विश = प्रवेशे तु० पर० सक० अनिट्। विशति अविक्षत्।अधि + उपवेशने।अभि + नि + मनसः स्थितिहेतुसंयोगभेदे आत्म० एतदर्थे आधारस्य कर्मता धर्ममभिनिवेशते अन्यत्रार्थे न कर्मता। “या या संज्ञा यस्मिन् यस्मिन्नमिनिविशते” भाष्यम्। “क्वपिदपवादविषयेऽप्युत्सर्गोऽभिनिविशते” व्या० परिभाषा।उप + आसनादौ स्थितिभेदे।नि + स्थितिभेदे आत्म० “निविशते यदि शूकशिखा पदे” मैम०निर् + उपभोगे “क्रीडारसं निर्विशतीव बाल्ये” कुमा० ‘निर्वेपीभृतिभोगयोः’ अमरः “निर्विष्टविषयस्नेहः” रघु०।प्र + अभ्यन्तरगमने।

विश = पु० विश–क्विप्। १ मनुजे २ वैश्ये च अमरः।

विश = न विश–क। १ मृणाले रायमु०। २ प्रवेशकर्त्तरि त्रि०।

विश(ष)(स)कण्ठा = स्त्री विश(सं)(षं) मृणालमिव कण्ठोऽस्याः। बलाकायां राजनि० षमध्यः समध्योऽप्यत।

विशङ्कट = त्रि० वि + शङ्कटच्। विशाले अमरः।

विशद = पु० वि + शद–अच्। १ शुभ्रवर्णे २ तद्वति त्रि० अमरः। ३ विमले हेम०। ४ व्यक्ते च त्रि० मेदि०।

विशय = पु० वि + शी–अच्। संशये “विषयो विशयश्चैवेति” मीमांसा।

विशर = पु० वि + शॄ–अच्। १ बधे अमरः। प्रादि० व०। २ विगतवाणे त्रि०।

विशल्यकृत् = पु० विशल्यं तत्प्रहारवेदनानिवृत्तिं करोति कृ–किप्। (हापरमाली) १ वृक्षे रत्नमा०। २ विशल्यकारके त्रि०।

विशल्यकरणी = स्त्री विशल्यं क्रियतेऽनया कृ–ल्युट् ङीप्। ओषधिभेदे “पूर्वं तु कथिता यासौ वीर! जाम्बवता तव। दक्षिणे शिखरे जातां महौषधिमिहानय। विशल्यकरणीं नाम्ना सावर्ण्यकरणीं तथा। संजीव करणीं वीर! सन्धानीञ्च महौषधिम्” रामा० लङ्का० १०२ स०।

विशल्या = स्त्री विगतं शल्यं तत्प्रहारवेदना यस्याः ५ व०। १ अग्निशिखवृक्षे २ दन्तीवृक्षे ३ गुडूच्याम् अमरः ४ त्रिपुट्याम् ५ अजमोदायाञ्च राजनि०।

विशसन = न० वि + शस–हिंसने ल्युट्। १ मारणे अमरः। करणे ल्युट्। २ खड्गे पु० त्रिका० “असिर्विशसनः खड्गः” खगड्पूजामन्त्रः।

विशस्त = त्रि० वि + शस–अविनये न इट् अन्यत्र इट्। धृष्टे सि० कौ०। इटि विशसित। मारिते त्रि०।

विशस्तृ = पु० वि + शस–तृच् न इट्। चण्डाले संक्षिप्त०।

विशाकर = पु० विशाकः विगतशाकः सन् राजते राज–बा० ड। भद्रकूडे (लङ्कासिज) शब्दच०। तस्य शाकशून्यत्वात् तथात्वम्।

विशाख = पु० विशिष्टा शाखाऽस्य। १ कार्त्तिकेये २ धन्विनां वितस्त्यन्तरालपादावस्थाने अमरः। ३ पुनर्नवायां राजनि० ४ याचके च मेदि०। ५ स्कन्दांशजाते देवभेदे तन्नामनिरुक्तिः मा० व० २२६ अ० उक्ता यथा “वज्रप्रहारात् स्कन्दस्य सजातः पुरुषोऽपरः। युवा काञ्चनसन्नाहः शक्तिधृग्दिव्यकुण्डलः। यद्वज्रवेशनाज्जातो विशाखस्तेन कीर्त्तितः”। ६ स्कन्दानुजभ्रातरि “अग्नेः पुत्रः कुमारस्तु श्रीमान् शरवनालयः। तस्य शाखो विशाखश्च नैगमे यश्च पृष्ठजः” भा० आ० ६६ अ०। ७ शिवे भा० आ० १७ अ०।

विशाखज = पु० विशिष्टा शाखा यस्य तथा सन् जायते जनक। नारङ्गे शब्दच०

विशाखल = न० “विशालान्तरविन्यस्ते पादयुम्मे विशाखलम्” शब्दमालोक्ते धन्विनामवस्थानभेदे।

विशाखा = स्त्री विशिष्टा शाखा प्रकारो यस्याः। १ बहुलनक्षत्रात्मकेऽश्विन्यवधिके षोडशे नक्षत्रे अमरः। “विशाखयोर्मध्यगतः सम्पूर्ण इव चन्द्रमा” रामा० प्रयोगात् तस्य द्विवचनान्ततेत्यन्ये। “बहुपुत्रो विशिखासु” भा० अ० ९ उक्तेर्बहत्वं बहुतारत्मकत्वेनेति बोध्यम्। अदोषाशब्दे ४९७ पृ० दृश्यम्। २ कठिल्लके मेदि०।

विशाय = पु० वि + शी–पर्य्याये णच्। प्रहरिणां पर्य्यायेण शयने अमरः।

विशारण = न० वि + शृ–स्वार्थे णिच्–ल्युट्। मारणे हेमच०।

विशारद = पु० विशालं ददाति दा–क लस्य रः। १ बकुलवृक्षे २ क्षुद्रदुरालभायां स्त्री राजनि०। ३ पण्डिते पु० ४ प्रगल्भं त्रि० अमरः ५ श्रेष्ठे च त्रि० अजयः।

विशाल = त्रि० वि + शालच्। १ विस्तीर्णे २ वृहति च अमरः। २ मृगभेदे ३ खगभेदे पुंस्त्री० मेदि० स्त्रिया ङीष्। ४ नृपभेदे पु० ५ वृक्षभेदे शब्दर०। ६ इन्द्रवारुण्याम् स्त्री अमरः। ७ माहेन्द्रवारुण्याम् ८ उपोदक्यां च स्त्री राजनि०। ९ उज्जयिनीनगर्य्यां स्त्री मेदि०। १० नदीभेदे च स्त्री “विशालां विरजां तथा” मुण्डनोपवासपर्युदासः विरजाशब्दे दृश्यः।

विशालता = स्त्री विशालस्य भावः तल्। १ पार्श्वविस्तारे अमरः २ वृहत्त्वे शब्दर०

विशालतैलगर्भ = पु० विशालं विस्तीर्णं तैलं गर्भे फलमध्ये यस्य। अङ्कोटकवृक्षे राजनि०।

विशालत्वच् = पु० विशाला त्वक् यस्य। सप्तच्छदवृक्ष। अमरः।

विशालपत्र = पु० विशालं पत्त्रमस्य। १ कासालौ, २ श्रीतालवृक्षे च राजनि०।

विशालाक्ष = पु० विशाले अक्षिणी यस्य षच्समा०। १ महादेवे, २ गरुडे, ३ विष्णौ च ४ वृहन्नेत्रे, त्रि० मेदि०। ५ पार्वत्यां ६ नागदन्त्यां च स्त्री राजनि० ङीष्। ७ वरस्त्रियां स्त्री विश्वः। ८ योगिनीभेदे स्त्री।

विशाली = स्त्री० वि + शालच् गौरा० ङीष्। अजमोदायाम्। राजनि०।

विशिख = पु० विशिष्टा विगता वा शिखा यस्य प्रादि० ब०। १ शरवृक्षे राजनि०। २ वाणे अमरः। ३ तोमरे च मेदि०। ४ शिखारहिते त्रि०। ५ खनित्र्यां ६ नालिकायाम ७ रथ्यायाञ्च स्त्री० मेदि०।

विशिप = न० विश–इपक्। मन्दिरे उणादिको०

विशिष्ट = त्रि० वि + शिष–क्त। १ युक्ते २ विलक्षणे ३ विशेषणयुक्ते च।

विशिष्टबुद्धि = स्त्री ६ त०। विशषणवतो विशेष्यस्य ज्ञाने यथा घट इत्यादिकं ज्ञानम् अत्र घटत्वस्य विशेषणतया भास- मानस्य घटे विशिष्ये भानम् एतत्कारणञ्च विशेषणज्ञानं तदनुरोधेनैव अयं घट इत्यादिप्रत्यक्षसिद्ध्यर्थं तत्कारणस्य घटत्वज्ञानस्य पूर्वं सम्पत्त्यर्थं घटघटत्वे इति निर्विकल्पकज्ञानमग्रे भवतीत्यङ्गीकृतं नैयायिकैः।

विशिष्टवैशिष्ट्यज्ञान = ६ त०। विशेषणंविशिष्टे वैशिष्ट्यस्य संसर्गस्य ज्ञाने यथा रूपवान् घट इत्यादि ज्ञानं तत्र घटत्वविशिष्टे रूपादेः संसर्गस्य भानम्। तच्च द्विविधम् विशेषणोपलक्षितप्रतियोगिकवैशिष्ट्यावगाहि विशेषणविशिष्टप्रतियोगिकवैशिष्ट्यावगाहि च। आद्ये विशेषणज्ञानासंसर्गयोः कारणता द्वितीये तु विशेषणतावच्छेदकप्रकारकविशेषणज्ञानस्य कारणता। यथाकारणं च तयोर्योधवैलक्षण्यम्। तत्र क्वचित् विशेष्ये यद्विशेषणं तत्रापि विशेषणान्तरमिति रीत्या ज्ञानं जायते यथा दण्डवान् पुरुष इति ज्ञानम् अत्र ज्ञाने पुरुषांशे दण्डो दण्डांशे दण्डत्वं विशेषणतया भासते। तत्र विशृङ्खलोपस्थितिः प्रयोजिका। क्वचिदेकत्र द्वयमिति रीत्या बोधः। यथा दण्डवान् पुरुष इति ज्ञानम् अत्र च ज्ञाने एकस्यांव्यक्तौ पुरुषे पुरुषत्वं दण्डश्चेत्युभयं विशेषणतया भासते नतु विशेषणविशेषणतावच्छेदकभावेन। क्वचित् विशिष्टवैशिष्ट्यावगाहि ज्ञानं भवति यथा दण्डवान् पुरुष इति ज्ञानमत्र च ज्ञाने विशेषणतावच्छेदकप्रकारकं विशेषणज्ञानं कारणम। तत्र दण्डरूपविशेषणावच्छिन्न्प्रतियोगिकवैशिष्ट्यरूपः संसर्गः पुरुषांशे संसर्गतया भासते। अतएव विशेषणविशिष्टसंसर्गावगाहि तदिति उपलक्षितज्ञानात् विशेषः। क्वचिच्च विशिष्टज्ञानं यथा अयं दण्डीति ज्ञानम् अत्र च ज्ञाने इदमर्थे विशेष्ये दण्डात्मकविशेषणप्रतियोगिकः संसर्गः संसर्गतया मासते उपलक्षणे तु न तत्प्रतियोगिकतया संसर्गस्य भानमिति भेदः। विशिष्टवैशिष्ट्यशाब्दबोधे त्वयं भेदः व्युत्पत्तिवैचित्र्येण उद्देश्यतावच्छेकविधेयतावच्छेकयीः पारतन्त्र्येण परस्परं प्रयोज्यप्रयोजकभावेनान्वयः। यथा धनवान् सुखीत्यत्र वनप्रयोज्यत्वस्य सुखे, सुरापः पततीत्यत्र सुरापानस्य पतने प्रयोज्यत्वस्यान्वयः।

विशिष्टाद्वैत = न० रामानुजाद्युक्ते प्रकृतिविशिष्टस्य ब्रह्मणोऽद्वयत्वे। रामानुजशब्दे दृश्यम्।

विशिष्टाभाव = पु० ६ त०। विशेषणविशिष्टस्यामावे स च कचित् विशेषणाभावप्रयुक्तः क्वचिच्च विशिष्याभावप्रयुक्तः कचिदुभयाभावप्रयुक्तः।

विशीर्ण = त्रि० वि + शॄ–क्त। १ शुष्के, २ जरावस्थापन्ने।

विशीर्णपर्ण = पु० विशीर्णं पर्णमस्य। निम्बवृक्ष राजनि०।

विशुद्ध = त्रि० वि + शुध–क्त। १ दोषरहिते, २ विशदे च। तन्त्रोक्ते कण्ठस्थे ३ चक्रभेदे चक्रशब्दे २८०८ पृ० दृश्यम

विशुद्धाद्वैत = न० ६ त०। वल्लभाचार्य्यमतप्रसिद्धे दोषरहितस्य व्रह्मणोऽद्वयत्वे।

विशुद्धि = स्त्री० वि + शुध–क्तिन्। १ शोधने २ दोषराहित्ये च।

विशृङ्खल = त्रि० विगता शृङ्खला पद्धतिर्यस्याः। परिपाटीशून्ये

विशेष = पु० वि + शिष–घञ्। १ प्रभेदे, २ प्रकारे, जटा०। ३ व्यक्तौ हेमच०। ४ तिलके, हारा०। “अन्त्योनित्यद्रव्यवृत्तिर्कि शेषः परिकीर्त्तित” इति भाषा० उक्ते ५ पदार्थभेदे “अन्ते अवसाने तिष्ठतीति अन्त्यः यदपेक्षया विशेषो नास्तीत्यर्थः। घटपटादीनां द्व्यणुकपर्य्यन्तानां तत्तदवयवभेदात् परस्परं भेदः। परमाणूनां भेदको विशेष एव स तु स्वत एव व्यावृत्तः तेन तत्र विशेषात्नरापेक्षा नास्तीति” सि० मुक्ता०। अयञ्च नित्यद्रव्ये समवायेन तिष्ठति “तेषु जातेश्च सम्बन्धः समवायः प्रकीर्त्तितः” भाषायां चकारेण नित्यद्रव्येषु विशेषसम्बन्धस्य समवायतायाः ग्रहणात्। “द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां साधर्म्यवैधर्म्याभ्यां तत्त्वज्ञानानिःश्रेयसम्” कणा० सू० उद्दिश्य लक्षितं यथा “अन्यत्रान्त्येभ्यो विशेषेभ्यः” सू०। “अन्त्या विशेषा नित्यद्रव्यवृत्तयो येऽभिहितास्तान् वर्जयित्वा सामान्यविशेषाभिधानमित्यर्थः। अन्ते अवमाने भवन्तीत्यन्त्याः यतो न व्यावर्त्तकान्तरमस्ती त्याचार्य्याः उत्पादविनाशयोरन्तेऽवसाने भवन्तीत्यन्त्यानि नित्यद्रव्याणि तेषु भवन्तीत्यन्त्या विशेषाः इति वृत्तिकृतः ते हि विशेषा एव व्यावृत्तबुद्धिहेतवः न तु सामान्यरूपा अपि” उप० वृ०। नित्यैकमात्रवृत्तय इति फलितार्थः। “अन्योन्याभावविरोधिसामान्यरहितः समवेतो विशेषः” सर्व० औ० माधवः। ६ व्याप्यधर्मे। यथा नीलघटः इत्यादौ घटत्वव्याप्यधर्मः नीलत्वादिविशिष्टष्टत्वादिः। ७ अर्थालङ्कारभेदे च अलङ्कारशब्दे ४०५ पृ० दृश्यम्।

विशेषक = पुंन० विशेषयति वि + शिष–णिच्–ण्वुल्। १ ललाटकृते तिलके अमरः। २ विशेषकर्त्तरि त्रि० मेदि० “त्रिभिर्ज्ञेयं विशेषकम्” इत्युक्ते एकवाक्यतापन्ने ३ श्लोकत्रये न०। ४ तिलवृक्षे राजनि०।

विशेषगुण = पु० कर्म०। “बुद्ध्यादिषटकं रूपादिचतुष्कं स्नेहभावने। स्वाभाविकद्रवत्वञ्च अदृष्टे शब्द एव च” भाषा० उक्तेषु गुणभेदेषु।

विशेषण = न० विशिष्यतेऽनेन वि + शिष–ल्युट्। भेदकधर्मे गुणक्रियादौ यथा नीलम् उत्पलं चलो गौरित्यादौ गुणक्रियादिर्भेदकधर्मः। विशेषणञ्च त्रिविधं व्यावर्त्तकं विधेयं हेतुगर्भञ्च। तत्राद्यं नीलो घट इत्यादौ नीलः, द्वितीयं पर्वतो वह्निमान्” अत्र वह्निर्विधेयविशेषणम्। “न्यक्कारो ह्ययमेव मे यदरयः” इत्यादौ लक्कारोविधेयः। तृतीयं यथा सुरापः पततीत्यादौ सुरापानं हेतुगर्भविशेषणम्। तस्य भावः तल्। विशेषणताप्रकारताख्यविषताभेदे स्वरूपसम्बन्धविशेषे च स्त्री। स च तत्पदजन्यबोधविषयत्वेन शक्तिविषयत्वरूपः। अभावप्रत्यक्षे सन्निकर्षभेदे च। यथा घटाभाववद् भूतलमित्यादि चाक्षुषप्रत्यक्षे भूतलांशे घटाभावस्य विशेषणता सन्निकर्षः। “विशेषणतया तद्वदभावानां ग्रहो भवेत्” भाषा०। सा च नानाविधा यथोक्तं “यद्यपि विशेषणता नानाविधा तथाहि भूतलादौ घटाभावः संयुक्तविशेषणतया गृह्यते, संख्यादौ रूपत्वाद्यभावः संयुक्तसमवेतविशेषणतया, संख्यात्वादौ रूपाद्यभावः संयुक्तसमवेतविशेषणतया, शब्दाभावः केवलश्रोत्रावच्छिन्नविशेषणतया। कत्वादौ खत्वाद्यभावः श्रोत्रावच्छिन्नसमवेतविशेषणतया। एवं कत्वावच्छिन्नाभावे खत्वाभावादिकं विशेषणविशेषणतया। एवं घटाभावादौ पटाद्यभावः संयुक्तविशेषणविशेषणतया। एवमन्यदप्यूहं तथापि विशेषणतात्वरूपेणैकेव सा गण्यते। अन्यथा षोढा सन्निकर्ष इति प्राचां प्रवादो व्याहन्यतेति” सि० मुक्ता०। “प्रत्यक्षं समवायस्य विशेषणतया भवेत्” भाषा० उक्तेः समवायप्रत्यक्षसन्निकर्षभेदे च।

विशेषणासिद्ध = पु० विशेषणेनासिद्धः। हेत्वाभासभेदे यो हेतुः विशेषणविशिष्टः सन् पक्षे न तिष्ठति तादृशे हेतौ यथाशब्दो नित्थः द्रव्यत्वे सत्यस्पार्शत्वात् इत्यादौ द्रव्यत्वरूपविशेषणस्य शब्दे वाधात् तथात्वम्।

विशेषविधि = पु० विशेषे विधिः। सामान्यविशेषयोर्मध्ये विशेषगोचरे विधाने यथा ब्राह्मणेभ्यो दधि दीयतां कौण्डिन्थाय तक्रमित्यत्र कौण्डिन्यस्य ब्राह्मणविशेषत्वेन तद्विषये दधिदानापवादेन तक्रदानविधिः। “अल्पः खाद् विषयो यस्य स विशेषविधिर्सतः” व्या० का०।

विशेषित = त्रि० वि + शिष–णिच–क्त। १ भेदिते २ विशेषणयुक्ती कृतं च।

विशेषोक्ति = स्त्री अर्थालङ्कारभेदे अलङ्कारशब्दे ४०५ पृ० दृश्यम्।

विशेष्य = त्रि० विशिष्यते भेद्यते गुणादिभिरसौ वि + शिषकर्मणि ण्यत्। गुणादिभिर्भद्ये १ व्यवच्छेद्ये पदार्थे २ धर्मिणि च। तस्य भावः तल्। विशेष्यता विषताविशेषे स च तज्ज्ञानीययत्किञ्चित्प्रकारतानिरूपितः संसर्गविषताभिन्नः विषयताविशेषः इति प्राञ्चः। तत्र समानाधिकरणा प्रकारता विशेष्यता च एकैवेति जगदीशः। तयोर्भिन्नत्वम् अवच्छेद्यावच्छेदकभावश्चेति गदाधरः। यथा घटाभाववद् भूतलमित्यादौ घटनिष्टप्रकारतानिरूपिता या अभावनिष्ठा विशेष्यता सैव तदवच्छेद्या वा या अभावनिष्ठा प्रकारता तन्निरूपिता भूतलनिष्ठविशेष्यतेति प्राञ्चः। स्वरूपसम्बन्धविशेष इत्यन्ये।

विशेष्यासिद्ध = पु० स्वरूपासिद्धे हेत्वाभासभेदे। यो हेतुः स्वघटकविशेष्यस्वरूपः पक्षे न तिष्ठति तादृशे हेतौ यथाशब्दो नित्योऽस्पार्शत्वे सति द्रव्यत्वादित्यादौ अत्र अस्पार्शत्वविशिष्टं द्रव्यत्वं हेतुः तत्र विशिष्यं दूव्यत्वं शब्देऽसिद्धमिति स्वरूपासिद्धो हेतुः।

विशोक = पु० विगतः शोकः यस्मात् यस्य वा। १ अशोकवृक्षे राजनि०। २ शोकरहिते त्रि०। योगशास्त्रोक्ते ३ चित्तवृत्तिभेदे स्त्री। “विशोका वा ज्योतिष्मती” पात० सू०। “विशोका विविधविषवतीति” विवरणम्।

विशोधनी = स्त्री विशुध्यतेऽनया शुध–ल्युट् ङीप्। १ दन्तीवृक्षे राजनि०। भावे ल्युट्। २ शोधने न०। वि + शुध–ल्यु। २ शोधनकारके त्रि०। “प्रायश्चित्तं विशोधनम्” स्मृतिः।

विशोधिन् = त्रि० वि + शुध–णिच्–णिनि। १ शोधनकारके २ नागदन्त्यां राजनि० स्त्री ङीप्।

विश्न = पु० विश–दीप्तौ भावे नङ्। दीप्तौ सि० कौ०।

विश्र(श्रा)णन = न० वि + श्रण–णिच्–ल्युट् वा वृद्धिः। दाने अमरः

विश्रब्ध = त्रि० वि + श्रन्भ–क्त। विश्वस्ते “विश्रब्धं परिचुम्ब्यजातपुलका” सा० द०। २ शान्ते ३ अनुद्धते त्रि० हेमच० ४ गाढे त्रि० मेदि०।

विश्र(श्रा)म = पु० वि + श्रम–घञ् वा वृद्धिः। १ विरामे प्रवृत्तव्यापारस्यावसाने च भरतः।

विश्रम्भ = पु० वि + श्रन्म–घञ्। १ विश्वासे अमरः। २ प्रणये ३ केलिकलहे मेदि० ३ बधे च विश्वः।

विश्राव = पु० वि + श्रु–घञ्। १ प्रसिद्धौ अमरः २ ख्यातौ च।

विश्रुत = पु० वि + श्रु–क्त। १ विख्याते अमरः। २ विशेषेण श्रुते च

विश्लिष्ट = त्रि० वि + श्लिष–क्त। १ वियुक्ते २ शिथिले च।

विश्लेष = पु० वि + श्लिष–घञ्। १ वियोगे २ शैथिल्ये च मेदि०।

विश्व = न० विश–व। १ जगति संसारे। २ तदभिमानिनि जीये पु०। व्यस्तस्थूलदेहे प्रवेशात्तस्य तथात्वम् वेदान्तसारे उक्तम्। ३ श्राद्धदेवविशेषे पु० ब० व०। ४ सकले त्रि० ३ तदर्थेऽस्य सर्वनामता। श्राद्धदेवाश्च दशविधाः गणदेवताभेदाः यथोक्तम् “वसुसत्यौ क्रतुदक्षौ कालकामौ धुरिः कुरुः। पुरूरवा मार्द्रावाश्च विश्वे देवाः प्रकीर्त्तिताः” द्रैवशब्दे ३७५७ पृ० दृश्यम्। ५ नागरे विश्वः ६ दक्षकन्याभेदे विश्वदेवमातरि स्त्री मत्स्यपु० ५ अ०। ७ अतिविषायां स्त्री अमरः। ८ शतावर्य्यां स्त्री राजनि० ९ विंशपलपरिमाणे स्त्री। “गुञ्जाः षण्णवतिः स्तोमो दशघ्न तत्पलं भवेत्। विश्वा विंशत्पलं प्रोक्तं” ज्योतिष्मती। अयं परिमाणभेदः कंसवणिक्प्रसिद्धः। १० विष्णौ न० विष्णुस०। १ १ देहे न० चक्रशब्दे २८०८ पृ० दृश्यम्।

विश्वकद्रु = पु० विश्वकं द्रवति द्रु–डु। १ मृगयाकुशलकुक्कुरे अमरः। २ शब्दे पु० ३ खले त्रि० मेदि०।

विश्वकर्म्मन् = पु० विश्वेषु कर्म व्यापारो यस्य। १ सूर्य्ये २ देवशिल्पिनि अमरः। ३ मुनिभेदे मेदि० ४ परमेश्वरे च।

विश्वकृत् = पु० विश्वं करोति कृ–क्विप्। १ विश्वकर्मणि २ परमेश्वरे च

विश्वकेतु = पु० विश्वे केतबोऽस्य। अनिरुद्धे अमरः।

विश्व(ष्व)क्सेन = विशु(षु)ची सेना यस्य। १ विष्णौ अमरः २ प्रियङ्गुवृक्षे स्त्री ३ विष्णोर्निर्माल्यधारके तदीयगणभेदे “निर्माल्यधारी विष्णोस्तु विश्च(ष्व)क्सेनश्चतुर्भुजः” कालिकापु० ८२ अ०। ४ त्रयोदशमनौ मत्स्यपु० ९ अ०। षमध्य एवेष्वर्थेषु पा० सम्मतः भरतस्तु शमध्यतामाह तन्मूलं चिन्त्र्यम्।

विश्वगन्ध = न० विश्वतो गन्धोऽस्य। १ वोले गन्धरसे २ पलाण्डौ च राजनि०।

विश्वगन्धा = स्त्री विश्वे सकला गन्धा यस्याम्। पृथिव्याम् शब्दच०।

विश्वग्रन्थि = स्त्री विश्वतो ग्रन्थिर्यस्याः। हंसपदीलतायाम् राजनि०।

विश्व(ष्व)च् = अव्य० विषु विश्वं वा अञ्चति क्विप् पृषो० विश्वस्य विशुः ततः सप्तम्याद्यर्थे असि तस्य लुक्। १ सर्वत इत्यर्थे। असेरभावे। २ सर्वत्रगामिनि त्रि० स्त्रियां विषूचो भत्वे विषू(शू)च इत्यादि। अद्र्यागमे विष्वद्र्यच् उक्तार्थे। भत्वे विष्वद्रीच इत्यादि। शमध्यतां भरत आह तन्मूलं मृग्यम्।

विश्वचक्र = न० द्वादशे महादानभेदे मत्स्यपु० तद्विधिर्यथ “अथातः संप्रवक्ष्यासि महादानमनुत्तमम्। विश्वचक्र- मितिख्यातं सर्वपातकनाशनम्। तपनीयस्य शुद्धस्य विश्वचक्रन्तु कारयेत्। श्रेष्ठं पलसहस्रेण तदर्द्धेन तु मध्यमम्। तस्यार्द्धेन कनिष्ठं स्याद्विश्वचक्रमुदाहृतम्। अ न्यद्विंशत्पलादूर्द्ध्वमशक्तोऽपि निवेदयेत्। षोडाशारं ततश्चक्रं भूमिनेम्यष्टकावृतम्। नाभिपद्मे स्थितं विष्णु भोगारूढं चतुर्भुजम्। शङ्खवक्रस्य पार्श्व तु देव्यष्टकसमावृतम्। द्वितोयावरणे तद्वत् पूर्वतो जलशायिनम्। अत्रिर्भृगुर्वशिष्ठश्च ब्रह्मा काश्यप एव च। मत्स्यः कूर्मो वराहश्च नरसिंहाऽथ वामनः। रामो रामश्च रामश्च बुद्धः कल्की च ते दश। तृतीयावरणे गौरी मातृभिर्बहुभिर्युता। चतुर्थे द्वादशादित्या वेदाश्चत्वार एव च। पञ्चमे पञ्च भूतानि रुद्राश्चैकादशैव तु। लोकपालाष्टकं षष्ठे दिङ्मातङ्गास्तथैव च। सप्तमेऽस्त्राणि सर्वाणि मङ्गल्यानि च कारयेत्। अन्तरान्तरतो देवान् विन्यसेदष्टमे पुनः। तुलापुरुषवत् शेषं समन्तात् परिकल्पयेत्। ऋत्विङ्मण्डपसंभारभूषणाच्छादनादिकम्। विश्वचक्रं ततः कुर्य्यात् कृष्णाजिनतिलोपरि। तथाष्टादश धान्यानि रसाश्च लवणादयः। पूर्णकुम्भाष्टकञ्चैव वस्त्राणि विविधानि च। माल्येक्षु फलरत्नानि वितान चापि कल्पयेत्। ततो मङ्गलशब्देन म्नातः शुक्लाम्बरी गृही। होमाधिवासनान्ते तु गृहीतकुसुमाञ्जलिः। इममुच्चारयेन्मन्त्रं त्रिः कृत्वा तु प्रदक्षिणम्। नमो विश्वमयायेति विश्वचक्रात्मने नमः। वरम नन्दरूपी त्वं पाहि नः पापकर्दमात्। तेजोमयमिदं यस्मात् सदा पश्यन्ति योगिनः। हृदि तत्त्रिगुणातीतं विश्वचक्र नमाम्यहम्। वासुदेवस्थितञ्चक्रं चक्रमध्ये च माथवम्। अन्योन्याधाररूपेण प्रणमामि स्थिताविह। विश्वचक्रमिदं यस्मात् सर्वपापहरं परम्। आयुधञ्चाधिवासञ्च भवादुद्धर मामितः”।

विश्वजित् = पु० विश्वं जयति जि–क्विप्। १ विष्णौ २ सर्मस्व दक्षिणे यज्ञभेदे “विश्वजिता यजेत” श्रुतिः। ३ तदधिकारेण अश्रुतफलत्वे स्वर्गफलकल्पकन्यायभेदे मीमां०।

विश्वदेवा = स्त्री विश्वतो दीव्यति दिव–अच्। १ ह्रस्वगवेधुकायाम् (गोरक्षषाकुलिया) जटा०। २ नागवलायां ३ रक्तपुष्पदलोत्पले च रत्नमाला। कर्म०। ४ विश्वाख्यदेवगणे पु०

विश्वधारिणी = स्त्री विश्वं धारयति धृणिनि। पूथिव्याम

विश्वपर्ण्णी = स्त्री विश्वतः पर्णान्यस्याः। मूम्यामलक्यां राजुनि-

विश्वप्सन् = पु० विश्व प्साति भक्षति प्सा–कनिन्। १ सर्वभक्षके वह्नौ २ चन्द्रे हेमच०। ३ देवे ४ विश्वकर्मणि ५ भूमौ संक्षिप्तमा० ६ सूर्य्ये शब्दर०।

विश्वभेषज = न० विश्वेषां भेषजम्। रण्ठ्याम् अमरः।

विश्वमदा = स्त्री विश्वस्य मदो यस्याः। अग्निजिह्वाभेदे शब्दमा०

विश्वम्भर = पु० विश्वं विभर्त्ति भृ–अच् मुम् च। १ इन्द्रे अमरः २ विष्णौ च। ३ पृथिव्यां स्त्री।

विश्वरूपक = न० विश्वं रूपमम्य कप्। कृष्णागुरुणि राजनि०

विश्वरेतस् = पु० विश्वं रेतोरेतोजन्यं यस्य। चतुर्मुखे ब्रह्मणि हेमत्व०।

विश्वरोचन = पु० विश्वान् रोचयति रुच–णिच्–ल्यु। नाडीचशाके त्रिका०।

विश्ववेदस् = पु० विश्वं वेत्ति विद–असुन्। १ इन्द्रादौ देवे २ सर्वज्ञे च।

विश्वसार = न० विश्वेषां सारम्। १ तन्त्रभेदे। संज्ञायां कन्। (फणिमनस) २ वृक्षे पु० शब्दच०।

विश्वसृज् = पु० विश्वं सृजति सृज–क्विन्। चतुर्मुखे ब्रह्मणि अमरः। हलादौ कुः विश्वसृक् विश्वसृग्भ्वामित्यादि

विश्वस्त = त्रि० वि + श्वस–क्त। १ जातविश्वामे। २ विधवायां स्त्रियां स्त्री अमरः। वा इट्। विश्वशित त्रि० जातविश्वासे

विश्वस्था = स्त्री विश्वतः तिष्ठति स्था–क। शतावर्य्याम् राजनि०

विश्वाची = स्त्री विश्वमञ्चति अन्च–क्विप्। १ अप्सरोभेदे वह्निपु०। २ वाहुरोगभेदे भावप्र० तल्लक्षणादि० तत्रोक्तं यथा “अथ विश्वाचीलक्षणमाह “तलं प्रत्यङ्गलीनां या कण्डरा बाहुपृष्टतः। व ह्वेः कर्मक्षयकरी विवाचो सा निगद्यते”। कण्डरा महास्नायुः तलं हस्त स्योपरिभागः तलशब्दोऽत्र उपरिवाचकः यथा भूमितलमिति। तेनायमर्थः बाहुपृष्ठतः बाह्वोः पृष्ठं बाहुपृष्ठमारभ्य तलं प्रतिहस्ततलं यावल्लक्षीकृत्य अङ्गुलीनां काण्डरास्ताः सन्दूष्य बाह्वोः प्रसारणाकुञ्चनादिकर्मक्षयकरी भवति सा इह वातष्याघिषु विश्वाचीत्युच्यते व ह्वोरिति द्वित्वं सम्भवपरम्। एकस्मिन्नपि वाहौ विश्वाची भवति” भावप्र०।

विश्वात्मन् = पु० विश्वमात्म यस्य। विष्णौ विष्णुस०।

विश्वधामन् = पु० विश्व दवाति वालयति धा–असुन् णिच्च पूर्वर्दार्घः। देवे सि० कौ०।

विश्वानर = पु० अग्निजनके विभमेदे वैश्वानरशब्दे दृश्यम्।

विश्वामित्र = पु० विश्वं मित्रमस्य पूर्वपददीर्घः। गाधिसुते नृपे ब्रह्मर्षिभेदे हरिवं० २८ अ०।

विश्वामित्रप्रिय = पु० ६ त०। १ नारिकेले शब्दर० २ श्रीरामे च

विश्वा(श्व)राज् = पु० विश्वेषु राजते राज–क्विप्। १ विश्वेषां राजनि। २ परमेश्वरे च अस्य हलादावेवाःत्त्वमन्थत्र विश्वराजावित्यादि।

विश्वावसु = पु० विश्वेषां वसु यस्मात् पृषो० दीर्घः। १ गन्धर्वभेदे २ रात्रौ स्त्री मेदि०।

विश्वास = पु० वि + श्वस–घञ्। इदमित्थमेवेत्याकारे १ चित्तवृत्तिभेदे प्रत्यये अमरः। २ श्रद्धायाञ्च “नखिनाञ्च नदीनाञ्च शृङ्गिणां शस्त्रपाणिनाम्। विश्वासो नैव कर्त्तव्यः” चाणक्यः

विश्वेदेव = पु० ब० व० कर्म० अलुकस०। “क्रतुर्दक्षो वसुः सत्यः कामः कालस्तथा घुरिः। रोचनोमाद्रवाश्चैव तथा चान्यः पुरूरवाः। विश्वे दैवा भवन्त्येते दश श्राद्धेषु पूजिता” इत्युक्ते श्राद्धदेवभेदे। २ वह्नौ पु० संक्षिप्त०।

विश्वेश = पु० ६ त०। शिवे, विश्वेश्वरादयोऽप्यत्र।

विश्वौषध = न० विश्वेषु रोगेषु औषधम्। शुण्ठ्याम्। राजनि०

विष = व्याप्तौ जु० उभ० सक० अनिट्। वेवेष्टि वेविष्टे इरित् अविषत् अविक्षत् त। विष्णुः।

विष = विप्रयोगे क्र्या० पर० अक० अनिट्। विष्णाति अविक्षत्

विष = सेचने भ्वा० पर० सक० अनिट्। वेषति अविष्टत्।

विष् = स्त्री विष–क्विप्। १ विष्ठायाम् अमरः २ कन्यायां च विट्पतिः।

विष = न० विष–क। १ जले अमरः २ पद्मवेशरे, रायमुकुटः। ३ गन्धरसे बोले ४ वत्सनाभे–विषे च ५ गरलमात्रे पुंन० राजनि०। ६ मृणाले पु० अमरः। गरलरूपविषस्य नाम लक्षणादिकं भावप्र० उक्तं यथा “विषं तु गरलः क्ष्वेडस्तस्य भेदानुदाहरे। वत्सनानाभः सहारिद्रः सक्तुकश्च प्रदीपनः। सौराष्ट्रिकः शृङ्गिकश्च कालकूटस्तथैव च। हालाहलो ब्रह्मपुत्रो विषभेदा अमी नव”। तत्र वत्सनाभस्य स्वरूपनिरूपणम्। “सिन्दुवारसदृक्पत्रो वत्सनाभ्याकृतिस्तथा। यत्पार्श्वेन तरोर्वृद्धिर्वत्स नाभः स भाषितः”। अथ हारिद्रस्य स्वरूपनिरूपणम् “हरिद्र तुल्यमूलो यो हारिद्रः स उदाहृतः”। अथ सक्तुकस्य स्वरूपम् “यद्ग्रन्थिः सक्तुकेनेव पूर्णमध्यः स सक्तुकः”। अथ प्रदीपनस्य स्वरूपम् “वर्णतो लोहितो यः स्याद्दीप्तिमान् दहनप्रभः। महादाहकरः पूर्वैः कथिमः स प्रदीपनः”। अथ सौराष्ट्रिकस्य स्वरूपम् “सराष्ट्रविशये यः स्यात् स सौराष्ट्रिक उच्यते”। अथ शृङ्गिकस्य स्वरूपम् “यस्मिन् गोशृङ्गके यद्धे दुग्धम्भवति लोहितम्। स शृङ्गिक इति प्रोक्तो द्रव्यतत्त्वविशारदैः”। अथ कालकूटस्य स्वरूपम् “देवासुररणे देवैर्हतस्य पृथुमालिनः। दैत्यस्य रुधिराज्जातस्तरुरश्वत्थ सन्निभः। निर्यासः कालकूटोऽस्य मुनिभिः परिकी- र्त्तितः। सोऽहिक्षेत्रे शृङ्गवेरे कोङ्कणे मलये भवेत्” अथ हालाहलस्य स्वरूपम् “गोस्तनाभफलो गुच्छस्तालपत्रच्छदस्तथा। तेजसा यस्य दह्यन्ते समीपस्था द्रुमादयः। असौ हालाहलोज्ञेयः किष्किन्धायां हिमालवे। दक्षिणाब्धितटे देशे कोङ्कणेऽपि च जायते”। अथ ब्रह्मपुत्रस्य स्वरूपम् “वर्णतः कपिलो यः स्यात्तथा भवति सारतः। ब्रह्मपुत्रः स विज्ञेयो जायते मलयाचले। ब्राह्मणः पाण्डुरस्तेषु क्षत्रियो लोहितप्रभः। वैश्यः पीतोऽसितः शूद्रो विष उक्तश्चतुर्विधः। रसायने विषं विप्रं क्षत्रियं देहपुष्टये। वैश्यं कुष्ठविनाशाय शूद्रं दद्यात् वधाय हि”। (एते च स्थावरविषाः) तेषां शोधनविधिः तत्रैव स्थानान्तरे “गोमूत्रे त्रिदिनं स्थाप्यं विषं तेन विशुद्ध्यति। रक्तसर्षपतैलाक्तं तथा धार्य्यञ्च वाससि। ये गुणा गरले प्रोक्तास्ते स्युर्हीना विशोधनात्। तस्माद्विषं प्रयोगे तु शोधयित्वा प्रयोजयेत्”। अथ विषस्य गुणाः “विषं प्राणहरं प्रोक्तं व्यवायि च विकाशि च। आग्नेयं वातकफहृत् योगवाहि महावहम्”। व्यवायि सकलकायगुणव्यापनपूर्वकपाकगमनशीलम्। विकाशि ओजःशोषणपूर्वकसन्धिबन्धशिथिलीकरणशीलम्। आग्नेयम् अधिकाग्न्यंशम्। योगवाहि संसर्गिगुणग्राहकम्। मदावहं तमोगुणप्राधान्येन बुद्धिविध्वंसकम्। “तदेव युक्तियुक्तन्तु प्राणदायि रसायनम्। योगवाहि परं वातश्लेष्मजित् सन्निपातहृत्”। अथोपविषाणां निरूपणम् “अर्कक्षीरं स्नुहीक्षीरं लाङ्गली करवीरकः। गुञ्जाहिफेनोधत्तूरः सप्तो पविषजातयः”। एतेषां शोधनं चिन्त्यं गुणास्तत्र तत्र द्रष्टव्याः”। तत्र विषस्य द्वैविध्यमाह “स्थावरं जङ्गमञ्चैव द्विविघं विषमुच्यते। दशाधिष्ठानमाद्यं तु द्वितोय षोडषाश्रयम”। स्थावरविषस्य दशाश्रयानाह “मूलं पत्रं फलं पुष्पं त्वक् क्षीरं सारमेब च। निर्यासो धातवः कन्दः स्थावरस्याश्रया दश”। तद्यथा मूलविषं करवीरादि। पत्रविषं विषपत्रिकादि, फलविषं कर्कोटकादि, पुष्पविषं वेत्रादि, त्वक्सारनिर्य्यासविषाणि करम्भादीनि क्षीरविषं स्नुह्यादि धातुविषं हरितालादि कन्दविषं वत्सनाभसक्तुकादि। जङ्गमविषस्य षोडशाश्रयानाह “दृष्टिनिःश्वासदंष्ट्रा च नखमूत्रमलानि च। शुक्रं लालानखस्पर्शः सदंशं स्वावमर्दितम्। गुदास्थिपित्तशुक्राणि दश षट् जङ्गमाश्रयाः”। तद्यथा दृष्टिनिःश्वासविषाः दिव्याः सर्पाः, दंष्ट्राविषाः मौमसर्पाः दंष्ट्रानखविषा व्याघ्रादयः, मूत्रपुरीषविषाः गृहगोधिकादयः शुक्रविषा मूषिकादयः, लालाविषाः उच्चिटिकादयः, लालास्पर्शमूत्रपुरीषार्त्तवशुक्रमुखसन्दंशदंष्ट्रास्पर्शावमर्दितगुदपुरीषविषाश्चित्रशीर्षादयः, अस्थिविषाः सर्पादयः, पित्तविषाः शकुलमत्स्यादयः, शूकविषाः भ्रमरादयः। स्थावरविषाणां सामान्यानां कार्य्याण्याह। तत्र मूलविषस्य कार्य्यमाह “उद्वेष्टनं मूलविषैर्मोहः प्रलपनं तथा”। पत्रविषस्य कार्य्यभाह “जृम्भणं वेपनं श्वासो नृणां पत्रविषैर्भवेत्”। फलविषस्य कार्य्यमाह “शुष्कशोथः फलविषैर्दाहोद्वेषश्च मोजने”। पुष्पविषस्य कार्य्यमाह “भवेत् पुष्पविषैश्छर्दिराध्मानं मूर्च्छनं तथा”। त्वक्सारनिर्य्यासकार्य्याण्याह “त्वक्सारनिर्य्यासविषैरुपभुक्तैर्भवन्ति हि। आस्यदौर्गन्ध्यपारुष्यशिरोरुक्कफसंश्रयाः”। क्षीरविषकार्य्यमाह “फेनागमः क्षीरविषैर्विड्भेदो गुरुजिह्वता”। धातुविषकार्य्यमाह “हृत्पीडनं धातुविषैर्मूर्च्छा दाहश्च तालुनि। प्रायेण कालघातीनि विषाण्येतानि निर्दिशेत्”। एतानि मूलविषाणि नव कालघातीनि कालान्तरे मारकाणि। कन्दविषस्य कार्य्यमाह। “कन्दजान्युग्रवीर्य्याणि यान्युक्तानि त्रयोदश। सर्वाण्येतानि कुशलैर्ज्ञेयानि दशभिर्गुणैः। स्थावरं जङ्गमं वापि कृत्रिमं चापि यद्विमम्। सद्यो निहन्ति तत् सर्वं गुणैश्च दशभिर्युतम्”। तान् दशगुणानाह “रूक्षमुष्णं तथा तीक्ष्णं सूक्ष्ममाशु व्यवायि च। विकाशि विशदञ्चैव लघुपाकि च ते दश” तैर्गुणैर्विषस्य कार्य्यमाह “तद्रौक्ष्यात् कोपयेद्वायुमौष्ण्यात्पित्तं सशोणितम्। तैक्ष्ण्यान्मतिं मोहयति मर्मबन्धान् छिनत्ति हि। शरीरावयवान् सौक्ष्म्यात् प्रविशेद्विकरोति च। आशुत्वादाशु तत् प्रोक्तं व्यवायात् प्रकृतिं हरेत्। विकाशित्वात् क्षपयति दोषान् धातून्मलानपि। अतिरिच्यते वैशद्यात् दुश्चिकित्स्यं च लाघवात्। दुर्जरं चाविपाकित्वात् तस्मात् क्लेशयते चिरम्”। विषलिप्तशस्त्रहतस्य लक्षणमाह “सद्यः पाकं याति यस्य क्षतं तत् स्रवेद्रक्तं पच्यते चाप्यभीक्ष्णम्। कृष्णीभूतं क्लिन्नमत्थर्थपूतिक्षतान्मांसं शीर्य्यते यस्य वापि। तृष्णातापौ दाहमूर्च्छे च यस्य दिग्धं विद्धं तं मनुष्यं व्यवस्येत्। लिङ्गान्येतान्येव कुर्य्यादमित्रैर्दत्तः क्ष्वेडो वा व्रणे यस्य चापि”। पच्यते चाप्यभीक्ष्णं पुनः पुनः पाकमेति तापः वहिःस्थितः, दाहोऽभ्यन्तरे। यः कुर्य्यादित्यत्र क्षतं कर्त्तृपदं बोद्धव्यम्। प्रायेण राजादीनामन्नादौ शत्रवो विषं ददति। तेषां ज्ञानार्थं लक्षणमाह “इङ्गितज्ञो मनुष्याणां वाक्चेष्टामुखवैकृतैः। जानीयाद्विषदातारमेभिर्लिङ्गैश्च बुद्धिमान्। न ददात्युत्तरं पृष्टो विवक्षुर्मोहमेति च। अपार्थं बहु सङ्कीर्णं भाषते चापि मूढवत्। अङ्गुलीः स्फोटयेदुर्वीं विलिखेत् प्रहसेदपि। वेपथुश्चास्य भवति त्रस्तश्चैकैकमीक्षते। विवर्णवक्त्रः श्यामश्च नखैः किञ्चिच्छिनत्ति च। आलभेता सकृद्दीनः करेण च शिरोरुहान्। निर्यियासुरपद्वारैः वीक्षते च पुनः पुनः। वर्त्तते विपरीतं च विषदाता विचेतनः”। इङ्गितमभिप्रायसूचकम् आकारं मुखवैकृतं मुखवैवर्ण्यादि एभिर्लिङ्गैर्वक्ष्यमाणैः न ददात्युत्तरं पृष्टः स्वीयासत्कर्मजनितव्यामोहात् सङ्कीर्णम् अस्फुटं भयजनितपर्वव्यथापनोदायाङ्गुलीः स्फोटयेत् प्रहसेत्। अहेतावपि श्यामः दग्धसमानवर्णः, आलभेत स्पृशेत् विपरीतं यथा स्यादेवं वर्त्तते। जङ्गमविषाणां सामान्यानां कार्य्याण्याह “निद्रां तन्द्रां क्लमन्दाहं सम्पाकं लोमहर्षरम। शोथं चैवातिसारं च कुरुते जङ्गमं विषम्”। गङ्गमेषु तीक्ष्णतरेषु सर्पानाह “वातपितकफात्मानो माभिमण्डलराजिलाः। यथाक्रमं समाख्याता द्व्यन्तरा द्वन्द्वरूविणः। फणिनो भोगिनो ज्ञेया संख्यातास्तेऽत्र विंशतिः। मण्डलैर्विविधैश्चित्राः पृथवो मन्दगामिनः। षट् ते मण्डलिनो ज्ञेया ज्वलनार्कविषाः ऋताः। स्निग्धा विविधवर्णाभिस्तिर्य्यगूर्घ्वञ्च राजिभिः।। विचित्रा इव ये भान्ति राजिलास्ते हि तेऽपि षट्”। एते यथाक्रमं वातपित्तकफात्मानः द्व्यन्तराः द्वे अन्तरे भेदौ येषां ते द्व्यन्तरा, यथा भोगिनो मण्डनिन्यां जाताः इत्यादि। भोगिप्रभृतिकृतदशदेशलक्षणमाह “दंशो भोगिकृतः कृष्णः सर्ववातविकारकृत्। पीतो मण्डलिनः शोयो मृदुः पित्तविकारवान्। राजिलोत्थो भवेद्दंशः स्थिरशोथश्च पिच्छिलः। पाण्डुः स्निग्धोऽविसान्द्रासृक्सर्वश्लेष्मविकारवान्”। देशविशेषे कालविशेते च दष्टस्यासाध्यत्वमाह “अश्वत्थदेवायतनश्मशानवल्मीकसन्ध्यासु चतुष्पथेषु। याम्ये च पित्र्ये परिवर्जनीया ऋक्षे नरा मर्मसु ये च दष्टाः”। याम्ये भरण्यां पित्र्ये मघायाम् “दर्वीकराणां विषमाशु हन्ति सर्वाणि चोष्णे द्विगुणीमान्ति”। उष्णे उष्णसंयोगे। दर्वीकरलक्षणमाह “रथाङ्गलाङ्गलच्छत्त्रस्वस्तिकाङ्कुशधारिणः। ज्ञेया दर्वीकराः सर्पाः फणिनः शीघ्रगामिनः”। अपरेषु येषु विषमाशु मारकं भवति तानाह “अजीर्णपित्तातपपीडितेषु बालेषु वृद्धेषु बुभुक्षितेषु। क्षीणे क्षते मेहिनि कुष्ठजुष्टे रूक्षे बले गर्भवतीषु चापि। शस्त्रक्षते यस्य न रक्तमस्ति राज्यो लताभिश्च न सम्भवन्ति। शीताभिरद्भिश्च न रोमहर्षो विषाभिभूतं परिवर्जयेत्तम्। जिह्मं मुखं यस्य च केशशातो नासावसादश्च सकण्ठभङ्गः। कृष्णश्च रक्तः श्वयथुश्च दंशे हन्वोः स्थिरत्वसु विवर्जनीयम्”। केशशातः आकर्षणात्, नासावसादः नासायाः नतत्वं कण्ठभङ्गः ग्रीवाधारणाशक्तिः हन्वोः स्थिरत्वं हनुद्वयस्तम्भः। अपरञ्च “वान्तिर्घना यस्य निरेति वक्त्राद्रक्तं स्रवेदूर्द्ध्वमधश्च यस्य। दंष्ट्रानिपातांश्चतुरश्च पश्येद् यस्यापि वैद्यैः परिवर्जनीयः”। वान्तिः रुधिरस्य, यस्य च नासामुखलिङ्गगुदादिभ्यो रक्तं स्रवेत् “उन्मत्तमत्यर्थमुपद्रुतं वा हीनस्वरं वाप्यथ वा विवर्णम्। सारिष्टमत्यर्थमवेगिनञ्च जह्यान्नरं तत्र न कर्म कुर्य्यात्”। अत्यर्थमुपद्रुतं वा ज्वरातिसारादिभिरतिशयेनोपद्रुतं हीनस्वरं वक्तुमक्षमं विवर्णं कृष्णवर्णं सारिष्टं नासाभङ्गादियुक्तम्। अवेगिनं वेगो विषवेगः। (लहरि) इति लोके तद्रहितम्। स्थावरं जङ्गमं च विषमेव जीर्णत्वादिभिः कारणैः दूषीविषसंज्ञां लभते तदाह “जीर्णं विषघ्नौषधिदूषितं वा दावाग्निवातातपशोषितं वा। स्वभावतो वा गुणविप्रहीनं विषं हि दूषीविषतामुपैति”। जीर्णम् अतिपुराणं विषघ्नौषधिदूषितं विषघ्नीभिरौषधीभिर्वीर्य्यहीनीकृतं स्वभावतो वा गुणविप्रहीनं स्वभावादेव दशानां गुणानां मध्ये एकद्वित्र्यादिगुणहीनम्। दूषीविषस्य कार्य्यमाह “वीर्य्याल्पभावान्न निपातयेत् तत् कफान्वितं वर्षगणानुबन्धि। तेनार्दितो भिन्नपुरीषवर्णो विगन्धिवैरस्ययुतः पिपासी। मूर्च्छां भ्रमं गद्गदवाग्वमिञ्च विचेष्टमानोऽरतिमाप्नुयाद् वा”। न निपातयेत् न मारयति कफान्वितं कफेन मन्दीकृतौष्णादिगुणं वर्षगणालबन्धि कफेनाग्नेर्मान्द्यादीषत्पाकाच्चिरस्थायि तथा दूषीविषजदद्रुरोगवतां भिन्नपुरीषवर्णश्च भिन्नपुरीषोद्गतमलः भिन्नवर्णो विवर्णः। विचेष्टमानः विरुद्धां चेष्टां कुर्वन् मूर्च्छादीन् व्याधीन् लभते। स्थानविशेषोत्थिते दुषीविषे लिङ्गविशेषमाह। “आमाशयस्थे कफवात- रोगी पक्वाशयस्थेऽनिलषित्तरोगी। भवेत् समुद्ध्वस्तशिरोऽङ्गरुट्को विलूनपक्षश्च यथा विहङ्गः”। समुद्ध्वस्तशिरोऽङ्गरुट्कः समुद्धस्ताः शिरोरुहाः केशाः अङ्गरुहः लोमानि यस्य सः एतदपि लिङ्गं पक्वाशयस्थे दूषीविषे बोद्धव्यम् “स्थितं रसादिष्वथ तद्यथोक्तान् करोति धातुप्रभवान् विकारान्”। तत् दूषीविषं यथोक्तान् सुश्रुते व्याधिसमुद्देशीयोक्तान्। दूषीविषस्य प्रकोपसमयमाह “कोपं तु शीतानिलदुर्दिनेषु यात्याशु पूर्वं शृणु तस्य रूपम्”। कुपितस्य दूषीविषस्य पूर्वरूपमाह “निद्रा गुरुत्वञ्च विजृम्भणञ्च विश्लेषहर्षावथ वाङ्गमर्दः”। विश्लेषः गात्रशौथिल्यं हर्षः रोमाञ्चः। रूपमाह “ततः करोत्यन्नमदाविपाकावरोचकं मण्डलकोठजन्मा। मांसक्षयं ग्राणिपदाक्षिशोथं मूर्च्छां तथा छर्द्रिमथातिसारम्। दूषीविषं श्वासतृषौ ज्वरांश्च कुर्य्यात् प्रवृद्धिं जठरस्य चापि” अन्नमदः अन्ने मुक्ते पूगफलेनेव मदः। अविपाकः अन्नस्य। दूषीविषभेदेन विकारानाह “उन्मादमन्यज्जनयेत्तथान्यदानाहमन्यत् क्षपयेच्च शुक्रम्। गाद्गद्यमन्यज्जनयेच्च कुष्ठं तांस्तान्विकारांश्च बहुप्रकारान्”। अन्यत् दूषीविषं तांस्तान् विकारान् विसर्पविस्फोटादीन्। दूषीविषस्य निरुक्तिमाह “दूषितं देशकालान्नं दिवास्वप्नैरभीक्ष्णशः। यस्मात् संदूषयेद्धातूंस्तस्माद्दूषीविषं स्मृतम्”। देशः अनूपादिः काला दुर्दिनादिः अन्नं कुलत्थतिलमसूरादि धातुदूषकत्वाद्दूषीविषम्। दूषीविषस्य साध्यत्वादिकमाह “साध्यमात्मवतः सद्यो याप्यं संवत्सरोत्थितम्। दूषीविषससाध्यं स्यात् क्षीणस्याहितसेविनः”। कृत्रिमं विषं द्विविधम् एकं सविषं दूषीविषसंज्ञम् अपरमविषं तदेव तरसंज्ञं तथा च काश्यपसंहितायाम् “संयोगजञ्च द्विविघं द्वितीयं विषमुच्यते। दूषीविषं तु सविषमविषङ्गर उच्यते”। संयोगजं कृत्रिमं विषं द्वितीयं स्वाभाविकं तच्च द्विविधम्। तत्र दूषीविषमभिधाय गरं दर्शयितुमाह “सौभाग्यार्थं स्त्रियः स्वेदरजोनानाङ्गजान् मलान्। शत्रुप्रयुक्तांश्च गरान् प्रयच्छन्त्यन्नमिश्रितान्”। गरकार्य्यमाह “तैः स्यात् पाण्डु कृशोऽल्पाग्निर्ज्वरश्चास्योपजायते। मर्मप्रधमनाघ्मानं हस्तयोः शोथसम्भवः। जठरग्रहणीरोगा यक्ष्मागुल्मक्षयो ज्वरः”। तैः गरैः स्वेदरजःप्रभृतिभिः ज्वरश्चास्योपजायत इति अपाकात्। मर्मप्रधमनं मर्मव्यथा क्षयो धातुक्षयः। लूतानां जन्तुविशेषाणामुत्पत्तिं निरुक्तिं सङ्ख्या- ञ्चाह “यस्माल्लूनं तृणं प्राप्ता मुनेः प्रस्वेदविन्दवः। तेभ्यो जातास्तथा लूता इति ख्यातास्तु षोडश”। अत्र सुश्रुतः “विश्वामित्रो नृपवरः कदाचिदृषिसत्तमम्। वशिष्ठं कोपयामास गत्वाऽश्रमपदं किल। कुपितस्य मुनेस्तस्य ललाटात् स्वेदविन्दवः। अपतद्दर्शनादेव ह्यधस्तात्तोव्रवर्चसः। लूने तृणे महर्षेस्तु धेन्वर्थे सम्भृतेऽपि च। ततो जातास्त्विमे घोरा नानारूपा महाविषाः। तासामष्टौ कष्टसाध्या वर्ज्यास्तावत्य एव हि”। तत्र त्रिमण्डलप्रभृतयोऽष्टौ कष्टसाध्याः सौवर्णिकप्रभृतयोऽष्टावसाध्याः। तासां सामान्यानां दंशलक्षणमाह “ताभिर्दष्टे दंशकोथः प्रवृत्तिः क्षतजस्य च। ज्वरो दाहोऽतिसारश्च गदाः स्युश्च त्रिदोषजाः। पिडका विविधाकारा मण्डलानि महान्ति च। शोथा महान्तो मृदवो रक्ताः श्यावाश्चलास्तथा। सामान्यं सर्वलूतानामेतद्दंशस्य लक्षणम्”। दंशकोथः दंशमध्ये पूतिभावः। “दंशमध्ये तु यत्कृष्णं श्यावं वा जालकावृतम्। दग्धाकृति मृशम्पाकं स्वेदर्शोथज्वरान्वितम्। दूषीविषामिर्लूताभिस्तद्दष्टमिति निर्दिशेत्”। सौवर्णिकादयोऽष्टावसाध्या प्रणिहरास्तासां लक्षणमाह “शोषः श्वेता सिता रक्ता पीता च पिडका ज्वरः। प्राणान्तिको भवेद्दाहः श्वासहिक्काशिरोग्रहः”। आखुदूषीविषलक्षणमाह “आदंशाच्छोणितं पाण्डुमण्डलानि रोऽरुचिः। लोमहर्षश्च दाहश्चाप्याखुदूषीविषार्दिते” प्राणहरमूषकविषकार्य्यमाह “मूर्च्छाङ्गशोथवैवर्ण्यं क्लेदशब्दाश्रुतिज्वराः। शिरोगुरुत्वं लालासृक् छर्दिश्चासाध्यमूषकात्। अङ्गशोथोऽत्र मूषकाकारो बोद्धव्य इति। तन्त्रान्तरे कृकलासदष्टस्य लक्षणमाह “शोथस्य कार्श्यमथ वा नानावर्णत्वमेव च। मोहोऽथ वर्चसो भेदो दष्टस्य कृकलासकैः”। वृश्चिकविषस्य लक्षणमाह “दहत्यग्निरिवादौ तु भिनत्तीवोर्द्धमाशु च। वृश्चिकस्य विषं याति पश्चात् दंशेऽवतिष्ठते”। असाध्यस्य वृश्चिकदष्टस्य लक्षणमाह “दष्टोऽसाध्यैस्तु हृद्घ्राण रसनोपहतो नरः। मांसैः पतद्भिरत्यर्थं वेदनार्त्तो जहात्यसून्”। असाध्यैर्वृश्चिकैस्तेषामेवानुवृत्तेः हृदादिषु उपहतः हृदादिकार्य्यरहितो भवति अत्यर्थं वेदनार्त्त इत्यन्वयः। कणभदष्टस्य लक्षणमाह “विसर्पः श्वयथुः शूलं ज्वरश्छर्दिरथापि वा। लक्षणं कणभैर्दष्टे दंशश्चैवावशीर्य्यते”। कणभः कीष्टविशेषः। उच्चिटिङ्गदष्टस्य लक्षणसाह “कृष्णलोमोच्चिटिङ्गेन स्तब्धलिङ्गो- भृशार्त्तिमान्। दष्टः शीतोदकेनेव सिक्तान्यङ्गानि मन्यते”। कृष्णलोमा अधिकतरकृष्णरोमा उच्चिटिङ्ग(चीटा) कीटविशेषः। सविषमण्डूकदष्टस्य लक्षणमाह “एकदंष्ट्रार्दितः शूनः सरुजः पीतकः सतृट्। सनिद्रश्छर्दमान् दष्टोमण्डूकैः सविषैर्भवेत्”। एकदंष्ट्रार्दितः स्वभावादेकयैव दष्ट्रया दष्टो भवति। मत्स्यविषस्य कार्य्यमाह “मत्स्यास्तु सविषा कुर्युर्दाहं शोथं रुजं तथा”। जलौकाविषकार्य्यमाह “वण्डूं शोथं ज्वरं मूर्च्छां सविषास्तु जलौकसः”। कुर्युरिति शेषः। गृहगोधिका विषकार्य्यमाह “विदाहं श्वयथुं तोदं प्रस्वेदं गृहगोधिकाः”। कुर्य्युरिति शेषः। शतपदीविषकार्य्यमाह “दंशे स्वेदं रुजं दाहं कुर्य्याच्छतपदीविष” शतपदी (गिजाई) इति लोके। मशकविषकार्य्यमाह “कण्डूमान्मशकैरीषच्छोथः स्यान्मन्दवेदनः”। असाध्वमशकलक्षणमाह “असाध्यकीटसदृशमसाध्यं मशकक्षतम्”। असाध्यकीटसदृशं असाध्यैः कीटैर्लूतादिभिः कृतं यत् क्षतं तत् सदृशवेदनम्। मक्षिकार्दशलक्षणमाह “सद्यः संस्राविणी श्यावादाहमूर्च्छाज्वरान्विता। पिडका मक्षिका दंशे तासान्तु स्थगिका सुहृत्”। तासामित्यादि तासां सुश्रुतोक्तानां षणां मक्षिकाणां मध्ये स्थिगिकानाम्नी शीघ्रं प्राणं हरतीत्यर्थः। व्याघ्रादिविषाणां कार्य्यमाह “चतुष्पाद्भिर्द्विपाद्भिर्वा नखैर्दन्तैश्च यत् कृतम्। शूयते पच्यते तत्तु स्रवति ज्वरयत्यपि”। चतुष्पाद्भिः व्याघ्रादिभिः द्विपाद्भिः वनमनुष्यादिमिः शूयते शूनो भवति। विषोज्झितस्य लक्षणमाह “प्रसन्नदोषं प्रकृतिस्थधातुमन्नाभिकामं सममूत्रविट्कम्। प्रसन्नवर्णेन्द्रिय चित्तचेष्टं वैद्योऽवगच्छेदविषं मनुष्यम्”। प्रसन्नदोषं प्रकृतिस्थदोषं शेषं सुगमम्”।

विषकण्टकिनी = स्त्री विषयुक्तं कण्टकमस्त्यस्या इनि। बन्ध्याकर्कोट्याम् राजनि०

विषकण्ठ = पु० विषं कण्ठे यस्य। शिवे।

विषघा = स्त्री विषं हन्ति हन–ड नि० कुत्वञ्च। गुडूच्याम् शब्दच०।

विषघातिन् = पु० विषं हन्ति हन–णिनि। शिरीषवृस्ते शब्दमाला। २ विषनाशके त्रि०।

विषघ्न = पु० विषं हन्ति हन–टक्। १ शिरीषवृक्षे शब्दच०। २ यवासे ३ विभीतके राजनि०। ४ चम्पकवृक्षे च जटा०। ५ हिलमोचिकायां (हेलेञ्चा)स्त्री ङीप्। ६ इन्द्रवारुण्याम् ७ वनवर्षरायाम् ८ भूम्यामलक्याम् ९ रक्तपुनर्नवायाम् १० हरिद्रायाम् ११ वृश्चिकाल्याम् १२ महाकरञ्जे च १३ झ ज्झफलायां स्त्री राजनि० ङीप्। १४ विषनाशके त्रि०।

विषजिह्व = पु० विषयुक्ता जिह्वेव पत्रमस्याः। देवताडवृक्षे रत्नमा०।

विषज्वर = पुंस्त्री० विषमिव प्राणहन्ता ज्वरो यस्य। १ महिषे शब्दर०। स्त्रियां ङीष्।

विषण्ड = न० विशेषेण षण्डम्। मृणाले शब्दर०।

विषतिन्दु = पु० विषयुक्तस्तिन्दुः। १ कुपीलौ भावप्र०। २ कारस्करवृक्षे राजनि०।

विषद = न० वि + षद–अच्। १ पुष्पकासीसे राजनि०। २ शुक्ल-

विषदंष्ट्रा = स्त्री विषयुक्ता दंष्ट्रा। १ सर्पदंष्ट्रायाम्। विषस्य दंष्ट्रेव नाशकत्वात्। २ सर्पकङ्कालीलतायां रत्नमा०।

विषदन्तक = पुंस्त्री० विषं दन्ते यस्य कप्। १ सर्पे शब्दच० स्त्रियां ङीष्।

विषदर्शनमृत्युक = पुंस्त्री० विषस्य दर्शनेन मृत्युरस्य कप्। चकोरखगे हेमच० स्त्रियां ङीष्।

विषद्रुम = पु० विषयुक्तो द्रुमः। कारस्वरवृक्षे राजनि०।

विषधर = पुंस्त्री० विषं धरति धृ–अच्। १ सर्पे अमरः स्त्रियां ङीष्। “विषधरविषमं वनं भविता” उद्भटः।

विषधर्म्मन् = पु० विषस्येव धर्मोऽस्य अनिच्समा०। (आलकुशी) लतायाम् शब्दच०।

विषनाशन = पु० विषं नाशयति नश–णिच्–ल्यु। १ शिरीषवृक्षे हारा०। २ विषनाशके त्रि०।

विषनाशिनी = स्त्री विषं नाशयति नाशि–णिनि ङीप्। सर्पकङ्कालीलतायां शब्दच०।

विषनुद् = पु० विषं नुदति नुद–क्विप्। श्योनाकवृक्षे शब्दच०।

विषपुष्प = न० विषमिव नीलं पुष्पमस्य। १ नीलपद्मे शब्दमा० २ छर्दनवृक्षे (मनफल) रत्नमा० कप्। मदनवृक्षे भावप्र०।

विषम = त्रि० विगतो विरुद्धो वा समः। १ असमे २ अयुग्मे (वियोड) ३ उन्नतानते ४ दारुणे ५ सङ्कटे च “भिन्नचिह्नचतुष्पादं विषमं परिकीर्त्तितम्” इत्युक्ते ६ पद्यभेदे न०। “ओजोथ युग्मं विषमः समश्च” ज्यो० त० उक्ते ७ मेषमिथुनाद्यसमराशौ पु०। ८ तालभेदे पु० “चतुर्विधः परिज्ञेयस्तालः कङ्कणनामकः। पूर्णः १ खण्डः २ सम ३ श्चैव विषम ४ श्चैव कथ्यते। नचतुष्कं गलौ पूर्णे १ खण्डे २ विन्दुद्वयं गुरुः। यगणस्तु समे ज्ञेयस्तमयट्गणो विषमे भवेत्” सङ्गीत०। विषमादागतः विषमय, रूप्यप्, विषमरूप्य छ, विषमीय विषमादायते त्रि० सि० कौ०।

विषमच्छद = पु० विषमाणि अयुग्मानि सप्त छदाः यस्य। सप्तच्छदे(छातिम) अमरः।

विषमज्वर = पु० विषम उग्रो ज्वरः। ज्वरभेदे। यथोक्तं भावप्र० “तत्र विषमज्वरस्य निदानकथनपूर्विकां संप्राप्तिमाह “दोषोऽल्पोऽहितसम्भूतो ज्वरो सृष्टस्य वा पुनः। धातुमन्यतमं प्राप्य वरोति विष० ज्वरम्”। अयमर्थः ज्ज्वरोतसृष्टस्य ज्वरण त्यक्तस्य। सन्निकृष्टहेतुमाह। दोषः अल्पः, ज्वरमुक्तस्य स्वलोऽपि। विप्रकृष्टहेतुमाह। अहितमाहारविहारादि तेन सम्भूतः संपूर्णोजातः अन्यतमन्धातुं रसरक्तादिकम् प्राप्य दूषयित्वा पुनर्विषमज्वरं करोति ज्वरोतसृष्टस्य वेति वाशब्देनेति बोध्यते। प्रथमतो विषमज्वरो भवति यत उक्तम्। “आरम्भाद्विषमो यस्तु” इत्यादिकम् रसादिकन्धातुं दूषयित्वाकं वि षमज्वरं करोति इत्यपेक्षयामाह “सन्ततं रसरक्तस्थः सतत रक्तधातुगः। दोषः क्रुद्धो ज्वरं पुंसां सोऽन्येद्युः पिशिताश्रितः। मेदोगतस्तृतीयेऽह्नि अस्थिमज्जागतः पुनः। कुर्य्याच्चातुर्थिकं घोरमन्तकं रोगसङ्करम्”। अन्तकमिव मारकत्वात्। अथ विषमज्वरस्य सामान्यं लक्षणमाह “यः स्यादनियतात् कालात् शीतोष्णाभ्यां तथैव च। वेगतश्चापि विषमोज्वरः स विषमः स्मृतः”। यः स्यादनियतात् कालादित्यस्यायमर्थः। यथा वातिकोज्वरः सप्त दिनानि, पैत्तिको दश दिनानि, श्लैष्मिको द्वादशदिनानि, दोषाणां प्राबल्यैर्वातिकश्चतुर्दशदिनानि, पैकिको विंशतदिनानि, श्लैष्मिकश्चतुर्विंशतिदिनानि स्यात्। तथा विषमज्वरो नियतं कालं व्याप्य न स्यादित्यर्थः। शीतोष्णभ्यां गुणभ्यां स्यात्। “वेगतश्चापि विषमः कदाचिदतिवेगवान्”। कदाचिच्छान्तवेगः। विषमज्वरस्य भेदानाह “सन्ततः सततोऽन्येद्युस्तृतीयक चतुर्थकौ”। तत्र सन्ततस्य लक्षणमाह “सप्ताहं वा दशाहं वा द्वादशाहमथापि वा। सन्तत्या योऽविसर्गी स्यात् सन्ततः स निगद्यते”। विकल्पो वातिकादिभेदात्। सन्तत्था नैरन्तर्य्येण अविसग्र्गी अपरित्यागो। ननु सुक्तानुबन्धित्वं विषमत्वमिति विषमलक्षणम्। तदत्र न घटत इति कथमयं विषमेषु पठ्यते”। घटत एवेति न दोषः। यत उक्तं चरकेण “विसर्गं द्वादशे कृत्वा दिवसे व्यक्तलक्षणम्। दुर्लभोपशमः कालं दीर्घमेवानुपर्त्तते” इति। यत्तु खरनादेनोक्तम “ज्वराः पञ्च तु ये प्रोक्ताः पूर्वे सन्ततकादयः। चत्वारः सन्ततं हित्वा ज्ञेयास्ते विषमज्वराः” इति तच्चिरेण त्यागाभिप्रायेण। सततकक्षणमाह “व्यहोरात्रे सततको द्वौ कालावनुवर्त्तते”। द्वौ कालौ अहन्येककालं रात्रावेककालम्। यतो दोषाक्षागहोरात्ने प्रत्येकं द्वौ द्वौ प्रकोपकालौ। यत उक्तं वाग्मटेन “वयोऽहोरात्रिभुक्तानामन्तमध्यादिकाः क्रमादिति”। अन्येद्युष्कलक्षणमाह। “अन्येद्युष्कस्त्रहोरात्रादेककालं प्रवर्त्तते”। एककालं दोषापेक्षया एककालमपि न द्वितीयं, प्रथमकाले हृद्येव दाषस्थितेः। तृतीयकचतुर्थकयीर्लक्षणमाह। “तृतीयकस्तृतीयेऽह्नि चतुर्थेऽह्नि चतुर्थकः”। तृतीयेऽह्नि इत्यागमनदिनं गृहीत्वा यत उक्तम् “दिनमेकमतिक्रम्य यो भवेत् स तृतीयकः। दिनद्वयन्त्वतिक्रम्य यः स्यात् स हि चतुर्थकः” इति। अत्राह वृद्धसुश्रुतः “कफस्थानविभागेन यथासङ्ख्यं करोति हि। सततान्येद्युष्कत्र्याख्य चतुर्थकप्रलेपकान्। अहोरात्रादहोरात्रात् स्थानात् स्थानं प्रपद्यत। दोष आमाशयं प्राप्य करोति विषमज्वरम्”। अयमर्थः आमाशयोरःकण्ठशिरःसन्धयः पञ्च कफस्थानानि एषु तिष्ठन् दोषो यथासङ्ख्यं संततादीन् करोति। तत्र आमाशये स्थितो दोषः सततं करोति द्वौ कालौ, अहोरात्रे कालद्वये दोषप्रकोपात्। हृदये स्थितो दोष आमाशयमागत्य अन्येद्युष्कं करोति एककालं नैकट्यादेकस्मिन्नेवाहोरात्रे दोष आमाशयमागत्य अन्येद्युष्कं करोति। तत्र द्वौ दोषप्रकोपकालौ एकस्मिन् काले हृदये तिष्ठत्यपरस्मिन्नामाशय इति। कण्ठेस्थितो दोषोऽहोरात्रात् हृदयमायाति। तृतीये दिने आमाशयमागत्य स्वप्रकोपकाले तृतीयकं ज्वरं करोति एककालं न तु द्वौ कालौ स्वभावात्। एवमेव शिरःस्थितो दोषः अहोरात्रात् कण्ठमायाति ततः पुनरहोरात्रात् हृदयमायाति चतुर्थे दिने आमाशयमागत्य स्वप्रकोपकाले चतुर्थकं ज्वरं करोति एककालन्नतु द्वौ कालौ स्वभावादेव। ननु दोषस्यागमन क्रमेण निजस्थानगमनक्रमात् कथं तृतीयचतुर्थदिवसयोर्ज्वरागमनम्। उच्यते। दोषो हि प्रकोपसमये वेगवत्तया लाघवात् स्वस्थानन्तु वेगदिन एव याति। यत आह “दोषः प्रकोपकाले हि वेगवत्त्वेन लाघवात्। वेगवासर एवायं स्वस्थानमधिगच्छति”। सन्धिषु स्थितः प्रलेपकं करोति। सन्धयश्चामाशयेऽपि सन्ति तेषु स्थितः प्रलेपकं सर्वदा करोति “निवृत्तः पुनरायाति विषमो नियते दिने। स्वमावः कारणं तत्र मन्थन्वे मुनिपुङ्गवाः”। स्वभावस्य कारणत्वे कफस्वानविभागनिरपेक्षाश्चतुर्थकादिविपर्य्यया अपि ज्वराः स्वस्वकाले प्रभवन्ति अधिशेते यथा मूमिं वीजं काले प्ररोहति। अधिशेते तथा धातून् दोषः काले प्रकुप्यति”। सुश्रुतोऽप्याह “स चापि विषमं देहं न कदाचित् प्रमुञ्चति। ग्लनिगौरवकार्श्येभ्यः स यस्मान्न प्रमुच्यते। येगे तु समतिक्रान्ते गतोऽयमिति लक्ष्यते। धात्वन्तरेषु लोनत्वात् सौक्ष्म्यान्नैवोपलभ्यते”। द्विदोषोल्वणस्य तृतीयकस्य लक्षणमाह “कफपित्तात् त्रिकग्राही पृष्ठाद्वातकफात्मकः। वातपित्ताच्छिरोग्राही त्रिविधः स्यात् तृतीयकः”। त्रिकग्राही वेदनया त्रिकं गृह्णातीत्यर्थः। ननु कफपित्तात् त्रिकग्राही वेदनया त्रिकव्यापी त्रिकं तु वातस्थानं तत्कथं तद्गृह्णीतः पित्तकफौ अन्यस्थानगत्वेन दुर्बलत्वात् दुर्बलौ च कथं वेगं कुरुतः, दोषाणां स्थाननियमः न तु कुपितानां तथा च सूश्रुतः “कुपितानां हि दोषाणां शरीरे परिधायति। यत्र सङ्गः स वैगुण्यात् व्याधिस्तत्रोपजायते”। एवमन्यस्थानगत्वेन चतुर्थको वाच्यः। वातकफात्मकः पृष्ठात् व्यथया पृष्ठं व्याप्य भवतीत्यर्थः। “ल्यव्लोपे कर्मण्यधिकरणे च” पा० सूत्रेण पञ्चमी। कफोल्वणस्य वातोल्वणस्य चतुर्थकस्यलक्षणमाह “चतुर्थका दर्शयति स्वभावं द्विविधं ज्वरः। जङ्घाभ्यां श्लैष्मिकः पूर्वं शिरसोऽनिलसम्भवः। मध्यकायन्तु गृह्णाति पूर्वं यस्तु स पित्तजः। विषमज्वर एवान्यश्चतुर्थकविपर्य्ययः”। श्लैष्मिकः श्लेष्मोल्वणः। तथा अनिलसम्भवो वातोल्वणः सन्ततादीनां त्रिदोषजत्वम्। यत उक्तं चरके “प्रायशः सन्निपातेन पञ्च स्युर्विषमज्वराः” इति। प्रायशोग्रहणादे कदोषजा द्विदोषजा अपि भवन्तीति जैज्जटः। पूर्वं प्रथमं जङ्घाभ्याम् व्यथया जङ्घे व्याप्य पश्चात् सकलं शरीरं व्याप्नोति। एवमुल्वखवातजातः शिरणः पूर्वं व्यथया शिरोव्याप्य सकलं शरीरं व्याप्नोनीत्यर्थः। “विषमज्वर एवान्थश्चातुर्थकविपर्य्ययः। अस्थिमज्जगतो दोषश्चातर्थकविपर्य्ययः। जायते भिषजा ज्ञेयो विषमज्वर एव सः”। अन्थः सन्ततादिपञ्चकादपरः चातुर्थकविपर्थ्ययाख्यो ज्वरः सोऽपि विषमज्वर एव वैद्येन ज्ञातव्यः। स किं धातुस्थ इत्यपेक्षयामाह अस्थीत्यादि। तस्य चातुर्थकविपर्य्ययस्य लक्षणमाह “स मध्ये ज्वरयत्यह्नी आद्यन्ते च विमुचति”। चतुर्थकविपर्य्ययः इत्युपलक्षणम् सन्ततादिविपर्य्ययोऽपि बोद्धव्यः। यथा अहोरात्रे द्वौ कालौ सुतति शेषं सर्वमहोरात्रं तिष्ठतीति सततविपर्य्ययः। अहोरात्रे एकखालं मुञ्चति शेषं सर्वमहोरात्रं तिष्ठति अन्येद्युष्कविपर्य्ययः मध्ये एकं दिनं ज्वरयति आ दाव न्ते च मुञ्चतीति तृतीयकविपर्य्ययः। एते विषमज्वरोपलक्षकाः अन्ये रात्रिज्वरादयोऽपि विषमज्वरा बोद्धव्याः यथा “समौ वातकफो यस्य क्षोणपित्तस्य देहिनः। रात्रौ प्रायो ज्वरस्तस्य दिवा हीनकफस्य तु”। प्रायः बाहुल्येन। सन्ततादीनां शीतपूर्वत्वे दाहपूर्वत्वे च हेतुमाह “त्वक्स्थौ श्लेष्मानिलौ शीतमादौ जनयतो ज्वरम्। तयोः प्रशान्तयोः पित्तमन्तर्दाहं करोति चं। शीतं शीतसहितम्। प्रशान्तयोः प्रशान्तवेगयोः अन्तः अभ्यन्तरे। “करोत्यादौ तथा पित्तं त्वक्स्थं दाहमतीव च। तस्मिन् प्रशान्ते त्वितरौ कुरुतः शीतमन्ततः”। अन्ततः हस्तपादादितः। शीतादिदाहादिज्वरयोः त्रिदोषजत्वमाह “द्वावेतौ दाहशीतादिज्वरौ संसर्गजो स्मृतौ। दाहपूर्वस्तयोः कष्टः सुखसाध्यतमोऽपरः”। संसर्गजौ मान्निपातिकौ। कष्टः कष्टसाध्यः। विषमज्वरविशेषमाह “विदग्धेऽन्नरसे देहे श्लेष्मपित्ते व्यवस्थिते। तेनार्द्धं शीतलं देहमूर्द्धमुष्णं प्रजायते”। अन्नरसे विदग्धे आहारजे रसे दुष्टे, देहे श्लेष्मपित्ते व्यवस्थिते दुष्टे स्थिते। तेन हेतुना शीतलं कफेन उष्णं पित्तेन, अर्द्धत्वं चार्द्धनारीश्वराकारेण नरसिंहा कारेण वा। “काये दुष्टं यदा पित्तं श्लेष्मा चान्ते व्यवस्थितः। तेनोष्णत्वं शरीरस्व शीतत्थं हस्तपादयोः”। अन्ते हतपादादौ “काये श्लेष्मा यदा दुष्टः पित्त चान्ते व्यवस्थितम्। शीतत्वं तेन गात्रे स्यादुष्णत्वं हस्तपादयोः”। विषमज्वरविशेषस्य प्रलेपकस्य लक्षणमाह “प्रलिपन्निव गात्राणि घर्मेण गौरवेण च। मन्दज्वरविलेपी च स शींतः स्यात् प्रलेपकः”। गोरवेण उपलक्षितः। मन्दज्वरविलेपी मन्दवेगस्य विलेपः सदा सम्बन्धोऽस्यास्तीति मन्दज्वरपिलेपी। अथं विषमज्वरः। तथा च सुश्रुतः “प्रलेपसाख्यो विषमः प्रायशः क्लेशशोषिणाम्। ज्वराश्च विषमाः सर्वे प्रायः क्लेशाय शोषिणाम्”।

विषमनयन = पु० विषमाणि अयुन्मानि त्रीणि नयनान्थस्य। त्रिनेत्रे शिवे। विषमनेत्रादयोऽप्यत्र।

विषमर्दनी = स्त्री विषं मृद्यतेऽनया मृद–ल्युट् ङीष्। गन्धनाकुल्याम्। स्वार्थे क। विषमदेनिका तत्रैव राजनि०।

विषमस्थ = त्रि० विषमे उन्नतानते सङ्कटे वा तिष्ठति स्थाक। १ उपद्रवप्राप्ते २ सङ्कटस्थे ३ उन्नतानतदेशस्थे म।

विषमशिष्ट = न० विषमं शिष्टं शासनम्। अनुचितशासने।

विषमायुध = पु० विषमाणि अयुग्मानि पञ्च आयुधानि वाणा यस्य। पञ्चशरे कामे हला० विषमेष्वादतोऽप्यत्र।

विषमुष्टि = पु० विषं मुष्णाति मुष–क्तिच्। क्षुपभेदे (विषदोडि) राजनि०

विषमृत्यु = पु० विषात् विषदर्शनात् मृत्युरस्य। चकोरखगे जटा०

विषय = पु० विषिण्वन्ति स्वात्मकतया विषयिणं निरूपयन्ति संबध्नन्ति वा वि + षि–अच्। इन्द्रियगोचरे १ शब्दादौ २ देशे च अमरः। ३ भोगसाधने “विषयो द्व्यणुकादिस्तु ब्रह्माण्डान्त उदाहृतः”। “सिन्धुहिमादिर्विषयो मतः”। “प्राणादिस्तु महावायुपर्य्यन्तो विषयो मतः” भाषा०। “अत्र विषयः भोमसाधनं सर्वमेव हि कार्य्यमदृष्टाधीनं यच्च कार्य्यं यददृष्टाधीनं तत् तदुपभोगं साक्षात्परम्परया जनयत्येव न हि वीजप्रयोजनाभ्यां विना कस्यचिदुत्पत्तिरस्ति तेन द्व्यणुकादिब्रह्माण्डान्तं सर्वमेव विषयो भवतीत्यर्थः” सि० मुक्ता०। “विषिण्वन्ति विषयिणं बध्नन्ति स्वेन रूपेण निरूपणीयं कुर्वन्तीति विषयाः पृथिव्यादयः सुखादयश्च अस्मदादीनामविषयाश्च तन्मात्रलक्षणाः योगिनामूर्ध्वस्रोतसां च विषयाः” सांख्य० त० कौ०। ४ नित्यसेविते अमरः। ५ अव्यक्ते ६ शुक्रे च अजयपालः। ७ कान्तादौ ८ उपभोम्ये शब्दरत्ना० ८ नियामके “विशब्दो हि निःशेषार्थःसिनोतिर्बन्धनर्थकः। विशेषेण सिनोतीति विषयोऽतो नियामकः” भट्टका०। ९ आरोपाश्रये “सारोपान्या तु यत्रोक्ता विषयो विषयी तथा। विषय्यन्तःकृतेऽन्यस्मि। सा स्यात् साध्यवसानिका” काष्यप्र०। १० वि चारार्हवाक्ये अधिकरणावयवभेदे “विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम्। निर्णयश्चेति सिद्धान्तः शास्त्रेऽधिकरणं स्मृतम्” मीमांसा०।

विषयाज्ञान = न० विषयाणां न ज्ञानं यत्र। तन्द्रायाम् राजनि०।

विषयिन् = न० विषयोऽस्त्यस्य इनि। १ ज्ञाने “विषयी यस्य तस्यैव” भाषा० २ इन्द्रिये च। ३ विषयासक्ते त्रि० मेदि०। ४ राज्ञि ५ कामदेवे पु० मेदि०। विषयिणो भावः तल्। विषयिता ज्ञाननिष्ठे विषयनिरूपिते पदार्थभेदे स्वरूपसम्बन्धभेदे च स्त्री। सा च त्रिविधा विशेष्यनिरूपिता विशेष्यिता, विशेषणनिरूपिता प्रकारिता, संसर्गनिरूपिता संसर्गिता इति गदाधरादयः। गदाधरमते विषयितैव प्रतिबन्धकतावच्छेदिका। जगदीशमते विषयतैवेति भेदः।

विषरूपा = स्त्री विषं मूषिकविषं रूपयति अतिक्रामति रूप- क। अतिविषायाम् (आतैच) राजनि०।

विषलता = स्त्रा विष–व्याप्तौ अच् कर्म्म०। इन्द्रवारुण्याम्। राजनि०

विषविद्या = स्त्री विषाय तन्निवृत्तये विद्या। विषघ्नमन्त्रज्ञाने

विषविधि = पु० दिव्यभेदे दिव्यशब्दे ३५८९ पृ० दृश्यम्।

विषवैद्य = पु० विषे विषापहारे वैद्यश्चिकित्सकः। विषमन्त्रविद्यायुते अमरः।

विषशालूक = पु० विषस्य लणालस्य शालूकः। पद्मकन्दे राजनि०।

विषशृङ्गिन् = पु० विषं शृङ्गमिवास्त्यस्य इनि। भृङ्गरोले हारा०।

विषसूचक = पुंस्त्री० विषं सूचकं हिंसकमस्य। चकोरखगे हेमच० स्त्रियां ङीष्।

विषसृक्कन् = पु० विषं सृक्केव यस्य। भृङ्गरोले त्रिका०।

विषहन्त्री = स्त्री विषं हन्ति हन–तृच् ङीप्। १ अपराजितायाम् राजनि०। २ विषहारके त्रि०।

विषहरी = स्त्री विषं हरति हृ–अच् गौरा० ङीष्। १ मनसादेव्यां शब्दच०। २ विद्याभेदे तन्त्रसा०

विषहा = स्त्री विषं हन्ति हन–ड। देवदालीलतायाम् राजनि०।

विषा = स्त्री विषं म्षिकविषं नाश्यत्वेनास्त्यस्याः अच्। (आतैच) १ अतिविषयायाम् अमरः २ वुद्धौ च उणादि०

विषाण = न० विष–बा० कानच्। १ पशुशृङ्गे २ हस्तिदन्ते ३ कुष्ठौषधे मेदि०। ४ वराहदन्ते हेमच० ५ क्षोरकाकोल्याम् ६ अजशृङ्ग्यां स्त्री मेदि० गौरा० ङीष्। सा च ७ वृश्चिकालौ स्त्री राजनि०। ८ तिन्तिड्यां स्त्री शब्दच०।

विषाणिका = स्त्री विषाणमस्त्यस्याः ठन्। १ मेषशृङ्ग्याम् (गाडराशङा) रत्नमा०। २ कर्कटशृङ्ग्याम् ३ आवर्त्तक्यां ४ सातलायां राजनि०।

विषाणिन् = पु० विषाणमस्त्यस्य इनि। १ शृङ्गिणि २ हस्तिनि च अमरः। ३ शृङ्गाटके ४ ऋषभौषधे च पु० राजनि०।

विषाद = पु० वि + षद–घञ्। १ अवसादे हेमच० २ जडतायाञ्च।

विषादनी = स्त्री विषाय तन्निवृत्तये अद्यतेऽसौ अद–ल्युट्। पलाशीलतायाम् राजनि०।

विषान्तक = पु० विषस्यान्तक इव। १ शिवे हेमच० ६ त०। २ विषहरे त्रि०।

विषापहा = स्त्री विषमपहन्ति अप + हन–ड। १ मुष्ककवृक्षे राजनि०। २ इन्द्रवारुण्यां ३ निर्विषायां राजनि०। ४ नागदमन्यां भावप्र०। ५ अर्कमूलायाञ्च (इशरमूल) ६ सर्षकङ्कालिकायां रत्नमा०।

विषार = पुंस्त्री० विषमृच्छति ऋ–अण्। सर्पे शब्दच० स्त्रियां ङीप्।

विषाराति = पु० ६ त०। १ कृष्णधुस्तूरे राजनि०। २ विषनाधके स।

विषारि = पु० ६ त०। १ घृतकरञ्जे २ महाचञ्चुशाके च राजनि०

विषास्य = पु० विषमास्ये यस्य। १ सर्पे शब्दच० विषाननादयोऽप्यत्र। विषाक्तमिवास्यमस्याः। २ भल्लातके स्त्री शब्दच०।

विषु = अव्य० विष–कु। १ साम्ये भरतः। २ नानारूपे रामाश्रमः

विषुव = ग० विषु दिनरात्र्योः साम्यं वाति वा–क। १ समरात्रिदिनकाले अमरः। अयनांशक्रमणे २ रवेः तुलामेषराशिसंक्रान्तिभेदे च

“मृगकर्कटसंक्रान्ती द्वे तूदग्दक्षिणायने। विषुवती तुलामेषे गोलनध्ये तथापरा” ज्यो० त०। “भचक्रनाभौ विषुवद्द्वितयं समसूत्रगम्। अयनद्वितयं चैव चतस्रः प्रथितास्तु ताः” सू० सि०। “भचक्रनाभौ भगोलस्य ध्रुवद्वयाभ्यां तुल्यान्तरेण मध्यभागे विषुवद्द्वितयं समसूत्रग परस्परं व्याससूत्रान्तरितं ध्रुवमध्ये विषुवद्वृत्तस्थानात् तद्वृत्ते क्रान्तिवृत्तभागौ यौ लग्नौ तौ क्रमेण पूर्वापरौ विषुवत्सञ्ज्ञौ मेषतुल्याख्यौ चेत्यर्थः” रङ्ग० कालभेदे विषुवसंक्रमणरम्भांशभेदः अयनसंक्रान्तिशब्दे दर्शितः सत्कृत्यमुक्ता० संक्षिप्य कालभेदे विषुवारम्भणाद्युक्तं यथा “मेषसंक्रमतः पूर्वं पश्चात्तरादिनान्तरे। प्रातिलोम्येन साम्येन विषुवारम्भणं भवेत्। त्रयोदशदिने सौरे चैत्रे नखतिथौ १५२० शके। विषुवारम्भणं तत्र समं मानं दिवानिशोः। ततः प्रतिदिनं वेला सपादत्रिपलात्मिका। वर्द्धते मेषविश्वांशपर्य्यन्तं स्थूलमार्गतः। तथाज्यैष्ठान्तपर्य्यन्तं पादोनत्रिपलात्मिका। तादृशाषाढपर्य्यन्तं पलैकप्रमिता मता। ततः कर्कटविश्वांशपर्य्यन्तं प्रत्यहक्रमात्। सपादपलमानेन वेला त्रुद्यति निश्चितम्। तादृग्भाद्रान्तपर्य्यन्तं पादोनत्रिपलात्मिका। दिवामानं दण्डषष्टेस्त्यक्ता रात्रेः प्रमाणकम्। वैशाखादौ दिवामानं रात्रिमानं तुलादिषु। षट्षष्टितत्सरानेवं ततः स्यात् द्वादशांशके। पुनस्तद्वत् सरांस्तद्वत् तत एकादशादिके”।

विषुवत् = न० विषु साम्यं दिवानिशोरत्रास्ति मतुप् मस्य वः। विषुवशब्दार्थे।

विषोषधी = स्त्री ६ त०। नागदन्त्याम् रत्नमा०।

विष्क = हिंसायां चु० आ० सक० सेट्। विष्कयते अविविष्कत दर्शने उभ० सेट्। विष्कयति ते अविविष्कत् त।

विष्कम्भ = पु० वि + स्कन्भ–अच्। सूर्य्यचन्दयोगजातयोगमध्ये प्रथमे १ योगे ज्यो० त० २ विस्तारे ३ प्रतिबन्धे ४ रूपकनाटकाङ्गमेदे “अर्थोपक्षेपकाः पञ्च विष्कम्भकप्रयेशकौ। चूलिकाङ्कावतारोऽथ स्यादङ्गमुखमित्यपि। वृत्तवर्त्ति- माणानां कथांशानां निदर्शकः। संक्षिप्तार्थस्तु विष्कम्भ आदावङ्कस्य दर्शितः। मध्येन मध्यमाभ्यां वा पात्राभ्यां सम्प्रयोजितः। शुद्धः स्यात् स तु सङ्कीर्णो नीचमध्यमकल्पितः” सा० द०। ५ योगिनां बन्धभेदे मेदि० ६ वृक्षे अजयः ७ अवष्टम्भके अमरः। ८ कीलकादौ च भरतः। ९ पर्वतभेदे विपुलशब्दे दृश्यम्।

विष्कल = पुंस्त्री० विषं विष्ठां कलयति कलि–अण पृषो०। ग्राम्यशूकरे राजनि० स्त्रियां ङीष्।

विष्किर = पुंस्त्री० विकिरति वि + कृ–क सुट्च। १ विहगे अमरः स्त्रियां ङीष्। २ विहगभेदे भावप्र० “वर्त्तलालावविकिरकपिञ्जलकतित्तिराः। कुलिङ्गकुक्कुटाद्याश्च विष्किराः समुदाहृताः। विकीर्य्य भक्षयन्त्येते यस्मात्तस्माद्धि विष्किराः। कपिञ्जल इति प्राज्ञैः कथितो गौरतित्तिरः”। कुलिङ्गः (कएर) इति लोके। “विष्किरा मधुराः शीताः कषायाः कटुपाकिनः। बल्या वृष्यास्त्रिदोषघ्नाः पथ्यास्ते लघवः स्मृताः”।

विष्टप = न० विश–कपन् तुट् च। भुवने अमर।

विष्टब्ध = त्रि० वि + स्तन्भ–क्त। प्रतिरुद्धे अवरुद्धे

विष्टम्भ = पु० वि + स्तत्भ–घञ्। १ प्रतिबन्धे २ आनाहे रोगमेदे च आनाहशब्दे ७२९ पृ० दृश्यम्।

विष्टम्भिन् = त्रि० वि + स्तन्भ–णिनि। १ प्रतिबन्धके २ रोगविशेषजनके च।

विष्टर = पु० वि + स्तृ–अप् षत्वम्। “ऊर्द्धकेशो भवेद्ब्रह्मा लम्बकेशस्तु विष्टरः” इति “वामावर्त्तस्तु विष्टर” इति च स्मृत्युक्ते दर्भकृते १ आसनभेदे २ आसनमात्रे ३ वृक्षे ४ कुशमुष्टौ च अमरः।

विष्टरश्रवस् = पु० विष्टरः कुशमुष्टिरिव श्रवसी कर्णौ यस्य। विष्णौ अमरः।

विष्टरुहा = स्त्री विष्टा भूमौ प्रविष्टा सती रोहति कह–क। स्वर्णकेतक्यां राजनि०।

विष्टार = पु० वि + स्तॄ–घञ् षत्वम्। पङ्क्तिच्छन्दोभेदे छन्दःशब्दे २९२८ पृ० दृश्यम्।

विष्टि = स्त्री विष–क्तिन् क्तिच् वा। वेतनं विना भारादिवहनजन्ये १ क्लेशे अमरः। २ वेतने ३ कर्मणि ४ वर्षणे ५ तिर्थ्यर्द्धात्मककरणमध्ये सप्तमे करणे विश्वः। भद्रशब्दे ४६३७ पृ० दृश्यम्। ६ प्रेषणे हेमच०। ७ कर्मकरे भूत्ये ८ वेतनं विना कर्मकरे च त्रि० मेदि०।

विष्ठल = न० विप्रकृष्टं स्थलम् प्रा० स० षत्त्वम्। दूरस्थस्थले सि० कौ०

विष्ठा = स्त्री विविष तिष्ठति स्था–क षत्वम्। १ उदरे शब्दमाला २ पुराषे अमरः।

विष्णु = स्त्री विष–व्यापने नुक्। १ व्यापके परमेश्वरे अमरः “यस्मात् विश्वमिदं सर्वं तस्य शक्त्या महात्मनः। तस्मादेवोच्यते विष्णुर्विशधातोः प्रवेशनात्” इत्युक्तेः विश–प्रवेशे नु पृषो० इत्यपि बोध्यम्। २ वह्नु ३ शुद्धे ४ वसुदेवतायां धरणिः। ५ धर्मशास्त्रकारके मुनिभेदे च “मन्वत्रिविष्णुहारीते” ति याज्ञ० ६ तद्दैवते श्रवणनक्षत्रे ज्यो० त०।

विष्णुकन्द = पु० विष्णुप्रियः कन्दः शा० त०। मूलभेदे राजनि०

विष्णुकान्ता = स्त्री ३ त० विष्णुस्तद्वर्णः क्रान्तो वा यया। अपराजितायाम् अमरः तस्याः विष्णुतुल्यवर्णत्वात् विष्णुपरित्यक्तत्वाच्च तथात्वम्।

विष्णुगुप्त = पु० १ चाणक्ये मुनौ अयमेव वात्स्यायनत्वेन पक्षिलत्वेन प्रसिद्धः त्रिका०। ३ त०। विष्णुना गुप्ते मुन्यादौ २ देवादौ ३ सन्दभेदे राजनि०।

विष्णुतैल = न० वैद्यकप्रसिद्धे तैलभेदे तच्च विविधं स्वल्पवृहद्भेदात् तत्तैलपाकप्रकारः भैषज्यरत्ना० उक्तो यथा तत्र स्वल्पविष्णुतैलम् “शालपर्णी पृश्रिपर्णी वलागोरक्षतण्डुलाः। एरण्डस्य च मूलानि वृहत्योः पूतिकस्य च। शतावरी सहचवी पचेदेतैः पलोन्मितैः। तैलप्रस्थं पयोदत्त्वा गव्यं वाऽऽंजं चतुर्गुणम्। अस्यतैलस्य पक्वस्य शृणु वीर्य्यमतः परम्। वातार्त्ता नरनागाश्च पीत्वा दृढतनुत्वचः। हृत्पार्श्वशूले वातास्रे गलगण्डेऽर्दिते क्षये। शर्कराश्मरिपाण्डुत्वकामलार्द्धावभेदके। क्षीणेन्द्रियेऽन्त्रवृद्धौ च जराजर्जरिते हितम्। स्त्रीणामप्वतरीणाञ्च गर्भस्थितिकरं परम्। एतदङ्गवरं तैलं विष्णुना परिकीर्त्तितम्”। तण्डुलः गोरक्षतण्डुलः। वृहत्योर्वृहतीकण्टकार्य्योः। पूतिकं नाटाकरञ्जः। सहचरी झिण्टी। अत्र क्वाथान्तराभावात् क्षीरस्य चतुर्गुणं जलं कश्चिद्ददाति। “स्वरसक्षीरमाङ्गल्यैः पाको यत्रेरितः क्वचित्। जलं चतुर्गुणं तत्र वीर्य्याधानार्थमावपेत्” इति परिभाषावलात्। क्वचिदिति पाठात् काथास्तररहिते केवलक्षीरादिसहिततैलादिपाके ज्ञातव्यं स तु सर्वत्र। “एलाचन्दनकुङ्कुमागुरुमुराकक्कोल मांसी शटी श्रीवासच्छदग्रन्थिपर्णशशभृत्क्षौणीध्वजोशीरकम्। कस्तूरोनखपूतिशैलजलमुङ्मेथीलवङ्गादिकम्। गन्धद्रव्यमिदं प्रदेयमखिलं श्रीविष्णुतैलादिषु”। अथ वृहद्विष्णुतेलम् “जलधरमश्वगन्धा जीवकर्षभकौ शटी। काकोली क्षीरकाकोसी जीवन्ती मधुयष्टिका। मधूरिका देवदारु पद्मकाष्ठञ्च सैन्धवम्। मांसी चैला त्वचं कुष्ठं रक्तचन्दंनशैसजम्। मञ्जिष्ठा मृगनाभिश्च श्वेतचन्दनकु- ङ्कुमम्। पर्णीकुन्दुरु खोटिश्च ग्रन्थिकञ्च नखी तथा। एतेषां पालिकैभागैस्तैलस्यापि तथाढकम्। शतावरी रसतमं दुग्धञ्चापि समं भवेत्। विष्णुतैलवरं श्रेष्ठं सर्ववातविकारनुत्। ऊर्द्ध्ववाते ह्यधोवाते अङ्गविग्रह एव च। शिरीमध्यगता ये च मन्यास्तम्भे गलग्रहे। यस्य शुष्यति चैकाङ्गं गतिर्यस्य च विह्वला। ये वात प्रमवारोगा ये च पित्तसमुद्भकः। सर्वांस्तान्नाशयत्याशु सूर्य्यस्तम इवोदितः”।

विष्णुदैवत(त्य) = त्रि० विष्णुर्दैवतं(त्यं) यस्य। विष्णुदेवताके द्रव्यादौ “गृहन्तु सर्वदैवत्यं यदनुक्तं द्विजोत्तमाः!। तज्ज्ञेयं विष्णुदैवत्यं सर्वं वा विष्णुदेवतम” शु० त० विष्णु०। २ श्रवणनक्षत्रे च।

विष्णुधर्म्म = पु० विष्णूपासनायोग्यो धर्मः शाक०। विष्णूपासनोचिते १ नियमभेदे उपचारात् तत्प्रतिपादके २ ग्रन्थे च

विष्णुधर्मोत्तर = न० विष्णुधर्म उत्तरः प्रधानः वर्ण्यत्वेन यस्य। संहिताभेदे।

विष्णुपद = न० विष्णोः पदमिव व्यापकत्वात्। १ आकाशे अमरः। ६ त०। २ क्षीरार्णवे मेदि०। ३ पद्मे च हेमच० ४ विष्णोश्चरणै कर्म०। ५ विष्णुरूपस्थाने च “तद्विष्णोः परमं पदम्” ऋ० विष्णुसूक्तम्।

विष्णुपदी = स्त्री० विष्णुपदं कारणत्वेनास्त्यस्याः अच् गौरा० ङीष्। १ गङ्गायाम् “निर्गता विष्णुपादाब्जात् तेन विष्णुपदी स्मृता” ब्रह्मवै० प्र० ९ अ०। २ वृषसिंहवृश्चिककुम्भराशौ रवेः संक्रान्तौ च। “वृषवृश्चिककुम्भेषु सिहे विष्णुपदी स्मृता” “पुण्यायां विष्णुपद्याञ्च प्राक्पश्चादपि षोडश” ज्यो० त०। “अयने कोटिगुणितं लक्षं विष्णुपदोषु च” ति० त० “तदन्तरेषु संक्रान्तिद्वितयं द्वितयं पुनः। नैरन्तर्यात् तु संक्रान्तेर्ज्ञेयं विष्णुपदीद्वयम्” सू० सि०। “तदन्तरेषु विषुवायनान्तरालेषु। अत्रान्तरालानां चतुःस्थाने सद्भावाद् बहुवचनम्। संक्रान्तिद्वितयं द्वितयं पुनाराश्यादिभागे ग्रहाणामाक्रमणं वारद्वयं भवति तदन्तराले राश्यादिभागौ द्वौ भवत इत्यर्थः। तथा हि मेषाख्यविषुवकर्काख्यायनयोरन्तराले वृषमिथुनयोरादी। कर्कतुलयोरन्तराले सिंहकन्ययोरादी। तुलामकरयोरन्तराले वृश्चिकधनुषोरादी। मकरमेषयोरन्तराले कुम्भमीनयोरादी इति एव विषुवानन्तरं संक्रमणद्वयमनन्तरमयनं तदनन्तरं संक्रान्तिद्वयं तदनन्तरं विषुवमनन्तरं संक्रान्तिद्वयमनन्तरमयनमित्यादि पौनःपुन्येन ज्ञेयमित्यर्थः। संक्रान्तिद्वयमध्ये प्रथमसंक्रान्तौ विशेषमाह। नैरन्तर्यादिति। निरन्तरतया सम्भूतायाः संक्रान्तेः सकाशाद्विष्णुपदीद्वयं तदन्तराल इत्यर्थः” रङ्ग०

विष्णुपुराण = न० व्यासप्रणीते महापुराणभेदे तत्प्रतिपाद्यविषयाश्च वृहन्नारदीरे ९४ अ० उक्ता यथा “शृणु वत्स! प्रवक्ष्यामि पुराणं वैष्णवं महत्। त्रयोविंशतिसाहस्रं सर्वपातकनाशनम्। यत्रादिभागे निर्दिष्टाः षडंशाः शक्तृजेन ह। मैत्रेयायादिमे तत्र पुराणस्यावतारिका”। तत्र प्रथमभागस्य प्रथमांशे “आदिकारणसर्गश्च देवादीनाञ्च सम्भवः। समुद्रमथनाख्यानं दक्षादीनां कथाचयः। ध्रुवस्य चरितं चैव पृथोश्चरितमेव च। प्राचेतसं तथाख्यानं प्रह्लादस्य कथानकम्। पृथुराज्याधिकाराख्यः प्रथमोऽंश इतिरितः। पातालनरकाख्यानं सप्तसर्गनिरूपणम्। सूर्य्यादिचारकथनं पृथग्लक्षणसंगतम्। चरितं भरतस्याथ मुक्तिमार्गनिदर्शनम्। निदाघ ऋतुसंवादो द्वितीयोऽंश उदाहृतः”। प्रथमभागस्य तृतीयांशे “मन्वन्तरसमाख्यानं वेदव्यासावतारकम्। नरकोद्धारकं कर्म गदितञ्च ततः परम्। सगरस्यैर्वसंवादे सर्वधर्मनिरूपणम्। श्राद्धकल्पं तथोद्दिष्टं वर्णाश्रमनिबन्धने। सदाचारश्च कथितो मायामोहकथा ततः। तृतीयोऽंशोऽयमुदितः सर्वपापप्रणाशनः”। प्रथमभागस्य चतुर्थांशे “सूर्य्यवंशकथा पुण्या सोमवंशानुकीर्त्तनम्। चतुर्थेऽंशे मुनिश्रेष्ठ! नामाराजकथाचितम्”। प्रथमभागस्य पञ्चमांशे “कृष्णावतारसंप्रश्नो गोकुलीया कपा ततः। पूतनादिबधो बाल्ये कौमारेऽघादिहिंसनम्। कैशोरे कंसहननं माथुरं चरितं तथा। ततस्तु यौवने प्रोक्ता लीला द्वारवतीभवा। सर्वदैत्यबधो यत्र विवाहाश्च पृथग्विधाः। यत्र स्थित्वा जगन्नाथः कृष्णो योयेश्चरेश्वरः। भूभारहरणं चक्रे परस्वहननादिभिः। अष्टावक्रीयमाख्यानं पञ्चमोऽंश इतीरितः”। प्रथमभागस्य षष्ठांशे “कलिजं चरितं प्रोक्तं चातुर्विध्यं लयस्य च। ब्रह्मज्ञानसमुद्देशः खाण्डिक्यस्य निरूपितः। केशिध्वजेन चेत्येषः षष्ठोऽंशः परिकीर्त्तितः”। तस्य द्वितीयभागे “अतःपरन्तु सूतेन शौनकादिभिरादरात्। पृष्टेन चोदिताः शश्वद्विष्णुधर्मोत्तराह्वयाः। नानाधर्मकथाः पुण्या व्रतानि नियमा यमाः। धर्मशास्त्रं चार्थशास्त्रं पेदान्यं ज्योतिषं तथा। वंशाख्यानं प्रकरणात् स्तो- त्राणि मनवस्तथा। नानाविद्याश्रयाः प्रोक्ताः सर्वलोको पकारकाः। एतद्विष्णुपुराणं वै सर्वशास्त्रार्थसंग्रहः” तत्फलश्रुतिः “वाराहकल्पवृत्तान्तं व्यासेन कथितं त्विह। यो नरः पठते भक्त्या यः शृणोति च सादरम्। तावुभौ विष्णुलोकं हि व्रजेतां भुक्तभोगकौ। तल्लिखित्वा च यो दद्यादाषाढ्यां घृतधेनुना। सहितं विष्णुभ्रक्ताय पुराणार्थविदे द्विज!। स याति वैष्णवं धाम विमानेनार्कवचसा। यश्च विष्णुपुराणस्य समनुक्रमणीं द्विज!। कथयेच्छृणुयाद्वापि स पुराणफलं लभेत्”।

विष्णुमाया = स्त्री ६ त०। विष्णोः परमेश्वरस्य माया। १ अघटनघटनपटीयस्याम् ईशस्याविद्याशक्तौ २ तदधिष्ठात्य्रां दुर्गायाञ्च।

विष्णुयशस् = पु० कल्किपितरि कल्किपु०।

विष्णुरथ = पु० विष्णोः रथ इव गतिहेतुत्वात्। १ गरुडे अमरः। ६ त०। २ विष्णोः रथे च।

विष्णुरात = पु० विष्णुना रातः विष्णुर्वा रायाज्जीवनमस्मै रा–क्त त वा। परीक्षिदाख्ये नृपे स हि गर्भस्थ एव अश्वत्थामास्त्रेण दग्धो मृतः सन् प्रसवानन्तरञ्च विष्णुना पुनर्जीवितः तत्कथा मा० आश्व० ७ ० अध्याये। तन्नामनिरुक्तिः भाव० १। १२ अ० यथा “दैवेनाप्रतिघातेन शुक्रे (वंशे) संस्थामुपेयुषि। रातोवोऽनुग्रहार्थाय विष्णुना प्रभविष्णुना। तस्मान्नाम्ना विष्णुरातो लोके ख्यातं गमिष्यति”।

विष्णुवल्लभा = स्त्री ६ त०। १ तुलस्याम् राजनि० २ अग्निशिखावृक्षे च शब्दच०। ३ लक्ष्म्याम्।

विष्णुवाहन = पु० विष्णुं वाहयति स्थानान्तरं नयति वहणिच्–ल्यु। गरुडे हेमच०।

विष्णुवाह्य = पु० विष्णुर्वाह्योऽस्य। गरुडे शब्दच०।

विष्फार = पु० वि + स्फुर–णिच्–अच् अच आत् षत्वम्। धनुगुंणाकर्षणशब्दे टङ्कारे अमरः।

विष्य = त्रि० विशेषेण वध्यः विष + यत्। विषेण बध्ये अमरः।

विष्वक्सेनप्रिया = स्त्री ६ त०। १ लक्ष्म्याम् (चामर आलु) २ वाराह्याम् अमरः।

विष्वणन = न० वि + स्वन–ल्युट् षत्वणत्वे। भोजने जटा०।

विष्वाण = पु० वि + खन–घञ् षत्वणत्वे। भोजने हेमच०।

***