—र—

= रकारः व्यञ्जनवर्णभेदः स्पर्शवर्णोष्मवर्णयोर्मध्यस्थत्वात् अन्तस्थवर्णः। अस्योच्चारणस्थानं मूर्द्ध्वा। जिह्वाग्रेण मूर्द्ध्वस्थानस्येषत्स्पर्शेनोच्चारणादस्य आम्यन्तरप्रयत्न ईषत्स्पृष्टम्। बाह्यप्रयत्नाश्च संवारनादघोषा अल्पप्राणश्च। वर्णाभिधाने अस्य वाचकशब्दा उक्ता यथा “रो रक्तः क्रोधिनी रेफः पावकस्तैजसो मतः। प्रकाशी दर्शनो दीपा रततृष्णा परं बली। भुजङ्गेशो मतिः सूर्य्यो धातू रक्तप्रकाशकः। व्यापको रेवती दानं दक्षांसो वह्निमण्डलम्। उग्रवेगा स्थूलदण्डो वेदकर्णोपलाम्बरा। प्रकृतिः सुगलो ब्रह्मशब्दश्च गायको घनः। श्रीकण्ठ ऊष्मा हृदयं मुण्डी त्रिपुरसुन्दरी। सविन्दुर्योनिजो ज्वाला श्रीशैलो विश्वतोमुखी”। अस्य व्येयरूपं यथा “रेफञ्च चञ्चलापाङ्गि! कुण्डलीद्वयसंयुतम्। रुक्तविद्युल्लताकारं पञ्चदेवात्मकं सदा। पञ्चप्राणमयं वर्ण त्रिविन्दुसहितं सदा” कामधेनुत०। “अस्याधिष्ठातृदेवतारूपं यथा “ललज्जिह्वां महारौद्रीं रक्तास्यां रक्तलोचनाम्। रक्तवर्णामष्टभुजां रक्तपुष्पोपशोभिताम्। रक्तमाल्याम्बरधरां रक्तालङ्कारभूषिताम्। महामोक्षप्रदां नित्यामष्टसिद्धिप्रदायिकाम्। एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत्”। मातृकान्थासेऽस्य दक्षांसे न्यास्यता। काव्यादौ प्रयोगे “रस्तु दाहम्” वृ० र० टीकोक्तेः दाहः फलम्।पु० रा–ड। १ वह्नौ २ उग्रे मेदि०। ३ कामानले च शब्दर०। ४ छन्दःशास्त्रप्रसिद्धे लघुमध्ये आद्यन्तगुरुयुते रगणे काव्यादौ तस्य प्रथमप्रयोगे मरणं फलम् अस्य देवताऽग्निः।

रंह = गतौ अद० चु० उभ० सक० सेट्। रंहयति ते अररंहत् त।

रंहस् = न० रंह–असुन्। वेगे अमरः।

रक = स्वादे प्राप्तौ च चु० उभ० सक० सेट्। राकयति–ते अरीरकत् त

रक्त = न० रन्ज–करणे क्त। १ कुङ्कुमे २ ताम्रे ३ प्राचीनामलके मेदि०। ४ सिन्दूरे ५ हिङ्गुले ६ पद्मके राजनि०। ७ शरीरस्थे रसपाकजन्ये मांसहेतौ रुधिराख्ये धातुभेदे अमरः। ८ कुसुम्भे ९ हिज्जले १० रोहितवर्णे च पु० ११ तद्वति त्रि० अमरः। १२ परागे कर्त्तरि क्त। १३ अनुरक्ते मेदि० १४ क्रीडारते च गरणिः। कर्मणि क्त। १५ नील्यादिभीरञ्जिते त्रि०। करणे क्त। १६ मञ्जिष्ठायां १७ लाक्षायां १९ गुञ्जायाञ्च स्त्री राजनि० टाप्। भावे क्त। २० रागे न०। धातुभेदरक्तस्वरूपादिकं भावप्र० उक्तं यथा “यदा रसो यकृद्याति तत्र रञ्जकपित्ततः। रागं पाकं श संप्राप्य स भवेद्रक्तसंज्ञकः। रक्तं सर्वशरीरस्थं जीवस्याधारमुत्तमम्। स्निग्धं गुरु चसं स्वादु विदग्धं पित्तवद्भवेत्”। जीवस्याधारनुत्तममिति, यत आह। “जीवो वसति सर्वस्मिन्देहे तत्र विशेषतः। वीर्य्ये रक्ते मले यस्मिन् क्षीणे याति क्षयं क्षणादिति”। वीर्य्ये रक्ते मले च शरीरारम्भके वाग्भटोक्तपरिमाणमिते शुद्धे जीवो वसति न तु दुष्टे प्रवृद्धे रक्तस्रावणोपदेशस्य वैयर्थ्यप्रसङ्गात्। पित्तवद्भवेत् अम्लवद्भवेदित्यर्थः। अथ रक्तस्य स्थानमाह “यकृत् प्लीहा च रक्तस्य मुख्यस्थानन्तयोः स्थितम्। अन्यत्र संस्थितवतां रक्तानां पोषकं भवेत्”। असृक्करशब्दे ५५९ पृ० दृश्यम्।

रक्तक = पु० रक्तं रुधिरमिव कायति कै–क इवार्थे कन् वा। १ अम्लानवृक्षे २ बन्ध्कवृक्षे मेदि०। ३ रक्तशोभाञ्जने ४ रक्तैरण्डे च राजनि०। ५ रुधिरे ६ रक्तवस्त्रे च न०। ७ अनुरागिणि मेदि० ९ विनोदिनि च त्रि०।

रक्तकन्द = पु० रक्तवर्णः कन्दोऽस्य। १ विद्रुमे प्रवाले हेमच० २ रक्तालौ ३ रक्तपलाण्डौ च राजनि०।

रक्तकमल = न० रक्तं कमलमिव। रक्तवर्णोत्पले राजनि०। पृषो०। रक्तकम्बलमप्यत्र न०।

रक्तकरवीर = पु० कर्म०। रक्तवर्णपुष्पककरवीरवृक्षे राजनि० स्वार्थे क तत्रार्थे।

रक्तकाञ्चन = पु० कर्म०। रक्तवर्णपुष्पककाञ्चनवृक्षे शब्दच०।

रक्तकाण्डा = स्त्री रक्तः काण्डोऽस्याः। रक्तपुनर्नवायाम् राजनि०।

रक्तकुमुद = न० कर्म०। १ रक्तवर्णपुष्पककैरवे जटा०। २ रक्तकैरवरक्तकोकनदे अप्यत्र न० जटा०।

रक्तकुसुम = पु० रक्तानि कुसुमान्यस्य। पारिभद्रे (पालदामादार) राजनि०।

रक्तकेसर = पु० रक्ताः केसरा अस्य। १ पारिभद्रे राजनि०। २ पुन्नागवृक्षे च रत्नमा०।

रक्तखदिर = पु० सारतो रक्तवर्णः खदिरः। रक्तवर्णसारके खदिरवृक्षे राजनि०।

रक्तगन्धक = न० रक्तेन गन्धकभिव। वोले (गन्धरस) राजनि०

रक्तघ्न = पु० रक्तं हन्ति हन–टक्। २ रोहितकवृक्षे जटा०। २ दूर्वायां स्त्री शब्दच०।

रक्तचन्दन = न० कर्म०। स्वनामख्याते चन्दनभेदे अमरः। “रक्तं (चन्दनम्) पीतं गुरु स्वादु छर्दितृष्णास्रपित्तनुत्। पित्तनेत्रहितं वृष्यं ज्वरव्रणविषापहम्” भावप्र०

रक्तचित्रक = न० कर्म०। (लालचिता) क्षपभेदे राजनि०।

रक्तचूर्ण = न० कर्म०। १ सिन्दूरे हारा० २ रक्तवर्णचूर्णमात्रे च

रक्तझिण्टी = स्त्री कर्म०। (नालझाटि) पुष्पधानकवृक्षभेदे अमरः।

रक्ततुण्ड = पु० रक्तं तुण्डमस्य। १ शुकपक्षिणि राजनि०। २ रक्तमुखके त्रि० कप्। रक्ततुण्डक मूनागे राजनि०।

रक्ततृणा = स्त्री रक्तं तृणं यस्याः। गोमूत्रिकायाम् राजनि०

रक्तत्रिवृत्(ता) = स्त्री कर्म०। (नालतेओडि) वृक्षभेदे राजनि०

रक्तदन्तिका = स्त्री रक्ता दन्ता अस्याः कप् अत इत्त्वम्। दाडिमीस्थे दुर्गाशक्तिभेदे “मक्षयन्त्याश्च तानुग्रान् वैव्रचित्तान् महासुरान्। रक्ता दन्ता भविष्यन्तीति” उपक्रमे” ततो मां देवताः सर्वे मर्त्यलोके च मानवाः। स्तुवन्तो व्याहरिष्यन्ति सततं दक्तदन्तिकाम्” देवीमा०। इति तन्नामनिरुक्तिः।

रक्तदला = स्त्री रक्तानि दलान्यस्याः। नालिकायाम् (नालते) राजनि०।

रक्तदृश् = पु० रक्ता दृक् नेत्रमस्य। कषोते। रक्तनेत्रादयोऽप्यत्र

रक्तधातु = पु० कर्म०। गैरिके त्रिका०। २ ताम्रे च राजनि० देहस्थे रुधिररूपे रसधातुजाते मांसधातुहेतौ ३ धातुमेदे च असृक्करशब्दे ५५९ पृ० दृश्यम्।

रक्तनाल = पु० रक्तो नालोऽस्य। जीवशाके राजनि०।

रक्तप = पुंस्त्री० रक्तं पबति पा–क। १ राक्षसे मेदि०। स्त्रियां ङीष्। २ रक्तपानकर्त्तरि त्रि०। ३ जलौकायां ४ डाकिन्याञ्च स्त्री मेदि० टाप्।

रक्तपत्त्रिका = स्त्री रक्तानि पत्त्राण्यस्याः कप् अत इत्त्वम्। १ नाकुल्यां २ रक्तपुनर्नवायाञ्च राजनि०।

रक्तपल्लव = पु० ६ व०। १ अशीकवृक्षे राजनि०। कर्म०। २ रक्तवर्णपल्लवे अस्त्री०।

रक्तपाकी = स्त्री रक्तः पाकः फलं यस्याः ङीप्। वृहत्याम् राजनि०।

रक्तपाद = पु० ६ त०। १ शुकपक्षिणि हेमच०। २ कज्जालौ लतायां ३ हंसपद्याङ्क स्त्री राजनि० ङीष् पद्भावश्च।

रक्तपायिनी = स्त्री रक्तं पातुं शीकमस्याः पा + णिनि ङीप्। जलौकायाम् (जो~क) राजनि०।

रक्तपारद = न० कर्म०। हिङ्गुले हारा०। तत्रार्थे पु० जटा०।

रक्तपित्त = न० रोगभेदे। तल्लक्षणादिकं भावप्र० उक्तं यथा “घर्मव्यायामशोकाध्वव्यवायैरतिसेवितैः। तीक्ष्णोष्णक्षारलवणैरम्लैः कदुभिरेव च। पित्तं विदग्धं स्वगुणैर्विदहत्याशु शोणितम्”। तीक्ष्णं मरिचादि। उष्णमग्नितापादि। क्षारोयवक्षारादिः। विदग्धं स्वगुणैः स्वकारणैः गुणैस्तीक्ष्णादिभिः। गुणैरिति बहुत्वेन तीक्ष्ण म्ललवणकटूष्णघर्म्मादयो गृह्यन्ते विदहति दूषयति। अथ रक्तपित्तस्य सामान्यं लक्षणमाह “ततः प्रवर्त्तते रक्तमूर्द्धञ्चाधो द्विधाऽपि वा”। अत्र रक्तमित्युपलक्षणम्। तेन संसृष्टं पित्तञ्च। अतएव रक्तञ्च पित्तञ्च रक्तपित्तमिति द्वन्द्व इति सुश्रुतः। रक्तञ्च तत् पित्तं चेति रक्तपित्तं रागप्राप्तं पित्तं रक्तमित्युच्यते रक्तं पित्तं कर्मधारयश्च इति चरकः। उभयत्रापि न दोषः कारणत्रयात्। कारणत्रयमाह “संयोगात् दूषणात् तत्तु सामान्यात् गन्धवर्णयोः। रक्तञ्च पित्तमाख्यातं रक्तपित्तं मणीषिभिः”। मार्गानाह “ऊर्ध्वं नासाक्षिकर्णास्यैर्मेढ्रयोनिगुदैरधः। कुप्रितं रोमकूपैश्च समस्तैस्तत्प्रवर्त्तते”। कुपितं पित्तम्। पूर्वरूपमाह “सदनं शीतकामित्वं कण्ठधूमायनं वमिः। लोहगन्धिश्च निश्वासो भवत्यस्मिन् भविष्यति”। “विशिष्टरूपमाह “सान्द्रं सपाण्डु सस्नेहं पिलिकं च कफान्वितम्”। वातिकमाह “श्या- वारुणं सफेतञ्च तनु रूक्षञ्च वातिकम्”। पैत्तिकमाह “रक्तपित्तं कषायाभं कृष्णं गोमूत्रसन्निभम्। मेचकाङ्गारधूमाभमञ्जनाभञ्च पैत्तिकम्”। मेचकम् चिक्वणं कृष्णवर्णम्। अञ्जनं स्रोतोञ्जनं तदाभम्। संसर्गविशेषेण मार्गमेदमाह” “संसृष्टं लिङ्गसंसर्गाद्त्रिलिङ्गं सान्निपातिकम्। ऊर्ध्वगं कफसंसृष्टमधोगं मारुतानुगम्। द्विमार्गं कफबाताम्यामुभाभ्यां तत् प्रवर्त्तते”। उपद्रवानाह “दौर्बल्यं श्वासकासज्वरवमथुमदाः पाण्डुतादाहमूर्च्छा भुक्ते घोरोविदाहस्त्वधृतिरपि सदा हृद्यतुल्या च पीडा। तृष्णा कोष्ठस्य भेदः शिरसि च तपनं पूयनिष्ठीवनञ्च द्वेषो भक्तेऽविपाको विकृतिरपि भवेद्रक्तपितोपसर्गाः”। विकृतिः मांसप्रक्षालनाभतादिः। साध्यादिकमाह “एकदोषानुगं साध्यं द्विदोषात् याप्यमुच्यते। “यत्त्रिदोषमसाध्यं स्यान्मन्दाग्नेरतिवेगवत्। ऊर्द्ध्वं साध्यमधो याप्यमसाध्यं युगपद्गतम्। व्याधिभिः क्षीणदेहस्य वृद्धस्याऽनश्रतस्तु यत्”। अथ साध्यमाह “एकमार्गं बलवतो नातिवेगं नवोत्थितम्। रक्तपित्तं सुखे काले साध्यं स्यान्निरुपद्रवम्”। सुखे काले हिमशिशिरयोः। असाध्यमाह” “मांसप्रक्षालनाभं क्कथितमिव च यत्कर्द्दमाम्भीनिभं वा मेदःपूयास्रकल्पं यकृदिव यदि वा पक्वजम्बूफलाभम्। यत् कृष्णं यच्च नीलं भृशमपि कुखपं यत्र चोक्ता विकारास्तद्वर्ज्यं रक्तपित्तं सुरपतिधनुषा यच्च तुल्यं विभाति”। उक्ता विकारा दौर्बल्यादयः। सुरपतिधनुषा तुल्यं नानावर्णम्। “येन चोपहतो रक्तं रक्तपित्तेन मानवः। पश्येद्भृशं वियच्चापि तदसाध्यमसंशयम्”। येन रक्तपित्तेनोपहतः मनुष्यः दृश्यं घटप्रटादिकं रक्तं पश्यति स नश्यति वियच्चापि अदृश्यमपीत्यर्थः। अथारिष्टमाह। “लोहितं छर्द्दयेद्यस्तु बहुशो लोहितेक्षणः। लोहितोद्गारदर्शी च म्रियते रक्तपैत्तिकः”। लोहितोद्गारदर्शी व्याधिमहिम्नोद्गारमपि लोहितं पश्यतीत्यर्थः”।

रक्तपुष्प = न० कर्म०। १ रक्ते कुसुमे रक्तं पुष्पमस्य। २ करवीरे जटा० ३ रौहितकवृक्षे ४ रक्तकाञ्चनवृक्षे ५ दाडिमवृक्षे ६ रक्तवकवृक्षे रत्नमा० ७ बन्धूकवृक्षे ८ पुन्नागवृक्षे च राजनि० ९ शाल्मलीवृक्षे स्त्री जटा० टाप्। रक्तपुष्पक पलाशवृक्षे रोहितकवृक्षे च जटा०। पर्पटे शाल्मलिवृक्षे च राजनि०

रक्तपुष्पिका = स्त्री रक्तानि पुष्पाणि यस्याः कप् अत इत्त्वम्। १ लज्जालुलतायाम् शब्दच० २ रक्तपुन- र्नवायाम् ३ भूमिपाटलौ च राजनिघण्टुः।

रक्तपुष्पी = स्त्री रक्तानि पुष्पाण्यस्याः ङीप्। १ पाटलिवृक्षे (पारुल) २ जवायाम् ३ आवर्त्तकीलतायाम् ४ नागदमन्याम् ५ करुणीवृक्षे ६ उष्ट्रकाण्ड्यां च राजनि०।

रक्तपूरक = न० रक्तं रुधिरं पूरयति सेवनात् पूर–ण्वुल्। वृक्षाम्ले राजनि०।

रक्तप्रमव = पु० रक्तवर्णः प्रसवः पुष्पमस्य। १ करवीरे ३ रक्ता म्लाने च राजनि०।

रक्तफल = पु० रक्तानि फलान्यस्य। १ वटवृक्षे जटा०। २ विम्बिकायां (तेलाकुचा) स्त्री अमरः टाप्।

रक्तबालुक = न० कर्म०। सिन्दूरे हारा० रक्तबालुकाप्यत्र स्त्री

रक्तमञ्जर = पु० रक्तवर्णा मञ्जरी अस्त्यस्य अच्। निचुलवृक्षे त्रिका०।

रक्तमूला = स्त्री ६ त०। लज्जालुलतायाम्। कप्। देवसर्षपे पु० राजनि०।

रक्तमेह = पु० कर्म०। प्रमेहरोगभेदे “विस्रमुष्णं सलवणं रक्ताभं रक्तमेहतः” भावप्र०।

रक्तमोक्षण = न० ६ त०। रुधिरस्रावणे। “वेदनोपशमार्थाय तथाऽपाकशमाय च। अचिरोत् पतिते शोथे शोणितस्रावणञ्चरेत्”। चरेत् कुर्य्यात्। “एकतस्तु क्रियाः सर्वा रक्तमोक्षणमेकतः। रक्तं हि वेदनामूलं तच्चेन्नास्ति नचापि रुक्। विवर्णे कठिने श्यावे व्रणे चात्यन्तवेदने। सविशेषे विशेषेण जलौकोभिः पदैरपि”। शोणितस्रावणञ्चरेदित्यनेनान्वयः” भावप्र०

रक्तयष्टि = स्त्री रक्तवर्णा यष्टिरस्याः। मञ्जिष्ठायाम् जटा०। कप्। रक्तयष्टिका तत्रैव।

रक्तरणु = पु० रक्ता रेणवोऽस्य। १ पलाशकलिकायाम् २ सिन्दूरे च मेदि० ३ पुन्नागे राजनि०।

रक्तलशुन = न० कर्म०। (लालरशुन) मूलभेद राजनि०।

रक्तला = स्त्री रक्तं रुधिरं हेतुत्वेनास्त्यस्याः लच् तत् लाति सेवनात् ला–क वा। काकतुण्ड्याम् राजनि०।

रक्तवटी = स्त्री रक्तवर्णा वटीव। मसूरिकायाम् त्रिक्वा०।

रक्तवर्ग = पु० रक्ताना वर्मः समुदायः। दाडिमकिंशुकलाक्षाबन्धूकहरिद्राद्वयजवाकुसुम्भपुष्पमञ्जिष्ठालक्तकरूपे समूहे राजनि०।

रक्तवर्ण = पु० रक्तो वर्णाऽस्य। १ इन्द्रगोपकीटभेदे राजनि०। कर्म०। २ रोहितरूपे पु० ३ तद्वति त्रि०।

रक्तवर्द्धन = पु० रक्तं रुधिरं वर्द्धयति भोजनात् वृधणिच्–ल्यु। वर्त्ताकौ शब्दच०।

रक्तवर्षाभू = पु० वर्षायां भवति भू–क्विप् कर्म०। रक्तपुनर्नवायाम् राजनि०।

रक्त(बी)वीज = पु० रक्तवर्णानि वी(बी)जान्यस्य। १ दाडिमे राजनि० रक्तं रुधिरमेव वी(बी)जमुत्पत्तिः कारणं यस्य। “रक्तविन्दुर्यदा भूमौ पतत्यस्य शरीरतः। समुत्पतति मेदिन्यास्तत्प्रमाणस्तदाऽसुरः” देवीमा० उक्ते असुरभेदे

रक्तवृन्ता = स्त्री रक्तं वृन्तं यस्याः। शेफालिकायाम् शब्दच०

रक्तवृष्टि = स्त्री ६ त०। दैवकृतोपद्रवभेदे रुधिरवर्षणे “कृत्यचिन्तामणौ “रक्ते शस्त्रोद्योगो मांसास्थिवसादिभिर्मरकः। धान्यहिरण्यत्वक्फलकुसुमाद्ये वर्षिते भयं विद्यात्” ज्यो० त०।

रक्तशालि = पु० कर्म०। (लालधान) धान्यभेदे भावप्र०। धान्यशब्दे ३८७६ पृ० दृश्यम्।

रक्तशिग्र = पु० कर्म०। (लालसजना) वृक्षभेदे राजनि०।

रक्तशीर्षक = पु० रक्तं शौर्षास्य कप्। १ सरलद्रुमे रत्नमा०। २ रक्तमस्तकके त्रि०।

रक्तशृङ्गिक = न० रक्तं शृङ्गमिवास्त्यस्य ठन्। विषभेदे राजनि०

रक्तसन्ध्यक = न० रक्ता सन्ध्येब कन्। रक्तवर्णे कह्लारे अमरः

रक्तसरोरुह = न० कर्म०। रक्तपद्मे अमरः।

रक्तसर्षप = पु० कर्म०। (राइसर्षा) राजिकायाम् राजनि०।

रक्तसहा = स्त्री रक्तं सहते सह–अच्। रक्ताम्लाने राजनि०

रक्तसार = न० रक्तः सारोऽस्य। १ रक्तचन्दने २ अम्लवेतसे पु० राजनि०।

रक्तसौगन्धिक = न० कर्म०। (नालसुदि) रक्तवर्णकह्लारे जटा०

रक्ताकार = पु० रक्तवर्ण आकारो मूर्त्तिर्यस्य। १ प्रबाले राजनि० २ रक्तमूर्त्तिके त्रि०।

रक्ताक्ष = पु० रक्ते अक्षिणी यस्य षच्समा०। १ पारावते २ महिषे ३ चकोरे राजनि० ४ रक्तनेत्रवति क्रूरे जने च त्रि० ५ सारसे च मेदि०। स्त्रियां जातौ सर्वत्र ङीष्।

रक्ताङ्ग = न० रक्तमङ्गं यस्य यस्माद्वा। १ कुङ्कुमे २ मङ्गलग्रहे ३ कम्पिल्ले (डहरकरमचा) च पु० ४ प्रबाले पुंन० मेदि०। ५ जीवन्त्याम् ६ मञ्जिष्ठायाञ्च स्त्री भावप्र० ङीप्।

रक्ताति(ती)सार = पु० रक्तमिश्रितोऽति(ती)सारः। वैद्यकप्रसिद्धे रोगभेदे। “पित्तकृत्तु यदात्यर्थं द्रव्यमश्नाति पैत्तिके। तद्दोषाज्जायते शीघ्रं रक्तातीसार उल्वणः” भावप्र०। अति(ती)सारशब्दे १०६ पृ० दृश्यम्।

रक्ताधार = पु० ६ त०। देहावरके चर्मणि राजनि०।

रक्तापह = न० रक्तं रुधिरमपहन्ति अप + हन–ड। गन्धरसे वोले राजनि०।

रक्तापामार्ग = पु० कर्म०। (लाल आपाङ) क्षुपभेदे राजनि०

रक्ताम्र = पु० नित्यक०। कोषाम्रे राजनि०।

रक्ताम्लान = पु० कर्म०। रक्तमहासहालतायाम् राजनि०।

रक्तार्बुद = पु० रोगविशेषे। तल्लक्षणं भावप्र० उक्तं यथा “दोषप्रदुष्टा रुधिरं सिराश्च संङ्कोच्य संपीद्ध्य ततस्त्वपाकम्। सस्रावमुन्नह्यति मांसपिण्डं मांसाङ्कुरैरावृतमाशुवृद्धिम्। स्रवत्यजस्रं रुधिरं प्रदुष्टमसाध्य मेतद्रुधिरात्मकन्तु। रक्तक्षयोपद्रवपीडितत्वात् पाण्डुर्भवेदर्बुदपीडितश्चं। दोषोऽत्र पित्तं, रुधिरं सिराश्च सङ्कोच्य संपीड्य संहतीकृत्य मांसासृजोः सर्वेष्वर्बुदेषु दुष्यत्वं, रक्तजे तु विशेषतो रक्तदुष्टिः एवं मांसार्बुदे विशेषतो मांसदुष्टिर्बोद्धव्या। ततो मांसपिण्डमुन्नह्यति उद्गतं करोति। अपाकं ईषत्पाकं यथा स्यादेवमिति क्रियाविशेषणम्। ईषत्पाकश्चैकदेशपाकेन। रक्तक्षयोपद्रवपीडितत्वात् रक्तक्षयोपद्रवाः सुश्रुतेनोक्ताः। तैः पीडितत्वात् अर्बुदपीडितः”। शाततपीयकर्मविपाके “रक्तार्बुदविसर्पाद्या उपपापोद्भवा गदाः” इत्युक्तम्।

रक्तार्शस् = न० अर्शरोगभेदे। तल्लक्षणं भावप्र० उक्तं यथा “रक्तोल्वणा गुदे कीलाः पित्ताकृतिसमन्विताः। वटप्ररोहसदृशा गुञ्जाविद्रुमसन्निभाः। तेऽत्यर्थं दुष्टमुष्णञ्च गाढविड्भिः प्रपीडिताः। स्रवन्वि सहसा रक्तं तस्य चातिप्रवृत्तितः। भेकाभः पीड्यते दु खैः शोणितक्षरसम्भवैः। हीनवर्णवलोत्साहो हतौजाः कलुषैन्द्रियः। विट् श्यावं कठिनं रूक्षमधोवायुर्न वर्त्तते। तनु चारुणवर्णञ्च फेनिलञ्चासृगर्शसम्। कठ्यूरुगुदशूलञ्च दौर्बल्यं यदि वाऽधिकम्। तत्रानुबन्धो वातस्य हेतुर्यदि च रूक्षणम्। शिथिलं श्वेतपीतञ्च विट् स्निग्धं गुरु शीतलम्। यद्यर्शसां घनञ्चासृक् तत्तु सत् पाण्डु पिच्छिलम्। गुदं सपिच्छं स्तिमितं गुरु स्निग्धञ्च कारणम्। श्लेष्मानुबन्धो विज्ञेयस्तत्र रक्तार्शसां बुधैः। गुदे कीला अर्शांसि पित्ताकृतिसदृशाः। दुःखैरोगैः त्वक्पारुष्याम्बुशीतप्रार्थनादिभिः। कलुषेन्द्रियः व्याकुलसर्वेन्द्रियः। रक्तजस्यापि वातोल्वणस्य लक्षणमाह। तत्र रक्तार्शसि अनुबन्धः उल्वणत्वम्। रूक्षणं रूक्षयतीति रूक्षणं रूक्षं द्रव्यम्। पित्तोल्वणस्य लक्षणम् “रक्तोल्वणा गुदे कीलाः पित्ताकृतिसमन्विताः” इत्यादिनैवोक्तम् रक्तपित्तयोः समानलिङ्गत्वात्। कफोल्वणस्य लक्षणमाह। सपिच्छं पिच्छिलार्द्रं स्तिमितमार्द्रचर्मावगुण्ठितमिव”।

रक्तालु = पु० कर्म०। (शकरकन्द) आलुभेदे राजनि०।

रक्तिका = स्त्री रक्तेव कन् अत इत्त्वम्। १ गुञ्जायां २ राजिकायां राजनि० ३ परिमाणभेदे रत्तिकापरिमाणे च।

रक्तेक्षु = पु० कर्म०। (काजला) इक्षुभेदे राजनि०।

रक्तैरण्ड = पु० कर्म०। (लालभेरण्डा) वृक्षभेदे राजनि०।

रक्तोत्पल = न० कर्म०। कोकनदे लोहितवर्णे पद्मे अमरः। रक्तोत्पलमिव पुष्पमस्त्यस्य अच्। २ शाल्मलिवृक्षे (शिमुन) पु० राजनि०। रक्तमुत्पलमिव। ३ नैरिके न० हारा०

रक्तोत्पलाभ = पु० रक्तोत्पलस्य कोकनदस्येवाभा यस्य। १ रक्तरूपे जटा० २ तद्वति त्रि०।

रक्ष = पालने भ्वा० पर० सक० सेट्। रक्षति अरक्षीत् ररक्ष। ञीत् रक्षितो वर्त्तते।

रक्षःसभ = न० रक्षसां राक्षसानां सभा क्लीवत्वम्। राक्षससमूहे अमरः।

रक्षक = त्रि० रक्ष–ण्वुल्। रक्षाकर्त्तरि स्त्रियां टाप् अत इत्त्वम्

रक्षणि(णी) = स्त्री रक्ष–अनि वा ङीप्। त्रायमाणालतायाम् राजनि०।

रक्षस् = न० रक्ष्यते हविरस्मात् रक्ष–अपादानेऽसुन्। राक्षसे अमरः।

रक्षा = स्त्री रक्ष–भावे अ टाप्। १ रक्षणे २ तदर्थे रक्षसूत्रे च “रक्ष०! मा चल मा चल” रक्षाबन्धमन्त्रः। रक्षति रक्ष अच् टाप्। ३ जतुनि मेदि०। ४ भस्मनि च स्त्री शब्दर०। ५ रक्षके त्रि०।

रक्षापत्त्र = पु० रक्षार्थं पत्त्रमस्य। मूर्जपत्त्रवृक्षे राजनि०।

रक्षित = त्रि० रक्ष्यतेऽत्र रक्ष–क्त। १ भाण्डे। २ वैद्यभेदे पु०।

रक्षिवर्ग = पु० रक्षिणां वर्गः। रक्षकसैन्यादिगणे (प्रहरिगण)

रक्षोघ्न = न० रक्षो हन्ति हन–टक्। १ काञ्जिके हेमच०। २ हिङ्गुनि राजनि०। तदुगन्धस्य घ्राणसम्बन्धाद्धि रक्षसामपसरणम्। ३ भल्लातकवृक्षे पु० त्रिका०। ४ श्वेतसर्षपे पु० रत्नमा०। ऋग्वेदप्रसिद्धे “कृष्णष्वपाज” इत्यादिके ऋ० ४। ४। १०। ५ सूक्तभेदे न०। ६ वचायां स्त्री। ७ राक्षसशातकभात्रे त्रि० ङीप्।

रक्षोहन् = पु० रक्षो हन्ति हन + क्विप्। १ गुग्गुलौ राजनि० तद्गन्धघ्राणाद्धि रक्षसामपसरणम्। २ श्वेतसर्षपे पु०। ३ राक्षसहन्तरि त्रि०। “रक्षहणं बलगहनम्” यजु० ५। २३

रक्ष्ण = पु० रक्ष–नङ्। त्राणे अमरः।

रख = सर्पणे भ्वा० पर० सक० सेट् इदित्। रङ्कति अरङ्खीत् रङ्ख्यते।

रख = सर्पणे भ्वा० पर० शक० सेट्। रखति अरखीत् अरास्वीत्।

रग = शङ्कायाम् भ्वा० प० सक० सेट्। रगति एदित् अरगीत् घटा० रगयति।

रग = गतौ भ्वा० पर० सक० सेट् इदित्। रङ्गति अरङ्गीत्।

रग = स्वादे आप्तौ च चु० उभ० सक० सेट्। रागयति अरीरगत् त।

रघ = दीप्तौ चु० उभ० सक० सेट् इदित्। रङ्घयति ते अररङ्घत् त।

रघ = गतौ भ्वा० आ० सक० सेट् इदित्। रङ्घते अरङ्घिष्ट।

रघु = पु० लघ–उ लस्य रत्वम्। सूर्य्यवंश्ये दिलीपसूनौ १ नृपतिभेदे रघोरपत्यमण् बहुषु लुक्। रघुवंश्येषु अजप्रभृतिषु २ क्षत्त्रियेषु ब० ब०। तान् अधिकृत्य कृतो ग्रन्थः अण् आख्यायिकायां तस्य लुक्। कालिदासप्रणीते जनविंशतिसर्गात्मके महाकाव्यभेदे पु०।

रघुनन्दन = पु० रघून् नन्दयति नन्द–णिच् ल्यु। दशरथस्य ज्येष्ठपुत्रे १ श्रीरामे त्रिका० २ भरतादौ च।

रघुनाथ = पु० रधूणां नाथः रक्षकत्वात् श्रेष्ठत्वाद्वा। श्रीरामे शब्दर०। रघुपत्यादयोऽप्यत्र।

रघुवंश = पु० ६ त०। रघुकुले। तमधिकृत्य कृतो ग्रन्थः आख्यायिकायां तस्य लुक्। कालिदासप्रणीते ऊनविंशतिसर्गात्मके महाकाव्यभेदे पु०।

रघुवंशतिलक = पु० रघुवंशे तिलक इव। दशरथनृपस्य ज्येष्ठपुत्रे श्रीरामे।

रघुवर = पु० रघुषु वरः श्रेष्ठः। श्रीरामे।

रघूद्वह = पु० रघुषु उद्वहः रक्षादिभारधारकः उद + वह–अच्। दशरथनृपस्य ज्येष्ठपुत्रे श्रीरामे शब्दर०।

रङ्क = त्रि० रकि–अच्। ३ कृपणे २ मन्दे च मेदि०।

रङ्कु = पु० रकि–उ। १ मृगविशेषे अमरः। २ शवलपृष्ठे मृगे राजनि०

रङ्ग = पुंन० रगि–अच्। १ धातुभेदे (राङ) राजनि०। रन्ज–भावे घञ्। २ रागे। आधारे घञ्। ३ रणभूमौ ५ नाट्यस्थाने च अमरः। करणे घञ्। ४ नृत्ये मेदि०। ६ टङ्कणे (सोहागा) ७ खादिरसारे च राजनि०। रङ्गधातोः शो “धनप्रकारो भावप्र० उक्तो यथा “र(व)ङ्गनागौ प्रतप्तौ च गलितौ तौ निषेचयेत्। त्रिधा त्रिधा विशुद्धिः स्याद्रवि दुग्धेऽपि च त्रिधा”। तैलतक्रकाञ्जिकगोमूत्रकुलत्थक्वाथेषु प्रत्येकं त्रिधा त्रिधा। अथ रङ्गस्य मारणविधिः। “मृत्पात्रे द्राविते र(व)ङ्गे चिञ्चाश्वत्थत्वचोरजः। क्षिप्त्वा र(व)ङ्गचतुर्थांशमयोदर्व्या प्रचालयेत्”। चिञ्चा(अमिली) रजश्चूर्णम्। अयोदर्वी (करछुली)। “ततोद्वियाममात्रेण र(व)ङ्गं भस्म प्रजायते। अथ भस्मसमं तालं क्षिप्त्वाम्लेन विवर्द्धयेत्। ततो गजपुटे पक्त्वा पुनरम्लेन मर्दयेत्। तालेन दशमांशेन याममेकं ततः पुटेत्। एवं दशपुटैः पक्वं र(व)ङ्गं भवति मारितम्। एवं मारितस्य र(व)ङ्गस्य गुणाः। “रङ्गं लघु सरं रूक्षं कुष्ठमेहकफक्रमीन्। निहन्ति पाण्डुं सश्वासं नेत्रमीषत्तुपित्तलम्। सिंहोगजौघन्तु यथा निहन्ति तथैव र(व)ङ्गोऽखिल हेमवर्गम्। देहस्य सौख्यं प्रबलेन्द्रियत्वं नरस्य पुष्टिं विदधाति नूनम्”। तस्याशुद्धस्य दोषमाह “रङ्गोविधत्ते खलुशुद्धिहीनस्तथा ह्यपक्वश्च किलासगुल्मौ। कुष्ठानिशूलं किल वातशोथं पाण्डुं प्रमेहञ्च भगन्दरञ्च। विषोपमं रक्तविकारवृन्दं क्षमञ्च कृच्छ्राणि कफज्वरञ्च। मेहाश्मरीविद्रधिमुख्यरोगान्नागोपि कुर्य्यात् कथितान् विकारान्” तद्भेदो यथा। “श्वेतं मृदु लघु स्वच्छं स्निग्धमुष्णसहं हिमम्। सूत्रपत्त्रकरं कान्तं त्रपु श्रेष्ठमुदाहृतम्। क्षुरकं मिश्रकञ्चापि द्विबिधं र(व)ङ्गमुच्यते। उत्तमं क्षुरकं तत्र मिश्रकं त्वहितं मतम्”। राजनि०।

रङ्गज = न० रङ्गात् रङ्गधातोर्जायते जन–ड। सिन्दूरे रत्नमा

रङ्गजीवक = पु० रङ्गेण रञ्जनेन जीवति जीव–ण्वुल्। (रङ्गरेज) १ शिल्पिभेदे चित्रकरे शब्दर०। २ नाट्यजीविनि च

रङ्गद = पु० रङ्गं रञ्जनं रागं ददाति दा–क। १ टङ्कणे २ खदिरसारे च ३ स्फट्यां स्त्री राजनि०।

रङ्गदायक = पु० रङ्गं ददाति दा–ण्वुल्। १ कङ्गुष्ठे (काङ्गनी) २ धान्यभेदे राजनि०।

रङ्गपत्त्री = स्त्री रङ्गाय पत्त्रमस्याः ङीप्। नीलीवृक्षे राजनि० तत्पत्त्ररसादिना हि नीलरागसम्भवः।

रङ्गपुष्पी = स्त्री रङ्गं पुष्प्यति पुष्प अण् गौरा० ङीष्। नीलीवृक्षे राजनि०।

रङ्गभूमि = स्त्री रज्यतेऽत्र रन्ज–आधारे घञ् कर्म०। १ नाट्यभूमौ शब्दर०। “रङ्गभमिं समासाद्य” इति सा० ६ प०। २ मल्लभूमौ च।

रङ्गमातृ = स्त्री रङ्गस्य रागस्य मातेवोत्पादिका। १ लाक्षायाम् २ कुट्टिन्याञ्च मेदि०। सा हि नायकयोर्वार्त्ताहरणादिद्वारा रागं वर्द्धयति।

रङ्गलासिनी = स्त्री रङ्गं रागं लासयत्युद्भासयति वृन्तरसेन लस–णिच्–णिनि। शेफालिकायाम् शब्दच०।

रङ्ग(बी)वीज = न० रङ्गं वी(बी)जमुत्पत्तिसाधनं यस्य। रजते शब्दर०। कृत्रिमरूप्यस्य पारदयोगात् रङ्गजम् रजतशब्दे दृश्यम्।

रङ्गशाला = स्त्री ६ त०। (नाचघर) नाट्यगृहे शब्दर०।

रङ्गाजीव = पु० रङ्गं रञ्जनं नाट्यस्थानं वा आजीवति आ + जीव–अण्। (रङ्रेज) १ शिल्पिभेदे चित्रकरे अमरः। २ नटे च हेमच०।

रङ्गारि = पु० रङ्गस्यारिरिव जारकत्वात्। करवीरे रत्नमा०। तद्रससंबन्धाद्धि रङ्गस्य जीर्णता वैद्यकप्रसिद्धा।

रङ्गावतारक = पु० रङ्गे नाट्यस्थानेऽवतरति वेशान्तरपरिग्रहेण अव + तॄ–ण्वुल्। १ नटे शैलूषे जटा०। णिनि। उक्तार्थे हेमच०। तदन्नभोजननिषेधो मनुनोक्तो यथा “कर्मारस्य निषादस्य रङ्गावतारकस्य च। सुवर्णकर्त्तुर्वेणस्य शस्त्रविक्रयिणस्तथा। त एतेऽन्ये त्वभोज्यान्नाः क्रमशः परिकीर्त्तिताः। तेषान्त्रगस्थिरोमाणि वदन्त्यन्नं मनीषिणः। भुक्त्वातोऽन्यतमस्यान्नममत्या क्षपणं त्र्यहम्। मत्या भुक्त्वा चरेत् कृच्छ्रं रेतोविण्मूत्रमेव च”।

रङ्गिणी = स्त्री रङ्गमिव शुम्राणि मूलानि सन्त्यस्याः इनि। १ शतमूल्याम् जटा०। २ कैवर्त्तिमुस्तके च राजनि०। ३ रङ्गयुक्ते त्रि०।

रङ्घस् = न० रघि–असुन्। वेगे अमरे पाठान्तरम्।

रच = रचनायां अद० चु० उभ० सक० सेट्। रचयति ते अररचत् त।

रचना = स्त्री रच–युच्। रचने १ पुष्पपत्त्रादेर्विन्यासे अमरः। भावे ल्युट्। तत्रैवार्थे न०।

रज = न० रन्ज–क। १ स्त्रीकुसुमे शब्दर०। २ परागे ३ रेणौ ४ गुणभेदे च पु० जान्ते शब्दच०।

रजक = पुंस्त्री० रजति रन्ज–ण्वुल् नलोपः। वस्त्रादेः रागकारके जातिभेदे (धोपा) अमरः। स च तीवरकन्यायां धीवराज्जातः ब्रह्मवै०। स्त्रियां ङीष्। सा च कुलनायिका “रजकी नापिताङ्गना” तन्त्रम्।

रजत = रन्ज–अतच् नलोपः। १ रूप्ये अमरः। २ गजे ३ दन्ते ४ रुधिरे ५ हारे ६ शैले ७ स्वर्णे ८ धवले च हेमच०। ९ शुक्लगुणवति त्रि०। रूप्यधातोरुत्पत्त्यादि भावप्र० उक्तं यथा “त्रिपुरस्य बधार्थाय निर्न्निमिषैर्विलोचनैः। निरीक्षयामास शिवः क्रोधेन परिपूरितः। अग्निस्तत्कालमपतत्तस्यैकस्माद्विलोचनात्। ततोरुद्रः समभवद्वैश्वानर इव ज्वलन्। द्वितीयादपतन्नेत्रादश्रुविन्दुस्तु वामकात्। तस्माद्रजतमुत्पन्नमुक्तकर्मसु योजयेत्। कृत्रिमञ्च भवेत्तद्धि वङ्गादिरसयोगतः। रूप्यन्तु रजतं तारञ्चन्द्रकान्ति सितप्रभम्। गुरु स्निग्धं मृदु श्वेतं दाहे छेदे घनं क्षमम्। वर्णाढ्यं चन्द्रवत् स्वच्छं रूप्यं नवगुणं शुभम्। कठिनं कृत्रिमं रूक्षं रक्तं पीतदलं लघु। दाहच्छेदघनैर्नष्टं कप्यं दुष्टं प्रकीर्त्तितम्। तारं शरीरस्य करोति तापं शतं घनं यच्छति शुक्रनाशम्। वीर्य्यं बलं हन्ति तनोश्च पुष्टिं महागदान् शोषयति ह्यशुद्धम्”। स्थानान्तरे तत्रैव तस्य शोधनविधिः “पत्तलीकृतपत्त्राणि तारस्याग्नौ प्रतापवेत्। निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके। गोमूत्रे च कुलत्थानां कषायेच त्रिधा त्रिधा। एवं रजतपत्त्राणां विशुद्धिः सम्प्रजायते”। अथाशुद्धस्य रूप्यस्य दोषमाह “रूप्य त्वशुद्धं प्रकरोति तापं विबन्धकं वीर्य्यबलक्षयञ्च। देहस्य पुष्टिं हरते तनोति रोषांस्ततः शोधनमस्य कुर्य्यात्”। अथ रूप्यमारणविधिः “भागैकं तालकं मद्यं याममम्लेन केनचित्। तेन भागत्रयं तारपत्त्राणि परिलेपयेत्। धृत्वा मूषाः पुटे रुद्ध्वा पुटेत् त्रिंशद्वनोपलैः। समुद्धृत्य पुनस्तालं दत्त्वा रुद्ध्वा पुटे पचेत्। एवं चतुर्द्दशपुटैस्तारम्भस्म प्रजायते”। अथान्य प्रकारः “स्नुहीक्षीरेण संपिष्टं माक्षिकं तेन लेपयेत्। तालकस्य प्रकारेण तारपत्त्रस्य बुद्धिमान्। पुटेच्चतुर्द्दश पुटैस्तारम्भस्म प्रजायते”। एवं मारितस्य रूप्यस्य गुणः “रौप्यं शीतं कषायञ्च स्वादु पाकरसं सरम्। वयसः स्थापनं स्निग्धं लेखनं वातपित्तजित्। प्रमेहादिकरोगांश्च नाशयत्यचिराद् ध्रुवम्।”

रजताचल = पु० रजतकल्पितोऽचलः। दानार्थं कल्पिते रजतमये पर्वते मत्स्यपु० ७७ अ० तद्विधिर्दृश्यः। रजतमिव शुभ्रोऽचलः। २ कैलासपर्वते रजतगिर्य्यादयोऽप्यत्र पु०

रजन = न० रन्ज–क्युन्। १ रागे सि० कौ०। २ कुसुम्भे ३ हरिद्रायां ४ रात्रौ च स्त्री उज्ज्वलः गौरा० ङीष्।

रजनि(नी) = स्त्री रज्यतेऽत्रं रन्ज–कनि वा ङीप्। १ रात्रौ २ हरिद्रायां ३ जतुकायाञ्च अमरः।

रजनीकर = पु० रजनीं करोति कृ–ट रजन्यां करः किरणोऽस्य वा। १ चन्द्रे शब्दर० २ कर्पूरे च।

रजनीगन्धा = स्त्री रजन्यां गन्धो यस्याः। स्वनामख्याते पुष्पप्रधाने वृक्षे।

रजनीचर = पुंस्त्री० रजन्यां चरति चर–ट। १ राक्षसे शब्दर० स्त्रियां ङीष्। २ चौरे २ यामिकभेदे च।

रजनीजल = न० रजन्या जलमिव। नीहारे हारा०।

रजनीपुष्प = पु० रजन्या हरिद्राया इव पुष्पमस्य। (पूतिकरमचा) करञ्जभेदे राजनि०।

रजनीमुख = न० ६ त०। प्रदोषे सूर्य्यास्तकालात् चतुर्दण्डात्मके मुहूर्त्तात्मके वा काले अमरः। प्रदोषशब्दे दृश्यम्।

रजनीहासा = स्त्री रजन्यां हासो विभाशो यस्याः। शेफाविकायाम् शब्दर०।

रजस् = न० रन्ज असुन् नलोपः। १ कुसुम्भे अमरः। २ पुष्परेणौ ३ परागे ४ धूलौ मेदि० साङ्ख्योक्ते चलनादियुते ५ प्रकृति गुणभेदे च “सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलञ्च” रजः” सा० का०। “सत्त्वतमसी स्वयमक्रियतया स्वस्वकार्य्यप्रवृत्तिं प्रत्यवसीदन्ती रजसोपष्टभ्येते अवसादात् प्रच्याव्य स्वकार्य्ये ते उत्साहं प्रयत्नं कार्य्येते तदिदमुक्तमुपष्टम्भकं रज इति। कस्मादित्यत उक्तं चलमिति। तदनेन रजसः प्रवृत्त्यर्थत्वं दर्शितम्” त० कौ०। ६ पृथिव्यां स्त्री ङीप् निघण्टुः।

रजस्वल = त्रि० रजोऽस्त्यस्य बलच्। १ रजोयुक्ते २ महिषे पुंस्त्री० मेदि० स्त्रियां ङीष्। आर्त्तववत्यां स्त्रियां स्त्री टाप् अमरः।

रजोरस = न० रजस इव रसोऽनुभवोऽस्य। अन्धकारे त्रि०।

रजोवल = न० रज इव वलति। वल–अच्। अन्धकारे त्रिका०

रज्जु = स्त्री सृज–उ नि०। १ बन्धनसाधने दामनि अमरः (दडि) २ वेण्याञ्च मेदि०।

रञ्जक = न० रञ्जयति रन्ज–णिच्–ल्युल्। १ हिङ्गुले राजनि० २ प्रीतिकारके त्रि०। ३ काम्पिल्लवृक्षे पु० (डहरकरमचा) राजनि०।

रञ्जन = न० रज्यतेऽनेन रन्ज–करणे ल्युट्। १ रक्तचन्दने २ हिङ्गुले ३ मुञ्जतृणे राजनि० ४ मञ्चिष्ठायां ५ नील्यां ६ गुण्डरोचनिकायां (कमलागुडि) स्त्री मेदि० ङीप्। ६ शेफालिकायां शब्दच०। ७ हरिद्रायां ८ पर्पट्याञ्च स्त्री राजनि० ङीप्। भावे ल्युट्। ९ रागे। णिच् कर्त्तरिल्यु। १० रागजनके त्रि०। संज्ञायां कन्। ११ कट फले पु० राजनि०

रट = भाषणे भ्वा० पर० सक० सेट्। रटति अराटीत् अरटीत् रेटतुः “माघे मासि रटन्त्यापः” मल० त०।

रटन्ती = स्त्री रट–बा० झश् ङीप्। “माघे मास्यसिते पक्षे रटन्त्याख्या चतुर्द्दशी। तस्यां प्रदोषसमये पूजयेत् मुण्डः मालिनीम्” इत्युक्तायां माघकृष्णचतुर्दश्याम्।

रठ = भाषणे भ्वा० पर० सक० सेट्। रठति अराणीत् अरठीत् रेठतुः।

रण = गतौ भ्वा० पर० सक० सेट्। रणति अराणीत् अरणीत् रेणतुः। घटादि०। रणयति।

रण = रवे भ्वा० पर० अक० सेट्। रणति अराणीत् अरणीत् रेणतुः।

रण = पुंन० अर्द्धर्च्चा० रण० “वशिरण्योः” वार्त्ति० अप्। १ युद्धे अमरः। भावे अप्। २ शब्दे ३ कणे पु० मेदि० ४ गतौ च पु० शब्दर०।

रणरणक = पु० रणः शब्दस्तत्प्रकारः प्रकारे द्वित्वम् ततः संज्ञायां कन्। १ उद्वेगे हेमच० २ अतिशये च।

रणसङ्कुल = न० रणमेव सङ्कुलम्। तुमुलयुद्धे अमरः।

रण्ड = पु० रम–ड तस्य नेत्त्वम्। १ धूर्त्ते २ विफले अर्द्धाङ्गविशिष्टतया ३ छिन्नावयवे त्रि० संक्षिप्तसारः। ४ मूषिकपर्ण्टां स्त्री अमरः। ५ विधवायाञ्च स्त्री। स्वार्थे क। अफलवृ० क्षादौ शब्दच०।

रण्डाश्रमिन् = पु० रण्डः विफलः प्रजाहीनत्वात् आश्रमः अस्त्यस्य इनि। “चत्वारिंशद्वत्सराणां साष्टानाञ्च परे यदि। स्त्रिया वियुज्यते कश्चित् स तु रण्डाश्रमी मतः” इत्युक्तवयसि स्त्रीवियुक्ते पुरुषे।

रत = न० रम–भावे क्त। १ रमणे स्त्रीपुंसयोः सङ्गमे मैथुने अमरः। २ गुह्ये च मेदि०। कर्त्तरि क्त। ३ अनुरक्ते त्रि०।

रतक्रिया = स्त्री रतये रतिरूपो वा क्रिया व्यापारः। स्त्रीपुंससङ्गमसाध्ये मैथुने।

रतगुरु = पु० ७ त०। वत्यौ त्रिका०।

रति = स्त्री रम–क्तिन्। १ रागे २ गुह्ये ३ रमणे ४ तदधिष्ठात्र्यां कामदेवपत्न्यां च मेदि०।

रतिपति = पु० ६ त०। कन्दर्पे अमरः। रतिकान्तादयोऽप्यत्र।

रतिप्रिय = पु० ६ त०। १ कामदेवे शब्दर०। ६ ब०। २ रमणप्रिये त्रि०

रतिबन्ध = पु० रतौ बन्धः। रतिमञ्जर्य्युक्ते षोडशप्रकारे रमणबन्धभेदे “न भवन्ति यदा नार्य्यस्तुष्टा वाद्यरतेन ताः। नानाविधैस्तदा बन्धै रन्तव्या काभिभिः स्त्रियः। पद्मासनो १ नागपाशो २ लतावेष्टो ३ऽर्द्धसंपुटम् ४। कुलिशं ५ सुन्दर ६ श्चैव तथा केशर ७ एव च। हिल्लोलो ८ नरसिंहो ९ऽपि विपरीत १० स्तथाऽपरः। ११ क्षुब्धो वै धेनुक १० श्चैवमुत्कण्ठ १३ स्तु ततः परम्। सिंहासनो १४ रतिनागो १५ विद्याधर १६ स्तु षोडशः” रतिमञ्जरी। तत्तल्लक्षणं तत्र दृश्यम्।

रतिमन्दिर = न० ६ त०। १ रतिगृहे २ स्त्रीणामसाधारणचिह्ने च जटा०।

रतिरमण = पु० रतिं रमयति रम–णिच्–ल्यु। कामदेवे।

रतिलक्ष = न० रतेर्लक्षं पदम्। मथुने हारा०।

रतिसत्वरा = स्त्री रतिं सत्वरयति सत्वरा + करोत्यर्थे णिचण्। (पिडिङ्ग) शाके शब्दच०।

रत्न = न० रमतेऽत्र रम–न तान्तादेशः। १ माणिक्यादिप्रस्तरे अमरः। २ स्वस्वजातिषु श्रेष्ठे मेदि० ३ माणिक्ये ४ हीरके च राजनि०। तद्भेदादिकं वृ० स० ८० अ० उक्तं यथा “रत्येन शुभेन शुभं भवति नृपाणामनिष्टमशुभेन। यस्मादतः परीक्ष्यं दैवं रत्नाश्रितं तज्ज्ञैः। द्विपहयबनितादीनां स्वगुणविशेषेण रत्नशब्दोऽस्ति। इह तू- पुलरत्नानामधिकारो वज्रपूर्वाणाम। रत्नानि बलाद्दैत्याद् दधीचितोऽन्ये वदन्ति जातानि। केचिद्भुवः स्वभावाद् वैचित्र्यं प्राहुरुपलानाम्। वज्रेन्द्रनीलमरकतकर्केतनपद्मरागरुधिराख्याः। वैदूर्य्यपुलकविमलकरराजमणिस्फटिकशशिकान्ताः। सौगन्धिकगोमेदकशङ्खमहानीलपुष्परागाख्याः। ब्रह्ममणिज्योतीरसशस्यकमुक्ता प्रवालानि”।

रत्नकन्दल = पु० रत्नेषु कन्दल इव रक्तत्वात्। प्रबाले शब्दर०।

रत्नकूट = पु० रत्नमयः कूटः शृङ्गमस्य। पर्वतभेदे शब्दर०।

रत्नगर्भ = पु० रत्नयुक्तं गर्भं मध्यं यस्य शा० त०। १ समुद्रे राजनि० २ कुवेरे च त्रिका०। ३ पृथिव्यां स्त्री हेमच० ४ सत्पुत्रायां नार्य्याञ्च स्त्री।

रत्नद्वीप = पुंन०। रत्नमयो द्वीपः। तन्त्रोक्ते सुधासमुद्रमध्यस्थिततया ध्येये रत्नमयेऽन्तरीपे।

रत्नधेनु = स्त्री रत्नकल्पिता धेनुः। महादानार्थं कल्पितायां रत्ननिर्मितायां धेन्वाम्। मत्स्यपु० २८७ अ० दृश्यम्।

रत्नपारायण = न० रत्नानां पारायणं साकल्येन स्थानम्। सर्वरत्नाधारे “रत्नपारायणं नाम्ना लङ्का” भट्टिः।

रत्नमुख्य = न० रत्नेषु मुख्यम्। हीरके अमरः।

रत्नवती = स्त्री रत्नानि सन्त्यस्याः मतुप् मस्य वः। १ पृथिव्याम् शब्दर०। २ रत्नयुक्ते त्रि०।

रत्नसानु = पु० रत्नानि सानावस्य। सुमेरुपवत अमरः।

रत्नसू = स्त्री रत्नानि सूते सू–क्विप्। पृथिव्याम् हेमच०।

रत्नाकर = पु० ६ त०। १ समुद्रे अमरः। रत्नोत्पत्तिस्थाने २ मणिखनौ च।

रत्नाचल = पु० रत्ननिर्मितः अचलः। दानार्थं कल्पिते रत्ननिर्मिते पर्वते धान्यशैलशब्दे ३८८१ पृ० दृश्यम्।

रत्नाभरण = न० रत्नघटितमाभरणम् शाक० त०। (जडाओ) भूषणभेदे।

रत्नावली = स्त्री ६ त०। १ रत्नसमूहे तद्घटितहारे ३ वत्सराजपत्नीभेदे च रत्नावलीमधिकृत्य कृतः ग्रन्थोऽण् आख्यायिकायां तस्य लुक्। श्रीहर्षकृते चतुरङ्कात्मके ४ नाटिकाभेदे।

रत्नि = पुंस्त्री० ऋ–कत्निच्। बद्धमुष्टिहस्तपरिमाणे अमरः। स्त्रीत्वे वा ङीप्।

रथ = पु० रम्यतेऽनेन अत्र वा रम–क्थन्। १ स्वनामख्याते यानभेदे अमरः। २ देहे च “आत्मानं रथिनं बिद्धि शरीरं रथमेव च” इति गीता। अत्र रूपकमित्यन्ये ३ पादे ४ वेतसवृक्षे विश्वः ५ तिनिसवृक्षे राजनि०। वानरूपरथभेदादिकं हेमच० उक्तं यथा “युद्धार्थे चक्रवद्याने शताङ्गः स्यन्दनो रथः। संकीडार्थः पुष्यरथो देवार्थस्तु, मरुद्रथः। योग्योरथो वैनयिकोऽध्वरथः परिघातिकः। कर्णीरथः प्रवहणं डयनं रथगर्भकः। अनस्तु शकटोऽथ स्याद्गन्त्री कम्बलि वाह्यकम्। अथ काम्बलवास्त्राद्यास्तैस्तैः परिवृते रथे। स पाण्डुकम्बली यः स्यात् संवीतः पाण्डुकम्बलैः। स तु द्वैपो वैयाघ्रश्च वृतो यो द्वीपिचर्मणा। ज्योतिर्विदाभरणे तत्करणर्क्षादि उक्तं यथा “लोलमैत्रलघुजिष्णुकभेषु स्यन्दनाखिलविधानमथाहुः। सेनसद्द्युषु बलाम्बुतपःस्थैः साधुराशिमति साधुभिरङ्गे। रथचक्रभागमाह “उष्णवृष्णिकरकर्णयुगाक्षाद्देयमृक्षवलयं वलयस्य। सव्यभागनिचितभ्रममग्रादादिमध्यमनसो नवभागम्। अग्रभे भवति सङ्कलिरन्तः कूवरोडुनि जयोऽथ रथाङ्गे। सन्धिभेऽर्थहृतिरन्तरसन्धौ भीतिरिष्टमनसो ननु गर्भे। अथ रथकृत्यमुहूर्त्त “पुष्ये पुनर्वसुज्येष्ठानुराधारेवतीद्वये। श्रवणादित्रिभे हस्तत्रितये रोहिणीमृगे। सार्के सौम्यदिने सौम्यबिलग्ने रथकर्म सत्”।

रथकड्या = स्त्री रथानां समूहः रथ + कड्यच्। रथसमूहे अमरः

रथक(का)र = पु० रथं करोति कृ–अच्–अण् वा। १ रथनिर्माणकारके (सूत्रधार) २ वर्णसङ्करभेदे करण्यां माहिष्याज्जाते पुंस्त्री०।

रथकुटुम्बिन् = पु० रथस्य कुटुम्बीव चालकत्वात्। सारथौ अमरः।

रथगर्भक = पु० रथस्य गर्भमिव इवार्थे कन्। १ कर्णीरथे २ स्कन्धबाह्ययाने (पालकी) हेमच०।

रथगुप्ति = स्त्री रथस्य गुप्तिः शस्त्रवारणार्थं रक्षा उपचारात् तत्स्थानम्। रथस्य शस्त्रवारणार्थे गुप्तस्थाने अमरः।

रथचरण = पु० रथस्य चरण इव गतिहेतुत्वात्। १ रथचक्रे तन्नामनामके २ चक्रवाकविहगे पुंस्त्री० शब्दर० स्त्रियां ङीष्। रथपादादयोऽप्यत्र।

रथद्रु = पु० रथनिर्माणाय द्रुः रथनामको वा द्रुः। तिनिशवृक्षे अमरः।

रथन्तर = त्रि० रथेन तरति तॄ–खच् मुम् च। १ रथनेतरि। “अभित्वा शूर” इत्यस्यामृचि गीते २ सामभेदे न०। “स्वरादिविशेषानुपूर्वीमात्रस्वरूपे ऋगक्षरव्यतिरिक्तं यत् गानम् तद्रथन्तरम्” सामार्चिकभाष्यम्। “वामदेव्यं वृहत् साम ज्येष्ठसाम रथन्तरम्” इत्युपक्रमे “पश्चिमे द्वारपालौ तु पठेतां सामगाविति” वि० पा०।

रथयात्रा = स्त्री रथेन यात्रा। आषाढशुक्लद्वितीयायां जग- न्नाथस्य रथेन २ यात्रायां २ तत्र कर्त्तव्ये उत्सवभेदे च।

रथाङ्ग = न० अङ्ग्यते गम्यतेऽनेन अगि करणे घञ् ६ त०। १ चक्रे। रथाङ्गशब्दः वाचकत्वेनास्त्यस्य अच्। २ चक्रवाके पुंस्त्री० अमरः स्त्रियां ङीष्।

रथाङ्गपाणि = पु० रथाङ्गं चक्रं सुदर्शनं पाणौ यस्य। चक्रधरे विष्णौ हला०।

रथाभ्र = पु० रथ इवाभ्रियतेऽसौ आ + भृ–मूल० क। वेतसवृक्षे शब्दर०।

रथाभ्रपुष्प = पु० अभ्रमिव पुष्पमस्य रथनामकोऽभ्रपुष्पः कर्म०। वेतसवृक्षे भरतः।

रथारोहिन् = पु० रथमारोहति आ + रुह णिनि। १ रथिनि २ रथेन युद्धकारके च हेमच०।

रथिक = पु० रथो युद्धसाधनत्वेनास्त्यस्य ठन्। १ रथिनि २ तिनिशवृक्षे च राजनि०। इर। रथिर। इन। रथिन। इनि। रथिन् एतेऽप्यत्र।

रथोपस्थ = न० रथस्य उपस्थ इव। रथमध्ये। “रथोपस्थ उपाविशत्” गीता।

रथ्य = पुंस्त्री० रथं वहति यत्। १ रथवाहके घोटके अमरः स्त्रियां ङीष्। रथस्येद यत्। २ रथसम्बन्धिनि चक्रादौ त्रि० हेमच०। द्राह्यायणः “यद्रथ्यं स्याद्वायोरिति चर्मण्यं प्रतिगृह्णीयात्” “रथ्यं रथसम्बन्धि चर्मण्यं लोहहिरण्यादिनिर्मितम्” ताण्ड्य० ब्रा० १। ७। २ भा०। रथस्य तद्गमनस्य योग्या शरणिः। ३ प्रशस्तपथे अभ्यन्तरमार्गे स्त्री अमरः। रथानां समूहः यत्। ४ रथसमूहे च स्त्री अमरः १५ आवर्त्तन्यां स्त्री मेदि०। ६ मार्गमात्रे ७ चत्वरे च स्त्री हेमच०।

रद = उत्खाते भ्वा० प० सक० सेट्। रदति अरादीत् अरदीत् रेदतुः।

रद = पु० रदति उत्खनति रद–अच्। १ दन्ते। भावे बा० अप्। २ उत्खनने मेदि०।

रदच्छद = पु० द्वि० व०। रदान् छादयति छद–णिच्–घ ह्रस्वः। ओष्ठयोः हारा०। रदनादिच्छदादयोऽप्यत्र।

रदन = पु० रद–करणे ल्यु। १ दन्ते अमरः। भावे ल्युट्। २ विदारणे।

रध = हिंसने पाके च दि० पर० सक०। रध्यति ऌदित् अरन्धत् ऊदित् वेट् रधिता रद्धा।

रन्ज = रागे (वर्णान्तराधाने) सक० आसक्तौ अक० भ्वा० उभ० अनिट्। रजति ते अराङ्क्षीत् अरङ्क्त। घटा० रञ्जयति मृगरमणे तु रजयति।

रन्ज = रागे आसक्तौ दिवा० उभ० सक० अनिट्। रज्यति रज्यते अराङ्क्षीत् अरङ्क्त। घटा० रञ्जयति रजयति।

रन्तिदेव = पु० रम–संज्ञायां तिक् कर्म०। १ विष्णौ मेदि०। २ चन्द्रवंश्ये नृपभेदे ३ कुक्कुरे च पुंस्त्री० शब्दर० स्त्रियां ङीष्।

रन्तु = पु० रम–आधारे तुन्। १ बर्त्मनि २ नद्याञ्च मेदि०।

रन्धन = न० रध–पाके ल्युट् नुमागमः। “पाके मुरहर! रन्धनसमये” इत्युद्भटः। “रन्धनाय स्थाली” सि० कौ०।

रन्ध्र = न० रम–क्विप् धृ–मूल० क कर्म०। १ छिद्रे २ दूषणे मेदि० ज्योतिषोक्ते ३ लग्नतोऽष्टमस्थाने च।

रन्ध्रकण्ट = पु० रन्ध्रे रन्ध्रे कण्टः कण्टकोऽस्य। जालबर्बुरकवृक्षे राजनि०।

रन्ध्रबभ्रु = पु० रन्ध्रे गर्त्ते बभ्रुरिव। उन्दुरौ त्रिका०।

रन्ध्रवंश = पु० रन्ध्रबहुलो वंशः शाक० त०। (तलतावा~श) वंशभेदे। “वंशौ त्वम्लौ कषायौ च किञ्चित्तिक्तौ च शीतलौ। मूत्रकृच्छ्रप्रमेहार्शःपित्तदाहास्रनाशनौ। विशेषात् रन्ध्रवंशस्तु दीपनोऽजीर्णनाशकः। रुचिकृत् पाचनो हृद्यः शूलघ्नो गुल्मनाशनः” राजनि०।

रप = व्यक्तवाक्ये भ्वा० प० सक० सेट्। रपति अरापीत् अरपीत् रराप रेपतुः।

रफ = गतौ हिंसे च भ्वा० प० सक० सेट्। रफति। अरफीतराफीत्। इदिदप्ययम्। रम्फति अरम्फीत् रम्फ्यते।

रब = गतौ सक० प० शब्दे अक० आ० भ्वा० सेट् इदित्। रम्बति ते अरम्बीत् अरम्बिष्ट।

रभ = औत्सुक्ये भ्वा० आ० अक० अनिट्। रभते अरब्ध रेभे आ + आरम्भे सक०। अलिट्यजादौ आर्द्धधातुके मुम्। आरम्भः आरम्भणम्। लिटि तु आरेभे।

रभ = शब्दे भ्वा० आ० अक० सेट् इदित्। रम्भते अरम्भिष्ट।

रभस = पु० रभ–असच्। १ वेगे २ हर्षे मेदि० ३ औत्सुक्ये ४ पौर्वापर्य्याविचारे च अमरः। अर्श आद्यच्। ५ वेगादियुक्ते त्रि० ६ कोषकारकभेदे पु०। ७ महति त्रि० निघ०।

रम = क्रीडायां भ्वा० आ० अक० अनिट्। रमते विरमति उपरमति अरंस्त उपारंसीत्। क्त्वा वेट्। णिचि रमयति। ज्वला० ण रमः रामः।

रम = पु० रम–अच्। १ कान्ते २ अशोकवृक्षे ३ कामदेवे च मेदि

रमठ = न० रम–अटन्। हिङ्गुनि स्वार्थे अण्। अत्रैव न० अमरः

रमठध्वनि = पु० रमठ इतिशब्देन ध्वन्यते ध्वन–इन्। हिङ्गुनि शब्दच०।

रमण = पु० रमयति–रम–णिच् ल्यु। १ कामदेवे २ पत्यौ। “रमण! त्वामनुयामि यद्यपि” कुमा०। ३ गर्दभे पुंस्त्री० हेमच० स्त्रियां ङीष्। ४ वृषणे शब्दच० ५ महारिष्टे (निम) राजनि०। जम्बुद्वीपान्तर्गते ६ रम्यकनाम्नि वर्षे च। रम–भावे ल्युट्। ७ सुरते न०। करणे ल्युट्। ८ पटोलमूले न० मेदि०। ९ जघने न० हेमच०। रम्यतेऽनया ल्युट् ङीप्। १० नार्य्याम् ११ उत्तसनार्य्याम् स्त्री मेदि०। १२ बालाख्यवृक्षे च स्त्री शब्दचन्द्रिकाकोषः।

रमणीय = त्रि० रम्यतेऽत्र रम–आधारे–अनीयर्। सुन्दरे। ततो भावे वुण्। रामणीयक तद्भावे न०।

रमति = पु० रम–अतिच्। १ नायके २ स्वर्गे मेदि०। ३ कामे शब्दर० ४ काले ५ कामदेवे सि० कौ०।

रमल = न० ज्यौतिःशास्त्रभेदे यत्र पाशकक्षेपणेन लग्ननिर्णयद्वारा प्रश्नादिफलप्रतिपादनम्।

रमा = स्त्री रमयति रम–अच्। १ लक्ष्म्याम् मेदि० २ कल्किभार्य्यायां कल्किपु०। ३ शोभायां राजनि०।

रमापति = पु० ६ त०। नारायणे रमानाथतत्कान्तादयोऽप्यत्र

रमाप्रिय = न० ६ त०। १ पद्मे शब्दच०। २ विष्णौ पु०।

रम्भ = पु० रभि–अच् मुम्। १ रेणौ २ असुरभेदे च मेदि०। स च महिषासुरजनकः कालिकापु०। ४ कदल्याम् ५ अप्सरोभेदे स्त्री मेदि० ६ वेश्यायां धरणिः। ७ गवां ध्वनौ हेमच०। ८ गौर्य्याञ्च स्त्री शब्दर०। ९ उत्तरस्यां दिशि निघण्टुः।

रम्भातृतीया = स्त्री रम्भा गौरी ६ त० १ मार्गशीर्षशुक्लतृतीयायाम् उपचारात् तत्र कर्त्तव्ये गौरीपूजाङ्गके २ व्रतभेदे च।

रम्य = त्रि० रम्यतेऽत्र यत्। १ सुन्दरे मेदि० २ बलकरे जटा०। ३ चम्पके पु० मेदि० ४ वकवृक्षे पु० शब्दच०। ५ पटोलमूले न० मेदि०। संज्ञायां कन्। ६ प्रधानधातौ शुक्रे न० जटा०। जम्बुद्वीपस्थेषु नवसु वर्षेषु मध्ये “दक्षिणेन सुमेरोस्तु श्वेतस्य चोत्तरेण च वायव्यं रम्यकं नाम” इत्युक्ते ७ वर्षभेदे।

रम्यपुष्प = पु० रम्याणि पुष्पाण्यस्य। शाल्मलीवृक्षे राजनि०।

रम्या = स्त्री रम्यतेऽत्र यत्। १ स्थलपद्मिन्याम् राजनि०। २ रात्रौ च मेदि०।

रय = गतौ भ्वा० आ० सक० सेट्। रयते अरयिष्ट। अरयिढ्वम् अरयिध्वम्।

रय = पु० रय–अच्। १ वेगे अमरः। २ प्रवाहे च।

रयि = न० रय–इन्। १ जले २ धने च निघण्टुः।

रराट = न० ललाट + पृषो०। ललाटे “विष्णोरराटममि” यजु० ५। २१

रल्लक = पु० रम–क्विप् मलोपे तुक् ला–क कर्म०। १ मृगभेदे मुकुटः। २ कम्बले अमरः ३ नेमलोम्नि च भूभूतिः।

रव = गतौ भ्वा० आ० सक० सेट् इदित्। रण्वते अरण्विष्ट।

रव = पु० रु–ध्वनौ अप्। शब्दे अमरः।

रवण = पुंस्त्री० रु–युच्। १ कोकिले सि० कौ० ३ उष्ट्रे च हेमच० स्त्रियां ङीष्। ३ कांस्ये न० हेमच०। ४ शब्दकारके ५ तीक्ष्णे ६ चञ्चले ७ भण्डले च त्रि० शब्दर०।

रवि = पु० अव–इन् रुट्च्। १ सूर्य्ये शब्दर०। २ अर्कवृक्षे च “अचिरात्तु प्रकाशेन अवनात् स रविः स्मृतः” मत्स्यपु० तन्नामनिरुक्तिः। ३ द्वादशसंख्यायाम्।

रविज = पु० रवेर्जायते जन–ड। १ शनौ २ सावर्णिमनौ ३ वैवस्वते मनौ ४ सुग्रीवे वानरे ५ यमे च ६ यमुनायां स्त्री रवितनयादयोऽप्यत्र।

रविनाथ = न० रविर्नाथः प्रकाशकत्वात् यस्य। १ पद्मे २ बन्धूके च शब्दच०।

रविनेत्र = पु० रविर्नेत्रं यस्य। विष्णौ रविलोचनादयोऽप्यत्र। “चक्षुः सूर्य्यो अजायत” पुरुषसू० उक्तेस्तस्य तथात्वम्।

रविप्रिय = न० ६ त०। १ रक्तकमले २ ताम्रे च ३ करवीरे पु० राजनि० ४ आदित्यपत्त्रे ५ जलचरे पु० शब्दच०।

रविरत्न = न० रवेः प्रियं रत्नम् शा० त०। माणिक्ये राजनि०।

रविलौह = न० रवेः प्रियं लौहं धातुः। ताम्रे राजनि०।

रश = स्वने सौ० पर० अक० सेट्। रशति अराशीत् अरशीत्

रशना = स्त्री अश–युच् रशादेशः। १ काञ्च्याम् २ जिह्वायाञ्च शब्दर०। ३ दामनि च “इमामगृभ्नन् रशनामृतस्य” श्रुतिः तत्रार्थे दन्त्यमध्य एवेत्यन्ये।

रश्मि = पु० अश–मि धातोरुट् रश–मि वा। १ किरणे २ अश्वादि दामनि ३ पद्मे न० मेदि०। रवेः रश्मिमेदादिकार्य्यं मत्स्यपु० १०३ अ० उक्तं यथा “तेजोभिः सर्वलोकेभ्यो ह्यादत्ते रश्मिभिर्जलम्। समुद्राद्वायुसंयोगाद् वहन्त्यापो गभस्तयः। ततस्तु पयसां काले परिवर्त्तन् दिवाकरः। नियच्छत्यपो मेघेभ्यः शुक्लाशुक्लैस्तु रश्मिभिः”। कूर्मपु० ४ अ० विस्तरेणोक्तं यथा “एवमेष महादेवो देवदेवः पितामहः। करोति नियतं कालं कालात्मा ह्येश्वरी तनुः। तस्य ये रश्मयो विप्राः सर्वलोकप्रदीपकाः। तषां श्रेष्ठाः पुनः सप्तरश्मयो ग्रहयोनयः। सुषुम्णोहरिकेशश्च विश्वकर्मा तथैव च। विश्वव्यचाः पुनश्चान्यः सम्पद्दसुरतः प्ररः। अर्वाग्वसुरिति ख्यातः स्वराडन्यः प्रकीर्त्तितः। सुषुम्णः सूर्य्यरश्मिस्तु पुष्णाति शिशिरद्युसिम्। तिर्य्यगूर्द्ध्वप्रचारोऽसौ सुषुम्णःः परिगीयते। हरिकेशस्तु यः प्रोक्तो रश्मिर्नक्षत्रपोषकः। विश्वकर्मा तथा रश्मिर्बुधं पुष्णाति सर्वदा। विश्वव्यचास्तु यो रश्मिः शुक्रं पुष्णांति नित्यदा। सम्पद्वसुरिति ख्यातं स पुष्णाति च लोहितम्। वृहस्पतिं प्रपुष्णाति रश्मिरर्वाग्वसुः प्रभोः। शनैश्चरं प्रपुष्णाति सप्तसश्च स्वराट् तथा। एवं सूर्य्यप्रभावेन सर्वा नक्षत्रतारकाः। वर्द्धन्ते वर्द्धिता नित्यं नित्यमाप्यायवन्ति च। दिव्यानां पार्थिवानाञ्च नैशानाञ्चैव सर्वशः। आदानान्नित्यमादित्यस्तेजसा तमसां प्रभुः। आदत्ते स तु नाडीनां सहस्रेण समन्ततः। नादेयांश्चैव सामुद्रान् कूपांश्चैव सहस्रकम्। स्थावरान् जङ्गर्माश्चैव यच्च कुल्यादिकं पयः। तस्य रश्मिसहस्रन्तु शीतवर्षोष्णनिस्रवम्। तासां चतुःशतं नाद्ध्यो वर्षन्ते चित्रमूर्त्तयः। छन्दनाश्चैव वाह्याश्च कोतनाभृकणास्तथा। अमृता नामतः सर्वा रश्मयो वृष्टिसर्जनाः। हिमोद्वहाश्च तामस्यो रश्मयस्त्रिशतं पुनः। वश्यो मेष्यश्च पैष्यश्च ह्रादिन्यो हिमसर्जनाः। चन्द्रास्ता नामतः सर्वाः पीताभाः स्युर्गभस्तयः। शुक्राश्च ककुभश्चैव गावो विश्वभृतस्तथा। शुक्रास्ता नामतः सर्वास्त्रिविधा धर्मसर्जनाः। समं विभर्त्ति ताभिः स मनुष्यपितृदेवताः। मनुष्यानौषधेनेह स्वधया च पितॄनपि। अमृतेन सुरान् सर्वान् त्विषा त्रीस्तर्पयत्यसौ। वसन्ते ग्रीष्मके चैव शतैः सन्तर्पति त्रिभिः। शरद्यपि च वर्षासु चतुर्भिः स प्रवर्षति। हेमन्ते शिशिरे चैव हिममुत्सृजति त्रिभिः। वरुणो १ माथमासे तु सूर्य्यः पूषा २ तु फाल्गुने। चैत्रे ३ मासि भवेदीशो धाता ४ वैशास्यतापनः। ज्यैष्ठमासे भवेदिन्द्र ५ आषाढे सविता ६ रविः। विव ७ स्वान् श्रावणे मासि प्रौष्ठपद्यां भगः ८ स्मृतः। पर्जन्यो ९ऽश्वयुजि त्वष्टा १० कार्त्तिके मासि भास्करः। मार्गशीर्षे भवेन्मित्रः ११ पौषे विष्णुः सनातनः। पञ्चरश्मिसहस्राणि वरुणस्यार्ककर्मणि। षड्भिः सहस्रैः पूषा तु देवेशः सप्तभिस्तथा। धाता ष्टभिः सहस्रैस्तु नवभिस्तु शतक्रतुः। विवस्वान् दशभिः पाति पात्येकादशभिर्भगः। सप्तभिस्तपते मित्रस्त्वष्टा चैवाष्टभिस्तपेत्। अर्य्यमा दशभिः वाति पर्जन्यो नवभिस्तपेत्। षड्भीरश्मिसहस्रैस्तु विष्णुस्तपति विश्वधृक्। वसन्ते कपिलः सूर्य्यो ग्रीष्मे काञ्चनसंप्रभः। श्वेतो वर्षासु वर्णेन पाण्डरः शरदि प्रभुः। हेमन्ते ताम्रवर्णः स्यात् शिशिरे लोहितो रविः। ओषधीषु बलं धत्ते स्वधामपि पितृष्वथ। सूर्य्योऽमरत्वममृतत्रयं त्रिषु नियच्छति। अन्ये चाष्टौ ग्रहाः ज्ञेयाः सूर्य्येणाधिष्ठिता द्विजाः!। चन्द्रमाः सोमपुत्रश्च शुक्रश्चैव वृहस्पतिः। भौमो भानुसुतो राहुः केतुमानपि चाष्टमः। सर्वे ध्रुवे निबद्धा ये ग्रहास्ते वातरश्मिभिः। भ्राम्यमाणा यथायोगं भ्रमन्त्यनुदिवाकरम्”।

रस = स्वने भ्वा० प० अक० सेट्। रसति अरासीत् अरसीत्। ररास रेसतुः।

रस = आस्वादे अ० चु० उ० सक० सेट्। रसयति ते अररसत् त

रस = पु० रस्यते रस–अच्। आस्वाद्ये रसनेन्द्रियग्राह्ये १ मधुर्य्यादिगुणभेदे २ देहस्थे भुक्तान्नादेः प्रथमपरिणामे ३ सारे च “ओषधीनां रसः” इति ताण्ड्यब्रा० “रसः सारः” भा०। ४ धातुभेदे पारदे ५ माधुर्य्या दरसवति गुडादौ त्रि० ६ पुष्पस्य मधुनि ७ अलङ्कारोक्ते विभावानुभावसञ्चारिकाभावव्यङ्ग्ये रत्यादिस्थायिभावके शृङ्गारादौ। ८ विषे ९ वीर्य्ये १० रागे ११ द्रवे अमरः १२ जले च १३ गन्धरसे पुंन० मेदि० १४ अन्ने च निघण्टुः। पारदशब्दे ४३११ पृष्ठादौ रसशोधनादि दृश्यम्। देहस्थधातुहेतुरसस्वरूपादि भावप्र० उक्तं यथा “यत्पाथो रसधातुर्यस्ततोऽभवदपां रसः। सद्रवं सकलं देहं रसतीति रसः स्मृतः।” अथ रसस्य स्वरूपमाह “सम्यक् पक्वस्य भुक्तस्य सारो निगदितो रसः। स तु द्रवः सितः शीतः स्वादुः स्निग्धश्चलो भवेत्। सारो यथा गुडमधूकपुष्पबकुलत्वग्वदरीमूलादिभवः सारो मदिरा। अथ रसस्य स्थानमाह “सर्वदेह चरस्यासि रसस्य हृदयं स्थलम्। समानसरुता पूर्वं यदयं हृदये धृतः।” अथ रसस्य कर्माण्याह “आरुह्य धननीर्गत्वा धातून् सर्वानयं रसः। पुष्णाति तदनु स्वीयैर्व्याप्नोति च तनुं गुणैः।” गुणैः शीतस्निग्धपोषकत्वगुणैः शीतस्निग्धपोषकत्वैः “मन्दवह्निविदग्धस्तु कटुर्वाम्लो भवेद्रसः। स कुर्य्याद्बहुलान् रोगान् विषकृत्यं करोत्यपि।” असृक्करशब्दे दृश्यम्। अलङ्कारशास्त्रोक्तो रसो नवविधः। “शृङ्गारहास्यकरुण रौद्रवीरभयानकाः। बीभत्सोऽद्भुत इत्यष्टौ रसा शान्तस्तथा मतः।” सा० द० तल्लक्षणं तत्रैव यथा “विभावेनानुभावेन व्यक्तः सञ्चारिणा तथा। रसतामेति रत्यादिः स्थायी भावः सचेतसाम्”। “विभावादयो वक्ष्यन्ते। सात्त्विकाश्चानुभावरूपत्वात् न पृथगुक्ताः। व्यक्तो दध्यादिन्यायेन रूपान्तरपरिणतः व्यक्तीकृत एव रसो न तु दीपेन घट इव पूर्वसिद्धो व्यज्यते। तदुक्तं लोचनकारैः “रसाः प्रतीयन्त इति त्वोदनं पचतीतिवद्यवहार इति”। अत्र च रव्यादिपदोपादानादेव प्राप्ने स्थायित्वे पुनः स्थायिपदोपानं रत्यादीनामपि रसान्तरेष्वस्थायित्वप्रतिपादनार्थम्। ततश्च हासक्रोधादयः शृङ्गारवीरादौ ष्यभिचारिण एव। तदुक्तम् “रसावस्थः परं भावः स्थायितां प्रतिपद्यते” इति। अस्य स्वरूपकथनगर्भ आस्वादप्रकारः कथ्यते। “सत्त्वोद्रेकादखण्डस्वप्रकाशानन्दचिन्मयः। वेद्यान्तरस्पर्शशून्यो ब्रह्मास्वादसहोदरः। लोकोत्तरचमत्कारप्राणः कैश्चित् प्रमातृभिः। स्वाकारवदभिन्नत्वेनायमास्वाद्यते रसः। रजस्तमोभ्यामस्पृष्टं मनः सत्त्वमिहोच्यते” इत्युक्तप्रकारो बाह्यमेयविमुखतापादकः कश्चनान्तरो धर्मः सत्त्वं तस्योद्रेक० रजस्तमसी अभिभूयाविर्भावः। अच च हेतुस्तथाविधालौकिकक्राव्यार्थपरिशीलनम्। अखण्ड इत्येक एवायं विमावादिरत्यादिप्रकाशसुखचमत्कारात्मकः। अत्र हेतुं वक्ष्यामः। स्वप्रकाशत्वाद्यपि वक्ष्यमाणरीत्या। चिन्मय इति स्वरूपार्थे मयट्। चमत्कारश्चित्तविस्ताररूपो विस्मयापरपर्य्यायः। तत्प्राणत्वञ्चास्मद्बृद्धप्रपितामहसहृदयगोष्ठीगरिष्ठकविपण्डितमुख्यश्रीमन्नायणपादैरुक्तं। तदाह धर्मदत्तः स्वग्रन्थे “रसे सारश्चमत्कारः सर्वत्राप्यनुभूयते। तच्चमत्कारसारत्वे सर्वत्राप्यद्भुतो रसः। तस्मादद्भुतमेवाह कृती नारायणो रसमिति”। “कैश्चिदिति प्राक्तनपुण्यशाखिभिः तदुक्तं “पुण्यवन्तः प्रमिण्वन्ति योगिवद्रससन्ततिमिति” यद्यपि “स्वादः काव्यार्थसम्भेदादात्मानन्दसमुद्भवः” इत्युक्तदिशा रसस्यास्वादानतिरिक्तत्वमुक्तं तथापि “रसः स्वाद्यते” इति काल्पनिकं भेदमुररीकृत्य कर्मकर्त्तरि वा प्रयोगः। तदुक्तम् “रस्यमानतामात्रसारत्वात् प्रकाशपरीरादनन्य एव हि रसः” इति। एवमन्यत्राप्येवंविधस्थलेषूपचारेण प्रयोगा ज्ञेयाः। नन्वेतावता रसस्याज्ञेयत्वमुक्तं भवतीति व्यञ्जनायाश्च ज्ञानविशेषत्वाद् द्वयोरैक्यमापतिज् ततश्च “स्वज्ञानेनान्यधीहेतुः सिद्धेऽर्थे व्यञ्जको मतः। यथा दीपोऽन्यथाभावे को विशेषोऽस्य कारकात्” इत्युक्तदिशा षटप्रदीपवद् व्यङ्ग्यव्यञ्जकाः पार्थक्यमेवेति कथं रसस्य व्यङ्ग्यतेति चेत् सत्यमुक्तम् अत एवाहुः “विलक्षण एवायं गतिज्ञाप्तभेदेभ्यः स्वादनाख्यः कस्तिद्व्यापारः। अत एव हि रसनास्वादनचमत्करणादयो विलक्षणा एव व्यपदेशा इति अभिधादिविलक्षणव्यापारतायाः प्रसाधनग्रहिलैराताभी रसादीनां व्यङ्ग्यत्वमुक्तं भवतीति। ननु तर्हि करुणादीनां रसानां दुःखमयत्वाद्रसत्वं न स्यादिन्युच्यते” “करुणादावपि रसे जायते यत् परं ञ्चुखम्। सचेतसामनुभवः प्रमाणं तत्र केवलम्”। आदिशब्दाद् वीभत्सभयानकादयः। तथाप्यसहृदयानां मुखमुद्रणाय पक्षान्तरमुच्यते। “किञ्च तेषु यदा दुःखं न कोऽपि स्यात्तदुन्मुखः”। न हि कश्चित् सचेता आत्मनो दुःखाय प्रवर्त्तते करुणादिषु च सकलस्यापि साभिनिवेशप्रवृत्तिदर्शनात्। अनुपपत्त्यन्तरमाह। “तथा रामायणादीनां भविता दुःखहेतुता”। “करुणरसस्य दुःखहेतुत्वात् करुणरसप्रधानरामायणादिप्रबन्धानामपि दुःखहेतुत्वप्रसङ्गः स्यात्। ननु कथं दुःखकारणेभ्यः सुखोत्पत्तिरित्याह “हेतुत्वं शोकहर्षादेर्गतेभ्यो लोकसंश्रयात्। शोकहर्षादयो लोके जायन्तां नाम लौकिकाः। अलौकिकविभावत्वं प्राप्तेभ्यः काव्यसंश्रयात्। सुखं संजायते तेभ्यः सर्वेभ्योऽपीति का क्षतिः”। ये खलु रामवनवासादयो लोके दुखकारणानि इत्युच्यन्ते त एव हि काव्यनाट्यसमर्पिता अलौकिकविभावनव्यापारवत्तया कारणशब्दवाच्यत्वं विहायालौकिकविभावशब्दवाच्यत्वं भजन्ते। तेभ्यश्च सुरते दन्तघातादिभ्य इव सुखमेव जायते। अतश्च लौकिकशोकहर्षादिकारणेभ्यो लौकिकशोकहर्षादयो जायन्ते इति लोक एव प्रतिनियमः। काव्ये पुनः सर्वेभ्योऽपि विमावादिभ्यः सुखमेव जायते इति नियमान्न कश्चिद्दोषः। कथं तर्हि हरिश्चन्द्रादिचरितस्य काव्यनाट्ययेरपि दर्शनश्रुवणाभ्यामश्रुपातादयो जायन्त इत्युच्यते। “अश्रुपातादयस्तद्वद्द्रुतत्वाच्चेतसो मताः”। तर्हि कथं काव्यतः सर्वेषामीदृशी रसाभिव्यक्तिर्न जायत इत्याह “न जायते तदास्वादो विना रत्यादिवासनाम्”। वासना चेदानीन्तनी प्राक्तनी च रसास्वादहेतुः। तत्र यदि आद्या न स्याच्छ्रोत्रियजरन्मीमांसकादीनामपि सा स्यात्। यदि द्वितीया न स्याद् यद्रागिणामपि केषाञ्चिद्रसोद्बोधो न दृश्यते तन्न स्यात्। उक्तञ्च धर्मदत्तेन “सवासनानां सभ्यानां रसस्यास्वादनं भवेत्। निर्वासनास्तु रङ्गान्तःकाष्ठकुड्याश्मसन्निभाः” इति। ननु कथं रामादिरत्याद्युद्बोधकारणैः सीतादिभिः सामाजिकरत्याद्युद्बोध इत्युच्यते “व्यापारोऽस्ति विभावादेर्नाम्ना साधारणीकृतिः। तत्प्रभावेन यस्यासन् पाथोधिप्लवनादयः। समाता तदभेदेन स्वात्मानं प्रतिपद्यते”। “ननु कथं मनुष्यमात्रस्य समुद्रलङ्गनादावुत्साहोद्बोध इत्युच्यते “सत्माहादिसमुद्बोधः साधारण्यामिमागतः। नॄणामपि समुद्रादिलङ्घनादौ न दुष्यति”। रत्यादयोऽपि साधारण्येन प्रतीयन्त इत्याह साधारण्येन रत्यादिरपि तद्वत् प्रतीयते”। रत्यादेरपि ह्यात्मगतत्वेन प्रतीतौ सभ्यानां व्रीडातङ्कादिर्भवेत् परगतत्वेन त्वरस्यतापातः विभावादयोऽपि प्रथमतः साधारण्येन प्रतीयन्ते इत्याह “परस्य न परस्येति ममेति न ममेति च। तदास्वादे विभावादेः परिच्छेदो न विद्यते”। ननु तथापि कथमेवमलौकिकत्वमेतेषां विभावादीनामित्युच्यते “विभावनादिव्यापारमलौकिकमुपेयुषाम्। अलौकिकत्वमेतेषां भूषणं न तु दूषणम्”। आदिशब्दादनुभावनसञ्चारणे। तत्र विमावनं रत्यादेर्विशेषेणास्वादाङ्कुरणयोग्यतानयनम्। अनुभावनमेवम्भूतस्य रत्यादेः समनन्तरमेव रसादिरूपतया भावनम्। सञ्चारणं तथाभूतस्यैतस्य सम्यक्चारणम्। विभावादीनां यथासङ्क्यं कारण कार्य्यसहकारित्वे कथं त्रयाणामपि रसीद्बोधे कारणत्वमित्युच्यते “कारणं कार्य्यसञ्चारिरूपा अपि हि लोकतः। रसोद्बोधे विभावाद्याः कारणान्येव ते मताः”। ननु तर्हि कथं रसास्वादे तेषामेकः प्रतिभास इत्युच्यते “प्रतीयमानः प्रथमं प्रत्येकं हेतुरुच्यते। ततः संवलितः सर्वो विभावादिः सचेतसाम्। प्रपानकरसन्यायाच्चर्व्यमाणोरसो भवेत्”। यथा खण्डमरिचादीनां सम्मेलनादपूर्व इव कश्चिदास्वादः प्रपानकरसे संजायते विभावादिसम्मेलनादिहापि तथेत्यर्थः। ननु यदि विभावानुभावव्यभिचारिभिर्मिलितैरेव रसस्तत् कथं एकस्य द्वयोर्वा सद्भावेऽपि स स्यादित्युच्यते “सद्भावश्चेद्विभावादेर्द्वयोरकस्य वा भवेत्। झटित्यन्यसमाक्षेपे तदा दोषो न विद्यते”। अन्यसमाक्षेपश्च प्रकरणादिवशात्। यथा “दोर्घाक्षं शरदिन्दुकान्ति वदनं बाहू नतावंसयोः सङ्खिप्तं निविडोन्नतस्ततमुरः पार्श्वे प्रमृष्टे इव। मध्यः पाणिमिनो नितम्बि जघनं पादावुदग्राङ्गुली छन्दो नर्त्तयितुर्यथैव मनसः सृष्टं तथास्या वपुः”। “अत्र मालबिकामभिलष्यतोऽग्निमित्रस्य मालविकारूपविभावमात्रवर्णने सञ्चारिणामौत्सुक्यादीनामनुभावानाञ्च नयनविस्फार दीनामौचित्यादेवाक्षेपः। एवमन्याक्षेपेऽप्यूह्यम्। “अनुकार्य्यगतो रसः” इति वदतः प्रत्याह “पारिमित्याल्लौकिकत्वात् सान्तरायतया तथा। अनुकार्य्यस्य रत्यादेरुद्बोधो न रसो भवेत्”। सीतादिदर्शनादिजो रामादिरत्याद्युद्बोधो हि परिमितो लौकिको, नाट्यकाव्यदर्शनादेः सान्तरायश्च। तस्मात् कथं रसरूपतामियात्। रसस्यैतद्धर्मत्रितयविलक्षणधर्मकत्वात्। अनुकर्तृगतत्वञ्चास्य नि रस्यति “शिक्षाभ्यासादिमात्रेण राघवादेः स्वरूपतम्। दर्शयन् नर्त्तको नैव रसस्यास्वादको भवेत्”। किञ्च काव्यार्थाभावने नायमपि सभ्यपदास्पदम्। यदि पुनर्नटोऽपि काव्यार्थभावनया रामादिरूपतामात्मनो दशयेत् तदा सोऽपि सभ्यमध्य एव गण्यते”। द्रव्यगतमधुरादिरसकारणादिकं सुश्रुते उक्तं यथा “अथातो रसविशेषविज्ञानीयमध्यायं व्याख्यास्यामः। आकाशपवनदहनतोयभूमिषु यथासङ्ख्यमेकोतरपरिवृद्धाः शब्दस्पर्शरूपरसगन्धाः। तस्मादाप्यो रसः परस्परससर्गात् परस्परानुग्रहात् परस्परानुप्रवेशाच्च सर्वेषु सर्वेषां सान्निध्यमस्त्थुत्कर्षापककर्षात्तु ग्रहणम्। स खल्वाप्योरसः शेषभूतसंसर्गाद्विभक्तः षोढा विभज्यते। तद्यथा मधुरोऽम्ला लवणः कटुकस्तिक्तः कषाय इति। ते च भूयःपरस्परसंसर्गात् त्रिषष्टिधा भिद्यन्ते। तत्र भूम्यम्बुगुणबाहुल्यान्मधुरः १। भूम्यग्निगुणबाहुल्यादम्लः २। तोयाग्निगुणबाहुल्याल्लवणः ३ वाय्वग्निगुणबाहुल्यात् कटुकः ४। वाय्वाकाशगुणबाहुल्यात्तिक्तः ५। पृथिव्यनिलगुणबाहुल्यात् कषायः ६ इति। तत्र मधुराम्ललवणा वातघ्नाः। मधुरतिक्तकषायाः पित्तघ्नाः। कटुतिक्तकषायाः श्लेष्मघ्नाः तत्र वायुरात्मनैवात्मा पित्तमाग्नेयं श्लेष्मा सौम्य इति। त एव रसाः स्वयोनिवर्द्धना अन्ययोनिप्रशमनाश्च”।

रसकर्पूर = न० रसेन कर्पूरमिव। (रसकपुर) कर्पूररसे तत्पाकादिगुणा भावप्र० उक्ताः कर्पूररसशब्दे १७४३ पृ० दृश्याः।

रसकेसर = न० रसेन केसरमिव नागकेसरसुगन्धित्वात्। कर्पूरे हारा०।

रसगन्ध = पुंन० रसे गन्धोऽस्य। १ वोले गन्धरसे त्रिका०। कप् तत्रार्थे शब्दच० २ गन्धके च राजनि०।

रसगर्भ = न० रसो गर्भे यस्य। पित्तलधातुद्रवजे १ रसाञ्जने अमरः। २ हिङ्गुले च राजनि०।

रसघ्न = पु० रसं पारदं हन्ति हन–ठक्। टङ्कणे (सोहागा) राजनि०।

रसज = न० रसात् भुक्तान्नसारात् प्रथमधातोर्जायते जन–ड। १ रुधिरे शब्दच० असृक्करशब्दे दृश्यम्। रसात् इक्षुप्रभृतेः द्रवात् जायते जन–ड। २ गुडे पु० राजनि०। ३ मद्यकीटे च पु० हेमच०। २ रसभवादयोऽप्यत्र।

रसज्ञा = स्त्री रसं जानाति अनया ज्ञा–करणे घञर्थे क। १ जिह्वायाम् रसज्ञानसाधने जिह्वास्वानस्थेन्द्रिये अमरः ज्ञा–क। रसज्ञातरि त्रि०।

रसज्येष्ठ = पु० रसेषु ज्येष्ठः श्रेष्ठः। १ मधुररसे हेमच० २ शृङ्गाररसे च।

रसतेजस् = न० रसस्य भुक्तान्नसारस्य तेजः सारः। रुधिरे हेमच०।

रसदालिका = स्त्री रसार्थं दल्यते दल–कर्मणि घञ् गौरा० ङीष् स्वार्थे क ह्रस्वः। पुण्ड्रेक्षौ (पुडि आख) राजनि०।

रसधातु = पु० रसाख्यो द्रवरूपो वा धातुः। पारदे राजनि०

रसधेनु = स्त्री दानार्थं कल्पितायाम् इक्षुरसनिर्मितायां धेनौ धेनुशब्दे ३९०९ पृ० दृश्यम्।

रसन = न० रस–ल्युट्। १ खादे २ ध्वनौ च करणे ल्युट्। जिह्वायां च मेदि० “पित्तेन दूने रसने सितपि” नैषधम्।

रसना = स्त्री रस्यतेऽनया रस–करणे ल्युट् अंजा० टाप्। १ जिह्वायाम् अमरः। २ रास्नायां मेदि०। ३ काञ्च्यां हेमच०। ३ रज्जौ च।

रसनेत्रिका = स्त्री रसो नेत्रमिव अस्त्यस्याः ठन्। मनःशिलायाम् हेमच०।

रसपाकज = पु० रसपाकेन जायते जन–ड। १ गुडे राजनि० २ रुधिरधातौ च असृक्करशब्दे दृश्यम्।

रसफल = पु० रसो जलं फले यस्याः। नारिकेसवृक्षे शब्दर०।

रसमाणिक्य = न० रसेन पारदेन माणिक्यमिव तत् पाकजत्वात्। स्वनामख्याते पदार्थे।

रसराज = पु० रसेषु रसो वा राजेव श्रेष्ठत्वात् रसः द्रव इव राजते वा। १ पारदे रसनाथादयोऽप्यत्र। २ रसाञ्जने च राजनि०।

रसवती = स्त्री रस आस्वाद्यद्रव्यमन्नादि अस्त्यस्याम् मतुप मस्य वः ङीप्। पाकस्थाने अमरः।

रसशोधन = न० रसं पारदं द्रवीभूतं द्रव्यं स्वर्णादि वा शाधकति शुध–णिच्–ल्यु। १ टङ्कणे (सोहागा) हेमच० ६ त०। २ पारदशोधने च।

रसस्थान = न० रसस्य पारदस्य स्थानम्। हिङ्गुले शब्दच०।

रससिन्दूर = न० रसजातं सिन्दूरम्। पारदजाते सिन्दूरभेदे तत्पाकविधिः भावप्र० उक्तो यथा “शुद्धसूतस्य गृह्णीयाद् भिषग्भागचतुष्टयम्। शुद्धगन्धस्य भागैकं तावत् कृत्रिमगन्धकम्। अथ वा पारदास्यार्द्वं शुद्धगन्धकमेव हि। तयोः कज्जलिकां कुर्णाद्दिनमेकं विमदयेत्। मृत्तिकां वाससा सार्द्धं कुट्टयेदति० यत्नतः। तथा वारत्रयं सम्यक् काचकूपीं प्रलेपयेत्। नृत्तिनां शोपयित्वा तु कूप्यां कज्जलिकां क्षिपेत्। तां कूपीं वालुकायन्त्रे स्थापयित्वा रसं पचेत्। अग्निं निरन्तरं दद्याद् यावद्दिनचतुष्टयम्। गृह्वीयादूर्ध्वसंलग्नं सिन्दूरसदृशं रसम्”।

रसा = स्त्री पाकजः रसो माधुर्य्यादिरूपोऽस्त्यस्याः अच्। पृथिव्याम् अमरः।

रसाग्रज = न० रसस्य पित्तलधातुद्रवस्याग्रात् जायते जन–ड। रसाञ्जने राजनि०।

रसाञ्जन = न० रसजातं पित्तलधातुजमञ्जनम्। खनामख्याते “रीत्यान्तु ध्मायमानायां तत्किट्टन्तु रसाञ्जनम्। तदभावे तु कर्त्तव्यं दर्वीक्वाथसमुद्भवम्” इत्युक्ते १ पदार्थे राजनि० तद्विधिश्च भावप्र० उक्तो यथा “दार्वीक्वाथसमं क्षीरं पादं पक्त्वा यथा घनम्। तदा रसाञ्जनाख्यं तन्नेत्रयोः परमं हितम्। रसाञ्जनं कटु श्लेष्मविषनेत्रविकारनुत्। उष्णं रसायनं तिक्तं छेदनं व्रणदोषहृत्”।

रसाढ्य = पु० रसेन मधुररसेनाद्यः। १ आम्रातके राजनि०। २ रसवति त्रि०।

रसातल = न० रसायास्तलम्। पातालभेदे सप्तमे भूमेरधोभागे अमरः।

रसाधिक = पु० रसाय द्रवाय स्वर्णादिद्रावणाय अधिकः आदीयमानत्वात्। १ टङ्कणे रसेनाधिका। २ काकोडुम्बरिकायां स्त्री राजनि०। ३ रसेनाधिके त्रि०।

रसान्तर = न० अन्यो रसः मयूर० नि०। प्रकृतरसादन्यस्मिन् रसे

रसाभास = पु० रस इव आभासते आ + भास–अच्। “अनौचित्यप्रवृत्तत्वे आभासो रसभावयोः” सा० द० उक्ते पश्वादिपरनायकादिगतशृङ्गारादौ रसे। “अनौचित्यञ्चाब्र रसानां भरतादिप्रणीतलक्षणानां सामग्रीरहितत्वे सत्येकदेशयोगित्योपलक्षणपरं बोध्यं तनु बालव्युत्पत्तये एकदेशतो दर्श्यते। “उपनायकसंख्यायां मुनिगुरुपत्रीगतायाञ्च। बहुनायकविषयायां रतो तथाऽनुभयनिष्ठायाम्। प्रतिनायकनिष्ठत्वे तद्वदधमपात्रतिर्य्यगादिगते। शृङ्गारेऽनौचित्यं रौद्रे गुर्वादिगतकोपे शान्ते च हीननिष्ठे गुर्वाद्यालम्बने हास्ये। ब्रह्मबधाद्युत्साहेऽधमपात्रगते तथा वीरे। उत्तमपात्रगतत्वे भयानके ज्ञेयमेवमन्यत्र”।

रसाम्ल = न० रसेनाम्लम्। १ वृक्षाम्ले राजनि०। २ चुक्रे च भावप्र० (चुकपामङ्ग)

रसायन = न० रसस्यायनभिव। १ तक्रे हेमच० २ कट्याम् राजनि० ३ विषभेदे वैद्यकप्रसिद्धे ४ औषधमेदे च ५ गरुडे ६ विडङ्गे च पु० मेदि०। ६ त०। ७ रसस्थाने च। औषधभेदलक्षणदि भावप्र० उक्तं यथा “यज्जराव्याधिविध्वंसि वयसऽस्तम्भकन्तथा। चाक्षुष्यं वृंहणं वृष्यं भेषजं तद्रसायनम्”। रसायनस्य फलमाह “दीर्घमायुः स्मृतीर्मेधामारोम्यं तरुणं वयः। देहेन्द्रियबलं कान्तिं नरो विन्देद्रसायनात्”। तद् विधिमाह “पूर्वे वयसि मध्ये वा मनुष्यस्य रसाययनम्। प्रयुञ्जीत भिषक् प्राज्ञः स्निग्धशुद्धतनोः सदा। नाविशुद्धशरीरसस्य र्युक्तो रसायनो विधिः। न भाति वाससि श्लिष्टे रङ्गुयोग इवाहितः”।

“शीतोदकं पयः क्षौद्रं घृतमेकैकशो द्विशः। त्रिशः समस्तमथ वा प्राक् पीतं स्थापयेद्वयः। मण्डूकपर्ण्याः स्वरसः प्रभाते प्रयोज्य यष्टीमधुकस्य चूर्णम्। रसो गुडूच्यास्तु समूलपुष्पः कल्कः प्रयोज्यः खलु शङ्खपुष्प्याः। आयुःप्रदान्यामयनाशनानि बलाग्निवर्णस्मरवर्द्धनानि। मेध्यानि चैतानि रसायनानि मेध्या विशेषेण च शङ्खपुष्पी”। मध्वूकपर्णी ब्राह्मी। (वरमी) इति लोके, तदलाभे मञ्जिष्ठापि ग्राह्या तस्या अपि रसायनत्वात्। “माक्षिकेण तुगाक्षीर्य्या पिप्पल्या लवणेन च। त्रिफला सितया वापि युक्ता सिद्ध” रसायनम्। सिन्धूत्थं शर्करा शुण्ठी कणासधुगुडैः क्रमात्। वर्षादिष्वभया प्राश्या रसायनगुणैषिणा। पुनर्नवस्यार्द्धपलं नवस्य पिष्टं पिबेद् यः पयसार्द्धमासम्। मासत्रयं तत्त्रिगुणं समां वा जीर्णोऽपि भूयः स पुनर्नवः स्यात्। ये मासमेकं स्वरसं पिवन्ति दिने दिने भृङ्गरजः समुत्थम्। क्षीराशिनस्ते वलवीर्य्ययुक्ताः ससाशतं जीवनमाप्नुवन्ति। शतावरी मुण्डितिका गुडूची सहस्तिकर्णा सह तालमूली। एतानि कृत्वा समभागयुक्तान्याय्येन किं वा मधुनाऽवलिह्यात्। जरारुजामृत्युनियुक्तदेही भवेन्नरो वीर्य्यवलादियुक्तः। विभाति देवप्रतिमः स नित्यं प्रभामयो भूरिविवृद्धबुद्धिः। पीताश्वगन्धा पयसार्द्धमासं घृतेन तैलेन सुखाम्बुना वा। वीर्य्यस्य पुष्टिं वपुषो विधत्ते वालस्य शस्यस्य यथाम्बुवृष्टिः। अयःपलं गुग्गुलुरत्र योज्यः पलत्रयं व्योषपलानि पञ्च। पलानि चाष्टौ त्रिफलारजश्च कर्षं लिहन यात्यमरत्वमेव। न केवलं दीर्घमिहा युरश्नुते रसायनं योविविधं विषेवते। गतिं स देवर्षि निषेवितां शुभां प्रपद्यते ब्रह्म तथैव चाक्षयम्”।

रसायनफला = स्त्री रसायनमौषधविशेष इव फलं व्याधिघातकत्वात् यस्याः। हरितक्याम् त्रिका०।

रसायनश्रेष्ठ = पु० रसायनेषु औषधभेदेषु श्रेष्ठः। पारदे राजान०।

रसायनी = स्त्री रसायनं रसस्थानमस्त्यस्या अच गौ० ङीष्। १ गुडूच्याम् २ काकमाच्यां ३ महाकरञ्जे ४ गोरक्षदुग्धायाम् ५ मांसच्छदायाञ्च राजनि०।

रसाल = न० रसमालाति आ + ला–क ६ त०। १ सिह्लके २ गन्धरसे मेदि०। ३ शिखरिण्याम (पेयभेदे) तत्पाकविधिः कृतान्नशब्दे २१८४ पृ० भावप्र० उक्तो दृश्यः। ४ रसनायां ५ दूर्वायां ६ विदार्य्यां ७ द्राक्षायाञ्च स्त्री मेदि०। ८ आम्रे “रसालः सालः समदृश्यताऽमुना” नैषधम्। ९ इक्षौ अमरः। १० पनसे शब्दर०। ११ गोधूमे १२ पुण्ड्रकेक्षौ च पु० राजनि०।

रसालिहा = स्त्री रसां भूमिं लेटि स्पृशतिंलिह–क (चाकुलिया) क्षुपभेदे शब्दच०।

रसाली = स्त्री रसमालाति आ + ला–क गौरा० ङीष्। (पुडि आख) इक्षभेदे राजनि०

रसाश्वासा = स्त्री रसां भूमिमाश्वासयति दलैः आ + श्वस–णिच अण्। पलाशीलतायाम् राजनि०।

रसास्वादिन् = पु० रसं पुष्परसमास्वदते आ + स्वद–णिनि १ भ्रमरे शब्दमा०। २ मधुरशृङ्गारादिरसास्वादके त्रि स्त्रियां ङीप्।

रसिक = पुंस्त्री० रसं वेत्ति अनुभवति ठन्। १ सारसपक्षिणि राजनि० २ अश्वे ३ गजे सारस्वतः। स्त्रियां जातित्वा ङीष्। ४ रसज्ञे त्रि०। रसोऽस्त्यस्य ठन्। ५ रसवति च त्रि मेदि०। ६ रसालायाम् ७ इक्षुरसे च स्त्री मेदि० ८ काञ्च्य ९ रसनायां स्त्री विश्वः।

रसित = न० चु० रस–भावे क्त। १ मेघादिशब्दे २ विहगादिशब्दे च अमरः। कर्त्तरि क्त। ३ शब्दवति कर्मणि–क्त ४ आस्वादिते च त्रि०।

रसुन = पु० रस–उनन्। लशुने शब्दच०। ओनन् रसोन तत्रैव स्वार्थे क। तत्रार्थे।

रसेन्द्र = पु० रस इन्द्र इव। पारदे राजनि०।

रसेश्वर = पु० रसः पारद ईश्वर इव तद्देहरसजातत्वात्। १ ईश्वरतुल्ये रसे। तत्त्वज्ञानार्थं देहस्थैर्य्यसम्पादनद्वारा मुक्तिहेतुत्वमस्य माहेश्वरभेदाः प्रतिपेदिरे तन्मतञ्च सर्वदर्शनसंग्रहे प्रदर्शितं यथा “अपरे माहेश्वराः परमेश्वरतादात्म्यबादिनोऽपि पिण्डस्थैर्य्ये सर्वामिमता जीवन्मक्तिः सेत्स्यतीत्यास्थाय पिण्डस्थैर्य्योपाय पारदादिपदवेदनीयं रसमेव सङ्गिरन्ते रसस्य पारदत्वं संसारपरपारप्रापणहेतुत्वेन तदुक्तम् इतःपरः ग्रन्थः पारदशब्दे ४३१३ पृष्ठे प्रदर्शितः। “प्रकारान्तरेणापि जीवन्मुक्तौ नेयं वाचोयुक्तिर्युक्तिमतीति चेन्न षट्स्वपि दर्शनेषु देहपातानन्तरं मुक्तेरुक्ततया तत्र विश्वासानुपपत्त्या निर्विचिकित्सप्रवृत्तेरनुपपत्तैः। तदप्युक्तं तत्रैव “षड्दर्शनेऽपि मुक्तिस्त दीर्शता पिण्डपातने। करामलकवत्सापि प्रत्यक्षा नोपलभ्यते। तस्मात्तं रक्षयेत्पिण्डं रसैश्चैव रसायनैरिति”। गोविन्दभगवत् पादाचर्य्यैरपि “इति धनशरीरभोगान्मत्वाऽनित्यान् सदैव यतनीयम्। मुक्तौ सा च ज्ञानात् तच्चाभ्यासात् स च स्थिरे देहे” इत्युक्तम्। ननु विनश्वरतया वृश्यमानस्य देहस्य कथं नित्यत्वमवसीयते इति चेन्मैवं मंस्थाः, षाट्कौशिकस्य शरीरस्यानित्यत्वेऽपि रसाभ्रकपदाभिलप्यहरगौरीसृष्टिजातस्य नित्यत्वोपपत्तेः तथाच रसहृदये “ये चात्यक्तशरीरा हरगौरीसूष्टिजान्तरं प्राप्ताः। वन्द्यास्ते रससिद्धा मन्त्रगणः किङ्करो येषामिति”। तस्माज्जीवन्मुक्तिं समीहमानेन योगिना प्रथमं दिव्यतनुर्विधेया। हरगौरीसृष्टिसंयोगजनितत्वञ्च रसस्य हरजत्वेनाभ्रकस्य गोरीसम्भवत्वेन तत्तदात्मकत्वमुक्तम् “अभ्रकस्तव वीजन्तु मम वीजन्तु पारदः। अनयोर्मेलनं देवि! मृत्युदारिद्र्यनाशनमिति”। अत्यल्पमिदमुच्यते देवदैत्यमुनिमानवादिषु बहवो रससामर्थ्याद्दिव्यं देहमाश्रित्य जीवन्मुक्तिमाश्रिताः श्रूयन्ते रसेश्वरसिद्धान्ते “देवाः केचिस्महेशाद्या दैत्याः काव्यपुरःसराः। मुनयो बालखिल्याद्या नृपाः सोमेश्वरादयः। गोविन्दभगवत्पादाचार्य्यो गोविन्दनामकः। चर्वटिः कपिलो व्याडिः कापालिः कन्दलायनः। एतेऽन्ये बहवः सिद्धा जीवन्मुक्ताश्चरन्ति हि। तनुं रसमयीमाप्य तदात्मक कथाचणाः” इति। अयमेवास्यार्थः परमेश्वरेण परमेश्वरीं प्रति प्रपञ्चितःऽ। इतःपरो ग्रन्थः पारदशब्दे ४३१३ पृ० दर्शितः। तत्प्रपञ्चस्तु गोविन्दभगवत्पादाचार्य्यसर्वज्ञरामेश्वरभट्टारकप्रभृतिमिः प्राचीनैराचार्य्यैर्निरूपित इति ग्रन्थभूयस्त्वभयादुदास्यते। न च रसशास्त्रं धातुवादार्थमेवेति मन्तव्यं देहबन्धद्वारा मुक्तेरेव परमपयोजनत्वात् तदुक्तं रसार्णवे “लोहवन्धस्त्वया देव! यद्दत्तं परमीशितः!। तं देहबन्धमाचक्ष्व येन स्यात् खेचरी गतिः। यथा लोहे तथा देहे कर्त्तव्यः सूतकः सता। समानं कुरुते देवि! प्रत्ययं देहलोहयोः। पूर्वं लोहे परी- क्षेत पश्चाद्देहे प्रयोजयेत्” इति। ननु सच्चिदानन्दात्मकपरतत्त्वस्फुरणादेव मुक्तिसिद्धौ किमनेन दिव्यदेहसम्पादनप्रयासेनेति चेत्तदेतदवार्त्तं वार्त्तशरीरालाभे तद्वार्त्ताया अयोगात्। तदुक्तं रसहृदये “गलितानल्पविकल्पः सर्वाध्वविवर्जितश्चिदानन्दः। स्फुरितोऽप्यस्फुरिततनोः करोति किं जन्तुवर्गस्येति। यं जरया जर्जरितं कासश्वासादिदुःखविशदञ्च। योग्यं तं न समाधौ प्रतिहतबुद्धीन्द्रियप्रसरम्। बालः षोडशवर्षो विषयरसाखादलम्पटः परतः। यातविवेको वृद्धो मर्त्यः कथमाप्नुयान्मुक्तिमिति”। ननु जीवत्वं नाम संसारित्वं तद्विपरीतत्वं मुक्तत्वं तथाच परस्परविरुद्धयोः कथमेकायतनत्वमुपपन्नं स्यादिति चेत्तदनुपपन्नं विकल्पानुपपत्तेः मुक्तिस्तावत् सर्वतीर्थकरसम्मता सा किं ज्ञेयपदे निविशते न वा चरमे शशविषाणकल्पा स्यात् प्रथमे न जीवनं वर्जनीयमजीवतो ज्ञातृत्वानुपपत्तेः। तदुक्तं रसेश्वरसिद्धान्ते “रसाङ्कमेयमार्गोक्ते जीवमोक्षोऽस्त्यधोमनाः। प्रमाणान्तरवादेषु युक्तिभेदावलम्बिषु। ज्ञानज्ञेयमिदं विद्धि सर्वतन्त्रेषु सम्मतम्। नाजीवन् ज्ञास्यति ज्ञेयं यदतोऽस्त्येव जीवनम्” इति। न चेदमदृष्टचरमिति मन्तव्यं विष्णुत्वामिमतानुसारिभिः नृपञ्चास्यशरीरस्य नित्यत्वोपपादनात्। तदुक्तम् साकारसिद्धौ “सच्चिन्नित्यनिजाचिन्त्यपूर्णानन्दैकविग्रहम्। नृपञ्चास्यमहं वन्दे श्रीविष्णुस्वामिसम्मतम्” इति। नन्वेतत् सावयवं रूपवदवभासमानं नृकण्ठीरवाङ्गं सदिति न सङ्गच्छत इत्यादिनाक्षेपपुरःसरं सनकादिप्रत्यक्षेण “सहस्रशीर्षा पुरुषः” इत्यादिश्रुत्या “तमद्भुतं बालकमम्बुजेक्षणं चतुर्भुजं शङ्खगदाद्यदायुधम्” इत्यादिपुराणलक्षणेन प्रमाणत्रयेण सिद्धं नृपञ्चाननाङ्गं कथमसत् स्यादिति। सदादीनि विशेषणानि गर्भश्रीकान्तमिश्रैः विष्णुस्वामिचरणपरिणतान्तःकरणैः प्रतिपादितानि। तस्मादस्मदिष्टदेहनित्यत्वमत्यन्तादृष्टं न भवतीति पुरुषार्थकामुकैः पुरुषैरेष्टव्यम्। अत एवोक्तम् “आयतनं विद्यानांमूलं धर्मार्थकाममोक्षाणाम्। श्रेयः परं किमन्यच्छरीरमजरामरं विहायैकमिति”। अजरामरीकरणसमर्थश्च रसेन्द्र एव तदाह “एकोऽसौ रसराजः शरीरमजरामरं कुरुते” इति। किं वर्ण्यते रसस्य माहात्म्यं यस्य दर्शनस्पर्शनादिनापि महत् फलं भवति। तदुक्तं रसार्णवे “दर्शनात् स्पर्शनात्तस्य भक्षणात् स्मरणादपि। पूजना- द्रसदानाच्च दृश्यते षड्विधं फलम्। केदारादीनि लिङ्गानि पृथिव्यां यानि कानिचित्। तानि दृष्ट्वा तु यत्पुण्यं तत् पुण्यं रसदर्शनादित्यादिना”। अन्यत्रापि “काश्यादिसर्वलिङ्गेभ्यो रसलिङ्गार्चनं शिवम्। प्राप्यते येन तल्लिङ्गं भोगारोग्यामृताजरम्” इति। रसनि० न्दायाः प्रत्यवायोऽपि दर्शितः “प्रमादाद्रसनिन्दायाः श्रुतावेनं स्मरेत् सुधीः। द्राक् त्यजेन्निन्दकं नित्यं निन्दया पूरिताशुभम्” इति। तस्मादस्मदुक्तया रीत्या दिव्यं देहं सम्पाद्य योगाभ्यासवशात् परतत्त्वे दृष्टे पुरुषार्थप्राप्तिर्भवति। तदा “भ्रूयुगमध्यगतं यत् शिखिविद्युत्सूर्य्यवज्जगद्भासि। केषाञ्चित् पुण्यदृशामुन्मीलति चिन्मयं ज्योतिः। परमानन्दैकरसं परमं ज्योतिःस्वभावमविकल्पम्। विगलितसकलक्लेशं ज्ञेयं शान्तं स्वसंवेद्यम्। तस्मिन्नाधाय मनः स्फुरदखिलं चिन्मयं जगत् पश्यन्। उत्सन्नकर्मबन्धो ब्रह्मत्वमिहैव चाप्नोतीति”। श्रुतिश्च “रसो वै सः रसं ह्येवायं लब्ध्वानन्दी भवतीति”। तदित्थं भवे नान्योदुःखभरतरणोपायो रस एवेति सिद्धम्। तथाच रसस्य परब्रह्मणा साम्यमिति प्रतिपादकः श्लोकः “यः स्यात् प्रावरणाविमोचनधियां साध्यः प्रकृत्या पुनः सम्पन्नो सहते न दीव्यति परं वैश्वानरे जाग्रति। जातो यद्यपरं न वेदयति च स्वस्मात् स्वयं द्योतते यो ब्रह्मैव स दैन्यसंसृतिभयात् पायादसौ पारदः” इति।

रसोत्तम = पु० रस उत्तमो यस्य। मुद्गे राजनि०।

रसोद्भव = न० रसः पारद उद्भवत्यस्मात् उद् + भू–अच् उद्भवो यस्य। १ हिङ्गुले राजनि०। ५ त०। २ रसजाते त्रि०।

रसोपल = न० रसः पारद इव उपलीयते शुभ्रत्वात् उप + ली–ड। मौक्तिके त्रिका०।

रस्न = न० रस न। द्रव्ये उज्ज्वलद०।

रस्य = न० रसाद्भुक्तान्नपरिणामादागतः यत्। १ रुधिरे शब्दच० रस्वते आस्वाद्यते रस–यत्। २ आस्वाद्ये त्रि०। रस्याः, “स्निग्धाः स्थिरा हृद्याः” गीता। ३ पाठायां ४ रास्नायाञ्च स्त्री राजनि०।

रह = गतौ भ्वा० पर० सक० सेट् इदित्। रंहति अरंहीत् “तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः” शारीरकसूत्रम्

रह = त्यागे भ्वा० प० सक० सेट्। रहति अरहीत्।

रह = त्यागे अद० चु० उभ० सक० सेट्। रहयति ते अररहत्–त

रहस = न० रह–असुन्। १ निर्जने अमरः। २ गोप्ये ३ याथार्थ्ये ४ रमणे च मेदि०। ५ निर्जने अव्य० अमरः। रमन्तेऽस्मिन् रम–असुन् मस्य रः। ६ विश्वासयोग्यदेशे उज्ज्वलद०।

रहस्य = त्रि० रहसि भवः यत्। १ गोप्ये “रहस्यमस्याः स महदिति” नैषधम्। २ निर्जनभवे च ३ पाठायां ४ रास्नायाञ्च स्त्री राजनि० टाप् ५ नदीभेदे स्त्री मेदि०।

रहित = त्रि० रह–त्यागे कर्मणि क्त। वर्जिते।

***