्ये आपो विनियोक्तुं शक्याः; तस्मात् यथाप्राप्ते अब्भक्षणे दर्शनमात्रं कर्तव्यम्। न ह वै अस्य सर्वं प्राणस्यान्नमित्येवंविदः अनन्नम् अनदनीयं जग्धं भुक्तं न भवति ह; यद्यपि अनेन अनदनीयं भुक्तम्, अदनीयमेव भुक्तं स्यात्, न तु तत्कृतदोषेण लिप्यते – इत्येतत् विद्यास्तुतिरित्यवोचाम। तथा न अनन्नं प्रतिगृहीतम्; यद्यपि अप्रतिग्राह्यं हस्त्यादि प्रतिगृहीतं स्यात् तदपि अन्नमेव प्रतिग्राह्यं प्रतिगृहीतं स्यात्, तत्रापि अप्रतिग्राह्यप्रतिग्रहदोषेण न लिप्यत इति स्तुत्यर्थमेव; य एवम् एतत् अनस्य प्राणस्य अन्नं वेद; फलं तु प्राणात्मभाव एव; न त्वेतत् फलाभिप्रायेण, किं तर्हि स्तुत्यभिप्रायेणेति। ननु एतदेव फलं कस्मान्न भवति? न, प्राणात्मदर्शिनः प्राणात्मभाव एव फलम्; तत्र च प्राणात्मभूतस्य सर्वात्मनः अनदनीयमपि आद्यमेव, तथा अप्रतिग्राह्यमपि प्रतिग्राह्यमेव – इति यथाप्राप्तमेव उपादाय विद्या स्तूयते; अतो नैव फलविधिसरूपता वाक्यस्य। यस्मात् आपो वासः प्राणस्य, तस्मात् विद्वांसः ब्राह्मणाः श्रोत्रियाः अधीतवेदाः, अशिष्यन्तः भोक्ष्यमाणाः, आचामन्ति अपः; अशित्वा आचामन्ति भुक्त्वा च उत्तरकालम् अपः भक्षयन्ति; तत्र तेषामाचामतां कोऽभिप्राय इत्याह – एतमेवानं प्राणम् अनग्नं कुर्वन्तो मन्यन्ते; अस्ति चैतत् – यो यस्मै वासो ददाति, स तम् अनग्नं करोमीति हि मन्यते; प्राणस्य च आपो वास इति ह्युक्तम्। यदपः पिबामि तत्प्राणस्य वासो ददामि इति विज्ञानं कर्तव्यमित्येवमर्थमेतत्। ननु भोक्ष्यमाणः भुक्तवांश्च प्रयतो भविष्यामीत्याचामति; तत्र च प्राणस्यानग्नताकरणार्थत्वे च द्विकार्यता आचमनस्य स्यात्; न च कार्यद्वयम् आचमनस्य एकस्य युक्तम्; यदि प्रायत्यार्थम्, न अनग्नतार्थम्; अथ अनग्नतार्थम्, न प्रायत्यार्थम्; यस्मादेवम्, तस्मात् द्वितीयम् आचमनान्तरं प्राणस्यानग्नताकरणाय भवतु – न, क्रियाद्वित्वोपपत्तेः; द्वे ह्येते क्रिये; भोक्ष्यमाणस्य भुक्तवतश्च यत् आचमनं स्मृतिविहितम्, तत् प्रायत्यार्थं भवति क्रियामात्रमेव; न तु तत्र प्रायत्यं दर्शनादि अपेक्षते; तत्र च आचमनाङ्गभूतास्वप्सु वासोविज्ञानं प्राणस्य इतिकर्तव्यतया चोद्यते; न तु तस्मिन्क्रियमाणे आचमनस्य प्रायत्यार्थता बाध्यते, क्रियान्तरत्वादाचमनस्य। तस्मात् भोक्ष्यमाणस्य भुक्तवतश्च यत् आचमनम्, तत्र आपो वासः प्राणस्येति दर्शनमात्रं विधीयते, अप्राप्तत्वादन्यतः॥

Go to Top ('Home' key on many Windows browsers)

BrhU.6.02

🔗  श्वेतकेतुर्ह वा आरुणेय इत्यस्य सम्बन्धः। खिलाधिकारोऽयम्; तत्र यदनुक्तं तदुच्यते। सप्तमाध्यायान्ते ज्ञानकर्मसमुच्चयकारिणा अग्नेर्मार्गयाचनं कृतम् – अग्ने नय सुपथेति। तत्र अनेकेषां पथां सद्भावः मन्त्रेण सामर्थ्यात्प्रदर्शितः, सुपथेति विशेषणात्। पन्थानश्च कृतविपाकप्रतिपत्तिमार्गाः; वक्ष्यति च ‘यत्कृत्वा’ (BrhU.6.2.2) इत्यादि। तत्र च कति कर्मविपाकप्रतिपत्तिमार्गा इति सर्वसंसारगत्युपसंहारार्थोऽयमारम्भः – एतावती हि संसारगतिः, एतावान् कर्मणो विपाकः स्वाभाविकस्य शास्त्रीयस्य च सविज्ञानस्येति। यद्यपि ‘द्वया ह प्राजापत्याः’ (BrhU.1.3.1) इत्यत्र स्वाभाविकः पाप्मा सूचितः, न च तस्येदं कार्यमिति विपाकः प्रदर्शितः; शास्त्रीयस्यैव तु विपाकः प्रदर्शितः त्र्यन्नात्मप्रतिपत्त्यन्तेन, ब्रह्मविद्यारम्भे तद्वैराग्यस्य विवक्षितत्वात्। तत्रापि केवलेन कर्मणा पितृलोकः, विद्यया विद्यासंयुक्तेन च कर्मणा देवलोक इत्युक्तम्। तत्र केन मार्गेण पितृलोकं प्रतिपद्यते, केन वा देवलोकमिति नोक्तम्। तच्च इह खिलप्रकरणे अशेषतो वक्तव्यमित्यत आरभ्यते। अन्ते च सर्वोपसंहारः शास्त्रस्येष्टः। अपि च एतावदमृतत्वमित्युक्तम्, न कर्मणः अमृतत्वाशा अस्तीति च; तत्र हेतुः नोक्तः; तदर्थश्चायमारम्भः। यस्मात् इयं कर्मणो गतिः, न नित्येऽमृतत्वे व्यापारोऽस्ति, तस्मात् एतावदेवामृतत्वसाधनमिति सामर्थ्यात् हेतुत्वं सम्पद्यते। अपि च उक्तमग्निहोत्रे – न त्वेवैतयोस्त्वमुत्क्रान्तिं न गतिं न प्रतिष्ठां न तृप्तिं न पुनरावृत्तिं न लोकं प्रत्युत्थायिनं वेत्थेति; तत्र प्रतिवचने ‘ते वा एते आहुती हुते उत्क्रामतः’ (शत. ब्रा. ११-६-२-४) इत्यादिना आहुतेः कार्यमुक्तम्; तच्चैतत् कर्तुः आहुतिलक्षणस्य कर्मणः फलम्; न हि कर्तारमनाश्रित्य आहुतिलक्षणस्य कर्मणः स्वातन्त्र्येण उत्क्रान्त्यादिकार्यारम्भ उपपद्यते, कर्त्रर्थत्वात्कर्मणः कार्यारम्भस्य, साधनाश्रयत्वाच्च कर्मणः; तत्र अग्निहोत्रस्तुत्यर्थत्वात् अग्निहोत्रस्यैव कार्यमित्युक्तं षट्प्रकारमपि; इह तु तदेव कर्तुः फलमित्युपदिश्यते षट्प्रकारमपि, कर्मफलविज्ञानस्य विवक्षितत्वात्। तद्द्वारेण च पञ्चाग्निदर्शनम् इह उत्तरमार्गप्रतिपत्तिसाधानं विधित्सितम्। एवम्, अशेषसंसारगत्युपसंहारः, कर्मकाण्डस्य एषा निष्ठा – इत्येतद्द्वयं दिदर्शयिषुः आख्यायिकां प्रणयति –
श्वेतकेतुः नामतः, अरुणस्यापत्यम् आरुणिः, तस्यापत्यम् आरुणेयः; -शब्दः ऐतिह्यार्थः; वै निश्चयार्थः; पित्रा अनुशिष्टः सन् आत्मनो यशःप्रथनाय पञ्चालानां परिषदम् आजगाम; पञ्चालाः प्रसिद्धाः; तेषां परिषदमागत्य, जित्वा, राज्ञोऽपि परिषदं जेष्यामीति गर्वेण स आजगाम; जीवलस्यापत्यं जैवलिं पञ्चालराजं प्रवाहण-नामानं स्वभृत्यैः परिचारयमाणम् आत्मनः परिचरणं कारयन्तमित्येतत्; स राजा पूर्वमेव तस्य विद्याभिमानगर्वं श्रुत्वा, विनेतव्योऽयमिति मत्वा, तम् उदीक्ष्य उत्प्रेक्ष्य आगतमात्रमेव अभ्युवाद अभ्युक्तवान्, कुमारा३ इति सम्बोध्य; भर्त्सनार्था प्लुतिः। एवमुक्तः सः प्रतिशुश्रावभो३ इति। भो३ इति अप्रतिरूपमपि क्षत्त्रियं प्रति उक्तवान् क्रुद्धः सन्। अनुशिष्टः अनुशासितोऽसि भवसि किं पित्राइति उवाच राजा। प्रत्याह इतरः – ओमिति, बाढमनुशिष्टोऽस्मि, पृच्छ यदि संशयस्ते॥
🔗  यद्येवम्, वेत्थ विजानासि किम्, यथा येन प्रकारेण इमाः प्रजाः प्रसिद्धाः, प्रयत्यः म्रियमाणाः, विप्रतिपद्यन्ता३ इति विप्रतिपद्यन्ते; विचारणार्था प्लुतिः; समानेन मार्गेण गच्छन्तीनां मार्गद्वैविध्यं यत्र भवति, तत्र काश्चित्प्रजा अन्येन मार्गेण गच्छन्ति काश्चिदन्येनेति विप्रतिपत्तिः; यथा ताः प्रजा विप्रतिपद्यन्ते, तत् किं वेत्थेत्यर्थः। नेति होवाच इतरः। तर्हि वेत्थयथा इमं लोकं पुनः आपद्यन्ता३ इति, पुनरापद्यन्ते, यथा पुनरागच्छन्ति इमं लोकम्। नेति हैवोवाच श्वेतकेतुः। वेत्थ उ यथा असौ लोक एवं प्रसिद्धेन न्यायेन पुनः पुनः असकृत् प्रयद्भिः म्रियमाणैः यथा येन प्रकारेण न सम्पूर्यता३ इति, न सम्पूर्यतेऽसौ लोकः, तत्किं वेत्थ। नेति हैवोवाचवेत्थ उ यतिथ्यां यत्सङ्ख्याकायाम् आहुत्याम् आहुतौ हुतायम् आपः पुरुषवाचः, पुरुषस्य या वाक् सैव यासां वाक्, ताः पुरुषवाचो भूत्वा पुरुषशब्दवाच्या वा भूत्वा; यदा पुरुषाकारपरिणताः, तदा पुरुषवाचो भवन्ति; समुत्थाय सम्यगुत्थाय उद्भूताः सत्यः वदन्ती३ इतिनेति हैवोवाच। यद्येवं वेत्थ उ देवयानस्य पथो मार्गस्य प्रतिपदम्, प्रतिपद्यते येन सा प्रतिपत् तां प्रतिपदम्, पितृयाणस्य वा प्रतिपदम्; प्रतिपच्छब्दवाच्यमर्थमाह – यत् कर्म कृत्वा यथाविशिष्टं कर्म कृत्वेत्यर्थः, देवयानं वा पन्थानं मार्गं प्रतिपद्यन्ते, पितृयाणं वा यत्कर्म कृत्वा प्रतिपद्यन्ते, तत्कर्म प्रतिपदुच्यते; तां प्रतिपदं किं वेत्थ, देवलोकपितृलोकप्रतिपत्तिसाधनं किं वेत्थेत्यर्थः। अपि अत्र अस्यार्थस्य प्रकाशकम् ऋषेः मन्त्रस्य वचः वाक्यम् नः श्रुतम् अस्ति, मन्त्रोऽपि अस्यार्थस्य प्रकाशको विद्यत इत्यर्थः। कोऽसौ मन्त्र इत्युच्यते – द्वे सृती द्वौ मार्गौ अवशृणवं श्रुतवानस्मि; तयोः एका पितृणां प्रापिका पितृलोकसम्बद्धा, तया सृत्या पितृलोकं प्राप्नोतीत्यर्थः; अहम् अशृणवमिति व्यवहितेन सम्बन्धः; देवानाम् उत अपि देवानां सम्बन्धिनी अन्या, देवान्प्रापयति सा। के पुनः उभाभ्यां सृतिभ्यां पितॄन् देवांश्च गच्छन्तीत्युच्यते – उत अपि मर्त्यानां मनुष्याणां सम्बन्धिन्यौ; मनुष्या एव हि सृतिभ्यां गच्छन्तीत्यर्थः। ताभ्यां सृतिभ्याम् इदं विश्वं समस्तम् एजत् गच्छत् समेति सङ्गच्छते। ते च द्वे सृती यदन्तरा ययोरन्तरा यदन्तरा, पितरं मातरं च, मातापित्रोः अन्तरा मध्ये इत्यर्थः। कौ तौ मातापितरौ? द्यावापृथिव्यौ अण्डकपाले; ‘इयं वै माता असौ पिता’ (शत. ब्रा. १३-३-९-७) इति हि व्याख्यातं ब्राह्मणेन। अण्डकपालयोर्मध्ये संसारविषये एव एते सृती, न आत्यन्तिकामृतत्वगमनाय। इतर आह – न अहम् अतः अस्मात् प्रश्नसमुदायात् एकञ्चन एकमपि प्रश्नम्, न वेद, नाहं वेद इति होवाच श्वेतकेतुः॥
🔗  अथ अनन्तरम् अपनीय विद्याभिमानगर्वम् एनं प्रकृतं श्वेतकेतुम्, वसत्या वसतिप्रयोजनेन उपमन्त्रयाञ्चक्रे; इह वसन्तु भवन्तः, पाद्यमर्घ्यं च आनीयताम् – इत्युपमन्त्रणं कृतवान्राजा। अनादृत्य तां वसतिं कुमारः श्वेतकेतुः प्रदुद्राव प्रतिगतवान् पितरं प्रति। स च आजगाम पितरम्, आगत्य च उवाच तम्, कथम् इति – वाव किल एवं किल, नः अस्मान् भवान् पुरा समावर्तनकाले अनुशिष्टान् सर्वाभिर्विद्याभिः अवोचः अवोचत् इति। सोपालम्भं पुत्रस्य वचः श्रुत्वा आह पिता – कथं केन प्रकारेण तव दुःखमुपजातम्, हे सुमेधः, शोभना मेधा यस्येति सुमेधाः। शृणु, मम यथा वृत्तम्; पञ्च पञ्चसङ्ख्याकान् प्रश्नान् मा मां राजन्यबन्धुः राजन्या बन्धवो यस्येति; परिभववचनमेतत् राजन्यबन्धुरिति; अप्राक्षीत् पृष्टवान्; ततः तस्मात् न एकञ्चन एकमपि न वेद न विज्ञातवानस्मि। कतमे ते राज्ञा पृष्टाः प्रश्ना इति पित्रा उक्तः पुत्रः ‘इमे ते’ इति ह प्रतीकानि मुखानि प्रश्नानाम् उदाजहार उदाहृतवान्॥
🔗  स होवाच पिता पुत्रं क्रुद्धमुपशमयन् – तथा तेन प्रकारेण नः अस्मान् त्वम्, हे तात वत्स, जानीथाः गृह्णीथाः, यथा यदहं किञ्च विज्ञानजातं वेद सर्वं तत् तुभ्यम् अवोचम् इत्येव जानीथाः; कोऽन्यो मम प्रियतरोऽस्ति त्वत्तः, यदर्थं रक्षिष्ये; अहमपि एतत् न जानामि, यत् राज्ञा पृष्टम्; तस्मात् प्रेहि आगच्छ; तत्र प्रतीत्य गत्वा राज्ञि ब्रह्मचर्यं वत्स्यावो विद्यार्थम् इति। स आह – भवानेव गच्छत्विति, नाहं तस्य मुखं निरीक्षितुमुत्सहे। स आजगाम, गौतमः गोत्रतो गौतमः, आरुणिः, यत्र प्रवाहणस्य जैवलेः आस आसनम् आस्थायिका; षष्ठीद्वयं प्रथमास्थाने; तस्मै गौतमाय आगताय आसनम् अनुरूपम् आहृत्य उदकं भृत्यैः आहारयाञ्चकार; अथ ह अस्मै अर्घ्यं पुरोधसा कृतवान् मन्त्रवत्, मधुपर्कं च। कृत्वा चैवं पूजां तं होवाचवरं भगवते गौतमाय तुभ्यं दद्म इति गोश्वादिलक्षणम्॥
🔗  स होवाच गौतमः – प्रतिज्ञातः मे मम एष वरः त्वया; अस्यां प्रतिज्ञायां दृढीकुरु आत्मानम्; यां तु वाचं कुमारस्य मम पुत्रस्य अन्ते समीपे वाचमभाषथाः प्रश्नरूपाम्, ताम् एव मे ब्रूहि; स एव नो वर इति
🔗  स होवाच राजा – दैवेषु वरेषु तद्वै गौतम, यत् त्वं प्रार्थयसे; मानुषाणाम् अन्यतमं प्रार्थय वरम्॥
🔗  स होवाच गौतमः – भवतापि विज्ञायते ह मम अस्ति सः; न तेन प्रार्थितेन कृत्यं मम, यं त्वं दित्ससि मानुषं वरम्; यस्मात् ममाप्यस्ति हिरण्यस्य प्रभूतस्य अपात्तं प्राप्तम्; गो-अश्वानाम् अपात्तमस्तीति सर्वत्रानुषङ्गः; दासीनाम्, प्रवाराणां परिवाराणाम्, परिधानस्य च; न च यत् मम विद्यमानम्, तत् त्वत्तः प्रार्थनीयम्, त्वया वा देयम्; प्रतिज्ञातश्च वरः त्वया; त्वमेव जानीषे, यदत्र युक्तम्, प्रतिज्ञा रक्षणीया तवेति; मम पुनः अयमभिप्रायः – मा भूत् नः अस्मान् अभि, अस्मानेव केवलान्प्रति, भवान् सर्वत्र वदान्यो भूत्वा, अवदान्यो मा भूत् कदर्यो मा भूदित्यर्थः; बहोः प्रभूतस्य, अनन्तस्य अनन्तफलस्येत्येतत्, अपर्यन्तस्य अपरिसमाप्तिकस्य पुत्रपौत्रादिगामिकस्येत्येतत्, ईदृशस्य वित्तस्य, मां प्रत्येव केवलम् अदाता मा भूद्भवान्; न च अन्यत्र अदेयमस्ति भवतः। एवमुक्त आह – त्वं वै हे गौतम तीर्थेन न्यायेन शास्त्रविहितेन विद्यां मत्तः इच्छासै इच्छ अन्वाप्तुम्; इत्युक्तो गौतम आह – उपैमि उपगच्छामि शिष्यत्वेन अहं भवन्तमितिवाचा ह स्मैव किल पूर्वे ब्राह्मणाः क्षत्त्रियान् विद्यार्थिनः सन्तः वैश्यान्वा, क्षत्त्रिया वा वैश्यान् आपदि उपयन्ति शिष्यवृत्त्या हि उपगच्छन्ति, न उपायनशुश्रूषादिभिः; अतः गौतमः ह उपायनकीर्त्या उपगमनकीर्तनमात्रेणैव उवास उषितवान्, न उपायनं चकार॥
🔗  एवं गौतमेन आपदन्तरे उक्ते, स होवाच राजा पीडित मत्वा क्षामयन् – तथा नः अस्मान् प्रति, मा अपराधाः अपराधं मा कार्षीः, अस्मदीयोऽपराधः न ग्रहीतव्य इत्यर्थः; तव च पितामहाः अस्मात्पितामहेषु यथा अपराधं न जगृहुः, तथा पितामहानां वृत्तम् अस्मास्वपि भवता रक्षणीयमित्यर्थः। यथा इयं विद्या त्वया प्रार्थिता इतः त्वत्सम्प्रदानात् पूर्वम् प्राक् न कस्मिन् अपि ब्राह्मणे उवास उषितवती, तथा त्वमपि जानीषे; सर्वदा क्षत्त्रियपरम्परया इयं विद्या आगता; सा स्थितिः मयापि रक्षणीया, यदि शक्यते इति – उक्तम् ‘दैवेषु गौतम तद्वरेषु मानुषाणां ब्रूहि’ इति; न पुनः तव अदेयो वर इति; इतः परं न शक्यते रक्षितुम्; ताम् अपि विद्याम् अहं तुभ्यं वक्ष्यामिको हि अन्योऽपि हि यस्मात् एवं ब्रूवन्तं त्वाम् अर्हति प्रत्याख्यातुम् – न वक्ष्यामीति; अहं पुनः कथं न वक्ष्ये तुभ्यमिति॥
🔗  असौ वै लोकोऽग्निर्गौतमेत्यादि – चतुर्थः प्रश्नः प्राथम्येन निर्णीयते; क्रमभङ्गस्तु एतन्निर्णयायत्तत्वादितरप्रश्ननिर्णयस्य। असौ द्यौः लोकः अग्निः हे, गौतम; द्युलोके अग्निदृष्टिः अनग्नौ विधीयते, यथा योषित्पुरुषयोः; तस्य द्युलोकाग्नेः आदित्य एव समित्, समिन्धनात्; आदित्येन हि समिध्यते असौ लोकः; रश्मयो धूमः, समिध उत्थानसामान्यात्; आदित्याद्धि रश्मयो निर्गताः, समिधश्च धूमो लोके उत्तिष्ठति; अहः अर्चिः, प्रकाशसामान्यात्; दिशः अङ्गाराः, उपशमसामान्यात्; अवान्तरदिशो विस्फुलिङ्गाः, विस्फुलिङ्गवद्विक्षेपात्; तस्मिन् एतस्मिन् एवङ्गुणविशिष्टे द्युलोक-अग्नौ, देवाः इन्द्रादयः, श्रद्धां जुह्वति आहुतिद्रव्यस्थानीयां प्रक्षिपन्ति; तस्या आहुत्याः आहुतेः सोमो राजा पितृणां ब्राह्मणानां च सम्भवति। तत्र के देवाः कथं जुह्वति किं वा श्रद्धाख्यं हविरित्यतः उक्तमस्माभिः सम्बन्धे; ‘नत्वेवैनयोस्त्वमुत्क्रान्तिम्’ (शत. ब्रा. ११-६-२-४) इत्यादिपदार्थषट्कनिर्णयार्थम् अग्निहोत्रे उक्तम्; ‘ते वा एते अग्निहोत्राहुती हुते सत्यावुत्क्रामतः’ (शत. ब्रा. ११-६-२-६, ७), ‘ते अन्तरिक्षमाविशतः’ (शत. ब्रा. ११-६-२-६), ‘ते अन्तरिक्षमाहवनीयं कुर्वाते वायुं समिधं मरीचीरेव शुक्रामाहुतिम्’, ‘ते अन्तरिक्षं तर्पयतः’ (शत. ब्रा. ११-६-२-६), ‘ते तत उत्क्रामतः’ (शत. ब्रा. ११-६-२-६), ‘ते दिवमाविशतः’ (शत. ब्रा. ११-६-२-७), ‘ते दिवमाहवनीयं कुर्वाते आदित्यं समिधम्’ (शत. ब्रा. ११-६-२-७) इत्येवमादि उक्तम्। तत्र अग्निहोत्राहुती ससाधने एव उत्क्रामतः। यथा इह यैः साधनैर्विशिष्टे ये ज्ञायेते आहवनीयाग्निसमिद्धूमाङ्गारविस्फुलिङ्गाहुतिद्रव्यैः, ते तथैव उत्क्रामतः अस्माल्लोकात् अमुं लोकम्। तत्र अग्निः अग्नित्वेन, समित् समित्त्वेन, धूमो धूमत्वेन, अङ्गाराः अङ्गारत्वेन, विस्फुलिङ्गा विस्फुलिङ्गत्वेन, आहुतिद्रव्यमपि पयआद्याहुतिद्रव्यत्वेनैव सर्गादौ अव्याकृतावस्थायामपि परेण सूक्ष्मेण आत्मना व्यवतिष्ठते। तत् विद्यमानमेव ससाधनम् अग्निहोत्रलक्षणं कर्म अपूर्वेणात्मना व्यवस्थितं सत्, तत्पुनः व्याकरणकाले तथैव अन्तरिक्षादीनाम् आहवनीयाद्यग्न्यादिभावं कुर्वत् विपरिणमते। तथैव इदानीमपि अग्निहोत्राख्यं कर्म। एवम् अग्निहोत्राहुत्यपूर्वपरिणामात्मकं जगत् सर्वमिति आहुत्योरेव स्तुत्यर्थत्वेन उत्क्रान्त्याद्याः लोकं प्रत्युत्थायितान्ताः षट् पदार्थाः कर्मप्रकरणे अधस्तान्निर्णीताः। इह तु कर्तुः कर्मविपाकविवक्षायां द्युलोकाग्न्याद्यारभ्य पञ्चाग्निदर्शनम् उत्तरमार्गप्रतिपत्तिसाधनं विशिष्टकर्मफलोपभोगाय विधित्सितमिति द्युलोकाग्न्यादिदर्शनं प्रस्तूयते। तत्र ये आध्यात्मिकाः प्राणाः इह अग्निहोत्रस्य होतारः, ते एव आधिदैविकत्वेन परिणताः सन्तः इन्द्रादयो भवन्ति; त एव तत्र होतारो द्युलोकाग्नौ; ते च इह अग्निहोत्रस्य फलभोगाय अग्निहोत्रं हुतवन्तः; ते एव फलपरिणामकालेऽपि तत्फलभोक्तृत्वात् तत्र तत्र होतृत्वं प्रतिपद्यन्ते, तथा तथा विपरिणममाना देवशब्दवाच्याः सन्तः। अत्र च यत् पयोद्रव्यम् अग्निहोत्रकर्माश्रयभूतम् इह आहवनीये प्रक्षिप्तम् अग्निना भक्षितम् अदृष्टेन सूक्ष्मेण रूपेण विपरिणतम् सह कर्त्रा यजमानेन अमुं लोकम् धूमादिक्रमेण अन्तरिक्षम् अन्तरिक्षात् द्युलोकम् आविशति; ताः सूक्ष्मा आपः आहुतिकार्यभूता अग्निहोत्रसमवायिन्यः कर्तृसहिताः श्रद्धाशब्दवाच्याः सोमलोके कर्तुः शरीरान्तरारम्भाय द्युलोकं प्रविशन्त्यः हूयन्त इत्युच्यन्ते; ताः तत्र द्युलोकं प्रविश्य सोममण्डले कर्तुः शरीरमारभन्ते। तदेतदुच्यते – ‘देवाः श्रद्धां जुह्वति, तस्या आहुत्यै सोमो राजा सम्भवति’ इति, ‘श्रद्धा वा आपः’ (तै. सं. १-६-८) इति श्रुतेः। ‘वेत्थ यतिथ्यामाहुत्यां हुतायामापः पुरुषवाचो भूत्वा समुत्थाय वदन्ति’ (BrhU.6.2.2) इति प्रश्नः; तस्य च निर्णयविषये ‘असौ वै लोकोऽग्निः’ इति प्रस्तुतम्; तस्मात् आपः कर्मसमवायिन्यः कर्तुः शरीरारम्भिकाः श्रद्धाशब्दवाच्या इति निश्चीयते। भूयस्त्वात् ‘आपः पुरुषवाचः’ इति व्यपदेशः, न तु इतराणि भूतानि न सन्तीति; कर्मप्रयुक्तश्च शरीरारम्भः; कर्म च अप्समवायि; ततश्च अपां प्राधान्यं शरीरकर्तृत्वे; तेन च ‘आपः पुरुषवाचः’ इति व्यपदेशः; कर्मकृतो हि जन्मारम्भः सर्वत्र। तत्र यद्यपि अग्निहोत्राहुतिस्तुतिद्वारेण उत्क्रान्त्यादयः प्रस्तुताः षट्पदार्था अग्निहोत्रे, तथापि वैदिकानि सर्वाण्येव कर्माणि अग्निहोत्रप्रभृतीनि लक्ष्यन्ते; दाराग्निसम्बद्धं हि पाङ्क्तं कर्म प्रस्तुत्योक्तम् – ‘कर्मणा पितृलोकः’ (BrhU.1.5.16) इति; वक्ष्यति च – ‘अथ ये यज्ञेन दानेन तपसा लोकाञ्जयन्ति’ (BrhU.6.2.15) इति॥
🔗  पर्जन्यो वा अग्निर्गौतम, द्वितीय आहुत्याधारः आहुत्योरावृत्तिक्रमेण। पर्जन्यो नाम वृष्ट्युपकरणाभिमानी देवतात्मा। तस्य संवत्सर एव समित्; संवत्सरेण हि शरदादिभिर्ग्रीष्मान्तैः स्वावयवैर्विपरिवर्तमानेन पर्जन्योऽग्निर्दीप्यते। अभ्राणि धूमः, धूमप्रभवत्वात् धूमवदुपलक्ष्यत्वाद्वा। विद्युत् अर्चिः, प्रकाशसामान्यात्। अशनिः अङ्गाराः, उपशान्तकाठिन्यसामान्याभ्याम्। ह्रादुनयः ह्लादुनयः स्तनयित्नुशब्दाः विस्फुलिङ्गाः, विक्षेपानेकत्वसामान्यात्। तस्मिन्नेतस्मिन् इति आहुत्यधिकरणनिर्देशः। देवाः इति, ते एव होतारः सोमं राजानं जुह्वति; योऽसौ द्युलोकाग्नौ श्रद्धायां हुतायामभिनिर्वृत्तः सोमः, स द्वितीये पर्जन्याग्नौ हूयते; तस्याश्च सोम-आहुतेः वृष्टिः सम्भवति
🔗  अयं वै लोकोऽग्निर्गौतम। अयं लोक इति प्राणिजन्मोपभोगाश्रयः क्रियाकारकफलविशिष्टः, स तृतीयोऽग्निः। तस्य अग्नेः पृथिव्येव समित्; पृथिव्या हि अयं लोकः अनेकप्राण्युपभोगसम्पन्नया समिध्यते। अग्निः धूमः, पृथिव्याश्रयोत्थानसामान्यात्; पार्थिवं हि इन्धनद्रव्यम् आश्रित्य अग्निः उत्तिष्ठति, यथा समिदाश्रयेण धूमः। रात्रिः अर्चिः, समित्सम्बन्धप्रभवसामान्यात्; अग्नेः समित्सम्बन्धेन हि अर्चिः सम्भवति, तथा पृथिवीसमित्सम्बन्धेन शर्वरी; पृथिवीछायां हि शार्वरं तम आचक्षते। चन्द्रमा अङ्गाराः, तत्प्रभवत्वसामान्यात्; अर्चिषो हि अङ्गाराः प्रभवन्ति, तथा रात्रौ चन्द्रमाः; उपशान्तत्वसामान्याद्वा। नक्षत्राणि विस्फुलिङ्गाः, विस्फुलिङ्गवद्विक्षेपसामान्यात्। तस्मिन्नेतस्मिन् इत्यादि पूर्ववत्। वृष्टिं जुह्वति, तस्याः आहुतेः अन्नं सम्भवति, वृष्टिप्रभवत्वस्य प्रसिद्धत्वात् व्रीहियवादेरन्नस्य॥
🔗  पुरुषो वा अग्निर्गौतम; प्रसिद्धः शिरःपाण्यादिमान् पुरुषः चतुर्थोऽग्निः तस्य व्यात्तं विवृतं मुखं समित्; विवृतेन हि मुखेन दीप्यते पुरुषः वचनस्वाध्यायादौ, यथा समिधा अग्निः। प्राणो धूमः तदुत्थानसामान्यात्; मुखाद्धि प्राण उत्तिष्ठति। वाक् शब्दः अर्चिः व्यञ्जकत्वसामान्यात्; अर्चिश्च व्यञ्जकम्, तथा वाक् शब्दः अभिधेयव्यञ्जकः। चक्षुः अङ्गाराः, उपशमसामान्यात् प्रकाशाश्रयत्वाद्वा। श्रोत्रं विस्फुलिङ्गाः, विक्षेपसामान्यात्। तस्मिन् अन्नं जुह्वति। ननु नैव देवा अन्नमिह जुह्वतो दृश्यन्ते – नैष दोषः, प्राणानां देवत्वोपपत्तेः; अधिदैवम् इन्द्रादयो देवाः; ते एव अध्यात्मं प्राणाः; ते च अन्नस्य पुरुषे प्रक्षेप्तारः; तस्या आहुतेः रेतः सम्भवति; अन्नपरिणामो हि रेतः॥
🔗  योषा वा अग्निर्गौतम। योषेति स्त्री पञ्चमो होमाधिकरणम् अग्निः तस्याः उपस्थ एव समित्; तेन हि सा समिध्यते। लोमानि धूमः, तदुत्थानसामान्यात्। योनिः अर्चिः, वर्णसामान्यात्। यदन्तः करोति, तेऽङ्गाराः; अन्तःकरणं मैथुनव्यापारः, तेऽङ्गाराः, वीर्योपशमहेतुत्वसामान्यात्; वीर्याद्युपशमकारणं मैथुनम्, तथा अङ्गारभावः अग्नेरुपशमकारणम्। अभिनन्दाः सुखलवाः क्षुद्रत्वसामान्यात् विस्फुलिङ्गाःतस्मिन् रेतो जुह्वतितस्या आहुतेः पुरुषः सम्भवति। एवं द्युपर्जन्यायंलोकपुरुषयोषाग्निषु क्रमेण हूयमानाः श्रद्धासोमवृष्ट्यन्नरेतोभावेन स्थूलतारतम्यक्रममापद्यमानाः श्रद्धाशब्दवाच्या आपः पुरुषशब्दमारभन्ते। यः प्रश्नः चतुर्थः ‘वेत्थ यतिथ्यामाहुत्यां हुतायामापः पुरुषवाचो भूत्वा समुत्थाय वदन्ती३’ (BrhU.6.2.2) इति, स एष निर्णीतः – पञ्चम्यामाहुतौ योषाग्नौ हुतायां रेतोभूता आपः पुरुषवाचो भवन्तीति। पुरुषः एवं क्रमेण जातो जीवति; कियन्तं कालमित्युच्यते – यावज्जीवति यावदस्मिन् शरीरे स्थितिनिमित्तं कर्म विद्यते, तावदित्यर्थः। अथ तत्क्षये यदा यस्मिन्काले म्रियते
🔗  अथ तदा एनं मृतम् अग्नये अग्न्यर्थमेव अन्त्याहुत्यै हरन्ति ऋत्विजः; तस्य आहुतिभूतस्य प्रसिद्धः अग्निरेव होमाधिकरणम्, न परिकल्प्योऽग्निः; प्रसिद्धैव समित् समित्; धूमो धूमः; अर्चिः अर्चिः; अङ्गारा अङ्गाराः; विस्फुलिङ्गा विस्फुलिङ्गाः; यथाप्रसिद्धमेव सर्वमित्यर्थः। तस्मिन् पुरुषम् अन्त्याहुतिं जुह्वति; तस्यै आहुत्यै आहुतेः, पुरुषः भास्वरवर्णः अतिशयदीप्तिमान्, निषेकादिभिरन्त्याहुत्यन्तैः कर्मभिः संस्कृतत्वात्, सम्भवति निष्पद्यते॥
🔗  इदानीं प्रथमप्रश्ननिराकरणार्थमाह – ते; के? ये एवं यथोक्तं पञ्चाग्निदर्शनम् एतत् विदुः; एवंशब्दात् अग्निसमिद्धूमार्चिरङ्गारविस्फुलिङ्गश्रद्धादिविशिष्टाः पञ्चाग्नयो निर्दिष्टाः; तान् एवम् एतान् पञ्चाग्नीन् विदुरित्यर्थः।
ननु अग्निहोत्राहुतिदर्शनविषयमेव एतद्दर्शनम्; तत्र हि उक्तम् उत्क्रान्त्यादिपदार्थषट्कनिर्णये ‘दिवमेवाहवनीयं कुर्वाते’ (शत. ब्रा. ११-६-२-७) इत्यादि; इहापि अमुष्य लोकस्याग्नित्वम्, आदित्यस्य च समित्त्वमित्यादि बहु साम्यम्; तस्मात् तच्छेषमेव एतद्दर्शनमिति – न, यतिथ्यामिति प्रश्नप्रतिवचनपरिग्रहात्; यतिथ्यामित्यस्य प्रश्नस्य प्रतिवचनस्य यावदेव परिग्रहः, तावदेव एवंशब्देन पराम्रष्टुं युक्तम्, अन्यथा प्रश्नानर्थक्यात्; निर्ज्ञातत्वाच्च सङ्ख्यायाः अग्नय एव वक्तव्याः; अथ निर्ज्ञातमप्यनूद्यते, यथाप्राप्तस्यैव अनुवदनं युक्तम्, न तु ‘असौ लोकोऽग्निः’ इति; अथ उपलक्षणार्थः, तथापि आद्येन अन्त्येन च उपलक्षणं युक्तम्। श्रुत्यन्तराच्च; समाने हि प्रकरणे छान्दोग्यश्रुतौ ‘पञ्चाग्नीन्वेद’ (ChanU.5.10.10) इति पञ्चसङ्ख्याया एवोपादानात् अनग्निहोत्रशेषम् एतत् पञ्चाग्निदर्शनम्। यत्तु अग्निसमिदादिसामान्यम्, तत् अग्निहोत्रस्तुत्यर्थमित्यवोचाम; तस्मात् न उत्क्रान्त्यादिपदार्थषट्कपरिज्ञानात् अर्चिरादिप्रतिपत्तिः, एवमिति प्रकृतोपादानेन अर्चिरादिप्रतिपत्तिविधानात्।
के पुनस्ते, ये एवं विदुः? गृहस्था एव। ननु तेषां यज्ञादिसाधनेन धूमादिप्रतिपत्तिः विधित्सिता – न, अनेवंविदामपि गृहस्थानां यज्ञादिसाधनोपपत्तेः, भिक्षुवानप्रस्थयोश्च अरण्यसम्बन्धेन ग्रहणात्, गृहस्थकर्मसम्बद्धत्वाच्च पञ्चाग्निदर्शनस्य। अतः नापि ब्रह्मचारिणः ‘एवं विदुः’ इति गृह्यन्ते; तेषां तु उत्तरे पथि प्रवेशः स्मृतिप्रामाण्यात् – ‘अष्टाशीतिसहस्राणामृषीणामूर्ध्वरेतसाम्। उत्तरेणार्यम्णः पन्थास्तेऽमृतत्वं हि भेजिरे’ (?) इति। तस्मात् ये गृहस्थाः एवम् – अग्निजोऽहम्, अग्न्यपत्यम् – इति, एवम् क्रमेण अग्निभ्यो जातः अग्निरूपः इत्येवम्, ये विदुः, ते च, ये च अमी अरण्ये वानप्रस्थाः परिव्राजकाश्चारण्यनित्याः, श्रद्धां श्रद्धायुक्ताः सन्तः, सत्यं ब्रह्म हिरण्यगर्भात्मानम् उपासते, न पुनः श्रद्धां च उपासते, ते सर्वेऽर्चिरभिसम्भवन्ति। यावत् गृहस्थाः पञ्चाग्निविद्यां सत्यं वा ब्रह्म न विदुः, तावत् श्रद्धाद्याहुतिक्रमेण पञ्चम्यामाहुतौ हुतायां ततो योषाग्नेर्जाताः, पुनर्लोकं प्रत्युत्थायिनः अग्निहोत्रादिकर्मानुष्ठातारो भवन्ति; तेन कर्मणा धूमादिक्रमेण पुनः पितृलोकम्, पुनः पर्जन्यादिक्रमेण इमम् आवर्तन्ते। ततः पुनर्योषाग्नेर्जाताः पुनः कर्म कृत्वा – इत्येवमेव घटीयन्त्रवत् गत्यागतिभ्यां पुनः पुनः आवर्तन्ते। यदा तु एवं विदुः, ततो घटीयन्त्रभ्रमणाद्विनिर्मुक्ताः सन्तः अर्चिरभिसम्भवन्ति; अर्चिरिति न अग्निज्वालामात्रम्, किं तर्हि अर्चिरभिमानिनी अर्चिःशब्दवाच्या देवता उत्तरमार्गलक्षणा व्यवस्थितैव; तामभिसम्भवन्ति; न हि परिव्राजकानाम् अग्न्यर्चिषैव साक्षात्सम्बन्धोऽस्ति; तेन देवतैव परिगृह्यते अर्चिःशब्दवाच्या। अतः अहः देवताम्; मरणकालनियमानुपपत्तेः अहःशब्दोऽपि देवतैव; आयुषः क्षये हि मरणम्; न हि एवंविदा अहन्येव मर्तव्यमिति अहः मरणकालो नियन्तुं शक्यते; न च रात्रौ प्रेताः सन्तः अहः प्रतीक्षन्ते, ‘स यावत्क्षिप्येत्मनस्तावदादित्यं गच्छति’ (ChanU.8.6.5) इति श्रुत्यन्तरात्। अह्नः आपूर्यमाणपक्षम्, अहर्देवतया अतिवाहिता आपूर्यमाणपक्षदेवतां प्रतिपद्यन्ते, शुक्लपक्षदेवतामित्येतत्। आपूर्यमाणपक्षात् यान् षण्मासान् उदङ् उत्तरां दिशम् आदित्यः सविता एति, तान्मासान्प्रतिपद्यन्ते शुक्लपक्षदेवतया अतिवाहिताः सन्तः; मासानिति बहुवचनात् सङ्घचारिण्यः षट् उत्तरायणदेवताः; तेभ्यो मासेभ्यः षण्मासदेवताभिरतिवाहिताः देवलोकाभिमानिनीं देवतां प्रतिपद्यन्ते। देवलोकात् आदित्यम्; आदित्यात् वैद्युतं विद्युदभिमानिनीं देवतां प्रतिपद्यन्ते। विद्युद्देवतां प्राप्तान् ब्रह्मलोकवासी पुरुषः ब्रह्मणा मनसा सृष्टो मानसः कश्चित् एत्य आगत्य ब्रह्मलोकान् गमयति; ब्रह्मलोकानिति अधरोत्तरभूमिभेदेन भिन्ना इति गम्यन्ते, बहुवचनप्रयोगात्, उपासनतारतम्योपपत्तेश्च। ते तेन पुरुषेण गमिताः सन्तः, तेषु ब्रह्मलोकेषु पराः प्रकृष्टाः सन्तः, स्वयं परावतः प्रकृष्टाः समाः संवत्सराननेकान् वसन्ति, ब्रह्मणोऽनेकान्कल्पान्वसन्तीत्यर्थः। तेषां ब्रह्मलोकं गतानां अस्ति पुनरावृत्तिः अस्मिन्संसारे न पुनरागमनम्, ‘इह’ इति शाखान्तरपाठात्; इहेति आकृतिमात्रग्रहणमिति चेत्, ‘श्वोभूते पौर्णमासीम्’ (? ) इति यद्वत् – न, इहेतिविशेषणानर्थक्यात्, यदि हि नावर्तन्त एव इहग्रहणमनर्थकमेव स्यात्; ‘श्वोभूते पौर्णमासीम्’ (? ) इत्यत्र पौर्णमास्याः श्वोभूतत्वमनुक्तं न ज्ञायत इति युक्तं विशेषयितुम्; न हि तत्र श्वआकृतिः शब्दार्थो विद्यत इति श्वःशब्दो निरर्थक एव प्रयुज्यते; यत्र तु विशेषणशब्दे प्रयुक्ते अन्विष्यमाणे विशेषणफलं चेन्न गम्यते, तत्र युक्तो निरर्थकत्वेन उत्स्रष्टुं विशेषणशब्दः; न तु सत्यां विशेषणफलागतौ। तस्मात् अस्मात्कल्पादूर्ध्वम् आवृत्तिर्गम्यते॥
🔗  अथ पुनः ये नैवं विदुः, उत्क्रान्त्याद्यग्निहोत्रसम्बद्धपदार्थषट्कस्यैव वेदितारः केवलकर्मिणः, यज्ञेन अग्निहोत्रादिना, दानेन बहिर्वेदि भिक्षमाणेषु द्रव्यसंविभागलक्षणेन, तपसा बहिर्वेद्येव दीक्षादिव्यतिरिक्तेन कृच्छ्रचान्द्रायणादिना, लोकान् जयन्ति; लोकानिति बहुवचनात् तत्रापि फलतारतम्यमभिप्रेतम्। ते धूममभिसम्भवन्ति; उत्तरमार्ग इव इहापि देवता एव धूमादिशब्दवाच्याः, धूमदेवतां प्रतिपद्यन्त इत्यर्थः; आतिवाहिकत्वं च देवतानां तद्वदेव। धूमात् रात्रिं रात्रिदेवताम्, ततः अपक्षीयमाणपक्षम् अपक्षीयमाणपक्षदेवताम्, ततो यान्षण्मासान् दक्षिणां दिशम् आदित्य एति तान् मासदेवताविशेषान् प्रतिपद्यन्ते। मासेभ्यः पितृलोकम्, पितृलोकाच्चन्द्रम्ते चन्द्रं प्राप्य अन्नं भवन्ति; तान् तत्र अन्नभूतान्, यथा सोमं राजानम् इह यज्ञे ऋत्विजः आप्यायस्व अपक्षीयस्वेति भक्षयन्ति, एवम् एनान् चन्द्रं प्राप्तान् कर्मिणः भृत्यानिव स्वामिनः भक्षयन्ति उपभुञ्जते देवाः; ‘आप्यायस्वापक्षीयस्व’ इति न मन्त्रः; किं तर्हि आप्याय्य आप्याय्य चमसस्थम्, भक्षणेन अपक्षयं च कृत्वा, पुनः पुनर्भक्षयन्तीत्यर्थः; एवं देवा अपि सोमलोके लब्धशरीरान् कर्मिणः उपकरणभूतान् पुनः पुनः विश्रामयन्तः कर्मानुरूपं फलं प्रयच्छन्तः – तद्धि तेषामाप्यायनं सोमस्य आप्यायनमिव उपभुञ्जते उपकरणभूतान् देवाः। तेषां कर्मिणाम् यदा यस्मिन्काले, तत् यज्ञदानादिलक्षणं सोमलोकप्रापकं कर्म, पर्यवैति परिगच्छति परिक्षीयत इत्यर्थः, अथ तदा इममेव प्रसिद्धम् आकाशमभिनिष्पद्यन्ते; यास्ताः श्रद्धाशब्दवाच्या द्युलोकाग्नौ हुता आपः सोमाकारपरिणताः, याभिः सोमलोके कर्मिणामुपभोगाय शरीरमारब्धम् अम्मयम्, ताः कर्मक्षयात् हिमपिण्ड इवातपसम्पर्कात् प्रविलीयन्ते; प्रविलीनाः सूक्ष्मा आकाशभूता इव भवन्ति; तदिदमुच्यते – ‘इममेवाकाशमभिनिष्पद्यन्ते’ इति। ते पुनरपि कर्मिणः तच्छरीराः सन्तः पुरोवातादिना इतश्च अमुतश्च नीयन्ते अन्तरिक्षगाः; तदाह – आकाशाद्वायुम् इति। वायोर्वृष्टिं प्रतिपद्यन्ते; तदुक्तम् – पर्जन्याग्नौ सोमं राजानं जुह्वतीति। ततो वृष्टिभूता इमां पृथिवीं पतन्ति। ते पृथिवीं प्राप्य व्रीहियवादि अन्नं भवन्ति; तदुक्तम् – अस्मिंल्लोकेऽग्नौ वृष्टिं जुह्वति तस्या आहुत्या अन्नं सम्भवतीति। ते पुनः पुरुषाग्नौ हूयन्ते अन्नभूता रेतःसिचि; ततो रेतोभूता योषाग्नौ हूयन्ते; ततो जायन्ते; लोकं प्रत्युत्थायिनः ते लोकं प्रत्युत्तिष्ठन्तः अग्निहोत्रादिकर्म अनुतिष्ठन्ति। ततो धूमादिना पुनः पुनः सोमलोकम्, पुनरिमं लोकमिति – ते एवं कर्मिणः अनुपरिवर्तन्ते घटीयन्त्रवत् चक्रीभूता बम्भ्रमतीत्यर्थः, उत्तरमार्गाय सद्योमुक्तये वा यावद्ब्रह्म न विदुः; ‘इति नु कामयमानः संसरति’ (BrhU.4.4.6) इत्युक्तम्। अथ पुनः ये उत्तरं दक्षिणं च एतौ पन्थानौ न विदुः, उत्तरस्य दक्षिणस्य वा पथः प्रतिपत्तये ज्ञानं कर्म वा नानुतिष्ठन्तीत्यर्थः; ते किं भवन्तीत्युच्यते – ते कीटाः पतङ्गाः, यदिदं यच्चेदं दन्दशूकं दंशमशकमित्येतत्, भवन्ति। एवं हि इयं संसारगतिः कष्टा, अस्यां निमग्नस्य पुनरुद्धार एव दुर्लभः। तथा च श्रुत्यन्तरम् – ‘तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्व’ (ChanU.5.1.8) इति। तस्मात्सर्वोत्साहेन यथाशक्ति स्वाभाविककर्मज्ञानहानेन दक्षिणोत्तरमार्गप्रतिपत्तिसाधनं शास्त्रीयं कर्म ज्ञानं वा अनुतिष्ठेदिति वाक्यार्थः; तथा चोक्तम् – ‘अतो वै खलु दुर्निष्प्रपतरं तस्माज्जुगुप्सेत’ (ChanU.5.10.6) इति श्रुत्यन्तरात् मोक्षाय प्रयतेतेत्यर्थः। अत्रापि उत्तरमार्गप्रतिपत्तिसाधन एव महान् यत्नः कर्तव्य इति गम्यते, ‘एवमेवानुपरिवर्तन्ते’ इत्युक्तत्वात्। एवं प्रश्नाः सर्वे निर्णीताः; ‘असौ वै लोकः’ (BrhU.6.2.9) इत्यारभ्य ‘पुरुषः सम्भवति’ (BrhU.6.2.13) इति चतुर्थः प्रश्नः ‘यतिथ्यामाहुत्याम्’ (BrhU.6.2.2) इत्यादिः प्राथम्येन; पञ्चमस्तु द्वितीयत्वेन देवयानस्य वा पथः प्रतिपदं पितृयाणस्य वेति दक्षिणोत्तरमार्गप्रतिपत्तिसाधनकथनेन; तेनैव च प्रथमोऽपि – अग्नेरारभ्य केचिदर्चिः प्रतिपद्यन्ते केचिद्धूममिति विप्रतिपत्तिः; पुनरावृत्तिश्च द्वितीयः प्रश्नः – आकाशादिक्रमेणेमं लोकमागच्छन्तीति; तेनैव – असौ लोको न सम्पूर्यते कीटपतङ्गादिप्रतिपत्तेश्च केषाञ्चिदिति, तृतीयोऽपि प्रश्नो निर्णीतः॥

Go to Top ('Home' key on many Windows browsers)

BrhU.6.03

🔗  स यः कामयेत। ज्ञानकर्मणोर्गतिरुक्ता; तत्र ज्ञानं स्वतन्त्रम्; कर्म तु दैवमानुषवित्तद्वयायत्तम्; तेन कर्मार्थं वित्तमुपार्जनीयम्; तच् च अप्रत्यवायकारिणोपायेनेति तदर्थं मन्थाख्यं कर्म आरभ्यते महत्त्वप्राप्तये; महत्त्वे च सति अर्थसिद्धं हि वित्तम्। तदुच्यते – स यः कामयेत, स यो वित्तार्थी कर्मण्यधिकृतः यः कामयेत; किम्? महत् महत्त्वम् प्राप्नुयाम्, महान्स्याम् इति इत्यर्थः। तत्र मन्थकर्मणो विधित्सितस्य कालोऽभिधीयते – उदगयने आदित्यस्य; तत्र सर्वत्र प्राप्तौ आपूर्यमाणपक्षस्य शुक्लपक्षस्य; तत्रापि सर्वत्र प्राप्तौ, पुण्याहे अनुकूले आत्मनः कर्मसिद्धिकर इत्यर्थः; द्वादशाहम्, यस्मिन्पुण्येऽनुकूले कर्म चिकीर्षति ततः प्राक् पुण्याहमेवारभ्य द्वादशाहम्, उपसद्व्रती, उपसत्सु व्रतम्, उपसदः प्रसिद्धा ज्योतिष्टोमे, तत्र च स्तनोपचयापचयद्वारेण पयोभक्षणं तद्व्रतम्; अत्र च तत्कर्मानुपसंहारात् केवलमितिकर्तव्यताशून्यं पयोभक्षणमात्रमुपादीयते; ननु उपसदो व्रतमिति यदा विग्रहः, तदा सर्वमितिकर्तव्यतारूपं ग्राह्यं भवति, तत् कस्मात् न परिगृह्यत इत्युच्यते – स्मार्तत्वात्कर्मणः; स्मार्तं हीदं मन्थकर्म। ननु श्रुतिविहितं सत् कथं स्मार्तं भवितुमर्हति – स्मृत्यनुवादिनी हि श्रुतिरियम्; श्रौतत्वे हि प्रकृतिविकारभावः; ततश्च प्राकृतधर्मग्राहित्वं विकारकर्मणः; न तु इह श्रौतत्वम्; अत एव च आवसथ्याग्नौ एतत्कर्म विधीयते, सर्वा च आवृत् स्मार्तैवेति। उपसद्व्रती भूत्वा पयोव्रती सन्नित्यर्थः औदुम्बरे उदुम्बरवृक्षमये, कंसे चमसे वा, तस्यैव विशेषणम् – कंसाकारे चमसाकरे वा औदुम्बर एव; आकारे तु विकल्पः, न औदुम्बरत्वे। अत्र सर्वौषधं सर्वासामोषधीनां समूहं यथासम्भवं यथाशक्ति च सर्वा ओषधीः समाहृत्य; तत्र ग्राम्याणां तु दश नियमेन ग्राह्या व्रीहियवाद्या वक्ष्यमाणाः; अधिकग्रहणे तु न दोषः; ग्राम्याणां फलानि च यथासम्भवं यथाशक्ति च; इति-शब्दः समस्तसम्भारोपचयप्रदर्शनार्थः; अन्यदपि यत्सम्भरणीयं तत्सर्वं सम्भृत्य इत्यर्थः; क्रमस्तत्र गृह्योक्तो द्रष्टव्यः। परिसमूहन-परिलेपने भूमिसंस्कारः। अग्निमुपसमाधाय इति वचनात् आवसथ्येऽग्नाविति गम्यते, एकवचनात् उपसमाधानश्रवणाच्च; विद्यमानस्यैव उपसमाधानम्; परिस्तीर्य दर्भान्; आवृता – स्मार्तत्वात्कर्मणः स्थालीपाकावृत् परिगृह्यते – तया आज्यं संस्कृत्य; पुंसा नक्षत्रेण पुन्नाम्ना नक्षत्रेण पुण्याहसंयुक्तेन, मन्थं सर्वौषधफलपिष्टं तत्रौदुम्बरे चमसे दधनि मधुनि घृते च उपसिच्य एकया उपमन्थन्या उपसम्मथ्य, सन्नीय मध्ये संस्थाप्य, औदुम्बरेण स्रुवेण आवापस्थाने आज्यस्य जुहोति एतैर्मन्त्रैः ‘यावन्तो देवाः’ इत्याद्यैः॥
🔗  ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाह इत्यारभ्य द्वे द्वे आहुती हुत्वा मन्थे संस्रवमवनयति, स्रुवावलेपनमाज्यं मन्थे संस्रावयति। एतस्मादेव ज्येष्ठाय श्रेष्ठायेत्यादिप्राणलिङ्गात् ज्येष्ठश्रेष्ठादिप्राणविद एव अस्मिन् कर्मण्यधिकारः। ‘रेतसे’ इत्यारभ्य एकैकामाहुतिं हुत्वा मन्थे संस्रवमवनयति, अपरया उपमन्थन्या पुनर्मथ्नाति॥
🔗  अथैनम् अभिमृशति ‘भ्रमदसि’ इत्यनेन मन्त्रेण॥
🔗  अथैनम् उद्यच्छति सह पात्रेण हस्ते गृह्णाति ‘आमंसि आमंहि ते महि’ इत्यनेन॥
🔗  अथैनम् आचामति भक्षयति, गायत्र्याः प्रथमपादेन मधुमत्या एकया व्याहृत्या च प्रथमया प्रथमग्रासमाचामति; तथा गायत्रीद्वितीयपादेन मधुमत्या द्वितीयया द्वितीयया च व्याहृत्या द्वितीयं ग्रासम्; तथा तृतीयेन गायत्रीपादेन तृतीयया मधुमत्या तृतीयया च व्याहृत्या तृतीयं ग्रासम्। सर्वां सावित्रीं सर्वाश्च मधुमतीरुक्त्वा ‘अहमेवेदं सर्वं भूयासम्’ इति च अन्ते ‘भूर्भुवःस्वः स्वाहा’ इति समस्तं भक्षयति। यथा चतुर्भिर्ग्रासैः तद्द्रव्यं सर्वं परिसमाप्यते, तथा पूर्वमेव निरूपयेत्। यत् पात्रावलिप्तम्, तत् पात्रं सर्वं निर्णिज्य तूष्णीं पिबेत्। पाणी प्रक्षाल्य आप आचम्य जघनेनाग्निं पश्चादग्नेः प्राक्शिराः संविशति। प्रातःसन्ध्यामुपास्य आदित्यमुपतिष्ठते ‘दिशामेकपुण्डरीकम्’ इत्यनेन मन्त्रेण। यथेतं यथागतम्, एत्य आगत्य जघनेनाग्निम् आसीनो वंशं जपति॥
🔗  ‘तं हैतमुद्दालकः’ इत्यादि सत्यकामो जाबालोन्तेवासिभ्य उक्त्वा उवाच – अपि यः एनं शुष्के स्थाणौ निषिञ्चेत्, जायेरन्नेव अस्मिन् शाखाः प्ररोहेयुः पलाशानि – इत्येवमन्तम् एनं मन्थम् उद्दालकात्प्रभृति एकैकाचार्यक्रमागतं सत्यकाम आचार्यो बहुभ्योऽन्तेवासिभ्य उक्त्वोवाच। किमन्यदुवाचेत्युच्यते – अपि यः एनं शष्के स्थाणौ गतप्राणेऽपि एनं मन्थं भक्षणाय संस्कृतं निषिञ्चेत् प्रक्षिपेत्, जायेरन् उत्पद्येरन्नेव अस्मिन् स्थाणौ शाखाः अवयवा वृक्षस्य, प्ररोहेयुःपलाशानि पर्णानि, यथा जीवतः स्थाणोः; किमुत अनेन कर्मणा कामः सिध्येदिति; ध्रुवफलमिदं कर्मेति कर्मस्तुत्यर्थमेतत्। विद्याधिगमे षट् तीर्थानि; तेषामिह सप्राणदर्शनस्य मन्थविज्ञानस्याधिगमे द्वे एव तीर्थे अनुज्ञायेते, पुत्रश्चान्तेवासी च॥
🔗  चतुरौदुम्बरो भवतीति व्याख्यातम्। दश ग्राम्याणि धान्यानि भवन्ति, ग्राम्याणां तु धान्यानां दश नियमेन ग्राह्या इत्यवोचाम। के त इति निर्दिश्यन्ते – व्रीहि-यवाः, तिल-माषाः, अणु-प्रियङ्गवः अणवश्च अणुशब्दवाच्याः, क्वचिद्देशे प्रियङ्गवः प्रसिद्धाः कङ्गुशब्देन, खल्वाः निष्पावाः वल्लशब्दवाच्या लोके, खलकुलाः कुलत्थाः। एतद्व्यतिरेकेण यथाशक्ति सर्वौषधयो.. ग्राह्याः फलानि च – इत्यवोचाम, अयाज्ञिकानि वर्जयित्वा॥

Go to Top ('Home' key on many Windows browsers)

BrhU.6.04

🔗  यादृग्जन्मा यथोत्पादितः यैर्वा गुणैर्विशिष्टः पुत्र आत्मनः पितुश्च लोक्यो भवतीति, तत्सम्पादनाय ब्राह्मणमारभ्यते। प्राणदर्शिनः श्रीमन्थं कर्म कृतवतः पुत्रमन्थेऽधिकारः। यदा पुत्रमन्थं चिकीर्षति तदा श्रीमन्थं कृत्वा ऋतुकालं पत्न्याः प्रतीक्षत इत्येतत् रेतस ओषध्यादिरसतमत्वस्तुत्या अवगम्यते। एषां वै चराचराणां भूतानां पृथिवी रसः सारभूतः, सर्वभूतानां मध्विति ह्युक्तम्। पृथिव्या आपो रसः, अप्सु हि पृथिव्योता च प्रोता च अपामोषधयो रसः, कार्यत्वात् रसत्वमोषध्यादीनां। ओषधीनां पुष्पाणिपुष्पाणां फलानिफलानां पुरुषःपुरुषस्य रेतः, ‘सर्वेभ्योऽङ्गेभ्यस्तेजः सम्भूतम्’ (AitU.2.1.1) इति श्रुत्यन्तरात्॥
🔗  यत एवं सर्वभूतानां सारतमम् एतत् रेतः, अतः कानु खल्वस्य योग्या प्रतिष्टेति स ह स्रष्टा प्रजापतिरीक्षाञ्चक्रे। ईक्षां कृत्वा स स्त्रियं ससृजेतां च सृष्ट्वा अध उपास्त मैथुनाख्यं कर्म अधउपासनं नाम कृतवान्। तस्मात् स्त्रियम् अध उपासीत; श्रेष्ठानुश्रयणा हि प्रजाः। अत्र वाजपेयसामान्यक्लृप्तिमाह – स एनं प्राञ्चं प्रकृष्टगतियुक्तम् आत्मनो ग्रावाणं सोमाभिषवोपलस्थानीयं काठिन्यसामान्यात् प्रजननेन्द्रियम्, उदपारयत् उत्पूरितवान् स्त्रीव्यञ्जनं प्रति; तेन एनां स्त्रियम् अभ्यसृजत् अभिसंसर्गं कृतवान्॥
🔗  तस्या वेदिः इत्यादि सर्वं सामान्यं प्रसिद्धम्। समिद्धोऽग्निः मध्यतः स्त्रीव्यञ्जनस्य; तौ मुष्कौ अधिषवणफलके इति व्यवहितेन सम्बध्यते। वाजपेययाजिनो यावान् लोकः प्रसिद्धः, तावान् विदुषः मैथुनकर्मणो लोकः फलमिति स्तूयते। तस्मात् बीभत्सा नो कार्येति। य एवं विद्वानधोपहासं चरति आसां स्त्रीणां सुकृतं वृङ्क्ते आवर्जयति। अथ पुनः यः वाजपेयसम्पत्तिं न जानाति अविद्वान् रेतसो रसतमत्वं च अधोपहासं चरति, आ अस्य स्त्रियः सुकृतम् आवृञ्जते अविदुषः॥
🔗  एतद्ध स्म वै तत् विद्वान् उद्दालकः आरुणिः आह अधोपहासाख्यं मैथुनकर्म वाजपेयसम्पन्नं विद्वानित्यर्थः। तथा नाको मौद्गल्यः कुमारहारितः च। किं त आहुरित्युच्यते – बहवो मर्याः मरणधर्मिणो मनुष्याः, ब्राह्मणा अयनं येषां ते ब्राह्मणायनाः ब्रह्मबन्धवः जातिमात्रोपजीविन इत्येतत्, निरिन्द्रियाः विश्लिष्टेन्द्रियाः, विसुकृतः विगतसुकृतकर्माणः, अविद्वांसः मैथुनकर्मासक्ता इत्यर्थः; ते किम्? अस्मात् लोकात् प्रयन्ति परलोकात् परिभ्रष्टा इति। मैथुनकर्मणोऽत्यन्तपापहेतुत्वं दर्शयति – य इदमविद्वांसोऽधोपहासं चरन्ति इति। श्रीमन्थं कृत्वा पत्न्या ऋतुकालं ब्रह्मचर्येण प्रतीक्षते; यदि इदं रेतः स्कन्दति, बहु वा अल्पं वा, सुप्तस्य वा जाग्रतो वा, रागप्राबल्यात्॥
🔗  तदभिमृशेत्, अनुमन्त्रयेत वा अनुजपेदित्यर्थः। यदा अभिमृशति, तदा अनामिकाङ्गुष्ठाभ्यां तद्रेत आदत्ते ‘आददे’ इत्येवमन्तेन मन्त्रेण; ‘पुनर्माम्’ इत्येतेन निमृज्यात् अन्तरेण मध्ये भ्रुवौ भ्रुवोः वा, स्तनौ स्तनयोः वा
🔗  अथ यदि कदाचित् उदके आत्मानम् आत्मच्छायां पश्येत्, तत्रापि अभिमन्त्रयेत अनेन मन्त्रेण ‘मयि तेजः’ इति। श्रीः ह वा एषा पत्नी स्त्रीणां मध्ये यत् यस्मात् मलोद्वासाः उद्गतमलवद्वासाः, तस्मात् तां मलोद्वाससं यशस्विनीं श्रीमतीम् अभिक्रम्य अभिगत्य उपमन्त्रयेत इदम् – अद्य आवाभ्यां कार्यं यत्पुत्रोत्पादनमिति, त्रिरात्रान्ते आप्लुताम्॥
🔗  सा चेदस्मै न दद्यात् मैथुनं कर्तुम्, कामम् एनाम् अवक्रीणीयात् आभरणादिना ज्ञापयेत्। तथापि सा नैव दद्यात्, काममेनां यष्ट्या वा पाणिना वा उपहत्य अतिक्रामेत् मैथुनाय। शप्स्यामि त्वां दुर्भगां करिष्यामीति प्रख्याप्य, तामनेन मन्त्रेणोपगच्छेत् – ‘इन्द्रियेण ते यशसा यश आददेइति। सा तस्मात् तदभिशापात् वन्ध्या दुर्भगेति ख्याता अयशा एव भवति
🔗  सा चेदस्मै दद्यात्, अनुगुणैव स्याद्भर्तुः, तदा अनेन मन्त्रेण उपगच्छेत् ‘इन्द्रियेण ते यशसा यश आदधामि’ इति; तदा यशस्विनावेव उभावपि भवतः
🔗  स यां स्वभार्याम् इच्छेत् – इयं मां कामयेत इति, तस्याम् अर्थं प्रजननेन्द्रियम् निष्ठाय निक्षिप्य, मुखेन मुखं सन्धाय, उपस्थमस्या अभिमृश्य, जपेत् इमं मन्त्रम् – ‘अङ्गादङ्गात्’ इति॥
🔗  अथ यामिच्छेत्न गर्भं दधीत न धारयेत् गर्भिणी मा भूदिति, तस्याम् अर्थम् इति पूर्ववत्। अभिप्राण्य अभिप्राणनं प्रथमं कृत्वा, पश्चात् अपान्यात् – ‘इन्द्रियेण ते रेतसा रेत आददे’ इत्यनेन मन्त्रेण; अरेताः एव भवति, न गर्भिणी भवतीत्यर्थः॥
🔗  अथ यामिच्छेत्दधीत गर्भम् इति, तस्यामर्थम् इत्यादि पूर्ववत्। पूर्वविपर्ययेण अपान्य अभिप्राण्यात् ‘इन्द्रियेण ते रेतसा रेत आदधामि’ इति; गर्भिण्येव भवति
🔗  अथ पुनः यस्य जायायै जारः उपपतिः स्यात्, तं चेत् द्विष्यात्, अभिचरिष्याम्येनमिति मन्येत, तस्येदं कर्म। आमपात्रे अग्निमुपसमाधाय सर्वं प्रतिलोमं कुर्यात्; तस्मिन् अग्नौ एताः शरभृष्टीः शरेषीकाः प्रतिलोमाः सर्पिषा अक्ताः घृताभ्यक्ताः जुहुयात् ‘मम समिद्धेऽहौषीः’ इत्याद्या आहुतीः; अन्ते सर्वासाम् असाविति नामग्रहणं प्रत्येकम्; स एषः एवंवित्, यं ब्राह्मणः शपति, सः विसुकृतः विगतपुण्यकर्मा प्रैतितस्मात् एवंवित् श्रोत्रियस्य दारेण नोपहासमिच्छेत् नर्मापि न कुर्यात्, किमुत अधोपहासम्; हि यस्मात् एवंविद् अपि तावत् परो भवति शत्रुर्भवतीत्यर्थः॥
🔗  अथ यस्य जायाम् आर्तवं विन्देत् ऋतुभावं प्राप्नुयात् – इत्येवमादिग्रन्थः ‘श्रीर्ह वा एषा स्त्रीणाम्’ इत्यतः पूर्वं द्रष्टव्यः, सामर्थ्यात्। त्र्यहं कंसेन पिबेत्, अहतवासाः च स्यात्; नैनां स्नाताम् अस्नातां च वृषलो वृषली वा नोपहन्यात् नोपस्पृशेत्। त्रिरात्रान्ते त्रिरात्रव्रतसमाप्तौ आप्लुत्य स्नात्वा अहतवासाः स्यादिति व्यवहितेन सम्बन्धः; ताम् आप्लुतां व्रीहन् अवघातयेत् व्रीह्यवघाताय तामेव विनियुञ्ज्यात्॥
🔗  स य इच्छेत्पुत्रो मे शुक्लो वर्णतो जायेत, वेदमेकमनुब्रुवीत, सर्वमायुरियात् – वर्षशतं क्षीरौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् ईश्वरौ समर्थौ जनयितवै जनयितुम्॥
🔗  दध्योदनं दध्ना चरुं पाचयित्वा; द्विवेदं चेदिच्छति पुत्रम्, तदा एवमशननियमः॥
🔗  केवलमेव स्वाभाविकमोदनम्। उदग्रहणम् अन्यप्रसङ्गनिवृत्त्यर्थम्॥
🔗  दुहितुः पाण्डित्यं गृहतन्त्रविषयमेव, वेदेऽनधिकारात्। तिलौदनं कृशरम्॥
🔗  विविधं गीतो विगीतः प्रख्यात इत्यर्थः; समितिङ्गमः सभां गच्छतीति प्रगल्भ इत्यर्थः, पाण्डित्यस्य पृथग्ग्रहणात्; शुश्रूषितां श्रोतुमिष्टां रमणीयां वाचं भाषिता संस्कृताया अर्थवत्या वाचो भाषितेत्यर्थः। मांसमिश्रमोदनं मांसौदनम्। तन्मांसनियमार्थमाह – औक्षेण वा मांसेन; उक्षा सेचनसमर्थः पुङ्गवः, तदीयं मांसम्; ऋषभः ततोऽप्यधिकवयाः, तदीयम् आर्षभं मांसम्॥
🔗  अथ अभिप्रातरेव काले अवघातनिर्वृत्तान् तण्डुलानादाय स्थालीपाकावृता स्थालीपाकविधिना, आज्यं चेष्टित्वा, आज्यसंस्कारं कृत्वा, चरुं श्रपयित्वा, स्थालीपाकस्य आहुतीः जुहोति, उपघातम् उपहत्योपहत्य ‘अग्नये स्वाहा’ इत्याद्याः। गार्ह्यः सर्वो विधिः द्रष्टव्यः अत्र; हुत्वा उद्धृत्य चरुशेषं प्राश्नाति; स्वयं प्राश्य इतरस्याः पत्न्यै प्रयच्छति उच्छिष्टम्। प्रक्षाल्य पाणी आचम्य उदपात्रं पूरयित्वा तेन उदकेन एनां त्रिरभ्युक्षति अनेन मन्त्रेण ‘उत्तिष्ठातः’ इति, सकृन्मन्त्रोच्चारणम्॥
🔗  अथैनाम् अभिमन्त्र्य क्षीरौदनादि यथापत्यकामं भुक्त्वेति क्रमो द्रष्टव्यः। संवेशनकाले – ‘अमोऽहमस्मि’ इत्यादिमन्त्रेणाभिपद्यते॥
🔗  अथास्या ऊरू विहापयतिविजिहीथां द्यावापृथिवीइति अनेन। तस्यामर्थम् इत्यादि पूर्ववत्। त्रिः एनां शिरःप्रभृति अनुलोमामनुमार्ष्टिविष्णुर्योनिम्’ इत्यादि प्रतिमन्त्रम्॥
🔗  अन्ते नाम गृह्णाति – असौ इति तस्याः॥
🔗  सोष्यन्तीम् अद्भिरभ्युक्षति प्रसवकाले सुखप्रसवनार्थम् अनेन मन्त्रेण – ‘यथा वायुः पुष्करिणीं समिङ्गयति सर्वतःएवा ते गर्भ एजतु’ इति॥
🔗  अथ जातकर्म। जातेऽग्निमुपसमाधाय अङ्के आधाय पुत्रम्, कंसे पृषदाज्यं सन्नीय संयोज्य दधिघृते, पृषदाज्यस्य उपघातं जुहोतिअस्मिन्सहस्रम्’ इत्याद्यावापस्थाने॥
🔗  अथास्य दक्षिणं कर्णमभिनिधाय स्वं मुखम् ‘वाग्वाक्इति त्रिः जपेत्। अथ दधि मधु घृतं सन्नीय अनन्तर्हितेन अव्यवहितेन जातरूपेण हिरण्येन प्राशयति एतैर्मन्त्रैः प्रत्येकम्॥
🔗  अथास्य नाम-धेयं करोतिवेदोऽसि’ इति। तदस्य तद्गुह्यं नाम भवति – वेद इति॥
🔗  अथैनं मात्रे प्रदाय स्वाङ्कस्थम्, स्तनं प्रयच्छतियस्ते स्तनः’ इत्यादिमन्त्रेण॥
🔗  अथास्य मातरमभिमन्त्रयतेइला असि’ इत्यनेन। तं वा एतमाहुः इति – अनेन विधिना जातः पुत्रः पितरं पितामहं च अतिशेते इति श्रिया यशसा ब्रह्मवर्चसेन परमां निष्ठां प्रापत् – इत्येवं स्तुत्यो भवतीत्यर्थः। यस्य च एवंविदो ब्राह्मणस्य पुत्रो जायते, स च एवं स्तुत्यो भवतीत्यध्याहार्यम्॥

Go to Top ('Home' key on many Windows browsers)

BrhU.6.05

🔗  अथ इदानीं समस्तप्रवचन-वंशः स्त्रीप्राधान्यात्। गुणवान्पुत्रो भवतीति प्रस्तुतम्; अतः स्त्रीविशेषणेनैव पुत्रविशेषणात् आचार्यपरम्परा कीर्त्यते। तानीमानि शुक्लानीति अव्यामिश्राणि ब्राह्मणेन। अथवा यानीमानि यजूंषि तानि शुक्लानि शुद्धानीत्येतत्। प्रजापतिमारभ्य यावत्पौतिमाषीपुत्रः तावत् अधोमुखो नियताचार्यपूर्वक्रमो वंशः समानम्साञ्जीवीपुत्रात्; ब्रह्मणः प्रवचनाख्यस्य; तच्चैतत् ब्रह्म प्रजापति-प्रबन्धपरम्परया आगत्य अस्मास्वनेकधा विप्रसृतम् अनाद्यनन्तं स्वयम्भु ब्रह्म नित्यम्; तस्मै ब्रह्मणे नमः। नमस्तदनुवर्तिभ्यो गुरुभ्यः॥

Go to Top ('Home' key on many Windows browsers)

🔗  ओं, पूर्ण॒म् अदः॒ पूर्ण॒म् इदं॒ पूर्णा॒त् पूर्ण॒म् उद॒च्यते।
पूर्ण॒स्य पूर्ण॒म् आदा॒य पूर्ण॒म् एवावशि॒ष्यते।
ओं शा॒न्तिः शा॒न्तिः शा॒न्तिः॥

Om, pūrṇa, adas, pūrṇa, idam, pūrna, pūrṇa, ud-√añc.
pūrṇa, pūrṇa, ādāya, pūrṇa, eva, ava-√śiṣ.
Om, śānti, śānti, śānti.

॥इति बृहद्-आरण्यक-उपनिषद् समाप्ता॥