वाचस्पत्यम्
शृ to शौ
links:
Menu अ–ह
Prev शी–शू
Next श्च–श्वि
शृ
शृत
शै
शो
शोध
शौच
UpasanaYoga
.org

शृ(सृ)गाल = पुंस्त्री० असृजं लाति ला–क पृषो०। (शेयाल) १ पशौ अमरः स्त्रियां ङीष्। २ दैत्यभेदे मेदि०। ३ वासुदेवे ४ निष्ठुरे ५ खले च पु० सारस्वताभिधानम्। पृषो०। शृकाल तत्रार्थे शब्दच०। ६ भीरौ अमरार्थकोषः। शृगालशब्दशाकुनं शिवारुतशब्दे दृश्यम्।

शृगालकण्टक = पु० शृगालस्तद्दन्त इव कण्टको यस्य। (शेयालका~टा) क्षुपभेदे शब्च०।

शृगालकोलि = पु० शृगाल इव कण्टकितः कोलिः। (शेयाकुल) क्षुपभेदे रत्नमाला।

शृगालघण्टी = स्त्री शृगाल इव कण्टकिनी घण्टी। कोकिलाक्षे क्षुपभेदे राजनि०।

शृगालजम्ब = स्त्री शृगालप्रिया जम्बुरिव। १ गोडुम्बे (गोमुक) २ घोण्टाफले मेदि०।

शृगालविन्ना = स्त्री शृगालैर्विद्यते विद–क्त। पृश्निपर्ण्यां राजनि०।

शृगालिका = स्त्री शृगालस्य भार्य्या ङीप् स्वार्थे क। १ शृगालयोषिति शृगालीव इवार्थे कन्। २ भयात् पलायने मेदि०।

शृगाली = स्त्री शृगालस्तत्पलायनं सादृश्येनास्त्यस्य अच् ङीप्। १ पलायने त्रिका०। २ कोकिलाक्षे ३ विदार्य्यां राजनि०

शृङ्खल = पु० शृङ्गात् प्राधान्यात् स्खल्यतेऽनेन पृषो०। निगडे २ लौहमये ३ पादबन्धने च हेमच०। ४ कट्याभरणे अमरः ५ पुंस्कटीवस्त्रबन्धने मेदि०। तत्रार्थे स्त्रीत्वमपि टाप्।

शृङ्खलक = पुंस्त्री० शृङ्खल इव कायति कै–क। १ उष्ट्रे राजनि० स्त्रियां जातित्वात् ङीष् स्वार्थे क। २ शृङ्खलशब्दार्थे।

शृङ्खलित = त्रि० शृङ्खला जाताऽस्य इतच्। वद्धनिगडेधनञ्जयः

शृङ्खली = स्त्री शृङ्खलः तदाकारोऽस्त्यस्याः अच् गौरा० ङीष्। १ कोकिलाक्षे वृक्षे २ पुंस्कठीवस्त्रबन्धने च राजनि०।

शृङ्ग = न० शॄ–गन् पृषो० मुम् ह्रस्वश्च। १ पर्वतोपरिभागे सातौ अमरः। २ प्रभुत्वे ३ चिह्ने ४ जलक्रीडार्थयन्त्रभेदे (पिचकारी) ५ पश्वादीनां विषाणे (शिङा) ६ उत्कर्षे च मेदि०। ७ ऊर्ये ८ तीक्ष्णे ९ पद्मे च शब्दर० १० महिष- शृङ्गनिर्मितवाद्यभेदे (शिङ्ग) ११ कामोद्रेके सा० द० शृङ्गारशब्दे दृश्यम्। १२ कूर्चशीर्षकवृक्षे पु० मेदि० १३ मुनिभेदे पु०।

शृङ्गक = पु० शृङ्गमिव कायति कै–क। जीवकवृक्षे जठा०।

शृङ्गकन्द = पु० शृङ्गमिव कन्दोऽस्य। शृङ्गाटके (पानीफल) राजनि०।

शृङ्गज = न० शृङ्गे पर्वताग्रे जायते जन–ड। १ अगुरुचन्दने रत्नमा०। २ वाणहेतुवृक्षे पु० संक्षिप्तसा० ३ शृङ्गजातमात्रे त्रि०

शृङ्गमूल = पु० शृङ्गमिव मूलमस्य। शृङ्गाटके राजनि०।

शृङ्गमोहिन् = पु० शृङ्गाय कामोद्रेकायु मोहयति मुहणिच्–णिनि। चम्पके राजनि०।

शृङ्गला = स्त्री शृङ्गं तदाकारफलं लाति ला–क। अजशृङ्ग्यां (गाडरशिङा) शब्दच०।

शृङ्गवत् = पु० शृङ्गं प्राशस्त्येनास्त्यस्य मतुप् मस्य वः। १ सीमापर्वतभेदे तन्मानादिभाग० १५। १६ अ० उक्तं यथा “उत्तरोत्तरेणेलावृतं नीलः श्वेतः शृङ्गवान् इति त्रयोरम्यकहिरण्मयकुरूणां वर्षाणां मार्य्यादागिरयः प्रानायता उभयतः क्षारोदावधयः द्विसहस्वयोजनपृथव एकैकशः पूर्वस्मात् पूर्बस्यादुत्तरोत्तरं दशांशाधिकांशेना दैर्घ्ये एव ह्रस्वन्ति”। २ शृङ्गयुते त्रि०।

शृङ्गवेर = न० शृङ्गमिव वेरमवयवो यस्य। १ आर्द्रके अमरः। २ शुण्ठ्यां ३ राममित्रगुहकचण्डालपुरे च। स्वार्थे क। आर्द्रके हेमच०।

शृङ्गवेराभमूलक = पु० शृङ्गवेरेण तुल्यं मूलसस्य कप्। एरकावृक्षे भावप्र०।

शृङ्गाट = पु० शृङ्गं प्राधान्यमटति अट–अण्। १ उत्तरस्थ पर्वतभेदे २ चतुष्पथे ३ जलकण्टकिवृक्षे च ४ तत्फले न०। “शृङ्गाटकं हिमं स्वादु गुरु वृव्यं कषायकम्। ग्राहि शुक्रानिलश्लेष्मप्रदं पित्तास्रदाहनम्” भावप्र०। स्वार्थे क। तत्र, चतुष्पथे अलङ्कारोक्ते बन्धभेदरूपे शब्दालङ्कारे च। स च पर्वतः कामाख्यादेशस्थः यथोक्तं कालिकापु० ८२ अ० यथा “द्वीववत्याः पूर्वतस्तु शृङ्गाटो नाम पर्वतः। तत्र भर्गस्य देवस्य लिङ्गमेकं प्रतिष्ठितम्। सरित्तु सिद्धा त्रिस्तोता दक्षिणोदधिगामिनी। शृङ्गाटकस्य सततं स्वतन्ती ग्राव्णि पाततः। दक्षिणं सागरं याति भर्गस्य प्रियकारिणी। पक्वमांसभेदे तत्माकविधिर्यथा “शुष्कभासं तनूकृत्य कर्त्तितं स्वेदितं जले। लवङ्गं हिङ्गुसहित लवणार्द्रकसंयुतम्। एलाजीरकधम्याकनिम्बूरससम- न्वितम्। वृते सगन्धे तद्भ्रष्टं पूरणं प्रोच्यते बुधैः। शृङ्गाटकं समितया कृतं पूरणपूरितम्। पुनः सर्पिषि संभृष्टं मांसं शृङ्गाटकं वदेत्। मांसं शृङ्गाटकं रुच्यं वृंहणं बलकृत् गुरु। वातपित्तहरं वृष्यं कफर्घ्न वीर्य्यबर्द्धनम्” भावप्र०।

शृङ्गार = पु० शृङ्ग कामोद्रेकमृच्छत्यनेन ऋ–अण्। १ रसभेदे अमरः। २ लवङ्गे ३ सिन्दूरे ४ चूर्णे च मेदि०। शृङ्गं कारणत्वेन ऋच्छति अण्। ५ कालागुरुणि राजनि० ६ आर्द्रके शब्दच०। शृङ्गं प्राधान्यमृच्छत्यनेन अण्। ७ भूषणे ८ गजभूषणे च। स्वार्थे क। सिन्दूरे “पुंसः स्त्रियां स्त्रियः पुंसि संयोगं प्रति या स्पृहा। सा शृङ्गार इति ख्याता रतिक्रीडादिकारणम्” इत्युक्ते ९ स्त्रीपुंसयोरन्योन्यसंयोगं प्रतीच्छाभेदे च रसभेदलक्षणादिकं सा० द० उक्तं यथा “शृङ्गं हि मन्मथोद्भेदस्तदागमनहेतुकः। उत्तसप्रकृतिप्रायो रसः शृङ्गार इष्यते। परोढां वर्जयित्वात्र वेश्याञ्चाननुरागिणीम्। आलम्बनं नायिकाः स्युर्दक्षिणाद्याश्च नायकाः। चन्द्रचन्दनरोलम्बरुताद्युद्दीपनं मतम्। भूविक्षेपकटाक्षादिरनुभावः प्रकीर्त्तितः। त्थक्त्वोग्र्यमरणालस्यजुगुप्सा व्यभिचारिणः। स्थायी भावो रतिः श्यामवर्णोऽयं विष्णुदैवतः”। “शून्यं वासगृहमित्यादि”। अत्र उक्तस्वरूपः पतिरुक्तस्वरूपा च बाला आलम्बनविभावौ। शून्यं वासगृहमुद्दीपनविभावः। चुम्बनमनुभावः। लज्जाहासौ व्यभिचारिणौ। एतै० रभिव्यक्तः सहृदयरतिभावः शृङ्गाररूपतां भजते। तद्भेदावाह। विप्रलम्भोऽथ सम्भोग इत्येष द्विविधो मतः”। तत्र विप्रलम्भो विप्रलम्भशब्दे उक्तः सम्भोगस्तु “दर्शनस्पर्शनादीनि निषेवेते विलासिनौ। यत्रानुरक्तावन्योन्यं सम्भोगोऽयमुदाहृतः”। आदिशब्दादन्योन्याधरपानचुम्बनादयः। यथा “शून्यं वासगृहमित्यादि”। “संख्यातुमशक्यतया चुम्बापरिरम्भणादिबहुभेदात्। अयमेक एव धीरैः कथितः सम्भोगशृङ्गारः। तत्र स्यादृतुषट्कं चन्द्रादित्यौ तथास्तमयः। जलकेलिवनविहारप्रायमधुपानयामिनीप्रभृतिः। अनुलेपनभूषाद्या वाच्यं शुचि मेध्यमन्यच्च”। तथा च भरतः “यत्किञ्चिल्लोके शुचि मेध्यमुज्ज्वलं दर्शनीयं वा तत्सर्वं शृङ्गारेणोपनीयते उपयुज्यते”। किञ्च “कथितश्चतुर्विधोऽसा० वानन्तर्य्यात्तु पूर्बरानादेः”। यदुक्तम् “न विना वि प्र- लम्भेण सम्भोगः पुष्टिमश्नुते। कषायिते हि वस्त्रादौ भूयान्रागो विवर्द्धते”।

शृङ्गारभूषण = न० शृङ्गारे तदर्थं भूषणम्। सिन्दूरे हेमच०।

शृङ्गारयोनि = स्त्री ६ त०। कामदेवे हला०।

शृङ्गारिन् = पु० शृङ्गारः उद्दीप्यत्वेनास्तास्य इनि। १ पूगे तत्फलभक्षणे हि कामोद्रेक इति तस्य तथात्वम्। २ गजे मेटि०। ३ सुवेशे त्रि०। ४ माणिक्ये पु० राजनि०।

शृङ्गिक = न० शृङ्गं तदाकारोऽस्त्यस्य ठन्। १ विषभेदे २ अतिविषायां स्त्री शब्दर०

शृङ्गिण = पु० शृङ्गं युद्धसाधनत्वेनास्त्यस्य इनन्। मेषे हेमच० स्त्रियां ङीष्।

शृङ्गिन् = पु० शृङ्गपस्त्यस्य इनि। १ मेषे २ कुलाचलमेदे शृङ्गवच्छब्दे दृश्यम्। ३ पर्वतमात्रे ४ मुनिभेदे ५ वृक्षे च। ६ शृङ्गयुक्ते त्रि० मेदि०। ७ धेन्वां स्त्री ङीप्। ८ श्लेष्मघ्नीवृक्षे ९ मल्लिकायां १० ज्योतिष्मत्यां च स्त्री मेदि०। मुनिभेदश्च शमीकर्षिपुत्रः स हि परिक्षितं प्रति तक्षकदंशनशापमदात् इति विष्णुपु० स्थितम्।

शृङ्गी = स्त्री शृङ्गमस्त्यडा अच् गौरा० ङीष्। १ मद्गुरस्य प्रियायाम् अमरः। पृषो० ह्रस्वः। शृङ्गिरित्यपि तत्रार्थे शब्दर०। २ अतिविषायां ३ वृषभोषधौ अमरः। ४ कर्कटशृङ्ग्याम् ५ प्लक्षे ६ विषे च० राजनि०। ७ भूपणस्वर्णे रत्नकोषः “मद्गुरस्यपिया शृङ्गी” इत्यमरे मद्गुरसी अप्रियेति नामद्वयम्। तेन (शिङी) मत्स्यस्यैवेदं नाम इति भरतः।

शृङ्गीकनक = न० श्रगि–कि या० सम्प्र० ङीप् शृङ्गी अलङ्कारस्तदर्थं कनकम्। भूषणार्थस्वर्णे अमरः।

शृ(सृ)णि = स्त्री शॄ–सृ वा क्तिन् तस्य निः पृषो०। अङ्कुशे अमरः।

शृत = त्रि० शृ–क्त। १ पक्वे अमरः २ क्वथिते जलादौ च “द्रव्यादुत्थापितात्तोयात् वह्निना परितापितात्। गिःसृतो यो रसः पूतः स शृगः समुदःहृतः” वैद्यकोक्ते ३ द्रव्यक्वाथजे रसे पु०।

शृध = अपानशब्दे भ्वा० आ० वृता० लुङि ऌटि ऌङि च उभ० अक० सेट् क्त्वावेट्। शर्द्धते अशृधत् शत्र्स्यति शर्द्धिष्यते।

शृध = छेदने भ्वा० उभ० सक० सेट् क्त्वा वेट्। शर्द्धति ते अशर्द्धीत् अशर्द्धिष्ट।

शृध = ग्रहणे चु० उभ० सक० सेट्। शर्द्धयति ते अशशर्द्धत् त

शृधु = पु० शृध–कु। १ बुद्धौ बिश्वः। २ कुत्सिते ३ अपाने संस्तिप्तमा०

शॄ = हिंसने क्र्या० प्वा० पर० सेट्। शृणाति अशारीत्। शीर्णः।

शेखर = पु० शिखि–गतौ अरन् पृषो०। १ शिखायां २ मूर्द्धस्थितमाल्ये च अमरः। ३ वन्दायां स्त्री शब्दर० ङीप्। ४ गीताङ्गे ध्रुवभेदे पु० तल्लक्षणं यथा “द्वादशाक्षरपादः स्यात् स चाल्पशुभकृत् प्रभोः। हासके च रसे वीरे गीयते शेखरो ध्रुवः। लघुर्गुरुर्भवेद्यत्त्र स भवेल्लघुशेखरः” संगीतदा०।

शेप = पु० शी–पन्। १ शेफे शिश्ने शब्दच०। २ शयनकर्त्तरि त्रि०।

शेपाल = पु० शेपः शयित इवालति अल–अच्। शैबाले शब्दर०

शेफ = पु० न०। शी–फन्। १ शिश्ने अमरः २ शयनकर्त्तरि त्रि०। शुक्रपाते सति शेते शी–असि फुक् च शेफोऽत्र न० “गौर्लिङ्गं चिह्नशेफसोः” अमरः। शेफसशेफसी शेफ शेपौ शेवश्चेति पञ्चशब्दास्तत्रार्थे तत्र पृषो० साधुतेति भरतः।

शेफालि(ली) = स्त्री शेफाः शयनशालिनः अलयो यत्र वा ङीप्। शेफालिकायां शब्दमा०।

शेफालिका = स्त्री शेरते इति शेपाः अलयो यत्र वा कप्। (शिउलि) पुष्पवृक्षे अमरः “शेफालिका कटूष्णा च तिक्ता रूक्षा च वातहृत्। कफाङ्गसन्धिवातघ्नी शृतवातादिदोषहृत्” राजनि०।

शेमुषी = स्त्री शी–विच् शेः मोहस्तं मुष्णाति मुष–क। बुद्धौ अमरः।

शेल = गतौ चालने च भ्वा० पर० सक० सेट्। शेलति अशेलीत्। ऋदित् चङि न ह्रस्वः।

शेलु = पु० शेल–उण्। बहुवारवृक्षे अमरः।

शेव = पु० शुक्रपाते सति शेते शी–अन्। पुंचिह्ने २ उन्नते ३ अहौ च उणादिकोषः।

शेवधि = पु० शेः धनादिमोहस्तस्य अवधिः। “पद्मोऽस्त्रियां महापद्मः शङ्खोमकरकच्छपौ। मुकुन्दकुन्दनीलाश्च निधयो नव शेवधि” इत्युक्ते नवपिधे निधौ अमरटीका।

शेवलु = न० शी–विच् तथाभूतः सन् वलते बल–अच्। शैवाले (शेआंला) शब्दच०।

शेवाल = न० शेते विच् ओ–सन् वलते वल–संज्ञायां कर्त्तरि घञ्। १ शैवाले शब्दर०। २ आकाशभांस्यां स्त्री राजनि०।

शेष = पु० शिष–अच्। १ अनन्ते सर्पराज सर्पभेदे २ बलदेवे च मेदि०। ३ अवशेषे अमरः। ४ गजे ५ उपयुक्तेतरवस्तूनि अजयपालः। ६ भगवतो कालसंज्ञमूर्त्तौ “एका भगवतो मूर्त्तिर्ज्ञानरूपा शिवामला। वासुदेवाभिधाना सा गुणातीता सुनिष्कला। द्वितीया कालसंज्ञा च तामसी शेषसंज्ञिता। निहन्ति सकलांश्चान्ते वैष्णवी परमा तनुः” कूर्मपु० ४८ अ०। “शेषे पष्ठी” पा० सू० उक्तादन्यः शेषः” भाष्यादयः। परोद्देशेन प्रवर्त्तमाने ७ मणीभूते अस्य लक्षणविषयादि मीमांसासूत्रभाष्यादौ दर्शितं यथा “शेषः परार्थत्वात्” सू० “इह सूत्रे शेषस्य लक्षणम्, येन च हेतुना शेषः इत्युच्यते, तदुभयमाख्यायते। यः मरस्योपकारे बर्त्तते, स शेषः इत्युच्यते, यथा, ये परार्थाः, ते वक्तारो भवन्ति, शेषभूता वयमिह इति। ननु योऽपि प्रधानभूतः सोऽपि कदाचित् परार्थे वर्त्तते, यथा उपाध्यायः प्रधानभूतः शिष्याणां विद्याविनयाधाने वर्त्तते। सत्यं वर्त्तते, यस्त अत्यन्तं परार्थः, तं वयं शेषः इति ब्रूमः, यथा, गर्भदासः कर्मार्थ एव स्तामिनोऽनड्वांश्च क्रीयते, वक्ष्यति इत्य व। ननु गर्भदासस्यापि स्वामी संविटघानो गुणभावमायात्। न इति ब्रूमः, आत्मन एवासौ संविदधानो गुणभावं गच्छति, नान्तुरीयकत्वात् गर्भदासस्योपकरोति, अनडुहो वा, यस्त्वत्यन्त परार्थः, तं वयं शेषः इति ब्रूमः। अथ तत्र किं वृत्तम्?। यैस्तु द्रव्यं चिकीर्ष्यते गुणः तत्र प्रतीयेत इति, तत्र अपूर्वार्थता व्यावर्त्तिता, दृष्टप्रयोजनानामा ख्यातानाम्। इह तु सर्वेषामेव शेषाणां लक्षणमुच्यते” शव० भा०। तस्य लक्ष्याणि तत्राह “द्रव्यगुणसंस्कारेषु वादरिः” सू० “वादरिराचार्यः अत्र द्रव्यगुणसंस्कारेष्वेव शेषशब्दः इति मेने, न यागफलपुरुषेषु! द्रव्यं क्रियार्थं, यदि प्रयोजनवती क्रिया, व्यक्तं सा द्रव्येण निर्वर्त्तयितव्या, तस्या निंर्वृत्तिर्द्रव्यादृते न भवति इति तन्निर्वृत्तये द्रव्यमेषितव्यं भवति, तस्मात् क्रियार्थं द्रव्यम्। गुणः शक्नोति विशिष्टं द्रव्यं चोदितं लक्षयितुम्, लक्षितेन च तेन प्रयोजनम्, विशिष्टस्य क्रियासाधनत्वात्, तस्मात् सोऽपि द्रव्यद्वारेण क्रियाया उपकरोति इति क्रियार्थ एव। संस्कारो नाम स भवति, यस्मिन् जाते पदार्थो मवति योग्यः कस्यचित् अर्थस्य, तेनापि क्रियायां कर्त्तव्यायां प्रयोजनम् इति सोऽपि परार्थः। तस्मात् द्रव्यगुणसंस्काराः परार्थत्वात् शेषभूताः। न तु यागफलपुरुषाः। यागः तावत् कर्त्तव्यः पुरुषस्य, न हि, तस्मिन् निर्वर्त्तिते किञ्चित् अपरमस्ति कर्त्तव्यम्। स हि पुरुषार्थः, यदन्यत् द्रव्यादि, तत् तदर्थं तस्य शेषभूतम्, स तु न किञ्चिदभिनिर्वर्त्तयितुम् क्रियते। फलमपि न तेन क्रियते, तस्मित तु कृते स्वयमेव तत् भवति। तस्मिन् कृते फलमस्य भवति पृत्येतावत् गम्यते, नास्ति शब्दो यागेन क्रियते फलमिति। तस्मात् यागो न शेषभूतः कस्यचित् अर्थस्य। फलमपि न पुरुष प्रत्युपदिश्यते, यः स्वर्गं कामयते, स यागं कुर्य्यादित्येतावत् शब्देनीपदिश्यते, नात्मनः परस्य वा इति, स्वर्गं प्रतीच्छामात्रेण स्वर्भकामः इति भवति, तस्मात् पुरुषं प्रति गुणभावेन न श्रूयते स्वर्गः, तस्मात् सोऽपि न शेषभूतः। न चेत् फलयागौ गुणभावेन चोद्येते, कस्य पुरुषः प्रधानभूती भवति? प्रत्यक्षश्चास्य द्रव्यत्वात् कर्म प्रति गुणभभावः। तस्मात् द्रव्यगुणसंस्कारेष्वेष शेषभावं वादरिर्मेने” शब० भा०। “कर्माण्यपि जैमिनिः, फलार्थत्वात्” सू० “जैमिनिस्तु स्वल्वाश्चार्य्यः कर्माण्यपि शेषभूतानि मन्यते अ, न वादरिरिवावधारणामनुमेने, स हि ददर्श, यागः कर्त्तव्यतया चोद्यते, फलकामस्य तु तत्साधनोपावत्वेन इति। एवं श्रुतोऽर्थः परिगृहीतो भविष्यति, अर्थवांश्चोपदेशः। एतभेवार्थं षष्ठेऽध्याये सूत्रैरेव साधयिष्यति। इह तु तत्सिद्धेनैव फलार्थत्वेन शेषभावं यागस्यापादयति स्म। तस्मात् अनवधारणा द्रव्यगुणसंस्काराः शेषभूताः यागोऽपि शेषभूतः फलम्प्रति” भा०। “फलं च पुरुषार्थत्वात्” सू०। “फलमपि पुरुषं प्रत्युपदिश्यते, यः, स्वर्गो मे भवेत् इत्येवं कामयते, तस्य यागः न यः स्वर्गः, स आत्मानं लभेत इति। आत्मनेपदप्रयोगात्, कर्त्त्रभिप्राये एतत् भवति, क्रियाफलमनुभवेत् कथं पुरुषः? इति यागः प्रयुज्यते। तस्मात् फलं पुरुषार्थं यागात् श्रूयते नात्मनिर्वृत्त्यर्थम्। तस्मात् शेषभूतम् इति” भा०। “पुरुषश्च कर्मार्थत्वात्” सृ०। “पुरुषोऽप्यौदम्बरीसम्भानादिषु गुणभूतः श्रूयते। तस्मात् अनवधारणा एषा, द्रव्यगुणसंस्कारेषु शेषत्वं वार्दरिर्मेने इति”। “अथ इदानीमत्रानुशयवान् वृत्तिकारः परिनिश्चिकाय, द्रव्यगुणसंस्कारेष्वेव नियतो यजिम्प्रति शेषभावः, आपेक्षिक इतरेषाम्। यागस्य द्रव्यम्प्रति प्रधानभावः, फलम्प्रति गुणभावः, फलस्य यागम्प्रति प्राधान्यम्, पुरुषम्प्रति गुणता, पुरुषस्य फलम्प्रति प्रधानता, औदुम्बरीसम्मानादि प्रति गुणत्वम् तस्मात् सम्मता अवघारणा, द्रव्यगुणसंस्कारा यागम्प्रति नियमता गुणभूता एव” भा०कस्यचित् शेषरक्षणनिषेधो यथा “ऋणशेषं चाग्निशेषं शत्रुशेषं तथैव च। पुनःपुनः प्रवर्द्धन्ते तस्मात् शेषं न कारयेत्” गरुडपु० “प्रसादान्निजनिर्माल्यदाने शेषेति कीर्त्तिता” विश्वोक्ते खामिना प्रसाददत्ते ८ माल्ये स्त्री “तथेति शेषामिव भर्तुराज्ञाम्” कुमारः।

शेषरात्रि = स्त्री० शेषं रात्रेः एकदेशिस०। रात्रिशेषे शब्दच०

शेषशयन = पु० शेषः अनन्तः शयनमस्य। नारायणे तच्छयन० प्रकारकालादि कालिकापु० २७ अ० उक्तं यथा “अनन्तस्तत्र गत्वा तु यत्र क्षीरोदसागरः। तत्र स्वयं स्त्रिया युक्तं सुषुप्सन्तं जनार्दनम्। तस्योपधानमकरो दनन्तो दक्षिणां फणाम्। उत्तरां पादयोश्चक्रे उपधानं महाबलः। तालवृन्तं तदा चक्रे स शेषः पश्चिमां फणाम्। स्वयन्तु वीजयामास शेषरूपी जनार्दनम्। शङ्खं चक्रं नन्दकादिमिषुधी द्वे महाबलः। ऐशान्या फणया चाथ स दध्रे गरुडं तदा। गदां पद्मञ्च शार्ङ्गं च तथैव विविधायुधम्। यानि चान्यानि तस्यासन्नाग्व्येय्या फणया दधौ। एवं कृत्वा स्वकं कायं शयनीयं तदा हरेः। भूतभव्यजगन्नाथं परापरगतिं हरिम्। दधार शिरसातन्तः स्वयमेव स्वकां तनुम्। एवं ब्रह्मदिनस्यैव प्रसाणेन निशां हरिः। सन्ध्यां च समधिप्राप्य शेते नारायणोऽव्ययः”। मनुना “शर्वरी नस्य तावतो” इत्युक्तम्। “यदा स देवोजागर्त्ति तदेदं चेष्ठत जगत। यदा स्वपिति शान्तात्मा तदा सर्वं प्रणश्यति” इत्युक्तं तेन प्रलयकाले एव तस्य शयनम्।

शैक्ष = पु० शिक्षां तन्नामग्रन्थमघीते येत्ति वा अण्। १ शिक्षाग्रन्थाध्यायिनि २ तद्वेत्तरि च। वुन्। शिक्षकोऽप्यत्र।

शैखरिक = पु० शिखरे प्राचीराद्यग्रे भवः ठक्। अपामार्गे अमरः।

शैखरेय = पु० शिखरे भवः ढक्। अपामार्गे रत्नकोषः।

शैत्य = न० शीतस्य भावः ष्यञ्। शीतलत्वे।

शैथिल्य = न० शिथिलस्य भावः ष्यञ्। अदृढे संयोगभेदे।

शैनेय = पु० शिनेर्गोत्रापत्यम् ढक्। सात्यकिनाम्नि यादवे।

शैरीय = पु० शिरा + छण्। नीलझिण्ठ्यां रत्नमा०। ढकञ् शैरेयक तत्रार्थे।

शैल = न० शिलायां भवः अण्। १ शैलेये गन्धद्रव्यभेदे। २ तार्क्ष्यशैले मेदि०। ३ शिलाजतुनि च राजनि०। शिलाः सन्त्यस्य प्रज्ञा० अण्। ४ पर्वते पु० अमरः।

शैलगन्ध = न० शैलस्य शैलजस्येव गन्धोऽस्य। शावरचन्दने राजनि०।

शैलज = न० शैले पर्वते जायते जन–ड। १ स्वनामख्याते गन्धद्रव्यमेदे रत्नमा०। २ गजपिप्पल्यां ३ सैंहल्यां ४ दुर्गायाञ्च स्त्री राजनि०।

शैलधन्वन् = पु० शैलं गिरितुल्यं धनुरस्य अनङ्स०। महादेवे त्रिका०।

शैलधर = पु० शैलं गावर्द्धनं धरति धृ–अच्। श्रीकृष्णे वनञ्जयः।

शैलपत्त्र = पु० शैलमिव सुगन्धि पत्त्रमस्य। बिल्ववृक्षे राजनि०

शैलभित्ति = पु० शलं भिनत्ति मिद–क्तिच्। टङ्के पाषाणदारणास्त्रे जटा०।

शैलराज = पु० शैलानां नगानां राजा टच् समा०। हिमाचले शैलाधिराजादयोऽप्यत्र।

शैलराजसुता = स्त्री ६ त०। हैमवत्यां पार्वत्यां “जाता शै लेन्द्रगृहे सा शैलराजसुता ततः” देवीपु० ४५ अ०।

शैलवीज = पु० शिलां तत्पर्य्यन्तं दूरं धावति अण् शैलं वीज यस्य। भल्लातके राजनि०।

शैलशिविर = न० शैलानां नगानां शिविरमिव। समुद्रे त्रिका०।

शैलसार = न० पु० न० शैलस्य सार इव। शिलाजतुनि राजनि०

शैलसुता = स्त्री ६ त०। १ पार्वत्याम् २ गङ्गायां च।

शैलाग्र = न० शैलस्याग्रम्। पर्वतशृङ्गे त्रिका०।

शैलाज = न० शिलायां जायते जन–ड स्वार्थे अण्। शैलजे राजनि०।

शैलाट = पुंस्त्री० शैलं पर्वतमटति अट–अण्। १ सिंहे २ किराते च स्त्रियां ङीष्। ३ शुक्लवर्णकाचे ४ देवले च पु० मेदि०।

शैलादि = पु० शिलादस्यापत्यम् इञ्। शिवपार्श्वचरे नन्दिनि

शैलालिन् = पु० ब० व० शिलालिना मुनिना प्रोक्तं नटसूत्रमधीयते णिनि। शैलूषेषु नटेषु अमरः।

शैलिक्य = पु० गर्हितं शीलमस्त्यस्य ठन् शीलिकः स्वार्थे ष्यञ्। सर्वलिङ्गिनि पाषण्डे जटा०।

शैली = स्त्री० शीलमेव स्वार्थे ष्यञ् ङीपि यलोपः। १ चारित्रे २ सङ्केतभेदे च त्रिका० “आचार्य्याणामियं शैली यत्सामान्येनाभिधाय विशेषेण विवृणोतीति” प्राञ्चः।

शैलूष = पु० शिलूषस्यापत्यम् अण्। १ नटे २ विल्ववृक्षे अमरः ३ धूर्त्ते ४ तालधारके च शब्दर०।

शैलूषिक = पु० शैलूषं तद्वृत्तिमन्वेष्टा ठक्। “वृत्त्यन्वेषी नटावान्तु स तु शैलूषिकः स्मृतः” ब्रह्मपु० उक्ते १ नटवृत्त्यन्वेषिणि नटप्रधाने २ तत्पत्न्यां स्त्री ङीष् “नटीं शैलूषिकीं चैव रजकीं वेणुजीविनीम्। गत्वा चान्द्रायण कुर्य्यात् तथा चर्मोपजीविनीम” संवर्त्तः।

शैलेन्द्र = पु० शैलः इन्द्र इव। हिमालये। ६ त०। शैलेशादयोऽप्यत्र।

शैलेन्द्रस्थ = पु० शैलेन्द्रे हिमालये तिष्ठति स्था–क। भूर्जवृक्षे राजनि०।

शैलेय = न० शिलायां भवः ढक्। १ शैलजाख्ये गन्धद्रव्यमेदे हेमच०। शैलेयं शीतल हृद्यं कफपित्तहरं लघु। कण्डूकष्ठाश्मरीदाहविषहृद्गुदरक्तहृत्” भावप्र०। २ पर्वतजातमात्रे त्रि०। स्त्रियां ङीष्। ३ सिंहे ४ भ्रमरे च पुंस्त्री० शब्दर० स्त्रियां ङीष्। ५ शिलातुल्ये शब्दर०। ६ पार्वत्यां स्त्री ङीप्।

शैलोद्भवा = स्त्री शैलं पर्वतमुद्भिद्य भवति उद् + भू–अच्। १ क्षुद्रपाषाणभेदिनि वृक्षे राजनि० २ पार्वत्याञ्च।

शैव = न० शिवमधिकृत्य कृतो ग्रन्यः अण्। वेदव्यासप्रणीते शिवप्रभाववर्णनात्मके १ महापुराणभेदे। शिवो देवताऽस्य अण्। २ शिवभक्ते त्रि०। तस्मेदमण्। ३ शिवसम्बन्धिनि त्रि० ४ शैवले न० शब्दच०। शैवञ्च महापुराणं वायुना प्रोक्तत्वात् वायवीयनाम्नाख्यातम् अतएव “अष्टादश पुराणानि पुराणज्ञाः प्रचक्षते। ब्राह्म पाद्मं वैष्णवञ्च शैवं भागवतं तथा” हेमा० व्र० विष्णुपु० “शैवं यद्वायुना प्रोक्तम्” तत्रैव कालिकापु० उक्तम्। हेमा० दा० मत्स्यपुराणे तु चतुर्थं वायवीयत्वेन पठित्वा “श्वेतकल्पप्रसङ्गेन धर्मान् वायुरिहाब्रवीत्। तत्र यद्वायवीयं स्याद्रुद्रमाहात्म्यसंयुतम्। चतुर्विंशतिमाहस्रं पुराणं तदिहोच्यते। श्रावण्यां श्रावणे मासि गुडधेमुसमन्वितम्। यो दद्याद्दधिसंयुक्तं ब्राह्मणाय कुटुम्बिने। शिवलोके स गूढात्मा कल्पमेकं वसेन्नरः” तथा च शिवमाहात्मवेदकत्वाच्छैवमिति तस्य नामान्तरं विष्णुपु० उक्तम्। वायुना प्रोक्तत्वाच्च वायवीयमिति नामान्तरमिति बाध्यम्। तत्प्रतिपाद्यविषयाश्च नारदीयपु० उक्ता यथा “शृणु वत्स! प्रवक्ष्यामि पुराणं वायवीयकम्। यस्मिन् श्रुते लभेद्धाम रुद्रस्य परमात्मनः। चतुर्थविंशतिसाहस्रं तत्पुराणं प्रकीर्त्तितम्। श्वेतकल्पप्रसङ्गेन धर्मागटत्राह मारुतः। तद्वायवीयमुदितं भागद्वयसमाचितम्” तत्र पूर्वभागे “सर्गादिलक्षणं यत्र प्रोक्तं विप्र! सविस्तरम्। मन्वन्तरेषु वंशाश्च राज्ञां ये तत्र कीर्त्तिताः। गयासुरस्य हननं विस्तरात् यत्र कीर्त्तितम्। मासानां चात्र माहात्म्यं पाथस्योक्तं फलाधिकम्। दानधर्मा राजधर्मा त्रिस्तरेणोदितास्तथा। भूपातालककुब्व्योमचारिणां तत्र निर्णयः। व्रतादीनां च पूर्व्योऽयं विभागः समुदाहृतः”। उत्तरभागे “उत्तरे तस्य भागे तु नर्मदातीर्थवर्णनम्। शिवस्य संहिताख्या वै विस्तरेण मुनीश्वर!। यो देवः सर्वदेवानां दुर्विज्ञेयः सनातनः। स तु सर्वात्मना यस्यास्तीरे तिष्ठति सन्ततम्। इदं ब्रह्मा हरिरिदं साकाक्षेदं परो हरः। इदं ब्रह्म निराकारं कैवल्यं वर्मदाजनम्। घ्रुवं लोकहितार्थाय शिवेन स्वशरीरतः। शक्तिः नापि सरिद्रूपा लेखेयमवतारिता। ये वसन्त्युत्तरे कूले रुद्रस्यानुचरा हि ते। वसन्ति याम्यतीरे, ये लोकं ते यान्ति वैष्णवम्। ओङ्कारेश्वरमारभ्य यावत् पश्चिमसागरम्। सङ्गमाः पञ्च च त्रिंशन्नदीनां पापनाशनाः। दशैकमुत्तरे तीरे त्रयोविंशतिर्दक्षिणे। पञ्चत्रिंशत्तमः प्रोक्तोरेबासागरसङ्गमः। सङ्गमैः सहितान्येवं रेवातीर द्वयेऽपि च। चतुःशतानि तीर्थानि प्रसिद्धाति च सन्ति हि। पंष्टितीर्थसहस्राणि षष्टिकोट्यो मुनीश्वर!। सन्ति चान्यानि रेवायास्तीरयुग्मे पदे पदे। संहितेयं महा पुण्या शिवस्य परमात्मनः। नर्मदाचरितं यत्र वायुना परिकीर्त्तितम्। लिखित्वेदं पुराणन्तु गुडधेनुसमन्वितम्। श्रावण्यां यो ददेत् भक्त्या ब्राह्मणाय कुटुम्बिने। रुद्रलोके वसेत् सोऽपि यावदिन्द्राश्चतुर्दश। यः श्रावयेद्वा शृणुयात् वायवीयमिदं नरः। नियमेन हविष्यासी स रुद्रो नात्र संशयः”। ५ वसुके ६ धस्तूरे पु० राजनि० ७ आचारभेदे पु० “अष्टाङ्गयोगसंयुक्तो यजेद्देवीं विधानतः। यावद् ध्यानं समाधिञ्च तावत् शैवं प्रचक्षते” च वारभेदतन्त्रम्। तदुपासकभेदाश्च शिवलिङ्गशब्दे वामनपु० उक्ता दृश्याः।

शैवल = न० शी–वलञ्। १ पद्मकाष्ठे २ शैबाले च पु० मेदि०। “वहतो बहुशैवलक्ष्मताम्” नैषधम्

शैवलिनी = स्त्री शैवलानि सन्त्यस्याः इनि। नद्याम् अमरः

शैवाल = न० शी–बालञ्। (शेओयाला) जलजाते पूदार्थभेदे अमरः। अस्य पृषो० दन्त्यादित्वमपि “सैवालकाङ्कुरलतामधुना बिभत्ति” इति श्लेषात्।

शैव्य = पु० शिवेर्गात्रापव्यम् ञ्य। १ शिविगोत्रजे राजभेदे “शैव्यश्च नरपुङ्गवः” इति गीता। शिवितोऽधिगतः ञ्य। २ घोटकमात्रे ३ श्रीकृष्णस्य घोटके च त्रिका०।

शैशव = न० शिशोर्भावः अण्। शिशुकाले अवस्थाभेदे अमरः

शैशिर = पुंस्त्री० शिशिर प्रियत्वेनास्त्यस्य अण्। १ श्यामच० टके राजनि० स्त्रियां ङीष्। शिशिरे भवः ऋत्वण्। २ शिशिरजाते त्रि०। स्वार्थे अण्। ३ शिशिरे न०। “तपस्तपस्यौ शैशिरावृतुः” श्रुतिः।

शैष्योपायिका = स्त्री शिष्योपाध्याययोः कर्म वुञ्। शिष्याध्यापनायां सि० कौ०।

शो = तीक्ष्णीकरणे दि० प० सक० अनिट्। श्यति अशात् अशासीत्।

शोक = पु० शुच–घञ्। इष्टवियोगजाते दुःखानुगुणे चित्तवृत्तिभेदे अमरः। ल्युट् शोचनमप्यत्र न०।

शोकनाश = पु० शोकं नाशयति नश–णिच्–अण्। १ अशोकवृक्षे राजगि०। गश–भावे षञ् ६ त० २ शोकध्व से।

शोकहारी = स्त्री शोकं हरति हृ–अण् ङीप्। वनवर्वरिकायां राजनि०।

शोकारि = पु० ६ त०। कदम्बवृक्षे शब्दच०।

शोचिष्केश = पु० शोचिः केशैव यस्य। १ वह्नौ २ चित्रकवृक्षे च अमरः।

शोचिस् = न० शुच–इसि। १ प्रभायां २ रोचिषि च अमरः।

शोच्य = त्रि० शुच–ण्यत्। १ क्षुद्रे २ अवरे शब्दच० ३ अनुकम्पनीये च। स्वार्थे क। तत्रैव।

शोटीर्य्य = न० शुटीरस्य भावः यत्। वीर्य्ये शब्दच०। शौटीर्य्य इत्येव पाठः साधुः।

शोठ = त्रि० शुठ–आलस्ये स्फोटने वा अच्। १ मूर्खे २ अलसे मेदि०। ३ धूर्त्ते ४ मीचे ५ पास्ववते पुंस्त्री० शब्दच०। स्त्रियां ङीष्।

शोण = गतो सक० वर्णे अक० भ्वा० पर० सेट्। शोणति अशीणीत् ऋदित् चङि न ह्रस्वः।

शोण = न० शोण–अच्। १ सिन्दूरे २ रुधिरे च राजनि०। ३ रक्तेक्षौ ४ शोणाकभेदे राजनि०। ५ मङ्गले ग्रहे ६ अग्नौ ७ चित्रके ८ नदभेदे स च अमरकण्टकदेशगतः पाटलिपुत्रसन्निकृष्टे गङ्कायां मिलितः। ९ रक्तवर्णे पु० १० तद्वति त्रि० मेदि०। ११ समुद्रभेदे धरणिः।

शोणक = पु० शोणैव कायति कै–क। शोणाकवृक्षे अमरः।

शोणझिण्टिका = स्त्री कर्म०। १ शोणझिण्ट्यां २ रक्तसैरेये राजनि०।

शोणझिण्टी = स्त्री शोणा झिण्टीव। १ कुरुवके २ कण्टकि न्याञ्च राजनि०।

शोणपत्त्र = पु० शोणं पत्त्रमस्य। १ रक्तपुनर्नवायां राजनि०। २ रक्तपत्त्रयुते त्रि०।

शोणपुष्पक = पु० शोणं पुष्पमस्य कप्। १ कोपिदारे राजनि० २ रक्तकुसुयान्विते त्रि०।

शोणपुष्पी = स्त्री शोणं पुष्पमस्याः ङीप्। सिन्दूरपुष्प्यां राजनि०

शोणरत्न = न० कर्म०। पद्मरागमणी अमरः।

शोणाक = न० शोणं रक्तवर्णभकति अण्। (शोणा) क्षुपभेदे। शब्दमा०।

शोणित = न० शोण–इतच्। १ रुधिरे तद्वद्वर्णे २ रक्तवर्णे पु० ३ तद्वति त्रि० अमरः। ४ कुङ्कुमे न० राजनि०।

शोणितचन्दन = न० शोणितं रुधिरमिव चन्दनम्। रक्तचन्दने राजनि०।

शोणितपुर = न० शोणितमिव रक्तं पुरम्। वाणासुरनगरे त्रिका०।

शोणोपल = पु० कर्म०। माणिक्ये षणौ राजनि०।

शोथ = पु० शु–थन्। हस्तपादादेः स्फीतताकारके रोगभेदे तस्य लक्षणादिकं भावप्र० उक्तं यथा “अथ शोथाधिकारः। तत्र शोथस्य विप्रकृष्टं निदानमाह “शुद्ध्यामयाभक्तकृशाबलानां क्षाराम्लतीक्ष्णीष्ण गुरुपसेवनात्। दध्याममृच्छाकविरोधिपिष्टगरोपसूष्टान्न- निषेवणाच्च। अर्शांस्यचेष्टा वपुषोह्यशुद्धिर्मर्माभिधाती विषमा प्रसूतिः। मिथ्योपचारः प्रतिकर्मणाञ्च निजस्य हेतुः श्वयथोः प्रदिष्टः”। शुद्धिर्वमनविकारेकादिः। आमयाः पाण्डुरोगादयः। अभक्तम् अगोजनम्। आमः अपक्वो भुक्तस्य रसः। पिष्टगरोपसृष्टान्नम् पिंष्टो यो गरः संयोगजं विषं तेन संसृष्टमन्नम्। वपुषोह्यशुद्धिः शोधनार्हस्य वपुषोऽशोधनम्। मर्मोपधातः दीपकृत एव ज्ञेयः। वाह्यहेतुकृतस्तु मर्मोपघात आगन्तुजशोथ हेतुरेव। विषमा प्रसूतिः आमगर्भपतनादिका। प्रतिकर्मणां वमनादिपञ्चकर्मणाम् निय्योपचारः असम्यक्करणम्। श्वयथोः शोथस्य निजस्य आत्मीषस्य सन्निकृष्टस्य हेतुर्घातात्मकस्योक्तः। अथ शोथव्य संप्राप्तिपूर्वकं सामान्यं लक्षणमाह “रक्तपित्तकफान् वायुर्दुष्टो दुष्टान् बहिःसिराः। नीत्वा रुद्धमतिस्तैर्हि कुर्य्यात्त्वग्मांस संश्रयम्। उत्सेधं संहतं शोथं तमाहुर्निचयादतः। सगौरवं स्यादनवस्थितत्वं सोत्सेधमुष्माप्य सिरातनुत्वम्। सलोमहर्षञ्च विवर्णता च सामान्यलिङ्गं श्वयथोः प्रदिष्टम्”। उत्सेधं उन्नतत्वम्। किंविशिष्टमुत्मेधअतः पूर्वोक्तात् निचयात् रक्तपित्तकफवातानां समुदायात् संहतम् घनम्। तमुत्सेधं शोथमाहुरित्यवयः। तस्य शोथस्य किं स्यादित्याकाङ्क्ष याचाह। अनवस्थितत्वं स्यात् अनिषता स्थितिः स्वादित्यर्शः चिकित्साव्यतिरेकेणापि निवृत्तेः। तच्चानवस्थिवत्यं सगौरवं स्याद्गौरवमप्यनवस्थितं स्यात्। अथ च सोत्मेघ स्यात्। उन्नतत्वमप्यनवस्थितं स्वादिव्यर्थः। वातिकं शोयमाह “चरस्तनुत्वक्परुषोऽरुणोऽसिनः प्रलुप्तिडर्षार्त्तियुतो निमित्ततः। प्रशाम्यति प्रोन्नमति प्रपीडिगो दिवा वली स्यात्श्वयथुः समोरणात्”। चरः लजारी। प्रनुप्तिः स्पर्शाज्ञता! हर्पोऽत्र (फिनि फिनी) रोमाञ्चो वा। आर्त्तिः पीडा एतद्युतः दिवा बली विकृतिविषम समप्रायारब्वत्वाद्। चतएबोक्तम् “स्लेहोष्णवमनाद्यैर्यः प्रशाष्येत स वातिकः। यसाप्यरुपवणः स्याम्नापो नक्तं प्रशाम्यति”। अथ पैधिकमाह “स्वदुः सगन्धोऽसितपीतरागवान् भ्रमज्वरस्वेदटषामदान्वितः। य उष्यते स्पर्शसहोऽक्षिरागमान् स वित्तशोथो भृण्टाहपाकतान्”। उष्यते सन्तप्यते। भृशदाहभाकवान् भृशं पाकस्तद्युक्तः। श्लैष्मिकमाह “पुरुः स्थिरः पाण्डुररोचकान्वितः प्रसेकनिद्रावमिवह्निमान्द्यकृस्। सकृच्छ्र- जन्मप्रशमो निपीडितो नचान्नमिड्रात्रिवली ककात्मकः”। द्वन्द्वजमाह “निदानाकृतिसंसर्गात् ज्ञेयः शोथो द्विदोषजः”। सान्निपातिकमाह “सर्वाकृतिः सन्निपाताच्छाथोव्यामिश्रलक्षणः”। व्यामिश्रलक्षण इत्युक्तेः सर्वाकृतिरिति उक्तवातजादिशोथसकलसक्षणनियमार्थम्। अथाभिधातजमाह “अभिघातेन शस्त्रादिच्छेदभेदक्षतादिमिः। हिषानिलोदध्यनिलैर्मल्लातकपिकच्छजैः। रसै शूकैश्च संस्पर्शाच्छयथुः स्याद्विसर्पवान्। भृशोष्म लोहिताभास प्रायशः पित्तलक्षणः”। छेदः स्नड्गादिना भेदः पाषाणादिना। क्षतं शरादिबा नाडीव्रणादि च। आदिशब्देन लगुडप्रहारादि गृह्यते। भल्लातजैः रसैः कपिकच्छुजैः शूकैः विसर्पवान् प्रसरणशालः पित्तलक्षणः पैत्तिकशोथलक्षणः। अथ विषजमाह “विषजः सविषप्राणिपरिसर्पणमूत्रणात्। दंष्ट्रादन्त नखाधातादविषप्राणिनामपि। विण्मूत्रशुक्रोपहतमलवद्वस्तुसङ्करात्। विषवृक्षानिलस्पर्शाद्गरयोगावधूननात्। मृदुश्चलोऽवलम्बी च शीघ्रो बहुरुजाकरः”। परिसर्पणात् शरीरोपरि सञ्चरणात्। दंष्ट्रा द्विगुणीकृता दन्ताबलिः। (चोह) इति लोके। दन्वाः आस्ये भबाः। अविषप्राणिनामपीत्यनेन दंष्ट्रादन्तबखानां स्वभावादेव सविषत्वं किन्तु सर्षादिविषं मारकं भवति अविषप्राणिनां दष्ट्रादिविषं शोथव्यथादिकरं भवतीति विशेषः। विण्मुत्रेत्यादि। विडाद्युपहतं मलिनञ्च यद्वस्तु तथा सङ्करः सन्मार्जनीभिः क्षिप्तो धूल्यादिः तेषां सम्पर्कात्। गरयोगावधूननात् गरः संयोगजं विषं तस्य योगा यस्य तेन वस्तुनाऽवधूननात्। अवलम्बी लम्बमानः। अयमप्यागन्तुजस्तथापि सामान्या गन्तुजशोथचिकित्सातोऽस्य विशिष्टचिकित्साभिधानाय पृथक् पठितः। यत्र स्थिता दोषा यत्र शोथं कुर्वन्ति तदाह “दोषाः श्वयथुमूर्द्ध्वं हि कुर्वन्त्यामाशये स्थिताः। पित्ताशयस्था मध्ये तु वर्चःस्थानगतास्त्वधः। कृत्स्नं देहृमनुघ्राप्य कुर्युः सर्वसरं तथा। ऊर्द्धम् उरःप्रभृत्यूर्द्धम्। मध्ये उरःपक्काशयमध्ये। अधः पक्काशयादधः। उपद्रवानाह “छर्दिश्वासोऽरुचिस्तृष्णा ज्यरोऽतीसार एव च। सम्पाक आमटौर्बल्यं शोथ एते उवद्रवाः”। तत्र शोथामाध्यत्वमाह “श्वासः पिपासा छदिश्च दौर्बल्य ज्वर एव च। यस्य चान्ने रुचिर्ज्ञास्ति शाथिनन्तु विवर्जयेत्”। स्वार्थे क। तत्रार्थे शब्दच०।

शोथघ्नी = स्त्री शोथं हन्ति हन–टक् ङीप्। १ पुनर्नवयाम् अमरः। २ शालपर्ण्याञ्च राजनि०। ३ शोथनाशके औषधमात्रे त्रि०।

शोथजि(ह)त् = पु० शोथं जयति हरति वा ञि–हृ–वा किप्। भल्लातके रत्नमा०।

शोथजिह्म = पु० शोथे जिह्मः विपरोताचरणशाली। पुनर्नवायां त्रिका०।

शोधन = न० शुध–णिच्–ल्युट्। १ शौचे २ विष्ठायां शब्दच०। ३ कासीसे राजनि०। ४ मलादेर्विरेचने ५ दोषविवारणे ६ ऋणादिनिर्यातये च। शुध–णिच्–ल्यु। ७ निन्यूके पु० राजनि०। ८ शुद्धिकारके त्रि०। शुध्यत्यनया करणे ल्युट् ङीप्। ९ सम्मार्जन्याम् स्त्री अमरः। १० ताम्बूलवल्ल्यां ११ नील्याञ्च स्त्री ङीप्। १२ विहिताविहितमासादिविचारणे न० “सूर्य्यग्रहणकालेन समानो नास्ति कश्चन। तत्र यद्यत् कृतं सर्वमबन्तफलदम्भवेत्। न मासतिथिवारादिशोधनं सूर्य्यपर्वणि” मल० त०। दोषनिवारणञ्च धातुविशेषस्य द्रव्यान्तरेण संयोजनम् “पत्तलोकृतपत्त्राणि हेम्नो वह्नौ प्रतापयेत्। निषिञ्चेत तप्ततप्तानि र्तले तक्रे च काञ्जिके। गोभूत्रे च कुन त्थानां कषाये तु त्रिधा त्रिधा। एवं हेम्न परेषःञ्च धातूनां शोधनं भवेत्” इत्यादिपकारेण धात्वादीनां दोषनिवारणम्। १३ व्रणादेः क्लेदपूयाद्यपसारणे च “व्रणस्य त्वविथुद्धस्य क्वाथः शुद्धिकरः स्मृतः। पटोलनिम्बपत्त्रस्य सर्वत्रैव प्रयुज्यते। वातिके दशमूलानां क्षीरिणां पैत्तिके व्रणे। आरग्बधादेः कफजे कषयाः शोधनं मतम्”। १४ पाण्डुलेख्यादेर्दोषनिवारणे भाषाशब्दे दृश्यम्। १५ भाज्याङ्गात् भाजकस्य हरणे।

शोधनीवीज = न० ६ त०। जयपाले राजनि०।

शोधित = त्रि० शुध–चिच्–क्त मलाद्यपसारणेन १ कृतसंस्कारे २ मार्जिते अमरः।

शोफ = पु० शु–फन्। शोथे अमरः। शोथशब्दे दृश्यम्।

शोफघ्नी = स्त्री शोफं हन्ति हन–टक् ङीप्। १ शालपर्ण्यां २ रक्तपुनर्नवायाञ्च राजनि०।

शोफनाशन = पु० शोफ नाशयति नश–णिच्–ल्यु। नीलवृक्षे राजनि०।

शोफहृत = पु० शोफं हरति हृ–क्विप्। भल्लातके भावप्र०।

शोभन = न० शोभते शुभ–ल्य। १ पद्मे शब्दमा०। विष्कम्भादिषु २ पञ्चमे योगे पु० ज्यो० त०। ३ शोभायुक्ते त्रि०। ४ सुन्दरे त्रि० ५ ग्रहे पु० धरणि।

शोभनक = पु० शोभनाय कायति क–क। शोभाञ्जनवृक्षे शब्दच०

शोभना = स्त्री शोभयति लेपनात् शुभ–णिच्–ल्यु। १ हरिद्रायां २ गोरोचनायाञ्च राजनि०।

शोभा = स्त्री शुभ–अ। १ दीप्तौ “सा शोभा रूपभोगाद्यैर्यत् स्यादङ्गविमूषणम्। शोभैव सान्तिराख्याता मन्मथाप्यायनोज्ज्वला” उज्ज्वलमण्युक्तार्थे च ३ गोपीभेदे ब्रह्मवै० प्र० ९ अ०। ४ हरिद्रायां ५ गोरोचनायां राजनि०।

शोभाञ्जन = पु० शोभायै अज्यते अन्ज–ल्युट्। (शजना) वृक्षे अमरः “तद्वीजं श्वेतमरिचं मधुशिग्रुः स लोहितः। शिग्रुः कटुः कटुः पाके तीक्ष्णोष्णो मधुरो लघुः। दीपनो रोश्चनो रूक्षः क्षवस्तिक्तो विदाहकृत्। संग्राह्यशुक्रलो हृत्यः पित्तरक्तपकोपणः। चक्षुष्यः कफवातघ्नो विद्रधि श्वपयक्रमीन्। मेदोऽपचीविषप्लीहमुल्मगण्डव्रणान् हरेत्। श्वेतः प्रोक्तगुणो ज्ञेयो विशेषात् दाहकृत् भवेत्। प्लीहानं विद्रधिं हन्ति ग्रणघ्नः पित्तरक्तकृत्। रक्तशिग्रुः प्रोक्तगुणो विशेषाद्विपनः सरः। शिग्रुवल्कलपत्त्राणां स्वरसः परमार्त्तिहृत्। चक्षुष्यं शिग्रुजं वीजं तीक्ष्णोष्णं विषनाशनम्। सुवृष्यं कफवातघ्नं तन्नस्यं तु शिरोर्त्तिनुत्। शिग्रुशाकं हिमं स्वादु चक्षुष्यं वातपित्तहृत्। वृंहणं श्रुक्रकृत् स्निन्धं रुच्यं गदक्रमिप्रणुत्। शिग्रोः पुष्पन्तु कटुकं स्निग्धोष्णं स्नायुशोथनुत्। छमिहृत् कफवातघ्नं विद्रधिप्लीहगुल्मजित्। शोमाञ्जनफलं स्वादु कषायं कफपिक्षनुत्। शूलकुष्ठक्षयश्वास गुल्महृत् दीपनं परम्” भावप्र०। अधिकं शिग्रुशब्दे दृश्यम्।

शोली = स्त्री शूल–अच् पृषो० ङीष्। वनहरिद्रायां राजनि०

शोष = पु० शुष–घञ्। १ वातादिना रसाद्यपहारेण कठिनताकरणे। शोघयति शुष–णिच्–अच्। २ यक्ष्मरोगे मेदि०।

शोषण = न० पुष–ल्युट्। १ चोषणेन रसाकर्षणे हेमच०। २ शोषशब्दार्थे च शोषयति शुष–णिचु–ल्यु। उन्मादनः शोषणश्च तापनं स्तम्भनस्तथां। मारणश्चेति विज्ञेयाः कामस्य पञ्च सायकाः” इत्युक्ते ३ स्मरशरभेदे जटा०। ४ शोणाकवृक्षे भावप्र०। ५ शुण्ठ्यां राजनि०।

शोषसम्भव = न० सम्भवत्यस्मात् सम् + भू–अप् ६ त०। पिप्पलीमल राजनि०।

शोषापहा = स्त्री शोषमपहन्ति अप + हन–ड। १ क्लीतनके राजनि०। २ शोषनाशके त्रि०।

शौक = न० शुकान समूहः अण्। १ शुकसमुदाये अमरः। शूकोऽस्त्यत्र णः। स्त्रीणां २ करणमेदे राजनि०।

शौकर = न० शूकरस्य वराहस्येदम् अण्। १ शौकरवे तीर्थभेदे वराहपुराणम्। २ शूकरसम्बन्धिनि त्रि०। स्त्रियां ङीप्।

शौकरब = न० तीर्थभेदे “परं शौकरवं स्थानं सर्वसंसारमोक्षणम्। यत्र संस्था च मे देवि ह्युद्धृतासि रसातलात्। यत्र मागीरधी गङ्गा नम शौकरवे स्थिता” बराहपु०।

शौक्तिकेय = न० शुक्तिकायां भवम् ढक्। मुक्ताया राजनि०

शौक्तेय = न० शुक्तौ भवम् ढक्। मुक्तायां राजनि०।

शौक्ल्य = पु० शुकस्य भावः ष्यञ्। श्वेततायां श्वेतवर्णे।

शौच = न० शुचेर्भाद्धः अण्। १ शुद्धौ पवित्रतायाम् “अभक्ष्यपरिहारश्च संसर्गश्चाप्यनिन्दितैः। स्वधर्मे च व्यपस्थानं शौचमित्यभिधीयते” इति वृहस्पत्युक्ते २ धर्मविशेषे च “सर्वेषामेव शौचानामर्थशौचं विशिष्यते। योऽथार्थैरशुचिः शौचान्न मृदा बारिष्णा शुचिः। मलशौचं मनःशौचं शौचमिन्द्रियनिग्रहः। सर्वभूतदया शौचं जलशौचन्तु पञ्चमम्। यस्य सत्यञ्च शौचं च तस्य स्वर्गो न दुर्लभः” गारुडे ११० अ०। मृदादिशौचप्रकारस्तु आ० त० दर्शितो यथा देबलः “धर्मविद्दक्षिणं हस्तमवः शौत्ते न योजयेत्। तथैव वामहस्तेन नाभेरुर्द्ध्वं न शोधयेत्। प्रकृतिस्थितिरेषा स्यात् कारणादुभयक्रिया”। कारणाद्रोगादेः। ब्रह्माण्डपु० “उद्धृतोदकमादाय मृत्तिकाञ्चैव वाग्यतः। उदङ्मुखो दिवा कुर्य्यात् रात्रौ चेद्दक्षिणामुखः। सुनिर्णिक्ते मृदं दद्यात् मृदन्ते त्वप एव च। दातव्यमुदक तावद् यावत् स्यात् मृत्तिकाक्षयः”। कुर्य्यात् शौचमिति शेषः। सुनिर्णिक्ते नरद्वाजोक्तलोष्ट्रदिप्रमृष्टे गुदे। उदकपात्राभावे करेण जलाशयादुदकग्रहणमाह आदित्यपु० “रत्रिमात्रं जलं त्यक्त्वा कुर्य्यात् शौचमनुद्धृते। पश्चाच्च शोधयेत्तीर्थमन्यथा न शुचिर्भवेत्”। यस्मिन् प्रदेशे शौचं कर्त्तव्यं तस्मादरत्निमात्रव्यवहितं जलं तत् स्थलमेव तीर्थं जलसमीपत्वात्। विष्णुपु० “बल्मीकमूषिकोत्खातां मृदमन्तर्जलां तथा। शौचावशिष्टां गेहाच्च नादद्यात् लेपसम्भवाम्। अन्तःप्राण्यवपन्नाञ्च हलोत्खातां सकर्दमाम्”। मनुदक्षौ “एका लिङ्गे गुदे तिस्रो दश वामकरे तथा। उभयोः सप्त दातव्या मृदः शद्धिमभीप्सता”। उभयोः करयोः। विष्णुंपु० “एकालिङ्गे गुदे तिस्रो दश वामकरे तथा। हस्तद्गये च सप्तान्या मृदः शौचोपपादिकाः”। यमः “लिङ्गे त्वेका गुदे तिस्रो वामहस्ते चतुर्दश। ततः पुनरुभाभ्यात दातव्याः सप्त मृत्तिकाः”। प्रैठीनसिः “मृत्तिकां संगृह्य एका लिङ्गेऽपाने पञ्च एकस्मिन् हस्ते दश उभयोः सप्त” इव्यादि। एतासां संख्यानां दक्षाद्युक्ताधिक्यं गन्धाद्यनुवृत्तिमनुरुध्य व्यवस्थेयम्। वामहस्ते दशदानानन्तरं तत्पृष्ठे षड्दानमाह हारीतः “दश मध्ये च षट्पृष्ठे इति”। शङ्दक्षौ “तिस्रस्तु मृत्तिका देयाः कृत्वा नखविशोधनम्। तिस्रस्तु पादयोर्देयाः शुद्धिकामेन नित्यशः”। नखशोधनं तृणादिना नखान्तर्मलशोधनम्, तिस्र इति हस्तयोरिति शेषः। पादप्रक्षालनं कांस्ये न कर्त्तव्यमित्याह विष्णुधर्मोत्तरम् “दर्भैर्न मार्जयेत् पादौ न च कांस्येन धावयेत्”। दक्षः “लिङ्गे तत्र समाख्याता त्रिपर्वी पूर्य्यते यया। अर्द्धप्रसृतिमात्रा तु प्रथमा मृत्तिका स्मृता। द्वितीया च तृतीया च तदर्द्धार्द्धा प्रकीर्त्तिता”। यदा तु उक्तप्रमाणया मृदा गन्धलेपक्षयो न भवति तदा अधिकयापि कर्त्तव्यम्। “गन्धलेपक्षयकरं शौचं कुर्य्यादतन्त्रितः” इति याज्ञवल्क्यात्। गुदादत्थत्र परिमाणमाह यमः “मृत्तिका तु समुद्विष्टा त्रिपर्वी पूर्य्यते यया”। त्रिपर्वी तर्जनीमध्यमानामि कानामग्रत्रयम्। मूत्रमात्रेति स्मृतिः “एकां लिङ्गे मृदं दद्यात् वामहस्ते तु मृतत्रयम्। उभयोर्हस्तयोर्द्वे च मूत्रशौचं प्रकीर्त्तितम्”। व्रह्मपुराणे “पादयोर्द्वे गृहीत्वा च सुप्रक्षालितपाणिमान्। द्विराचम्य ततः शुद्धः स्मृत्वा विष्णुं सनातनम्”। पादयोर्द्वे एकैका। इदं मूत्रोत्सर्गे, पुरीषोत्सर्गे तिसृणां विधानात्। दक्षः “यथोदितं दिवा शौचं अर्द्धं रात्रौ विधीयते। आतुरे तु तदर्द्धं स्यात्तदर्सं तु पथि स्मृतम्”। यथोक्तकरणाशक्तावेवेदं न तु निशादिपुरस्कारेणैव वाक्यस्यादृष्टार्थतापत्तेः। आपस्तम्बः “पथि पादस्तु विज्ञेय आर्त्तः कुर्य्याद् यथाबलम्”। एतयोर्विरोध आर्त्तानार्त्ताभ्यां परिहरणीयः। दक्षबौधायनौ “देशं कालं तथात्मानं द्रव्यं द्रव्यप्रयोजनम्। उपपत्तिमवस्थाञ्च ज्ञात्वा शौचं प्रकल्पयेत्”। ब्रह्मपुराणे “म यावदुपनीयेन द्विजः शूद्रस्तधाङ्गना। गन्धलेपक्षयकरं शौचं तेषां विधीयते। प्रमाणं शौचसंख्या वा न शिष्टैरुपदिश्यते। यावत् शुद्धिं म ग्रम्येत तावत् शौचं समाचरेत्। म्यूमाधिकं न कर्त्तष्यं शीचं शुद्धिममीप्सता। प्रायश्चित्तं प्रसज्येत विहितातिक्रमे कृते। शौचाचारविहीनस्य समस्ता निस्पत्वाः कियाः”। गन्धलेपक्षये सत्यधिकं न कर्त्तव्यं ग्राज्ञवल्क्यविरोधात्। गन्धलेपाक्षये त्वधिकसंख्ययापि याज्ञवल्क्यवचनमनुपनीतादिपरं वा। व्याघ्रपादः “शौचन्तु द्विविधं प्रोक्तं वाह्यमभ्यन्तरन्तथा। मृज्जलाभ्यां स्मृतं बाह्यं भावशुद्धिस्तथान्तरम्। गङ्गातोयेन कृत्स्नेन मृद्भारैश्च नगोपमैः। आमृत्योः स्नातकश्चैव भावदुष्टो न शुद्ध्यति”। स्मृतिः “धावन्तञ्च प्रमत्तञ्च मूत्रो च्चारकृतन्तथा। भुञ्जानमाचमनार्हञ्च नास्तिकं नाभिवादयेत्। जन्मप्रभृति यत्किञ्चित् चेतसा धर्ममाचरेत्। सर्वं तन्निष्फलं याति एकहस्ताभिवादनात्”। ऋष्यशृङ्गः “यस्मिन् स्थाने कृतं शौचं वारिणा तद्विशोधयेत्। न शुद्धिस्तु भवेत्तस्य मृत्तिकां यो न शोधयेत्”। शौचानन्तरं हारीतः “गोमयेन मृदा वा कमण्डलुं प्रमृज्य पूर्ववदुपस्पृश्य आदित्यं सोममग्निं वा वीक्षेत” इति। अत्र मार्जनानन्तरं क्षालनमन्यत्र तथा दर्शनात्। आचमनानन्तरं सूर्य्यादिदर्शनं यथासम्भबम्”।

शौट = गर्वे भ्वा० पर० अक० सेट्। शौटति अशौटीत्। ऋदित् चङि न ह्रस्वः।

शौटीर = पु० शौट–ईरन्। १ त्यागिनि २ वीरे च ३ गर्वान्विते त्रि० सि० कौ०।

शौटीर्य्य = न० शौटीरस्य वीरस्य भावः ष्यञ्। १ वीर्य्ये २ पराक्रमे ३ सर्वे च।

शौड = गर्वे भ्वा० पर० सक० सेट् ऋदित् चङि न ह्रस्वः। शौडति अशीडीत्।

शौण्ड = त्रि० शुण्डायां सुरायाममिरतः अण्। १ मत्ते अमरः। २ दक्षेच “सप्तमी शौण्डैः” पा०। ७ त०। दामशौण्ड दानदक्षे।

शौण्डिक = पु० शुण्डा सुरा पण्यमस्य ठक्। १ मद्यविक्रेतरि २ जातिभेदे पुंस्त्री अमरः स्त्रियां ङीष्। “ततो गान्धिककन्यायां कैवर्त्तादेव शौण्डिकः” पराशरपद्धतिः।

शौण्डिन् = त्रि० शुण्डा सुरैव अण् शौण्डं तत्पण्यमस्त्यस्य पनि। शौण्डिके शब्दर०।

शौण्डी = स्त्री शुण्डा करिकरस्तदाक्तारः अस्त्यस्या अण् गौरा० ङीष्। १ चव्ये २ गजपिप्पल्याञ्च पिश्वः।

शौण्डीर = पु० शुण्डा शर्वोऽस्त्वस्य ईरन् स्वार्थे अण्। गरान्विते त्रि० धतञ्जयः।

शौद्र = पुंस्त्री शूद्रायां दिलातिभिकढायां भवः अण्। द्वादशपुत्त्रमव्ये शूद्राशाते द्विजातिपुत्त्रभेदे पारशबादौ जटा०। स्त्रियां ङीष्। इदमर्थे अण्। २ शूद्रमस्वन्धिनि त्रि०।

शौद्धोदनि = न० शुद्धोदनस्यापत्यम् इञ्। बोधमुनिभेदे अमरः

शौधिका = स्त्री शोधः शोधनं मलविरेकस्तस्मे हितः ठक्। रक्तकङ्गौ हेमच०।

शौनक = पु० शुनकस्यापत्यम् अण्। सुनिमेदे “नैमिषेऽनिमिषक्षत्रे ऋषयः शौनकभदयः” इति भागवतम् १। १।

शौनिक = पु० शूना प्राणिबधस्थानं प्रयोजनमस्य ठक्। १ मांसविक्रेतरि (कसाइ) हेमच०। २ मृगयायां शब्दमा०। ३ मृगयाशीले च।

शौभ = न० शोभायै हितम् अण्। १ व्योमगामिनि पुरभेदे हरिश्चन्द्रपुरे २ देवे पु० त्रिका०। ३ गुवाके शब्दमा०।

शौभाञ्जन = पु० शोभाञ्जनएव स्वार्थे अण्। (शजना) वृक्षमेदे द्विरूपकोषः।

शौभिक = त्रि० शौभं व्योमपुरं शिल्पमस्य ठक्। इन्द्रजालिके शब्दमा०।

शौरि = पु० शूरस्य यादवभेदस्य वसुदेवस्य सूर्य्यस्य वा अषत्यम् इञ्। १ विष्णौ २ शनैश्चरे च अमरः।

शौर्य्य = न० शूरस्य भावः ष्यञ्। १ वीर्य्ये २ शक्तौ ३ आरभट्यां च मेदि०।

शौल्किक = पु० शुल्के राजादिदेये करे तदादाने अधिकृतः ठक्। शुल्कादानाधिकृते हेमच०।

शौल्किकेय = पु० शुल्किकः देशभेदः तत्र भवः ढक्। विषभेदे अमरः।

शौल्विक = पुंस्त्री० शुल्वः ताम्रं तन्मयपात्रादि पण्यमस्य ठक्। कांस्यकारे (कासारी) जातिभेदे अमरः स्त्रियां ङीष्।

शौव = न० शुनः सङ्कोचः श्वन् + अण् टिलोपः। शुनः सङ्कोचे अन्यत्र न टिलोपः शौवन इत्येव शुनः सम्बन्धिनि संक्षिप्तसा०।

शौवस्तिक = त्रि० श्व परदिने भवः श्वस् + ठक्–तुट् च। भाविदिनस्थायिनि पदार्थे।

शौवापद = त्रि० श्वापदस्येदम् अण्। श्वापदसम्बन्धिनि

शौष्कल = पु० शुष्कलं शुष्कमांसं पण्यमस्य अण्। १ शुष्कमांसविक्रेतरि मेदि०। तद्भक्ष्यमस्य अण्। २ शुष्कमांसभक्षके त्रि० अमरः।

***