व्रतति = स्त्री वृत–अति पृषो० वा ङीप्। १ लतायाम्। २ विस्तारे च अमरः।

व्रतभिक्षा = स्त्री व्रताङ्गं भिक्षा। उपनयनकालविहितभिक्षायां तद्विधिः संस्कारतत्त्वे दर्शितो यथा “अथ भैक्ष्यञ्चरति”। अथ शब्दस्तूष्णीमादित्योपस्थानमग्निप्रदक्षिणञ्च शंसति। “प्रतिगृह्येप्सितं दण्डमुपस्थाय च भास्करम्। प्रदक्षिणं परीत्याग्निं चरेद्भैक्ष्यं यथाविधि” इति मनुवचनात्। “भिक्षासमूहं भैक्ष्यं तच्चरति आहरति इत्यर्थः। “मातरमेवाग्रे ये चान्ये सुहृदो यावत्यो वा सन्निहिताः स्युः”। याचते इत्यध्याहार्य्यम्। सुहृदः स्निग्धहृदयः स्वस्रादयः तथाच मनुः “मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम्। मिक्षेत भिक्षां प्रथमं याचैनं नावमानयेत्”। सन्निहितास्तद्देशस्थाः न तु प्रतिगृहं गत्वा। (भवति! भिक्षां देहीति) ब्राह्मणभिक्षा प्रयोगः। तथा च मनुः “भवत्पूर्वं चरेत् भैक्ष्यमुपवीतो द्विजोत्तमः। भवन्मध्यन्तु राजन्यो वैश्यस्तु भवदुत्तरम्”। “आदिमध्यावसानेषु भवच्छब्दोपलक्षिता। ब्राह्मणक्षत्रियविशां भैक्ष्यचर्य्या यथाक्रमम्” इति याज्ञवल्क्यवचनाच्च। आचार्य्याय भैक्ष्यं प्रणिपत्य वेदयति (समर्पयति) भोरिति”। “आचार्य्याय निवेद्य प्रतिगृह्णीयादिति” गृह्यान्तरवचनात्। भैक्ष्यं भोरिति निवेदनमन्त्रः। भैक्ष्यस्य संस्कारार्थत्वात् आचार्य्याय निवेद्य स्वथं तदेव भुञ्जीत। तथा च मनुः “समाहृत्याथ तद्भैक्ष्यं यावदन्नममायया। निवेद्य गुरवेऽश्नीयात् आचार्य्यः प्राङ्मुखः शुचिः”। आचार्य्यश्च माणवकाय भैक्ष्यं प्रदाय कर्मशेषं समापयेत्”।

व्रतसंग्रह = पु० ६न०। व्रतग्रहणार्थं कृतदीक्षायाम्। हेमच०

व्रतादेश = पु० व्रतमादिश्यतेऽत्र आ + दिश आधारे ल्युट्। उपनयने तत्र हि आचार्येण माणवकस्य व्रतमादिश्यते।

व्रतिन् = पु० व्रतमस्यास्ति इनि। १ व्रतधारके २ यजमाने च। अमरः।

व्रश्च = छेदे तु० पर० सक० ऊदित् वेट्। वृश्चति अव्रश्चीत् अव्राक्षीत्।

व्रश्चन = पु० वृश्च्यतेऽनेन व्रश्च–ल्यु। (छेनि) १ स्वर्णादिच्छेदनार्थे अस्त्रभेदे अमरः। भावे ल्युट्। २ छेदने न० अमरः।

व्रात = पु० वृ–अतच् पृषो०। समूहे अमरः।

व्रातीन = त्रि० व्रातेन चरति ख। संघजीविनि। “व्रातीनव्या लदीप्रास्त्रः” भट्टिः।

व्रात्य = पु० व्रातात् समूहात् च्यवति यत्। अव्यवहार्य्ये, संस्कारहीने, जातिमात्रोपजीविनि, “अत ऊर्द्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः। सावित्रीप्रतिता क्रात्या भवन्त्यार्य्यविगर्हिताः” मनुः। तत्र प्रायश्चित्तं मिता० उक्तं यथा तत्र व्रात्यतायां मनुनेदमुक्तम् “येषां द्विजानां सावित्री नानूच्येत यथाविधि। तांश्चारयित्वा त्रीन् कृच्छ्रान् यथाविध्युपनाययेदिति”। यच्च यमेनोक्तम् “सावित्रीपतिता यस्य दश वर्षाणि पञ्च च। सशिखं वपनं कृत्वा व्रतं कुर्य्यात् समाहितः। एकविंशतिरात्रञ्च पिबेत् प्रसृतियावकम्। हबिषा भोजयेच्चैव ब्राह्मणान् सप्त पञ्च वा। ततो यावकशुद्धस्य तस्योपनयनं स्मृतम्” इति। तदुभयमपि याज्ञवल्कीयमासपयोव्रतविषयम्। यत्तु वशिष्ठेनोक्तम् “पतितसावित्रीक उद्दालकव्रतञ्चरेत्। द्वौ मासौ यावकेन वर्त्तयेन्यासं पयसा पक्षमामिक्षयाष्टरात्रं घृतेन षड्रात्रमयाचितेन त्रिरात्रसब्सक्षोऽहोरात्रसुपवसेदश्वमेधावभृथङ्गच्छेद्वात्यस्तोमेन वा यजेतेति”। तत्रेयं व्यवस्था यस्योपनयने आपद्भावेन तत्कालातिक्रमस्तस्य याज्ञवल्कीयव्रतानामन्यतमत् शक्त्यपेक्षया भवति अनापद्यतिक्रमे तु मानवं त्रैमासिकम्। तत्रैव पञ्चदशवर्षादूर्द्धमपि कियत्कालातिक्रमे तूद्दालकव्रतम् ब्रात्यस्तोमो वेति। येषान्तु पित्रादयोऽप्यनुपनीतास्तेषामापस्तम्बोक्तम् “यस्य पिता पितामहावनुपनीतौ स्यातान्तस्य संवत्सरं त्रैविद्यकं ब्रह्मचर्य्यम्। यस्य प्रपितामहादेर्नानुस्मर्यते उपनयनन्तस्य द्वादश वर्षाणि त्रैविद्यकं ब्रह्मचर्य्यमिति”।

व्रात्यस्तोम = पु० व्रात्ययोग्यः स्तोमः। यज्ञभेदे “स च यज्ञश्चतुर्विधः” कात्या० श्रौ० २२। ४। १ सूत्रादौ दर्शितो यथा “व्रात्यस्तोमाश्चत्वारः” सू० “व्रात्यस्तोमसंज्ञकाश्चत्वारः क्रतवो भवन्ति व्रात्याः प्रसिद्धा एव त्रिपुरुषं पतितसावित्रीकाः। प्रायश्चित्तार्थत्वाच्च लौकिकेऽग्नौ भवन्ति न ह्येतैराधानं प्रयुज्यते अतदङ्गत्वात् तदुक्तमाचार्य्येण स्थप- तीष्टिं प्रकृत्य लौकिक इति। “द्वितीय उक्थ्यः” सू० “व्रात्यगणस्य ये सम्पादयेयुस्ते प्रथमेन यजेरन्” सू० सम्पादनं च गायननर्तकादीनाम् तेषां प्रथमेऽधिकारः। ये व्रात्या नृत्यगीतवाद्यशस्त्रधारणादौ स्वयं प्रवीणाः सन्त उपदेष्टारो भूत्वा स्वां विद्यां व्रात्यसभूहस्य सम्बादयेयुः शिक्षेयुः पाठयेयुः ते प्रथमेन यजेरन्। “द्वितोयेन निन्दिता नृशंसाः” सू०। नृशंसत्वेन ये निन्दितास्तेषां द्वितीयेऽधिकारः” सं०। ये नृशंसा निन्दितानृभिर्मनुष्यैरभिशंसनेन पापाध्यारोपणेन निन्दिताः गर्हिताः ज्ञातिभिर्वहिष्फृताः ते द्वितीयेन यजेरन्” कर्कः “तृतीयेन कनिष्ठाः” सू० कनिष्ठाः लघवः। “ज्येष्ठाश्चतुर्थेन” सू० अधिक्रियन्ते। ज्येष्ठशब्दार्थमाह “अपेतप्रक्षननास्थविरास्तदाख्यास्तेषां ये नृशंसतमः स्याद्द्रव्यवत्तमो वानूचानतमो वा तस्य गार्हपत्ये दीक्षेरन्” सू०। “स गृहपतिः कर्त्तव्यः” सं०। अपगतप्रजनेन्द्रियसामर्थ्या यौवनापगमे। निर्वीर्य्यप्रजनाः स्थविरा वृद्धास्तदाख्याः। नृशंसतमः अत्यन्तं क्रूरकर्मा” भा०।

व्री = वृतौ क्र्या० प्वा० पर० सक० अनिट्। व्रि(व्री)णाति अव्रैषीत्।

व्री = गतौ दिवा० आ० सक० अनिट्। व्रीयते अव्रेष्ट। ओदित् व्रीणः।

व्रीड = क्षेपे दिंवा० पर० सक० लज्जायां अक० सेट्। व्रीड्यते अव्रीडिष्ट।

व्रीड = पु० व्रीड–घञ्। लज्जायाम्। अ। तत्रैव स्त्री अमरः।

व्रीस = बधे वा चु० उभ० पक्षे भ्वा० पर० सक० सेट्। व्रीसयति ते व्रीसति।

व्रीहि = पु० व्री–हि किच्च। १ धान्यभेदे २ आशुधान्ये च अमरः। तद्भेदादिकं भावप्र० उक्तं यथा “वार्षिकाः कण्डिताः शुक्लाः व्रीहयश्चिरपाकिणः। कृष्णव्रीहिः पाटलश्च कुक्कुटाण्डक इत्यपि। शालामुखो जतुमुख इत्याद्याः व्रीहयः स्मृताः। कृष्णव्रीहिः स विज्ञेयो यः कृष्णतुषतण्डुलः। पाटलः पाटलापुष्प वर्णको व्रीहिरुच्यते। कुक्कुटाण्डाकृतिर्व्रीहिः कुक्कुटाण्डक उच्यते। शालामुखः कृष्णशूकः कृष्णतण्डुल उच्यते। लाक्षावर्णं मुखं यस्य ज्ञेयो जतुमुखस्तु सः। व्रीहयः कथिताः पाके मधुरा वीर्य्यतो हिताः। अल्पाभिष्यन्दिनो बद्धवर्च्चस्काः षष्टिकैः समाः। कृष्णव्रीहिर्वरस्तेषां तस्मादल्पगुणाः परे”। ततः अस्त्यर्थे व्रीह्या० इनिठनौ। व्रीहिन् व्रीहिक तद्विशिष्टे त्रि० बिल्घा० पुराडाशभिन्ने अवयवार्थे अण्। व्रैह तदवयवे।

व्रीहिकाञ्चन = पु० व्रीहिषु काञ्चनं तद्रूपमस्त्यस्य अच्। ममूरे त्रिका०।

व्रीहिपर्णी = स्त्री व्रीहीणामिव पर्णान्यस्याः ङीष्। (शालपानि) क्षुपभेदे राजनि०।

व्रीहिभेद = पु० ६ त०। १ धान्यभेदे (चिना) अमरः। २ धान्यबिशेषे च।

व्रीहिमय = पु० व्रीहेविकारः पुरोडाशः मयट्। व्रीहिविकारे पुरोडाशे। अन्यत्र बिल्वा० अण्।

व्रीहिराजिका = पु० व्रीहिषु राजिकाकारे अस्त्यस्याः अच्। कङ्कुधान्ये (काङ्नी) मेदि०।

व्रीहिश्रेष्ठ = पु० व्रीहिषु श्रेष्ठः। शालिधान्ये राजनि०।

व्रीह्यगार = न० ६ त०। धान्यस्थापनस्थाने कुसूले त्रिका०।

व्रीह्यादि = पु० विकाराद्यर्थे इनिटन्प्रत्ययनिमित्ते पा० ग० सू० उक्ते शब्दगणे स च “व्रीहि माया शाला शिखा माला मेखला केका अष्टका पताका चर्मन् कर्मन् वर्मन् दंष्ट्ना संज्ञा वडवा कुमारो नौ वीणा बलाका यवखद नौकुमारी (शीर्षान्नञ्)” “नौकुमार्य्योरिकार्थो गणे द्विधा पाठः” सि० कौ०। “अत इनिठनौ” व्रीह्यादिभ्यश्च” पा० व्रीहो व्रोहिकः। “न च सर्वेभ्यो व्रीह्यादिभ्य इनिठनाविष्येते किं तर्हि शिलामालासंज्ञादिभ्य इनिः यवखदादिभ्यः ठन्। अन्येभ्य उभयम्” सि० कौ०।

व्रुड = संवरणे सक० संवाते मज्जने च अक० चु० कुटा०। पर० सेट्। व्रुडति अव्रुडीत्।

व्रूस = बधे वा चु० उभ० पक्षे भ्वा० पर० सक० सट्। ब्रूसयति ते ब्रूसति।

व्रैहेय = त्रि० व्रोहीणां भवनं क्षेत्रम् ढक्। ब्रीहिभवनयोग्ये क्षेत्रादौ।

व्ली = गतौ वृतौ च क्र्यादि० पा० प० सक० अनिट्। (व्लि)व्लीनाति अव्लैषीत्।

—श—

शकारः = ऊष्मवर्णभेदः। अस्योच्चारणस्थानं तालु। तस्योच्चारणे आभ्यन्तरप्रयत्नः विवृतम्। बाह्यप्रयत्ना विवारश्वासाघोषा महाप्राणश्च। अस्य ध्येयस्वरूपम् “शकारं परमेशानि! शृणु वर्णं शुचिस्मिते!। रक्तवर्णप्रभाकारं स्वयं परमकुण्डली। चतुर्वर्गप्रदं देवि! शकारं ब्रह्मविग्रहम्। पञ्चदेवमयं वर्णं पञ्चप्राणात्मकं प्रिये। रजःसत्त्वतमोयुक्तं त्रिविन्दुसहितं सदा। त्रिशक्तिसहितं घर्णमात्मादितत्त्वसंयुतम्” कासधेनुतन्त्रम्। अस्य वाचकशब्दा योगिनीतन्त्रोक्ता यथा “शः सव्यश्च कामरूपी कामरूपो महामतिः। सौख्यनामा कुमारोऽस्थि श्रीकण्ठो वृषकेतनः। वृषघ्नः शयनं शान्ता सुभगा विस्फुलिङ्गिनी। मृत्युर्देवो महालक्ष्मीर्महेन्द्रः कुलकौलिनी। बाहुर्हंसो वियद्वक्त्रं हृदनङ्गोऽङ्कुशः खनः। वामोरुः पुण्डरीकाक्षः कान्तिः कल्याणवाचकः”। मातृकान्यासेऽस्य हृदादिदक्षकरे न्यास्यता। काव्यादौ प्रथमप्रयोगे सुखं फलम्। “शः सुखं षस्तुस्वेदम्” वृ० त्त० टी०।

= न० शी–ड। १ मङ्गले त्रिका०। २ महादेवे, ३ शस्त्रे च पु० शब्दर०।

शंयु = त्रि० शमस्त्यस्य शम् + युस्। शुभान्विते त्रिका०।

शंव = त्रि० शमस्त्यस्य शम् + व। १ शुभयुक्ते त्रिका०। २ सूसलाग्रलोहे ३ वज्रे च पु० धरणिः।

शंवर = न० शंवृणोति शम् + वृ–अच्। जले अमरः।

शंसा = स्त्री शन्स–अ। १ वाक्ये। २ वाञ्छायां मेदि०। ३ प्रशंसायाञ्च शब्दर०।

शंसित = त्रि० शन्स–क्त। १ निश्चिते हला०। २ हिसिते। ३ कथिते ४ स्तुते च।

शंस्य = त्रि० शन्स–ण्यत्। १ हिंस्ये २ स्तुत्ये ३ वाच्ये च।

शक = त्रामे अक० संशये सक० भ्वा० आ० सेट् इदित्। शङ्कते अशङ्किष्ट।

शक = क्षमायां सक० दि० उभ० सेट्। शक्यति ते अशाकीतशकीत् अशकिष्ट “शक्योऽस्य मन्यु र्भवता विनेतुम्” रघुः।

शक = सामर्थ्ये स्वा० प० अक० इरित् वेट्। शक्नोति अशकत्–अशाक्षीत्। पुषादिरित्येके तेन अशकदित्येव।

शक = पु० शक–अच्। १ जातिभेदे स च ब्रात्यक्षत्रियः १९०७ पृ० दृश्यम। २ देशभेदे स्वराज्यावधिवत्सराङ्कप्रवर्त्तके २ नृपभेदे ४ तदीये वत्सरे च। कलियुगे शककर्त्तृषु षट्सु युधिष्ठिरः विक्रमादित्यः शालिवाहनश्चेति त्रयोगता विजयाभिनन्दनादयस्तयो भविष्यन्ति। तथा हि कलौ षट् शककर्त्तारः तल्लक्षणादि ज्योतिर्वि० १० अ० उक्त यथा “कलौ भविष्यन्त्यथ भारतावनौ महीभुजो बाहुमृतोऽप्यनेकशः। शकास्तथैषामभिषेचनादिकं हितं सदोदीरितकालसाधितम्। धराधिभूर्भिल्लशकादिजातिजस्तदासनस्थोऽभिजनैर्नमस्कृतः। स्ततौ स राजाधिजनैः प्रतिष्ठितो न मन्त्रभेदाद्यभिषेचनोचितः। निहन्ति यो भूतलमण्डले शकान् सपञ्चकोट्यब्जदलप्रमान् कलौ। स राजपुत्रः शककारको भवेत् नृपाधिराज्ये ह्युतशाककर्त्तृ हा”। (तत्र शककारकस्य विक्रमादित्यस्य हननात् शालिवाहवस्य शककर्त्तृत्वम्) “यधिष्ठिरो विक्रमशालिवाहनौ नराधिनाथौ विजयाभिनन्दनः। इमेऽनु नागार्जुनमेदिनीबिभुर्वलिः क्रमात् षट् शककारकाः कलौ”। तत्प्रवृत्तिकालांस्तत्राह “युधिष्ठिरात् वेदयुगाम्बराग्नयः (३०४४) कलम्बविश्वे (१३५)ऽभ्रखखाष्टभूमयः १८०००। ततोऽयुतं १०००० लक्षचतुष्टयं क्रमात् धरादृगष्टाविति (८२१) शाकवत्सराः। युघिष्ठिरोऽभूद्भुवि हस्तिनापुरे तथोज्जयिन्थां पुरि विक्रसाह्वयः। शालेयभूमीभृति शालिवाहनःसुचित्रकूटे विजयाभिनन्दनः। नागार्जुनो रोहितके क्षितौ बलिर्भविष्यतीन्द्रो भृगुकच्छपत्तने। कृतप्रवृत्तिस्तदनन्तरं भवेत्तदा भविष्यन्त्यबनीभृतोऽर्कतः”। अत्र युधिष्ठिरात् प्राक् कलौ शककर्त्त्रन्तराभावात् कलियुगारम्भकालादेव तस्य शककाल उक्तः वराहसंहितायां १३ अ० तु तद्राज्यावधित एव तच्छककाल इत्यभिप्रायेण “आसन् मधासु मुनयः शासति पृथ्वीं युधिष्ठिरे नृपतौ। षड्द्विकपञ्चद्वियुतः (२५२६) शककालस्तस्य राज्ञश्च” तेन कलेः (५१८) वर्षेषु गतेषु युधिष्ठिरस्य राज्यप्रवृत्तिः। षट्कर्तृवत्सरसमष्टिश्चयुधि० ३०४४। इति न कलिमानसंख्याविरोधःविक्र० १३५ अतएव ज्योतिर्विदाभरणशेषे ग्रन्थ-शालि० १८००० कृतैव “वर्षैः सिन्धुरदर्शनाम्बरगणै-विजया० १०००० यांते कलौ सम्भितैः” इति कलि-नागा० ४००००० युगस्यैव ३०६८ वर्षंषु गतेषु ग्रन्थ-बलि० ८२१ करणमुक्तम्। ३३२०००

शकट = पु० न० शक–अटन्। १ यानभेदे (गाडि) अमरंः। २ असुराधिष्ठिते नन्दानयस्थे शकटविशेषे शकटभञ्जनः कृष्णः। १ द्विसहस्रपलपरिमाणे हेमच०। स्वल्पार्थे ङीप्। क्षुद्रशकटे स्वार्थे क। शकटिका तत्रैव स्त्री।

शकटहन् = पु० शकटमसुराधिष्ठितशकटभेदं हतवान् हन–भूते क्विप्। श्रीकृष्णे तत्कथा हरिवं० ६२ अ०।

शकटाह्वा = स्त्री शकटाकारत्वात् तदाह्वा यस्याः। रोहिणीनक्षत्रे तस्याः शकटाकारचतुस्तारात्मकत्वेन तथात्वम्।

शकन्धु = पु० ६ त० शकन्ध्वा०। परनिघातः शकानां कूपे।

शकल = पु० न० शक–कलक्। १ खण्डे २ एकभागे। ३ त्वचि ४ वल्कले मेदि० ५ शल्के (आ~स) च न०।

शकलिन् = पु० शकलं शल्कमस्यास्ति इनि। मत्स्ये अमरः।

शकाब्द = पु० शकककर्त्तृनृपसंबन्धी अव्दः। १ शकप्रवर्त्त कनृपराज्यावधिवत्सरे २ तत्संख्यायाञ्च।

शकार = पु० “मदमूंर्खताभिमानी दुष्कुलतैश्वर्य्यसंयुक्तः। सोऽयमनूढाभ्राता राज्ञः श्यालः शकार उद्दिष्टः” सान्द० उक्तलक्षणे १ राज्ञोऽनूढभार्य्याभ्रातरि। श + स्वरूपे–कार शस्वरूपे २ वर्णे च।

शकारि = पु० शकानां म्लेच्छजातिभेदानामरिः। विक्रमादित्ये

शकुन = न० शक–उनन्। १ शुभाशुभसूचकनिमित्ते–बाहुस्यन्दनकाकादिदर्शनादौ। दुःशकुनशब्दे ३६१ पृ० दृश्यम् २ पक्षिमात्रे ३ पक्षिभेदे गृध्रे च पुं स्त्री० मेदि०।

शकुनज्ञ = त्रि० शकुनं जानाति ज्ञा–क। १ निमित्ताभिज्ञे २ ज्येष्ठ्यां स्त्री त्रिका०।

शकुनि = पु० शक–उनि! १ पक्षिमात्रे अमरः। २ चिल्लपक्षिणि हेमच०। ३ सुवलराजपुत्रे दुर्य्योधनमातुले च। ३ श्यामापक्षिणि स्त्री ङीप् राजनि०। ४ ववादिषु करणभेदे पु० ५ दुःसहनृपपुत्रे पु० मार्कण्डे यपु०। विकृतिनृपपुत्रभेदे पु० वह्निपु०।

शकुनिप्रपा = स्त्री० ६ त०। पक्षिणां पानीयशालायाम् हारा०।

शकुन्त = पु० शक–उन्त। १ पक्षिमात्रे। २ भासपक्षिणि ३ कीटभेदे च भेदि०।

शकुन्तला = स्त्री० शकुन्तैः लायते ला–घञर्थे–क। मेनकागर्भजातायां विश्वासित्रसुतायाम् सा च जातमात्रा मात्रोत्सृष्टा शकुन्तलालिता पश्चात् कण्वमुनिना प्रतिपालिता दुष्मन्तनृपेण गान्धर्वविधिना व्यूढेति “निर्जने तु वने यस्मात् शकुन्तैः परिपालिताः। शकुन्तलोत लामास्याः कृतं चापि ततो मया” भा० आ० ७२ अ०। शकुन्तलामधिकृत्य कृतो ग्रन्थः। अण् आख्याकिकायां तस्य वा लुक्। कालिदासप्रणीते शकन्तलाधिकारेण कृते २ नाटकभेदे च अणाऽए कि तु शाकुन्तल तत्रार्थे न०।

शकुन्तलाङ्गज = पु० ६ त०। शकुन्तलासुते मरतनृपे हेमचन्द्र०।

शकुन्ति = पु० शक–उन्ति। १ पक्षिमात्रे अमरः। २ भासपक्षिणि उणादिकोषः।

शकुल = पुंस्त्री० शक–उलच्। मत्स्यभेदे (शौल) अमरः। स्त्रियां ङीष्।

शकुलाक्षी = पु० शकुलस्याक्षीव षच् समा० ङीष्। गण्डदूर्वायाम् राजनि०।

शकुलादनी = स्त्री० शकुलैरद्यते अद–ल्युट्। कट्की) शाकभेदे अमरः। २ जटामांस्यां, ३ जलपिप्पल्यां, कट्फले च विश्वः।

शकुलार्भक = पु० शकुलस्यार्भक इव क्षुद्रत्वात्तदाकारात्वाद्वा। (गडुइ) मत्स्ये। अमरः।

शकृत् = न० शक–ऋतन्। विष्ठायाम् अमरः।

शकृत्करि = पु० शकृत् किरति कॄ–इन्। १ गवादीनां २ वत्से २ वत्सायां स्त्री ङीप्।

शकृद्द्वार = न० ६ त०। मलद्वारे अपानस्थाने हेमच०।

शक्क्(व्)अर = पु० शक–क्विप् कृ–अच् कर्म० शक–क्वरप् वा। १ वृषे मेदि०। चतुर्दशाक्षरपादके २ छन्दोभेदे। ३ नदीभेदे ४मेखलायाञ्च स्त्री ङीप्। ५ अङ्गुलौ सि० कौ०। पृषो० शर्करीत्यपि चतुर्दशाक्षरपादके छन्दसि।

शक्त = त्रि० शक–क्त। समर्थे हेमच०।

शक्ति = स्त्री शक–क्तिन्। १ सामर्य्ये २ स्त्रीदेवतायां देवीमूर्त्तौ। न्यायाद्युक्ते कारणनिष्ठे कार्य्योत्पादनयोग्ये ३ धर्मभेदे। ३ शव्दनिष्ठे अर्थवोधकतारूपे बोध्यत्वप्रकारकेच्छाविषयत्वरूपे वृत्तिभेदे शर्वलाख्ये ४ अस्त्रभेदे च अमरः। मीमांसकमते शक्तिः पदार्थान्तरम् यथोक्तम् अनुमा० चि०। “स्यादेत् ईश्वरवत् कार्य्येणैव शक्तिरप्यनुमीयते तथा हियादृशादेव करानलसंयोगाद्दाहो जायते तादृशादेव सति प्रतिबन्धके न जायते अतो यदभावात् कार्य्याभावस्तद्वह्न्यादावभ्युपेयं तेन विना तदभावात् यत्तद्भावानुपपत्तेर्व्यतिरेकमुखेन शक्तिसिद्धिः”। न्ययमते तन्निरासस्तत्रैव ईश्वरवादग्रन्थे दर्शितो यथा “तृणारणिमणिफुत्कारादिव्यक्तीनामानन्त्येन प्रतिव्यक्ति भावहेतुजानन्तशक्तिस्वीकारे गौरवं तावदनन्तव्यक्तिजन्यावान्तरवह्निव्यक्तिषु जातित्रयकल्पने लाघवमिति तदेव कल्प्यते। न च जातौ योग्यानुपलन्धिबाधः गोमयप्रभववृश्चिकयोर्वा पाटलत्वकपिलत्वव्यङ्ग्यवैजात्यस्य प्रत्यक्षसिद्धत्वात् तृणजन्यनानावह्निषु तृणजन्यत्वज्ञानानन्तरं मणिजन्यव्यावृत्त्याऽनुगतबुद्धिरस्त्रि जातिविषया। तृणजन्यत्वेनोपाधिनाऽसाविति चेन्न बाघकं विनानुगतबुद्धे- स्तद्व्यङ्ग्यजातिविषयत्वनियमात्। न च गोमयवृश्चिकप्रभववृश्चिकजातिपरम्परायामनगतजात्यापत्तिः गोमयजन्यवृश्चिकप्रभवत्वजातेः सत्त्वात् वह्निमात्रे च दाहस्पर्श वानवयकः तत्संयोगः सेवनादिश्च कारणानि न तु तृणादिकं विनापि, तदुत्पत्तिप्रसङ्गः विशेषसामग्रीमादायैव साध्यसामग्र्याजनकत्वात्”। एवमाधेयशक्तिरपि मीमांसकमतेन पूर्वपक्षीकृत्य तत्र निरस्ता यथा तच्च प्रोक्षणप्रतिष्ठाशब्दयोर्दर्शितम् अधिकं किञ्चिदत्र प्रदर्श्यते यथा “कामिनीचरणामिघातदोहदादिभिरशोकपुष्पोत्कर्षदर्शनादपि नाधेयशक्तिः समयविशेषावच्छिन्नचरणदोहा दिसंयोगध्वंसस्यैव कारणत्वात् चरणाभिधाताकृष्टभागान्तजनितवृक्षादेव वा तदुपपत्तिः कालान्तरे पुष्पाद्युत्कर्षात्। दुःखावयवोपचयावश्यम्भावेन वृक्षभेदावश्यकत्वात्। नापि ताम्बकांस्यादावम्लभस्मसंयोगादिजन्यशुद्धिरूपा आधेयशक्तिः तत्संयोगध्वंसस्य संयोगसमानकालीनास्पृश्यस्पर्शादिप्रतियोगिकयावदनादिसंसंर्गाभावसहितस्य शुद्धिपदार्थत्वात्। भस्मादिसंयोगजनितः कांस्याद्युपभोक्तृ निष्ठः संस्कार एव शुद्धिरित्यन्थे। अभिमन्त्रितपयः पल्लवादावपि समयविशेषावच्छिन्नाभिमन्त्रणध्वंस एव व्यथाद्यपनायकः तत्तन्मन्त्रदेवतासन्निधिरेव वा। कलमवीजाटीनामापरमाण्वन्तभङ्गे तत्र चावान्तरजात्यभावे नियतकलमजातीयादिसिद्धिरपि। परमाणुषाकजविशेषादेव कार्य्यवृत्तिरूपादि सजातीयस्य पूर्बरूपादिविजातीयस्य परमाणौ पाकजरूपादैरुभयासिद्धत्वात् यथा हि कमलवीजं यवादिजात्या व्यावर्त्त्यते तथा तत्परमाणवोऽपि पाकजैरेव। एवं माघकर्षणजनितात् परमाणुपाकपरम्पराविशेषादेव हैमन्तिकशस्योत्पत्तिः। एतेन लाक्षारसावसेकादयो वाख्याताः। निमित्तविशेषजनितपाकजात्तत्फलविशेषः यथा हारीतमांसं हरिद्रामलसाधितमुपयोगात् सद्योष्यापादयति नान्यथा साधितमित्यादि। यत्र च तोयतेजोवायुषु न पाकजोविशेषस्तत्रोद्भवानुद्गवद्रवकठिनत्वादयोविशेषास्तत्तदुपनायकादृष्टविशेषादेव। तुलादौ चाधिवासपूर्वकतुलारोहणसामग्री तुल्यस्य सत्यासत्यप्रतिज्ञत्वसहिता प्राचीनाधर्माधर्मफले तज्जयमङ्गौ जनयति। यद्वा अयं निष्पापः पापवान् वेति तुलारूढाभिशस्तज्ञानविशेषसहिता सा तथा, तदाहुः, “तांस्तु देवाः प्रपश्यन्ति स्वश्चैबान्तरपुरुषः” इति अथ वा प्रतिज्ञाशुद्ध्यशुद्धी अपेक्ष्य तया घर्माधर्मौ जन्येते ताभ्याञ्च जयपराजयौ सत्यासत्यप्रत्यभिज्ञाभिशस्ततुलारोहणस्येष्टानिष्टफलत्वे नार्थतो विधिनिषेधात्। अभिशस्तः सत्यपतिज्ञोविजयकामस्तुलामारोहेदित्यसत्यप्रतिज्ञो न तुलामारोहेदिति श्रुतेरुन्नयनात्। यद्वा तया दवतासन्निधिः क्रियते ताश्च कर्मानुरूपलिङ्गमभिव्यञ्जयन्ति”। तत्र च शक्तिपदार्थस्वरूपादिकमुक्तं यथा “कस्तर्हि शक्तिपदार्थः कारणत्वं तच्च स्वस्वव्याप्येतरसकलसंपत्तौ कार्य्याभावव्यापकाभाबाप्रतियोनित्वम्। अथ वा यत्र कार्य्याभावव्याप्यता इतराभावावच्छिन्ना तत्कारणवीजे अङ्कुराभावव्याप्यता न वोजत्वेनावच्छिद्यते इतरसमवधाने सति वोजादङ्कुरसत्त्वात्, किन्त्वि तराभावेनावच्छिद्यते इतराभावावच्छिन्ना तत्कारणवीजे अङ्कुराभावव्याप्यता न वीजत्वेनावच्छिट्यते इतराभावे वीजस्याङ्कुराभावनियमात्। शिलाशकलेष्वङ्कुरामावव्याप्यता शिलात्वेनैषावच्छिद्यते। यद्वा अन्यासमवधानावच्छिन्नकार्य्यानुत्पत्तिव्याप्यत्वं कारणत्वं, रासभादेः कार्य्याभावव्याप्यया अन्यासमवधानस्य वैयर्थ्येनानवच्छेदकत्वात्। अनन्यषासिद्धनियतपूर्ववर्त्तिजातीयत्वं वा तत्त्वम्। अन्यथासिद्धञ्च त्रिधा येन सहैव यस्य यं प्रति पूर्ववर्त्तित्वमवगम्यते, यथा घटं प्रति दण्डरूपस्य, (१) अन्यं प्रति पूर्ववर्त्तित्वे ज्ञाते एव यं प्रति यस्य पूर्ववर्त्तित्वमवगम्यते यथा शब्दं प्रति पूर्ववर्त्तित्वे ज्ञाब एव ज्ञानं प्रत्याकाशस्य (२)। अन्यत्र कॢप्तनियतपूर्ववर्त्तिन एव कार्य्यसम्भवे तत्सहभूतत्वम् (३) यथा गन्धवति गन्धागुत्पादादुगन्धं प्रति तत्प्रागभावस्य नियतपूर्ववर्त्तित्वकल्पनात् पाकजस्थले गन्घं प्रति रूपादिप्रागभावादीनामप्यन्यथासिद्धत्वम् एतत्त्रितयव्यतिरेके नियतपूर्ववर्त्तित्वं कारणत्वम्। यागापूर्वयोस्तु यागपूर्ववर्त्तित्वेऽवगते न त्वगम्यमाने यत्र जन्यस्य पूर्ववर्त्तित्वेऽवगते जनकस्य पूर्वभावोऽवगम्यते तत्र जन्येन जनकस्यान्यथांसिद्धिः। यत्र च जनकस्य तथात्वेऽवगते जन्यस्य पूर्वभावावगतिस्तत्र तद्द्वारा तस्य जनकत्वमेव। दण्डसंयोगभ्रमणयोस्तु युगपदेव पूर्वभावितत्वग्रहः। स्वस्वानन्तरोत्पत्तिकसकलसमवधाने सत्यपि यस्याभावात् कार्य्यं न जायते सति च जायते तज्जातीयं प्रति तदनन्यथासिद्धम्। अनन्यथासिद्धनियतपूर्बवर्त्तित्वं कारणत्वमित्यन्यै तन्न ईश्वरतद्बुद्ध्यादीनामसंग्रहात् तद्ज्वतिरेकस्य तत्समवधान- व्यतिरेकस्य वाऽभावात्। कार्य्यस्यान्यथानुपपद्यमानताव्यवस्थाप्यत्वं वाऽनन्यथासिद्धम्। नन्वेवमतिरिक्तशक्तौ साधकबाधकप्रमाणाभावान्नित्यं संशयः न च साधकाभावस्य बाधकत्वं बाधकाभावस्य साधकत्वादिति चेन्न साधकाभावेन वह्नावन्यत्र सिध्यतीन्द्रियधर्माभावसाधने लाधवं बाधकाभावेनातीन्द्रियधर्मसाधने गौरवमिति साधकाभावात्तदभाव एव सिध्यतीति”। “इच्छा क्रिया तथा ज्ञानं गौरी ब्राह्मी तु वैष्णवी। त्रिधा शक्तिः स्थिता यत्र तत्परं ज्योतिरोमति” गोरक्षसं०। सत्त्वरजस्तमोगुणत्रयाधीने ईश्वरस्य क्रमेण ज्ञानेच्छाक्रियारूपे ७ शक्तित्रये। “एषा त्रिशक्तिरुद्दिष्टा नरसिद्धान्तगामिनी। एषा श्वेता परा सृष्टिः सात्त्विको ब्रह्मसंस्थिता। एषैव रक्ता रजसि वैष्णवी परिकीर्त्तिता। एषैव कृष्णा तमसि रौद्री देवी प्रकीर्त्तिता। परमात्मा यथा देव एकएव त्रिधार्पितः। प्रयोजनवशाच्छक्तिरेकैव त्रिविधाऽभवत्” वराहपु०। प्रकृतिशक्तिश्च ईश्वरस्य सृष्टिकर्त्तृत्वप्रवर्त्तिता “शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुम्” आमन्दल०। तन्त्रोक्ते ५ पीठाधिष्टातृदेवताभेदे देवभेदे पीठशक्तयो भिन्नास्तन्त्रसारादौ उक्ताः। राज्ञां प्रभावोत्साहमन्त्रजाते ६ सामर्ध्ये च अमरः। ८ गौर्य्यां मेदि० ९ लक्ष्म्यां शब्दमा०। वृत्तिभेदशक्तिश्च अर्थबोधानुकूलः पदपदार्थसम्बन्धः स च इदं पदममुमर्थं बोधयतु, अस्मात् शब्दादयमर्थो बोद्धव्य इत्येवंरूपः इच्छात्मकः सङ्केतः, घटादिपदार्थविशेष्यक घटादिपदजन्यबोधविषयताप्रकारकेच्छाषिषयोवा। मीमांसकास्तु अभिधा नाम पदार्थान्तरं सङ्केतग्राह्यं शक्तिरित्याहुः। पदपदार्थयोः सम्बन्धान्तरं शक्तिरिति शाब्दिकाः। सा च शक्तिस्त्रिविधा रूढिर्योगः योगरूढिश्चेति तत्राद्या घटादिपदेषु, द्वितीया पाचकादिपदेषु, तृतीया पङ्कजादिपदेषु। प्राभाकरमते शक्तिर्द्विविधा अनुभाविका स्मारिका च तत्राद्या कार्य्यत्वान्विते, द्वितीया तु जातौ। तत्र गवादिपदानां जात्याकृतिविशिष्टव्यक्तौ शक्तिरिति नैयायिकाः। व्यक्तावेव शक्तिरिति नव्याः। जात्थाकृतिव्यक्तिषु तिसृषु शक्तिरिति वैयाकरणाः जातावेव शक्तिर्व्यक्तेर्भानं त्वाक्षेपादिति भाट्टादयः। जातौ थ्यक्तौ चोभयत्र शक्तिः किन्तु जात्यंशे ज्ञाता व्यक्त्यंशे स्वरूपसती प्रत्यायिकेति। कार्य्यान्वितव्यक्तौ शक्तिरिति प्राभाकराः। धातोस्तु फलावच्छिन्नव्यापारे शक्तिरिति नैयायिकाः। फल एव शक्तिरिति मण्डनादयः। व्यापारे शक्तिरिति रत्नकोषकृत्। आख्यातस्य कृतौ शक्तिरिति नैयायिकाः। कर्त्तरि शक्तिरिति शाब्दिकाः। व्यापारमात्रे शक्तिरिति मीमांसकाः। चतुर्विधविषयत्वात् तस्याश्चातुर्विध्यं शब्दश० प्र० अलङ्कारिमते दर्शितं यथा “जातिद्रव्यगुणस्पन्दैर्धर्मैः सङ्केतवत्तया। जातिशब्दादिभेदेन चातुर्विध्यं परे जगुः”। गोगवयादीनां गोत्वादिजात्या, पश्वाद्यादीनां लाङ्गूलधनादिद्रघ्येण, धन्यपिशुनादीनां पुण्यद्वेषादिगुणेन चलचपलादीनाञ्च शब्दानां कर्मणावच्छिन्नशक्तिमत्त्वाच्चातुर्विध्यमेब रूढानामिति तदुक्तं दण्ड्याचार्यैः “शब्दैरेव प्रतीयन्ते जातिद्रव्यगुणक्रियाः। चातुर्विध्यादमीषान्तु शब्द उक्तश्चतुर्विधः” इति। तदेतन्निरासितं तत्रैव “तदेतज्जडमूकमूर्खादीनामन्यशून्यादीनाञ्च शब्दानामपरिग्रहापत्त्या परित्यक्तमस्माभिः”।

शक्तिग्रह = पु० ६ त०। शक्तेः अर्थबोधकतारूपवृत्तेर्ज्ञाने।

शक्तिग्राहक = पु० शर्क्ति गृह्लाति ग्रह–ण्वुल्। १ कार्त्तिकेये शक्तिं ग्राहयति योधयति ग्रह–णिच् ण्वुल्। “शक्तिग्रहं व्याकरणोपमानात् कोषाप्तवाक्यात् व्यवहारतश्च। वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः” इत्युक्ते शक्तिबोधके २ हेतौ। शक्तिग्रहप्रकारश्च शब्दशक्तिप्रकाशिकायां दर्शितो यथा “सङ्केतस्य ग्रहः पूर्व वृद्धस्य व्यवहारतः। पश्चादेवोपमानाद्यैः शक्तिधीपूर्वकैरसौ”। प्रथमं षदेषु सङ्केतग्रहोवृद्धस्य व्युत्न्नस्य शब्दाधीनध्यवहारादेव बालानां तथाहि गामानयेति केनचिन्निपुणेन नियुक्तः कश्चन व्युत्पन्नस्तद्वाक्यतोऽर्थं प्रतीत्य गवानयनं करोति तच्चोपलभमानो बाल इदं गवानर्यनं स्वनोचरप्रवृत्तिजन्यं चेष्टात्वान्मदीयस्तनपानादिवदित्यनुमाय सा गवानयनप्रवृत्तिः स्वविषयधर्मिककार्य्यताज्ञानजन्या प्रवृत्तित्वान्निजप्रवृत्तिवदिति प्रवृत्तेर्गवानयनधर्मिककार्य्यताज्ञानजन्यत्वं प्रसाध्य गवानयनगोचरतज्ज्ञानमसाधारणहेतुकं कार्य्यत्वाद्धटवदित्येवमनुमिन्वानः समुपस्थितत्वाल्लाघवाच्च श्रुतं वृद्धवाक्यमेव तदसाधारणकारणत्वेनावधारयति तदनन्तरञ्च गवादिपदानां प्रत्येकमावापोनापेन गवादिबुद्धौ जनकत्वमवगत्यानतिप्रसक्तये गवादिसङ्केतस्य तदनुकूलत्वं कल्पयति। पश्चात्तु क्वचिदुप- मानाच्छक्तिग्रहो यथा गवादिपदशक्तिधीसाचिष्येन गोसादृश्यातिदेशवाक्यात् गवयपदवाच्यत्वबोधोत्तरं गवयत्वजात्यवच्छिन्ने गोसादृश्यग्रहात् गवयो गवयपदवाच्य इत्याकारः। क्वचिच्च व्याकरणात् यथा कर्मणि द्वितीया कर्त्तरि परस्मैपदमित्यानुशासनात् कर्मत्वादौ द्वितीयादेः। क्वचित् कोषादपि यथा “गुणे शुक्लादयः पुंसि गुणिलिङ्गस्तु तद्वति”। “सुशीमः शिशरो जडः। चूर्णे क्षोदः समुत्पिञ्जलौ भृशमाकुले” इत्यादि कोषेभ्यः श्वैत्यादौ शुक्लादिशब्दस्य। क्वचिद्विरणादपि यथा पचति पाकं करोतीति तुल्यार्थकवाक्यात् कृत्यादौ तिङादेः। क्वचित् प्रसिद्धार्थशब्दसामानाधिकरण्यादपि यथा नीरूपस्पर्शवान् वायुर्निस्पर्शमूर्त्तिमन्मन इत्यादौ रूपशून्यस्पर्शवदादिषु वाय्वादिपदस्य। वायुत्वादिजातेरतीन्द्रियत्वेन स्वरूपतस्तदवच्छिन्नस्यानुपस्यित्या तत्र शक्तिग्रहायागात् यथा वा “सत्कृत्यालङ्कृतां कन्यां ददानः कृकुदः स्मृतः” इत्यादावुक्तरीत्या कन्यादात्रादिषु कुकुदादिपदस्य। सहकार। तरौ मघुरं रौति पिक इत्यादिकन्तु न युक्तपमुक्तक्रमेण शक्तिग्रहस्योदाहरणं तिङर्थे धर्मिण्यभेदेन नामार्थान्ववस्याव्युत्पन्नत्वात् प्रत्यक्षसिद्धकौकिलत्वजात्यवच्छिन्न एव लाघवेन पिकशब्दस्म शक्त्यवच्छेदाच्च। क्वचिद्वाक्यशेषादपि यथा यवपदस्य कङ्गुप्रभृतौ स्लेच्छानां दीर्घशूके च शिष्टानां घ्यवहारादेकमात्रशक्तेः परिच्छेत्तुमशक्यत्वात् नानार्थत्वस्य चान्याय्यत्वात् यवमयश्चरुर्भवतीतिश्रुतौ यवपदस्यार्थसन्देहे “वसन्ते सर्वशस्यानां जायते पत्रशातनम्। सोदमानास्तु तिष्ठन्ति यवाः कणिशशालिन” ः इति विध्यर्थाकाङ्क्षया प्रवर्त्त मानाद्वाक्यशेषाद्दीर्घशूक एव यवपदस्य शक्तिग्रहः। यथा वा स्वाराज्यकामोऽग्निष्टोमेन यजेतेत्यादिविधिशेषीभूतेभ्यः “यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम्। अमिलामोपनीतं च तत्सुखं खःपदास्पदम” इत्यादिवाक्येभ्यः स्वरादिपदस्य”।

शक्तिधर = पु० शक्तिं धरति घृ–अच्। १ कार्त्तिकेये २ सामर्थ्यधरे त्रि० “शक्तिधरः कुमारः” इति रघुः। भृ–क्विप् ६ त०। शक्तिभृदादयोऽप्यत्र।

शक्तिपर्ण = पु० शक्तिरिव पर्णं यस्य। सप्तपर्णे जटा०।

शक्तिपाणि = पु० शक्तिः पाणौ यस्य। कार्त्तिकेये हला० शक्तिहस्तादयोऽप्यत्र।

शक्तिहेतिक = पु० शक्तिर्हेतिः प्रहरणास्त्रं यस्य कप्। शक्त्या योद्धरि।

श(स)क्तु = पु० ब० व० श(स)च–तुन् (छातु) भृष्ठयवादिचूर्णे अमरः। कृतान्नशब्दे २१८५ पृ० तद्भेदादि दृश्यम।

शक्तुफला(ली) = स्त्री शक्तव इव सूक्ष्माणि फलान्यस्याः वा ङीप्। शमीवृक्षे शब्दच०।

शक्त्रि(किथ्र) = पु० वशिष्ठमुनेः पुत्रे पराशरस्य पितरि मुनिभेदे

शक्नु = त्रि० शक–नु। प्रियभाषिणि अमरः।

शक्य = त्रि० शक–यत्। १ शक्तियुक्ते २ शक्त्या बौध्येऽर्थे। ३ समर्थनीये। ४ साधयितुं योग्ये च।

शक्यतावच्छेदक = त्रि० ६ त०। शक्यपदार्थस्यासाधारणधर्भे येन धर्मेण अर्थस्य शब्दसङ्केतविषयता तस्मिन् धर्मे। यथा घटशब्दः घटत्ववन्तं पदार्थं वोधयति अतस्तदसाधारणधर्मो घटत्वं घटशब्दस्य शक्यतावच्छेदकम्।

शक्र = पु० शक–रक्। १ इन्द्रे अमरः। २ कुटजवृक्षं ३ अर्जु नवृक्षे मेदि०। ४ ज्येष्ठानक्षत्रे ५ पेचके च। इन्द्रस्य चतुर्दशविधत्वम् भन्वन्तरभेदेन इन्द्रशब्दे दर्शितमतः तत्संख्यासाम्यात् ६ चतुर्दशसंख्यायाम्।

शक्रगोप = पु० शक्रं शक्रधनुर्गोपायति समवर्णत्वात् गुप–अण्। इन्द्रगोपे कीटे जटा०।

शक्रज = पु० शक्रात् जायते जन–ड। १ काके त्रिका०। २ इन्द्रजन्ये त्रि०। शक्रजातादयोऽप्यत्र।

शक्रजित् = पु० शक्रं जितवान् जि–क्विप् तुक् च। १ रावणात्मजे मेघनादे राक्षसे। २ इन्द्रजेतरि त्रि०।

शक्रधनुस् = न० ६ त०। मेथलाञ्छने धनुराकारे सूर्य्यकिरणसम्पर्कजे पदार्थभेदे (रामधनुक) अमरः।

शक्रध्वज = पु० ६ त०। भाद्रशुक्लद्वादश्यां पूज्ये इन्द्रदैवते ध्वजाकारे पदार्थे। इन्द्रध्वजशब्दे ९४६ पृ० दृश्यम्।

शक्रनन्दन = पु० ६ त०। अर्जुने जटा०। २ इन्द्रगन्दके त्रि०।

शक्रपर्य्याय = पु० शक्रस्य पर्य्यायो नाम नाम यस्य मध्यपदलोपः। १ कुटजवृक्षे रत्नमाला ६ त०। इन्द्रस्य २ वाचकशब्दे च।

शक्रपादप = पु० ६ त०। १ देवदारुवृक्षे अमरः। २ कुटजवृक्षे राजनि०।

शक्रपुष्पी = स्त्री शक्रस्येव पुष्पमस्याः ङीप्। अग्निशिखावृक्षे अमरः। स्वार्थे क। तत्रैव रत्नमा०।

शक्रभवन = न० ६ त०। स्वर्गे त्रिका०। शक्रावासादयोऽप्यत्र।

शक्रभूभवा = स्त्री शक्ररूपभुबि भवति भू–अच्। इन्द्रवारुण्याम् शब्दच०।

शक्रमातृ = स्त्री शक्रस्य मातेव। १ भार्ग्याम् राजनि०। ६ त०। २ इन्द्रजनन्याम् अदित्याम्।

शक्रमूर्द्धन् = पु० शक्रस्येव शिखावान् मूर्द्धा यस्य। १ वल्मीके त्रिका०। ६ त०। २ इन्द्रमस्तके। शक्रशीर्षादयोऽप्यत्र।

शक्रवल्ली = स्त्री शक्रप्रिया वल्ली। इन्द्रवारुण्याम् राजनि०।

शक्रवाहन = पु० शक्रं वाहयति वह–णिच्–ल्यु। मेघे शब्द च० इन्द्रवाहनादयोऽप्यत्र।

शक्रवीज = न० शक्रस्य कुटजस्य वीजम्। इन्द्रयवे राजनि०।

शक्रशाखिन् = पु० शक्रनामकः शाखी। कुटजवृक्षे भावप्र०।

शक्रसारथि = पु० ६ त०। इन्द्रमाररथौ मातलौ।

शक्रसुत = पु० शक्रस्य सुतः। १ वालिनामके वानरराजे हलायु०। २ इन्द्रपुत्रे अर्जुने च।

शक्रसुधा = स्त्री शक्रस्य सुधेव। पालङ्क्याम् शब्दच०।

शक्रसृष्टा = स्त्री ६ त०। हरीतक्याम् त्रिका०।

शक्राख्य = पु० शक्रस्येवाख्या यस्य। १ पेचके त्रिका०।

शक्राणी = स्त्री शक्रस्य पत्नी ङीष् आनुक् च। पुलोमजायामिन्द्रपत्न्याम् शब्दमा०।

शक्राशन = न० शक्रेणाश्यते अश–कर्मणि ल्युट्। भङ्गायाम् “शक्राशनन्तु तीक्ष्णोष्णं मोहकृत् कुष्ठनाशनम्। बलमेधाग्निद श्लेष्मदोषहारि रसायनम्” राजव०।

शक्राशन = पु० शक्रं तन्नामश्नुते ष्याप्नोति अश–ल्यु। कुटजवृक्षे षब्दच०।

शक्रि = पु० शक–क्रिन्। १ मेघे २ वज्रे ३ गजे ४ पत्रे च संक्षिप्तसारः।

शक्रोत्थान = न० शक्रस्य तद्ध्वजस्य उत्थानम्। भाद्रशुक्लद्वादश्यां कर्त्तव्ये १ शक्रध्वजस्थोत्थाने तदुपलक्षिते २ उत्सवे च। इन्द्रध्वजशब्दे ९४६ पृ० दृश्यम्।

शक्व = पु० शक–वन्। गजे सि० कौ०।

शङ्क = पु० शक–अच् वा + सुम्। शकटादिवाहकवृषे हारा०।

शङ्कर = पु० शं करोति कृ–अच्। १ महादेवे २ कल्याणकरे त्रि० ३ शिवत्न्यां स्त्री ङीष्। ४ सा च मञ्जिष्ठायां शब्दच०। ५ शम्यां राजनि०।

शङ्करावास = पु० ६ त०। १ कैलासाचले। शङ्करस्यावास इव शुभ्रत्वात्। २ कर्पूरे राजनि०।

शङ्का = स्त्री शकि–अ। १ त्रासे २ वितर्के मेदि० ३ संशये च।

शङ्कित = त्रि० शङ्का जातास्य तार० इतच्। १ भीते त्रिका० २ सन्दिग्धे ३ तितर्किते च।

शङ्कु = पु० शकि–उण्। १ स्वाणौ। २ भत्स्यभेदे। ३ शल्यास्त्रे अमरः। ४ कीलके। ५ दशकोटिसंख्यायाम् ६ तत्सङ्क्याते। ७ महादेवे। ८ कलुषे मेदि०। ९ पत्त्रशिराजाले १० मेढ्रे हेमच०। ११ नखीनामद्रव्ये जटा०। १२ छाथापरिभाणार्थे काष्ठादिनिर्मिते, “अर्काङ्गुला तु सूच्यग्रा काष्ठी द्व्यङ्गुगमूलिका। शङ्कुसंज्ञा भवेच्चैव तच्छायां परिकल्पयेत्” इत्युक्ते १३ कीलभेदे च ज्यो० त०। १४ जनमेजयपुत्रभेदे भा० आ० ९५ अ०। १५ नवरत्नान्त- र्गतकविभेदे। दिक्साधनार्थं सू० सि० शङ्कुश्च दर्शितो यथा “शिलातलेऽम्बुसंशुद्धं वज्रलेपेऽपि वा समे। तत्र शङ्क्वङ्गुलैरिष्टैः समं मण्डलमालिखेत्। तन्मध्ये स्थापयेच्छङ्कुं कल्पनाद्द्वादशाङ्गुलम्। तच्छायाग्रं स्पृशेद् यत्र वृत्ते पूर्वापरार्द्धयोः। तत्र विन्दू विधायोभौ वृत्ते पूर्वापरा भिधौ। तन्मध्ये तिमिना रेखा कर्त्तव्या दक्षिणोत्तरा। याम्योत्तरदिशोर्मध्या तिमिना पूर्वपश्चिमा। दिङ्मध्यमत्स्यैः संसाध्या विदिशस्तद्वदेव हि”। तत्र दिक्साधनोधक्रमे प्रथममम्बु संशुद्धे जलवत् समीकृते शिलाप्रदेशे अपि वाथ वा तदभावेऽन्यत्र वज्रलेपे चत्वरादौ घुण्टनादिना समस्थाने कृते शङ्क्वङ्गुलैः शङ्कस्थाङ्गुलविभागमानगृहीतैरभीष्टसंख्याकाङ्गुलैर्व्यासार्द्धरूपैर्वृत्तभवक्रमात् लिखेत्। सर्वतः केन्द्राद्वृत्तपरिधिरेखा तुल्या स्यात् तथेत्यर्थः। ततस्तन्मध्ये तस्य वृत्तस्य केन्द्ररूपमध्ये कल्पनया द्वादशसंख्याकाङ्गुलानि तुल्यानि यस्मिंस्तं द्वादशविभागाङ्कितमित्यर्थः। शङ्कुं समतलमस्तकपरिधिकाष्ठदण्डं स्थाषयेत्। ततः पूर्वापरार्द्धयोर्दिनस्य प्रथमद्वितीयभागयोस्तच्छायःग्रं स्थापितशङ्कोश्छायान्तप्रदेशो मण्डलपरिधौ यस्मिन् विभागे स्पृशेत्। दिनस्य प्रथमविभागेऽनुक्षणं छायाह्राद्वृत्ते यत्र प्रविशति दिनस्यापरार्द्धे छायानुक्षणवृद्धेर्वृत्तं यत्र निर्गच्छतीत्यर्थः। तत्र निर्गमनप्रवेशस्थानयोरुभौ द्वौ विन्दू पूर्वापरसञ्ज्ञौ क्रमेण वृत्ते परिधिरेस्वायां कृत्वा तन्मध्वे पूर्वापरविन्द्वन्तरमध्ये तिमिना मत्स्येन रेखा कार्य्या सा दक्षिणोत्तररेखा भवति। मत्स्यस्तु विन्द्वन्तरालसूत्रमितेन व्यासार्द्धेन विन्दुद्वयकेन्द्रकल्पनेन वृत्तद्वयं निष्पाद्य वृत्तद्वअयसंयोगाभ्यां वृत्तद्वयपरिधिविभागाभ्यामन्तर्गतं मत्स्याकारं स्थानं भवति। तत्रैकः संयोगो मुखं बाह्यवृत्तभागसम्मार्जनेनापरसंयोगस्तु पुच्छमितरवृत्तभागद्वयसम्मार्जनेन सुखपुच्छावध्यृज्वी रेखा दक्षिणोत्तररेखा। तत्र विन्दोः सव्यं रेखाग्रं दक्षिणा दिक्। पश्चिमविन्दोः सव्यं रेखाग्रमुत्तरा दिक्। अनन्तरं पूर्ववृत्तं मत्स्यश्च सम्मार्जनीयः। शङ्कुरपि तत्स्थानान्निष्कास्य इति केवला दक्षिणोत्तररेखा स्थितेति तात्पर्य्यम्। दक्षिणोत्तरदिशोर्मध्यस्थाने तिमिना दक्षिणोत्तररेखामितेत व्यासार्द्धेन दक्षिणोत्तरस्थानाभ्यां पूर्ववत् प्रत्येकं वृत्तं विधाय पूर्ववत् सिद्धेन मत्स्येतेत्यर्थः। पूर्वपश्चिमा रेखा कार्य्या। तत्र पूर्वविन्दोरासन्नं रेखाग्रं पूर्वा पश्चिमविन्दोरासन्नं रेखाग्रं पश्चिमेति मत्स्यसम्मार्जने केवला पूर्वापररेखापि सिद्धा। अथ रेखासंयोगस्थानात् दिक्साधनोपक्रमोक्तं पूर्ववृत्तमुल्लिखेत्। तद्वृत्तपरिधौ यत्र रेखा लग्ना तत्र दिगिति तद्वृत्तमध्यस्य दिक्चतुष्टयं वृत्ते सिद्धम्। तद्वत् यथा दक्षिणोत्तराभ्यां पूर्वापरा साधिता तत्प्रकारेणेत्यर्थः। एवकारोऽन्यप्रकारनिरासार्थकः। हि निश्चयेन। विदिशः कोणदिशो दिशां पूर्वादिसिद्धदिशां ये मध्यमत्स्या अघ्यवहितदिग्द्वयान्तरोत्पन्ना लघवस्तैः संसाध्याः सम्यक्प्रकारेण साध्याः। रेखावृत्तसंयोगस्थत्वेन ज्ञेयाः” रङ्गना०। छायाशब्दे २९८६ पृ० दृश्यम्।

शङ्कुकर्ण = पु० शङ्कुरिव कर्णावस्य। १ गर्दभे त्रिका०। दानवभेदे हरिवं० ३ अ०। ३ स्कन्दानुचरभेदे भा ४७ अ०।

शङ्कुतरु = पु० शङ्कुयोग्यस्तरुः। सालवृक्षे शब्दर०। शङ्कुवृक्षादयोऽप्यत्र।

शङ्कुला = स्त्री शकि–उलच्। १ उत्पलपत्रिकायाम् संक्षिप्तसा० पूगच्छेदकास्त्रभेदे (जा~ति) शङ्कुलाखण्डः इति सि० कौ०।

शङ्कोच(चि) = पु० शकि–उच–(उचि) वा। मत्स्यभेदे जटा०।

शङ्ख = पु० न० शम–ख। १ स्वनामख्याते समुद्रजाते पदार्थे अमरः। २ ललाटास्थ्नि, ३ निधिभेदे, ४ नखीनामगन्धद्रव्ये मेदि०, ५ कर्णसमीपस्थे–अस्थ्नि, ६ नागभेदे, ७ हस्तिदन्तमध्ये त्रिका०। ८ दशनिखर्वसंख्यायां, ९ तत्संख्याते च। तस्य शङ्खचूडासुरास्थितस्तदुत्पत्तिः ब्रह्मवै० प्रकृ० १८ अ० उक्ता यथा। “अथ शम्भुर्हरेः शूलं जग्राह दानवं प्रति। ग्रीष्ममध्याह्नमार्त्तण्डसमानरुचमुत्तमम्। शूलञ्च भ्रमणं कृत्वा पपात दानवोपरि। चकार भस्मसात्तञ्च सरथञ्चाबलीलया। स शिवस्तेन शूलेब दानवस्यास्थिजालकम्। प्रेम्णा च प्रेरयामास लवणोदे च सागरे। अस्थिभिः शङ्खचूडस्य शङ्खजातिर्बभूव ह। मानाप्रकार रूपा च शश्वत् पूता सरार्चने। प्रशस्तं शङ्खतोयञ्च देवानां प्रीतिदं परम्। तोर्थतोयस्वरूपञ्च पवित्रं शम्भुना विना। शङ्खशब्दो भवेद्यत्र तत्र लक्ष्मीश्च सुस्थिरा। स स्नातः सर्वतीर्थेषु यः स्नातः शङ्खवारिणा। शङ्खे हरेरधिष्ठानं यतः शङ्कस्ततो हरिः। तत्रैव सततं लक्ष्मीर्दूरीभूतसमङ्खलम्। स्त्रीणाञ्च शङ्खध्वनिभिः शूद्राणाञ्च विशेषतः। भीता रुष्टा याति लक्ष्मीः स्थलमन्यत् स्थलात्ततः” १० मुद्राभेदे तन्त्रसा०। ११ प्रस्तरभेदे। युक्तिकल्पतरौ तल्लक्षणादि यथा “क्षीरोदकूलेऽपि सुराष्ट्रदेशे तदन्यतोऽपि प्रभवन्ति शङ्खाः। अरुष्कवर्णाः शशिशुभ्रभासः सुसूक्ष्मवक्त्रा गुरुवो महान्तः। ते वामदक्षिणावर्त्तभेदेन द्बिविधा मताः। दक्षिणावर्त्तशङ्खस्तु कुर्य्यादायुर्यशोधनम्। तेनैव शिरसा यस्तु श्रद्दधानः प्रतीच्छति। वारि हित्वा स पापानि पुण्यमाप्नोति मानवः। वृत्तत्वं स्निम्धताच्छत्वं शङ्खस्येति गुणत्रयम्। आवर्त्तभङ्गदोषो हि हेमयागाद्विनश्यति। ब्रह्मादिजातिभेदेन स पुनश्चतुर्विधः”। “ये स्निग्धमसृणाकारा मृदवो लघवस्तथा। ब्राह्मणाः प्रस्तराज्ञेयाः सर्वकर्मसु शोभनाः। ये दृढाङ्गाः सुगुरवतथांशांशविभागिनः। अश्मानः क्षत्रियाज्ञेयाः कर्कशाङ्गास्तथैव च। मृदवो गुरुवो ये तु ये स्नेहेनेव रक्षिताः। ते वैश्याः स्वविभक्तांशा युजन्ते सर्वकर्मसु। ये कर्करावृताङ्गाश्च कर्करा ये प्रतिष्ठिताः। येऽत्यन्तगुरुवः स्निग्धास्ते शूद्राः प्रस्तराधमाः। इति प्रोक्तमशेषेण सम्यक् पाषाणलक्षणम्। विचार्य्य मतिमान् कार्य्ये नियोक्तव्यं विचक्षणैः”।

शङ्खक = न० शङ्गस्य विकारः वुन्। १ शङ्खजाते वलयाकारे पदार्थे मेदिनि० २ शिरोरोगे पु० तस्य लक्षणादि यथा “पित्तरक्तानिलादुष्टाः शङ्खदेशे विमूर्च्छिताः। तीव्र रुग्दाहरोगं हि शोथं कुर्वन्ति दारुणम्। सशिरोविषवद्वेगान्निरुध्याशु गलं तथा। त्रिरात्राज्जीवितं हन्ति शङ्खको नाम नामतः। त्र्यहाज्जोवितभैषज्यं प्रत्याख्येयस्य कारयेत्”। पित्तरक्तानिला इत्यत्र कफोऽपि योज्यः “कृतानुतापः कफपित्तरक्तैरिति” सुश्रुतवचनात्। विमूर्च्छिताः प्रवृद्धाः त्रिरात्रात् त्रिरात्रमध्ये मारयति” भावप्र०।

शङ्खकार = पु० शङ्खं तद्विकारं वलयाकारं पदार्थं करोति कृ–अण्। वर्णसङ्करजातिभेदे (र्शाखारी)। स तु शूद्रागर्भे विश्वकर्मतो जातः व्रह्मवै०।

शङ्खचरी = स्त्री शङ्ख ललाटास्थ्नि चरति चर–ट। ललाटि कायां त्रिका०।

शङ्खचर्चा = स्त्री शङ्खस्य चर्चा भूषा यतः। ललाटिकायां शब्दर०।

शङ्खचूर्ण = न० ६ त०। शङ्खजाते चूर्णे। “शङ्खचूर्णं कटु क्षारमुष्णं कृमिहरं परम्” राजव०।

शङ्खद्रावक = पु० आर्षधविशेषे। तत्पाकादि यथा “अर्क- स्नुही तथा चिङ्क्षा तिलारग्बधचित्रकम्। अपामार्ग भस्मसमं वस्त्रपूतं जलं हरेत्। मृद्वग्निना पचेद्त्तत्तु याश्चल्लवणताङ्गतम्। लवणेन समौ ग्राह्यौ द्वौ क्षारौ टङ्गणं तथा। समुद्रफेनगोदन्तकाशीशं सोरका तथा। द्विगुणं पञ्चलवणं मातुलुङ्गरसेन च। काचकूप्यान्तु सप्ताहं वासयेदम्लयोगतः। शङ्खचूर्णपलं दत्त्वा वारुणी यन्त्रमुद्धरेत्। सर्वधातून् हरेच्छीध्रं वराटीशङ्खकादिकान्। उदरादिकरोगाणां सद्यो हि नाशकः परः” भैषज्यर० “योगिनीभैरवाभ्याञ्च बलिमादौ प्रदापयेत्। पश्चाद् यन्त्रञ्च कर्त्तव्यमेवाह परमेश्वरी। रसः शङ्खद्रवो नाम शम्भुदेवेन भाषितः। गुह्याद् नुह्यतमं गुह्यमिदानीं कथ्यते मया। शङ्खचूर्णं यवक्षारं सर्जिकाक्षारटङ्गणम्। समञ्च पञ्चलवणं स्फटिकारी नृशादरः। काचकूप्यां तत्र क्षिप्वा वारुणी यन्त्रमुद्धरेत्। यामार्द्धं द्रावयत्येष शङ्खशुक्तिवराटकान्। अर्शांसि नाशयेत् षट् च मूत्रकृच्छ्राश्मरीं तथा। उदराष्टविधं हन्ति गुल्मप्लीहोदराणि च। अजीर्णं नाशयेच्छीघ्रं ग्रहणीञ्च विसूचिकाम्। भुक्तशेषे च भोक्तव्यो माषमात्रोरसोत्तमः। क्षणमात्राद्भवेत् भस्म पुनर्भोजनमिच्छति। प्रत्यहं भोजनान्ते च संसेघ्योऽयं रसोत्तमः। न रुजायां भयं क्वापि सत्यं सत्यं वदाम्यहम्। न देयं यस्य कस्यापि सदा गोप्यञ्च कारयेत्। रसः शङ्खद्रवो बास वैद्यानामुपकारकः”।

शङ्खद्राविन् = पु० शङ्खं द्रावयति द्रु–णिच्–णिनि। अम्लवेतसे राजनि०।

शङ्खधरा = स्त्री घृ–अच् ६ त०। हिलमोचिकायाम् रत्नमा०।

शङ्खध्म = पु० शङ्खं घमति ध्मा–क। शङ्खवादके। क्विप्। शङ्खध्मा इत्यप्यत्र।

शङ्खनख = पु० शङ्खस्य नस्त्र इव। १ क्षुद्रशङ्खे (जोङ्गडा) अमरः। २ नखीनामगन्धद्रव्ये शब्दर० स्त्रीत्वमपि तत्र ङीष्।

शङ्खपुष्पी = स्त्री शङ्ख इव पुष्पमस्याः ङीष्। (शङ्खाली) वृक्षे राजनि०। “शङ्खपुष्पी तु तीक्ष्णोष्णा मेध्या कृमिविषापहा”। राजवल्लभः “शङ्खपुष्पी सरा मेध्या कृष्णा मानसरोगनुत्। रसायनी कषायोष्णा स्मृतिकान्तिवलाग्निदा। दोषापस्मरभूतासृक्कुष्ठक्रमिविषप्रणुतः” भावप्र०।

शङ्खभृत् = पु० शङ्खं बिभर्त्ति भृ–क्विप् तुक् च। विष्णौ हेमच०।

शङ्खमुख = पुंस्त्री० शङ्ख इव मुखमस्य। कुम्भोरे हेमच०। स्त्रियां ङीष्।

शङ्खिका = स्त्री शङ्खस्तदाकारं पुष्पमस्त्यस्याः ठन्। (चोरकाचका) क्षुपभेदे शब्दच०।

शङ्खिन् = पु० शङ्ख + अस्त्यर्थे इनि। १ विष्णौ, २ समुद्रे च मेदि०।

शङ्खिनी = स्त्री शङ्खस्तदाकारं पुष्पमस्त्यस्याः इनि। १ चोरपुष्प्याम्, अमरः। २ श्वेतपन्नागे ३ विश्वः। ४ श्वेतबुह्नायां ५ श्वेतचुक्रायां, ६ यवतिक्तायां, राजनि०। ७ स्त्रीभेदे, ८ उपदेवताभेदेः, (शाकचिन्नी) ९ शङ्खवत्यां स्त्रियाञ्च। स्त्रोभेदलक्षणं रतिमञ्जर्य्यामुक्तं यथा “दीर्घा सुदीर्घनयना वरसुन्दरी या कामोपभोगरसिका गुणशीलयुक्ता। रेखात्रयेण च विभूषितकण्ठदेशा सम्भोगकेलिरसिका किल शङ्खिनी सा”। “शशके पद्मिनी तुष्टा चित्रिणी रमते मृगे। वृषभे शङ्खिनी तुष्टा हस्तिनी रमते हये”। “पद्मिनी पद्मगन्धा च मीनगन्धा च चित्रिणी। शङ्खिनी क्षारगन्धा स्यात् मदगन्धा च हस्तिनी”।

शङ्खिनीफल = पु० शङ्खिन्या इव फलमस्य। शिरीषवृक्षे राजनि०।

शङ्खिनीवास = पु० ६ त०। शाखोटकवृक्षे शब्दच०।

शच = गतौ भ्वा० आत्म० सक० सेट् इदित्। शञ्चते, अशञ्चिष्ट।

शच = वाचि भ्वा० आत्म० सक० सेट्। शचते अशचिष्ट।

शचि(ची) = स्त्री शच–इन् वा डीप्। १ इन्द्रपत्न्याम् अमरः। २ करणान्तरे मेदि०।

शचीपति = पु० ६ त०। इन्द्रे अमरः। शचीभर्त्त्रादयोऽप्यत्र।

शट(ठ) = श्लाघायां चु० आ० सक० सेट्। शाट(ठ)यत अशीशट(ठ)त।

शट = शादे अक० रोगजनने गतौ भेदे च सक० पर० भ्वा० शटति। अशाटीत् अशटीत्।

शट = पु० शटति रुजति दन्तं शट–अच्। १ अम्ले सि० कौ०। २ सिंहकेसरे ३ जटायाञ्च स्त्री अमरः टाप्।

शटि(टी) = स्त्री शट–इन् वा ङीप्। (वन आदा) स्वनामख्याते ओषघिभेदे “शटी पलाशी षड्ग्रन्था सुव्रता गन्धमूलिका। गन्धारिका गन्धवधूर्वधूः पृथुपलाशिका। भवेद्गन्धपलाशी तु कषाया ग्राहिणी लघुः। तिक्ता तीक्ष्णा च कटु काऽनुष्णास्यमलनाशिनी। शोषकासव्रणश्वासशूलाध्मान ग्रहापहा भावप्र०।

शट्टक = न० शट–क्विप् टक–अच् कर्मधा०। घृतजलमिश्रितशालिचूर्णे। “शालिचूर्णं घृतं तोयं मिश्रितं शट्टकं वदेत्” भावप्र०।

शठ = बधे सक० कैतवे क्लेशे च अक० भ्वा० पर० सेट्। शठति अशाठीत् अशठीत्।

शठ = आलस्ये चु० पर० अक० सेट्। शाठयति ते अशीशठत् त।

शठ = दुष्टवचने अद० चु० उभ० सक० सेट्। शठयति ते अशशठत् त

शठ = न० शठ–अच्। १ तगरे २ कुङ्कुमे ३ लौहे च राजनि०। ४ धूस्तूरे ५ मध्यस्थपुरुषे च पु०। “प्रियं वक्ति पुरोऽन्यत्र विप्रियं कुरुतं भृशम्। व्यक्तापराधचेष्टश्च शठोऽयं कथितो बुधैः” विष्णपु० उक्ते ६ धूर्त्ते त्रि० मेदि० ७नायकभेदे पु० तल्लक्षणं यथा “शठाऽयमेकत्र बद्धभावो यः। दर्शितबहिरनुरागो विप्रियमन्यत्र गूढमाचरति” सा० द०।

शठता = स्त्री शठस्य भावः तल्। शाठ्ये वञ्चनायाञ्च।

शठम्बा = स्त्री शठ–अच् अबि–अच् कर्म० शक०। अम्बष्ठायाम् राजनि०

शड = संघाते रोगे च अक० भ्वा० पर० सेट् इदित्। शण्डति अशण्डिष्ट।

शण = दाने भ्वा० पर० सक० सेट्। शणति अशाणीत् अशणीत् शशाणे शेणतुः।

शण = पु० शण–अच्। स्वनामख्याते क्षुपभेदे हेमच०।

शणघण्टिका = स्त्री शणः घण्टेव तत्तुल्यरवफलकत्वात् इवार्थे कन्। घण्टारवतुल्यफलायाम् शणपुष्प्यां राजनि०।

शणपर्णी = स्त्री शणस्येव पर्ण्यान्यस्याः ङीप्। असनपर्ण्याम् राजनि०।

शणपुष्पी = स्त्री शणस्येव पुष्पमस्याः ङीप्। (झाझने) वनशणे स्वार्थे क। तत्रैव।

शणसूत्र = न० शणाज्जातं सूत्रम्। शणजातं जाले अमरः।

शणालुक = पु० शण इवालुकः। आरेवतवृक्षे (शोणालु) शब्दर०

शणिका = स्त्री शणस्तत्पुष्पमस्त्यस्याः ठन्। शणपुष्प्यां राजनि०

शण्ड = न० शडि–अच्। १ पद्मादिसमूहे शब्दर०। २ नपुंसके ३ वृषे च द्विरूपको०।

शण्डिल = पु० शडि–इलच्। शाण्डिल्यस्य पितरि मुनिभदे तस्यापत्यं गर्गा० घञ् शण्डिल्य।

शण्ढ = न० शण–ढ तस्य नेत्त्वम्। १ अन्तःपुररक्षके कृत्रिमक्लीवे २ क्लीवमात्रे भरतः। ३ वृषे मेदि० ४ बन्ध्यपुरुषे जटा० ५ उन्मत्ते धनङ्गयः।

***