भुक्त = त्रि० भुज–कर्मणि क्त। १ भक्षिते २ कृतभोगे च भुक्तं भोग्यं रवेस्त्यजेत्” नील० ता०। भावे–क्त। ३ भक्षणे न०

भुक्तभोग = त्रि० भुक्तः कृतो भोगो येन। कृतभोगे “जहात्येनां भुक्तभोगामजोऽन्यः” श्वेता० उ०।

भुक्तसमुज्झित = त्रि० पूर्बं भुक्तं पश्चात् समुज्झितं त्यक्तम्। भोजनोत्तरं त्यक्ते अन्नादौ।

भुक्ति = स्त्री भुज–क्तिन्। १ भोजने २ रव्यादिग्रहाणां राश्यंशादिषु गमने ३ भोगे च “आगमो निष्कलस्तत्र भुक्तिः स्तोकापि यत्र नी” इति स्मृतिः। भुक्तिप्रामाण्यनिर्णयादिकम् आगमशब्दे ६५४ पृ० दृश्यम्। अत्र कश्चिद्विशेषो वीरमित्रोदयग्रन्थे दर्शितो यथा नारदः “स्वागमेन विशुजेन भोगो याति प्रमाणताम्। अविशुद्धागमो भोगः प्रामाण्यन्नैव गच्छति। आगमस्याविशुद्धत्वं विरोध्यास्कन्दनं भवेत्”। व्यासः “सागमो दीर्घकालश्च विच्छेदापरवोज्झितः। प्रत्यर्थिसन्निधानश्च परिभोगोऽपि पञ्चधा”। विच्छेदोऽन्तरा यः उपरव आक्रीशस्ताभ्यामुज्झितो रहितः। यद्वाच्छेदो व्यवधानन्तद्विगमवान् विच्छेदो निरन्तर इति यावत्। अपरवो वर्जनविषयोरवः। मदीयं क्षेत्रादि त्वया किमिति भुज्यते इति प्रतिषेधः अपशब्दस्य वर्जनार्थत्वात् तेनोज्झितः। नारदः “सम्भोगं केवलं यस्तु कीर्त्तयेन्नागमं क्वचित्। भोगच्छलापदेशेन विज्ञेयः स तु तस्करः। विदामानेऽपि लिखिते जीवत्स्वपि हि साक्षिषु। विशेषतः स्थावराणां यत्र भुक्तन्न तत् स्थिरम्”। दानविक्रयादेरुपभोगसापेक्षस्यैव स्वत्वोत्पादकत्वात् कियान् भोगलवोऽप्यवश्यं तत्रापेक्ष्यते इत्याशङ्कायामुपपत्तिरुक्ता विज्ञानेश्वराचार्य्यैः। “दानादेः परस्वत्वापादने परकर्त्तृकस्वीकारापेक्षाऽवश्यम्भावनीया। स्वीकारश्च त्रिविघो मानसो वाचिकः कायिकश्च। ममेदमित्यध्यबसायो मानसः। ममेदमित्याद्यभिलापो वाचिकः। उपादानाभिमर्शनादिरूपेणानेक प्रकारकः कायिकः। तत्र मानसं विना स्वत्वासम्भवात् स त्वावश्यक एव। दानविशेषपुरस्कारेण शब्दप्रयोगविशेषनियमहस्तादिर्शनादिचेष्टाविशेषनियमाच्चवाचिकक। यिकावप्यावश्यकावित्यवसीयते। तत्र हिरण्यवस्रादौ दातृकर्त्तृकजलत्यागादनस्तरमेव प्रतिग्रहीतुरुपादानादिसम्भवात् त्रिविधोऽपि व्यापारः सम्पद्यते। क्षेत्रादौ तु फलोपभोगं विना कायिकस्वीकारासम्भवादल्पेनाप्युपभोगेनावश्यम्भवितव्यमन्यथा दानविक्रयादेः सम्पूर्णता न भवत्युत्तरकालीनाङ्गीकाराभावात्। तेन तत्सहितादागमान्तराद्विकल आगमो दुर्बलो भवति। एतच्च द्वयोरागमयोः पूर्वापरभावानवगमे तदपगमे तु स्वल्पभोगविकलोऽपि प्राक्तन एवागमो बलवान्। पूर्वण दानादिना स्वत्वागमे दानद्यन्तरासम्भवात्। न चैवन्तस्य क्षेत्रादेर्मध्यस्थत्वापत्तिः पूर्वस्याम्यापगमादुत्तरस्वाम्यानुत्षत्तेश्चेति वाच्यम्। प्रतिश्रुतन्यायेनापेक्षणीय खत्वस्य सत्त्वात् पूर्वखाम्यसत्त्वेऽपि राज्ञैव प्रतिगृहीत्यादेंः कापिकरवेकारम्यनिःप्रतिपक्षस्य सम्पादनीयत्वात्”

भुक्तिप्रद = पु० भुक्तिं भोगं भोजनं वा प्रददाति स्वल्पायासभक्ष्यत्वात्। मुद्गे राजनि० लघुपाकत्वात्त्वम्।

भुक्तिसुहित = त्रि० सुहितस्य भुक्तिः मयूर० परनि०। सुतृप्तभोगे

भुग्न = त्रि० भुज–मोटने क्त। रोगादिना कुटिलीकृते।

भुज = भोटने तु० प० सक० अनिट। भुजति अभौक्षीत्। क्त ओदित् भुग्नः।

भुज = भक्षणे भोगे च आ० पालने पर० सक० रुधा० अनिट्। भुङ्क्तेऽन्नम्। अभौक्षीत्। भूमिं भुनक्ति पालयति। “दिर्व सरुत्वानिव भोक्ष्यते महीम्” रघुः। भुक्तः। उपसर्गपूर्तस्तु तत्तदुपसर्गद्योत्ययुक्तभोगादौ। भोगश्च सुखदुःखाद्यनुवः सुखं दुःखं वा भुङ्क्ते सुखादिकमनुभवतीत्यर्थः।

भुज = त्रि० भुज + क। १ भोगकर्त्तरि २ कुटिलीभूते च।

भुज = पुंस्त्री० भुज्यतेऽनेन भुज–घञर्थे करणे क। १ बाहौ २ करे मेदि०। लीलावत्यादौ त्रिकोणचतुष्कोणादिक्षेत्रप्रसिद्धे क्षेत्रांशभेदे “तथायते तद्भुजकोटिघातः” इति लीलावती। क्षेत्रशब्दे दृश्यम्।

भुजकोटर = पु० भुजस्य कोटर इव। कक्षदेशे (का~क) हेमच०

भुजग = पुंस्त्री० भुज–वक्रणे क भुजः कुटिलीभवन् सन् गच्छति गम–ड। १ सर्पे अमरः स्त्रियां ङीष्। २ अश्लेषानक्षत्रे ज्यो० त०। तस्य तद्देवताकत्वात् तथात्वम्। अश्लेषाशबदे दृश्यम्।

भुजगदारण = पु० भुजगं दारयति दारि–ल्यु। गरुडे त्रिका०

भुजगनिसृता = स्त्री “भुजगनिसृता नसौमः” वृ० र० उक्ते नबाक्षरपादके छन्दोभेदे।

भुजगान्तक = पु० ६ त०। गरुडे। भुजगनाशनादयोऽप्यत्र। राजनि०

भुजगभोजिन् = पु० भुजगं भुङक्ते भुज–णिनि। मयूरे राजनि० स्त्रियां ङीप्।

भुजगाशन = पु० भुजगान् अश्नाति अश–ल्यु। गरुडे त्रिका० भुजगभक्षकादयोऽप्यत्र।

भुजङ्ग = पुंस्त्री० भुजः सन् गच्छति गम–खच् मुम् डिच्च। १ सर्गे स्त्रियां ङीष् २ जारे च पु० अमरः। ३ अश्लेषानक्षत्रे पु० ज्या० त०

भुजङ्गघातिनी = स्त्री ६ त०। भुजङ्गं तद्विषं हन्ति–हन णिनि ङीप्। सर्पाक्षीलतायाम् राजनि०।

भुजङ्गजिह्वा = स्त्री ६ त०। १ सर्पजिह्वायां ६ ब० २ तदाकारयुतायां महासमङ्गायाम् राजनि०।

भुजङ्गदमनी = स्त्री भुजङ्गो दम्यतेऽनया दम–करणे ल्युट् गौरा० ङीष्। नकुलेष्टावाम् नैघण्टुप्र०

भुजङ्गपर्णिनी = भुजङ्गस्तदाकार इव पर्य्यानि अस्ति यस्याः इनि ङीप्। नागदमन्यां नैघण्टुप्रकाशिकायाम्।

भुजङ्गपुष्प = पु० भुजङ्ग इव पुष्पमस्य। क्षुपभेदे सुश्रुतः।

भुजङ्गप्रयात = न० “भुजङ्गप्रयातं भवेद्यैश्चतुर्भिः” वृ० र० उक्ते द्वादशाक्षरपादके छन्दोभेदे।

भुजङ्गभुज् = पु० भुजङ्गं भुङ्क्ते भुज–क्विप् ६ त०। १ गरुडे शब्दर० २ मयूरे अमरः।

भुजङ्गभोजिन् = पु० भुजङ्गं भुङ्क्ते भुज–णिनि ६ त०। राजसर्पे हेमच०। २ गरुडे ३ मयूरे च।

भुजङ्गम = पुंस्त्री० भुजः कुटिलीभवन् सन् गच्छति गम–खच् मुम्। १ सर्पे अमरः स्त्रियां जातित्वात् ङीष्। २ सीसके न० राजनि०। ३ अश्लेषानक्षत्रे पु०।

भुजङ्गलता = स्त्री भुजङ्ग इव कुटिला तल्लोकस्था वा लता। ताम्बूल्यां राजनि०।

भुजङ्गविजृम्भित = न० “वस्वीशाश्वच्छेदोपेतं ममतनयुगनरसलगैर्भुजङ्गविजृम्भितम्” पृ० र० उक्ते षड्विंशत्यक्षरपादके १ छन्दोभेदे। ६ त०। २ सर्पचेष्टिते च।

भुजङ्गहन् = पु० भुजङ्गं हन्ति हन–क्विप्। गरुडे त्रिका०।

भुजङ्गाक्षी = स्त्री भुजङ्गस्येवाक्षि पुष्पं यस्याः षच् समा० ङीष्। रास्नायाम् अमरः।

भुजङ्गाख्य = पु० भुजङ्गतुल्या आख्या यस्य। नागकेसरे। शब्दमा०

भुजङ्गेश = पु० ६ त०। १ वासुकौ २ शेषे तदवतारे ३ पिङ्गलमुनौ ४ पतञ्जलिमुनौ च भुजङ्गमेशादयोऽप्यत्र।

भुजज्या = स्त्री सू० सि० उक्तायाम् त्रिकोणक्षेत्रस्य भुज जीवायाम् “ग्रहं संशोध्य भन्दोत् तथा शीघ्राद्विशोध्य च। शेषं केन्द्रपदं तस्माद्भुजज्या फोटिरेव च” सू० सि०। “ग्रहं राश्यादिकं मन्दोच्चात् प्रागानीतस्वकीयराश्यादिकमन्दोच्चभोगात् संशोध्योनीकृत्य शीघ्रात् प्रागानीत राश्यादिशीघ्रोच्चात्। चः समुच्चये। ऊनीकृत्य शेषं राश्यादिकं तथोच्चसम्बन्धेन केन्द्रं मन्दोच्चाद्धीनो ग्रहो मन्दकेन्द्रम्। शीघ्रोच्चाद्वीनो ग्रहः शीघ्रकेन्द्रं भवतीत्यर्थः। तस्मात् केन्द्रात् पदं राशित्रयात्मकं विषमं समं च पदं ज्ञेयम्। त्रिराश्यन्तर्गतं चेत् प्रथमं विषमं पदम्। ततः षड्राश्यन्तर्गतं चेत् त्र्यूनं केन्द्रं द्वितीयं समं पदम्। ततो नवराश्यन्तर्गतं चेत् षडूनं तृतीयं विषमं पदम्। ततो नवोनं चतुर्थं पदं सममित्यर्थ। तस्मात् पदाद्भुजस्य ज्या कोटिः कोटेर्ज्या च” रङ्ग०। तदानयनं यथा “गताद्भुजज्या विषमे गम्यात् कोटिः पदे मवेत्। युग्मे तु गम्याद्बाहुज्य कोटिज्या तु गताद्भवेत्” सू० सि०। “विषमे परे यताद्ग्रहस्य पदादितो यद्गतं राशिवि- भागात्मकं प्राग्ज्ञातं तस्मादित्यर्थः। मुजज्या स्यात्। गम्याद्गतोनं त्रिभं ग्रहात् पादान्तावधिकमेष्यम्। तस्मात् कोटिः कोटिज्या स्यात्। युग्मे समे तुकारात् पदे एष्याद्भुजज्या गतात् कोटिज्या स्यात्। तुकारो विशेषद्योतकः। एकस्मादेवोक्तरीत्या द्वयं साधितम्” रङ्ग०।

भुजफल = न० “स्वेनाहते परिधिना भुजकोटिजीवे भांशैः ३६० र्हृते च भुजकोटिफलाह्वये स्तः” सि० शि० उक्ते भुजेनानीते फलभेदे

भुजमध्य = न० ६ त०। भुजान्तरे क्रोडे हला०।

भुजशिखर = पु० ६ त०। स्कन्धे हेम०।

भुजशिरस् = न० ६ त०। स्कन्धदेशे अमरः।

भुजाग्र = पु० ६ त०। करे हला०।

भुजादल = पु० भुजाया बाहोर्दल इव। करे हस्ते त्रिका०।

भुजान्तर = न० ६ त०। भ्रजयोरन्तरं मध्यम्। क्रीडे अमरः वृत्तक्षेत्रजबाह्वोर्विश्लेषरूपे गणितागते पदार्थे यथोक्तं सि० शि० “भानोः फलं गणितमर्कयुतस्य राशेर्व्यक्षोदयेन खस्वनागमही १८०० विभक्तम्। गत्या ग्रहस्य गुणितं द्युनिशा विभक्तं स्वर्णं ग्रहेऽर्कवदिदं तु भुजान्तराख्यम्”।

भुजि = पु० भुज–धातुनिर्देशे इक्। १ भुजधातौ भुज–इन् किच्च। २ वह्नौ उणादि० तस्य सर्वभक्षकत्वात् तथात्वम्।

भुजिङ्ग = पु० देशभेदे भा० भी० ९ अ०।

भुजिष्य = पु० भुज–किष्यन्। १ दासे २ रोगे ३ स्वतन्त्रे ४ हस्तसूत्रे च। ५ दास्यां ६ वेश्यायाञ्च स्त्री मेदि०।

भुज्यु = पु० भुज–युच् न अनादेशः। १ भाजने उज्ज्वल०। २ भोजने उणा०। ३ अग्नौ संक्षिप्त० ४ यज्ञे यजु० १८४२ वेददी० “यज्ञो हि सर्वाणि मूतानि पालयतीति” श्रुतेः सर्वलोकपालकत्वात्तस्य तथात्वम्।

भुड = भरणे करणे च भ्वा० आ० सक० सेट् इदित्। भुण्डते अभुण्डिष्ट बुभुण्डे कर्मणि भुण्ड्यते।

भुणिक = पु० गोत्रावयवभेदे तस्यापत्यम् ततः इञ्। भौणिकि तदपत्ये पुंस्त्री० स्त्रियां ष्यङ्। भौणिक्या तद्गोत्रावयवा रिचयाम् सि० कौ०।

भुण्यु = पु० १ पौरवे भरतपुत्रे नृपभेदे मा० आ० १४ अ०। २ तद्वश्ये प्राचीनधृतराष्ट्रपुत्रभेदे भा० आ० ९४ अ०।

भुरज = प्राप्तौ भ्वा० आ० सक० सेट्। भुरजते “मुरजन्त पद्धाः” ऋ० ४। ४३। ५। अयं धातुः धातुपाठादौ न दृश्यते।

भुरण = धारणपोषणयोः कण्ड्वा० यफ् आ० सक० सेट्। भुरण्यति अमरण्यी(णी)त् अयं गतौ निघण्टुः।

भुरण्यु = न० भॄ–भृतौ कन्यु। १ भरणे यञु० १८। ५३। १३। ४३ वेददीपे कण्ड्वा० भुरण–उन् इत्युक्तम्। २ क्षिप्रे निघण्टुः ३ तद्वति त्रि०।

भुरिज् = स्त्री “भृञ उच्च” उणा० भृ–इजि किच्च धातोरुकारादेशः। वसुन्धरायाम् उज्ज्वल०। २ बाह्वोः द्वि० व० निघण्टुः।

भुरुण्ड = पु० १ प्रवरर्षिभेदे प्रवराध्यायः भारुण्डखगे भा० व० १७ अ०।

भुर्व = अदने भ्वा० सक० सेट्। भूर्वति अभूर्वीत् “भुर्वतिरत्तिकर्मा” इति यास्कोक्तेः अयं तत्रार्थे धातुर्बोध्यः।

भुर्वणि = पु० भुर्व–अनि न दीर्घः। १ कर्त्तरि। ऋ० १। ५६। १।

भुव = पु० भवन्तीति भू–क। अग्नौ यजु० १३। ५४। वेददी० २ भुवोलोके च “तत्रेदं भूर्भुवादिकम्” सू० सि०।

भुवद्वत् = पु० भू–शतृ गणप्यत्यासे तुदा०। भुवन् धारयन् अस्त्यस्य मतुप् मस्य वः तान्तत्वेऽपि “भुवद्वद्भे धारयद्वद्भ्यः पदसंज्ञा वक्तव्या” वार्ति० उक्तेः पदत्वम्। धारकवति आदित्ये आ० श्रौ० ४। २। ५

भुवन = न० भवत्यत्र भू–आधारादौ क्युन्। १ जगति २ जने ३ आकाशे ४ चतुर्दशसंख्यायाम्। ५ जले च मदि०। भुवनानि च चतुर्दश यथा “चतुर्दशविधं ह्येतद्भूतवृन्दं प्रकीर्त्तितम्। भूर्भुवःखर्महश्चैव जनश्च तप एव च। सत्यलोकश्च सप्तैते लोकास्तु परिकीर्त्तिताः” “अतलं सुतलञ्चैव वितलञ्च गभस्तिमत्। महातलं रमातलं पातालं सप्तमं स्मृतम्। रुक्मभौमं शिलाभौमं पातालं नीलमृत्तिकम्। रक्तपीतश्वेतकृष्णभौभानि च भवन्त्यपि। पातालानाञ्च सप्तानां लीकानाञ्च यदन्तरम्। शुषिरं तानि कथ्यन्ते भुवनानि चतुर्दश” वह्निपु०

भुवनकोष = पु० भुवनस्य कोष इव। १ भूगोले २ ज्योतिषग्रन्यभेदे च। पुराणसर्वपो विष्णु पु० तद्वर्णन यथा “रविचन्द्रमसोर्यावन्मयूखैरवभास्यते। मनमुद्सरिच्छैला तावती पृथिवी स्मृता। यावत्प्रामाखा पृथिवी विस्तारपरिमण्डला। नभस्तावत्प्रमाणं वै विस्तारप्ररिमण्डलम्। भूमेर्योजनत्रक्षे तु सौरं मैत्रेय! मण्डलम्। लग्ने दिवाकरफापि मण्डलं शशिनः स्मृतम्। पूर्णे शतसहस्रे तु योजनानां निशाकरात्। नक्षत्र मण्डलं कृत्स्नमुपरिष्टात् प्रकाशते। द्विमक्षे चोत्तरे ब्रह्मन्! बुधो नक्षत्रमण्डलात्। तावत्प्रामाणभावे तु बुधस्याप्युशना स्थितः। अङ्गारकोऽपि शुक्रस्य तत्प्रमाणे व्यवस्थितः। तक्षद्वयेन भौमस्य स्थितो देव पुरोहितः। सौरिर्वृहस्पतेश्चोर्द्धं द्विलक्षे समवस्थितः। सप्तर्षिमण्डल तस्मल्लक्षमेकं द्विजोत्तम। ऋषिभ्यस्तु सहस्राणां शताद्वर्द्धं व्यवस्थितः। मधीभूतसमस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः। त्रैलोक्यमेतत् कथितसत्सधेन महामुने!। इज्याफलस्य भूरेषा इज्या चात्र प्रतिष्ठिता। ध्रुवादूर्द्धं महर्लोको यत्र ते कल्पवासिनः। एका योजनकोटी तु महर्लोको विधीवते। द्वे फोट्यौ तु जनो लोको यत्र ते ब्रह्मणः सुताः। सनन्दनाद्याः कथिता मैत्रेनामलचेतसः। चतुगुर्णोत्तरे चोर्द्धं जनलोकात्तपः स्मृतः। वैराजा यत्र ते देवाः स्थिता दाहविवर्जिताः। षडुगुणेन तपोलोकात् सत्यलोको विराजते। अपुनर्मारकायत्र ब्रह्मलोको हि स स्मृतः। पादगम्यन्तु यत किञ्चिद्वस्त्वखि पृथिवीमयम्। स भूर्लोकः समाख्यातो विस्तारोऽप्य मयोदित। भूमिसूर्य्यान्तरं यत्तु सिद्धादिसुनिसेवितम्। भुवर्लोकस्तु सीऽप्युक्तो द्वितीयोमुनिसत्तम!। ध्रुवसूर्य्यान्तरं यत् तु नियुतानि चतुर्दश। स्वर्लोकः सोऽपि कथिती लोकसंस्थानचिन्तकैः। त्रैलोक्यमेतत् कृतकं मैत्रेय! परिपठ्यते। जनस्तपस्तथा सत्यमिति चाकृतकं त्रयम्। कृतकाकृतकोमध्ये महर्लोक इति श्रुतिः। शून्यो भवति कल्पान्ते योऽत्यन्तं न विनश्यति। एते सप्तमया लोका मैत्रैय! कथितास्तव। पातालानि च सप्तैव ब्रह्माण्डस्यैव विस्तरः। एतदण्डकटाहेन तिर्य्यक् चोर्ध्वमधस्तथा। कपित्थस्य यथा वीजं सर्वतो वै समावृतम्। दशीत्तरेण पयसा मैत्रेयाण्डञ्च तद्वृतम्। सर्वोऽम्बुपरिवारोऽसौ वह्निना वेष्टितो बहिः। वह्निश्च वायुना, वार्युमैत्रेय! नभसावृतः। भूतादिना नभः सोऽपि महता परिवारितः। दशोत्तराण्यशेषाणि मैत्रेयैतानि सप्त वै। महान्तञ्च समावृत्य प्रधानं सभवस्थितम्। अनन्तस्य न तस्यान्तः संख्यानं वापि विद्यते”। भाग० ५। १६। १८ अ० विस्तरो दृश्यः।

भुवनेश्वरी = स्त्री ६ त०। महाविद्यामध्ये देवीमूर्त्तिभेदे तन्मन्त्रध्यानादिकं तन्त्रसा० दृश्यम्।

भुवन्ति = पु० भुवं तनोति तन बा० डि खिच्च मुम्। रुद्रभेदे यजु० १६। १९।

भुवन्यु = पु० भू–कन्युच्। १ स्वामिनि २ सूर्य्ये च उज्ज्वल०। ३ वह्नौ ४ चन्द्रे च मेदि०।

भुवपति = पु० ६ त०। भुवोलोकपतौ यजु० २। २। भुवभत्त्रांदयोऽप्यत्र।

भुवर् = अव्य० मू–अरु–किच्च। आकाशात्मके १ द्वितीये लोके भुवनकोषशब्दे विष्णुपु० वाक्यं दृश्यम्। २ व्याहृतिभेदे च

भुवर्लोक = पु० कर्म०। द्विताये लोके।

भुवम् = अव्य० भू–असुन् किच्च। १ आकाशात्मके द्वितीये लोके २ व्याहृतिभेदे भुवः स्वाहा।

भुवस्पति = पु० कर्म०। भुवो लोकस्वामिनि अर्थर्व० १०५

भुविष्ठ = त्रि० भुवि तिष्ठति स्था–क अलुक्स० षत्वम्। भूमिस्थिते भाग० १। ५। १७।

भुविस् = पु० भू–इसिन् किच्च। समुद्रे उज्ज्वल०।

भुशुण्डी = स्त्री पाषाणक्षेपणार्थे चर्ममययन्त्ररूपे अस्त्रभेदे “भुशुण्ड्युद्यतबाहवः” भा० आ० २२७ अ० नीलकण्ठः

भू = प्राप्तौ चु० आ० सक० सेट्। भावयत अबीभवत।

भू = प्राप्तौ भ्वा० उ० सक० सेट्। भवति–ते अभूत् अभविष्ट।

भू = शुद्धौ अक० चिन्तने मिश्रणे च सक० चुरा० उभ० सेट्। भावयति–ते अबीभवत्–त।

भू = सत्तायां भ्वा० पर० अक० सेट्। भवति अभूत् बभूव। “भवते दुरितक्षयं यथोक्तैः क्रतुभिर्भावयते च नागलोकम्। भवति त्रिदशैश्च पूजितो यस्तृणवद्भावयति द्विषश्च सर्वान्” कविर०अधि–आधिक्येन भवने ऐश्वर्य्ये।अनु–अनुभवे ज्ञानभेदे सक० अनुभवशब्दे दृश्यम्।अन्तर् + तिरोभावे अक०।अभि + तिरस्कारे सक०। अभिभवति शत्रून्।आविस् + प्रादुस् + प्रथमप्रकाशे।उद्–उत्पत्तौ अक०।तिरस् अन्तर्धाने स्थितस्य वस्तुनः कारणात्मनाऽवस्थाने अक०परा + असहने पराभवः।परि + तिरस्कारे परिभवति अतिक्रम्य भवने।प्रत + तुल्यरूपभवने अक० प्रतिभूः।वि + व्याप्तौ विभुः।वि + अति–परस्परभवने आत्म० सक० व्यभिभवतेऽर्कमिन्दुः। बोपदेवःसम् + योग्यत्वे अक०। सम्भाति सम् + भू–णिच् सम्भावनारूपज्ञानविषयत्वे सम्भाव्यते।

भू = स्त्री भू–आधारे कर्त्तरि अपादाने वा यथायथम् क्विप्। १ भूमौ अमरः २ स्थानमात्रे मेदि० ३ यज्ञाग्नौ पु० जटा० ४ उत्पद्यमान त्रि० ५ परमेश्वरे पु० “अनिर्विण्णः स्थविष्ठो भूः” विष्णु स०।

भूक = न० भू–कक्। १ छिद्रे २ काले मेदि०।

भूकदम्ब = पु० भूवि कदम्ब इव। (कोकसिमा) १ अलम्बुषवृक्षे रत्नमा०। २ गोरक्षतुण्ड्यां स्त्री नैथण्टुप्र०। संज्ञायां अन्। भूकदम्बक। यवान्यां राजनि०।

भूकन्द = पु० भुवः कन्द इव। (थुलकुडि) महाश्रावणिकावृक्षे राजनि०।

भूकम्प = पु० ६ त०। लोकानामनिष्टादिसूचके अद्भुतरूपे पृथिव्याः स्वयंचलने। तस्य शुभाशुमसूचकता अद्भुतसागरे उक्ता यथा “मेषे वृश्चिकभे गजः प्रचलति व्यासादिभिः कथ्यते चापे मीनकुलीरभ च वृषभे सत्यं चलेत् कच्छपः। यूके कुम्भधरे मृगेन्द्रमिथुने कन्यामृगे पन्नगस्तेषामेकतमो यदि प्रचलति क्षौणी तदा कम्पते। कच्छपे मरणं ज्ञेयं मरणञ्चापि पन्नगे। सर्वत्र सुखदञ्चैव पृथिव्यां चलिते गजे। प्रथितनरेश्वर मरणं व्यसनान्याग्नेयमारुतयोः। क्षुद्भयमतिवृष्टिभिरुपपीड्यन्ते जनाश्चापि। त्रिचतुर्थपञ्चदिने मासे पक्षे त्रिपक्षके। भवति यदा भूकम्पः प्रधाननृपनाशनं कुरुते”। स च भूमिजोत्पातविशेषः यथा “चरस्थिरभवं भौमं भूकम्पमपि भूमिजम्। जलाशयानां वैकृत्यं भौमन्तदपि कीर्तयेत्। भौमं चाप्यं फलं ज्ञेय चिरेण परिपच्यते” ज्यो० त०।

भूकर्वुदारक = पु० भूशेलौ राजनि०।

भूकल = पुंस्त्री० दुर्विनीताश्वे राजनि०।

भूकश्यप = पु० भूमिजातः कश्यप्रस्तदतार। वसुदेवे त्रिका० कश्यपस्य वसुदेवरूपेणावतारकथा च हरिवं० ५६ अ०। “तदस्य कश्यपस्यांशस्तेजसा कश्यपोपमः। वमदेव इति ख्यातो गोषु तिष्ठति भूतले”।

भूकाक = पु० भुवि ख्यातः काकः। १ क्षुद्रकाके २ क्रौञ्चे ३ नीलकपाते च राजनि०।

भूकुम्भी = स्त्री भुवि कुम्भीव। भूमिपारुलौ राजनि०।

भूकुष्माण्डी = स्त्री भुवि कुष्माण्डीव। वदर्य्याम् राजनि०

भूकेश = पु० भुवः पृथिव्याः केश इव। १ वटेः २ शैवले च मेदि० ३ राक्षम्यां स्त्री शब्दरत्ना० ङीष्।

भूक्षिद् = पु० भुवं क्षिणोति क्षिद–क्विप्। भूचरे त्रिका०।

भूखर्जूरी = स्त्री भुवि लग्ना खर्जुरी शाक० त०। क्षुद्रस्वर्जूर्य्याम् राजनि०। भूमिखर्जूर्य्यादयोऽप्यत्र।

भूगर = न० १ विषे राजनि० २ भवभूतिकवौपु० त्रिका०।

भूगर्भ = पु० भूर्गभेऽस्य। विष्णौ पु० “हिरण्यगर्भो भूगभः” विष्णुस०

भूगृह = न० भूमध्यस्थ गृहम्। १ भूमध्यस्थे गृहे ४ परणीसदनादयोऽप्यत्र। २ तन्त्रीक्ते यन्त्रषहिःस्थे रेखात्रयविशेषात्मके पदार्थे “धरणीसदतत्रयञ्च” श्रीयन्त्रीद्धार।

भूगोल = पु० भूगोल इव। गोलाकारे मण्डले “मध्ये समन्तादण्डस्य भूगोलो व्योम्नि तिष्ठति। विभ्राणः परमां शक्तिं ब्रह्मणो धारणात्मिकाम्” सू० सि०। तत्स्थानभेदस्तन्मानादिकं च सि० शि० उक्तं यथा “मूमेः पिण्डः शशाङ्कज्ञकविरविकुजेज्यार्किनक्षत्रकक्षावृत्तैर्वृत्तो वृतः सन् मृदनिलसलिलव्योमतेजेमयोऽयम्। नान्याधारः स्वशक्त्यैव वियति नियतं तिष्ठतीहास्य पृष्ठे निष्ठं विश्वं च शश्वत् सदनुजमनुजादित्यदैत्यं समन्तात्। सर्वतः पर्वतारामग्रामचैत्यचयैश्चितः। कदम्बकुसुमग्रन्थिः केसरप्रसरैरिव। मूर्तो धर्त्ता चेद्धरित्र्यास्ततोऽन्यस्तस्याप्यन्योऽस्यैवमत्रानवस्था। अन्त्ये कल्प्या चेत् स्वशक्तिः किमाद्ये किं नो भूमेः साष्टमूर्तेश्च मूर्त्तिः?। यथोष्णताऽर्कानलयोश्च, शीतता विधौ, द्रुतिः के, काठिनत्वमश्मनि। मरुच्चलो भूरचला स्वभावतो यतो विचित्रा वत वस्तुशक्तयः। आकृष्टिशक्तिश्च महीतया यत् स्वस्थं गुरु स्वाभिमुखं स्वशक्त्या। आकृष्यत तत् पततीव भाति समे समन्तात् क्व पतत्वियं खे। भपञ्चरस्य भ्रमणावलोकादाधारशून्या कुरिति प्रतीतिः। खस्थं न दृष्टं च गुरु क्षमातः खेऽधः प्रयातीति वदन्ति बौद्धाः। द्वौ द्वौ रवीन्दू भगणौ च तद्वदेकान्तरौ तावदयं व्रजेताम्। यदब्रुवन्नेवमनम्बराद्याब्रुवीम्यतस्तान् प्रति युक्तयुक्तिम्। भूः खेऽधः खलु यातीति बुद्धिवौद्धीमुधा कथम्। यातायातं तु दृष्ट्वापि खे यत् क्षिप्तं गुरु क्षितिम्। किं गण्यं तव वैगुण्यं द्वैगुण्यं या वृथा कथा। भार्केन्दूनां विलोक्याह्ना ध्रुवमत्स्यपरिभ्रमम्। यदि समा मुकुरोदरसन्निभा भगवती धरणी तरणिः क्षितेः। उपरिदूरगतोऽपि परिभ्रमन् किमु नरैरमरैरिव नेक्ष्यते। यदि निशाजनकः कनकाचलः किमु तदन्तरगः स न दृश्यते। उदगयं ननु मेरुरथांशुमान् कथमुदेति च दक्षिण भागके। ममो यतः स्यात् परिधेः शतांशः पृथ्वी च पृथ्वी, नितरां तनीयान्। नरश्च, तत्पृष्ठगतस्य कृत्स्वा समेव तस्य प्रतिभात्यतः सा। पुरान्तरं चेदिदमुत्तरं स्यात् तदक्षविश्लेषलवैस्तदा किम्। चक्रांशकैरित्यनुपातयुक्त्या युक्तं निरुक्तं परिधेः प्रमाणम्। निरक्षदेशात् क्षितिषोडशांशे भवदबन्ती गणितेन यस्मात्। तदन्तर षाडशसगुणं स्याद् भूमानमस्माद् बहु किं तदुक्तम्। शृङ्गीन्नतिग्रहयुतिग्रहणोदयास्तच्छा- यादिकं परिधिना घटतेऽमुना हि। नान्येन तेन जगु रुक्तमहीप्रमाणप्रामाण्यमन्वययुजा व्यतिरेककेण। लङ्का कुमध्ये यमकोटिरस्याः प्राक्, पश्चिमे रोमकपत्तनं च। अधस्ततः सिद्धपुरं सुमेरुः सौम्येऽथ याम्ये बडवानलश्च। कुवृत्तपादान्तरितानि तानि स्थानानि षड् गोलविदी वदन्ति। वसन्ति मेरौ सुरसिद्धसङ्घा और्बे च सर्वे नरकाः सदैत्याः। यो यत्र तिष्ठत्यवनीं तलस्था मात्मानमस्या उपरिस्थित च। स मन्यतेऽतः कुचतुर्थसंस्थामिथश्च ते तिर्थ्यगिवामनन्ति। अधःशिरस्काः कुदलान्तरस्थाश्छायामनुष्या इव नीरतीरे। अनाकुलास्तिर्यगधः स्थिताश्च तिष्ठन्ति ते तत्र वर्यं यथात्र। भूमेरर्धं क्षारसिन्धो रुदक्स्थं जम्बूद्वीपं प्राहुराचार्य्यवर्याः। अर्धेऽन्यस्मिन् द्वीपषट्कस्य याम्य क्षारक्षीराद्यम्बुधीनां निवेशः। लवणजलधिरादौ दुग्धसिन्धुश्च तस्मादमृतममृतरश्मिः श्रीश्च यस्माद्बभूव। महितचरणपद्मः पद्मजन्मादिदेवैर्वसति सकलवासो वासुदेवश्च यत्र। दध्नो घृतस्येक्षुरसस्य तस्मान्मद्यस्य च स्वादुजलस्य चान्त्यः। स्वादूदकान्तर्बडवानलोऽसौ पाताललोकाः पृथिवीपुटानि। चञ्चत्फणामणिगणांशुकृतप्रकाशा एतेषु सासुरगणाः फणिनो वसन्ति। दिव्यानि व्यरमणी रमणीयदेहैः सिद्धाश्च तत्र च लसत्कनकावभासैः। शाकं ततः शाल्मलमत्र कौशं क्रौञ्चं च गोमेष्टकपुष्करे च। द्वयोर्द्वयोरन्तरमेकमेकं समुद्रयोर्द्वींपसुदाहरन्ति। लङ्कादेशाद्धिमगिरिरुदग्धेमकूटोऽत तस्मात् तस्माच्चान्यो निषध इति ते सिन्धुपर्य्यन्तदैर्घ्याः। एवं सिद्धादुदगपि पुराच्छृङ्गङ्गवच्छुक्लनीला वर्षाण्येषां जयरिह बुधा अन्तरे द्रोणिदेशान्। भारतवर्षमिदं ह्यदगस्मात् किन्नरवर्षमतो हरिवर्षम्। सिद्धपुराच्च तथा कुरु तस्मात् विद्धि हिरणमयरम्यकवर्षे। माल्यवांश्च यमकोष्टिपत्तनाद्रोमकाच्च किल गन्धमादनः। नीलशैलनिषधावधी च तावन्तारालमनयोरिलावृतम्। माल्यवज्जलधिमध्यवर्त्ति यत् तत् तु भद्रतुरगं जगुर्बुधाः। गन्धशैलजलराशिमध्यगं केतुमालकमिलाकलाविदः। निषधनीलसुगन्धसुमाल्यकैरलमिलावृतमाव्रतमाबभौ। अमरकेद्भिकुषायसमाकुलं रुचिरकाञ्चनचित्रमहीतलम्। इह हि मेरुगिरिः किल मध्यगः कनकरत्नमयस्त्रिदशालयः। द्रुहिणजन्मकुपद्मजकर्णिकेति च पुराणविदोऽभुमवर्णयन्। विष्कम्भशैलाः खलु मन्दरोऽस्य सुगन्धशैलो विपुलः सुपार्श्व। तेषु क्रमात् सन्ति च केतुवृक्षाः कदम्बजम्बूवटपिप्पलाख्याः। जम्बूफलामलगलद्रसतः प्रवृत्ता जम्बूनदीरसयुता मृदभूत् सुवर्णम्। जाम्बूनदं हि तदतः सुरसिद्धसङ्घाः शश्वत् पिबन्त्यमृतपानपराङ्मुखास्तम्। वनं तथा चैत्ररथं विचित्रं तेष्वप्सरोनन्दननन्दनं च। धृत्याह्वयं यद्धृतिकृत् सुराणां भ्राजिष्णु बैभ्राजमिति प्रसिद्धम्। सरांस्यथैतेष्वरुणं च मानसं महाह्रदं श्वेतजलं यथाक्रमम्। सरःसु रामारमणश्रमालसाः सुरा रमन्ते जलकेलिलालसाः। सद्रत्नकाञ्चनमयं शिखरत्नयं च मेरौ मुरारिकपुरारिपुराणि तेषु। तेषामधः शतमखज्वलनान्तकानां रक्षोऽम्बुपानिलशशीशपुराणि चाष्टौ। विष्णुपदी विष्णुपदात् पतिता मेरौ चतुर्धाऽस्मात्। विष्कम्भाचलमस्तकशस्तसरःसङ्गता गता वियता। सीताख्या भद्राश्वं, सालकनन्दा च भारतं वर्षम्। बङ्क्षुश्च केतुमालं, भद्राख्या चोत्तरान् कुरून् याता। याऽऽकर्णिताभिलषिता दृष्टा स्पृष्टावगाहिता पीता। उक्ता स्मृता स्तुता वा पुनाति बहुधा पापिनः पुरुषान्। यां चलितो दलिताखिलबन्धो गच्छति बल्गति तत् पितृसङ्गः। प्राप्ततटे विजितान्तकदूतो याति नरे निरयात् सुरलोकम्। ऐन्द्रं कशेरुशकलं किल ताम्रपर्णमन्यद्गभस्तिमदतश्च कुमारिकाख्यम्। नागं च सौम्यमिह वारुणमन्त्यखण्डं गान्धर्वसंज्ञमिति भारतवर्षमध्ये। वर्णव्यवस्थितिरिहैव कुमारिकाख्ये शेषेषु चान्त्यजजना निवसन्ति सर्वे। माहेन्द्रशुक्तिमलयर्क्षकपारियात्राः सह्यः मविन्ध्य इह सप्त कुलाचलाख्याः। भूर्लोकाख्यो दक्षिणे व्यक्षदेशात् तस्मात् सौम्योऽय भुवः, स्वश्च मेरुः। लभ्यः पुण्येः खे महः स्याज्जनोऽतोऽनल्पानल्पैः स्वैस्तपः सत्यमन्त्यः। लङ्कापुरेऽर्कस्य यदोदयः स्यात् तदा दिनार्धं यमकोटिपुर्य्याम्। अधस्तदा सिद्धपुरेऽस्तकासः खाद्रोमके रात्रिदल तदैव। यत्रोदितोऽर्कः किल तत्र पूर्वा, ततापरा यत्र गतः प्रतिष्ठाम्। तन्मत्तोऽन्ये च ततोऽखिलानामुदक्स्थितो मेरुरिति प्रसिद्धम्। यथोज्जयिन्याः कुचतुर्थभागे प्राच्यां दिशि स्याद्यमकोटिरेष। ततश्च पश्चान्न भवेदवन्ती लङ्कैव तस्याः ककुभि प्रतीप्याम्। तथैव सर्वत्र यतो हि यत् स्यात् प्राणां ततस्तन्न भवेत् प्रतीच्याम्। निरक्षदेशादितरत्न तस्मात् प्राचीप्रतीच्यौ च विचित्रसंस्थे। निरक्षदेशे क्षितिमण्डलोपगौ ध्रुवौ नरः पश्यति दक्षिणोत्तरौ। तदाश्रितं खेजलयन्त्रवत् तथा भ्रमद्भचक्र निजमस्तकोपरि। उदग्दिशं याति यथा यथा नरस्तथा तथा स्यान्नतमृक्षमण्डलम्। उदग्ध्रुवं पश्यति चोन्नतं क्षितेस्तदन्तरे योजनजाः पलांशकाः। योजनसंख्याभांशैर्गुणिता स्वपरिधिहृता भवन्त्यंशाः। भूमौ कक्षायां वार्वागेभ्यो योजनानि च व्यस्तम्। सौम्यं ध्रुवं मेरुगताः खमध्ये याम्यं च दैत्या निजमस्तकोर्द्धेः सव्यापसब्यं भ्रमदृक्षचक्रं विलोकयन्ति क्षितिजप्रसक्तम्। प्रोक्तो योजनसंख्यया कुपरिधिः सप्ताङ्गनन्दाब्धय ४९६७ स्तद्व्यासः कुभुजङ्गसायकभुवः १५९१ सिद्धांशकेनाधिकः १०२४ पृष्ठे क्षेत्रफलं तथा युगगुणत्रिंशच्छराष्टाद्रयो ७८५२० ३४ भूमेः कन्दुकजालवत् कुपरिधिव्यासाहतेः प्रस्फुटम्। दुष्टं कन्दुकपृष्ठजालवदिलागाले फलं जल्पितं लल्लेनास्य शतांशकोऽपि न मवेद्यस्मात् फलं वास्तवम्। तत् प्रत्यक्षविरुद्धमुद्धतमिदं नैवास्तु वा ह्यस्तु वा हे प्रौढा! गणका विचारयत तन्मध्यस्थबुद्ध्या भृशम्। यत् परिध्यर्धविष्कम्भं वृत्तं कृत्तं किलांशुकम्। तेनार्धश्छाद्यते गोलः किञ्चिद्वस्त्रेऽवशिष्यते। गोलक्षेत्रफलात् तस्माद्वस्त्रक्षेत्रफलं यतः। सार्धद्विगुणितासन्नं तावदेवापरे दले। एवं पञ्चगुणात् क्षेत्रफलात् पृष्ठफलं खलु। नाधिकं जायते तेन परिधिघ्नं कुतः कृतम्। वृत्तक्षेत्रफलं यस्मात् परिधिध्नं न युक्तिमत्। दुष्टत्वाद् गणितस्यास्य दुष्टं भूपृष्ठजं फलम्। गोलस्य परिधिः कल्प्यो वेदघ्नज्यामितेर्मितः। मुखबुध्नगरेखाभिर्यद्वदामलके स्थिताः। दृश्यन्ते वप्रकास्तद्वत् प्रागुक्तपरिधेर्मितान्। ऊर्ध्वाधःकृतरेखाभिर्गोले वप्रान् प्रकल्पयेत्। तत्वैकवप्रकक्षेत्रफलं खण्डैः प्रसाध्यते। सर्वज्यैक्यं तिभज्यार्धहीनं त्रिज्यार्धभाजितम्। एवं वप्रफलं तत् स्याद् गोलव्याससमं यतः। परिधिव्यासघातीऽतो गोलपृष्ठफलं स्मृतम्। वृत्तक्षेत्रे परिधिगुणित प्यासपादः फलं तत् क्षुण्णं वेदैरुपरि परितः कन्दुकस्येव जालम्। गोलस्यैवं तदपि च फलं पृष्ठजं व्यासनिम्नतम् षड्भिर्भक्तं भवति नियतं गोलगर्भे धनाख्यम्”। पुराणसर्वस्ये विष्णुपु० अन्यथोक्तं यथा “जम्बुप्लक्ष ह्वयौ द्वीपौ शालमलिश्चापरी द्विज!। कुशः क्रौञ्चस्तथा शाकः पुष्करश्चैव सप्तमः। एते द्वीपा समुद्रैस्तु सप्त सप्तभिरावृताः। वणेक्षुसुरासर्पिर्दधि- दुग्धजलैः समः। जम्बूद्वीपः समस्तानामेतेर्पा मध्यमे स्थितः। तस्यापि मेरुर्मैत्रेय! मध्ये कनकपर्वतः। पतुरशीतिसाहस्रो योजनैरस्य चोच्छ्रयः। प्रविष्टः षोडशाधस्तात् द्वात्रिंशन्मूर्ध्नि विस्तृतः। मूले षोडशसाहस्रो विस्तारस्तस्य भूभृतः। भूपद्मस्यास्य शैलोऽसौ कर्णिकासं स्थितिः स्थितः। हिमवान् हेमकूटश्च निषधस्तस्य दक्षिणे। नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्वताः। लक्षप्रमाणौ द्वौ मध्यौ दशहीनास्तथा परे। सहस्रद्वितयोच्छ्रायास्तावद्विस्तारिणश्च ते। भारतं प्रथमं वर्ष ततः किंपुरषं स्मृतम्। हविवर्षं तथैवान्यं मेरोर्दक्षिणतो द्विजः। रम्यकञ्चोत्तरं वर्षं तथैवानु हिरण्मयम्। उत्तराः कुरवश्चैव यथा वै भारतं तथा। नवसाहस्रमेकैकमेतेषां द्विजसत्तम!। इलावृतञ्च तन्मध्ये सौवर्णो मेरुच्छ्रितः। मेरोश्चतुर्दिशं तत्र नवसाहस्रविस्तृतम्। इलावृतं महाभाग! चत्वार उपपर्वताः। विष्कम्भा रचिता मेरोर्योजनायुतमुच्छ्रिताः। पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः। विपुलः पश्चिमे भागे सुपार्श्वश्चोत्तरे स्मृतः। कदम्बस्तेषु जम्बूश्च पिप्पलो वट एव च। एकादश शतायामाः पादपा गिरिकेतवः। जम्बूद्वीपस्य सा जम्बूर्नामहेतुर्महामुने!। महागजप्रमाणानि जम्ब्वास्तस्याः फलानि वै। पतन्ति भूभृतः पृष्ठे शीर्य्यमाणानि सर्वतः। रसेन तेषां प्रख्याता तत्र जम्बूनदीति वै। सरित् प्रवर्त्तते सा च पीयते तन्निवासिभिः। न स्वेदो न च दौर्गन्ध्यं न जरा नेन्द्रियक्लमः। तत्पानसुस्थमनसां जनानां तत्र जायते। तीरमृत्तत्र संप्राप्य सुखवायुविशोषिता। जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम्। भद्राश्वं पूर्वतो मेरोः केतुमालञ्च पश्चिमे। वर्षे द्वे तु मुनिश्रेष्ठ! तयोर्मध्यमिलावृतम्। वनं चैत्ररथं पूर्वं दक्षिणे गन्धमादने। वैभ्राजं पश्चिमे तद्वदुत्तरे नन्दनं स्मृतम्। अरुणोदं महाभद्रं ससितोदं समानसम्। सरांस्येतानि चत्वारि देवभोग्यानि सर्वदा। सीतान्तश्चैव मुञ्जश्च कुवरो माल्यवांस्तथा। वैकङ्कप्रमुखामेरोः पूर्बतः केसराचलाः। त्रिकूटः शिशिरश्चैव पतङ्गो रुचकस्तथा। निषधादयो दक्षिणतस्तस्य केसरपर्वताः। शिखिवासः सवैदूर्य्यः कपिलो गन्धमादनः। जारुधिप्रमुखास्तद्वत् पश्चिमे केसराचलाः। मेरोरनन्तराङ्गेषु जठरादिष्ववस्थिताः शङ्ककूटोऽथ ऋषभो हंसो मानस्तथा परः। कालञ्जराद्याश्च तथा उत्तरे वेसराचलाः। चतुर्दशसहस्राणि योजनानां महापुरी। मेरोरुपरि मैत्रेय। ब्रह्मणः प्रथिता पुरी। तस्यां समन्ततश्चाष्टौ दिशासु विदितासु च। इन्द्रादिलोकपालानां प्रख्याताः प्रवराः पुरः। विष्णुपादविनिष्क्रान्ता पूरयित्वेन्दुमण्डलम्। समन्ताद् ब्रह्मणः पूर्य्या गङ्गा पतति वै दिवः। सा तत्र पतिता दिक्षु चतुर्द्धा प्रत्यपद्यत। मीता चालकनन्दा च वङ्क्षुर्भद्रा च वै क्रमात्। पूर्वेण शैलात् सीता तु शैलं यात्यन्तरीक्षगा। ततश्च पूर्ववर्षेण भद्राश्वेनैति पार्णवम्। भद्रा तथोत्तरगिरीनुत्तरांश्च तथा कुरून्। अतीत्योत्तरमम्भोधिं समभ्येति महामुने!। वङ्क्षुश्च पश्चिमगिरीनतीत्य सकलांस्ततः। पञ्चिमं केतुमालाख्यं वर्षमभ्येति सार्णवम्। तथा चालकानन्दापि दक्षिणेनेत्य भारतम्। प्रयाति सागरं भूत्वा सप्तभेदा महामुने!। आनीलनिषधायामौ माल्यवद्गन्धमादनौ। तयोर्मध्यगतो मेरुः कर्णिकाकारसंस्थितः भारताः केतुमालाश्च भद्राश्वाः कुरवस्तथा। पद्मानि लोकपद्मस्य मर्य्यादाश्चैव बाह्यतः। जठरो देवकूटश्च मर्य्यादापर्वताबुभौ। तौ दक्षिणोत्तरायामावानीलनिषधायतौ। मेरोः पश्चिमदिग्भागे यथा पूर्वा तथा स्थितौ। त्रिशृङ्गो जारुधिश्चैव उत्तरे वर्षपर्वतौ। पूर्वपश्चायतावेतावर्णवान्तव्यवस्थितौ। इत्येते मुनिवर्य्योक्तामर्य्यादापर्वतास्तव। जठराद्याः स्थितामेरोर्येषां वौ द्वौ चतुर्दिशम्। मेरोश्चतुर्दिशं ये तु प्रोक्ताः केसरपर्वताः। शीतान्ताद्या मुने! तेषामतीव सुमनोरमाः। शैलानामन्तरे द्रोण्यः सिद्धचारणसेविताः। सुरम्याणि तथा तेषु काननानि पुराणि च। लक्ष्मीविष्ण्वग्निसूर्य्यादिदेवानां सुनिसत्तम!। तान्यायतनवर्य्याणि जुष्टानि वराकन्नरैः। गन्धर्वयक्षरक्षांसि तथा दैतेयदानवाः। क्रीडन्ति तासु रम्यासु शैलद्रोणीष्वहर्निशम्। भौमाह्येते स्मृताः स्वर्गा धर्मिणामालयामुने!। नैतेषु पापकर्माणी यान्ति जन्मशतैरपि। भद्राश्वे भगवान् विष्णुरास्ते हयशिरा द्विज!। वराहः केतुमाले तु भारते कूर्मरूपधृक्। मत्स्यरूपश्च गोविन्दः कुरुष्वास्ते सनातनः। विश्वरूपेण सर्वत्र सर्वः सर्वेश्वरो हरिः। सर्वस्याधारभूतोऽसौ मैत्रेयास्तेऽखिलात्मकः। यानि किपुरुषाद्यानि वर्षाण्यष्टौ महामुने!। न तेषु शोको नायासी नोद्वेगः क्षुद्भयादिकम्। सुस्था प्रजा निरातङ्काः सर्वदुः स्वविवर्जिताः। दशद्वादशवर्षाणां सहस्राणि स्थिरायुषः। न तेषु वर्षवर्य्येषु भौमान्यम्भांसि तेषु वै। कृतत्रेतादिका नैव तेषु स्थानेषु कल्पना। सर्वेष्वेतेषु वर्षेषु सप्त सप्त कुलाचलाः। नद्यश्च शतशस्तेभ्यः प्रसूता या द्विजोत्तम!”। “पराशर उवाच। उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम्। वर्षं तद्भारतं नाम भारती यत्र सन्ततिः। नवयोजनसाहस्रो विस्तारोऽस्य महामुने!। कर्ममूमिरियं स्वर्गमपवर्गञ्च गच्छताम्। महेन्द्रो मलयः सह्यः शक्तिमानृक्षपर्वतः। विन्ध्यश्च पारि(या) पात्रश्च सप्तात्र कुलपर्वताः। अतः संप्राप्यते स्वर्गो मुक्तिमस्मात् प्रयान्ति च। तिर्य्यक्त्वं नरकत्वञ्च यान्त्यतः पुरुषामुने!। इतः स्वर्गश्च मोक्षश्च मध्यञ्चान्तश्च गम्यते। न खत्वन्यत्र मर्त्यानां कर्म भूमौ विधीयते। भारतस्यास्य वर्षस्य नवभेदान्निशामय। इन्द्रद्वीपः कशेरुमांस्ताम्रवर्णो गभस्तिमान्। नामद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः। अयन्तु नवमस्तेषां द्वीपः सागरसंवृतः। योजनानां सहस्रन्तु द्वीपोऽयं दक्षिणोत्तरात्। पूर्वे किराता यस्यापि पश्चिमे जवनाः स्थिताः। ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भागशः। इज्यायुद्धबलिज्याद्यैर्वर्त्तयन्तो व्यवस्थिताः। वेदस्मृतिमुखाश्चान्याः पारि(या)पात्रोद्भवा मुने!। नर्मदा सुरसाद्याश्च नद्यो विन्ध्यविनिर्गताः। तापीपयोष्णीनिर्विन्ध्या कावेरीपमुखा नदी। गोदावरीभीमरथीकृष्णवेण्वादिकास्तथा। सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः। कृतामलाताम्रपर्णीप्रमुखामलयोद्भवाः। त्रिसामा ऋषिकुल्याद्या महेन्द्रप्रभवाः स्मृताः। ऋषिकुल्याकुमाराद्याः शुक्तिमत्पादसम्भवाः। शतद्रूचन्द्रभागाद्या हिमवत्पादनिःसृताः। आसां नद्युपनद्यश्च सन्त्यन्यास्तु सहस्रशः। अत्रेमे कुरुपञ्चालमध्यदेशादयोजनाः। पूर्वदेशादिकाश्चैव कामरूपनिवासिनः। ओड्राः कलिङ्गामनधा दाक्षि णात्याश्च सर्वशः। तथापरान्ताः सौराष्ट्राः शुद्धाभीरास्तथार्बुदाः। मारुकामालकाश्चैव पारि(या)पात्रनिवासिनः। तौवीराः सैन्धवाहूणा शाल्लाः शाकलवासिनः। मद्रानामास्तथाम्बष्ठाः पारसीकादयस्तथा। चासां पिबन्तः सलिलं वसन्ति सरितां सदा। चत्वारि भारते वर्षे युगान्यत्र महामुने!। कृत त्रेता द्वापर कलिश्चान्यत्र न क्वचित्। तपस्तप्यन्ति मुनयोजुह्वते चात्र यज्विनः। दानानि चात्र दीयन्ते परलोकाममादरात। पुरुवैर्यज्ञ- पुरुषो जम्बूद्वीपे सदेज्यते। तत्रापि भारतं श्लेष्ठं जम्बूद्वीपे महामुने!। यतो हि कर्मभूरेषा ततोऽन्याभोगभूमयः। अत्र जन्मसहस्राणां सहस्रैरपि सत्तम!। कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयम्। गायन्ति देवाः किल गीतकानि धन्यास्तु ये भारतभूमिभागे। स्वर्गापवर्गास्पदहेतुभूते भवन्ति भूयः पुरुषाः सुरत्यात्। कर्माण्यसंकल्पिततत्फलानि सन्न्यस्य विष्णौ परमात्मरूप। अवाप्य ता कममहीमनन्ते तस्मि~ल्लयं ये त्वमलाः प्रयान्ति। जानीम नैतवद्धवयं विलीने स्वर्गप्रदे कर्मणि देहबन्धम्। प्राप्स्याम धन्याः खलु ते मनुष्या ये भारते नेन्द्रियविप्रहीनाः। नववर्षन्तु मैत्रेय! जम्बूद्वीपमिदं मया। लक्षयोजनविस्तार संक्षेपात् कथितं तव। जम्बूद्वीप समातुत्य लक्षयोजनविस्तृतः। मैत्रेय! वलयाकारः स्थितः स्वीरोदधिर्बहिः। “पराशर उवाच। क्षीरोदेन यथाद्वीपो जस्बुसङ्गाऽभिवेष्टितः। संवेष्ट्य क्षारमुदधिं प्लक्षद्वीयस्तथा स्थितः। जम्बूद्वीपस्य विस्तारः शतसाहस्रसम्मितः। स एव द्विगुणो ब्रह्मन्! प्लक्षद्वीपोऽप्युदा हृतः। सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य वै। ज्येष्ठः शान्तभयो नाम शैशिरस्तदनन्तरः। सुखोदयस्तथानन्दः शिवः क्षेमक एव च। ध्रुवश्च सप्तमस्तेषां प्लक्षद्वीपेश्वरा इमे। पूर्वं शान्तभयं वर्षं शिशिरं मुखटं तथा। आनन्दञ्च शिवञ्चैव क्षेमकं घ्रुवमेव च। मर्य्याटाकारकास्तेषां तथान्ये वर्षपर्वताः। सप्तैव तेषां नामानि शृणुष्व मुनिसत्तम!। गोमेदश्चैव चन्दश्च नारदोदुन्दुभिस्तथा। सोमकः सुमनाः शैलो वैभ्राजश्चैव सप्तमः। वर्षाचलेषु रम्येषु सर्वेष्वेतेषु चानघाः। वसन्ति देवगन्धर्वसहिताः सततं प्रजाः। तेषु पुण्या जनपदाश्चिराच्च म्रियते जनः। नाधयोघ्याधयोवापि सर्वकालसुखं हि तत्। तेषां नद्यश्च सप्तैव वर्षाणान्तु समुद्रगाः। नामतस्ताः प्रवक्ष्यामि श्रुताः पाप हरन्ति याः। अमुतप्ता शिखा चैव विपापा दिदिवा क्रमुः। अमृता सुकृता चैव सप्तौतास्तत्र निमृगाः। एते शैलास्तथा नद्यः प्रधानाः कथितास्तव। क्षुद्रनद्यस्तथा शैलास्तत्र सन्ति सहस्रशः। ताः पिबन्ति सदा हृष्टा नदीर्जनपदास्तु ते। अपसर्पिणी न तेषां वै नचैचोतसर्पिणी प्रजा। नात्रचास्त युगावस्या तेषु स्थानेषु सप्तषु। त्रेतायुगसमः कालः मर्वदैव महासने!। प्लक्षद्वीपादिषु ब्रह्मन्। शाकद्वीपान्तियेषु ते। पञ्चवर्षसहस्राणि जना तीवन्त्यना- मयाः। धर्माः पञ्चस्यथैतेषु वर्णाश्रभविभागजाः। यर्णाश्च तत्र चत्वारस्तान्निबोध वदामि ते। आर्य्यकाः कुरराश्चैव विविंशाभाविनश्च ते। विपक्षत्रियवैश्यास्ते शूद्राश्च द्विजसत्तम!। जम्बूवृक्षप्रमाणस्तु तन्मध्ये सुमहातरुः। प्लक्षस्तन्नामसंज्ञोऽयं प्लक्षद्वीपो द्विजोत्तम!। इज्यते भगवांस्तत्र तैर्वर्णैरार्य्यकादिभिः। सोमरूपी जगत्स्रष्टा सर्वः सर्वेश्वरो हरिः। प्लक्षद्वीपप्रमाणेन प्लक्षद्वीपसमावृतः। तथैवेक्षुरसोदेन परिवेशानुकारिणा। इत्येतत्तव मैत्रेय! प्लक्षद्वीपमुदाहृतम्। संक्षेपेण मया भूयः शाल्मलं मे निशामय। शाल्मलस्येश्वरो वीरो वपुष्मांस्तत्सुतान् शृणु। तेषान्तु नामसंज्ञानि सप्त वर्षाणि तानि वै। श्वेतोऽत्र हरितश्चैव जीमूतो हरितस्तथा। वैद्युतो मानसश्चैव सुप्रभश्च महामुने!। शाल्मलेन समुद्रोऽसौ द्वीपेनेक्षुरसोदकः। विस्तारद्विगुणेनाथ सर्वतः संवृतः स्थितः। तत्रापि पर्वताः सप्त विज्ञेयारत्नयोनयः। रसाभिव्यञ्जकास्ते तु तथा सप्तैव निम्नगाः। कुमुदश्चोन्नतश्चैव तृतीयश्च बलाहकः। द्रोणो यत्र महौषध्यः स चतुर्थो महीधरः। कङ्कस्तु पञ्चमः षष्ठो महिषः सप्तमस्तथा। कुमुद्वान् पर्वतवरः सरिन्नामानि मे शृणु। योनितोया वितृष्णा च चन्द्रा शुक्ला विमोचनी। निवृत्तिः सप्तमी तासां स्मृतास्ताः पापशान्तिदाः। श्वेतञ्च लोहितञ्चैव जीमूतं हरितं तथा। वैद्युतं मानसञ्चैव सुप्रभं नाम सप्तमम्। सप्तैतानि तु वर्षाणि चातुर्वर्णयुतानि वै। शाल्मलेऽपि च ये वर्णा वसन्त्येते महामुने!। कपिलाश्चारुणाः पीताः कृष्णाश्चैव पृथक् पृथक्। ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव यजन्तितम्। भगवन्तं समस्तस्य विष्णुमात्मानमव्ययम्। वायुभूतं मुखश्रेष्ठैर्यज्वितोऽसङ्गसंस्थितिम्। देवानामत्र सान्निध्यमत्रैव समनोरमे। शाल्मलिश्च महावृक्षो नाम निर्वृतिकार कः एष द्वीपः समुद्रेण सुरीदेनं समावृतः। विस्तारः शाल्मलस्यैव समेन तु समन्वतः। सुरोदकः परिवृतः कुशद्वीपेन सर्वतः। शाल्मलस्य तु विस्ताराद्द्विगुणेन समन्ततः। ज्योतिष्मतः कुशद्वीपे सप्त पुत्राः शृणुष्व तान्। उद्भिदो रेणुमांश्चैव सुरथो लम्बनो धृतिः। प्रभाकरोऽथ कपिलस्तन्नाम्ना वर्ष उच्यते। तस्मिन् वसन्ति मनुजाः सह दैतेयदानषैः। तथैव देवगन्धर्वयक्षकिंपुरुषादिभिः। वर्णास्तत्रापि चत्वारो निजानुष्ठानतत्पराः। दमिनः शुष्मिणः स्नेहा मन्देहाश्च महामुने!। ब्राह्मणाः क्षत्रियाः वैश्याः शूद्राश्चानुक्रमोदिताः। यथोक्तकर्मकर्तृत्वात् स्वाधिकारक्षयाय ते। तत्र यत्तत् कुशद्वीपे ब्रह्मरूपं जनार्दनम्। यजन्तः क्षपयन्नुग्रमधिकारफलप्रदम्। विद्रुमो हेमशैलश्च द्युतिमान् पुष्पवांस्तथा १ कुशेशयो हरिश्चैव सप्तमो मन्दराचलः। वर्षाचलास्तु सप्तैव तत्र द्वीपे महामुने!। नद्योऽपि सप्त तासाञ्च शृणु नामान्यनुक्रमात्। धूतपापा शिवा चैव पवित्रा सम्मतिस्तथा। विद्युदस्ता मही चैव सर्वपापहरास्त्विमाः। अन्याः सहस्रशस्तत्र क्षुद्रनद्यस्तथाऽचलाः। कुशद्वीपे कुशस्तम्बः संज्ञया तस्य तत् स्मृतम्। तत्प्रमाणेन स द्वीपो घृतोदेन समावृतः। धृतोदश्च समुद्रो वै क्रौञ्चद्वीपेन संवृतः। क्रौञ्चद्वीपो महाभाग! श्रूयताञ्चापरो महान्। कुशद्वीपस्य विस्ताराद्द्विगुणो यस्य विस्तरः। क्रौञ्चद्वीपे द्युतिमतः पुत्राः सप्र महात्मनः। तन्नामानि च वर्षाणि तेषाञ्चक्रे महीपतिः। कुशलो मन्दगश्चोष्णः पीवरीऽथान्धकारकः। मुनिश्च दुन्दुभिश्चैव सप्रेते तत्सुता मुने!। तत्रापि देवगन्धर्वसेविताः सुमनोरमाः। वर्षाचला महाबुद्धे! तेषां नामानि मे शृणु। क्रौञ्चश्च वामनश्चैव तृतीयश्चान्धकारकः। चतुर्थी हरशैलश्च स्वभाभिर्भासयन्नभः। देवावृत् पञ्चमश्चैव तथा स्वःपुण्डरीकवान्। दुन्दुभिश्च महाशैलो द्विगुणास्ते परस्परम्। द्वीपद्वीपेषु ये शैला यथा द्वीपानि ते तथा। वर्षेष्वेतेषु रम्येषु वर्षशैलवरेषु च। निवसन्ति निरातङ्काः सहदेवगणैः प्रजाः। पुष्कराः पुष्कलाधन्यास्तिष्याख्याश्च महामुने!। ब्राह्मणाः क्षत्रियावैश्याः शूद्राश्चानुक्रमोदिताः। ते तत्र नद्यो मैत्रेय! या पिवन्ति शृणुष्वताः। सप्त प्रधानाः परतस्तत्रान्याः क्षुद्रनिम्नगाः। सौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा। ख्यातिश्च पुण्डरीका च सप्तैता वर्षनिम्नगाः। तत्रापि वर्णैर्भगवान् पुष्कराद्यैर्जनार्दनः। योगिरुद्रस्वरूपस्तु इज्यते यज्ञसन्निधौ। क्रौञ्चद्वीपः समुद्रेण दधिमण्डीदकेन च। आवृतः सर्वतः क्रौञ्चद्वीपतुल्येन मानतः। दधिमण्डोदकश्चापि शाकद्वीपेन संवृतः। क्रौञ्चद्वीपस्य विस्ताराद् द्विगुणेन महामते!। शाकद्वीपेश्वरस्यापि भवस्य सुमहात्मनः। सप्तैव तनयास्तेषां ददौ वर्षाणि सप्त च। जलदश्च कुमारश्च सुकुमारो मणीरकः। कुमुदोदः समौदाकिः सप्तमश्च महाद्रुमः तत्संज्ञान्यपि- तान्येव सप्त वर्षाण्यनुक्रमात्। तत्रापि पर्वताः सप्त वर्षविच्छेदकारिणः। पूर्वस्तत्रोदयनिरिर्जलाधारस्तथा परः तथा रेवतकः श्यामस्तथैवास्तगिरिर्द्विज!। आम्बिकेयस्तथा रम्यः केशरी पर्वतोत्तमः। शाकस्तत्र महावृक्षः सिद्धगन्धर्वसेवितः। तत्पत्रवातसंसर्गादाह्लादो जायते परः। तत्र पुण्या जनपदाश्चातुर्वर्ण्यसमन्विताः। नद्यश्चात्र महापुण्याः सर्वपापभयापहाः। सुकुमारी कुमारी च नलिनी रेणुका तथा। इक्षुश्च धेनुका चैव गभस्ती सप्तमी तथा अन्यास्त्वयुतशस्तत्र क्षुद्रनद्यो महामुने!। महीधरास्तथा चात्र शतमोऽथ सहस्रशः। ताः पिबन्ति मुदायुक्ता जलदादिषु ये स्थिताः। वर्षेष्वेते जनपदाः स्वर्गादभ्येत्य मेदिनीम्। धर्महानिर्न तेष्वस्ति न संहर्षः परस्परम्। मर्य्यादाव्युत्क्रमो नापि तेषु देशेषु सप्तसु। मागाश्च मानधाश्चैव मानसा मन्दगास्तथा। मागा व्राह्मणभूयिष्ठा मागधा क्षत्रियास्तथा। वैश्यास्तु मानसास्तेषां शूद्रास्तेषां तु मन्दगाः। शाकद्वीपे तु तैर्वर्णैः सूर्य्यरूपधरो मुने!। यथोक्तैरिज्यते सम्यक्कर्मभिर्नियतात्मभिः। शाकद्वीपस्तु मैत्रेय! क्षीरोदेन समन्ततः। शाकद्वीपप्रमाणेन बलयेनेव वेष्टितः। क्षीराब्धिः सर्वतो ब्रह्मन्! पुष्कराख्येन येष्टितः। द्वीपेन शाकद्वीपात्तु द्विगुणेन समन्ततः। पुष्कराख्य द्वीपपतेर्महावीतोऽभवत् सुतः। धातकिश्च तयोस्तत्र द्वेवर्षे नाम चिह्निते। महावीतं तथैवान्यत् धातकीषण्डभण्डितम्। एकश्चात्र महाभाग! प्रख्यातो वर्षपर्वतः। मानसोत्तरसंज्ञो वै मध्यतो बलयाकृतिः। योजनानां सहस्राणि ऊर्द्ध्वं पञ्चाशदुच्छ्रितः। तावदैव च विस्तीर्णः सर्वतः परिमण्डलः। पुष्करद्वीपबलयं मध्ये संविभजन्निव। स्थितोऽसौ सुमहान् शैलो व्याप्य तद्वर्षकद्वयम्। बलयाकारमेकैकं तयोर्वर्षं तथा गिरिः। दशवर्षसहस्राणि यत्र जीवन्ति मानवाः। निरामया विशोकाश्च रानद्वेषविवर्जिताः। अधमोत्तमौ न तेष्वास्तां न नध्यबधकौ द्विज! नेर्ष्यासूयाभयं रोषो दोषो लोभादिको न च। महावीतं महावर्षं धातकीसंङ्गमन्ततः। मानसोत्तरशैलश्च देवदैत्यादि सेवितः। सत्यानृतं न तत्रास्ते द्वीपे पुष्करसंज्ञिते। न तत्र शैलनद्यो वा द्वीपे वर्षद्वयान्विते। तुल्यवेशास्तु मनुजादेवैस्तत्रैकरूपिणः। वर्णाश्रमाचांरहीनं धर्माहरणवर्जितम्। त्रयीवार्त्तादण्डनीतिशुश्र षारहितञ्च तत्। वर्षद्वयञ्च मैत्रेय! भौमः स्वर्गोऽयमुत्तमः। सर्वश्च सुखदः कालो जरारीगादिवर्जितः। पुष्करे धातकीषण्डं महावीते च वै मुने!। न्यग्रोधः पुष्करद्वीपे व्रह्मणः स्थानमुत्तमम्। तस्मिन्निवसति ब्रह्म। पूज्यमानः सुरासुरैः। स्वादूदकेनोदधिना पुष्करः परियेष्टितः। समेन पुष्करस्यैव विस्तारान्मण्डलात्तथा। एवं द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः। द्वीपश्चैव समुद्रश्च समानौ द्विगुणौ परौ। पयांसि सर्वदा सर्वसमुद्रेषु समानि वै। ऊनातिरिक्तता तेषां कदाचिन्नैव जायते। स्थालीस्थमग्निसंयोगादुद्रेकि सलिलं यथा। तथेन्दुवृद्धौ सलिलमम्भोधौ मुनिसत्तम!। अनूमाश्चातिरिक्ताश्च वर्द्धन्त्यापो ह्रसन्ति च। उदयास्तमनेष्विन्दोः पक्षयोः शुक्लकृष्णयोः। दशोत्तराणि पञ्चैव अङ्गुलानां शतानि वै। अपां धृद्विक्षयौ दृष्टौ सामुद्रीणां महामुने!। भोजनं पुष्करद्वीपे तत्र स्वयमुपस्थितम्। यत्र संभुञ्जते विप्र! प्रजाः सर्वाः सदैव हि। स्वादूदकस्य पुरतो दृश्यते लोकसंस्थितिः। द्विगुणा काञ्चनी भूमिः सर्वजन्तुविवर्जिता। लोकालोकस्ततः शैलो योजनायुतविस्तरः। उच्छ्रायेणापि तावन्ति सहस्राण्यचलो हि सः। ततस्तमः समावृत्य तं शैह्यं सर्वतः स्थितम्। तमश्चाण्डकटाहेन समन्तात् परिवेष्टितम्। पञ्चाशत्कीटिविस्तीर्णा सेयमुवीं महामुने!। सहैवाण्डकटाहेन सद्वीपाब्धिमहीधरा। सेयं धात्री विधात्री च सर्वभूतगुणाधिका। आधारभूता सर्वेषां मैत्रेय! जगतामिति”।

भूगोलस्य स्थिरत्वे युक्तिः खगोलशब्दे उक्ता अधिकमत्र किञ्चिदुच्यते इलण्डीयज्योतिर्विदां मते भूगोलस्यैव दक्षिणोत्तरगतिभ्यां सूर्य्यस्य उत्तरदक्षिणगतित्वं कल्प्यते स्थिरस्य सूर्य्यस्य उत्तरदक्षिणायनयोरसम्भवादिति। तदेतन्मतमतीवासमञ्जसं भूगोलस्य दक्षिणोत्तरगतिस्वीकारे सूर्य्यस्येव कृत्तिकारोहिणोशकटमृगव्याधादीनामपि उत्तरदक्षिणयोर्गतिः प्रसज्येत न च तथा दृश्यते तेषाञ्च यथा विक्षेपनामशरसंख्या सौरागमे पठिता तादृशान्तर एव प्रत्यहं दर्शनं न मनागपि उत्तरदक्षिणाथनमिति विवेच्य भूगालस्य रिवात्वभनुसन्धातव्यम्।

भूच्छाया = स्त्री भुवश्छाया। सूर्य्यकिरणासम्पकात् भापनाने राहुग्रहाभिधाने १ तमसि २ अन्धकारे च शब्दमाला।

भूजन्तु = पु० भूरिव जन्तुः। नागे हस्तिनि राजनि०।

भूजम्बू = स्त्री भुवो जम्बूरिव स्वादुत्वात्। १ गोधूमे २ विकङ्क- तफले च (वैचि) मेदि० भूमिलीना जम्बूः शाक० त० ३ क्षुद्रजम्ब्वाम्। भूमिजम्ब्वादयोऽप्यत्र स्त्री

भूत = न० भू–क्त। १ न्याय्ये उचिते पृथिवीजलतेजोबायुगगनरूपेषु गन्धादिविशेषगुणवत्षु २ द्रव्येषु, ४ सत्ये, यथार्थे वास्तविके “भूतमप्यनुपत्यस्तं हीयते व्यवहारतः” इति स्मृतिः। ५ तत्त्वानुसन्धाने च “छलं निरस्य भूतेन” स्मृतिः। ६ पिशाचादौ पु० ७ कुमारे ८ योगीन्द्रे ९ कृष्णपक्षे १० प्राणिनि च न०। ११ अतीते वृत्ते १२ सदृशे १३ प्राप्ते १४ सत्यार्थे त्रि०। १५ कृष्णचतुर्दर्श्या स्त्री टाप्। भूतत्वं च आत्मान्यत्वे सति विशेषगुणवत्त्वम् न तु जातिः मूर्त्तत्वेन साङ्कर्य्यात् तथाहि भूतत्वाभावबति मनसि मूर्त्तत्वस्य सत्त्वात् मूर्त्तत्वाभाववति गगने भूतत्वस्य सत्त्वात् उभयोः परस्परभावसामानाधिकरण्यम् पृथिव्यादिषु चतुर्षु च भूतत्वमूर्त्तत्वयोरुभयोः सत्त्वात् परस्परसामानाधिकरण्यमिति माङ्कर्य्यात् जातिव्याधकता।

भूतकला = स्त्री ६ त०। शा० ति० उक्ते धरादिभूतानामुत्पादके निवृत्त्याद्ये शक्तिभेदे “धरादिपञ्चभूतानां निवृत्त्याद्याः कलाः स्मृताः। निवृत्तिः सुप्रतिष्ठा स्यात् विद्या शान्तिरनन्तरन्तरम्। शान्त्यतीतेति ता ज्ञेया नाददेहसमुद्भवाः” शा० ति० “शक्तिः प्रथमसम्भूता शान्त्यतीतापदोत्तरा शान्त्यतीतापदाच्छक्तेस्ततः शान्तिपदं क्रमात्। ततो विद्यापदं तस्मात् प्रतिष्ठापदसंग्रहः। निवृत्तिपदमुत्पन्नं प्रतिष्ठापदतः परम्। एवमुक्ता सवासेन सृष्टिरीश्वरनोदिता। आनुलोम्यादथैतेषां प्रातिलोम्वेन संहृतिः। अस्मात् पञ्चपदोद्दिष्टान्न सृष्ट्यन्तरमिष्यते। कलाभिः पञ्चभिर्व्याप्तं यस्माद्विश्वमिदं जगत्” राघवभट्टधृतवायवीयसंहिता।

भूतकेश = पु० भूतानां केश इव। (भूतकेश) नामके १ तृणभेदे स्त्रीत्वमपि ङीष्। सा च तत्र, २ शेफालिकार्या च टाप्। ३ नीलसिन्धुवारे स्त्री ङीष्।

भूतक्रान्ति = स्त्री ६ त०। पिशाचावेशे राजनि०।

भूतगन्धा = स्त्री० भूतः प्रभूतः गन्धो यस्याः। सुरानामगन्धद्रव्ये जटाध०।

भूतगुण = पु० ६ त०। आकाशादीनां शब्दस्पर्शादिषु विशेषगुणेषु “शब्दस्पर्शरूप्ररसगन्धा भूतगुणाः स्मृताः” शा० ति० “भूतगुणा भूतविशेषगुणा इत्यर्थः राघवः”। तत्रैव भूतानामेकैकविशेषगुणा उक्ता यथा “आकाशस्य गुणः शब्दो वाग्नेः स्पर्शः तेजसो रूपं जलस्य रसः भूमेर्गन्धः इति नैयायिकादयः। सांख्यादयस्तु अन्यथाङ्गीचक्रुर्यथोक्तमीशानसंहितायाम् “शब्दैकगुण आकाशः शब्दस्पर्शगुणो मरुत्। शब्दस्पर्शरूपगुणैस्त्रिगुणं तेज इष्यते। शब्दस्पशरूपरसैरापो ज्ञेयाश्चतुर्गुणाः। शब्दस्पर्शरूपरसगन्धैः पञ्चगुणा मही”।

भूतघ्न = पु० भतं हन्ति हन–टक्। १ भूर्जपत्रे राजनि० तद्धारणे हि बालग्रहमूतादिनिवारणं शास्त्रे प्रसिद्धम्। भूतं प्रकृतं गन्धं हन्ति अधःकरोति। २ लशुने ३ उष्ट्रे च राजनि०। ३ भूतनाशके त्रि० हेमच०। ४ तुलस्यां स्त्री राजनि० ङीप्।

भूतचतुर्दशी = स्त्री० भूतप्रिया चतुर्दशी तदुद्देशेन तस्यां दीपदानात्। आश्विनकृष्णपक्षचतुर्दश्यां दीपान्वितामावास्यापूर्वतिथौ यमचतुर्दश्याम्।

भूतजटा = स्त्री भूतस्य पिशाचस्य जदेव। १ जटामांस्ताम् शब्दमा०। २ गन्धमांस्यां राजनि०।

भूतद्राविन् = पु० भूतान् पिशाचान् द्रावयत्यपसारयति द्रुणिच्–णिनि। १ रक्तकरवोरवृक्षे २ भूताङ्कुशवृक्षे च राजनि०

भूतद्रुम = पु० भूतैव द्रुमः। स्लेष्मातकवृक्षे। भूतवृक्षादयोऽप्यत्र। भूतप्रियः द्रुमः शाक० त०। २ शाखोटकवृक्षे।

भूतधात्री = स्त्री० भूतानि जन्तून् धारयति धा–तृच् ङीप्। पृथिव्याम् त्रिका०।

भूतनाथ = पु० ६ त०। १ शिवे २ वटुकभैरवे च। “भैरवो भूतनाथश्च” इति वटुकस्तोत्रन्। भूतेशभूतपत्यादयोप्यत्र।

भूतनाशन = न० भूतान् नाशयति नश–णिच्–ल्यु। १ रुद्राक्षे राजनि० २ सर्षपे पु० ३ भल्लातके च रत्नमा०।

भूतपक्ष = पु० भूतप्रियः पक्षः अन्धकारवत्त्वात्। कृष्णपक्षे।

भूतपत्त्नी = स्त्री भूतैव कृष्णं पत्रं यस्याः ङीष्। कृष्णतुलस्याम् राजनि०।

भूतपुष्प = पु० भूत इव पुष्पं कृष्णत्वात् यस्य। श्योनाकवृक्षे रत्नमा०।

भूतपूर्णिमा = स्त्री आश्विनपूर्णिमायाम् शब्दर०।

भूतभावन = पु० भूतानि पृथिव्यादीनि मावयति जनयति भू–णिष्–ल्यु, भूता सत्या यथार्था भावना यस्त वा। १ विष्णौ, २ वटुकभैरवे च “भूतात्मा भूतभावनः” इति। तयोः स्तोत्रे।

भूतमण्डल = न० ६ त०। शा० ति० उक्ते पृथिव्यादीनां मण्डलभेदे तत्स्वरूपं तत्रोक्तं यथा “वृत्तं दिवस्तत् षड्विन्दुलाञ्छितं भातरिश्वनः। त्रिलोणं स्वस्तिकोपेतं वह्नेरर्द्धेन्दुसंयुतम्। अम्भोभमम्भसो भूमेश्चतुरस्यं सवज्रकम्। तत्तद्भूतकमानानि मण्डमानि विदुर्बुधाः। वर्णेः खैरञ्जितान्याहुः स्वस्यनामावृतान्यपि”। “वर्णैः श्वेतादिभिर्भूतवर्णैरजोभिरञ्जितानीति पदार्थादर्शः। तत्रैतद्व्याख्या विस्तरेण दृश्या। मन्त्रमहोदधौ तेषां स्पष्टं स्वरूपं कर्मविशेषे विनियोगश्चोक्तो यथा “अर्द्धचन्द्रनिभं पार्श्वद्वये पद्मद्वयाङ्कितम्। जलस्य मण्डलं प्रोक्तं प्रशस्तं शान्ति कर्मणि। त्रिकोणं स्वस्तिकोपेतं वश्ये वह्नेस्तु मण्डलम्। चतुरस्रं वज्रयुक्तं स्तम्भे भूमेस्तु मण्डलम्। वृत्तं दिवस्तु विद्वेषे विन्दु षट्काङ्कितं तु तत्। वायुमण्डलमुच्चाटे मारणे वह्निमण्डलम्”।

भूतमारिन् = पु० भूतान् पिशाचान् मारयति अपसारयति मृ–णिच्–णिनि। चिडानामगन्धद्रव्ये राजनि०।

भूतयज्ञ = पु० भूतानि प्राणिनो वायसादीन् उद्दिश्य यज्ञो वलिः। नित्यं गृहस्थकर्त्तव्यपञ्चयज्ञान्तर्गते बलिवैश्वदेव कर्मणि “भूतेभ्यो बलिहरणं भूतयज्ञः” हारीत स्मृतिः।

भूतयोनि = स्त्री ६ त०। भूतानामाकाशादीनां कारणे परमेश्वरे कैवल्योप०।

भूतल = न० भूरेव तलम्। १ पृथिव्याम्। ६ त०। २ पाताले भूमेरधोभागे।

भूतलिका = स्त्री भूतलं पातालं मूलत्वेनास्त्यस्याः ठन्। पृक्का याम् (पिडिङ्शाक) राजनि० बहुदूरगमूलत्वात्तस्यास्तथात्वम्।

भूतलिपि = स्त्री ६ त०। भूतदैवत्ये वर्णभेदे “वाथ्यग्निभूजलाकाशाः पञ्चाशल्लिपयः क्रमात्। पञ्च ह्रस्वाः पञ्च दीर्घाः विन्द्वन्ताः सन्धिसम्भवाः। पञ्चशः कादयः षक्षलसहान्ताः प्रकीर्त्तिताः” शा० ति०। कुलाकुलचक्रशब्दे २१३४ पृ० दृश्यम्।

भूतलोन्माथ = पु० दानवभेदे हरिवं० २४ अ०।

भूतवर्ण = पु० ६ त०। ध्येये भूतानां श्वेतादिवर्णे यथोक्तं शा० ति० “स्वच्छं वियन्मरुत् कृष्णो रक्तोऽग्निर्विशदं प्रयः। पीता भूसिः पञ्चभूतान्येकैकाधारतो विदुः”। “स्वच्छं श्वेतं तत्र केषाञ्चिदरूपिद्रव्याणां वर्णकथनमुपादानार्थं स्वशास्त्रानुरोधेन” राघवः। भूतदैवते ह्रस्वदीर्घसहिते वर्गादिवर्णे च। भूतलिपिशब्दे कुलाकुलचक्रशब्दे च दृश्यम्।

भूतवास = पु० ७ त०। (वयडा) विभीतकघृक्षे। भूतावासादयोप्यत्र

भूतविकाया = स्त्री भूतानां तदाविशिष्टानामिव विक्रिया यतः। अपस्माररोगे राजनि०

भूतविद्या = स्त्री भूतादिनिवारणार्था विद्या। सुश्रुतीक्ते देवाद्युपसर्गोपशमार्थे वलिहरणादौ “भूतविद्या नाम देवासुरगन्धर्वयक्षरक्षापितृपिशाचनागग्रहाद्युपसृष्टचेतसां शान्तिकर्म बलिहरणादि ग्रहोपशमनार्थम्” सा च तत्र उत्तरतन्त्रे दर्शिता “ब्रह्मविद्या क्षत्रविद्या नक्षत्रविद्या भूतविद्या सर्पविद्या” छा० उ०।

भूतवेशी = स्त्री भूतानामिव वेशोऽग्र्याः गौरा० ङीष्। श्वेतशेफालिकायाम् अमरः।

भूतव्रह्मन् = पु० भूतः पिशाच इव व्रह्मा। देवले शब्दमाला।

भूतशुद्धि = स्त्री० भूतानां देहारम्भकपृथिव्यादीनां शुद्धिर्भावना विशेषात् शोधनम्। तन्त्रादौ प्रसिद्धे देहारम्भकचतुर्विंशतितत्त्वानां भावनाविशेषेण संस्कारेण देवरूपतासम्पादने। भूतशुद्धिप्रकारस्तन्त्रसारे उक्तो यथा गौतमीये “सुषुम्णावर्त्मना सोऽहमिति मन्त्रेण योजयेत्। सहस्रारे शिवे स्थाने परमात्मनि देशिकः। धूम्रवर्णं ततो वायुवीजं(यं) षड्विन्दुलाञ्छितम्। पूरये दिडया वायुं सुधीः षोडशमात्रया। मात्रया तु चतुःषष्ट्या कुम्भयेच्च सुषुम्णया। द्वात्रिंशन्मात्रया मन्त्री रेचयेत् पिङ्गलाख्यया। पूरयेदनया चैव सञ्चिन्त्य नीलमारुतम्। रक्तवर्णं वह्निवीजं (रं) त्रिकोणं स्वस्तिकान्वितम्। तेन पूरकयोगेन मात्रया षोडशाख्यया। चतुःषष्ट्या मात्रया च निर्दहेत् कुम्भकेन च। वामपार्श्वस्थितं पापपुरुषं कज्जलप्रभम्। ब्रह्महत्याशिरस्कञ्च स्वर्णस्तेयभुजद्वयम्। सुरापानहृदायुक्तं गुरुतल्पकटिद्वयम्। तत्संसर्गिपदद्वन्द्वमङ्गप्रत्यङ्गपातकम्। उपपातकरोमाणं रक्तश्मश्रुविलोचनम्। खड्गचर्मधर” क्रुद्धमेवं कुक्षौ विचिन्तयेत्। मूलाधारोत्थितेनैव वह्निना निर्दहेच्च तम्। एवं सन्दह्य परितो द्वात्रिंशन्मात्रया ततः। भस्मना सहितं मन्त्री रेचयेदिडया पुनः। वामनाड्यां चन्द्रबीजं (ठं) कुन्देन्वयुतसन्निभम्। भालेन्दुवीजे संयोज्य ततः षोडशमात्रया। सुषुम्णया चतुःषष्टिमात्रया तोयवीजकम् (वं)। ध्यात्वाऽमृतमयीं वृष्टि पञ्चाशद्वर्णरूपिणीम्। तया देहं विचिन्त्यैवं मनसा पिङ्गकाध्वना। द्वात्रिंशन्मात्रया मन्त्री लंवीजेन दृढं नयेत्। स्वस्थाने हंसमन्त्रेण पुनस्तेनैव वर्त्मना। जीवं तत्त्वानि चानीय स्वस्थाने स्थापयेत् ततः। इति कृत्वा भूतशुद्धिं मातृकाम्यासमाचरेत्”। ततो हंस इति वीजं हृदयमानीय कुलकुण्डलिनीं पृतिव्यादीनि च यथास्थाने स्थापयेत्। विशेषतस्तु शक्तिविषये। हंस इति जीवादिकं परमशिवे संयोज्य सोऽहमिति मन्त्रेण स्थाने नयेत्। तन्त्रान्तरे “सोऽहमेदं समाभाष्य जीवं हृदि समानयेत्”। शूद्रे तु विशेषो वाराहीतन्त्रे “हंसाख्यं न स्मरेत् शुद्रा भूतशुद्धौ कदाचन। स्वरणान्नरकं याति दीक्षा च विफला भवेत्”। शारदायाम् “जीवं तेजोमयं ध्यात्वा नमो मन्त्रेण योजयेत्”। भूतशुद्धिपदव्युत्पत्तिमाह विशुद्धेश्वरे “शरीराकारभूतानां भूतानां यद्विशोधनम्। अव्ययब्रह्मसंयोगात् भूतशुद्धिरियं मता” वराहीये “मूलाधारात्ततो वीजं ब्रह्ममार्गेण देशिकः। हंसेन पुष्करस्थाने परमात्मनि योजयेत्”। ब्रह्ममार्गः सुषुम्णा। त्रिपुरासारसमुच्चये “संयोज्य वीजमथ दुर्गममध्यनाडीमार्गेण पुष्करनिविष्टशिवे सुसूक्ष्मे”। ज्ञानार्णवे “प्राणप्रतिष्ठया पश्चात् जीवं देहे निधापयेत्। मुखवृत्तं समुच्चार्य्य हंसस्तु विपरीतकः। उद्धरेत् परमेशानि! विद्येयं त्र्यक्षरी मता। प्राणप्रतिष्ठामन्त्रोऽयं सर्वकर्माणि साधयेत्। तेनैव विधिना देवि! स्थिरीकुर्य्यान्निजां तनुम्”। तारादौ विशेषस्तत्रैव दृश्यः।

भूतसञ्चार = पु० ६ त०। भूतावेशे राजनि०।

भूतसञ्चारिन् = पु० भूत इव सञ्चरति सम + चर–णिनि। दावानले शब्दमा०।

भूतसंप्लव = पु० ६ त०। प्रलवे “आभूतसंप्लवस्थानममृतत्वं हि भाषते”।

भूतसर्ग = पु० ६ त०। भूतसृष्टौ स च चतुर्दशविधः यथोक्तं वह्निपु० “ब्राह्म्यं प्रजापतीयञ्च सौम्यमैन्द्रन्तथैव च। गान्धर्वमथ कौवेररक्षः पैशाचमानुषम्। स्थावरं पाशवं मार्गं सार्पं शाकुनिकन्तथा। चतुर्दशविधं ह्येतद्भूतसर्गं प्रकीर्त्तितम्” क्लीवत्वमार्षम्।

भूतसाधनी = स्त्री भूतानि प्राणिनः साधयति अत्र आधारे ल्युढ् ङीप्। भूमौ। भूमिं विना जन्तुमात्राणामुत्पत्तेरभावात् तस्यास्तथात्वम् यजु० २६। १ वेददीपः।

भूतसार = पु० भूत इव कृष्णत्वात् सारोऽस्य। श्योनाकवृक्षे राजनि०

भूतहन्त्री = स्त्री भूतान् तद्भयं हन्ति हन–तृच् ङीप्। १ बन्ध्याकर्कोट्यां, २ श्वेतदूर्वायाञ्च तद्धारणे हि स्त्रीणां प्रजोत्पत्तिरोधकभूतभयनाशः।

भूतहर = पु० भूतान् हरति अपसारयाति हृ–अच्। गुग्गुलौ राजनि०

भूतहारिन् = पु० भूतान् हरति स्थानान्तरं नयति हृणिनि। देवदारुवृक्षे राजनि०।

भूतांश = पु० १ ऋषिभेदे ऋ० १०। १०६। ११। २ काश्यपर्षौ निरु० १२। ४०। ६ त०। ३ भूतानासंशे च।

भूताङ्कुश = पु० भूतानां पिशाचानामङ्कुश इवापसारकत्वात्। स्वनामख्याते वृक्षे।

भूतात्मन् = पु० भूतानि पृथिव्यादीनि पञ्च द्रव्याणि आत्मा स्वरूपं यस्य। १ देहे भूतानि पञ्च द्रव्याणि भूताः प्राणिनश्च आत्मा स्वरूपं यस्य। २ परब्रह्मणि “मर्वं खल्विदं ब्रह्म तज्जलानिति” श्रुतिः। ३ सर्वभूतात्मके हिरण्यगर्भे ४ विष्णौ ५ वटुकमेरवे च ‘भूतात्मा भूतभावनः’ इति तयोः स्तोत्रे।

भूतादि = पु० ६ त०। “परमेश्वरे भूतादिर्निघिरव्ययः” विष्णुन सांख्यमतसिद्धे २ अहङ्कारतत्त्वे “अहङ्कारात् पञ्चतन्मात्राणि” सा० सू०। स्वार्थे क तत्रार्थे।

भूतारि = पु० ६ त०। हिङ्गौ राजनि० तद्गन्धेन हि भूतापसरणमिति तस्य तथात्वम्।

भूतार्त्त = त्रि० ३ त०। पिशाचाविष्टे हेमच०।

भूतार्थ = पु० भूतः सत्यभूतोऽर्थो यस्य। यथार्थे

भूताली = स्त्री० भूतानीव अलति पर्य्याप्नोति अल–अच् गौरा० ङीष्। १ भूमिपाटलौ, २ मूषल्याञ्च राजनि०।

भूतावास = पु० भूतानां प्राणिनामावासः अधिष्ठानत्वात्। १ विष्णौ, “भूतावासो वासुदेवः” विष्णु स०। “बसन्ति त्वयि भूतानि भूतावासस्ततो हरिः” हरिवं० ६ त०। २ विभीतकवृक्षे राजनि०।

भूताविष्ट = त्रि० भूतेनाविष्टः। पिशाचग्रस्ते “भूताविष्टेषु पञ्चाशत् मृतापत्यासु वै शतम्” ज्यो० त०।

भूतावेश = पु० ६ त०। पिशाचप्रवेशे (भूते पाओया) त्रिका०।

भूति = स्त्री भू–क्तित्। १ भवने २ अणिमाद्यष्टविधैश्वर्य्ये ३ शिवाङ्ग स्थभस्मनि ४ गजवेशे च भेदि० ५ भूतृणे ६ सम्पत्तौ ७ जात्यां विश्वः ८ वृद्धिनामौषधे च राजनि०।

भूतिक = न० भूत्या सम्पत्त्या कायति कै–क। १ भूनिम्बे २ कत्तृणै च अमरः। ३ यमान्याम् ४ चन्दने ५ कट्फले हेमच०। पृ० वा दीर्घः। भूतीकोप्यत्र चित्रके भावप्र०।

भूतिकील = पु० भूतेः सम्पत्तेः कील इव। (खाना) भूमिखाते शब्दमा०।

भूतितीर्था = स्त्री कुमारानुचरमातृभेदे भा० श० ४७ अ०।

भूतियुवक = पु० कूर्मचक्रस्य वामकुक्षिस्थे देशभेदे मार्कपु० ५८ अ०

भूतिलय = पु० तीर्थभेदे भा० व० १२९ अ०।

भूतृण = न० भुव इव तृणं गन्धवत्त्वात् (गन्धखड) १ तृणभेदे रत्नमा० २ रीहिषतृणे पु० राजनि०।

भूतेश = ६ त०। १ प्रथमाधीशे २ परमेश्वरे च भूतेश्वरादयोऽप्यत्र।

भूतेष्टा = स्त्री ६ त०। आश्विनकृष्णचतुर्दश्याम्।

भूतोड्डामर = न० तन्त्रभेदे।

भूतोन्माद = पु० भूतकृत उन्मादः। पिशाचकृते उन्मादे।

भूत्तम = न० भुवि उत्तमम्। सुवर्णे हेमच०।

भूदरीभवा = स्त्री० भूदर्य्यां भूमिबिले भवति भू० अच्। आखुकर्ण्याम् (उन्दरकानि) भावप्र०।

भूदार = पुंस्त्री० भुवं दृणाति खनति मुखाद्यर्थम् दॄ–अण्। शूकरे अमरः स्त्रियां जातित्वात् ङीष्।

भूदेव = पु० भुवि देव इव। विप्रे अमरः। भूसुरादयोऽप्यत्र

भूधन = पु० भूरेव धनमस्य। नृपे हेमच०।

भूधर = पु० भुवं धरति धृ–अच्। पर्वते अमरः।

भूध्र = पु० भुवं धरति धृ–क। महीध्रे पर्वते हेमच०।

भूधात्री = स्त्री भुवि लग्ना धात्री आमसकी शाक० त०। भूम्यामलक्याम् राजनि०।

भूनाग = पु० भुवि नाग इव। उपरसभेदे राजनि०।

भूनिम्ब = पु० भुवि लग्नः निम्बः शाक० त०। (चिराता) क्षुपभेदे राजनि०

भूनिम्बाद्य = न० चक्रदत्तोक्ते औषधभेदे “भूनिम्बकटुका व्योषमुस्तकेन्द्रयवान् समान्। द्वौ चित्रकात् वत्सकत्वग्भागान् षोडश चूर्णयेत्। गुडशीताम्बुना पीतं ग्रहणीदोषगुल्मनुत्। कामलाज्वरपाण्डुत्वमेहारुम्यतिसारनुत्। गुडयोगाद् गुडाम्बु स्याद् गुडवर्ण रसान्वितम्”।

भूनीप = पु० भुवि सग्नो नीपः शाक० त०। भूमिकदम्बे राजनि०

***