श्वेत = पु० श्वित–अच घञ् वा। १ द्वीपभेदे २ पर्वतभेदे ३ कपर्दके हेमच०। ४ शुक्रग्रहे ५ पुभ्राभ्रे शब्दच०। ६ शङ्खे राजनि०। ७ जीवके जटा०। ८ शुक्लवर्णे ९ तद्वति त्रि० अमरः स्त्रियां ङीप् तस्य नश्च श्वेनी। १० कलियुगीयशिवावतारविशेषे यथा “वेदध्यासावताराणि द्वापरे कथितानि तु। महादेवावताराणि कलौ शृणुत सुव्रत!। आदौ कलियुगे श्वेतो देवदेवो महाद्युतिः। नाम्रा हिताय विप्राणामभूद्वैपखतेऽन्मरे। हिमवच्छिस्वरे रम्ये छगले पर्वतोत्तमे। तस्य शिष्याः शिखायुक्ता बुभूवरमितप्रभाः। श्वेतः श्वतशिखश्चैव श्वेतास्यः श्वेतलोहितः। चत्वारस्ते महात्मानो ब्राह्मणा वेदपारगाः। सुभावो दमनश्चाथ सुहोत्रः कङ्कणस्तथा। लोकाक्षिरथ योगान्द्रो जैगीषव्यस्तु सप्तमे। अष्टमे दधिबाहुः स्यान्नवमे वृषभ प्रभुः। भृगुस्तु दशमे प्रोक्तस्तस्मादुग्रः परः स्मृतः। द्वादशेऽत्रिः समाख्यातो वाली चाथ त्रयोदशे। चतुर्दशे गौतमस्तु वेदशीर्षा ततः परम्। गाकणश्चामवत्तस्मात् गुहावासः शिखण्ड्यथ। जटामाल्यट्टहासश्च दारुको लाङ्गली क्रमात्। श्वोतस्तथा परः शूली तिण्डो मुण्डी च वै क्रमात्। सहिष्णुः सोमशर्मा च नष्कुलीशोऽन्तिमे प्रभुः। वैवस्वतेऽन्तरे शम्भोरवतारास्त्रिशूलनः। अष्टाविंशतिराख्याताह्यन्ते कलियगे प्रभोः” कौर्म ५० अ०। श्वेतपर्वतस्य परिमाणादि यथा “उत्तरोत्तरेणेलावृतं नीलः श्वेतः शृङवान् इति त्रयो रम्यकहिरणमय कुरूणां मर्य्यादागिरयः प्रागायताः उभयतः क्षारोदावधयो द्विसहस्नयोजनपृथव एकैकशः पूर्वस्यात् पूर्वस्यादुत्तरोदशांशाधिकांशेन दैर्घ्य एव ह्रसन्ति” भाग०। ५। १६। ११ राजभेदे वह्निपु०। संज्ञायां कन्। रूप्ये न० राजनि०। कपर्दके पु०।

श्वेतकण्टकारी = स्त्री कर्म०। शुभ्रवर्णकण्टकारिकायाम् राजनि०।

श्वेतकन्दा = स्त्री श्वेतः कन्दाऽस्याः। अतिविषायां राजनि०।

श्वेतकिणिही = स्त्री कर्म०। गिरिकर्णिकायां क्षुपभेदे राजनि०

श्वेतकुञ्जर = पु० कर्म०। १ ऐरावतगजे शब्दर०। २ श्वेतगजमात्रे च श्वेतगजादयोऽप्यत्र।

श्वेतकुश = पु० कर्म०। शुक्लवर्णें कुशभेदे राजनि०।

श्वेतकेतु = पु० कर्म० १ वारुणे केतुग्रहभेदे २ छान्दोग्यवसिद्धे वारुणौ ऋषिभेदे ३ बुद्धे त्रिका०। “केतबो ह्यत्र दृश्यन्ते वारुणास्त्रय एव ते। ऊर्मिकेतुः श्वेतकेतुस मकतुस्तृतीयकः। श्वतकेतुरयदा दृश्यः श्वेतास्थिं करुत महीम्। तदा मानुषमांसानि भक्षयन्तीह मानुषाः क्षुद्भयार्त्तं जमत् कृत्स्नं चक्रवद्रभ्रमते तदा”। अपि च “श्वेतः शस्त्राकुलं कुर्य्यात् लोहितस्त्वग्निज भयम्। क्षुद्भय पीतकः कुर्य्यात् कृष्णो रोगमथोल्वणम्”। अन्यच्च “अवन्ती पुष्करारण्यं यावद्धन्यात्तथापरान्। देशान् क्वचित् क्वच्चिद्रोगदुर्भिक्षैः परिपीडितान्। श्वेताख्यस्तु जटाकारी श्यःमो व्योम त्रिभागगः। निवर्त्ततेऽपसव्ये न त्रिभागी कुरुते प्रजाः” इति समयामृतधृतवाक्यम्।

श्वेतकेश = पु० श्वेतः केश इव यस्य। १ रक्तशिग्रौ जटाक। २ शुक्लवर्णकेशयुते वृद्धे त्रि०। कर्म०। ३ शुक्ले केशे पु०।

श्वेतकोल = पुंस्त्री० ६ ब०। शफरभत्स्ये त्रिका० स्त्रियां ङीष्

श्वेतखदिर = पु० कर्म०। शुक्ले स्वदिरभेदे।

श्वेतगज = पु० कर्म०। १ ऐरावते गजे हेमच० २ शुभ्रगजे च।

श्वेतगरुत् = पु० श्वेतोगरुदस्य। १ हसे अमरः ३ शुभ्रपक्षयुक्ते त्रि० पृषो० अदन्तोऽप्यत्र।

श्वेतगुञ्जा = स्त्री कर्म०। शुभ्रगुञ्जायां राजनि०। गुञ्जाशब्दे २५९ पृ० दृश्यम्।

श्वेतचिल्ली = स्त्री कर्म०। शाकभेदे (शादाचिरुइ) राजनि०।

श्वेतच्छद = पुंस्त्री० श्वेतः छदः पक्षोऽस्य। १ हंसे हला०। स्त्रियां ङीष्। २ शुभ्रपक्षयुक्ते त्रि०।

श्वेतजीरक = पु० कर्म०। शुक्लजीरके राजनि०।

श्वेतटङ्कण = न० कर्म०। १ शुभ्रटङ्कणे २ मालतीनदीतीरसम्भवे क्षारभेदे राजनि०।

श्वेतदूर्वा = स्त्री कर्म०। शुभ्रदूर्वायां राजनि०।

श्वेतद्वीप = पु० कर्म०। वैकुण्ठाख्यविष्णुधाम्नि क्षीरोधेरुत्तरस्थे द्वोपभेदे च “क्षीरोदधेरुत्तरतः श्वेतोद्वीपो महाप्रभः। एकान्तिनस्ते पुरुषाः श्वेतद्वीपनिवासिनः” भा० शा० ३३८ अ०।

श्वेतधातु = पु० कर्म०। १ खटिकायां २ शुभ्रवर्णधातुद्रव्ये च।

श्वेतधामन् = पु० श्वेतं धाम यस्य। १ चन्द्रे २ कर्पूरे ३ समुद्रफेने च मेदि०। श्वेतकरादयोऽपि। ४ कर्पूरे च।

श्वेतनील = पु० “वर्णोवर्णेन” पा० स०। १ श्वेतकृष्णवर्णे २ तद्वति त्रि०। ३ मेधे शब्दर०।

श्वेतपत्त्र = पुंस्त्री० श्वेतं पत्त्रं पक्षोऽस्य। १ हंसे स्त्रियां ङीष् २ शुभ्रपक्षदलभ्यां युक्ते त्रि०।

श्वेतपत्ररथ = पु० श्वेतपत्रो हंसो रथ इव वाहनं यस्य। चतु र्मुखे ब्रह्मणि शब्दच०।

श्वेतपद्म = न० कर्म०। सितकमले राजनि०।

श्वेतपर्णा = स्त्री श्वेतं पर्णं यस्याः। वारिपर्ण्यां (पाना) राजनि०।

श्वेतपर्णास = पु० कर्म०। शुभ्रतुलस्यां रत्नमाला।

श्वेतपाटला = स्त्री कर्म० शुभ्रपाटलावृक्षे (शादापारुल) जटा०

श्वेतपिङ्गल = पुंस्त्री० देहेन श्वेतः जटया पिङ्गलः “वर्णोवर्णन” पा० स०। १ सिंहे त्रिका० स्त्रियां ङीष्। २ श्वेतपिङ्गलवर्णे पु ३ तद्युते त्रि०।

श्वेतपिण्डीतक = पु० कर्म०। महापिण्डीतकवृक्षे राजनि०।

श्वेतपुष्प = पु० श्वेते पुष्पमस्य। १ सिन्दुवारवृक्षे जटा० २ शुभ्रवर्णपुष्पयुक्ते त्रि० कर्म०। ३ शुभ्रे पुष्पे न०। ४ नागदन्त्यां ५मृगेवांरौ स्त्री राजनि०। ६ षोमातक्यां स्त्री रत्नमा०। सज्ञाया कन्। ७ शुभ्रकरवीरे पु० राजनि०।

श्वेतपुष्पिका = स्त्री श्वेतं पुष्पमस्याः कप् अत इत्त्वम्। १ महाशणवृक्षे २ पुत्त्रदात्र्यां च राजनि०।

श्वेतप्रसूनक = पु० श्वेतं प्रसूनं यस्य कष्। शाकतरौ राजनि०

श्वेतभण्डा = स्त्री कर्म०। श्वेतापराजितायां रत्नमा०।

श्वेतमन्दार = पु० कर्म०। शुभ्रमन्दारे राजनि०।

श्वेतमरिच = कम०। १ शोभाञ्जनवीजे अमरः २ शुभ्रमरिचे च

श्वेतरक्त = पु० श्वेतो रक्तः “वर्णो वर्णेनेति” पा० स०। १ पाटलवर्णे २ तद्वति त्रि० अमरः।

श्वेतरञ्जन = न० श्वेतं सिताभ्र० रज्यतेऽनेन रन्ज–ल्युट्। सीसके

श्वेतरथ = पु० श्वेतो रथो यस्य। १ शुक्रग्रहे शब्दच० कर्म०। २ शुभ्रे रथे।

श्वेतराजी = स्त्री श्वेतेन वर्णन राजते राज–अच् गौरा० ङीष्। चचेण्डायां राजनि०।

श्वेतरोचिस् = पु० श्वेतं रोचिरस्य। १ चन्द्रे २ कर्पूरे च हला०

श्वेतरोहित = पु० “वर्णोवर्णेन” पा० स०। १ पाटलवर्णे २ तद्वति त्रि० पुष्पेण श्वेतःफलेन लोहितः। ३ शुक्लरोहिते वृक्ष भेदे राजनि०।

श्वेतलोध्र = पु० कर्म०। पट्टिकालोध्रे राजनि०।

श्वेतवचा = स्त्री श्वेता वचेव। अतिविषायां (आतैच) राजनि० “पारसीकवचा शुक्ला प्रोक्ता हैमवतीति सा। हैमवत्युदिता तद्वच्छूलं हन्ति विशेषतः” भावप्र०।

श्वेतवल्कल = पु० श्वेतं वल्कलमस्य। १ उदुम्बरवृक्षे जटा०। २ शभ्रत्वग्युते त्रि०।

श्वेतवाजिन् = पु० श्वेतो वाजी यस्य। १ चन्द्रे हेमच० २ अर्जुने जटा०। श्वेताश्वादवोऽप्यत्र। ३ कर्पूरे च।

श्वेतवासस् = पु० श्वेतं वासोऽस्य। १ सन्त्यासिभेदे २ शुक्लवस्त्रयुक्ते त्रि०।

श्वेतवाह् = पु० श्वेतेन श्वेताश्वेन उह्यते वह–ण्वि। १ इन्द्रे २ अर्जुने ३ चन्द्रे च। ४ कर्पूरे। भत्वे ऊठ श्वेतौहः। हलि डसङ श्वेतवाः श्वेतोभिसित्यादि।

श्वेतवाहन = पु० श्वेतं वाहनं यस्य। १ चन्द्रे २ इन्द्रे ३ अर्जुने च मेदि०। ४ कर्पूरे च।

श्वेतवुह्ना = स्त्री कर्म०। वनतिक्तायां रत्नमाला।

श्वेतवृक्ष = पु० कर्म०। १ वरुणवृक्षे राजनि० २ शुभ्रवृक्षे च।

श्वेतवृहती = स्त्री कर्म०। शुभ्रवर्णक्षुद्रवृहत्यां राजनि०।

श्वेतशिंशपा = स्त्री कर्म०। शुभ्रशिशपायां राजनि०।

श्वेतशिग्रु = पु० कर्म०। सितशोभाञ्जने राजनि०।

श्वेतशुङ्ग = पु० श्वेता शुङ्गाऽस्य। १ यवे राजनि०। २ शुभ्रवर्णशुङ्गायुक्ते त्रि०।

श्वेतशूरण = पु० कर्म०। वनशूरणे राजनि०।

श्वेतसर्प = पु० श्वेतः सन् सर्पति सृप–अच्। १ वरुणवृक्षे जटा० कर्म०। २ शुभ्रभुजगे पुंस्त्री०। स्त्रियां ङीष्।

श्वेतसर्षप = पु० कर्म०। गौरसर्षपे।

श्वेतसार = पु० श्वेतः सारोऽस्य। शुभ्रखदिरे ऊटा०।

श्वेतसुरसा = स्त्री कर्म०। शुभ्रशेफालिकायाम् अमरः।

श्वेतस्पन्दा = स्त्री श्वेता सती स्पन्दते स्पन्द–अच्। सितापराजितायां राजनि०।

श्वेतहय = पु० श्वेतोहयः। १ उच्चैःश्रवसि हये त्रिका० २ सितबर्णयुक्ते ३ हये च। ६ ब०। ४ अर्जुने हेमच०। ५ इन्द्र च

श्वेता = स्त्री श्वित–अच्। १ वराटिकायां २ काष्ठपाटलायां ३ शङ्खिन्यां मेदि०। ४ अतिविषायां रत्नमा०। ५ सितापुराजितायां ६ शुभ्रकण्टकार्य्यां ७ पाषाणभादन्या ८ शुभ्रदूर्वायां ९ वंशरोचनायां १० शर्करायां ११ शिलावलकलायां १२ श्वेतवृहत्यां च राजनि०।

श्वेतार्क = पु० कर्म०। शुभ्रवर्णपुष्पके अर्कवृक्षे राजनि०।

श्वेतावर = पु० श्वेतं श्वेतवणमावृणोति आ + वृ–अच्। सितावरशाके राजनि०।

श्वेताश्वतर = पु० वेदशाखाभेदे।

श्वेतेक्षु = पु० कर्म०। शुक्ले इक्षौ राजनि०।

श्वेतोदर = पु० श्वेतमुदरं यस्य। कुबेरे त्रिका०।

श्वेतौही = स्त्री श्वेतौहः पत्नी ङीष्। इन्द्राण्यां शच्याम्।

श्वेत्य = न० श्वेतस्य भावः ष्यञ्। शुभ्रवर्णे।

श्वोवसीयस = न० अतिशयेन वसुः प्रशस्तःश्वो वसीयः नि० अच् सभा०। १ परदिने भाविंकाल प्रशस्ते मङ्गले २ तद्वति त्रि० इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्यसङ्कलिते वाचस्पत्याभिधाने शकारादि शब्दार्थसङ्कलनम्। अशुद्धशोधनम्। ६००० पृष्ठावधि ६०३४ पृष्ठपर्य्यन्तपत्राङ्के ९०० नवशताङाधिकतयाः प्रमादात् मुद्रिताः तत्र तत्र पृष्ठेषु नवभिः शतैरूनिता अङ्कसंस्त्या बोध्याः।

—ष—

षकारः = मूर्द्धन्यः ऊष्मवर्णभेदः। अस्कोच्चारणस्थानं मूर्द्धा अस्योच्चारणे आभ्यन्तरप्रयत्र विवृतथर्द्धस्पृष्टता “येमस्पृष्टाः शलस्तधा” शिक्षाक्तेः। बाह्यप्रवत्याञ्च विवाराश्वासा- धोषा महाप्राणश्च। ऊष्मरूपवायप्रधानत्वादस्य ऊद्मवर्णता। अस्य ध्येयस्वरूपं यथा “षकारं शृणु चार्वङ्गि अष्टकोणमयं सदा। रक्तचन्द्रप्रतीकाशं स्वयंपरमकुण्डली। चतुर्वर्गमयं वर्णं सुधानिर्मितविग्रहम्। पञ्चदेवषयं वर्णं पञ्चप्राणमयं सदा। रस्तःसत्त्वतमोयुक्तं त्रिशक्तिसहितं सदा। त्रिबिन्दुसाहतं वर्णमात्मादितत्त्वसंयुतम्। सर्वदेवमयं वर्णं हृदि भावय पार्वति!” कामधेनुतन्त्रम्। एताधष्ठानदेवताध्यानं यथा “चतुर्भुजां चकोराक्षीं चारुचन्दनचर्चिताम्। शुक्लवर्णां त्रिनयनां वरदाञ्च शुचिस्मिताम्। रत्नालङ्कारमूषाढ्यां श्वेतमाल्योपशोभिताम्। देववृन्दैरभिबन्द्यां सेवितां मोक्षकाङ्क्षिभिः। एव ध्यात्वा षकारन्तु तन्मन्त्रं दशधा जपेत् वर्णोद्धारतन्त्रम्। अस्य वाचकशब्दा यथा “षः श्वेतो वासुदेवश्च पिता प्रज्ञा विनायकः। परमेष्ठो वामबाहुः श्रेष्ठो गर्भविमोचनः। लम्बोदरो यमोऽजेशः कामधुक् कामचूमकः। सुश्रीरूष्मा वृषो लज्जा मरुद्भक्ष्यः प्रियः शिवः। सूर्य्यात्मा जठरः कोषो माता रक्षोविदारिणी। कलकण्ठो मध्यभिन्ना युद्धात्मा मलपूः शिवाः” वर्णाभिधानम् “मकारः श्वेत आख्यातो मूर्द्धन्यो वृषसंज्ञरुः। पित्तं शक्तिश्च माया च महायानिः स्वबिन्दुमत्” भन्त्रानिषनम्। मातृकान्यासेऽस्य जठरे न्यास्यता। काव्यादौ प्रयोगेऽण फलम् स्वेदः “शः मुखं षस्तु स्वेटम्” वृ० र० टी०

अत्र षादिशब्देषु षादितया ये धातवः पठितास्तेषां प्रयोगकाले दन्त्यसादित्वं सति च निमित्तं पुनः षत्वम् यथा षिध सेधति निधेधति “पट्टवर्गस्तवर्गस्वः” इत्युक्तेः यस्य प्रयोगकाले सत्वे तन्निमित्तटवर्गल तवर्गाविर्भवः यथा ष्टु स्तु स्तौति। ष्ठास्था वस्थौ ष्णा स्ना स्नाति। निमित्ते सति षत्वे च टुत्वे च प्रतिष्टौति प्रतिष्ठा निष्ठा निष्णाति। तत्र ष्ट्यैष्वक्कष्ठिवान्तु न सादेशस्तेन ष्ट्यायति ष्वक्कति ष्ठीवतीत्येवेतेत्ति भेदः। ष्ठिवपर्युदासे ष्ठीवधातोरपि पर्युदासः।

= पु० षो–क पृषो० षत्वम्। १ केशे मेदि० २ गर्भविमोचने मानये च ३ सर्वे ४ श्रेष्ठे एकाक्षरकोषः। ५ विज्ञे च त्रि० मेदि०।

षकार = पु० ष + स्वरूपे कार। षस्वरूपवर्णे कामधेनुतन्त्रे उदा०

षग = संवरणे भ्वा० पर० सक० सेट् एदित सिचि न वृद्धिः। सगति असगीत् मित् घटादि सगयति। असौषगत् त।

षघ = हिंसायां स्वा० पर० सक० सेट् एदित् सिचि न वृद्धिः। कवोति कसघीत् असीषघत् त।

षच = सेचने भ्वा० आत्म० सक० सेट्। पञ्चते असचिष्ट असीः षचत् त।

षच = सम्बन्धे भ्वा० पर० सक० सेट्। सचति। असचोत्–असाचीत्

षट = विभाजने भ्वा० पा सक० सेट्। सटति असटीत् असाटीत्

षट्कर्म्मन् = न० षट्प्रकारं कर्म०। १ तन्त्रोक्तेषु शान्तिवशीकरणस्तम्भनविद्वेषोच्चाटनमारणरूपेषु षट्सु प्रयोगभेदेषु तानि च कर्माणि तन्त्रसाराद्युक्तानि उच्चाटनशब्दे १०६२ पृ० दृश्यानि। तत्रत्यभूतमण्डलानि च भूतमण्डलशब्दे ४६८५। ८६ पृ० दृश्यानि। २ यजनयाजनाध्ययनाध्यापनदानप्रतिग्रहरूगेषु षट्सु विप्रकर्मसु च। षट्कर्माणि यस्य। ३ यागादियुक्ते विप्रे पु०। हठयो गाङ्गे ४षट्क्रियाभेदे यथोक्तं षेरण्डसं० १ अ०। “धौतिर्वस्तिस्तथा नेतिर्नौलिकी त्राटकस्तथा। कपालभातिश्चैताति षट् कर्माणि समाचरेत्। अन्तर्धौ तिर्दन्तधौतिर्हृद्धीतिर्मलशोधनम्। धौत्यश्चतुर्विधाः प्राक्ता घटं (वेह) कुर्वन्ति निर्मलम्। वातसारं वारिसारं वह्निसार बहिष्कृ म। घटस्य निर्मलार्थाय अन्तर्धौतिरुतुर्विधा”। “काकचञ्चुवदास्वेन पिबेद्वायुं शनैः शनैः। चालयेदुदरं पश्चाद्वर्त्मना रेचयेत् शनैः। वातसारं परं गोप्यं देहनिर्मलकारकम्। सर्वरोगक्षयकरं देहानलविवर्द्धकम्। आकण्ठं पूरयेद्वारि वक्त्रेण च पिवेत् शनैः। चालयेदुदरेशैव चोदराद्रेवयेदधः। वारिमारं परं धोतं देहनिर्भलकारकम्। साधयेद् यः प्रयत्नेन देवदेहं प्रपद्यते। नाभिग्रन्यिं मेरुपृष्ठं शतवारञ्च कारयेव। उदरामयजं त्यक्त्वां जठराग्निं विवर्द्धयेत्। षह्निसारमिदं धौतं योगिनां योगासद्धिदम्। काकीं मुद्रां साधवित्वा पूरयेतुदरं मरुत्। धारयेदर्द्धयामस्तु चालवेदधवर्त्मना। इदं धौतं परं गोप्यं न प्रकाश्य कदाचन। नाभिमग्नजले स्यित्वा शक्तिनाडीं विसर्जयेत्। कराभ्यां क्षालयेन्नाडीं यावन्मलविसर्जवम्। तावत् पक्षाल्य नाडीञ्च उदरे वेशयेत् पुनः। इदं प्रक्षालनं गोप्यं देवानामगि दुर्लभम्। केवलं धौतिमात्रेण देवदेहो भवेत् ध्रुवम्। यामार्द्ध धारणात् शाक्तं यावन्न साधयेन्नरः। वहिष्कृतमहाधौति तावन्नैव न जायधे। दन्तमूलं जिह्वामूलं रन्घ्रे च कर्णयुग्मयोः। कपालरन्धं पञ्चैते दन्तधोर्विधीयते”। “खाःदाण रसेनाथ मृत्तिकाभिश्च शुद्धिभिः। मार्क्षयेद्दन्तमूलञ्च यावत् किल्विषमाहरेत् दन्तमूलं परं षौतिर्यो गनां योगयाधन। नित्यं कुर्य्यात् प्रभाते च दन्तरक्षाय योगवित्। दन्तमूलं धारणादिकार्य्येषु योगिनां यतः। स्पपातः सप्रवक्ष्यामि जिह्वाशोधनकारणम्। जरामरणरोमादि नाशयत् दिर्घलम्बिका। तर्जनीमध्यमानामा अङ्गुक त्रययोगतः। वशयेद्गलमध्ये तु मार्जयेल्ल म्बकामलम्। शनैः शनैर्मार्जयित्वा कफदोषं निवारयेत्। मार्जयेन्नवनीतेन देहयेच्च पुनः पुनः। तदग्रं लौहयन्त्रेण घर्षयित्वा पुनः पुनः। नित्यं कुर्य्यात् प्रयत्नेन रवेरुदयकेऽस्तके। एवं कृते तु नित्येऽवलम्बिका दार्घतां गता। तर्जन्यङ्गुल्यकाग्रेण मार्जयेत् कर्णरन्घ्रयोः। नित्यमभ्यास योगेन नादान्तरप्रकाशनम्। वृद्धाङ्गुष्ठेन दक्षेण मार्जयेद्भालरन्घ्रकम्। एमभ्यासयोगेन कफदोषं निवारयेत् नाडी निर्मलतां याति दिव्यदृष्टिः प्रजायते। निद्रान्ते भोजनान्ते च दिवान्ते च दिने दिने। हृद्धौ तिं त्रिविधं कुर्य्यात् दण्डवज्जलवाससा। रम्भादण्डं हरिद्दण्डं वेत्रद्दण्डन्तथैव च। हृन्मध्ये चालयित्वा तु पुनः प्रत्याहरेत् शनैः। कफपित्तं तथा क्लेदं रेचयेदूर्द्ध्ववर्त्मना। दण्डवौतिविधानेन हृद्रोगं नाशयेत् ध्रुवम्”। हरिद्दण्डं (वटझुरि) “भोजनान्ते षिबेद्वारि आकण्ठपूर्णितं सुधीः। ऊर्द्ध्वदृष्टिं कण कृत्वा तज्जस्रं वमयेत् पुनः। निव्यमयासयोगोऽयं कफपित्तं निवारयेत्। चतुरङ्गलविस्तारं सूक्ष्मवस्त्रं शनैर्ग्रमेत्। पुनः प्रत्याहरेदेतत् प्रोच्यते धौतकर्मकम्। गुल्म्ज्वरप्लीहकुष्ठं कफपित्तं विनश्यति। चारोग्यं बलपुष्टिश्च भवेत्तस्य दिने दिने। अपानक्रूरतां तावन्मलं यावन्न शोधयेत्। तस्मात् सर्वपयत्नेन मलशोधनमाचरत्। पीतमूलस्य दण्डेन मध्यमाङ्गुलिनापि वा। यत्नेन क्षालयेद् गुह्यं वारिणा च पुनः पुनः। वारयेत् काष्ठकाठिन्य मामाजोर्णं निवारयेत्। कारणं कान्तिपुष्ट्योश्च दीपनं वह्निमण्डलम्। जलवस्तिः शुष्कवस्तिर्वस्ती च द्विविधौ स्मृतौ। जलवस्तिं जले कुर्य्यात् शुष्कवस्तिं क्षितौ सदा। नाभिपग्नजले पायुं न्यस्तनालोत्कटासनम्। आकुञ्चनं प्रसारञ्च जकवस्ति समाचरेत्। प्रमेहञ्च गुदावर्त्तं क्रूरवायुं निवारयेत्। भवेत् स्वच्छन्ददेहश्च कामदेवसगो भयेत्”। न्यस्तनालोत्कटासनम् ऊरुद्वय हस्तं दत्त्वा शारङ्गवदुदरं कुर्य्यादित्यर्थः। “वस्तिं पश्चिमतानेन चालयित्वा शनैः शनैः। अश्विनीमुदूया पायुमाकुञ्चेच्च प्रसारयेत। एवमभ्यासयोगेन कोष्ठदाषो न विद्यते। वर्द्धर्येत् जठराग्निञ्च आमवातं विनाशयेत्। वितस्तिम सूक्ष्मसतं नासानारे प्रवेशयेत्। मुखन्निर्गमयेत् पश्चात् प्रोच्यते नेतिकर्मकम्। साधनान्नेतिकर्मणः खेचरीं सिद्धिमाप्नुयात्। कफदोषा विनश्यन्ति दिव्यदृष्टिश्च जायते। आमन्दवेगे तुन्दञ्च भ्रमयेदथ पार्श्वयोः। सवरागान्निहन्तीह देहानलाववर्द्धनम्”। इति नौलि की “निमेषोन्मेषक त्यक्त्वा सूक्ष्मलक्ष्यं निरीक्षयेत्। यावदश्रु निपतति त्राटक प्राव्यते युधैः। एवभम्यासयोगेन शाम्भरी जायते ध्रुवम्। न जायते गेत्ररोगा दिव्यदृष्टि प्रदायकम्। सीत्कृत्य पीत्वा वक्त्रेण नासानालौर्वरोत्वयेत्। व्युत्क्रमेण व्युतक्रमेण सीत्क्रमेण विशेषतः। भालभाति त्रिधा कुर्य्यात् कफदोषं निवारयेत्। इडया पूरयेद्वायुं रेचेत्। पिङ्गलया पुनः। पिङ्गलया पूरयित्वा पुनश्चन्द्रेण रेचयेत्। पूरकं रचकं कृत्व वगेन न तु धारयेत्। एवमभ्यासयोगन कफदोषं निवारयेत्। नासाभ्यां जल माकृष्य वक्त्रेण रेचवेत् पुनः। पायं पाय प्रकुर्वश्चेत् श्लेष्मदाष निवारयेत्। न जायते वार्द्धकञ्च ज्वरी नैव प्रजायते”।

षट्कूटा = स्त्री भैरवीमेदे तन्त्रसा०।

षट्कोण = न० षट् कोणा यस्य। १ वज्रे राजनि०। तन्त्रोके ऊर्द्धाः धस्ये त्रिकोणवयस्यपे यन्त्रमेदे। २ ज्यातिषोक्ते तग्ननः शष्ठस्यामे च दया० त०।

षट्चक्र = न० षणां चक्राणां समाहारः पात्रादि०। तन्त्रोक्तेषु देहस्येषु सुपुम्णानाडीतध्यवर्त्तिषु द्विदलचतुर्दलादिषु षट् सु पद्मेषु चक्शब्दे २८०८ पृ० दृश्यसु। तदघिकृच कृतोग्रन्थः अण् तस्य लुक्। २ षट्चक्रप्रतिपादिकग्रन्धगेवे।

षट्चत्वारिंशत् = स्त्री षडधिका चत्वारिशत्। (छेयाल्लिश) १ संङ्ख्याभेदे १ तत्संख्यान्तिते च।

षट्चरण = पुंस्त्री० षट् चरणा यस्य। १ भ्रमरे हला० स्त्रियां ङीष्। षट्शदादयोऽप्यत्र। २ यूकायां राजनि०।

षट्ट = निवामे वले च अक० हिंसायां दाने च सक० चुरा० उभ० मेट्। सट्टयति ते अससट्टत त। सिषट्टथिषति।

षट्तिलिन् = पु० षट् तिलाः तिलोद्वर्त्तनादयः कर्भाण्यस्य। “तिलाद्वर्त्ती तिलस्नायी तिलहाला तिलप्रदः। तिलमुक् तिलवापी च षटतिली भावसीदति” इत्युक्त तिलोद्धर्त्तनादिकारिणि।

षट्त्रिंशत् = स्त्री षडधिका त्रिंशत् शाक०। (छत्रिश) १ संख्याभेदे २ तत्संख्यान्विते च।

षट्त्रिंशदुपचार = (छत्व्रश) देषपूजाङ्गेषूपचारेषु “आसनाभ्यञ्जन तद्वदुवत्तनविरुक्षणे। सम्माजनं सर्पिरादि स्नसुनावाहने तथा। पा{??}घ्यां {??}यञ्च स्नःनीयमधु- पर्ककौ। पुनराचमगीयञ्च वस्त्रयज्ञोपवीतके। अलङ्कारो गन्धपुष्पे धूपदीपौ तथैव च। ताम्बूलादिकनैवेद्यं पुष्पमाला तथैव च। अतुलेपश्च शय्या च चामरव्यजन तथा। आदर्शदर्शनञ्चैव नमस्काराऽथ नर्त्तनम्। गीतवाद्ये च दानानि स्तुतिहोमप्रदक्षिणम्। दन्तकाष्ठप्रदानञ्च ततो देवविसजनम्। उपचारां इमे ज्ञेयाः षट्त्रिंशत् सुरपूजने” एका० त०।

षट्त्रिंशन्मत = न० “मनुर्विष्णुर्यमो दसो ह्यङ्गिरोऽत्रिवृहस्पती। आपस्तम्बश्चोशना च कात्यायप्रपराशरौ। वशिष्ठव्याससंवर्त्ता हारोतगोतमाबपि। प्रचेताः शङ्खलिखितौ याज्ञवल्क्यश्च काश्यपः। शांतातपो लोमशश्च जमदग्निः प्रजापतिः। तिश्वामित्रपैठानसी बौधायनपितामहौ। छागलेयश्च जावालो मरीचिश्च्यवनो भृगुः। ऋष्यशृङ्गा नारदश्च षट्त्रिंशत् स्मृतिकारकाः। एतेषान्तु मतं यत्तु षट त्रिंशन्मतमुच्यत” इति शङ्खलिखितोक्तमुनिभेदमते।

षट्पञ्चाशत् = स्त्री षड्घिका पञ्चाशत् शाक०। (छाप्पान्न) १ सङ्खाशदे २ तत्मङ्ख्यान्विते च।

षट्पञ्चाशिका = स्त्री षट्पञ्चाशत् परिमाणमस्य ङिन संज्ञायां कन्। वराहमिहिरात्मजपृथुयशिविरचित मश्नग्रन्दभेदे।

षट्पदप्रिय = पु० ६ त०। नागकेशरे शब्दमा०। तस्य हि प्रचुरमधयुवत्वार्व भ्रमरप्रियत्वम्।

षट्पदातिथि = पु० षत् पदः अतिथिरिव यस्य। षक १ आम्रवृक्षे त्रिका०।

षट्पदानन्दवर्द्धन = पु० षट्पदस्यानन्द वर्द्धयति वृध–णिच्ल्यु उप० अशाकवृक्षे राजनि०।

षट्पदी = स्त्री षट्धाटा चस्याः पादस्य पाद्भाव ङोषि च द्भाव। १ यतायां भ्रभरयोविति च। स० द्विगुः। ३ षट्चरणयुक छन्दोभेदे च। ४ पटश्लोकात्मकपद्यसंघाते।

षट्प्रज्ञ = पु० षट् घु प्रज्ञ यस्य। “घर्मार्थकाममोक्षेषु लोकत्त्वर्थयार प। पट स प्रज्ञा तु यस्यासौ पट प्रज्ञपरिकीर्त्ततः” इत्युक्ते १ धर्मार्थाद्यभिज्ञे २ बौद्धे ३ कामुके त्रिका०।

षडङ्ख = पु० षणाभङानां समाहारः पात्रा०। “जङ्घ बाहू शिरो मध्यं षडङ्खदमुयत् इत्युक्ते १ देहावयशषत्र्कभेदे शब्दच० तन्त्राक्ते २ हृदयाद्यपयतभेदे यत्र ह्रदयादिषु षट्स्तु अङ्गेषु मन्त्र वशेषोम्यस्यत तषु। षट अङ्गानीव यस्य। “शिक्षाकल्पो व्याकरणं निरुक्तं छन्दसां चितिः ज्यातिपःमयमञ्चीव {??} पु० ४ क्षुद्रगोक्षुरक्षुपे च पु० राजनि० “गोमूत्रं गोमय क्षीरं सर्पिर्दधि च रोचना। षडङ्गमेतन्माङ्गल्यं पठितं सर्वदा गवाम्” स्मृत्युक्ते रोचनासहिते ५ पञ्चगव्ये न०।

षडभिज्ञ = पु० “दिव्यं चक्षुःश्रोत्रं १ परिचित्तज्ञानं २ पूर्वनिवासानुस्मृतिः ३ मात्मज्ञानभ् ४ वियद्गतिः ५ कायव्यूहमिद्धि ६ श्चेष्वेतानि षट् अभिज्ञा अभिज्ञायमानानि यस्य। वोद्धभेदे अमरः।

षडवत्त = न० लभयत्रं स्वातवतिं वारुणे यज्ञपात्रभेदे कात्या० १। ३। कर्कपद्धतिः।

षडशीति = स्त्री षडधिका अशीतिः शाक०। (छेयाशि) १ स ङ्ख्याभदे २ तत्सङ्ख्यान्वित च। षडनीतिमुखवतसु मिथनकन्याधनुर्मीनेषु रवेः संक्रान्तौ च “अयनविष्णुपदी षडशीत यो विषुवविष्णुपदोषडशीतयः” इति ज्योतिषम्।

षडशीतिचक्र = न० मिथुनकन्थाधनुर्भीनराशिस्थरवे संक्रमे शुभाशुभफलज्ञानाथं नक्षत्राङ्गनराकारे चक्रे। यथा “मुखे चैकं करे वेदाः पादयुम्मे द्वयं द्वयम्। क्रोडे वाणस्तथा वेदाः करे सव्येतरेऽपि च। द्वयं द्वयं तथा नेत्रे मस्तके त्रितयं तथा। द्वयञ्चैव तथा गुह्ये षडशीत्यां स्वभे स्थिते। मुखे दुःखं करे लाभः पादयोर्भ्रमणं हृदि। कान्ता स्याद् बन्धनं बामे हस्ते स्यात् खोयभे नृणाम्। सम्मानो नेत्रयोश्चैव अपमानश्च मस्तके। गुह्ये चैव भवेन्मृत्युः षडशीतिफलश्रुतिः” ज्यो० त०।

षडशीतिमुख = न० षडशीतेः तन्नामसंक्रान्तोर्मखञ्। “तुलादिषडशीत्यह्नां षडशोतिमुखं क्रमात्। तच्चतुष्टयमेव स्यात् द्विस्वभावेषु राशिषु” “षड्विंशे धनुषो भागे द्वाविंशेऽनिमिषस्य च। मिथनऽष्टादशे भागे कन्यायास्तु चतुर्दशे” इति सूयसिद्धान्तोक्ते तुलादितः षडशीतिदि नान्तरितकाले

षडष्टक = न० ज्या० त० उक्ते वरकन्ययोः स्वस्वराश्यपेक्षया परस्परषष्ठाष्टमराशिसम्बन्धे उपयमशब्दे पृ० दृश्यम्।

षडानन = पु० षट् आननानि यस्य। कार्त्तिकेये अमर। षड्वदनादयोऽप्यत्र।

षडानाय = पु० षडगुणित आम्नायः शाक०। शिवस्य षडवक्त्रविनिर्भते षट्प्रकारतन्त्रभेदे “अथेदानीं प्रवक्ष्यामि आम्रायकथनं पृथक्। पूर्वाम्नायो यदा मन्त्रस्तदा प्राच्यां दिशि स्वितः। सदाशिबोऽह भगवानाचारः परिकीर्त्तितः। एवं वै दलिणाम्नायो दक्षिणस्यां दिशिस्वितः। एवं हि पश्चिमाम्नायः पञ्चिमायां दिशि स्थितः। एवमेवोत्तराम्नाय उत्तरस्रां दिशि स्यितः। सुखमूर्द्ध्वकृतं देवि! यत् प्रोक्तं तव सन्निधौ। ऊर्द्ध्वाम्रायश्च कथितो देवानामपि दुर्लभः। यदा चाधोमुखं देवि! यत् प्रोक्तं गिरिज! प्रिये!। अध आम्नाय इत्युक्तः सत्यं सत्यं सुमध्यमे!। षडाम्नायाञ्च कथिताश्चोत्पत्तिक्रमनामतः। यस्मिन् यणिंश्च येदेवाः कथिताश्च वरानने।। तान्देवांश्च प्रवक्ष्यामि साधकानां हिताय वै। श्रीविद्याभेदसहिता तारा च त्रिपुरा तथा। भुवनेशी चान्नपूर्णा षूर्वाम्नाये प्रकीर्त्तिताः। वगलामुखी च वशिनी त्वरिता धनदा तथा”। वशिनी वालभैरवीत्यर्थः “महिषघ्नी महालक्ष्मार्दक्षिणाम्नायकीर्त्तिताः। महासरस्वती विद्या तथा वाग्वादिना पर०। प्रत्यङ्गिरा भवानी च पश्चिमाम्नायकार्त्तिताः। कालिका भेदसहिता तारा भेदैश्च संयुता। मातऋगी भैरवी च्छिन्ना तथा धूमावती परा। उत्तराम्नायकथिताः ककौ शौष्रफलप्रदाः। समस्तभेदसहिताः लालिका याः प्रकीर्त्तिताः। द्वाविंशत्यक्षरी तासां दक्षिणाम्नायकीर्त्तिता। एकजटा षडाम्नाये महामोक्षप्रदायिनी। तत्परा परमा विद्या न विद्यान्तरगोपिता। परप्रधानमन्त्राश्च ऊर्द्ध्वाम्नाये प्रकीर्त्तिताः। ऊर्द्धाम्नायो ह्यधश्चैव केवलं मोक्षदो भवेत्। धर्मार्थकाममोक्षार्थे आम्नायान्ये प्रकीर्त्तिताः। यथोक्तविधिना भद्रे! कृत्वा फलमवाप्रुयात्। पूर्वाम्नायादिसर्वेषां विघानं शृणु सुन्दरि!। कृत्वा येनाशु लभते फलं यदुत्तमोत्तमम्। षट कर्म फलदा नृणां षडाम्नायाः प्रकीर्त्तिताः। उत्तरामनायो देवेशि। तेषामाशु फलप्रदः” इति समयाचारतन्त्रे षटले। आमनायभेदेनाचारभेद उक्तो यथा “पूर्वाम्नायोदितं कर्म पाशवं कथितं प्रिये!। यदुक्तं दक्षिणाम्नाये तदेव पाशकं स्मृतम्। पश्चिमाम्नायजं कर्म पशुवीरसमाश्रितम्। उत्तराम्नायजं कर्म दिव्यवीराश्रितं प्रिये!। दिव्योऽपि वीरभावेन साधयेत् पितृकानने। वीरासनं विना दिव्यः पूजयेत् पितृकानने। ऊर्द्ध्वाम्नायोदितं कर्मदिव्यभावाश्रितं प्रिये!” इति निरुक्ततन्त्रे १ पटले।

षडूर्मि = पु० षट ऊर्मयः बुभुक्षादयोऽस्य। जीवे जर्मिशब्दे १३९३ पृ० दृश्यम्।

षडूषण = न० षटसंख्यम् ऊषणम्। कटुद्रव्यभेदे “पञ्चकोलं सभरिचं षडूषणमुदाहृतम्। षञ्चकोलगुणं तत्त रूणमुर्ण विसापहम्” भावप्र०।

षड्गया = स्त्री “गयागजो गयादित्यो गायत्री च गदाधरः। गया गयासुरश्चैव षड्गया मुक्तिदायिकाः” वायु० पु०। उक्ते गयागजादि षट्के।

षड्गव = त्रि० षड्भिर्गोभिराकृष्टः शकटः हलो व शाक० अच् समा०। षड्भर्गोभिराकृष्टे १ हलादौ “अष्टागवं धर्म्यहलं षड्गवं जीविकार्थिनाम्” इति स्मृतिः। षणां गवां समाहारः षच्समा०। २ षटषुगोषु न०।

षड्गुण = पु० षड्भिः गुणिता गुणाः शाक०। राज्ञां सन्ध्यादिषु षट्सु गुणेषु षाड्गुण्यशब्दे दृश्यम्।

षड्ग्रन्था = स्त्री षट् ग्रन्थयः सन्त्यस्या अच्। १ वचायां भावप्र० २ शठ्यां ३ महाकरञ्जे ४ श्वेतवचायाञ्च राजनि०।

षड्ग्रन्थि = न० षट् ग्रन्थयोऽस्य। १ पिप्पमीमूले वैद्यकम्। २षट् पर्वयुक्ते त्रि०। ३ वचायां स्त्रीःवा ङीप्। संज्ञायां कन् टाप् अत इत्त्वम्। शठ्यां स्त्रा अमरः।

षड्ज = पु० षड्भ्यो नासादिस्थानेभ्यो जायते जन–ड। “नासां कण्ठमुरस्तालु जिह्वां दन्तश्चि संश्रितः। षड्भ्यः संजायते यस्मात तस्मात् षड्ज इति स्मृतः” इत्युक्ते स्वरभेदे “षड्जसंवादिनीः केकाः” इति रघुः। “षड्जं रौति मयूरो हि गावो नर्दन्ति चार्षभम्। अजा विरौति गान्धार क्रौञ्चो नदति मध्यमम्” भरतः।

षड्दर्शन = न० षड्गुणितं दर्शनम्। १ आस्तिकमतसिद्धे पूर्वमीमांसावेदान्तसांख्यपातञ्जलन्यायवैशेपिकाख्ये दर्शने शास्त्रभेदे षट्सु २ बीद्धदर्शनेषु च।

षड्दीर्घ = पु० षड्भिर्गुणिता दीर्घाः। तन्त्रोक्तेषु वा, ई, ऊ, ऐ, औ, अः इत्येवं रूपेषु षट् सु दीर्घेषु।

षड्दुर्ग = न० षड्गुणितं दुर्गम्। “धन्वदुर्गं महीदुर्गमब्दुर्गं र्वार्क्षमेव वा। नृदुर्गं गिरिदुर्गं वा सभाश्रित्य वसेत् पुरम्” मनूक्ते दुर्गषट्के।

षड्धा = अव्य० षष् + प्रकारे–धाच्। षट्प्रकारे।

षड्बिन्दु = पु० षड्बिन्दवो यत्र। १ कीटभेदे मेदि०। २ विष्णौ त्रिका०।

षड्भुजा = स्त्री षट् भुजा इव यस्याः। (खरमुज) फललताभेदे राजनि०। २षढस्तयुक्ते त्रि०। ३ रौद्रे ज्वरे पु० “श्रीमांस्त्रिपादस्त्रिशिराः षड्भुजो नवलोचनः” ब्रह्मवै०।

षड्रस = न० षण्णां रसानां समाहारः पात्रा०। “मधुरो लवणस्तिक्तः कंषायोऽम्लः कटुस्तथा” इक्तुक्तेषु “मधुरं लौल्यमित्याहुरिक्ष्वादौ स च लक्ष्यते। लवणस्तु पटुः प्रोक्तः सैन्धवादौ स इष्यते। तिक्तस्तु पिचुमर्दादौ व्यक्तमास्वाद्यते रसः। कषायस्तुवरस्तूक्तः स च पूगीफलादिषु। कटुस्तु तीक्ष्णर्सज्ञः स्यात् मरीचादौ स चेष्यत” इत्युक्तस्थानेषु लक्ष्येषु षट्सु रसेषु। षडगुणितोरसः। तत्रार्थे पु०।

षड्लवण = न० षड्गुणितं लवणम्। मृज्जातयुतपञ्चलवणे त्रिका०।

षड्वर्ग = पु० ६ त०। १ कामक्रोधलोभमोहमदमात्सर्येषु “व्याजेष्ट षड्वर्गमिति” भट्टिः। “क्षेत्रं होराथ द्रेक्काणो नवांशो द्वादशांशकः। त्रिंशांशकश्च षड्वर्गस्त्र्यादिप्राप्त्या फलप्रदः” ज्योतिषाक्तेषु क्षेत्रादिषु षट्सु। स च ज्यो० त० उक्तो यथा “कुजशुक्रबुधेन्दर्कसौम्यशुक्रावनीभुवाम्। जीवार्किभानुजेज्यानां क्षेत्राणि १ स्युरजादयः। विषमर्क्षेषु प्रथमा होराः २ स्युश्चण्डरोचिष। द्वितीयाः शशिनोयुक्षु व्यत्ययाद्गणयेत् सदा। स्वपञ्चनवमानां ये राशीनामधिपाग्रहाः। ते द्रेक्काणाधिपाराशौ द्रेक्काणा ३ स्त्रय एव हि। मेषकेसरिधनुषां मेषाद्याश्च नवांशकाः ४। मृगकन्यावृषाणाञ्च मृगाद्यास्तु नवांशकाः। तुलामिथुनकुम्भानां तुलाद्याः समुदाहृताः। कर्किवृश्चिकमीनानां कर्कटाद्या नवांशकाः। चराणां प्रथमे चांशे स्थिराणां पञ्चमे तथा। नवमे द्यात्मकानाञ्च वर्गोत्तम इति स्मृतः। स्वनवांशस्तु राशीनां वर्गोत्तम इति स्मृतः। सर्वेषां मेषपूर्वाणां स्वर्क्षाद्या द्वादशांशकाः ५। कुजार्किगुरुसौम्यानां भागाः शुक्रस्य च क्रमात्। पञ्चपञ्चाष्टसप्तेषु ज्ञेयमोजःसु राशिषु। त्रिशांशा ६ व्यत्ययादेते युग्मराशिषु कीर्त्तिताः”। त्र्यधिकशुभाशुभप्राप्त्या शुभाशुभद इति बोध्यम्।

षण(न) = सम्भक्तो भ्वा० पर० सक० सेट् षस्य सत्वे णस्य नत्वम्। सनति असनीत् असानीत्। दन्त्यान्तोऽयमित्येके।

षण(न) = दाने तना० उभ० सक०। सेट् षस्य सत्वे णस्य नत्वम् उदित्। दन्त्यान्त इत्येके सनोति सनु असनीत्–असानीत् असनिष्ट–असात। सिषणिषति सिसांसति इत्येके।

ष(श)ण्ड = पु० सन–ड डस्य नेत्त्वम् पृषो० षत्वं शत्वं वा। १ वृषे अमरः २ नपुंसके जटा०। ३ पद्मादिसमूहे पु० न० अमरः।

षण्ढ = पु० सण–ढ तस्य नेत्त्वम् पृषो० षः। नपुंसके अमरे पाठान्तरम्।

षण्मुख = पु० षट्मुखानि यस्य। १ कार्त्तिकेये हला० षड्मुजायां स्त्री राजनि० टाप्।

षद = गतौ चु० उभ० सक० सेट्। सादयति ते असीषदत्।

षद = विषादे आकुलीभावे अक० हिंसायां गतौ च सक० तु० प० अनिट्। सीदति ऌदित् असदत्। ज्वला०। सदः सादः।

षन्च = गतौ भ्रा० पर० सक० सेट्। सञ्चति असञ्चीत्।

षन्ज = सङ्गे सम्बन्धे च भ्वा० पर० सक० अनिट् सजति असाङ्क्षीत्

षप = सम्बन्धे भ्वा० पर० सक० सेट्। सपति असापीत् असपीत्। असीषपत्।

षम = वैकल्ये अद० चु० उभ० अक० सेट्। समयति गे अससमत् त। सिषमयिषति।

षम्ब = सर्पणे भ्वा० पर० सक० सेट्। सम्बति असम्बीत्।

षर्ज्ज = सर्जने भ्वा० पर० सक० सेट्। सर्जति असर्ज्जीत्।

षर्ब(र्व) = गतौ भ्वा० प० सक० सेट्। सर्ब(र्व)ति असर्बी(र्वी)त्।

षर्षपी = स्त्री सर्षप + पृषो०। स्वञ्जनाकृतौ खगभेदे शब्दर०।

षल = गतौ भ्वा० पर० सक० सेट्। सलति असालीत् असीषलत्

षष् = त्रि० ब० व०। षो–क्विप् पृषो। (छय) सङ्ख्याभेदे व्याकरणोक्ते १डतिप्रत्ययान्तकत्यादौ षान्ते नान्ते सङ्ख्यावाचके च २ शब्दे च “ष्णान्ताः षट्” “डति च” पा०। “षज्भ्यो लुक्” पा० “न षटस्वास्रदिभ्यः” पा० स्तियां न ङीप्। “षट्संज्ञका स्त्रिषु समायुष्मदस्मत्तिङव्ययम्” अमरः। त्रिष्वित्यधिकारेण त्रिषु समा इति सिद्धे पुनः कथनं त्रिषु समानरूपताप्रतिपादनार्थम्। तथा हि वैयाकरणमते तिङः पथमान्तसामानाधिकरण्यनियमात् विशेष्यविशेषणयाः समानलिङ्गत्वे प्राप्ते ततः स्त्रियां टाबादिप्रसक्तौ तन्निधेधः तेन स्त्री पचति इत्यादौ इकान्तरत्वात् न ङीप्। स्त्रियः अपचन् इत्यादौ च न ङीप्। स्त्री अपचत इत्यादौ न टाप्। कुलं पचते इत्यादौ क्लोवत्वेन न ह्रस्वः। अव्ययस्य लिङ्गशून्यत्वेऽपि ह्रस्व टाबादिशून्य त्वार्थं त्रिषु समानरूपोक्तिः। तेन हाशब्दस्य निन्दनीयपरत्वे हा पापमित्यादौ न ह्रस्वः। कष्टसाध्यपरत्वे अहह संसारपारगतिरित्यादौ न टाप् इति बोध्यम् इत्यन्तस्य कति स्त्रियः इत्यादौ न ङीप्।

षष्टि = स्त्री षड्गुणिता दशतिः नि०। (षाट्) १ सङ्ख्याभेदे २ तत्सङ्ख्यान्विते च।

षष्टिक = पु० अष्ट्या अहोभिः पच्यते कन्। (षाटिया) १ धान्यभेदे अमरः। तत्रार्थ स्त्रीत्वमपि “षष्टिका कालशाकञ्च मूलञ्च केमु तरत्” ति० त०। षष्ट्या क्रीतः कन्। २ षष्टिमंख्यातद्रव्यक्रीते त्रि०।

षष्टिक्य = न० षष्टिकधान्यस्य भवन क्षेत्रम् यत्। धाष्टिकधान्योत्पत्तियोग्ये क्षते अमरः।

षष्टितम = त्रि० षष्टेः पूरणः तमप्। येन षष्टिसङ्ख्या पूर्य्यते तस्मिन्। स्त्रियां ङीप्।

षष्टिमत्त = पु० षट्या वर्षैमेत्तः। अर्द्धवयस्के गजे शब्दमा० तदुत्तर हि तस्य मत्ततायोग्यत्वात् तथात्थम्।

षष्टिलता = स्त्री षष्ट्या लतेव। भ्रमरनार्य्यां राजनि०।

षष्टिसंवत्सर = पु० ब० व० षष्टिगुणिता संवत्सराः। ज्यतिषप्रसिद्धेषु १ प्रभवादिषु षष्टौ वत्सरेषु। प्रभवादिशब्दे ४७३। ४७४ पृ० तदानयनं दृश्यम्। २ नारायणादिकेषु षष्टिवर्षेषु गुरुवर्षशब्दे २६२२ पृ० दृश्यम्। षष्ट्यव्दादयोऽप्यत्र।

षष्टिहायन = पु० षष्टिर्हायना वयोऽस्य। १ षष्टिवर्षवयस्के गजे षष्टिदिनपच्योहायनो व्रीहिः शाक०। २ षष्टिकधाम्ये च मेदि०।

षष्ठ = त्रि० षण्णां पूरणः षष् + डट् थुक् च। येन षट्संख्या पूर्य्यते तस्मिन् स्त्रियां ङीप्।

षष्ठक = त्रि० षष्ठो भागः कन्। षष्ठे भागे।

षष्ठांश = पु० कर्म०। रक्षणप्रतिरूपतया प्रजाभ्यो ग्राह्ये उत्पन्नशस्यस्य षष्ठांशरूपे नृपकरे।

षष्ठान्न = त्रि० षष्ठो दिवसस्य षष्ठकालः अन्नस्य तद्भोजनम्य कालो यस्य। दिवसस्य षष्ठभागे अन्नभोजनकालयुते पुरुषे।

षष्ठान्नकाल = पु० षष्ठे दिवसे भक्ष्यान्नकालो यत्र। व्रतभेदे।

षष्ठी = स्त्री षण्णां पूरणी डट् थुट् ङीप्। चन्द्रमसः षष्ठकलाया ह्रासवृद्धिरूपक्रियारूपे १ तिथिभेद स्कन्दभार्य्यारूपे २ मातृकाभेदे “मातृकासु पूज्यतमा सा च षष्ठी प्रकीर्त्तिता। शिशूनां प्रतिविश्वेषु प्रतिपालनकारिणी तपस्विनी विष्णुभक्ता कार्त्तिकेयस्य कामिनी। षष्ठांशरूपा प्रकृते स्तेन षष्ठा प्रकीर्त्तिता। पुत्रपौत्रप्रदात्री च धात्री त्रिजगतां सती। सुन्दरी युवती रम्या सन्ततं भर्तुरन्तिके। स्थाने शिशूनां परमा वृद्धरूपा च यागिनी। पूजा द्वादशमासेषु यस्या विश्वेषु सन्ततम्। पूजा च सूतिकागारे पुरा षष्ठदिने शिशोः। एकविंशतिमे चैव पूजा कल्याणहेतुकी। शश्वन्नियमिता चैषा नित्या काम्याहुतिः परा। मातृरूपा दयारूपा शश्वद्रक्षणरूपिणी। जले स्थले चान्तरीक्षे शिशूनां स्वप्नगोचरे” ब्रह्म० वै० प्र० १ अ०। “ब्रह्मणो मानसी कन्या देवसेना हलीश्वरी। दृष्ट्वा मां मनसा धाता ददौ स्कन्दाय भूमिप। मातृकासु च विख्याता स्कन्दभार्य्या च सुव्रता। विश्वे षष्ठिति विख्याता षष्ठांशात् प्रकृतेर्यतः” ४० अ०। “प्रसूत्या द्वादशे मासि सम्पूज्याऽपत्यवृद्धये। सुते जाते तथा षष्ट्यां षष्ठो द्वादशरूपिणी। वैशाखे चान्दनी षष्ठी ज्यैष्ठे चारण्यसंज्ञिता। आषाढे कार्दमी ज्ञेया श्रावणे लुण्ठनी तथा। भाद्रे चपेटी विख्याता दुर्गाख्याश्वयुजे तथा। नाद्याख्या कार्त्तिके मासि मार्गे मूलकरूपिणी। पौषे मास्यन्नरूपा च शीतला तपसि स्मृता। गोरूपिणी फाल्गुने च चैत्रेऽशोका प्रकीर्त्तिता” स्कन्दपु०। षष्ठीविहितकालव्यषस्था तिथिशव्दे दृश्या।

षस = स्वप्रे अदा० पर० अक० सेट् वैदिकः। सस्ति असासीत् अससीत्

षस्ज = सर्पणे भ्वा० पर० सक० सेट्। सज्जति असज्जीत्। अयमात्मनेपदीत्यन्ये “वचोऽपि परुषाक्षरं न च पदेषु संसज्जते” इति शकुन्तला।

षस्त = स्वप्ने अदा० स्वपा० पर० अक० सेट्। वैदिकः इदित्। संस्तो असंस्तीत्

षह = क्षमायां वा चु० उभ० पक्षे दि० पर० सक० सेट्। साहयति ते सह्यति असीषहत् असहीत्।

षह = क्षमायां भ्वा० ष्मा० सक० सेट्। सहते असहिष्ट ज्वला०। सह साहः। “तीषसहेति” पा० तकारादावर्द्धधातुके वा इट्। सोढा सहिता। सहितव्यः सोढव्यः। क्त। सोढ इत्येव। तत्र पक्षो निमित्ते सति न षत्वम् परिसोढा इत्येव पक्षे परिषहितेत्यादौ षत्वम्।

षहसानु = पु० सह–आनु असुक् च पृषो० षत्वम्। १ यज्ञे २ मयूरे च संक्षिप्तसारः।

षाट् = अव्य० सह–ण्वि–पृषो० षत्वं टत्वञ्च। सम्बोधने शब्दार्थकल्प०।

षाडव = पु० षडवति अव–अच् स्वार्थे अण्। १ गाने २ रसे च मेदि० तयोः तत्संख्यकस्वरादिमत्त्वात् कथात्वम्। ३ मट्स्वरमिलितरागे च “औडवः पञ्चभिः प्रोक्ता षड्भिस्तु षाडवः स्मृतः। सम्पूर्णः सप्तभिर्ज्ञेय एवं रागस्त्रिधामतः” संगीतदर्पणः।

षाड्गुण्य = न० षट्गुणा एव ष्यञ्। राज्ञां सन्धिविग्रहादिषु षट्सु गुणेषु “षाड्गुण्यमुपयुञ्जते” इति माघः। “षाड्गुण्यमिति यत् प्राक्तं तन्निबोध युधिष्ठिर!। सन्धा नासनमित्येव यात्रासन्धानमेव च। विगृह्यासनमित्येव यात्रां सम्परिगृह्य च। द्वैधीभावस्तथान्येषां संश्रयोऽथ परस्य च” भा० शा० ६९ अ० “सन्धानासनं १ सन्धिं कृत्वाऽवस्थितिः यात्रासन्धान यानम्२। विगृह्य वैरं कृत्वावस्थानं विग्रहः३ यात्रा सम्परिगृह्यासनं शत्रोर्भयप्रदर्शनार्थं यानं प्रदर्श्य स्वस्थानेऽवस्थान४ द्वैधीभाव उभयत्र सन्धिकरणं ५ परस्याऽन्यस्याश्रया ६ दुर्गादेमहाराजस्य वा” नी० क०। सन्धिञ्च विग्रहं यानमासनादि वदामि ते। यलवद् विगृहीतेन सन्धि कुर्य्याच्छिवाय च। कपाल उपहारश्च सन्तानः सङ्गतस्तथा। उपन्यासः प्रतीकारः संयोगः पुरुषान्तरः। अदृष्टनर आदिष्ट आत्मापि स ड- पग्रहः। परिक्रमस्तथा छिन्नस्तथा च परदूषणम्। स्कन्धोपनेयः सन्धिश्च सन्धयः षोडशेरिताः। परस्परोपकारश्च मैत्रः सम्बन्धकस्तथा। उपहाराश्च चत्वारस्तेषु मुख्याश्च सन्धयः। बालो वृद्धो दीर्घरोगस्तथा बन्धुबहिष्कृतः। भीरुको भीरुकजनो लुब्धो लुब्धजनस्तथा। विरक्तप्रकृतिश्चैव विषयेष्वतिशक्तिमान्। अनेकचित्तमन्त्रश्च देवब्राह्मणनिन्दकः। दैवोपहतकश्चैव दैवनिन्दक एव च। दुर्भिक्षव्यसनोपेतो बलव्यसनसड्कुलः। स्वदेशस्थो बहुरिपुर्मुक्तः कालेन यश्च ह। सत्यधर्मव्यपेतश्च विशतिः पुरुषा अमी। एतैः सन्धिं न कुर्वीत विगृह्णीयात् तु केवलम्। परस्परापकारेण पुंसां भवति विग्रहः। आत्मनोऽभ्युदयाकाङ्क्षी पीड्यमानः परेण वा। देशकालबलोपेतः प्रारभेतेह विग्रहम्। राज्यस्त्रीस्थानदेशानां ज्ञानस्य च वलस्य च। अपहारो मदो मानः पीडा वैषयिकी तथा। ज्ञानात्मशक्तिधर्माणां विघातो दैवमेव च। मित्रार्थञ्चापमानश्च तथा बन्धुविनाशनम्। भूतानुग्रहविच्छेदस्तथा मण्डलदूषणम्। एकार्थाभिनिवेशित्वमिति विग्रहयोनयः। सापत्न्यं वास्तुजं स्त्रीजं वाग्जातमपराधजम्। वैरं पञ्चविधं प्रोक्तं साधनं प्रशमं नयेत्। किञ्चित्फलं निष्फं वा सन्दिग्धफलमेव च। तदात्वे दोषजननमायत्याञ्चैव निष्फलम्। आयत्याञ्च तदात्वे च दोषसञ्जननं तथा। अपरिज्ञातवीर्य्येण परेण स्त्रीजितोऽपि वा। परार्थं स्त्रीनिमित्तञ्च दीर्घकालं द्विजैः सह। अकालदैवयुक्तेन बलोद्धतसखेन च। तदात्वे फलसंयुक्तमायत्यां फलवर्जितम्। आयत्यां फलसंयुक्तं तदात्वे निष्फलं तथा। इतीमं षाडशविधं न कुर्य्यादेव विग्रहम्। तदात्वायतिसंशुद्धं कर्म राजा सदाचरेत्। हृष्टं पुष्टं बलं मत्वा गृह्णीयाद् विपरीतकम्। मित्रमाक्रन्द आसारो यदा स्युर्द्दढभक्तयः। परस्य विपरीतञ्च तदा विग्रहमाचरेत्। विगृह्य सन्धाय तथा सम्भूयाथ प्रसङ्गतः। उपेक्षया च निपुणैर्यानं पञ्चविध स्मृतम्। परम्परस्य सामर्थ्यविघातादासनं स्मृतम्। अरेश्च विजिगीषोश्च यानवत् पञ्चघा स्मृतम्। बलिनोर्द्विषतोर्मध्ये वाचात्मानं समर्पयन्। द्वैधीभावेन तिष्ठेत काकाक्षिवदलक्षितः। उभयोरपि सम्पाते सेवेत बलवत्तरम्। यदा द्वावपि नेच्छेतां संश्लेषं जातसंविदौ। तदोपसर्पेत् तच्छुत्रु मधिकं वा स्वयं व्रजेत्। उच्छिद्यमानो कसिना निरुपावप्रतिक्रियः। कुलोद्धतं सत्यमार्य्यमासे- वेत बलोत्कटम्। तद्दर्शनोपास्तिकता नित्यं तद्भावभाविता। तत्कारितप्रश्रयिता वृत्तं संश्रयिणः श्रुतम्” अग्निपु० २३ अ०। अधिकं कामन्द० नीतिशास्त्रे दृश्यम्।

षाण्मातुर = पु० षण्णां मातॄणामपत्यम् अण् उदादेशे रपरः। कार्त्तिकेये तस्य कृत्तिकात्रिकं, गङ्गा पृथिवी पार्वती चेति षट मातरः पुराणेषु प्रासद्धाः। अग्निकुमारशब्दे तु तस्य षण्ण मृषिपत्नीनां मातृत्वं दर्शितम्।

षात्वणत्विक = त्रि० षत्वणत्वे अधिकृत्य कृतो ग्रन्थः ठक्। षत्वणत्वप्रतिपादके ग्रन्ये सि० कौ०।

षाण्मासिक = न० षष्ठे मासे भवः ठञ। मृतस्य एकाहोन षष्ठमासे कर्त्तव्ये श्राद्धभेदे “आद्यं षाण्मासिके तथेति” स्मृतिः “एकाहन्यूनषण्मासे तस्य विधानम्” ति० त० रघु०।

षाध = सिद्धौ स्वा० दि० च पर० अक० अनिट्। साध्नोति साध्यति असात्सीत् सिषाधयिषति।

षान्त्व = सामयुक्तसम्पादने अद० चु० उभ० सक० सेट्। सान्त्वयति ते अससान्त्वत् त।

षि = बन्धे स्वा० क्र्या० च उ० सक० अनिट्। सिनोति सिनुते सिनाति सिनीते असैषीत्। असेष्ट।

षिच = आर्द्रीकरणे तु० मु० उभ० सक० अनिट्। सिञ्चति ते असिचत् त। सिक्तः

षिट = अनादरे भ्वा० पर० सक० सेट्। सेटति असेटीत्।

षिड्ग = पु० षिट–गन् तस्य नेत्त्वम् पृषो०। १ विटे (लम्पट) २ कामुके हेमच०।

षिध = माङ्गल्ये अक० शसने सक० उदित् वेट्। सेधति असेधीत्–असैत्सीत्। सिद्धः।

षिध = गतौ भ्वा० पर० सक० सेट्। सेधति असेधीत् सेधितः।

षिध = सिद्धौ दिवा० पर० अक० अनिट् क्त्वा वेट्। सिध्यति असैत्सीत् णिचि साधयति। सिषाधयिषति।आ + राजाज्ञयाऽवरोधे सक०। आसेधः।उत् + उच्चतायाम् अक०। उत्सेधः।नि + निवारणे सक०। निषेधः।परि + निवारणे सक०। परिषेधः।प्रति + निवारणे सक०। प्रतिषेधः।वि + आ + विशेषेण निषेधे। व्याषेधः।वि + प्रति + विरुद्धत्वे व्याघाते। विप्रतिषेधः।

षिम्भ = हिंसने सक० दीप्तौ अक० भ्वा० पर० सेट् क्त्वा वेट्। सिम्भति असिम्भीत्।

षिम = हिंसने भ्वा० पर० सक० सेट्। सेमति असेमोत्।

षिल = उद्धृतशस्यक्षेत्रात् कणश आदाने तुदा० पर० सक० सेट्। सिलति असेलीत्।

षिव = तन्तुविस्तारे दि० प० अक० षेट् क्त्वा वेट्। ओव्यति असेवीत् स्यूतः सीवनं सेवनम्।

षु = सुराच्यावनरूपे सन्धाने सोमादेः पीडने मन्थने च स्वा० उ० सक० स्नाने अक० अनिट् लुङि पर० सेट्। सुनोति सुनुते असावीत् असोष्ट। साता

षु = गतौ भ्वा० उभ० सक० अनिट्। सवति ते असोषीत् असोष्ट।

षु = प्रसवे ऐश्वर्य्ये च भ्वा० प० सक० अनिट्। सवति असौषीत्।

षु = ऐश्वर्य्ये प्रसवे च अदा० पर० सक० येट् लिटि नित्येट्। सौति असावीत्–असौषीत्। सुषुविव।

षु = पु० सु–बा० डु पृषो० षत्वम्। गर्भविमोचन एकाक्षरकोषः

षुट्ट = अनादरे चु० उभ० सक० सेट्। सुट्टयति त असुषुट्टत् त।

षुन्भ = दीपने अक० हिसने स० भ्वा० प० सेट्। सुम्भति असुम्भीत्

षुर = दीप्तौ अक० ऐश्वर्य्ये स० तु० प० सेट्। सुरति असोरीत्।

षुह = तृप्तौ अक० क्षमायां सक० दि० पर० सेट्। सुह्यति ऌदित् असुहत्।

षू = प्रसवे गर्भविमोचने च अदा० आत्म० सक० वेट्। सूते सुवै असविष्ट असोष्ट।

षू = प्रसवे दि० आ० स० वेट्। सूयते असविष्ट–असोष्ट अओदित् सूनः

षू = क्षेपे प्रेतणे च तुदा० पर० सक० वेट्। सुवति असावीत्।

षूद = निवारणे भ्वा० आ० सक० सेट्। सूदते असूदिष्ट।

षूद = मारणे भ्वा० पर० सक० सेट्। सूदति असूदीत्।

षूद = क्षरणे अक० प्रतिज्ञायां निरासे च सक० अद० चु० उभ० सेट्। सूदयति तें असुषूदत् त।

षूर = स्तम्भे अक० हिंसने स० दि० आ० सेट्। सूर्य्यते असूरिष्ट ईदित् सूर्णः।

षूर्क्ष = अनादरे भ्वा० पर० सक० सेट्। सूर्क्षति असूर्क्षीत्।

षूर्क्ष्य = ईर्षायां भ्वा० पर० सक० सेट्। सूक्ष्यति असूर्क्ष्यीत्।

षूष = प्रसवे भ्वा० पर० सक० सेट्। सूषति असूषीत्।

षृन्भ = हिंसने भ्वा० पर० सक० सेट्। सृम्भति। असृम्भीत्।

षृभ = हिंसने भ्वा० पर० सक० सेट्। सर्भति असर्भीत्। षृन्भ षृभधातू पोणिनीयगणपाठे मूर्द्धन्यादितया पठितौ। तेन सोपदेशत्वात् सति निमित्ते षत्वम्। कविकल्पद्रु मे तु दन्तसादितया पठितौ। तेन सति निमित्ते न षत्वम्। तन्मतम् अपाणिनीयत्वादुपेक्ष्यम्।

षेक = सर्पणे भ्वा० आत्म० सक० सेट् ऋदित् चङि न ह्रस्वः। सेकति असेकीत्।

षेल = चालने गतौ च भ्वा० पर० सक० सेट् ऋदित् चङि न ह्रस्वः। सेलति असेलीत्।

षेव = ओराधने उपभोगे आश्रये च भ्वा० उभ० सक० सेट् ऋदित् चङि न ह्रस्वः। सेवति सेवते असेवीत् असेविष्ट।

षै = क्षये भ्वा० पर० अक० अनिट्। सायात असासीत्।

षो = नाशे दि० पर० अक० अनिट्। स्यति असात्–असासीत्। अव + समाप्तौ अवसानम् ज्ञाने सक० अवसोयते।अधि + अव + उत्साहे अक० निश्चय ज्ञाने सक० अध्यवस्यति।वि + अव + विशेषेण निश्चये सक० उद्यमे अक० व्यवस्यति।अनु + वि + अव ज्ञानज्ञाने अनुव्यवसायः थटमहं जानामीत्यादिरूपः।

षोडत् = पु० षट् दन्ता यस्य दन्तस्य दतृ षषौत्त्वं दस्य टुत्वम्। षड्दन्तयोग्यवयवस्के वृषादौ।

षोडशन् = त्रि० ब० व० षडधिका दश षषौत्त्वं दस्य टुत्वम्। (षोल) १ संख्याभेदे २ तत्सङ्ख्यान्विते च।

षोडश = पु० षोडशानां पूरणः डट्। येन षोडशसङ्ख्या पूर्य्यते १ तस्मिन्। चन्द्रमण्डलस्य २ षोडशभागरूपकलायां ३ त्रिपुरासुन्दर्य्याञ्च स्त्री ङीप्। “काली तारा महा विद्या षोडशी भुवनेश्वरी” तन्त्रसा०।

षोडशक = न० षाडश परिमाणान्यस्य कन्। षोडशसङ्ख्याते वस्तुनि “भूम्यासनं जलं वस्त्रं प्रदीपोऽन्नं ततः परम्। ताम्बूलच्छत्रगन्धाश्च माल्यं फलमतः परम्। शय्या च पादुका गावः काञ्चनं रजतं तथा। दानमेतत् षोडशकं पेतमुद्दिश्य दीयते” शु० त० उक्तेषु प्रेतोद्देशेन दीयमानेषु २ षोडशसु भूम्यादिषु “स्वर्णं रौप्यं तथा ताम्रं कांस्यं गावो गजा हयाः। गृहं भूमिर्वृषो वस्त्रं शय्या क्षेत्रमुपानहौ। दास्यन्नं पितृयज्ञेषु दानं षाडशकं मतम्” इति वायुपुराणोक्तेषु पितृकृत्येषु देयेषु ३ स्वर्णादिषु षोडशसु च।

षोडशभुजा = स्त्री षीडश भुजा यस्याः। दुर्गामूर्त्तिभेदे “यदा तु षोडशभुजां महामायां प्रपूजयेत्। दुर्गातन्त्रेण भन्त्रेण विशेषं तत्र वै शृणु। कन्यायां कृष्णपक्षस्य एकादश्यामुपोषितः। द्वादश्यामेकभक्तन्तु नक्तं कुर्य्यात् परेऽहनि। चतुर्दश्यां महामायां बोधयित्वा विधानतः। गीतवादित्रनिर्घोषैर्नानानैवेद्यवेदनैः। अयाजितं बुधः कुर्य्यात् उववासं परेऽहनि। एवमेव व्रतं कुर्य्यात् यावद्वै नवमी भवेत्” कालिकापु० ५९ अ०।

षोडशमातृका = स्त्री ब० व० षोडशसंख्या मातरः स्वार्थे क। “गौरी पद्मा शची मेधा सावित्री विजया जया। देवसना स्वधा स्वाहा मातरो लोकमातरः। शान्तिः पुष्टिर्धृतिस्तुष्टिः कुलदेवात्मदेवता” इत्युक्तासु गौर्य्यादिषु षोडशसु मातृकासु।

षोडशर्त्त्विज् = पु० कर्म०। हीत्रादिषु षोडशसु ऋत्विक्षु ते च अच्छावाकशब्दे ८५ पृ० दर्शिताः। तत्साध्यश्चयागः सोमयागादिः सत्रयागश्च।

षोडशाङ्ग = पु० षोडश दूव्याणि अङ्गान्यस्य। “गुगगुलुं सरलं दारु पत्त्रं मलयसम्भवम्। ह्रीवेरमगुरं कुष्ठं गुडं सर्जरसं घनम्। हरीतकीं नखीं लाक्षां जटामांसीश्च शैलजम्। षोडशाङ्गं विदुर्धूपंदैवे पैत्रे च कर्मणि” इत्युक्ते गुग्गुल्वादिषोडशद्रव्यरचिते धूपे तन्त्रसा०।

षोडशाङ्घ्रि = पु० षोडश अङ्घ्रयश्चरणा यस्य। कर्कटे हेमच०

षोडशांशु = पु० षोडश अंशवो यस्य। शुक्रग्रहे शब्दमा०। षोडशार्चिरप्यत्र।

षोडशार = न० षोडश अरः कोणास्त इव वा अस्य। १ षोदशदतयुक्ते कमले तन्त्रोक्ते २ यन्त्रभेदे च। तुलादानाद्यङ्गे २ चक्रभेदे षाडशारचक्रनिर्माणप्रकारस्तु तुलादानादिपद्धतौ विधानपारिजाताद्युक्तोऽस्माभिर्दर्शितो यथा “गुरुर्वेदिमध्ये त्रिहस्तदीर्घविस्तारं चतुरस्रं प्रसाध्य तत्र प्राक्पश्चिमयोर्दक्षिणोत्तरतश्च नव नव रेखाः कृत्वा चतुःषष्टिकोष्ठकं मण्डल कुर्य्यात्। तत्र च सर्वाणि कोष्ठानि नवाङ्गुलदीर्घायामानि सम्पद्यन्ते। तत्र बाह्यासु पङ्क्तिषु चतुर्दिक्षु मध्ये पार्श्वयोः द्वे द्वे कोष्ठे परित्यज्य चत्वारि कोष्ठानि मार्जयित्वा चतुःकोष्ठानामेकतां सम्पाद्य स्वस्वसंलग्नोपान्त्यपङ्क्तिषु द्वे द्वे मध्यकोष्ठे पार्श्वयोः त्रीणि त्रीणि कोष्ठानि त्यक्त्वा मार्जयेत्तेन चतुर्दिक्षु षट् षट् कोष्ठात्मकानि चत्वारि द्वाराणि जायन्ते। ततो मध्यस्थानि षोडश कोष्ठानि प्रतिदिशं चत्वारि चत्वारि कोष्ठानि परित्यज्य मार्जयेत्। ततो बाह्यपङ्क्तिषु एकैकं कोणगं कोष्ठमुत्सृज्य कोणकोष्ठद्वारपीठान्तरालवर्त्तीनि पञ्च पञ्च कोष्ठानि प्रतिदिशं मार्जयेत्। तेन मध्यचतुरस्रपीठस्य पादाः मवन्ति। ततो मध्यपीठमारभ्य क्रमशश्चत्वारि वृत्तानि कुर्य्यात्। तत्राद्ये चतुरङ्गुली द्वितीयेऽष्टाङ्गलस्तृतीये चतुर्वि शत्यङ्गुलः चतुर्थे च षडविंशत्यङ्गलो व्यासः। तत्राद्यं चतुरङ्गचव्यासकं वृत्तं कर्णिकारूपं पीतेन रजसा पूरयित्वा कर्णिकावधि रेखां सितेन रजसा विदध्यात्। तद्बहिरष्टाङ्गुलव्यासे द्वितीयवृत्ते क्रमेण पीतरक्तसितरजोभिः सम्पादितमव्यमूलाग्राणि षोडश केसराणि कृत्वा केसरावधिरेखां सितेनैव रजसाङ्गुलोन्नतां कुर्य्यात्। ततस्तद्वहिश्चतुर्विंशत्यङ्गुलव्यासे तृतीयवृत्ते अष्टसु दिक्ष्वष्टौ पत्राणि सितरजसा विधाय रक्ताग्राणि कुर्य्यात्। ततो दलान्तरेषु सितेन रजसा रेखां विधाय दलमध्यानि कृष्णेन रजसा पूरयेत्। तद्वहिरेकाङ्गुलान्तरालां बहिर्वृत्तस्थ चतुर्थरेखां सितरजसा संपाद्य ततीयचतुथवृत्तद्वयान्तरस्थानेषु परितोऽष्टदलाग्रतत्सन्धिषु षोडशभिः पत्रैः षोडशधा विभज्य प्रतिभागं यवाकारान् षोडशारान् श्यामपीतारुणश्वेतरजोभिः कल्पयित्वा तन्मध्यं यंथायोगं रजोभिः पूरयेत्। तद्बहिः सितपीतारुणश्यामहरिताः पञ्च रेखाः क्रमशो लिखेत्। तद्बहिः पीठक्षेत्रचतुरस्रं यथाशोभं रजोभिरलङ्कृत्य पीठावधिरेखां सितेन रजमा कृत्वा द्वारक्षेत्राणि पूर्वादितः पीतश्वेतश्यामहरितरजोभिः पूरयेत्। तत आग्नेयादिकोखस्थकोष्ठचतुष्टयं क्रमेण लोहितहरितश्यामधवलैः पूरयित्वा आग्नेयादिपीठपादचतुष्टयं पञ्चकोष्ठात्मकं क्रमात् पितरक्तपीतकृष्णरजोभिः पूरयेत्। ततः सितेन रजसाङ्गुलीन्नतेन बहिश्चतुरस्नरेखां कुर्य्यात्। ततः प्राच्यां वज्रम्, आग्नेय्यां शक्तिं, दक्षिणे दण्डं, नैरृत्यां खङ्गं पश्चिमायां पाशं, वायव्यां ध्वज, कौवेर्य्यां गदाम्, ऐशान्यां शूलं तहामे चक्रं, पाशदक्षिणे पद्मञ्च लिखेत्”।

षोडशिन् = पु० षोडश कला विद्यन्तेऽस्य इनि। १ सोमे २ यज्ञाङ्गे तन्नामसोमरसस्थापनपात्रे च “अतिरात्रे षोड शिमं गृह्वातोति” श्रुतिः “षोडशिनः पात्रं स्वादिर चतुरस्रम्” आत्या० श्रौ० १। ३ कर्कपद्धतिः।

षोडशोपचार = पु० य० व० षोडशसङ्ख्याता उपचाराः। “आसनं स्वागतं पाद्यमर्घ्य माचमनीयकम्। मधुपर्का० चमप्लानं वसनाभरणानि च। गन्धपुष्प्रे धूपदीपौ नैवेद्यं वन्दनं तथा” इत्युक्तेषु षोडशषु पूजाङ्गद्रव्येषु।

षोढा = अव्य० षट् प्रकाराः धाच् षमौत्त्वं धस्य टुत्वम्। षटसु प्रकारेषु।

षोढान्यास = पु० षोढा षट्प्रकारो न्यासः। तन्त्रोक्ते षट्प्रकारन्यासमेदे षोढान्यासप्रकारो यथा वीरतन्त्रे केवला भातृकां कृत्वा मातृकां तारसंपुटाम्। मातृकापुटितं तारं न्यसेत् साधकसत्तमः। श्रीवीजपुटितां तान्तु सातृकस्पुटितं तु तत्। कामेन पुटितां देवीं तत्पुटं काममेव च। शक्त्या च पुटितां देवीं शक्तिञ्च तत्पुटां त्यसेत्। क्रीं द्वन्द्वञ्च पुनर्न्यस्य। ऋलृलृखञ्च पूर्ववत्। मूलेन पुटितां देवी तत्पुटं मन्त्रमेव च। अनुलोमविलामेन न्यस्य मन्त्रं यथाविधि। मूलेनाष्टशत कुर्य्यात् व्यापकं तदनन्तरत्”। कालीतारादिषोढान्यासास्तन्त्रसारे दृश्याः।

ष्टक = प्रतीघाते भ्वा० पर० सक० सेट्। स्तकति अस्ता (स्त) कीत् घटादि० अकयति।

ष्टग = संवरणे भ्वा० प० सक सेट् एदित् सिचि न वृद्धिः घटा०। स्तगति अस्तगीत्।

ष्टन = शब्दे भ्वा० पर० सक० सेट् वा घटा०। स्तनति अस्तानीत् अस्तनीत् स्ता(स्त)नयति।

ष्टभ = स्तम्भे अक० स्तम्भने सक० भ्वा० आत्म० सेट् इढि। स्तम्भते अस्तम्भिष्ट।

ष्टम = वैकल्ये अद० चु० उ० स० सेट्। स्तमयति ते अतस्तमत् त

ष्टम = वैकल्ये अक० भ्वा० पर० सेट्। स्तमति अस्तमीत।

ष्टिघ = अभियागे स्वा० आत्म० सक० सेट्। स्तिघ्नते अस्तोघष्ट।

ष्टिप = क्षरणे भ्वा० आत्म० अक० सेट् ऋदित् चङि न ह्रस्वः। स्तेपते अस्तेपिष्ट। अतिष्टेपत् त।

ष्टिम = क्लेदे दि० प० अक० सेट्। स्तिम्यति अस्तेमीत् स्तेमनम्

ष्टीम = क्लेदे दि० प० अ० सेट्। स्तीम्यति अस्तीमीत् स्तीमनम्।

ष्टु = स्तुतौ अदा० उ० सक० अनिट् सिचि सेट् लिटि नित्येट् स्तौति स्तवीति स्तुतः स्तुवातः स्तुते स्तुवीत सि० कौ० मुग्धबोधमते अपिति न ईट् स्तुते इत्येवति भेदः। अस्तावीत् अस्तोष्ट। तुष्टुविव। तादावर्द्धधातुके वेट्। स्तोता स्तविता। स्तोष्यति स्तुतः।

ष्टुच = प्रसादे अक० भ्वा० आत्म० सेट्। स्तोचते अस्तोचिष्ट।

ष्टुभ = स्तम्भे अक० स्तम्भने सक० भ्वा० आत्म० सेट् क्त्वा वेट्। स्तोभते अस्तोभिष्ट।

ष्टूप = उच्छ्राये अद० चु० उभ० अक० सेट्। स्तूपयति ते अतुष्टूपत् त स्तूपः।

ष्टूप = उच्छाये दि० पर० अक० सेट्। स्तूप्यति इरित् अस्तूपत् अस्तूपीत्।

ष्टृक्ष = गतौ भ्वा० प० स० सेट्। स्तृक्षति अस्तृक्षीत् तरीष्टृक्ष्यते

ष्टृह = बधे तु० प० सक० वेट्। स्तॄहति अस्तर्हीत् अस्तॄक्षत्।

ष्टॄह = बधे तु० आत्म० सक० वेट्। स्तॄहति अस्तॄहीत् अस्तॄक्षत्

ष्टेप = क्षरणे भ्वा० आ० अक० सेट् ऋदत् चङि न ह्रस्वः। स्तेपते अस्तेपिष्ट।

ष्टै = वेष्टने सक० भ्वा० पर० अनिट्। स्तायति अस्तासीत्।

ष्ट्यै = संहतौ ध्वतौ च अक० भ्वा० पर० अनिट्। स्त्यायति। अस्त्यासीत् इत्येके। षत्यायति इत्येवेति।

ष्ठग = संवरणे भ्वा० पर० सक० सेट् घटा० सिचि न वृद्धिः। स्थगति अस्थगीत्।

ष्ठल = स्थितौ भ्वा० प० अक० सेट् ज्वला०। स्थवति अस्थालीत्।

ष्ठस = निरासे दि० प० स० सेट्। स्थस्यति अस्थासीत्–अस्थसीत्।

ष्ठा = गतिनिष्ठत्तौ भ्वा० पर० अक० अनिट् तिष्ठति अस्थात्।अधि + आधारतयावस्थितौ अक०।अनु + करणे अनुष्ठानम्।अव + अवसाने अवस्थानेउद् + ऊर्द्धचेष्टायां पा० आसनादुत्तिष्ठति उत्प्रत्तौ आ० ग्रामादुत्तिष्ठते (उत्पद्यते)।उप + सेवने सक० आ० उपतिष्ठते देवम्।नि + नितरां स्थितौ अक० नितष्ठौ मरणे च निष्ठा।प्र + गमने सक० प्रस्थानम्।प्रति + सस्कारभेदे प्रतिष्ठा।प्रति + अव + प्रतिपक्षतयाऽवस्थाने आत्म० प्रत्यवतिष्ठते।वि + अव + नियमभेदे आ० व्ययतिष्ठते व्यवस्था।सम + सम्यक् स्थितौ नाशे च संस्था संस्थितः।

ष्ठिव = निरासे (मुखेन श्लेष्मादेर्वमने) भ्वा० पर० सक० सेट् ष्ठीवति अष्ठेवीत्। ष्ठे (ष्ठी)वनम् उदित् क्त्वा वेट्। अत्रार्थे दिवादित्वमपि ष्ठीव्यति। षोपदेशपर्युदासे ह्रस्व दीर्घमध्ययोर्ग्रहणम्।

ष्ठीव = निरासे (श्लेष्मादेर्मुखेन वमने) भ्वा० पर० अक० सेट्। ष्ठीवति अष्ठीवीत् ष्ठीवनम्।

ष्ठ्यूत = त्रि० ष्ठिव–क्त ऊठ्। १ निरस्ते २ वान्ते च।

ष्णस = निरासे दि० पर० सक० सेट् उदित् क्त्वा वेट् वा घटा० ऌदित्। स्नस्यति अस्नसत्। स्न (स्न) सयति।

ष्णा = शाधने अदा० पर० अक० अनिट्। स्नाति अस्नासीत्।

ष्णिह = प्रीतौ दि० पर० सक० उदन वट्। स्निह्यति ऌदित् अस्नेहत् स्नेहिता स्नेढा–भ्नेग्धा।

ष्णिह = स्नेहयुक्तभवने चु० उभ० अक० सेट्। स्नेहयति ते। असिष्णिहत् त।

ष्णु = स्तुतौ अदा० उ० सक० सेट्। स्नौति अस्नावीत् अस्नविष्ट।

ष्णुच = सेचने भ्वा० आ० सक० सेट्। स्नोचते अस्नोचिष्ट सुष्णुचे

ष्णुस = मक्षे दि० प० सक० सेट्। स्नुस्यति अस्नोसीत् सुष्णोस।

ष्णुह = उद्गारे दि० पर० सक० ऊदित् वट्। स्नुह्यति ऌदित् अस्नुहत्। स्नोहित स्नढा।

ष्णै = वष्टे भ्वा० पर० सक० अनिट्। स्नायति अस्नासीत्। ष्ण्यै इत्येके ष्ण्यायति अष्ण्यासीत्। स्न (स्ना) पयति उपसृष्टस्य प्रम्नापयति।

ष्मि = ईषद्धास्ये भ्वा० आ० अ० अनिट्। स्मयते अस्मेष्ट सिष्मिये। कर्त्तृजन्ये विस्मये णिचि इत आत् पुल्च आ० विष्मायते तदन्यत्र विष्माययतीत्येव।

ष्वक्क = सर्पणे भ्वा० आत्म० सक० सेट्। ष्वक्कते अष्पक्किष्ट।

ष्वद = स्वादे छेदने च चु० उभ० सक० सेट्। स्वादयति ते असिष्वदत् त।

ष्वद = प्रीतौ लेहने च भ्वा० आ० सक० सेट्। स्वदते अस्वदिष्ट।

ष्वन्ज = आलिङ्गने भ्वा० आ० स० अनिट्। स्वजते अस्वङ्क्त।

ष्वप = शयने निद्रायाञ्च अदा० स्वपा० जक्षा० पर० अक० अनिट्। स्वपिति अस्वाप्सीत् सुष्वाप।

ष्वर्त्त = गतौ सक० दुःखेन जीवने अक० चु० उ० सेट्। स्वर्त्तयति ते असस्वर्त्तत् त।

ष्वष्क = गतौ भ्वा० आत्म० सक० सेट्। ष्वष्कते अष्वष्किष्ट। षोपदेश पर्युदासे स्रक्कवत् ष्वष्कस्यापि ग्रहणात् ष्वष्कते इत्येवेत्याहुः।

ष्विद = मोहे म्नेहे च अक० मोचने सक० भ्वा० आ० लुङि उ० सेट्। स्वेदते अस्विदत् अस्वेदिष्ट।

ष्विद = गात्रप्रक्षरणे अक० दि० पर० अनिट्। स्विद्यति ऌदित् अस्विदत्। इति श्रीतारानाथतर्कवाचस्पतिभट्टचार्य्यसङ्कलिते वाचस्पत्याभिधाने षकारादि शब्दार्थसङ्कलनम्।

***