हि = बर्द्धने गतौ च स्वा० पर० सक० अनिट्। हिनोति अहैपीत् जिघाय।

हि = अव्य० हा–हि–वा डि। १ हेतौ २ अवधारणे अमरः। ३ विशेषे ४ प्रश्ने ५ सम्भ्रमे ६ हेतूपदेशे ७ असूयायां च मेदि० ८ पादपूरणे ९ शोके च शब्दर०।

हिंसक = पु० हिन्स–ण्वुल्। १ व्याघ्रादौ हिंस्ने पशौ २ शत्री च ३ आथर्वणे विप्रे ४ हिंसाकारके त्रि० शब्दर०। “भोक्तानुमन्ता संस्कर्त्ता क्रयिविक्रयिहिंसकाः। उपहर्त्ता वातयिता हिंसकाश्चाष्टधा मताः” काशीख०।

हिंसा = स्त्री हिनस–अ। १ बधे मेदि०। २ चौर्य्यादिकर्मणि च अमरः। “हिंसा चैव न कर्त्तव्या वैधहिंसा तु राजसी। ब्राह्मणैः स न कर्त्तव्या यतस्ते सात्त्विका मताः” वृह न्मनुः। वैधहिंसाशब्दे ४९७५ पृ० दृश्यम्।

हिंसारु = पु० हिन्स–आरु। व्याघ्रे त्रिका०।

हिंसालु = पु० हिसा + अस्त्यर्थे आलु। १ हिंसाशीले उणा०। २ कुक्कुरे पु० हारा०।

हिंसीर = पु० हिंसा–ईरन्। १ व्याघ्रे २ खगे च उणा०।

हिंस्र = त्रि० हिन्स–र। १ हिंसाशीले अमरः। २ षोरे ३ भये ४ भीमसेने ५ हरे पु० उणा०। ६ मांस्यां ७ काकादन्यां ८ जटामांस्याम् ९ एलुवालुकायां १० गवेधुकायां ११ सिरायाम् १२ नाड्यां च स्त्री शब्दच०।

हिक्क = कूजने भ्वा० उ० अ० सेट्। हिक्कति ते अहिक्कीत् अहिक्किष्ट।

हिक्क = हिसायां चु० आ० सक० सेट्। हिक्कयते अजिहिक्कत।

हिक्का = स्त्री हिगिति शब्दं करोतीति पृषो०। रोगभेदे (हेचकी) अमरः। तन्निदानादिकं भावप्र० उक्तं यथा “अथ हिक्काधिकारः। तत्र हिक्कायाः विप्रकृष्टं निदानमाह “विदाहिगुरुविष्टम्भिरूक्षाभिव्यन्दिभोजनैः। शीतपानाशनस्नानरजोधूमात्तथाऽनिलैः। व्यायामकर्मभाराध्ववेगाघातापतर्पणैः। हिक्का श्वासश्च कासश्च नृणां समुपजायते”। अपतर्पणमनशनादि। संप्राप्तिमाह “वायुः कफेनानुगतः पञ्च हिक्काः करोति हि। अन्नजां यमलां क्षुद्रां गम्भीरां महतीं तथा”। सामान्यलक्षणमाह “मुहुर्मुहुर्वायुरुदेति सस्वनः यकृत्प्लिहान्त्राणि मुखादिवाक्षिपन्। सदोषवानाशु हिनस्त्य शून्यतस्ततस्तु हिक्केत्यमिधीयते बुधैः”। वायुरत्न सोदानः प्राणो बोद्धव्यः। उदेति ऊर्द्ध्वं याति। सस्वनः शब्दवान्। ऊर्द्ध्वगमनंविशिनष्टि यकृदित्यादि प्लिह इति शब्दोऽप्यस्ति दीर्घत्व विकल्पात्। सुखादिति ल्यब् लोपे पञ्चमी तेन यकृत्प्लीहान्त्राणि मुखमानीय आक्षिपन् निःसारयन् इवेत्यर्थः। वायुः दोषवान् दोषोऽत्र कफः तद्वान् वायुः कफेनानुगत इति सम्प्राप्तिः। हिनस्त्रीति हिक्का पृषोदरादित्वाद्रूपसिद्धिः हिगिति शब्दं करोतीति वा। पूर्वरूपमाह “कण्ठोरलोर्गुरुत्थञ्च वदनस्य कपायता। हिक्कानां पूर्वरूपाणि कुक्षेराटोप एव च”। वदनस्य कषायता वातात्। अन्नजालक्षणमाह “पानान्नैरतिसंयुक्तैः सहसा पीडितोऽनलः। हिक्कयत्थूर्द्धगो भूत्वा तां विद्यादन्नजां भिषक्” अनिलः प्राणो वायुः। यमलालिङ्गमोह “चिरेस यम- लैर्वेगैर्या हिक्का सम्प्रवर्त्तते। कम्पयन्ती शिरोग्रीवां यमलां तां विनिर्दिशेत्”। क्षुद्रामाह “विकृष्टकालैर्या वेगैर्मन्दैः समभिवर्त्तते। क्षुद्रिका नाम सा हिक्का जत्रुमूलं प्रधावति”। विकृष्टकालैः चिरेण। जत्रुः कक्षो रसोः सन्धिः। भमीरामाह “नाभिप्रवृत्ता या हिक्का घोरा गम्भीरनादिनी। अनेकोपद्रववती गम्भीरा नाम सा स्मृता”। अनेकोपद्रववती तृष्णाज्वरादियुक्ता। महतीमाह “मर्माणि पीडयन्तीव सततं या प्रवर्त्तते। महाहिक्केति सा ज्ञेया सर्वगात्रप्रकम्पिनी”। मर्माणि वस्तिहृदयशिरःप्रभृतीनि। असाध्यत्वमाह “आयम्यते हिक्कितो यस्य देहो दृष्टिश्चोर्द्ध्वं ताम्यते नित्यमेव। क्षीणोऽन्नद्विट् क्षौति यश्चातिमात्रं तौ द्वौ चान्त्यौ वर्जयेद्धिक्कवन्तौ। आयम्यते विस्तार्य्यत इव तौ द्वाविति आयम्यत इत्यादिना नित्यमेवेत्यन्तेनैको हिक्कमानः। क्षीण इत्यादिनाऽतिमात्रमित्यन्तेनापरः। तौ द्वौ अन्त्यौ च गम्भीरया महतीहिक्कया हिक्कमानौ वर्जयेत्। अपरञ्च “अतिसञ्चितदोषस्य भक्तद्वेष कृशस्य च। व्याधिभिः क्षीणदेहस्य वृद्धस्यातिव्यवायिनः। आयासाच्च समुत्पन्ना हिक्का हन्त्याशु जीवितम्। यमिका च प्रलापार्तिमोहतृष्णासमन्विता”। साध्यत्वमाह “अखीणस्याप्यदीनस्य स्थिरधात्विन्द्रियस्य च। तस्य साधयितुं शक्या यमिका हन्त्यतोऽन्यथा”।

हिङ्गु = न० हिमं गच्छति गम–डु नि०। (हिङ्) रामठदेशोद्भवे वृक्षे अमरः यस्य निर्यासो हिङ्गुद्रव्यम्। “हिङ्गूष्णं पाचनं रुच्यं तीक्ष्णं वातबलासहृत्। रसे पाके च कटुकं स्निग्धञ्च वह्निदीपनम्। शूलगुल्मोदरानाहकृमिध्नं पित्तवर्द्धनम्” भावप्र०। “हिङ्गु तीक्ष्णं कटुरसं शूलाजीर्णविबन्धनुत्। लघूष्णं पाचनं स्निग्धं दीपनं कफवातजित्” राजव०। २ वंशपत्रे भावप्र०

हिङ्गुनाडिका = स्त्री हिङ्गुन नाडी इव नाडी यस्याः कप्। नाडीहिङ्गौ राजनि०।

हिङ्गुनिर्यास = पु० हिङ्गुन इव निर्यासोऽस्य। १ निम्बवृक्षे अमरः ६ त०। २ हिङ्गुवृक्षनिर्यासे च (हिङ्)।

हिङ्गुपत्र = पु० हिङ्गुन इव पत्त्रमस्य। १ इङ्गुदीवृक्षे राजनि० (हिङ्पात) २ वृक्षभेदे स्त्री ङीप् मरतः।

हिङ्गुपर्णो = हिङ्गुन इव पर्णमस्याः गौरा० ङीष्। वंशप त्र्याम् रत्नमाला।

हिङ्गुल = पुंन० हिङ्गु तद्वर्णं साति सा–क। रक्तवर्णे वर्णकद्रव्यभेदे अमरः २ वार्त्ताक्यां ३ वृहत्याञ्च स्त्री ङीष् वर्णकभेदे तस्य शोधनाटिकं भावप्र० उक्तं यथा “मेषीक्षीरेण दरदमम्लवर्गैश्च भावितम्। सप्त वारान् प्रयत्नेन शुद्धिमायाति निश्चितम्”। एवं शीधितस्य हिङ्गुलस्य गुणाः। “तिक्तं कृषायं कटु हिङ्गुलं स्यान्नेत्रामयघ्नं कफपित्तहारि। हृल्लासकण्डूज्वरकामलांश्च प्लाहामवातौ च गरं निहन्ति”। अथ हिङ्गुलाद्रसाकर्षणविधिः “निम्बूरसैर्निम्बपत्ररसैर्वा याममात्रकम्। घृष्ट्वा दरदमूर्द्धन्तु पातयेत् सूतयुक्तिवत्। तत्रोर्द्धपिठरीलग्मं गृह्णीयाद्रसमुत्तमम्। शुद्धमेव हितं सूतं सर्वकर्मसु योजयेत्”। तल्लक्षणं दरदशब्दे ३४७१ पृ० दृश्यम्। सतीदेहब्रह्मरन्ध्रपातस्थाने ४ देशविशेषे स्त्री (हिङ्लाट्)। “ब्रह्मरन्ध्रं हिङ्गुलायां देवता भीमलोचना। कोटबी सा महामाया त्रिगुणा या दिगम्बरी” पीठमा०।

हिङ्गुलु = पुंन० हिङ्गु तद्वर्णं लाति ला–डु। (हिङ्गुल) वर्णकद्रव्ये अमरः।

हिङ्गुसिराटिका = स्त्री हिङ्गुन इव सिरां पत्त्रसिरामटति अट–ण्वुल् अत इत्त्वम्। वंशपत्त्र्याम् रत्नमा०।

हिङ्गूल = न० हिङ्गुल + पृषो०। मधुरमूले (आलु) शब्दच०।

हिज्ज = पु० हितोति हि–क्विप् तथा सन् जायते जन–ड कर्म०। हिज्जववृक्षे शब्दर०।

हिज्जल = पु० हि–क्विप् हित् हितकारि जलं यस्य। वृक्षभेदे (हिजल) जटा०

हिञ्जीर = पु० हस्तिपादबन्धे हेमच०।

हिड = गतौ भ्रमणे भ्वा० आ० सक० सेट् इदित्। हिण्डते अंहिण्डिष्ट।

हिडिम्ब = पु० १ राक्षसभेदे स हि भींमेन हतः २ तद्भगिन्यां स्त्री

हिडिम्बजित् = हिडिम्बं राक्षसभेदं जितवान् जि–क्विप्। भीमसेने हिडिम्बशत्रुप्रभृतयोऽप्यत्र।

हिडिम्बापति = पु० ६ त०। १ हनुमति शब्दर० २ भीमसेने भार० आ०।

हिण्डन = न० हिडि–ल्युट्। १ भ्रमणे २ रमणे मेदि०। ३ लेखने च विश्वः।

हिण्डिक = पु० हिडि–इन् हिण्डो कायति कै–क। लग्नाचार्व्ये हारा०

हिण्डि(ण्डी)र = पु० हिडि–इरन् ईरन् वा। १ समुद्रफेने अमरः। २ वार्त्ताकौ ३ पुरुषे मेदि० ४ रुचके च उणा०।

हिण्डी = स्त्री हिडि–इन् ङीप्। दुर्गायां त्रिका०।

हिण्डीप्रियत्रम = पु० ६ त०। शिवे शब्दर० हिण्डीपत्यादयोऽप्यत्र।

हित = त्रि० धा–क्त हि–क्त वा। १ गते २ पथ्ये ३ इष्टसाधने ४ मङ्गले च।

हितक = पु० हित + स्यार्थे क। शिशौ राजनि०।

हितकारिन् = त्रि० हितं करोति कृ–णिनि। शुभकाररे।

हितप्रणी = पु० हितं प्रणयति प्र + णी क्विप्। चारे शब्दर०।

हितावली = स्त्री हितम् आवलयति आ + वल–इन् ङीप् ओषषिभेदे अमरः।

हितैषिन् = त्रि० हितमिच्छति इष–णिनि। हितेच्छा कारिणि स्त्रियां ङीप्।

हितोपदेश = पु० हितस्य इष्टसाधनस्य उपदेशः। १ हितस्य उपदेशे विष्णुशर्मकृते २ नीतिग्रन्थभेदे च।

हिन्ताल = पु० हीनस्तालो यस्मात पृषो०। (हे~ताल) वृक्षे अमरः “हिन्तालो मधुराम्लश कफकृत् पित्तदाहनुत्। श्रम० ष्णापहारी च शिशिरो वातदोषकृत्” राजनि०।

हिन्दोल = पु० हिल्लोल + घञ् पृषो०। १ श्रावणशुक्लपक्षविहिते दोलनयन्त्रेण भनवतो दोलनरूपे २ उत्सवभेदे ३ रागभेदे च सङ्गीतदा०। ४ दोलायां स्त्री स्वार्थे क। यानभेदे जटा०।

हिन्दु = पु० हीनं दषयति दुष + डु पृषो०। जातिभेदे। “पश्चिमाम्नायमन्त्रास्तु प्रोक्ताः पारखभाषया। अष्टोत्तरशताशीतिर्येषां संसाधनात् कसौ। पञ्च खानाः सप्तमीरा नव शाहा महाबलाः। हिन्दुधर्मप्रलोप्तारो जायन्वे चक्रवर्त्तिनः। हीनञ्च दूषयत्येव हिन्दुरित्युच्यते प्रिये!। पूर्वाम्नाये नवशतं षडशीतिः प्रकीर्त्तिताः। फिरिङ्गभाषया मन्त्रास्तेषां संसाधनात् कलौ। अधिपा मण्डलानाञ्च सग्रामेष्वपराजिताः। इरेजा नवषट्पञ्च लण्ड्रजाश्चापि भाविनः” मेरुतन्त्रे २३ प्र०। अप्रमाणमिदम्।

हिम = न० हि–मक्। १ आकाशच्युते जलकश्चे २ शीतलस्पर्शे ३ तद्वति त्रि० अमरः। ४ सूक्ष्मैलायां ५ रेणुकायां ६ भद्रमुस्तायाम् ७ नागरमुस्तायां ८ पृक्कायां ९ चणिकायां च स्त्री राजनि०। १० अग्रहायणपौपमासात्मके ऋतुभेदे ११ चन्दनवृक्षे पु० हेमच० १२ कर्पूरे पु० राजनि०।

हिमक = पु० हिमेन कायति कै–क। विकङ्कतवृक्षे राजनि०।

हिमकर = पु० हिमः करः किरणो यस्य हिम करोति निषेवणात् कृ–अच् वा। १ चन्द्रे २ कर्पूरे च राजनि०। हिमकिरणादयोऽप्यत्र।

हिमकूट = पु० हिमस्य कूटं यत्र। १ शिशिरर्त्तौ राजनि० हिमप्रचुर कूटमस्य। २ हिमगिरौ हिमालयपर्वते।

हिमगिरि = पु० हिममयो निरिः हिमप्रधानो वा गिरिः। हिमालयपर्वते हिमपर्वतादयोऽप्यत्र।

हिमज = पु० हिमात् हिमालयात् जायते जन–ड। १ मैनाकपर्वते। १ पार्वत्या २ शठ्यां स्त्री मेदि०। हिमे हिमकाले जायते जन–ड। ४ क्षीरिण्यां लतायां स्त्री राजनि०।

हिमझण्टि = पु० झटि इन् ६ त०। कुज्झटौ हारा०।

हिमतैल = पु० हिमवीर्य्यं तैलम्। कर्पूरजाते तैले राजनि०।

हिमदुग्धा = स्त्री हिमवीर्य्यकरं दुग्धमस्याः। क्षीरिण्याम् राजनि०।

हिमदुर्दिन = न० हिमहेतुकं दुर्दिनम् शाक०। हिमपातेन दुःखकरे दिने कुज्झटिकायुक्तदिने त्रिका०।

हिमद्रुम = पु० हिमप्रधाने जायमानः द्रुमः। निम्बवृक्षे राजनि०

हिमप्रस्थ = पु० हिमः शीतलः प्रस्थो यस्य। हिमालयपर्वते हेमच०।

हिमबालुक = पु० हिममयी बालुकेव अंशो यस्य। कर्पूरे राजनि०।

हिमबालुका = स्त्री हिमस्य बालुकेव। कर्पूरे अमरः।

हिमवत् = पु० हिमानि प्राचुर्य्येण सन्त्यस्य मतुप् मस्य कः। हिमालयपर्वते हेमच०।

हिमवत्सुत = पु० ६ त०। १ मैनाकपर्वते २ गङ्गायाम् ३ उमायाञ्च स्त्री। “गङ्गा हिमवतो जज्ञे सर्वलोकैकपावगी। स योगाम्बिबलाद्देवीं लेभे पुत्रीं महेश्वरीम्” देवीपु०। २ अ०।

हिमशर्करा = पु० हिमप्रधाना शर्करा शा० त०। वावनाले राजनि०।

हिमशैल = पु० हिमप्रधाना शैलः। हिमाचले।

हिमशैलजा = स्त्री हिमशैलाज्जायते जन–ड। १ उमायां शब्दर० २ गङ्गायाम्।

हिमसंहति = स्त्री ६ त०। १ हिमसमूहे २ हिमेन कृतसङ्खाते (वरफ) पदार्थे च अमरः।

हिमहासक = पु० हिमं हसति शीतवीर्य्यत्वात् हस–ण्वुल्। हिन्तालवृक्षे जटा०।

हिमांशु = पु० हिमा अंशवोऽस्य। १ चन्द्रे अमरः २ कर्पूरे च राजनि०।

हिमांश्वभिख्य = न० हिमांशोभरवातिख्या शोभा यस्य। रोप्ये हेमच०। तस्य अतिशुभत्वात् तथात्वम्।

हिमागम = पु० हिमस्यागमो यत्र। हेमन्ते अग्रहायणपौषमासात्मके ऋतौ राजनि०।

हिमाद्रिजा = स्त्री हिमाद्रौ हेमाद्रेर्वा जायते जन–ड। १ क्षीरिर्ण्या राजनि०। २ पार्वत्यां ३ गङ्गायाञ्च।

हिमाद्रितनया = स्त्री ६ त०। १ दुर्गायां २ गङ्गायाञ्च हिमाद्रिसुतादयोऽप्यत्र। ३ मैनाके पु०।

हिमानी = स्त्री हिमानां संहतिः हिम + ङीप् आनुक् च। हिमसमूहे अमरः “आगता वत जरेव हिमानी” उद्भट।

हिमाराति = पु० ६ त०। १ सूर्य्ये २ वह्नौ मेदि० ३ अर्कवृक्षे ४ चित्रकवृक्षे च।

हिमालय = पु० हिमानामालयः। १ हिमवत्पर्वते त्रिका०। हिमप्रधान आलया यस्य। २ शुक्लखदिरे शब्दच०। ३ भूम्यामलक्याञ्च स्त्री राजनि०। स च नगः भारतवर्षस्य सीमापर्वतः। जम्बुद्वीपशब्दे दृश्यम्।

हिमाब्ज = न० हिमकाले अप्सु–जायते जन–ड। उत्पले राजनि०।

हिमावती = स्त्री हिमं हिमवीर्य्यं विद्यतेऽस्य सेवने मतुप् मय्य वः संज्ञायां दीर्घः। स्वर्णक्षीर्य्याम् अमरः।

हिमाश्रया = स्त्री हिमं हिमवीर्य्यमाश्रयति आ + श्रि–अच्। स्वर्णजीवन्त्याम् राजनि०।

हिमोत्तरा = स्त्री हिममुत्तरं यस्याः मेवने शीतवीर्य्यकरत्वात्। कपिलद्राक्षायाम् राजनि०।

हिमोत्पन्ना = स्त्री हिमे उत्पन्ना। यावनाल्यां राजनि०।

हिमोद्भवा = स्त्री हिमे तत्प्रधानस्थाने उद्भवति उद्–भूअच्। शठ्याम् राजनि०।

हिरण = न० हृ–ल्युट् नि०। १ रेतसि २ स्वर्णे ३ वराटके च मेदि०।

हिरण्मय = त्रि० हिरण्यात्मकम् मयट् नि०। १ हिरण्यात्मके स्त्रियां ङीप्। “हिरण्मयी शाललतेव जङ्गमा” भट्टिः। जम्बुद्वीपे नववर्षमध्ये २ वर्षभेदे न० त्रिका०। “उत्तरेणेलावृतं नीलः श्वेतः शृङ्गवान् इति त्रयो रम्यकहिरण्मयकुरूणां वर्षाणां मर्य्यादागिरयः प्रागातता उभयतः क्षारोदाबघयो द्विसहस्ययोजन पृथव एकैकशः पूर्वस्मात् पूर्वस्मात्तदुत्तरोत्तरं दशांशाधि कांशेन दैर्घ्य एव ह्रसन्ति” भाग० ५। १६ अ०।

हिरण्य = न० हिरणमेव स्वार्थे यत्। १ सुवर्णे २ धुस्तूरे अमरः। ३ रेतसि शब्दर०। ४ द्रव्ये ५ वराटके ६ अक्षये ७ मानभेदे ८ अकुप्ये मेदि० ९ रजते १० धने च।

हिरण्यकशिपु = पु० दैत्यविशेषे। स तु कश्यपात् दित्यां जातः “दिप्याः पुत्रद्वयं जज्ञे कश्यपादिति नः श्रुतम्। हिरण्याक्षश्च दुद्धर्षो हिरण्यकशिपुस्तथा” “हिरण्यकशिपु र्दैत्यश्चचार परमं तपः। ततो वर्षसहस्राणि निराहारो ह्यधःशिराः। तं ब्रह्मा छन्दयामास दैत्यं तुष्टो वरण तु। सर्वामरत्वं वव्रे स शस्त्रास्त्रेर्न दिवा निशम्। अहं सर्वं विनिजित्य सर्वदेवत्वमास्थितः। अणिमादिगुणैश्वर्य्यमेष मे दीयतां वरः। तेनैवमुक्तो ब्रह्मा तु तस्मै दत्त्वा यथेप्सितम्। दत्त्वा चास्य सभां दिव्यां तत्रैवान्तरधीयत। हिरण्यकशिपुर्दैत्यः श्लोकैर्गीतः पुरातनः। राजा हिरण्यकशिपुर्दैत्यो यां यां निषेवते। तस्यां तस्यां नमश्चक्रुर्देवता ऋषिमिः सह। एवंप्रभावो दैत्योऽभूत् हिरण्यकशिपुः पुरा। स्वय- मग्निश्च चन्द्रश्च वायुरिन्द्रो जलं स्वयम्। भूत्वा चकार राज्यं स मन्वन्तरचतुर्दश। तस्यासीत् नरसिंहस्तु मृत्युर्विष्णुः पुरा किल। नखैस्तेन विनिर्भिन्नो नार्द्रशुष्का नखाः स्मृताः” वह्निपु०।

हिरण्यकशिपुहन् = पु० हन–क्विप् ६ त०। विष्णौ।

हिरण्यकामधेनु = स्त्री विधानेन हिरण्यरचिता कामधेनुः। तुलादिषोडशमहादानमध्ये दानार्थं हिरण्येन कल्पितायाम् १ धेनौ उपचारात् २ तद्दाने च। तद्दानविधिः “अथातः संप्रवक्ष्यामि कामधेनुविधिं षरम्। सर्वकामप्रदं नॄणां महापातकनाशनम्। लोकेशावाहनं तद्वद्धोमः कार्य्योऽधिवासनम्। तुलापुरुषवत् कुर्य्यात् कुण्डमण्डषवेदिकाः। स्वल्पेष्वेकाग्निमत् कुर्य्यात् गुरुरेव समाहितः”। कुण्डमण्डपवेदिका इत्युपलक्षणम्। इह हि देशकालवृद्धिश्राद्धशिवादिपूजाब्राह्मणवाचनगुरु ऋत्विग्वरणमधुषर्कदानयेदिकोपरिचक्रलेखनपञ्चवर्णवितानतोरणपताकादिकं सर्वं मत्स्यपुराणोक्ततुलापुरुषदानविहितं वेदितव्यम्। स्वल्पेष्वेकाग्निमदिति, एकाग्निमत्करणं व्याख्यातम्। “काञ्चनस्यातिशुद्धस्य धेनुं वत्सञ्च कारयेत्। उत्तमा पलसाहस्रैस्तदर्द्धेन तु मध्यमा। कनीयसी तदर्द्धेन कामधेनुः प्रकीर्त्तिता। शक्तितस्त्रिपलादूर्द्ध मशक्तोऽपीह कारयेत्”। अत्र यद्यपि वत्सपरिमाणमनुक्तं तथापि कामधेनुविधानवत् तप्तकाञ्चनचतुर्थांशेन वत्सः कल्पनीयः। समस्तथेनुपरिमितद्रव्यनिष्कृष्टवत्सनिर्माणव्याप्तिदर्शनादिहापि धेनुदानत्वाविशेषात् तथैव गिश्चीयते। तथा च गुडधेन्वादिषु “तच्चतुर्थांशेन वत्सः स्यादिति” तत्र तत्र वक्ष्यते। “वेद्यां कृष्णाजिनं न्यस्य गुडप्रस्थसमन्वितम्। न्यसेदुपरि तां धेनुं महारत्नैरलङ्कृताम्। कुम्भाष्टकसमोपेतां नानाफलसमन्विताम्”। कल्पतरुदाने, प्रस्थो व्याख्यातः। “महारत्नानि पद्मरागप्रमृतीनि, “वत्सं दक्षे तु विन्यसेदिति” क्वचित्पाठः, नानाफलानि गोगजवाजिस्त्रीपुरुषप्रभृतीनि सौबर्णानि कल्पतरुदानोक्तानि। “तथाष्टादश धान्यानि समन्तात् परिकल्पयेत्। इक्षुदण्डाष्टकं तद्वन्नानाफलसमन्वितम्। भाजनं चासनं तद्वत् ताम्रदोहनकं तथा”। अष्टादश धान्यानि परिभाषायां द्रष्टव्यानि नानाफलानि मातुलिङ्गादीनि। “कौशेयवस्त्र द्वयसम्प्रयुक्ताम् दीपातपत्राभरणाभिरामाम्। सचामरां कुण्डलिनीं मघण्टां गणित्रिकापादुकरौप्यपादाम्। रसैश्च सर्वैः परितोऽभिजुष्टां हरिद्रया पुष्पफलैरनेकैः। अजाजिकुस्तुम्बुरुशर्कराभिः वितानकं चोपरि पञ्चवर्णम्। स्नातस्ततो मङ्गलवेदघोषैः प्रदक्षिणीकृत्य सपुष्पहस्तः। आवाहयेत् ताङ्गडधेनुमन्त्रैः द्विजाय दद्यादथ दर्भपाणिः” हेमा० दा० मत्स्यपु०।

हिरण्यकोष = पु० हिरण्यस्य कोष इव। कृताकृतस्वर्णरौप्ये हेमच०।

हिरण्यगर्भ = पु० हिरण्यं स्वर्णमयाण्डं गर्भ उत्पत्तिस्थानमस्य। १ चतुर्मुखे ब्रह्मणि तस्य हैमाण्डप्रभवत्वात्तथात्वम् “तदण्डमभवद्धैमं सहस्रांशुसमप्रभम्। तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः” मनूक्तेः। तुलादिषोडषमहादानमध्ये दानार्थं स्वर्णादिना कल्पिते २ हिरण्यगर्भाख्ये पात्रे २ उपचारात्तद्दाने ४ शालग्राममूर्त्तिभेदे च शालग्रामशब्दे दृश्यम्। तस्य दानधिश्च हेमा० दा० मत्स्यपु० “अथातः संप्रवक्ष्यामि महादानमनुत्तमम्। हेम्ना हिरण्यगर्भाख्यं महापातकनाशनम्। पुण्यं दिनमथासाद्य तुलापुरुषदानवत्। ऋत्विग्मण्डपसम्भारभूषणाच्छादनादिकम्। कुर्य्यादुपोषितस्तद्वल्लोकेशावाहन बुधः। पुण्याहवाचनं कृत्वा तद्वत् कृत्वाधिवासनम्”। अत्र देशकालवृद्धिश्राद्धशिवादिपूजाब्राह्मणवाचनगुरुऋत्विग्वरणमधुपर्कदानकुण्डमण्डपवेदिसम्भारहोमाचिवासनादिसर्वं हिरण्यगर्भादिपञ्चदशमहादानप्रकृतिमूतं मतस्यपुराणोक्ततुलापुरुषटानविहितं वेदितव्यम्। “ब्राह्मणैरानयेत् कुण्डं तपनीयमयं शुभम्। द्वासप्तत्यङ्गुलोच्छ्रायं हेमपङ्कजगर्भवत्। त्रिभागहीनविस्तारं प्रशस्तं मुरजाकृति”। कुण्डमिति, हिरण्यगर्भाख्यं पात्रं, तपनीय मयं, स्वर्णमयं हेमपङ्कजम् तदेव नामिशब्दवाच्यं, त्रिभानहीनविस्तारमिति, अष्टाचत्वारिंशदङ्गुलविस्तारमित्यर्थः। मुरजाकृति, मृदङ्गाकृति। आज्यक्षीरातिपूरितमिति क्वचित्पाठः। तत्र घृतक्षीरे तुल्यपरिमाणे, यद्यपि चातिपूरितमित्युच्यते तथापि यजमानप्रवेशेन यथा तन्न वहिरुच्छसति तथा पूरणीयम्। “दशान्त्राणि सरत्नानि दात्रं सूर्चीं तथैव च। हेमनालं सपिटकं बहिरादित्यसंयुतम्। तथैवावरणं नाभेरुपवीतञ्च काञ्चनम्। पार्श्वतः स्थापयेत् तद्वद्धेमदण्डं कमण्डलुम्”। दशान्त्राणि, दशखण्डानि, अभ्राणोति क्वचित्पाठः। तानि काञ्चनानि अभ्राकारतया, अभ्राणीति। अभ्रं खनित्रभिति केचित्, रत्नानि पञ्च प्रसिद्धानि, सपिटकं, मञ्जूषान्वितं वहिरिति। हेमकुण्डाद् बाह्यप्रदेशे पार्श्वतः स्थापयेदित्यनेन सम्बन्धः। वह्निमास्करसंयुतमिति च पाठान्तरम् “वह्निभास्करयोर्लक्षणं ब्रह्माण्डदाने वक्ष्यते। वह्निमाप्यपसंयुतमिति, वा पाठ तदा आप्यपः वरुणः”। तल्लक्षणमपि तत्रैव, नाभेरावरणमिति, नाभ्यावरणार्थं सौवर्णं वस्त्रं दात्रादीन्यपि सुवर्णमयान्येव कार्य्याणि। “पद्माकारं बिधानं स्यात् समन्तादङ्गुलाधिकम्। मुक्तावलीसमोपेतं पद्मरागदलान्वितम्। तिलद्रोणोपरिगतं वेदीमध्ये ततोऽर्चयेत्”। द्रोणः परिभाषायां व्याख्यातः। इह खलु हिरण्यगर्भनिर्माणसुवर्णपरिमाणस्यानाम्नानात् यावता यजमानस्य प्रवेशावारणोपायिकं कुण्डं भवति तावता घटनीयं, तच्च वेदिकामध्ये लिखितचक्रस्योपरि तिलद्रोणं निधाय तदुपरि संस्थाप्य पूजयेत्। अथ तुलापुरुषदानतदधिवासनदिनादन्येद्युर्ब्राह्मणवाचर्न विधाय पूर्णाहुतिप्रभृतिकमंशेषसमाप्तिं कुर्य्यात्। ततश्च कुण्डसमीपवर्त्तिकलशजलैः पूर्ववदभिषेकः, तदुच्यते। “ततो मङ्गलशब्देन ब्रह्मघाषरवेण च। सर्वौषध्योदकस्रानं स्नापितो वेदपुङ्गवैः”। सर्वौषध्यः, व्याख्याताः, “शुक्लमाल्याम्बरधरः सर्वामरणभूषितः। इममुच्चारयेन्मन्त्रं गृहीतकुसुमाञ्जलिः। नमो हिरण्यगर्भाय हिरण्यकवचाय च। सप्तलोकमुराध्यक्ष! जगद्धात्रे नमो नमः। भूर्लोकप्रमुखा लोकास्तव गर्भे व्यवस्थिताः। ब्रह्मादयस्तथा देवा नमस्ते विश्वधारिणे। नमस्ते भुवनाधार! नमस्ते मुवनाश्रय!। नमो हिरण्यगर्भाय गर्भे यस्य पितामहः। यतस्त्वमेव भूतात्मा भूतेमूते व्यवस्थितः। तस्मात् मामुद्धराशेषदुःखसंसारसागरात्। एवमामन्त्र्य तन्मध्यमाविश्यास्त उदङ्मुखः। मुष्टिभ्यां परिसंगृह्य धर्मराजचतुर्मुखो। जानुमध्ये शिरः कृत्वा तिष्ठेदुच्छासपञ्चकम्”। धर्मराजोऽत्र सुवर्णमयः, तल्लक्षणञ्च तुलापुरुषेऽभिहितं चतुर्मुखोऽपि सौवर्णः, तल्लक्षणं ब्रह्माण्डदाने वक्ष्यते। तत्र दक्षिणमुष्टौ धर्मराजः, वाममुष्टौ चतुर्मुख इति। “गर्भाधानं पुंसवनं सीमन्तीन्नयनं तथा। कुर्य्युर्हिरण्यगर्भस्य ततस्ते द्विजपङ्गवाः”। अनवलोकनमप्यत्र विज्ञेयं, एतेषु, गर्भादानादिषु वक्ष्यमाणेषु जातकर्मादिषु, मन्त्रयुक्तमनुध्यानमात्रमाचरणी यम् “गीतमङ्गलघाषेण गुरुं सन्तोषयेत् ततः। जातकर्मादिकाः कुर्य्यात् क्रियाः षोडश चापराः”। ताश्चाभिधीयन्ते। जातकर्म १ नामकरणं २ निष्क्रमणं ३ अन्नप्राशनं ४ चूडाकर्म ५ उपनयनं ६ प्राजापत्यम् ७ ऐन्दं आम्नेयं ९ सोम्यं १० इति चत्वारि ४ वेदव्रतानि गोदानं १५ केशःन्त १६ श्चेति द्वादश, पूर्वाश्चतस्व इत्युभवेषु षोडशत्वम्। “मूर्त्त्या दकञ्च गुरवे दत्त्वा मन्त्र भम जपेत्। नमो हिरयटगर्भाय विश्वगर्भाय ते नमः। चराचरस्य जगतो गृहभूताय वै नमः। मन्त्रोऽयं जनितः पूर्वं मर्त्त्यधर्माद्विजोत्तमः। त्वद्गर्भसम्भवादेष दिव्यदेहो भवाम्यहम्। चतुर्मः कंलशैर्भूयस्ततस्ते द्वजपुङ्गवाः। स्नानं कुर्य्युः प्रसन्नाश्च सर्वाभरणभूषिताः”। कलशैः कुण्डसमीपस्थितैरेव, स्नानं कुर्युयंजमानस्येति शेषः “देवस्यत्वेति शन्त्रेण स्थितस्य कनकासने। अद्य जातस्य तेऽङ्गानि अभिषेक्ष्यामहे वयम्। दिव्येनानेन वपुपा चिरञ्जीव सुखोभव। ततो हिरण्यगर्भं तं तेभ्यो दद्याद्विचक्षणः”।

हिरण्यनाभ = पु० हिरण्यं नाभौ यस्य अच्समा०। मैनाकपर्वते हेमच०।

हिरण्यय = हिरण्यस्थ विकारः तदात्मकं वा मयट वेदे निपानात् मलोपः। १ हिरण्यात्मके २ स्वर्णविकारे च “हिरण्ययेन सविता रथेना” यजु०। ४३ अ० सूर्य्यमन्त्रः “अथ य एष हिरण्ययः पुरुषो दृश्यते” छान्दो० उ०।

हिरण्यरेतस् = पु० हिरण्यं रेतो यस्य। १ वह्नौ २ चित्रकवृक्षे च अमरः। अग्निरेतस्शब्दे दृश्यम्। ३ सूर्व्ये मेदि० ४ अर्कघृक्षे ५ शिवे जटा०। वह्नेस्तन्नामकारणं यथा “यत्पीतं वीतिहोत्रेण वीर्य्यं न्यक्तं पिनाकिना। तेनाक्रान्तोऽभवत् ब्रह्मन्! मन्दतेजा हुताशगः”। “हुताशनोऽपि च भयाद् यत्र तत्र परिभ्रमन्। पञ्च वर्षसहस्राणि ह्यध्यास्ते हव्यभुक् ततः। मांसमस्थीनि रक्तानि मेदोमज्जत्वचस्तथा। रोमाणि चाक्षिकेशाद्याः सर्वे जाता हिरण्मयाः। हिरण्यरेता लाकेऽस्मिन् विख्यातः पावकस्ततः” वामनपु० ५४ अ०।

हिरण्यवर्णा = स्त्री हिरण्यस्येव वर्णो यस्याः। १ नदीभेदे हेमच० २ हेमतुल्यवर्णयुते त्रि० “हिरण्यवर्णां हरिणीम्” श्रीसू०

हिरण्यवाह(हु) = हिरण्यं वाहयति प्रापयति भक्तान् हिरण्यवर्णो वाहुरिव वा यस्य। १ महादेवे २ शोणे नटभेदे च अमरः।

हिरण्याक्ष = पु० कश्यपस्य पुत्रे दैत्यभेदे। हिरण्यकशिपुशब्दे दृश्यम्। स च वराहरूपेण विष्णुना हतः। “हतो हिरण्यकशिपुःहरिणा सिंहरूपिणा। हिरण्याक्षो धर द्धारे बिभ्रता शौकरं वपुः” भाग० ७ १ अ०।

हिरण्याश्व = पु० हिरण्यनिर्मितोऽश्वः। तुलादिषोडशमहा दानगध्ये दानार्थं स्वर्णादिना १ कल्पितेऽश्वे २ तदाने च। “अथातः संप्रवक्ष्यामि हिरण्याश्वविधि परम्। यस्य प्रसादाद्भुवनमनन्तफलमश्नुते। पुण्यं तिथिमथ साद्य कृत्वा ब्राह्मणवाचनम्। लोकेशावाहन कुर्य्यात् तुलापुरुषदानवत्। ऋत्विगमण्डपसम्भारभूषणाच्छादनादिकम्। स्वल्पेष्वेकाग्निमत् कुर्य्याद्धेमवाजिमख बुधः” अत्रादिशब्देन देशकालवृद्धिश्राद्धशिवादिपुजागुरुऋत्विग्वरणमधुपकेदानवेदिकापरिचक्रलेखमवितानतोरणताकाधिवासनादि मतस्यपुराणोक्ततुलापुरुषदानविचितं कंगृह्यते, स्वल्पेष्वेकाग्निमदिति, व्याख्यातं “स्थापयेद्वेतदमध्ये तु कृष्णाजनतिलोपरि” कृष्णाजिननिहितद्रोणपरिमिततिलोपरीति विज्ञेयम्। “कौशेयवस्त्रसंवीतं कारयेद्धेमवाजिनम्। शक्तितस्त्रिपलादूद्ध मासहस्रफलादु बुधः। पादुकोपानहच्छत्रचामरासनभाजनैः। पूर्णकुम्भाष्टकोपेतं माल्यक्षुफलसंयुतम्। शय्यां सोपस्करान्तद्वद्धेममार्त्तण्डसंयुतम्”। शय्योपस्करा विविधास्तरणापधानवस्त्रफलपुष्पकुङ्कुमकर्पूरागुरुचन्दनताम्बूलदर्पणकङ्कतिकाचामरव्यजनासनपतद्ग्रहस्थितपात्रासिमुद्रिकोपानहयुगलताम्रघटिकादिजलपात्रदीपिकावितानादयः। मार्त्तण्डसंयुतामिति, उपर्य्यारूढसूर्य्यं सौवर्णमश्वं कुर्य्यादित्यर्थः। सूर्य्यलक्षणमुक्तं ब्रह्माण्डदाने “ततः सर्वौषधिस्नानस्नापितो वेदपुङ्गवैः। इममुच्चारयेन्मन्त्रं गृहीतकुसुमाञ्जलिः”। इहापि पूर्वेद्युरधिवासनं विधाय द्वितीयदिवसे पूर्ववत् पुण्याहवाचनादिपूर्णाहुतिपर्य्यन्तं कर्म, गुरुः समापयेत्। अथ सर्वौषधिजलस्रातः शुक्लाम्बरो यजमानस्त्रिःप्रदक्षिणोकृत्य वक्ष्यमाणमन्त्रमुदीरयेत्। “नमस्ते सर्वदेवेश! वेदाहरणलम्पट!। वाजिरूपेण मामस्मात् पाहि संसारसागरात्। त्वमेव सप्तधा भूत्वा छन्दोरूपेण भास्करम्। यस्मात् भ्रामयसे लोकानतः पाहि सनातन!। एवमुच्चार्य्य गुरवे तमश्वं विनिवेदयेत्। दत्त्वा पापक्षयाद्भानोर्लोकमभ्येति शाश्वतम्। गोभिर्विभवतः सर्वानृत्विजश्चाभिपूजयेत्। सर्वधान्योपकरणं गुरवे विनियेदयेत। सर्वं शय्यादिकं दत्त्वा मुञ्जीतातैलमेव हि। पुराणश्रवणं तद्वत् कारयेद्भोजनानादनु”। दानवाक्यञ्च पूर्ववदनुसन्धेयम्, अनुक्तदक्षिणेषु सुवर्णं दक्षिणेति, यथाशक्ति सुवर्णदक्षिणा, विभवतः स्वविभवानुसारण सर्वान् सदस्यादीनृत्विजश्च गोभिः पूजयेत्, सर्वधान्योपकरणमिति विनियोगात् पूर्वं धान्यासादनं गम्यते, गुरवे निवेदयेदिति, स्वल्प द्रव्यदाने आचार्य्यायैव अश्वं प्रदाय ऋत्विग्भ्यो यथाशक्ति सुवर्णादि दद्यात्। सहस्रपलादिद्रव्यदाने तु प्रकृतिवद्व्यवस्था, स्वल्पतरेष्वेकाग्निक्षेऽपि द्रष्टव्या” हेमा० दा०

हिरण्याश्वरथ = पु० हिरण्येन निर्मितः अश्वः तद्युक्तरथः। तुलादिषोडशमहादानमध्ये दानार्थं स्वर्णादिना १ कल्पिते सुवर्णमयाश्वयुक्तरथे २ तद्दाने न०। तद्विधिर्यथा “अथातः संप्रवक्ष्यामि महादानमनुत्तमम्। हिरण्याश्वरथं नाम महापातकनाशनम्। पुण्यं दिनमथासाद्य कृत्वा ब्रह्मणवाचनम्। लोकेशावाहनं कुर्य्यात् तुलापुरुपदानवत्। ऋत्विग्मण्डपसम्भारभूपणाच्छादनादिकम्”। तुलापुरुषदानवदिति, सत्स्यपुराणोक्ततुलापुरुषदानवद्वेदितव्यम्, आदिशब्दस्यापि पूर्ववदेव व्याख्या “कृष्ण जिने तिलान् कृत्वा काञ्चनं कारयेद्रथम्। अष्टाश्वं चतुरश्वं वा चतुश्चक्रं सकूवरम्। इन्द्रनीलेन कुम्भेन ध्वजरूपेण संयुतम्। लोकपालाष्टकोपेतं पद्मरागदलान्वितम्”। अत्र तिलानां रथस्य च परिमाणापेक्षायां पुरुषेच्छया नियमः प्रकृतौ परिमाणाश्रवणात् केचित् तु सन्निधानात् हेमहस्तिरथादिदानस्थितं तिलानां द्रोणपरिमाणत्वमिह बदन्ति। कूवरं युगाधारकाष्ठम्। ध्वजो दण्डः, स च रथस्य सौवर्णत्वात् सौवर्ण एव तथा चोपरिस्थितेन इन्द्रनीलमणिमयेन कलशेन युक्तः कर्त्तव्यः। लोकपाललक्षणमुक्तं ब्रह्माण्डदाने, “चत्वारः पूर्णकलशा धान्यान्यष्टौ दशैव तु। कौशेयवस्त्रसंयुक्तमुपरिष्टाद्वितानकम्। माल्येक्षुफलसंयुक्तं पुरुषेण समन्वितम्। यो यद्भक्तः पुमान् कुर्य्यात् स तन्नाम्नाधिवासनम्”। वितानमत्र पञ्चरर्णं, पुरुष इष्टदेवताकारः सौवर्णरथे स्थापनीयः। वस्त्रोपानहपादुकाश्च। “गोभिर्विभवतः सार्द्धं दद्याच्च शयनासनम्। आभ रात्त्रिलादूर्द्धं शक्तितः कारयेद् बुधः”। भारः पलसहस्रद्वयम्, एतच्च सुवर्णमानं ध्वजपुरुषलाकपालाश्वचक्ररक्षकसहितस्य येदितव्यम्। “अष्टभीरथसंयुक्तं चतुर्भिरथ वाजिभिः। द्वाभ्यामथ युतं दद्याद्धेमसिंहध्वजान्वितम्”। हैमेन सिंहाङ्कितेन युक्तमिति अष्टाश्वपक्षे, चतुरश्वपक्षे च इन्द्रनीलमयकुम्भो ध्वजे कार्य्यः, अश्वद्वयपक्षे हेमसिंह इति व्यवस्था। “चक्र रक्षावुभौ तस्य तुरगस्थावथाश्विनी। पुण्यं कालं ततः प्राप्य पूर्ववत् स्नापितो द्विजैः। शुक्लमाल्यम्बरो दद्या- दिमं मन्त्रमुदीरयेत्”। हेमा० दा० मत्स्यपुराणीयम्।

हिरुक् = अव्य० हि–बा० उकिक् रुट् च। १ वर्जने २ त्यागे मनो० २ विनार्थे ३ मध्यार्थे ४ सामीप्ये च अमरः। ५ अधमे शब्दच०

हिल = हावकरणे तु० प० अक० सेट्। हिलति अहेलीत्।

हिलमोचि(ची) = स्त्री हिल–क मुच–इन् कर्म० वा ङीप् (हेलेञ्चा) शाके शब्दर० स्वार्थे क तत्रैब शब्दच०। “शोथ कुष्ठं कफ पित्तं हरते हिलमोचिका” भावप्र०।

हिल्ल = पुंस्त्री० हिल लक्। शरारिखगे शब्दच०। स्त्रियां ङीष्

हिल्लोल = दालने अद० चु० उभ० सक० सेट्। हिल्लालयति ते अजिहिल्लोलत् त।

हिल्लोल = पु० हिल्लोल–अच्। १ तरङ्गे “हृदि कृत्वा स्त्रियः पादौ कराभ्यां धारयेत् करौ। यथेष्टं ताडयेद् योनिं बन्धो हिल्लोलसंज्ञकः” रतिम० उक्ते २ रतिबन्धभेदे। थञ्। ३ दोलने।

हिल्वला = स्त्री इल्वला + पृषो०। मृगशिरानक्षत्रशिरोदेशस्थे पञ्चतारात्मके मृगव्याधे शब्दर०।

हिव = प्रीणने स्वा० प० सक० सेट् इदित्। हिन्वति अहिन्वोत्।

हिवुक = न० हिवि–उकक् नि०। लग्नाच्चतुर्थे स्थाने ज्या०।

हिस = बधे वा चु० उ० पक्षे रुधा० प० सक० सेट् इदित्। हिनस्ति हिंसयति ते अहिसीत् अजिहिंसत् त।

ही = अव्य० हि–डी। १ विस्मये अमरः। २ दुखे ३ विषादे ४ हेतौ मेदि०। ५ शोके च शब्दर०।

हीन = त्रि० पर० हा–क्त तस्य नः ईत्त्वम्। १ ऊने २ निन्द्ये अमरः। ३ अधमे त्रि०। व्यवहारे ४ प्रतिवाद्रिभेदे पु० जटा० “अन्यवादी क्रियाद्वेषी नोपस्थायी निरुत्तरः। आहूतप्रपलायी च हीनः पञ्चविधः स्मृतः” नारदः।

हीनवादिन् = पु० कर्म०। “पूर्ववादं परित्यज्य योऽन्यमालम्बते पुनः। वादसंक्रमणाज्ज्ञेयो हीनवादी स वै नरः” स्मृत्युक्ते व्यवहारे १ वादिभेदे। २ मूके हेमच०।

हीनाङ्ग = त्रि० हनिमङ्गं यस्य। स्वभावतो न्यूनाङ्गयुने “हीनाङ्गं विकलाङ्ग च” इति स्मृतिः। स्त्रियां वा ङाप् सा च। २ क्षुद्रपिप्पल्यां हेमच०।

हीन्ताल = पु० हीनस्तालो यस्मात् पृषो०। हिन्तालवृक्षे (हे~ताल) भरतः।

हीर = न० हृ–क नि०। १ वज्रे २ हीरके च। २ शिवे ३ सर्पे पु० हेमच० ४ हारे ५ सिंहे च पु० ६ लक्ष्म्यां ७ तैलाम्बुके स्त्री मेदि०। ८ पिपीलिकायां हेमच० ९ काश्मीर्य्याञ्च स्त्री राजनि० स्वार्थे क। हीरक (हीरा) मणिभेदे शब्दर०। वज्रशब्दे ८४४१ पृ० दृश्यम्।

हीराङ्ग = पु० हीरमिव दृढमङ्गमस्य। इन्द्रस्य वज्रे शब्दमा०।

हील = न० ही–विस्मयां लाति ला–क। शुक्रे धातौ रेतसि।

हीलुक = न० हिल–उक पृषो०। गौडीमद्ये शब्दच०।

हीही = अव्य० ही + द्वित्वम्। १ विस्मये २ हास्ये च मेदि०।

हु = हीमे अदने च जु० प० सक० अनिट्। जुहोति अहौषीत् जहाव। प्रीणने च। “जुहुधीह पावकम्” किरा०।

हु(हू)ङ्कार = पु० हु(हू)मित्यव्यक्तशब्दस्य कारः कृ–घञ्। हुमित्यव्यक्तस्य प्रतिषेधसूचकशब्दस्योच्चारणे। “मौनव्रतं महाकष्टं हु(हू)ङ्कारेणापि नश्यति” इति पुराणम् दीर्थमध्योऽपि।

हुड = राशीकरणे सक० मज्जने संघाते च अक० तु० कु० प० सेट्। हुडति अहुडीत् जुहोड ऋदित् चङि न ह्रस्वः।

हुड = राशीकरणे भ्वा० आ० सक० सेट् इदित्। हुण्डते अहुण्डिष्ट।

हुड = गतौ भ्वा० आ० सक० सेट् ऋदित् चङि न ह्रस्वः होडते अहोडिष्ट।

हुड = पु० हुड–क। १ मेघे हेमच०। चौरनिवारणार्थं भूमौ निखाते २ लौहकीलके च ३ सेनाश्रयस्थाने ४ रघोपरि विण्मूत्रत्यागार्थस्थानशृङ्गे च “पुरी समन्ताद्विहिता मपताका सतोरणा। सचक्रा सहुडा चैव सयन्त्रखनका तथा” भा० व० १५ अ०। “चक्राणि योधगणाः हुडास्तदाश्रमस्थानानि भाषायां (वुरुज) संज्ञानि। अन्थे तु विण्मूत्रोत्सर्जनस्थानशृङ्गाणि हुडा इत्याहुः। उदाहरन्ति च। “कल्प्यन्ते हुडशृङ्गाणि रथस्योपरि सूरिमिः विण्मूत्रस्पर्शशुद्ध्यर्थकरादिस्पर्श उद्यतः इति” नीलक०

हुडुक्क = पु० कु० हुड–बा० उक्क। १ वाद्यभेदे २ दात्यूहखगे ३ मदमत्ते मेदि० (हुडका) इति ख्याते ४ कपाटदण्डे शब्दर०।

हुडुत् = न० कु० हुड–उति। १ वृषशब्दे २ अव्यक्ते शब्दे काशीख०।

हुडुम्ब = पु० कु० हुड–उम्ब। भ्रष्टचिपिटे शब्दमा०।

हुण्ड = पुंस्त्री० हुडि–अच्। १ व्याघ्रे २ ग्राम्यशूकरे ३ राक्षसे च स्त्रियां ङीष्। ४ मूर्खे ब्रि०।

हुत = त्रि० हु–क्त। देवाद्देशेन मन्त्रद्वाराऽग्नौ प्रक्षिप्ते घृतादौ अमरः। भावे क्त। २ होमे न०

हुतभुज् = पु० हुतं मन्त्रेण प्रक्षिप्तं घृतादि भुङ्क्ते भुजक्विप्। १ अग्नौ २ चित्रकवृक्षे च अमरः।

हुतवह = पु० हुतं घृतादिकं वहति प्रापयति देवान् प्रीत्यर्थम् वह–अच। १ अग्नौ हेमच० २ चित्रकवृक्षे च अमरः।

हुताश = पु० हुतमश्नाति अश–अण्। १ वह्नौ शब्दर० २ चित्रकवृक्ष च। ल्यु हुताशनोऽप्युभयत्र। स च कर्मविशेषविहितवह्नौ च। “कोटिहोमे हुताशनः” ति० त०।

हुताशनी = स्त्री हुताशनस्तद्दीपनमस्त्यस्या अच् गौ० ङीष्। फाल्गुनपूर्णिमायां होलाकाशब्दे दृश्यम्।

हुम् = अव्य० हु–डुमि। १ स्मरणे २ प्रश्ने ३ अनुज्ञायां च ४ निवारणे मेदि०। “गुरुं हुङ्गृत्य तुङ्कृत्येति” स्मृतिः।

हुर्च्छ = कौटिल्ये भ्वा० प० सक० सेट्। हूर्च्छति अहूर्च्छीत् ह्रस्वपाटवशात् क्विपि छलोपे हूः हुरौ हुर इत्यादि।

हुल = हतौ संवरणे च भ्वा० प० सक० सेट्। होलति अहोलीत् ज्वला० हुलः होलः।

हुलहुली = स्त्री हुल–क आभीक्ष्ण्ये द्वित्वम् गौरा० ङीष्। स्त्रीणां मङ्गलध्वनिभेदे (उलुउलु)। त्रिका०।

हुहु(हू) = ह्वे–डु नि०। गन्धर्वभेदे पृषो० हूहूरित्यप्यत्र।

हूङ्कार = पु० हूम् + कृ–घञ्। अवज्ञाहेतुके शब्दभेदे “हूङ्कारेणैव तं भस्म सा चकाराम्बिका ततः” देवीमा०।

हूड = गतौ म्वा० आ० सक० सेट् ऋदित् चङि न ह्रस्वः। हूडते अहूडिष्ट।

हूत = त्रि० ह्वे–क्त संप्रसारणम्। आहूते कृताह्लाने।

हूति = स्त्री ह्वे–क्तिन् संप्रसारणम्। आह्वाने अमरः।

हून = पु० ह्वे–नक् सम्प्रसारणं च। १ म्लेच्छजातिभेदे २ तद्वासस्थानभेदे च “हूनवङ्गखसेष्वेव गान्यदेशे कदाचन” ज्यी०। ३ तत्र प्रचलिते स्वर्णमुद्राभेदे इत्यन्ये। “श्वपाकश्च तुरष्कस्तु हूनो यवन इत्यपि। लोकवाह्यस्तु यो वाजिगवाश्याचारवर्जितः। म्लेच्छः किरात शबर पुलिन्दाद्यास्तु तद्भिदा” जटाध०।

हूम् = अव्य० हु–वा० डूमि। १ प्रश्रे २ वितर्के अमरः ३ सम्मतौ ४ क्रोधे ५ भये निन्दायाम् अवज्ञायाञ्च चक्रवर्त्ती।

हूर्च्छन = न० हुर्छ–ल्युट्। कौटिल्य।

हूरव = पुंस्त्री० हू इति रवो यस्य। शृगाले हेमच० स्त्रियां ङीष्।

हूहु(हू) = पु० गन्धर्वविशेषे शब्दर०।

हृ = हरणे भ्वा० उ० द्वि० अनिट्। हरति ते अहार्षीत् अहृत जहार जह्रे हरिष्यति ते। मुख्ये कर्मणि लकारादि। ह्रिरयते अहारि अहारिषाताम् अहृषाताम् जिहीर्षति तेअनु + सदृशीकरणे आ० अनुहरते पैतृकमश्वः।अप + दूरीकरणे अपहरति अपसारयतीत्यर्थः चौर्य्ये च।अभि + आभिमुख्येन हरणे।सम् + अभि + पौनः पुण्येन सम्पादने।अभि + अव भोजने अभ्यवहरति भुङ्क्ते इत्यर्थः।अम् + अभि + वि + आ + नैकट्यसम्बन्धसम्पादने।अव + दूरीकरणे सैन्यावहारः।वि + अव विवादे शयनभोजनादिना संसर्गे उपभोगे च।आ + भोजने आहारः। नानास्थानस्थितानामेकत्रसङ्कलने चअधि + आ + तर्के अन्थत्रश्रुतपदस्यान्वयार्थमाकर्षणे च।अभि + आ + आभिमुख्येनाहरणे।उद् + आ + दृष्टान्ततयोपन्थासे कथने च।प्रति + उद् + आ–प्रतिरूपतया उपन्यासे।परि + आ + परित आहरणेप्रति + आ + तन्त्रेण पठितानामेकैकस्य ग्रहणे प्रत्याहारः विषयेभ्यो मनसो निवारणे चवि + आ–कथने शब्दोत्पादकव्यापारे।सम् + आ–संग्रहे नानास्थानस्थितानामेकत्रोपन्यासे संघाते चउद् + उत्तोलने उत्क्षेपणे च।अभि + उद् + आभिमुख्येन उद्धरणे। अभितो वा उत्क्षेपणे।प्रति + उद् + प्रतिकूलतया प्रातिरूप्येण वा उद्धरणे।उप + सामीप्येन आनतीकरणार्थं दाने उपढौकने।प्रति + उप + प्रतिरूपतया उपढौकने।नि + नितरां हरणे हिमनिस्नवणे च।निस् + (र)बहिष्करणे अपसारणे च।परि + दोषादिनिवारणे।प्र + ताडने निथाते।प्रति + प्र + प्रतिरूपतथा ताडने।प्रति + प्रत्थेकहरणे प्रतिरूपतया हरणे च।वि + देशविशेषेषु गत्यादिना सन्तोषकरणार्थव्यापारे विहारः।वि + अति परस्परमेकजातीयक्रियाकरणे आ०।सम् + मारणे ताडने च।उप + सम् + प्रकरणपठितस्य समापने अन्यत्र पठितस्यान्यत्रा योजने यथा गुलोपसंहारः।

हृ = बलात्कारहरणे जु० पर० सक० अनिट् वैदिकः। जहर्त्ति अहार्षीत्।

हृच्छय = पु० हृदि शेते शी–अच्। १ कामदेवे हला०। २ हृदयस्थिते त्रि०।

हृच्छूल = न० ६ त०। शूसरोगभेदे वैद्यकम्।

हृणी = लज्जायां कण्ड्वा० आत्मा० अक० सेट्। हृणीयते अहृणीयिष्ट “हृणीयते वीरवती न भूमिः” भट्टिः।

हृणीया = स्त्री हृणीय–भावे अ। निन्दायाम् अमरः।

हृत्(द्) = त्रि० हृ–क्विप् तुक् च। १ हारिणि। पृषो० तस्य दः, हृदयस्य हृदादेशो वा। २ हृदये ३ मानसे च न० अमरः।

हृत्कम्प = पु० ६ त०। भयादिहेतुके हृदयकम्पे।

हृत् = त्रि० हृ–क्त। १ अपहृते २ स्थानान्तरं गमिते च ३ विभक्ते

हृदय = न० हृ–कयन् दुक्च। १ मनसि २ वक्षसि च त्रिका०। हृद् एति इण–अच्। परब्रह्मणि “हृद्ययं तस्माद्धृदयम्” छा० उ०

हृदयग्रन्थि = पु० हृदयस्य ग्रन्थिरिव। अविद्यासम्बन्धरूपे संसारबन्धे “भिद्यते हृदयग्रन्थिः” इति भागवतम्।

हृदयङ्गम = त्रि० हृदयं गच्छति गम–ख मुम् च। १ युक्तियुक्ते २ मनोहरे त्रि० अमरः “हृदयङ्गममूर्त्तिस्त्वम्” भट्टिः।

हृदयस्थान = न० हृदयस्य मनसः स्थानम् हृदयरूपं वा स्थानम् वक्षःस्थले हेमच०।

हृदयिक = त्रि० हृदयं प्रशस्तं मनोऽस्त्यस्य ठन्। प्रशस्तचित्ते इनि। हृदयिन् तत्रार्थे जटा०

हृदयेश = पु० ६ त०। १ भर्त्तरि २ भार्य्यायां स्त्री हेमच०।

हृदावर्त्त = पु० हृदिस्थ आवर्त्तः। अश्वस्य हृदयस्थे आवर्त्ताकारे रोमाबलीभेदे त्रिका०।

हृदिक = पु० स्वयम्भोजात्मजे कृतवर्मपितरि यादवभेदे हरिव० ३९ अ०।

हृदिकात्मज = पु० ६ त०। कृतवर्मणि यादवे।

हृदिस्पृश् = त्रि० हृदि हृदये स्पृश्यतेऽसौ कर्मणि क्विन् अलुक्स०। १ हृद्ये मनोज्ञे। कर्त्तरि क्विन्। २ मर्मेस्पृशि दुःखदे च।

हृद्गोल = पु० पर्वयभेदे सोऽभिजनोऽस्य छ। हृद्गोलीय पित्रादिक्रमेण तद्देशवासिनि सि० कौ०।

हृद्ग्रन्थ = पु० हृद् ग्रथ्नाति ग्रन्थ–अच्। हृद्व्रणे राजनि०

हृद्य = न० हृदि स्पृश्यते मनोज्ञत्वात् हद् + यत्। १ गुडत्वचि (दारचिनि) शब्दर०। २ मनोज्ञे त्रि० अमरः। ३ वृद्धिनामोषधौ स्त्री। ४ वशकृन्मन्त्रभेदे पु० मेदि०।

हृद्यगन्ध = न० हृद्यो गन्धोऽस्य। क्षुद्रजीरके हेमच०। २ बिल्ववृक्षे पु० जटा०। ३ जात्यां स्त्री राजनि०। इत्समा०। हृद्यगन्धीत्यपि ४ क्षुद्रजीरके न० राजनि०।

हृद्रोग = पु० ६ त०। हृदयस्य रोगभेदे हृदामयोऽप्यत्र। भावप्र० तस्य निदानादि तल्लक्षणं चोक्तं यथा “हृद्रोगस्य विप्रकृष्टनिदानमाह “अत्युष्णगुर्वम्ल कषायतिक्तश्रमाभिघाताध्यशनप्रसङ्गे। सञ्चिन्तनैर्वेगविधारणैश्च हृदामयः पञ्चविधः प्रदिष्टः”। प्रसङ्गः सततं सेवा। सञ्चिन्तनम् अतिचिन्ता राजभयादिजमिति। हृदामयः स च पञ्चविधः वातिकः पैत्तिकः श्लैष्मिकः सान्निपातिकः क्रिमिजश्चेति। तस्य संप्राप्तिपूर्वकं लक्षणमाह। “दूपयित्वा रसं दोषा विगुणा हृदयङ्गताः। हृदि वाधां प्रकुर्वन्ति हृद्रोगन्तं प्रचक्षते”। विगुणाः दष्टाः बाघां दोषभेदेन नानाविधां व्यथाम्। भङ्गवत्पीडामिति गणदासः। वातिकं हृद्रोगमाह “आयम्यते मारुतजे हृदयन्तुद्यते तथा। निर्मथ्यते दीर्य्यते च स्फोट्यते पाट्यतेऽपि वा”। मारुतजे हृद्रीग इति शेषः। आयम्यते व्यथया विस्तार्य्यते इव। तु- द्यते सूचीमिरिव विध्यते। निर्मथ्यते मथनेनेव दी र्य्यते करपत्रेण द्विधाक्रियत इव। स्फोट्यते अस्त्रेणेव पाट्यते कुठारेण बहुधाक्रियत इव। अथ पैत्तिकमाह “तृष्णोष्मदाहचोषाः स्युः पैत्तिके हृदये क्लमः। धूमायनञ्च मूर्च्छा च स्वेदः शोषो मुखस्य च”। उष्मा शीत गात्रस्येव शीतवाताभिलाषहेतुः किञ्चिदिवौष्ण्यम्। दाहः पार्श्वस्थेन वह्निनेव दुःखहेतुर्गात्रस्य सन्तापः। चोषः चूषणेनेव पीडा। हृदये क्लमः हृदयाकुलत्वं ग्लानिवदित्यर्थः। धूमायनम् कण्ठाद्धूमनिर्गमः। क्लेदः किञ्चिद्दुर्गन्धः शटित इव। वातश्लैष्मिकमाह “गौरवं कफसंस्रावोऽरुचिस्तम्भोऽग्निमार्दवम्। माधूर्य्यमपि चास्यस्य बलासावतते हृदि”। बलासावतते हृदि कुपित कफव्याप्ते गौरवं हृदयस्य। स्तम्भो जडता। माधुर्य्यं जलप्लुतमिव माधुर्य्यं मुखे। त्रिदोषजमाह “विद्यात्त्रिदोषमप्येवं सर्वलिङ्गकृदामयम्”। क्रिमिजमाह क्रिमयो जायन्ते अस्मिनिति क्रिमिज इति निरुक्तिः। तस्य विप्रकृष्टनिदानपूर्विका सम्प्राप्तिमाह “त्रिदोषहेतुहृद्रोगे यो दुरात्मा निषेवते। तिलक्षीरगुडादींश्च ग्रन्थिस्तस्योपजायते। मर्मैकदेशे संक्लेदं रसश्चाप्युपगच्छति। संक्लेदात् कृमवश्चास्य पतन्त्युपहतात्मनः”। मर्मैकदेशे हृदयैकदेशे संक्लेदं शटितत्वं रस उपगच्छति। संक्लेदात् रसस्य शटितत्वात् उपहतात्मनः तिलाद्यहिताहारेण। तस्य लक्षणमाह “उत्क्लेदः ष्टीवनन्तोदः शूलं हृल्लासकस्तमः। अरुचिः श्यावनेत्रत्वं शोषश्च कृमिजे भवेत्”। उत्क्लेदः वमनमिवोपस्थितम्। शोषो यक्ष्म। हृद्रोगस्योपद्रवानाह “क्लोमसादा भ्रमः शोषो ज्ञेयास्तेषामुपद्रवाः। कृषिजे तु कृमीणां ये श्लैष्मिकाणां हि ते मताः”। क्लोम्नः पिषासास्थानस्य सादः शोषः। शोषो मुखस्य। तेषां हृद्रीगाणां, क्रिमिजे तु हृद्रोगे श्लैष्मिकाणां कृमीणाम् ये उपद्रवा हृकासात् स्रवणान्ता विपाकादयस्ते माताः” २ कुम्भराशौ शुद्धिदीपिका।

हृद्रोगवैरिन् = पु० ६ त०। अर्जुनवृक्षे शब्दर०।

हृद्वण्टक = पु० ६ त०। हृदयस्य विभाजके जठदे शब्दर०।

हृल्लास = पु० हृदयस्य लासो यव हृदादेशः। हृक्कारोगे” हेमच०। तेन हि हृदयस्य स्फूर्त्तिरिव भवति।

हृल्लेख = पु० हृदयं लिखति स्मृशति सिख–अ हृदादेशः। १ ज्ञाने राजनि०। २ तर्के त्रिषा०। ३ तन्त्रोक्ते मन्त्रभेदे च। ४ औत्सुक्ये स्त्री हला०।

हृष = चित्तोत्साहे म्वा० पर० अक० सेट्। हर्षति अहर्षीत्। उदित् हृषित्वा हृष्ट्वा हृष्टः।

हृष = हर्षे चित्तोत्साहे दि० प० अ० सेट्। हृष्यति इरित् अहृषत् अहर्षीत् ञीत् हृष्टोऽस्ति।

हृष = मिथ्याकरणे भ्वा० पर० सक० सेट् उदित् क्त्वा वेट्। हर्षति अहर्षीत्।

हृषित = त्रि० हृष–क्त वा० इट्। १ प्रीते २ विस्मिते ३ प्रहते ४ जातरोमाञ्चे च मेदि०।

हृषीक = न० हृष–ईकक्। विषयग्राहके वक्षुरादौ इन्द्रिये अमरः।

हृषीकेश = पु० ६ त०। विष्णौ अमरः। अन्तर्यामिव्राह्मणे तस्य सर्वनियन्तृत्वोक्तेः सर्वेन्द्रियप्रवर्त्तकत्थादीशत्वम्।

हृष्ट = त्रि० हृष–क्त। १ प्रीते २ जातहर्षे अमरः। ३ जातरोमाञ्जे ४ विस्मिते च मेदि०।

हृष्टमानस = त्रि० हृष्टं प्रीतं मानसमस्य। हृष्टचित्ते शब्दर०

हृष्टरोमन् = त्रि० हृष्टमिव जाताङ्कुरं रोम यस्य। जातरोमाञ्चे पुचकिते त्रिका०।

हृष्टि = स्त्री हृष–क्तिन्। १ आनन्दे २ हर्षे ३ ज्ञाने च धरणिः।

हे = अव्य० हा–डे। १ सम्योधने ३ आह्वाने ३ असूयाद्रौ च मेदि०

हेक्का = स्त्री हिक्का + पृषो०। हिक्कारोगे हेमच०।

हेठ = विघाते भ्वा० प० सक० सेट। हेठति प्रहेठीत्।

हेठ = भूतौ उत्पत्तौ च अक० पविनीकरणे सक० तु० प० सेट्। हेठति अहेठीत्।

हेठ = बाधने भ्वा० आ० सक० सेट् ऋदित् षङि न ह्रस्वः। हेठते सहेठिष्ट।

हेठ = पु० हेठ–घञ्। १ बाधायाम् २ विघाते च मेदि०।

हेड = अनादरे भ्वा० आ० सक० सेट् ऋदित् षङि न ह्रस्वः हेडते अहेडिष्ट।

हेड = वेष्टने भ्वा० प० सक० सेट्। घटा०। हेडति अहेडीत्।

हेडाबुक्क = पु० अश्वविकयकारके त्रिका०।

हेति = स्त्री हन–करणे क्तिन् नि०। १ अस्त्रे २ अग्निशिखायां ३ सूर्य्यकिरणे अमरः। ४ तेजोमात्रे भरतः ५ साधने च श्रीधरः।

हेतु = पु० हि–तुन्। १ कारणे अमरः २ अनुमितिसाधने व्याप्ये ३ फले च। हेतुत्वञ्च उत्पादकज्ञापर्कान्यतरत्वम्। मृदो घटो जायते इत्यादौ उत्पादकत्व पवतो वह्नि मान् धूमादित्यादौ ज्ञापकत्वं तत्र ज्ञापकमेव लिङ्गशब्देन व्यवह्रिवते। ४ न्यायावयवभेदे तच्च सिङ्गप्रति पादकवृतीयान्तपञ्चम्यन्तपदस्मार्व्यं तल्लक्षणन्तु अनुमितिपारणीभूतलिङ्गपरामर्शप्रबोजकशाब्दज्ञानजनकसाध्याविषयकषाब्दधीजनकर्हतुविभक्तिमच्छब्दत्वम्। हेतु त्वप्रतिप्रादकविभक्तिमन्न्यायावयवत्वं वा। उदाहरणप्रयोजकाकाङ्क्षाजनकशाब्दज्ञानजनकन्यायावयवयत्वं वा। साध्याविषयकज्ञानजनकहेतुपञ्चम्यन्तानुमितिपरशब्दत्वं वा। प्रतिज्ञावाक्यधीजन्यकारणाकाङ्क्षानिवर्त्तकज्ञानजन कहेतुविभक्तिमद्वाक्यत्वं वा” चिन्तामणिः। ४ अलङ्कारभेदे अलङ्कारशब्दे ४०८ पृ० दृश्यम्।

हेतुता = स्त्री हेतोर्भावः तल्। १ हेतुत्वे कार्य्याव्यवहितपूर्वक्षणे नियतकार्य्याधिकरणवृत्तित्वरूपे कारणत्वे २ सङ्गतिविशेषे च “हेतुतावसरस्तथा” इति प्राञ्चः।

हेतुमत् = त्रि० हेतुरस्त्यस्य मतुप्। कार्य्ये स्त्रियां ङीप्।

हेत्वपह्नुति = अलङ्कारभेदे अलङ्कारशब्दे ४०८ पृ० दृश्यम्।

हेत्वन्तर = गौतमोक्ते निग्रहस्थानभेदे। “अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषभिच्छतो हेत्वन्तरम्” गौ० सू० तल्लक्षणमुक्तं “परोक्तदूषणोद्दिधीर्षया तत्रैव हेतौ पूर्वोक्तहेतुतावच्छेदकातरिक्तहेतुतावच्छेदकविशिष्टवचनम्। यथा शब्दोऽनित्यो बाह्येन्द्रियप्रत्यक्षत्वादित्युक्ते सामान्येनैकान्तिकत्वेन च प्रत्युक्ते सामान्यवत्त्वे सतीति विशेषणम्। प्राञ्चस्तु, हेतौ विशेषणदान एव हेत्वन्तरमित्याहुः” गौ० वृ०

हेत्वसिद्धि = स्त्री असिद्धिभेदे स्वरूपासिद्धिरूपहेत्वाभासभेदे

हेत्वाभास = पु० हेतुरिव आभासते आ + भास–अच्, हेतोर्वा आभासः आ + भास–घञ्। न्यायोक्ते १ दुष्टे हेतौ २ हेतुदाषे च। स च दोषः पञ्चविथः व्यभिचारः विरुद्धता असिद्धिः सत्प्रतिपक्षता बाधश्च। तादृशदोषेषु सत्सु अनुमितिर्नोदेति। यस्य हि ज्ञानमनुमितिप्रतिबन्धकं स हेत्वाभासः। अत्र हेतूनामाभास इति व्युत्पत्त्या हेत्वामासपदस्य हेतुदोषपरत्वम्। तल्लक्षणञ्च हेत्वाभासत्वम् तच्च अनुमितिकारणीभूताभावप्रतियोगियथार्थज्ञानविषयत्वम्। यद्विषयकत्वेन लिङ्गज्ञानस्यानुमितिविरोधित्वं तत्त्वम्। ज्ञायमानं सद् यदनुमितिप्रतिबन्धकं तत्त्वम्। यद्विषकनिश्चयस्य विरोधिविषयताप्रयुक्तस्तदुत्तरमनुमितावनाहार्य्यमानसज्ञाने वा पक्षतावच्छेदकविशिष्टपक्षे साध्यतावच्छेदकविशिष्टसाध्यवैशिष्ट्यावगाहित्वस्य सीध्यतावच्छेदकविशिष्टसाध्यनिरूपितव्याप्तिविशिष्टहेतुतावच्छेदकविशिष्टहेतुमत्त्वावगाहित्वस्य च द्वयोर्व्यतिरेकस्तत्त्वम्। केचित् तु, यादृशपक्षकयादृशसाध्यकयादृशहेतौ यावन्तो दोषाः सम्भवन्ति तावदन्यान्यत्वमिति प्राहुः” दीधि०। हेतुजक्षणाभावादहेतुर्हेतुसामान्याद्धेतुवदाभासमानः” वा- तस्या० “पञ्चरूपोपपन्नत्वाभावे सति तद्रूपेण भासमानः” गौ० वृ०। “पशधर्मत्वादीनां पञ्चानां रूपाणां मध्ये एकेनापि रूपेण हीनोहेतुः। सोऽपि कतिपयहेतुरूपयोगाद्धेतुवदवभासमानः” त० भा०। असाधको हेतुत्वेनाभिमतः। यथा वायुर्गन्धवान् स्नेहादित्यादौ स्नेहो हेत्वाभासः। स च हेत्वाभासः। पञ्चधा सव्यभिचारः। विरुद्धः। प्रकरणयमः। साध्यसमः अतीतकालः” गौ० सू० पर्य्यायान्तुरेण हेत्वाभासः पञ्चधा “असिद्धः विरुद्धः। अनैकान्तिकः। प्रकरणसमः। कालात्ययापदिष्टः। पर्य्यायान्तरेणापि हेत्वाभासः पञ्चधा। सव्यभिचारः। विरुद्धः। असिद्धः। सत्प्रतिपक्षितः वाधितः इति।

हेम = न० हि–मन्। १ स्वर्णे २ धुस्तूरे अमरः ३ नागकेशरे राजनि०। ४ माषकपरिमाणे च पु० विश्वः ५ कृष्णवर्णाश्वे। ६ बुधग्रहे च पु० ज्यो०।

हेमकन्दल = पु० हेमवर्णं कन्दं लाति ला–क। प्रबाले हेमच०

हेमकान्ति = स्त्री हेम्न इव कान्तिरस्याः। दारुहरिद्रायाम् राजनि०। २ स्वर्णतुल्यद्युतियुक्ते त्रि०। ६ त०। ३ स्वर्णस्य दीप्तौ स्त्री।

हेमकार = पु० हेम तन्मयं भूषणं करोति कृ–अण्। स्वर्णकारे वर्णसंङ्करजातिभेदे (सेकरा)।

हेमकिञ्जल्क = न० हेमेव पीतं किञ्जल्कं यस्य। नागकेशरे राजनि०।

हेमकूट = पु० हेममयः कूटो यस्य। किंपुरुषवर्षस्थे हिमालयादुत्तरस्थे पर्वतभेदे अमरः।

हेमकेतकी = स्त्री हेमेव पीतकेतकी। स्वणेकेतक्याम् राजनि०।

हेमकेलि = पु० १ अग्नौ शब्दमा०। २ चित्रकवृक्षे च

हेमक्षीरी = स्त्री हेम इव पीतं क्षीरं यस्याः। स्वर्णक्षीर्य्याम् राजनि०

हेमगन्धिनी = स्त्री हेम्नः नागकेशरस्येव गन्धोऽस्त्यस्याः इनि ङीप्। रेणुकाख्ये गन्धद्रव्ये रत्नमा०।

हेमगिरि = पु० हेममयो गिरिः १ सुमेरुपर्वते २ नैरृतस्थे देशभेदे वृ० स० कूर्मविभागशब्दे २१६८ पृ० दृश्यम्।

हेमगौर = पु० हेमेव गौरः पीतः पुष्पेण। १ अशोकवृक्षे राजनि० २ स्वर्णतुल्यपीते त्रि०।

हेमज्वाल = पु० हेमेव ज्वालायस्य। १ अग्नौ शब्दमा०। २ चित्रकवृक्षे च

हेमतारं = न० हेन तारयति उत्कृष्टं करोति तॄ–णिच्– अण। तुत्थे हेमच०।

हेमदुग्धक = पु० हेमवर्णं दुग्धं निर्यासोऽस्य कप्। १ उडुम्बरे वृक्षे अमरः। २ स्वर्णक्षीर्य्यां स्त्री जटा० कव भावे तत्रार्थे स्त्री जटा० टाप्। ङीप् राजनि०।

हेमदुग्धिन् = पु० हेमवर्णं दुग्धं निर्यासोऽस्त्यस्य इनि। उडुम्बरे वृक्षे शब्दर०

हेमन् = न० हि–मनिन्। १ स्वर्णे धातौ २ धुस्तूरे अमरः ३ नागकेशरे राजनि० ४ हिमे च माधवः

हेमन्त = पुंन०। हि–झ मुट् च। अग्रहायणपौषमासात्मके ऋतौ कालभेदे अमरः।

हेमन्तनाथ = पु० हेमन्ते नाथ्यते याच्यते नाथ–कर्मणि घञ्। कपित्थे शब्दच०।

हेमपुष्प = न० हेमेव पीतं पुष्पमस्य। १ अशोकवृक्षे २ जवापुष्पे च मेदि०। ३ चम्प्रकवृक्षे पु० कप्। तत्र लाध्रे च शब्दच०

हेमपुष्पी = स्त्री हेमेव पीत्तं पुष्पमस्याः ङीप्। १ मञ्जिष्ठायाग शब्दर०। २ स्वर्णजीवन्त्याम् २ इन्द्रवारुण्याम् ४ मुषल्याम् ५ कण्टकार्य्याञ्च राजनि०। संज्ञायां कन् ह्रस्वः। स्वर्णयूथिकायाम् स्त्री।

हेमफला = स्त्री हेमेव पीतं पक्वफलमस्याः। स्वर्णकदल्याम् (चापाकला) राजनि०।

हेममालिन् = पु० हेमेव किरणानां मालास्त्यस्य इनि। १ सूर्य्ये ति० त०। २ अर्कवृक्षे च

हेमयूथिका = स्त्री हेमेव पीता यूथिका। स्वर्णयूथिकायाम् राजनि०।

हेमरागिणी = स्त्री हेम्न इव रागोऽस्त्यस्या इनि ङीप्। हरिद्रायाम त्रिका०।

हेमल = पु० हेम तदंशं निर्मेयस्वर्णमध्यात्, तद्वर्णं वा साति ला–क। १ कलादे स्वर्णकारे २ कषपाषाणे ३ कृकलासे पुंस्त्री० मेदि० स्त्रियां ङीष्।

हेमलता = स्त्री हेमेव पीता लता। स्वर्णजीवन्त्याम् राजनि०।

हेमवल = न० हेम्ना वलते शोभते वल–अच्। मौक्तिके राजनि० हिमबलमित्यपि पाठान्तरं तत्रार्थे हिमतुल्यशुभ्रत्वात्तथात्वम्।

हेमशङ्क्ष = पु० हेमेव शुचिः शङ्खोऽस्य। विष्णौ त्रिका०।

हेमशिखा = स्त्री हेमेव पीता शिखा यस्याः। स्वर्णक्षीर्य्याम् शब्दर०।

हेमसार = न० हेम सारयति निमलीकरोति सृ–णिच्–अण्। तुत्थे रसच०।

हेमहस्तिरथ = पु० हेमनिर्मितहस्तियुक्तो रथः। तुलापुरुषादिषोडशमहादानमध्ये दानार्थं० कल्पिते १ स्वर्णमयहस्तियुक्ते हेममयरथे २ तद्दाने न०। तद्विधिः हेमा० दा० “अथातः संप्रवक्ष्यामि हेमहर्स्तिरथं शुभम्। यस्य प्रदानाद्भवनं वैष्णवं याति मानवः। पुण्यां तिथिसथा साद्य तुलापुरुपदानवत्। विप्रवाचनकं कुर्य्याल्लोकेशावाहनं बुधः। ऋत्विग्मण्डपसम्भारभूणणाच्छादनादिलम्। अत्राप्यु पोमितस्तद्वद् ब्राह्मणैः सह भोजनम्”। इहाप्यादिशब्देन देशकालवृद्धिश्राद्धादिसर्वमनुक्तं मत्स्यपुराणोक्ततुलापुरुषस्थितं वेदितव्यम्। उपोषित इति, उपवासाशक्तौ नक्तृमपि वेदितव्यम्। “कुर्य्यात् पुष्परथाकारं काञ्चनं मणिमण्डितम्। बलभीभिर्विचित्राभिश्चतुश्चक्रसमन्वितम्। लोकपालाष्टकोपेतं शिवार्कव्रह्मसयुतम। मध्ये नारायणोपेतं लक्ष्मीपुष्टिसमन्वितम्”। पुष्परथः, क्रीडार्थो रथः, स च चतुष्काकारेणोपर्याच्छादितो भवति वलभ्यो लोकपालाश्रयाः। लोकपालव्रह्मशिवार्कलक्षणमुक्तं व्रह्माण्डदाने। मध्यशब्दः पूर्वापराभ्यां संबध्यते, शिवादीनामपि स्थानापेक्षायास्तेनैव निवृत्तेः। नारायणादिलक्षणं पञ्चरात्रात् “नारायणश्चतुर्बाहुः शङ्खं चक्रं तथोत्तरे। दक्षिणे तु महापद्मं नीलञ्जीमूतसन्निभे। वामे श्रीर्वल्लकीहस्ता पुष्टिः पद्मकरा परा” इति। “कृष्णाजिने तिलद्रोणं कृत्वा संस्थापयेद्रथम्। तथाष्टादश धान्यानि भाजनासनचन्दनैः। दीपिकोपानहच्छत्रपादुकादर्पणान्वितम्। ध्वजे तु गरुडं कुर्य्यात् कूवराग्रे विनायकम्। नानाफलसमायुक्तं उपरिष्टाद्वितानकम्। कौशेयं पञ्चवर्णं च अम्लानकुसुमान्वितम्। चतुर्भिः कलशैः सार्द्धं गोभिरष्टाभिरन्वितम्। चतुर्भिर्हेममातङ्गैर्मुक्तादामविभूषितैः। स्वरूपतः करिभ्याञ्च युक्तं कृत्वा निवेदयेत्। कुर्य्यात् पञ्चपलादूर्द्धमाभारादपि शक्तितः”। ध्वजे तु गरुडं कुर्य्यादित्यांदि, ध्वजो दण्डः। गरुडलक्षणमुक्तं नारदीये “उपेन्द्रस्याग्रतः पक्षी गुडाकेशः कृताञ्जलिः। सव्यजानुनतो भूमौ मूर्द्ध्ना च फणिमण्डितः। पक्षिजङ्घो नरग्रीवस्तुङ्गनासो नराङ्गकः। द्विबहुः पक्षयुक्तश्च कर्त्तव्यो विनतासुतः”। अथ विनायकस्य “चतुर्भुजस्त्रिनेत्रश्च कर्त्तव्योऽत्र गजाननः। नागयज्ञोपवीतश्च शशाङ्ककृतशेखरः। दन्तं दक्षकरे दद्याद्द्वितीये चाक्षसूत्रकम्। तृतीथे परशुं दद्याच्चतुर्थे मोदकं तथा”। उपर्य्यधोहस्तयोर्दन्तादि, देयमिति, कूवरो व्याख्यातः। अम्लानकुसुमं, पुष्पविशेषः रूढिर्यौगिकमपहरतीतिन्यायात् महासहेति प्रसिद्धमेव गृह्यते। भारो व्याख्यातः। ध्वजगतदेवताश्च पञ्चपलादिपरिमितेन रथवत्कृतसुवर्णेनैव निष्पादनीयाः एवं सम्भारानुपकल्प्य पूर्ववदधिवासनं विधाय परदिवसे पुण्याहवाचनादि सकलं कर्मकाण्डं समाप्य सर्वौषधिजलैराचार्प्यो यजमानस्य जापनं कुर्य्यात्। “ततो मङ्गल शब्देन स्नापितो वेदपुङ्गबैः। त्रिःप्रदक्षिणमावृत्य गृहीतकुसुमाञ्जलिः। इममुच्चारयेन्मन्त्रं ब्राह्मणेभ्यो निवेद येत्। नमो नमः शङ्करपद्मजाकलोकेशविद्याधरवासुदेवैः। त्वं सेव्यमे देव! पुराण! यज्ञतेजोमय स्यन्दन! पाहि यस्मात्। यत् तत्पदं गुह्यतमं मुरारेरानन्दहेतुर्गुणरूपमत्तः। यागैकमानसदृशोमुनयः समाघौ पश्यन्ति तत्त्वमसि नाथ! रथेऽधिरूढ! यस्मात्त्वमेव भवसागरसंश्रितानामानन्दभाण्डभृतमध्वरपानपात्रम्। तस्मादघौथशमनेन कुरु प्रसादं चामीकरेभरथसाधनसम्प्रदानात्”। मन्त्रेणानेन प्रणम्य यथाशक्ति सुवर्णदक्षिणामुपकल्प्य पूर्ववत प्रयोगमुच्चार्य्य तं गजरथं प्रत्यक्षगजाभ्यां संयुतं ब्राह्मणेभ्यः प्रतिपादयेत्, आचार्य्यादोनामर्द्धचतुर्भागादिव्यवस्था तदनुज्ञया चान्येभ्योऽपि दानं, दीनानाथपूरणं चेति, प्रकृतिवदाचरणीयं ततः पुण्याहवाचने कृते यजमानो वेदिसमीप गत्वा देवतापूजां विदध्यात्। आचर्य्यस्तु आहूतदेवान् विसर्जयेच्च”।

हेमाङ्ग = प० हेमेव पीतमङ्गं यस्य। १ गरुडे २ सिंहे ३ सुमेरौ ४ ब्रह्मणि मेदि०। ५ चम्पकवृक्षे शब्दर०। ६ विष्णौ च विष्णुस० ७ स्वर्णवर्णाङ्गयुक्ते त्रि०। कर्म०। हेमतुल्येऽङ्गे न०।

हेमाद्रि = पु० हेममयोऽद्रिः। १ सुमेरौ पर्वते अमरः। चतुर्वर्गचिन्तामणिमुक्ताफलादिग्रन्थकारके २ विद्वद्भेदे।

हेमाद्रिजरण = पु० हेमाद्रौ जीर्य्यति जॄ–ल्यु। स्वर्णक्षीर्य्याम् रत्नमा०। हेममारणयोग्ये त्रि०।

हेमाह्व = पु० हेम तद्वर्णमाह्वयते स्पर्द्धते स्ववर्णेन आ + ह्वे–क। १ वनचम्पके राजनि०। हेम्न आह्वा आह्वा यस्य। २ धुस्तूरे ३ नागकेशरे च अमरः ४ स्वर्णजीवन्त्यां स्त्री राजनि०।

हेय = त्रि० हा–यत्। त्याज्ये “हेयं दुःखमनागतम्” पात० सू०

हेर = न० हि–रन्। १ हरिद्रायाम् २ मुकुटभेदे च।

हेरम्ब = पु० हे शिवे रम्बति रवि–अच् अलुक्समा०। १ गणेशे अमरः २ महिषे ३ शौर्य्यगर्विते त्रि० मेदि० ४ बुद्धभेदे पु० त्रिका०।

हेरम्बजननी = स्त्री ६ त०। दुर्गायाम् शब्दर०।

हेरम्बहट्ट = पु० दक्षिणस्थे देशभेदे शब्दर०।

हेरिक = पु० हि–इक रुट् च। चरे हेमच०।

हेरुक = पु० हि–उक रुट् च। १ बुद्धेभेदे २ महःकालगणे मेदि० ३ कामाख्यापीठस्थे शिवलिङ्गभेदे “शिवलिङ्गञ्च तत्रास्ति शिलायां हेरुकाह्वयम्। नदीदक्षिणपूर्वायां नायकं तन्तु पूजयेत्” कालिकापु० ८१ अ०।

हेलञ्चो = स्त्री हिल–घञ् हेलं चिनोति चि–ड पृषो० गारा० ङीष्। हिलमोचिकायाम् शब्दच०।

हेलन = न० हिल–ल्युट्। अवज्ञायाम् शब्दर०।

हेला = स्त्री हेड–अनादरे भावे अ डस्य लः। १ अनादरे स्त्रीणां शृङ्गारभावजे “प्रौढेच्छा याऽतिरूढानां नारीणां सुरतीत्सवे। शृङ्गारशास्त्रतत्त्वज्ञैः हेला सापरिकीर्त्तिता” इत्युक्ते २ चेष्टाविशेषे। “देहात्मकं भवेत् सत्त्वं सत्त्वात् भावः समुत्थितः। भावात् समुत्थितो हावो हावात् हेला समुत्थिताः” हाव एव भवेद्धेला व्यक्तं शृङ्गारसूचकः” उज्ज्वल० ३ ज्योत्स्नायाञ्च।

हेलावुक = पु० अश्वविक्रयापजीविनि हारा०।

हेलि = पु० हिल–इन्। १ सूर्य्ये २ अर्कवृक्षे च ३ अवज्ञायां हड्डचन्द्रः ४ सूर्य्ये ज्यो० त० णिनि हेलिन् सूर्य्ये ज्यो०।

हेष = अश्वशब्दे भ्वा० आ० अ० सेट् ऋदित् चङि न ह्रखः। हेषते अहेषिष्ट।

हेषा = स्त्री हेष–भावे अ। घाटकानां शब्दे अमरः।

हेषिन् = पु० हेष–णिनि। अश्वे त्रिका०।

हेहै = अव्य० हेच हैच द्व०। १ सम्बाधने २ आह्वाने मेदि०।

है = अव्य० हा–कै। १ सम्बोधने २ आह्वाने च मेदि०।

हैतुक = त्रि० हेतौ प्रसृतः ठण्। हेतुवादरते सयुक्तिकवाक्यवादिनि “त्रैविद्यो हैतुकस्तर्की नैरुक्तो धर्मपाठकः” पर्षल्लक्षणे मनुः।

हैम = त्रि० हिमे भवम् अण्। १ हिमजातमात्रे २ प्रातःकालीनहिमजाते जले न० राजनि०। ३ भूनिम्बे पु० राजनि०। हेम्नो विकारः अण् टिलोपः। ४ स्वर्णविकारे ५ स्वर्णमयपदार्थे च त्रि०।

हैमन = पु० हेमन्त एव हेमन्ते भवो वा अण् तलोपः। १ हेमन्ते काले शब्दर०। २ तत्र जाते त्रि०। हेभ्न इदमण् न टिलोपः। स्वर्णसम्बन्धिनि त्रि० स्त्रियां ङीष्।

हैमन्तिक = त्रि० हेमन्ते काले भवः ठञ्। हेमन्तकालभवे शालिधान्यभेदे (आमनधान) “हैमन्तिकं सिताऽस्विन्नं धान्यं मुद्गास्तिला यवाः” हविष्यान्नोक्तौ ति० त०।

हैमल = पु० हिमल एव स्वार्थे अण्। हमन्ते ऋतौ शब्दर०

हैमवत = न० हिमवतोऽदूरभवो देशः तस्येद वा अण्। १ भारतवर्षेस्य वर्षभेदे त्रिका०। “एतर्द्धैमवतं वर्षं भारती यत्र सन्ततिः” विष्णुपु०। २ हिमालयसम्बन्धिनि त्रि० ३ विषभेदे पु० हेमच०। तस्यापत्यं तत्र भवो वा अण्। ५ पार्वत्यां ६ हरीतक्यां अमरः स्त्री ङीप्। ७ स्वर्णक्षीर्य्यां ८ श्वेतवचायाञ्च स्त्री मेदि० ङीप् ९ गङ्गायां १० रेणुकायां स्त्री धरणिः ङीप्।

हैमा(मी) = स्त्री हेम तद्वर्णोऽस्त्यस्य अण् वा ङीप्। स्वर्णयूथिकायां शब्दर०।

हैयङ्गवीन = न० ह्योगोदोहाद् भयम् ह्यस् + गो + ख नि०। १ नवनीते रत्नमा०। पूर्वदिनदुग्धोद्भवे २ घृते च अमरः।

हैरिक = पु० हि–र हेरः तत्र प्रसूतः ठक्। चौरे धरणिः।

हैहय = पु० पश्चिमस्थे देशविशेषे वृ० स० कूर्मविभाग २१६८ पृ० दृश्यम् तेषां राजा अण्। २ हैहयेश्वरे कार्त्तवीर्य्ये हेमच० पृषा० हैहेय तत्रार्थे शब्दर०।

हो = अव्य० ह्वे–डो नि०। १ सम्बोधने २ आह्वाने च मेदि०।

होड = गतौ अनादरे च भ्वा० आ० सक० सेट् ऋदित् चङि न ह्रस्वः। होडते अहोडिष्ट।

होड = पु० होड–अच् हुड–अच् वा। १ समुद्रगामिनौकाभेदे (हुडि) त्रिका० २ चौरचिह्ने च मिता०।

होतृ = पु० हु–तृच्। १ ऋग्वेदाभिज्ञे अमरः। २ होमकर्त्तरि त्रि० स्त्रियां ङीप्। “या हविर्या च होत्री” शकुन्तला

होत्र = न० हु–ष्ट्रन्। १ होमे हेमच०। २ हविषि घृतादौ च त्रिका० ३ स्तुतौ स्त्री टाप्।

होत्रीय = न० होत्राय हितम् होतुरिदं वा छ। १ हविर्गृहे हेमच०। २ होतृसम्बन्धिनि त्रि०।

होम = पु० हु–मन्। देवतोद्देशेन वह्नौ मन्त्रद्वारा घृतादित्यागरूपे हवने नित्यं गृहस्थकर्त्तव्येषु पञ्चसु यज्ञेषु मध्ये २ देवयज्ञे अमरः। ३ श्राद्धीयविप्रपाणौ श्राद्धीयाग्रभागस्य मन्त्रेण दाने च श्रा० त०।

होमकुण्ड = पुंन० होमार्थं कुण्डम्। हामार्थे कुण्डे त्रिका०

होमधान्य = न० होमोपयुक्तं धान्यम्। १ तिले २ यवे च राजनि०।

होमधूम = पु० होमजः धूमः। होमार्थाग्मिजाते धूमे ह मच०

होमभस्मन् = न० होमजं भस्म। हुतद्रव्यजाते भस्मनि हेमच०

होमाग्नि = पु० ६ त०। यज्ञियाग्नौ हेमच०।

होमि = पु० हु–इन् मुट् च। १ अग्नौ २ घृते च मेदि० ३ जले शब्दर०। ४ चित्रकवृक्षे।

होमिन् = पु० होमोऽस्त्यस्य इनि। होमकर्त्तरि।

होम्य = त्रि० होमाय हितम् यत्। होमोपयुक्ते घृतादौ राजनि०

होरा = स्त्री हु–रन्। ज्योतिषोक्ते १ लग्ने २ राश्यर्द्धभागे ३ होराज्ञापकशास्त्रभेदे ४ रेखायाञ्च मेदि०। “विषमर्क्षेषु प्रथमा होराः स्युश्चण्डरोचिषः। द्वितीयाः शशिनो युक्षु व्यत्ययाद्गणयेत् सदा” ज्यो० त०। “चतुर्विंशतिवेलाभिरहोरात्रं प्रचक्षते। पश्चिमादर्द्धरात्रादि होराणां विद्यते क्रमः” वह्निपु०।

होलक = पु० हु–विच् लकति लक–अच् कर्म०। “अर्द्धपक्वे शमीधान्यैस्तृणभ्रष्टैश्च होलकः” इत्युक्ते तृणादिना अर्द्धपक्वे शमीधान्ये “होलकोऽल्पानिलो मेदःकफदोषश्रमापहः। भवेद् यो होलको यस्य स च तत्तद्गुणो भवेत्” भावप्र०।

होलाक = पु० स्वेदुविशेषार्थव्यापारभेदे चरकः तत्र दोलाक इत्यत्र होलाक पाठान्तरम्।

होलाका = स्त्री हु–विच् तं लाति ला–क संज्ञायां कन्। १ वसन्तोत्सवभेदे उपचारात् तत्काले फालगुनपौर्णमास्याञ्च १ पृषो० होली होलिका होलकाऽप्यत्र। होलाकाविधिश्च आचारप्राप्त इति माधवादयः। पुराणादिप्रसिद्धः शास्त्रमूलोऽयम् आचार इति हेमाद्रिनिर्णयसिन्धुप्रभृतयः। तद्विधिकालौ नि० सि० उक्तौयथा “फाल्गुनपौर्णमासी होलिका सा च सायाह्नव्यापिनी ग्राह्यां “सायाह्ने होलिकां कुर्य्यात् पूर्वाह्णे क्रीडर्न गवामिति” वचनादिति निर्णयामृते उक्तम्। ज्योतिर्निबन्धे तु “प्रतिपद्भूतभद्रासु याऽर्चिता होलिका दिवा। संवत्सरञ्च तद्राष्ट्रं पुरं दहति साद्भुतम्। प्रदोषव्यापिनी ग्राह्या पूर्णिमा फाल्गुनी सदा। तस्यां भद्रामुखं त्यक्त्वा पूज्या होला निशामुखे” इति नारदवचनात् प्रदोषव्यापिनीत्युक्तम्। हेमाद्रौ भदनरत्ने च भविष्ये “अस्यां निशागमि पार्थ! संरक्ष्याः शिशवो० गृहे। गोमयेनोपलिप्ते च सचतुष्के गृहाङ्गणे” इत्यादिना तत्रैव तद्विधानाच्च। तेनेयं पूर्वविद्धा “श्रावणी दुर्गनवमो दूर्वा चैव हुताशनी। पूर्वविद्धैव कर्त्तव्या शिवरात्रिर्यलेर्दिनम् इति वृहद्यमब्रह्मवैवर्त्तोक्तेश्च। दिनद्वये प्रदोषव्याप्तौ परैव पूर्वदिने भद्रासत्त्वात् तत्र च होलिकानिषेधात् तदुक्तं निर्णयामृते मदनरत्ने च पुराणसमुच्चये “मद्रायां दीपिता होली राष्ट्रभङ्गं करोति वै। नगुरस्य श्च नैवेष्टा तस्मात् तां परिवर्जयेत्”। तथा “भद्रार्या द्वे न कर्त्तव्ये श्रावर्णीं फाल्गुनी तथा। श्रावणी नृपतिं हन्ति ग्रामं दहति फाल्गुनी”। तथा “दिनार्धात् परतोऽपि स्यात् फाल्गुनी पूर्णिमा यदि। रात्रौ भद्रावसाने तु होलिका दीप्यते तदा इति। यदा तु पूर्वदिने चतुर्दशी प्रदोषव्यापिनी परदिने च क्षयवशात् सायाह्नात् प्रागेव पूर्णिमा समाप्यते तदा पूर्वदिने संपूर्ण रात्रौ भद्रासत्त्वात् तत्र च तन्निषेधात् परेऽहनि प्रतिपद्येव कुर्य्यात्। “सार्द्धयामत्रयं वा स्याद् द्वितीयदिवसे यदा। प्रतिपद्वर्द्धमाना तु तदा सा होलिका स्मृता” इति भविष्यवचनादिति निर्णयामृतकारः। मदनरत्नेऽप्येवम्। यत् तु “वह्नौ वह्निं परित्यजेदिति” भविष्यम्। वह्नौ होलिकायां वह्निं प्रतिपदं वर्जयेदित्यर्थः तदुक्तभिन्नविषयमिति तत्रैवोक्तम्। अन्ये तु तस्यां भद्रामुखं त्यक्त्वा कार्य्या। “प्रदोषव्यापिनी चेत् स्याद् यदा पूर्वदिने तथा। भद्रामुखं वर्जयित्वा होलिकायाः प्रदीपनम्” इति नारदवचनात्। “निशागमे प्रपूज्यत होलिका सर्वदा बुधैः। न दिवा पूजयेद्धोलां पूजिता दुःखदा भवेत्” इति दिवोदासीयवचनात्। “यामत्रयोर्द्ध्वयुक्ता चेत् प्रतिपत्तु भवेत्तिथिः। भद्रामुख परित्यज्य कार्य्या होला मनीषिभिः” इति विद्या विनोदेऽभिधानाच्च। भद्रामुखं विहाय पूर्वदिन एव कार्य्ये त्याहुः। भद्रामुखन्तु “नाड्यस्तु पञ्च वदनं गणकास्तथैके” इति रत्नमालोक्तं ज्ञेयम्। शिष्टाचारोऽप्येवमेव। अत्र चेच्चन्द्रग्रहणं तदा ततोऽर्वाङ्निशि भद्रावर्जं पौर्णमास्यां होलिकादीपनम् अथ परेऽह्निग्रस्तोदयस्तदा पूर्वदिने भद्रा वर्जं रात्रौ चतुर्थयामे विष्टिपुच्छे या होलिका कार्य्या। ग्रहोत्तरं प्रतिपत्सत्त्वात् तत्पूर्वञ्च दिवा होलानिषेधादिति दिवोदासचन्द्रप्रकाशौ। वस्तुतस्तु परदिने प्रदोषे पौर्णमासीसत्त्वे कर्मकालस्पर्शे चतुर्थयामादि गौणकालग्रहणे मानामावाद्भद्राभावाच्च ग्रहणकाल एव होला कार्य्या। न च “सर्वेषामेव वर्णानां सूतकं राहुदर्शने। स्नात्वा कर्मणि कुवीत शृतमन्नं विवर्जयेदिति” निषेधात् कथं सूतके होलेति वाच्यम् तस्योत्तरार्द्धशेषत्वात्। पूजामन्त्रस्तु “असृकपाभयसन्त्रस्तैः कृता त्व होलि! बालिशैः। अतस्त्वां पूजयिष्यामि भूते भूतिप्रदा भव” इति। यत्तु वार्त्तिककारैर्होलिका आचारप्राप्तेत्युक्तम्। तत्र हेमाद्र्याद्युदाहृतमविष्यवचनान्यसिद्धानि कृत्वा चिन्ता ज्ञेया आर्त्त्यधिकरणवत्। हुताशनी मलमासे न भवति” नि० सि०।

होलाकाधिकरण = न० जैमि० प्रथमस्य द्वितीयपादे दर्शिते न्यायभेदे तच्च तत्त्वबोधन्याम संक्षिप्य दर्शितं यथा “होलाका प्राच्याभिमानिभिरनुष्ठीयते होलाका च वस न्तोत्सविशेषः हुलीतिप्रसिद्धः। एवमादीनेषुकादिकं दक्षिणात्यैः, आदीनेषुक स्वस्वकुरांगतं करञ्जार्कादि स्थावरदेवतापूजादिकं तद्देशप्रसिद्धम्। उद्वृषभयज्ञादिकमुदीच्यैः क्रियते उद्वृषभयज्ञश्च ज्यैष्ठस्य पौर्णभास्यां बलीवर्द्दानभ्यर्च्यधारयन्ति यत् सः तद्देशप्रसिद्धः एवं हारीताद्युक्तस्मृतयोऽपि काश्चित् कस्मिंश्चिद्देशविशेषे दृश्यन्ते गृह्योक्तकर्माणि तत्तच्छाखीकर्त्तृकानीत्येषां मूलभूताः श्रुतयः कल्पनीयाः। ताश्च किं प्राच्यैर्होलाका कर्त्तव्येत्यादिरूपा प्राच्यादिपदघटिता व्यवस्थितविषया उतहोलाका कर्त्तव्या इति तत्तत्पदाघटिता सामान्यविषया इति संशयः तत्र प्राच्यादिंपदघटितैव कल्प्या देशविशेषाणामाचारदर्शनात् लिङ्गव्यवस्थया हि लिङ्ग्यनुमीयते यथा यत्र धूमोऽवगतस्तत्रैव वह्निरनुमीयते नान्यत्र तथा च सूत्रम् “अनुमानव्यवस्तानात्तत्संयुक्तं प्रमाणं स्यात्” अस्यार्थः। अनुमानव्यवस्थानात् धूमादिव्यवस्थया वह्न्याद्यनुमानव्यवस्थादर्शनात् तत्संयुक्तं प्राच्यादिपदघटितम् अनुमेयश्रुतिवाक्यं प्रमाणं स्यादिति प्राप्ते राद्धान्तायोक्तम् “विशेषाभावमात्रेण प्रसिध्येत् सवधर्मता। विशेषणात् व्यवस्था स्यात् तच्च नेहोपपद्यते”। अस्यार्थः विशेषाभावमात्रेण हारीतस्मृतिगोभिलगृह्यादौ शाखिविशेषप्रतिपादकपदाभावन तत्तत्स्मृत्युक्तस्य सर्वधर्मता सर्वसाधारणी कर्त्तव्यता प्रसिध्येत्। तथा हि छन्दोगोहि गोभिलादिः स्वशिष्यानध्यापयामास तेऽप्यन्यान् छन्दोगानेवमन्यत्रापि गृह्यग्रन्थादिकमुक्तमूह्यम् अतस्तत्तच्छाखिनस्तत्तच्छाखोक्तमाचरन्ति इति स्मृतिवाक्यानुसारिणी श्रुतिः कल्पनीया। आचारे त्वाह विशेषणात् प्राच्यादीनां विशेषव्यवहारदर्शनेनानुमेयश्रुतौ प्राच्यादिविशेषणपदान्तर्भावात् व्यवस्था स्यात् प्राच्यादीनामेव तदाचरणमिति विधानव्यवस्था स्यात् तच्च नेहोपपद्यते। अयम्भावः सर्वाचरितृष्वनुगतम् अनाचरितृभ्यश्च व्यावृत्तम् आकृतिव्यक्तिगुणादिकं किचित् विशेषणं न सम्भवति यदुपादाय होलाकाद्यधिकरणं स्यात्। न च प्राचीभवत्वादिरूपप्राच्यादिपदसमाख्या तथेति वाच्यं तद्देशभवानामपि केषाञ्चिदनाचरणात् चिरविनिर्गतस्य तत्तद्देशीयस्य पुत्रपौत्राणां समाख्यायामसत्यामपि होलाका कर्त्तव्येति सामान्यश्रुत्यैवोपपत्तौ प्राच्यादिपदघटितश्रुतिकल्पनमन्याय्यं गौरवात् न चाप्राच्यानाम ननुष्ठानार्थं प्राच्यादिपदवती कल्पनीया अनाचरणरूपस्या ननुष्ठानस्याश्रुतिकल्पकत्वात् तस्येच्छाविरहेणैव सम्भवात्। न हि यदि श्रुतिविहितं स्यात् तदा अप्राच्यैरपि अ- नुष्ठितं स्यादिति तर्कयितुं शक्यते होलाकाया नित्यत्वे मानाभावेन काम्यत्वात्। न हि सर्वमेव श्रुतिविहितं काम्यं सर्वैः सद्भिरनुष्ठीयते न वैकस्य कर्त्तुर्विधानमन्यस्य तन्निषेधयति येनाप्राच्यानां निषिद्धाचरणेनानिष्टजनकताज्ञापनार्थं तत्पदमर्थवत् स्यात्। अत्र च शास्त्रदीपिकाधिकरणमालादायमागप्रभृतिषु प्राच्यानामिति पाठः। प्राच्याश्चात्र शास्त्रीयाः ते च सुमेरुलङ्कयोर्मध्येया रेखा ज्यीतिः शास्त्रादौ प्रसिद्धा तस्याः पूर्वदेशीयाः प्राच्याः न तु गौडदेशावधिकपूर्वंदेशीयाः। तस्याः पश्चिमदेशीयाश्च पाश्चात्त्याः। एतेन प्रतीच्यानां तथाचरणमिति स्वदेशाभिप्रायेणैव गौडीयेनोदीच्येन लिखितं तद्धेयं गौडीयानामेव श्रुतिकल्पनम् अप्रत्यक्षवेदानां तथा चाव्यवस्थितश्रुतिकल्पना स्यात् न चायमपि दोषः विशेषकल्पने भविष्यति तथा सति पार्थसारथिमिश्रादिभि र्निबन्धृभिरयमप्युद्भावितः स्यात् न चैवम्। तस्माज्ज्योति रादिशास्त्रप्रसिद्धप्राच्यादिमादायैवेयमाशङ्केति”।

हौ = अव्य० ह्वे–डौ नि०। १ सम्बोधने २ आह्वाने च मेदि०।

हौड = अनादरे गतौ च भ्वा० आ० सक० सेट् ऋदित् चङि न ह्रस्वः। हाडते अहौडिष्ट।

हौत्र = त्रि० होतुरिदम् उद्गा० अण्। तस्य मावः कर्म वा युवा० अण् वा। १ होतृसम्बन्धिनि २ तत्कर्मादौ न०।

ह्नु = चौर्य्ये अदा० आत्म० सक० अनिट्। ह्नुते अह्नोष्ट।

ह्मल = चलने भ्वा० प० अक० सेट्। ह्मलति अह्मालीत्। घटा०। प्रह्मलयति अनुपसर्गस्य बा ह्रस्वः।

ह्यस् = अव्य० गतेऽहनि नि०। गतदिवसे अमरः।

ह्यस्तन = त्रि० ह्यस् + भवार्थे ट्युल् तुट् च। गतदिवसभवे त्यप। ह्यस्त्योऽप्यत्र त्रि०।

ह्रग = संवरणे भ्वा० पर० सक० सेट् घटा० एदित् सिचि न वृद्धिः। ह्रगति अह्रगीत।

ह्रद = प० ह्राद–अच् नि०। १ अमाधजलाशये अमरः। २ किरणे रामाश्रमः। “ह्रदवारि वह्निजननं मधुरं कफवातहारि पथ्यञ्च” राजनि० तज्जलगुणा उक्ताः।

ह्रदिनी = स्त्री ह्रदोऽस्त्यस्याम् इनि। नद्याम् अमरः।

ह्रप = भाषणे चु० उ० सक० सेट्। ह्रापयति ते अजिह्रपत् त।

ह्रम = रवे भ्वा० प० सक० सेट्। हसति अह्रसीत् अह्रासीत

ह्रमिमन = पु० ह्रस्वस्य भावः इमनिच् ह्रसादेशैः। ह्रस्वतायाम्

ह्रमिष्ठ = त्रि० अतिशयेन ह्रस्वः इष्ठन् ह्रसादेशः। अतिह्रस्वे

ह्रमीयस् = त्रि० अतिशयेन ह्रस्वः इयसुन् ह्रसादेशः। अतिहस्वे। स्त्रियां ङीप्।

ह्रस्व = न० ह्रस–वन्। १ परिमाणभेदे २ तद्वति ३ खर्वे च त्रि० अमरः। एकमात्राकालोचार्य्ये ४ लघुवणं पु० राजनि०। ५ मुद्गपर्ण्यां ६ नागवलायां भूमिजम्बूवृक्षे स्त्री राजनि०।

ह्रस्वकुश = पु० नित्यकर्म०। श्वेतकुशे राजनि०।

ह्रस्वगर्भ = पु० ह्रस्वो गर्भो यस्य। कुशे रत्नमा०।

ह्रस्वगवेधुका = स्त्री नि० कर्म०। नागबलायाम् अमरः।

ह्रस्वजम्बू = स्त्री कर्म०। क्षुद्रजम्बूवृक्षे रत्नमा०।

ह्रस्वदर्भ = पु० नित्यकर्म०। श्वेतकुशे राजनि०।

ह्रस्वदा = स्त्री ह्रस्वैरपि दीयते छिद्यते दो–खण्डने क। शल्लक्याम् राजनि०

ह्रस्वपत्त्रक = पु० ह्रस्वं पत्त्रमस्य कप्। १ नगजमधूके (मौल) २ अश्वत्थ्याम् स्त्री राजनि० कापि अत इत्त्वम।

ह्रस्वफला = स्त्री ह्रस्वं फलमस्याः। भूमिजम्बूवृक्षे राजनि०

ह्रस्वमूल = पु० ह्रस्वं मूलमस्य। रक्तेक्षौ राजनि०।

ह्रस्वशाखाशिफ = पु० ह्रस्वा शाखा शिफा च यस्य। क्षुपे अमरः।

ह्रस्वाग्नि = पु० ह्रस्वः अग्निरस्मात् ५ ब०। अर्कवृक्षे शब्दच०।

ह्रस्वाङ्ग = पु० ह्रस्वमङ्गमस्मात् ५ ब०। १ जीवकौषधे अमरः। ६ ब०। वामने २ स्वर्वे त्रि०। कर्म०। ह्रस्वे अङ्गे न०।

ह्राद = स्वने भ्वा० आ० अक० सेट्। ह्रादते अह्रादिष्ट।

ह्राद = पु० ह्राद–भावे घञ्। १ शब्दे हेमच० अच्। २ शब्द० कारके त्रि० ३ हिरण्यकशिपुपुत्रभेदे पु०। पुराणम्।

ह्रादिनी = स्त्री ह्राद–णिनि ङीप्। १ विद्युति २ वज्रे अमरः ३ नद्याम् राजनि० ४ शल्लक्याञ्च शब्दर०। ५ ह्रादविशिष्टे त्रि०

ह्रास = पु० ह्रस–घञ्। १ शब्दे त्रि० २ अपचये च।

ह्रिणी = लज्जायाम् कण्डा आ० अक० सेट्। ह्रिणीयते अह्रिणीयिष्ट।

ह्रिणीया = स्त्री ह्रिणी–यक् भावे अ। लज्जायाम् अमरः। पृषो० ह्रिणिया इत्यपि तत्रार्थे भरतः।

ह्री = लज्जायां जु० प० अक० अनिट्। जिह्रेति अह्रैषीत्। णिचि ह्रेपयति ते।

ह्री = स्त्री ह्री–सम्प० भावे क्विप्। लज्जायाम् अमरः।

ह्रीका = स्त्री ह्री–कक्। १ त्रासे उणा०। २ लज्जायां सि० कौ वा रस्य लः तत्रार्थे।

ह्रीकु = त्रि० ह्री–उन् कुक्च। १ लज्जिते। २ मज्जने ४ जतुके ५ त्रपुणि च उणा०। वा रस्य लः।

ह्रीच्छ = लज्जायाम् भ्वा० प० अक० सेट्। ह्रीच्छति अह्रीच्छीत्।

ह्रीजित = त्रि० ३ त०। लज्जाशीले जटा०।

ह्री(त)ण = त्रि० ह्री–क्त वा तस्य नः। लज्जिते अमरः।

ह्रीवेर(ल) = न० ह्रिये लज्जायै वेरमङ्गमस्य क्षुद्रत्वात् पृषो० वा रस्य ल (बाला) क्षुपभेदे पृषो०। ह्रिवेर तत्रार्थे रस्य लः ह्रीयेल तत्रार्थे अमरटीकायामाह स्म भरतः।

ह्रुड = गतौ भ्वा० आ० सक० सेट् ऋदित् चङि न ह्रस्वः। ह्रोडते अह्रोडिष्ट।

ह्रूड = गतौ भ्वा० आ० सक० सेट् ऋदित् चङि न ह्रस्वः ह्रूडति अह्रूडिष्ट

ह्रेप = गतौ भ्वा० आ० सक० सेट्। ऋदित् चङि न ह्रस्वः। ह्रेपते अह्रेपिष्ट।

ह्रेष = अश्वशब्दे अक० सर्पणे सक० भ्वा० आ० सेट् ऋदित् चङि न ह्रस्वः। ह्रेषते अह्रेषिष्ट।

ह्रेषा = स्त्री ह्रेष–भावे अ। अश्वशब्दे अमरः।

ह्रौड = गतौ भ्वा० आ० सक० सेट् ऋदित् चङि न ह स्वः। ह्रौडते अह्रौडिष्ट।

ह्लग = संवरणे भ्वा० प० सक० सेट् घटा० एदित् सिचि न द्धद्धि। ह्लगति अह्लगीत्।

ह्लप = भाषणे वु० उ० द्विक० सेट्। ह्लापयति ते अजिह्लपत् त।

ह्लस = रवे भ्वा० प० अ० सेट्। ह्लसति अह्लसीत् अह्लासीत्।

ह्लाद = शब्दे भ्वा० अत्म० अक० मोदने सक० सेट् ईदित निष्ठायामनिट्। ह्लादते अह्लादिष्ट। ह्लादः। आ + आनन्दे अक० आह्लादः।

ह्लादिनी = स्त्री ह्लाद–णिनि ङीप्। १ विद्युति २ वज्रे अमर पाठान्तरम् ३ ईश्वरशक्तिभेदे च श्रीधरः ४ ह्लादविशिष्टे त्रि०

ह्वल = चलने भ्वा० प० अक० सेट्। ह्वलति अह्वालीत्। घटा० प्रह्वलयति अलपसर्गस्य वा ह्रस्वः ह लयति ह्वालयति।

ह्वान = न० ह्वे–ल्युट्। आह्वाने।

ह्वृ = कुटिलीकरणे भ्वा० प० सक० अनिट्। ह्वरति अह्वार्षीत्। जह्वरतुः।

ह्वे = स्पर्द्धायां शब्दे च अक० आह्वानार्थे मक० भ्वा० उभ० यजा अनिट्। ह्वायति अह्वत्–अह्वत अह्वास्त सम्प्र० जुहाव आहूतः आहूतिः। आ + स्पर्द्धायाम् आत्म० शत्रुमाह्वयते। शिवम्। ओं तत्सत्।

***