भाव = पु० भावयति चिन्तयति पदार्थान् चु० मू–अच्। नाट्योक्तौ नानापदार्थचिन्तके १ पण्डिते। भावयति ज्ञापयति हृदयगतम् भू–णिच्–अच्। २ हृद्गतावस्थावेदके मानसविकारे स्वेदकम्पादौ व्यभिचारिभावे। ३ रत्यादिभावे मेदि० भू–भावे घञ्। साध्यरूपे सिद्धरूपे वा ४ क्रियारूपे धातोरर्थे। ४ रागे ५ आशये च ६ सत्तायां ७ चेष्टायाम् ८ जन्मनि च अमरः ९ विभूतौ। कर्तरि ण। १० आत्मनि ११ बुधे १२ जन्तौ करणे घञ्। १४ गौरविते १५ अभिनयभेदे त्रिका०। १६ योनौ १७ उपदेशे धरणिः। संसारे भवशब्दार्थे च। ज्यो० उक्ते १९ लग्नादितः तन्वादि द्वादशभावे तच्छब्दे ३८०२ पृ० तदानयनञ्च दृश्यम्। २० स्त्रीणां यौवनकाले सत्त्वभवाष्टाविंशत्यलङ्कारान्तर्गतेऽङ्गजे प्रथमालङ्कारे। यथा “यौवने सत्त्वजास्तासामष्टाविंशतिसंख्यकाः। अलङ्कारास्तत्र भावहावहेलास्त्रयोऽङ्गजाः। तत्र भावः “निर्विकारात्मके चित्ते भावः प्रथमविक्रिया”। जन्मतः प्रभृतिनिर्विकारे मनसि उद्बुद्धमात्रो विकारो भावः। यथा “स एव सुरभिः कालः स एव मलयानिलः! सैवेयमवला किन्तु मनोऽन्यदिव दृश्यते” सा० द०। भावस्य लक्षणान्तरं यथा “शरीरेन्द्रियवर्गस्य विकाराणां विधायकाः। मावा विभावजनिताश्चित्तवृत्तय ईरिताः पुराणे नाट्यशास्त्रे च द्वयोस्तु रतिभावयोः। समानार्थतया चात्र द्वयमैक्येन लक्ष्यते”। २१ ग्रहाणां द्वादशविधचेष्टाभेदे तदानयनं फलं च ज्यो० त० उक्तं यथा “शयनञ्चोपवेशञ्च नेत्रपाणिः प्रकाशनम्। गमनं गमनेच्छा च सभायां वसतिस्तथा। आगमनं भोजनञ्च नृत्यलिपसा च कौतुकम्। निदा ग्रहाणां भावाश्च द्वादशैते प्रकीर्त्तिताः”। भावानयनक्रमो यथा “यद्राशौ विद्यते स्वेटस्तेन तं परिपूरयेत्। पुनरंशेन संपूर्य्य स्वर्क्षं तत्र नियोजयेत्। जातदण्डं तथा लग्नमेकीकृत्य सदा बुधैः। रविणा मागहारेण शेषं कार्य्ये नियोजयेत्”। अंशेन लवसंख्यया। स्वर्क्षं ग्रहाणां जन्मनक्षत्रम्। तद्यथा। “विशाखानलतोयानि वैष्णवं भगदैवतं पुष्या पौष्णोयमः सर्पो जन्मभान्यर्कतः क्रमात्। ऋक्षोराशिः। यदा मेषे ग्रहस्तदा १ एकपूरितग्रहसंख्याङ्कः। यदा वृषे ग्रहस्तदा २ द्विपूरितो ग्रहसंख्याङ्कः कार्य्यः। जायासुतमृत्युतुङ्गस्वगृहत्रिकोणस्थानस्थितपापग्रहाणां निद्राशयनभावयोः फलम् “निद्रायाञ्च यदा पोपो जायास्थाने शुभं वदेत्। यदि पापः शुभैर्दृष्टो नाशुभैश्च कदाचर्न। यदि वा शत्रुगेही स्याच्छयने यदि वेक्षितः। तदा नारीसमं तस्य नाशो भवति निश्चितम्। शुभाशुभैर्यदा दृष्टः शुभग्रहसमन्विंतः। नारी च म्रियते तस्य प्रथमा च विशेषतः। सुतस्थाने स्थितः पापी निद्रायां शयनेऽपि वा। तदां शुभं भवेत्तस्य नात्र कार्य्या विचारणा। तुङ्गस्थाने स्वगृहे बा त्रिकोणे वा यदा भवेत्। अपत्यस्य तदा नाशो जायते नात्र संशयः। शुभग्रहो यदा तत्र क्रूरो वा यदि वेक्षितः। तदा प्रथमापत्यस्य नाशो भवति निश्चितम्। मृत्युस्थाने स्थितः पापो निद्रायां शयनेऽपि वा। तदात्मनोऽपमृत्युः स्याद्राजतीऽपरतीऽपि वा। शुभग्रहो यदा तत्र मृत्युस्थानेऽपि संस्थितः। तदा च मरणं तस्य मृत्युस्थाने विशेषतः। पापग्रहैर्यदा दृष्टः शुभो वा शत्रुवीक्षितः। तदा तस्य शिरश्छेदो मुनिना परिकीर्त्तितः। एवं क्रमेण बोद्धव्यं ग्रहभावे सुबुद्धिना। बलाबलविचारेण जायते च शुभाशुभम्। ज्योतिर्वित्सु च सर्वेषु परिहारः कृतो मया। शयनादिकभावेषु ज्ञातव्यश्चोपदेशतः। एकादशे वा दशमालये वा धनालये वा यदि वा विलग्ने। पापेन युक्तो न शुमग्रहश्चेत्तथापि सिद्धिं महतीं वटन्ति”। ग्रहभेदेन दशाभेदे फलं यथा

“मन्दाग्निः पित्तशूली च जायते शयने नरः १। उपवेशे भवेच्छिल्पी श्यामवर्णस्तथा नरः २। नेत्रपाणौ भवेत् क्रूरो जलदोषो भवेन्नरः ३। पुण्यवान् धार्मिकश्चैव धनवांश्च प्रकाशने ४। गमने च रवेर्जातः कृपणो धनसंयुतः। बहुभाषी क्षमी क्रोधी लुब्धचित्तः सदा भवेत् ५। अल्पभोक्ता शीघ्रगामी दीर्घायुर्नृपवल्लभः। शूरः श्रीमान् सुशीलश्च गमनेच्छाभवो नरः ६। सभायाश्च रवेर्जातः खलो दाता क्षमी भवेत्। दयालुः पण्डिते धीमान् गुणवान् पण्डित प्रियः ७। आगमने भवेन्मूर्खः कुरूपो धनवान् भ- वेत् ८। भोजने भक्षको मांसलुब्धो महावपुर्वली ९। नृत्यकिपसो सुन्दरो वान्मी पण्डितगृहाधिपः १०। उत्साही च महाभोगी कौतुके च दिवाकरे ११। दाता भोक्ता प्रियः पुत्रकलत्राणां न संशयः। लिङ्गे देहे करे चैव शुदे रोगी तथैव च। निद्रायाञ्च भवेद्भानोः क्रोधनो रक्तनेत्रकः” १२। इति रवेः।

“शयने च विधौ क्रोधी दरिद्रो बहुलम्पटः १। उपवेशे महारोगी धनवांश्च भवेन्नरः २। नेत्रपाणौ नेत्ररोगी श्लीपदी बहुभाषकः। क्रूरः खलोऽतिशूरञ्च जायत च विधौ तदा ३। प्रकाशने निशानाधे धनवाश्च भवेन्नरः। दक्षो बुद्धिमान् दाता च परदारेषु लम्पटः ४। अरोगी वित्तहा चैव क्रूरकर्मा धनान्वितः। शिरोरोगी दन्तशूली जायते गमने विधौ ५। नानामतिर्महाक्रोधी सम्पद्युक्तो भवेन्नरः। गमनेच्छुविधौ जातो धनहीनो भवेत् तदा ६। दाता च धार्मिकश्चैव राजपात्री भवेत् सदा। सभायाञ्च विधी नित्य जायते पुरुषोत्तमः ७। नित्यक्रोधी महादुःखी भवेदागमने विधौ ८। भोजने च भवेल्लुब्धो भक्षकश्च महासुरः ९। यो जातो नृत्यलिप्सायां गुणवान् धार्मिको भवेत्। बहुपुत्रो धनी दाता जायते नात्र संशयः १०। कौतुके च भवेद्रोगी नानाविद्यासु तत्परः। उत्साही च महाक्रोधी जायते च सुनिसितम् ११। निद्रायां दद्रुरोगी स्यात् क्लेशपापरुजान्वितः। पुत्रशोकमहादुःखी नित्यं भ्रमति मेदिनीम्” १२। इति चन्द्रस्य।

“मयने च कुजे जातो लक्ष्मीवद्बहिरङ्गकः। क्षणक्रोधी महादञ्चः कृपणो जायते नरः १। उपवेशे यदा भौमे जायते च नराधमः। धनवान् क्रूरकर्मा च निष्ठुरो कातिवर्जितः २। भेत्रपाणौ च यो जातोह्यक्षिरोगी भवेन्नरः। पुत्रदारधनैर्युक्तो दारिद्र्येचैव दह्यते ३। प्रकाशने कुले जातो धनवान् पण्डितः सुधीः। नारी च प्रियते तस्य प्रथमा च विशेषतः ४। गमने च यदा जातः प्रवासी नित्य दुःखितः। शरीरे च भवेद्रोगी कण्डादिकुष्ठदद्रुकः ५। प्रवासी गमनेच्छायां गुदरोगी भवेच्च सः। धनहीनः कुकर्म च जायते क्षितिजस्य च ६। सभायाञ्च यदा जातो धार्मिको बहुसम्पदा। गुणवाञ्च महादाता शिरीरोगी भवेद् ध्रुवम्” ७। कुजस्यागमने नित्यं खञ्चो मवति नान्यथा। कर्णरोगी पित्तशूली जायते च नराधमः ८। भोजने भूमिजस्यापि यो जातो मांसलुब्धकः। वृहत्खायो महाक्रोधी मिथ्योत्साही धनान्वितः ९। कुजस्य नृत्यलिप्सायां यो जातो धनवान् भवेत्। दाता भोक्ता सदा मानी राजमात्रो भवेच्च सः १०। कौतुके क्षितिजस्यापि जातो भवति पण्डितः। नानाधनेन संयुक्तो बहुपुत्रो द्विभार्य्यकः ११। निद्रायां भूमिपुत्रस्य यो जातो मूर्ख एवः सः। कलहो बान्धवैः सार्द्धं शीकक्लेशरुजान्वितः १२” इति मङ्गलस्य। “बुधस्य शयने जातो धनवान् क्षुधितः सदा। अङ्गच्छेदा भवेद्वापि खङ्गो भवति मान्यथा १। उपवेशे च यो जातः प्रवासी जायते ध्रुवम्। कवितागुणधीयुक्तो मौरवर्णो महाशयः २। नेत्रपाणौ च यो जातः श्लीपदादिरुजान्वितः। चक्षूरोगी विशेषः स्यात् पुत्रयाशी भवेद्ध्रुवम् ३। प्रकाशने भवेत्जातो राजपात्री थनान्वितः। नानाधनेव संयुक्तो जायते वेदपारगः ४। गमये यो नरो जातः प्रवाकी नित्यदुःखितः। शरीरे क्षतमाप्नोति नित्यमृणो भवेच्च सः ५। यो जातो गमनेच्छायां सम्पटो दुष्टचित्तकः। स्त्रीवशो दुष्टभार्य्यश्च स नरो बहुभाषकः ६। समायाश्च बुधे जातो मूर्खो भवति पण्डितः। धनवान् धार्मिकञ्चैव चिररोगी भवेत्तु सः ७। क्रूरः खलो हतो मूर्खः पापशीमो भवेन्नरः। बुधस्यानकने नित्यं जायते च नराधमः ८। भोजने च भवेत् सौख्यं धनहीनो भवेन्नरः। परद्वेषी प्रवासी च शोथमात्रव्यथान्वितः ९। यो जातो नृत्यलिप्सायां धनवान् पण्डितः कविः। उदसाहो च महाहृष्टो भुनक्ति सुखमद्भुतम् १०। लौतुके च यदा जातो भवेत् सर्वजनप्रियः। अर्शोरोगी दद्रुयुक्तो धनवानख्यसस्यकः ११। निद्राव्यञ्च यदा जातः सर्वदास्यैकपात्रताम्। नानाक्लेशभवाप्नोति रोगशीक जमक्षयम्” १२। इति बुधस्य। “धनवान् लम्पटः श्यामः स्थूलव्रकरुत्यान्वितः। जीवस्य शयने जातो मानवो नात्र सशयः १। उपवेशे सुरोजातो बहुभाधौ च रोगवान्। पशुधाती महाशिल्पी श्लीपटीरोगलयुतः २। नेत्रपाणौ सुरोर्जातः सासरोगी धनी भवेत्। क्षतादिश्चरणे नित्यं जायते मात्र संशयः ३। गुरोः प्रकाशे धनवान् लिङ्गगुह्ये रुजान्वितः। दक्षो लम्पटपापी च श्यामवर्णो रुजान्वितः५। सर्पभीतो गूढकर्मा साहसी गमनोन्मुखे। परवित्तेन धनवान् पुमान् भवति वाकपतौ ५। गुरोश्च गमनेच्छायां जातो भवति मानवः। शूली धनी प्रवासी च सवाकर्मणि तत्वरः ६। वक्त्रा दाता च धनवान् राजसेवान्वितो नरः। शूलरोगी भवेन्नित्यं सभायां वाक्पतो स्थिते ७। धार्मिकस्तीर्थकृश्यानी धनी चागमने गुरोः। परदारेषु संलुब्धो जायत नात्र संशयः। भोजने बहुसौख्याद्यो मांसलुब्धो महासुरः। कामुकः प्रियवाक्यश्च जायते नात्र संशयः ९। नृत्यलिप्सोः शठो वाग्यो धनवान् सात्त्विकस्तथा। महदैश्वर्य्यसंयुक्तो जीवस्य च भवेन्नरः १०। कौतुके च गुरोर्जातो धनवान् धार्मिकः सदा। नृत्योत्साही महत्सङ्गी भुनक्ति सुखमद्भुतम् ११ निद्रायाञ्चैव यो जातश्चक्षू रोगी भवेच्च सः। कृपणो बहुभाषी च दुःखितो भ्रमते महीम्” १२। इति गुरोः।

शुक्रस्य शयने जातो सम्पटो बहुभाषकः। दन्तरोगी महाक्रोधी नीचो भवति नित्यशः १। उपवेशे तथा जातो बलवान् दाम्भिकः सदा। नित्यप्रवासी रोगी च जायते नीचसंस्थिते २। नेत्रपाणौ भृगोर्दुःखी रोगशोकसमन्वितः। धनहीनो महारोगी मानवः स्यान्नसंशयः ३। मृगोः प्रकाशने जातो विद्याधनसमन्वितः। दाता च धार्मिकश्चैव कीर्त्तिमान् जायते नरः ४। शुक्रस्य गमने जातः पादमूले रुजान्वितः। नित्योत्साही महाशिल्पी भवेत्तीर्थगतौ रतः ५। गमनेच्छौ यदा जातो व्यातृनाशो भवेद्ध्रुवम्। माता च म्रियते तस्य शैशवे व्याधिसंयुतः ६। सभायाञ्च भृगोर्जातो राजपात्री महाधनी। कुलशीलो महादक्षः केवलं शूलरोगवान् ७। भृगोरागपने जातो दुःखितो बहुलम्पटः। दद्रुरोगी पुत्रशोकी जायते च नराधमः। शुक्रस्य भोजने जातो बलवान् दाम्भिकः सदा। महाधनी भवेन्नित्यं वाणिज्येन विशेसतः ९। यो जातो नृत्यलिप्सायां स वाम्भी जायते ध्रुवम्। पाण्डित्यं कविता चैव वर्द्धते च दिने दिने। सदि चैव भवेन्नोचे मूर्खो भवति निश्चयः। तुङ्गस्थाने विशेषेण राजपात्रो महाधनी। कामुको बहुकान्तश्च परयोषित्प्रियः सदा। महाहृष्टो महाबन्धुः कौतुकी च भवेत् सदा। बहुपुत्रकमुत्रश्च नानासुखसमन्वितः। नीचे तद्विपरीतः स्यात् दुःखशोकसमन्वितः ११। निद्रायाञ्च भृगोर्जातो भवेद्रोगी च निश्चियम्। नित्यल्केशी महादुःखी जायते नात्र संशयः। जायायाञ्च सुतस्थाने यदि निद्रा भृतोर्भवेत्। तदा सर्वविनाशः स्याद्धिष्णुना परिकीर्त्तितम्” १२। शुक्रस्य।

“शयने च शनेर्जातो लम्पटो बहुभाषकः। गुह्यस्थाने भवेद्रोगी कोषवृद्धिश्च जायते। लम्बात् सप्ताष्टमे चैव शयनस्यः शनैश्चरः। तदा नित्यप्रवासी स्याच्छत्रुक्षयी भवेच्च सः। उपवेशे यदा जातः श्लीपटीदद्रुसंयुतः। धनहीनो भवेत् तस्य पीडा भवति नित्यशः २। नेत्रपाणौ यदा जातो मूर्खो भवति पण्डितः। धनवान् धार्मिकश्चैव द्विभार्य्यो बहुभाधकः ३। प्रकाशने च यो जाती राजपात्री भवेच्च सः। नानागुणेन गुणवान् धार्मिकः पण्डितः शुचिः” “मतान्तरे “जायास्थाने च लग्ने च प्रकाशने यदा शनिः। तदा सर्वविनाशः स्याज्जातिध्वंसो भवेद् ध्रुवम् ४। गमने च यदा जातः पादमूले रुजान्वितः। तीर्थे च गतिमान्नित्यं पुत्रदारैविवर्जितः ५। यो जातो गमनेच्छायां श्लोपदीरोगसंयुतः। दन्ताघाती महाक्रोधी कृपणः परनिन्दकः ६। समायाञ्च शनौ जातः पुत्रदारधनैर्युतः। भवेत्र लभते वित्तं नानारत्नसमन्वितम्” ७। आगमने यदा जातो महाक्रोधी रुजान्वितः। सर्पादिभिश्च सदष्टो भ्रातृनाशी भवेद् ध्रुवम् ८। भोजने चैव यो जाती मन्दाग्निश्च महानपि। अर्शोरोगी तथा शूसी चक्षूरोगी भवेच्च सः। यो जातो नृत्यलिप्सायां नर्त्तको बहुभाषशः जीवने दुःखितश्चैव प्रवासी परिदेवकः १०। कौतुके च शनेर्जातो राजपात्रो महाशयः। दाता भोक्ता महादक्षो धार्मिकः पण्डितः शुचिः ११। निद्रायास्र शनेर्जातो धनवान् पण्डितः शुचिः। चक्षुरोगी पित्तशूली द्विभार्य्यो बहुपुत्रकः। विशेषतश्च धर्मस्ये कर्मस्ये च कदाचन। यदि दैवाद्भवेन्निद्रा नाशी भवति निखितम्। कर्मनाशो धर्मनाशः क्षुधार्त्तः दुःखितः सदा। नित्यप्रवासी रोगी च कार्य्यनाशः पदे पदे। स्यमित्रनेहे षष्ठे वा केन्द्रे वा स्वगृहे पुनः। तदा सर्वं विचार्य्यञ्च वैपरीत्येन चिन्तनम्। जायायाञ्च सुतस्थाने यदि निद्रा भवेत् पुनः। तदा सर्वं शुभं विद्याद्विष्णुना परिकीर्त्तितम्” १२। शनेः।

“शयने च यदा राहीर्जन्म यस्य षवेत् पुनः। तस्य क्लेशो महादुःखं जायते च न संशयः १। उपवेशे च यो जातः श्लीपदीरोगसंयुतः। बहुहानिर्नरेन्द्रस्य पीडा भवति नित्यशः २। नेत्रपाणौ यदा जातलक्षूरोगी भवेद् ध्रुवम्। सर्पाधातो महागीतिर्द्धितार्य्यो बहुभाषकः ३। प्रकाशने च यो जातो धनवान् धा- र्मिकः पुनः। नित्यप्रवासी चोत्साही सात्त्विको धार्मिकः शुचिः ४। गमने चैव यो जातो नानारोगैर्धनक्षयः। दन्ताघाती महाक्रोधी पिशुनः परनिन्दकः ५। यो जातो गमनेच्छायां बहुपुत्रो महाधनः। पण्डितो गुणवान् दाता जायते ञ्च नरोत्तमः ६। सभायाञ्च यदा जातः कृपणो धनसंयुतः। नानागुणेन गुणवान् धार्मिकः पण्डितः शुचिः ७। आगमने च यो जातो लम्पटो बहुभाषकः। सुहृद्बन्धुविनाशः स्यान्नानाक्लेशश्च जायते ८। भोजने च महादुष्टो मन्दाग्निश्च रुजान्वितः। कृपणः कटुवाक्यश्च दुःखितो नित्यसेवकः ९। यो जातो नृत्यलिप्सायां खञ्जो भवति नान्यथा। पुत्रनाशो भवेत् तस्य जायानाशो भवेद् ध्रुवम् १०। कौतुके च यदा जातो गुणैः सर्वैः समन्वितः। नानाधनेन धनवान् राजसेवासु तत्परः। यदि दैवाद् भवेत् तुङ्गी स्वगृही वा कदाचन। तदा सर्वं वैपरीत्यं जायते च न संशयः ११। यो जातो राहुनिद्रायां दुःखितः सर्वतस्तथा। नानास्थाने गतो वापि धनपुत्रविवर्जितः। जायायाञ्च सुतस्थाने यातो निद्रां विधुन्तुदः। तदा सर्वं वैपरीत्यं शतजायासमन्वितः १२। राहोः एवं केतूनाम्। २२ वैशेविकोक्तेषु द्रव्यगुणकर्मसामान्यविशेषसमवायात्मकेषु षट्सु पदार्थेषु “द्रव्यादयः पञ्च भावा अनेके समवायिनः” भाषा० “तथा हि पदार्थोद्विविधः भावोऽभावश्च। तत्र भावाः षट् सप्तमस्याभावत्वकीर्तनात्” सि० सु०। अभाव एक इति पदार्थाः सप्त। तत्र द्रव्यादिपञ्चकस्य अनेकत्वविशिष्टं भावत्वं लक्षणं समवायस्य भावत्वेऽपि एकत्वात् न तत्र प्रसङ्गः। तत्र च द्रव्यादिषट्कान्यतमत्वम् भावत्वमिति सि० मु०। सत्तासम्बन्धित्वमिति दिनकरप्रकृतयः। सम्बन्धित्वं समवाय सम्बन्धेन तादात्म्येन एकार्धसमवायेन वा बोध्यम्। तेन द्रव्यादित्रिके समवायेन, सत्तायां तादात्म्येन विशेषेषु एकार्थसमवायेन, समवाये स्यात्मकसमवायेन स्वरूपसम्बन्ध विशेषेण सत्तासम्बन्धसत्त्वानाप्रसङ्गः”। “भावो यथा तथाऽभावः कार्य्यवत्कारण सतः” कुसुमा०। भू–चिन्तायाम् करणे अच्। २३ अन्तःकरणे “भावदुष्टो न शुध्यति” आ० त०। २४ तन्त्रोक्ते पश्वाचारादित्रये “भावस्तु त्रिविधा देवि! दिव्यवीरपशुक्रमात्। दिव्यवीरौ महामावौ अधमः पशुभावकः। वैष्णवः पशुमावेन पूजयेत् परमेश्वरम्। शक्तिमन्त्रे वरारोहे! पशुभावो भयानकः। दिव्ये वीरे महेशानि! जायते सिद्धिरुत्तमा”। यास्केन साध्यरूपायाः क्रियाया भावत्वमुक्तं यथा “तद् यत्रोभे भावप्रधाने भवतः पूर्वापरीभूतं भावमाख्याते नाचष्टे व्रजति पचतीत्युपक्रमप्रभृत्यपवर्गपर्य्यन्तं, मूर्त्तं सत्त्वभूतं सत्त्वनामभिर्व्रज्या पङ्क्तिरित्यादिभिः सत्त्वानामुपदेशो गौरश्वः पुरुषो हस्तीति भवतीति भावस्य, आस्ते शेते व्रजति तिष्ठतीति”। आलङ्कारिकोक्तभावस्य द्विविधता सञ्चारिव्यभिचारिभेदात् तत्तच्छब्दे दृश्यम्। २५ सङ्गीतसङ्गतपदार्थद्योतकहस्तादिचेष्टाभेदे च। “यस्य च क्रियया क्रियान्तरं लक्ष्यते स भावः” इति व्याकरणपरिभाषिते २५ पदार्थे च तत्र च सप्तमीत्याकरे स्थितम्। भवतीति भू–कर्त्तरि ण। २७ उत्पत्तियुते षड्विकारयुते च पदार्थे भावविकारशब्दे दृश्यम्। २८ सांख्यमतसिद्धेषु धर्माधर्मादिषु बुद्धिधर्मेषु “संसरति निरुपभोगं भावैरधिवासितं लिङ्गम्” सा० का०। “भावैरधिवासितं धर्माधर्मज्ञानाज्ञानवैराग्यावैराग्यैश्वर्य्यानैश्वर्प्याणि भावास्तदन्विता बुद्धिः तदन्वितञ्च सूक्ष्मशरीरमिति तदपि भावैरधिवासितं यथा सुरभिचम्पकसम्पर्काद्वस्त्रं तदामोदवासितं भवति तस्माद्भावैरेवाधिवासितत्वात् संसरति” तत्त्वकौ०। तेषां करणाश्रितत्वं कार्य्याश्रितत्वञ्च दर्शितं यथा “सांसिद्धिकाश्च भावाः प्राकृतिका वैकृतिकाश्च धर्माद्याः। दृष्टाः करणाश्रयिणः कार्य्याश्रयिणश्च कललाद्याः” साका० “वैकृतिकानैमित्तिकाः प्राकृतिकाः, स्याभाविकाः सांसिद्धिकाः भावाः यथा सर्गादावादिविद्वान् भयवान् कपिलो महामुनिर्धर्मज्ञानवैराग्यैश्वर्य्यसम्पन्नः प्रादुर्बभूवेति स्मरन्ति। वैकृतिकाश्च भावाः असांसिद्धिकाः उपायानु ष्ठानोत्पन्नाः यथा प्राचेतसप्रभृतीनां महर्षीणाम्। एवमधर्माज्ञानावैराग्यानैश्वर्य्याण्यपि। कार्य्यं शरीरं तदाश्रयिणस्तस्यावस्याः कललबुद्बुदमांसपेशीकरण्डाङ्गप्रत्यङ्गव्यूहाः गर्भस्थस्य, ततो निर्गतस्य बालस्य बाल्यकौमारयौवनयार्द्धकातीति” त० कौ०। २९ तत्तत्पदार्थासाधारणे धर्म च “भावे त्वतलौ” पा०। भावशब्देनासाधारधर्म उच्यते। स च तदितरावृत्तित्वे यावत्तद्वृत्तिधर्मः यथा गोत्वमित्यादौ भावार्थकत्वप्रत्ययेन गवेतरावृत्तित्वे सति सकलगोव्यक्तिवृत्तिधर्मो बोध्यते।

भावक = पु० भाव + स्वार्थे क। १ भावशब्दार्थे मनोविकारे हला०। भू–भावि–वा ण्वुल्। २ सत्ताश्रये ३ उत्पादके च त्रि०।

भावत = त्रि० भू–शतृ भवन् तस्येदम् अण्। उत्पाद्यमानसम्बन्धिनि स्त्रियां ङीप्।

भावत्क = त्रि० युष्मदर्थकात् भवच्छब्दात् इदमर्थे पक्षे ठक्। भवत्सम्बन्धिनि पक्षे छस्। सित्त्वात् पदत्वम्। मवदीय तत्रार्थे ति०।

भावन = न० भू–णिच्–ल्यु। (चालता) १ फलभेदे २ विष्णौ पु०। भावे ल्युट्। ३ अधिवासने ४ चिन्तायाम् ५ ध्याने ६ पर्य्यालोचनायां वैद्यकोक्ते ७ औषधसंस्कारभेदे। भावि–युच्। “व्यापारो भावना सैवोत्पादना सैव च क्रिया” उक्ते ८भवितुर्भवनानुकूलव्यापारभेदे स्त्री भट्टशब्दे दृश्यम्। अनुभवजन्ये स्मृतिहेतौ ९ संस्कारभेदे स्त्री। “संस्कारभेदो वेगोऽथ स्थितिस्थापकभावने” “अतीन्द्रियोऽसौ विज्ञेयः क्वचित् स्पन्देऽपि कारणम्। भावनाख्यस्तु संस्कारो जीववृत्तिरतीन्द्रियः। उपेक्षानात्मकस्तस्य निश्चयः कारणं भवेत्। स्मरणे प्रत्यभिज्ञायामप्यसौ हेतुरुच्यते” भाषाप०। “भावनाख्य इति। तस्य संस्कारस्य, उपेक्षात्मकज्ञानात् संस्कारानुत्पत्तेरुपेक्षानात्मकनिश्चय इत्युक्तम्। तेनोपेक्षान्यनिसयत्वेन संस्कारं प्रति हेतुतेति भावः। ननु स्मरणं प्रत्युपेक्षान्यनिश्चयत्वेन हेतुत्वं तेनोपेक्षादिस्थले न स्मरणम् इत्थञ्च संस्कारं प्रति ज्ञानत्वेनैव हेतुतास्त्विति चेन्न विनिगमनाविरहेणापि संस्कारं प्रति उपेक्षान्यनिश्चयत्वेन हेतुतायाः सिद्धत्वात्। किञ्च उपेक्षास्थले संस्कारकल्पनाया गुरुत्वात् संस्कारं प्रति चोपेक्षान्यत्वेन हेतुतायाः सिद्धत्वात्। तत्र प्रमाणं दर्शयति। स्मरणे इति। असौ संस्कारः स्मरणं प्रत्यभिज्ञानञ्च जनयति। अतः संस्कारः कल्प्यते। विना व्यापारं पूर्वानुभवस्य स्वरणादिजननासामर्थ्यं स्वस्वव्यापारान्यतराभावे कारणत्वासम्भवात्। न च प्रत्यभिज्ञां प्रति तत्तत्संस्कारस्य हेतुत्वेन प्रव्यभिज्ञायाः संस्कारजन्यत्वेन स्मृतित्वापत्तिरिति वाच्यम्। अप्रयोजकत्वात्। परे तु अनुद्बुद्धसंस्कारात् प्रत्यभिज्ञानुदयादुद्बुद्धसंस्कारस्य हेतुत्वापेक्षया तत्तत्स्मरणस्यैव प्रत्यभिज्ञां पति हेतुत्वं कल्प्यत इत्याहुः” सि० सु०। भ–चिन्तायां युच्। १० चिन्तायां स्त्री। चिन्ता च मानसवृत्तिभेदः सा च त्रिविधा यथोक्तं विष्णुपु० ६ अं ७ अ०। “त्रिविधा भावना विप्र! विश्वमेतन्निबोधत। ब्रह्माख्या कर्मसंज्ञा च तथा चैवोभयात्मिका। ब्रह्मभावात्मिका ह्येका कर्मभावात्मिका परा। उभयात्मिका तथैवान्या त्रिविथा भावभावना। सनन्दनादयो व्रह्म भावभावनया युताः। कर्मभापनया चान्ये देवाद्याः स्थावराश्चराः। हिरण्यगर्भादिषु च ब्रह्मकर्मात्मिका द्विधा। बाधाधिकारयुक्तेषु विद्यते भावभावना”। बुद्धशब्ददर्शितं बौद्धमतसिद्धभावनाचतुष्टयञ्च दृश्यम्। चु० भू–मिश्रणे भावे युच्। २ निर्यासादिना चूर्णद्रव्यस्य मिश्रीकरणे चूर्णद्रव्यस्य निर्यासादिना संस्कारभेदो भावना तत्प्रमाणमुक्तं भावप्र० यथा “द्रवेण यावन्मानेन चूर्णं सर्वं प्लुतं भवेत्। भावनायाः प्रमाणस्तु चूर्णे प्रोक्तं भिषग्वरैः”।

भावबोधक = पु० भावस्य रत्यादेर्वोधकः अनुमापकः। रत्याद्यनुमापके १ भ्रुभङ्गादिदेहचेष्टाविशेषे २ मुखरागादौ च अमरः

भावयू = त्रि० भावमिच्छति क्यच् उन् वेदे नि०। भावेच्छौ। ऋ० १०। ८६। १५।

भाववत् = त्रि० भाव + रसा० मतुप् मस्य वः। भावयुते स्त्रियां ङीप्।

भावविकार = पु० ६ त०। यास्कोक्तेषु उत्पत्तियुतपदार्थस्य जन्मादिषु षट्सु घर्मेषु “षड्भावविकारा भवन्तीति वार्ष्यायणिः, जायतेऽस्ति विपरिणमते वर्धतेऽपक्षीयते विनश्यतीति, जायत इति पूर्बभावस्यादिमाचष्टे नापरभावमाचष्टे न प्रतिषेधति अस्तीत्युत्पन्नस्य सत्त्वस्यावधारणं, विपरिणमत इत्यप्रच्यवमानस्य तत्त्वाद्विकारं, वर्धत इति स्वाङ्गाभ्युच्चयं, सांयौगिकानां वार्थानां, वर्धते विजयेनेति वा वर्धते शरीरेणेति वा, अपक्षीयत इत्येतेनैव व्याख्यातः प्रतिलोमं, विनश्यतीत्यपरभावस्यादिभाचष्टे न पूर्वभावमाचष्टे न प्रतिषेधति”।

भाववृत्त = पु० भावे वृत्तः प्रवृत्तः भावो वृत्तो जातो यस्माद्वा। सृष्टिकर्त्तरि बह्मणि “अनुष्टुप् च भवेच्छन्दो भाववृत्तस्तु दैवतम्” स्मृतिः।

भावाट = पु० भावं भावेन वा अटति अट–अण् अच् वा। १ भावके २ साधौ ३ कामुके ४ नटे ५ निवेशे च मेदि०। भावे घञ् ६ त०। ६ भावप्राप्तौ।

भावानुगा = स्त्री भावं पदार्थमाशयं वानुगच्छति गम–ड। १ छायायाम् २ अभिप्रायानुगन्तरि त्रि० राजनि०।

भावालीना = स्त्री भावे पदार्थे आलीना। छायायां राजनि०

भाविक = त्रि० भावेन निर्वृत्तम् ठक्। १ भावसाध्ये पदार्थे २ अर्थालङ्कारभेदे ४०१ पृ० दृश्यम्।

भावित = त्रि० चु० भू–शुद्धौ चिन्तायां मिश्रणे वा कर्मणि क्त। १ वासिते २ प्राप्ते मेदि०। ३ शुपे ४ चिन्तिते ५ मिश्रिते वैद्यकोक्तनिर्यासादिना मिश्रिते ६ चूर्णादौ च। वीजग० उक्ते अव्यक्तानेकवर्गसमीकरणेन ७ व्यक्तीकरणे।

भावित्र = त्रि० भू–सत्तायां णित्रन्। त्रैलोक्ये उज्ज्वल०।

भाविन् = त्रि० भू–गम्या० भविष्यति णिनि। १ भविष्यत्पदार्थे “भाविनि भूतवदुपचारः” न्यायः। स्त्रियां ङीप्। भावो रत्यादिभावः सात्त्विकभावो वाऽस्त्यस्य एकाक्षरकृदन्तत्वेऽपि बाहुल्यार्थे इनि ङीप्। २ बहुभावाग्वितायां स्त्रियाम् भरतः ३ स्त्रीमात्रे राजनि०। ४ गन्धर्वकन्याभेदे स्त्री मार्कपु०१२८ तत्र भामिनीति पाठान्तरम्।

भावुक = न० भू–उकञ्। १ मङ्गले २ तद्वति त्रि० अमरः। ३ भावनायुते त्रि० हेमच०। “मुहुरहो रसिका भुवि भावुकाः” इति भाग० १। १। ३।

भाव्य = न० भू–आवश्यके भावे ण्यत्। १ अवश्यभवितव्ये। भूकर्त्तरि यत् भव्य स्वार्थे अण्। २ भव्यशब्दार्थे “भावीत्यवश्यं यत् भाव्यं तत्र ब्रह्मा न बाधकः” कालि० पु० ३८ अ०

भाष = वचन भ्वा० आत्म० द्विक० सेट्। भाषते अभाषिष्ट। ऋदित् चङि न ह्रस्वः। उपसर्गपूर्वकस्तु तत्तदुपसर्गद्योतात्यार्थयुक्तकथने। परि + शास्त्रकारमङ्गेते।

भाषण = न० भाष–भावे ल्युट्। कथने अमरः। सा० द० उक्ते निर्वहणाङ्गभेदे “सन्धिर्बिरोधो ग्रह्तनम्” इत्युपक्रमे “भाषणं पूर्बवाक्यञ्च” इत्यादिनीद्दिश्य लक्षितं यथा “मामदानादि भाषणम्”।

भाषा = स्त्री भाष–अ। १ वाक्ये २ संख्यतादिवाक्ये च “अष्टादशभाषावारविलासिनीभुजङ्गः” इति सा० द०। भाषाभेदाञ्च प्राकृतशब्दे ४५४९ पृ० दर्शिताः। व्यवहारे ३ प्रतिज्ञासूचकवाक्ये "यदावेदयते राज्ञे तद्भाषेत्यभिधीयते” इति स्मृतिः। पूर्बपक्षशब्दे ४४०६ पृ० दृश्यम्। ४ रागिणीभेदे हला०।

भाषासम = न० शब्दालङ्कारभेदे यथोक्तं सा० द० १० परि०। “शब्दैरेकविधैरेव भाषासु विविधास्वपि। साम्यं यत्र भवेत् सोऽयं भाषासम् इतीष्यते” यथा “मञ्जुलमणिमञ्जीरे कलगम्भीरे विहारसरसीतीरे। विरसासि केलिकीरे किमालि! धीरे च गन्धसारसमीरे” एष श्लोकः संस्कृतप्राकृतसौरसेनीप्राच्यावन्तीनागरापभ्रंशेष्वेकविध एव”।

भाषापाद = पु० कर्म०। चतुष्पादव्यवहारे प्रतिज्ञासूचके वाक्यरूपे प्रथमेऽंशे पूर्वपक्षशब्दे ४४०६ पृ० दृश्यम्।

भाषिक = त्रि० भाषया निर्वृत्तः ठञ्। वेदादिपरिभाषानिर्वृत्ते निरु० २। २।

भाषिकस्वर = पु० कर्म। मन्त्रेतरवेदभागरूपब्राह्मणे पठितस्यरेकात्या० श्रौ० १। १। १८। १०। भाष्ये दृश्यम्।

भाषित = न० भाम–भावे–क्त। १ कमने कर्मणि–क्त। २ कथिते त्रि०। “भाषितपुंस्कात्” पा०। भाषित उक्तः पुमान् येन कप्

भाष्य = न० “सूत्रार्थो वर्ण्यते यत्र पदैः सूत्रानुसारिभिः। स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो जनाः” इत्युक्त लक्षणे १ सूत्रव्याख्याग्रन्थभेदे “फणिभाषितभाष्यफक्किका” भैष०। २ कथनीये त्रि०।

भाष्यकार = पु० भाष्यं करोति कृ–अण् उप० स०। पाणिन्यादिसूत्रभाष्यकारके पतञ्जलिप्रभृतौ भाष्यकाराश्च सूत्रभेदे विभिन्ना यथा पाणिनिसूत्रस्य पतञ्जलिः ब्रह्मसूत्रस्य शङ्कररासानुजादयः। योगसूत्रस्य वेदव्यासः, सांख्यसूत्रस्य विज्ञानभिक्षुः, गौतमसूत्रस्य वात्स्यायनः, कणादसूत्रस्य प्रशस्तपादः। मीमांसासूत्रस्य शवरस्यामी इत्यादयः। “अहञ्च भाष्यकारश्च कुशाग्रीयधियावुभौ। नैव शब्दाम्बुधेः पारं किमन्ये जडबुद्धयः” दुर्गसिंहः नैव न ऐव गतवन्तावित्यर्थः। क्विप् ६ त०। भाष्यकृदप्यत्र।

भास = दीप्तौ भ्वा० आत्म० सेक० सेट्। भासते अभासिष्ट। चङि वा ह्रस्वः। अबीभसत् त अनभासत् त। ज्ञानविषयत्वे च “प्रकारीभूय भावते”।

भास = स्त्री भास–सम्प० भावे क्विप्। १ प्रभायाम् अमरः २ मयूखे मेदि० ३ इच्छायां धरणिः।

भास = पु० भास–भावे घञ्। १ दीप्तौ विश्वः आधारे घञ् २ गोष्ठे। कर्त्तरि अच्। ३ कुक्कुरे ४ शुक्रे च ५ शकुन्ते गृध्रखगे हेमच० “यज्ञार्थमददत् वस्तु भासः काकोऽथवा भवेत्” स्मृतिः। ६ कविभेदे “भासो हामः कविकुलगुरुः कालिदासो विलासः” प्रसन्नरा०।

भासद = न० भसदः कदिदेशस्येदम् अण्। सितम्बे ऋ० १०। १६३ भाष्यम्। यजु० २५। ६ वेददीपे तु भासेते मास–बा० अदि। भासद् दान्तः तत्रार्थे इत्युक्तम्।

भासन्त = पु० भास–झच्। १ सूर्य्ये २ चन्द्रे उणा० ३ नक्षत्रे हेमच०क। ४ सुन्दराकारे त्रि० ५ भासखगे पुं स्त्री० मेदि०। ६ तारायां स्त्री गौरा० उणा०।

भासस् = न० भास–भावे असिच्। दीप्तौ द्विरूपकोषः।

भासाकेतु = पु० भास–भावे अ। भासा दीप्तिः ६ व०। दीप्तिकारके वह्नौ ऋ० १०। २०। ३।

भासापुर = न० पुरभेदे वृ० स० १६ अ०।

भासु = पु० भास–उण्। सूर्य्ये त्रिका०।

भासुर = त्रि० भास–घुरच्। १ दीप्तिशीले २ स्फटिके च त्रिका० ३ वीरे पु० धरणिः ४ कुष्ठौषधे न० जटा०।

भासुरपुष्पी = स्त्री० भासुराणि पुष्पाण्यस्याः। वृश्चिकालौ (विचाति) राजनि०।

भास्कर = पु० भासं करोति भास् + कृ–टच् वरक०। १ सूर्य्ये २ अग्नौ मेदि० ३ वीरे धरणिः। ४ अर्कवृक्षे ५ सिद्धान्तशिरोमणिग्रन्थकृत्पण्डिते। ६ स्वर्णे न० राजनि०। ७ महादेवे पु० भा० आनु० ८ अ०। ८ भास्करेण कृते पक्वलवणभेदे न० चक्रदत्तः। भास्करलवणशब्दे दृश्यम्।

भास्करद्युति = पु० भास्करे द्युतिरस्य। १ विष्णौ पु० “चन्द्रांशुर्भास्करद्युतिः” विष्णुस०। “यदादित्यगतं तेज” इत्युक्तेस्तस्य तथात्वम्। ६ त०। २ सूर्य्यस्य द्युतौ स्त्री।

भास्करप्रिय = पु० ६ त०। पद्मरागमुणौ (चुनि)।

भास्करलवण = न० भास्करनिर्मिते लवणभेदे “पिप्पली पिप्पलीमूलं धन्याककृष्णजीरकम्। सैन्धवञ्च विडञ्चैव पत्रं तालीशकेसरम्। एषां द्विपलिकान् भागान् पञ्चसौर्चलस्य च। मरिचाजाजिशुण्ठीनामेकैकस्य पलं पलम्। त्वगेले चार्द्धभागे च सामुद्रात् कुडवद्वयम्। दाडिमात् कुडवञ्चैव द्वे पले चाम्लवेतसात्। एतच्चूर्णीकृतं श्लक्ष्णं गन्धाद्यममृतोपमम्। लवणं भास्करं नाम भास्करेण विनिर्मितम्। जगतस्तु हितार्थाय वातश्लेष्मामयापहम्। वातगुल्मं निहन्त्येतद्वातशूलानि यानि च। तक्रमस्तुसुरासीधुशुक्तकाञ्जिकयोजितम्। जाङ्गलानान्तु मांसेन रसेषु विविधेषु च। मन्दाग्नेरश्नतः शक्तो भवेदाश्वेव पावकः। अर्शांसि ग्रहणीदोषकुष्ठामयभगन्दरान्। हृद्रोगमामदोषांश्च विविधानुदरस्थितान्। प्लीहानमश्मरीञ्चैव श्वासकासोदरक्रिमीन्। विशेषतः शर्करादीन् रोगान्नानाविधांस्तथा। पाण्डुरोगांश्च विविधान् शमयत्यशनिर्यथा” चक्रद०।

भास्करावर्त्त = पु० सुश्रुतोक्ते शिरीरोगभेदे “सूर्य्योदयं या प्रतिमन्दमन्दमक्षिभ्रुवं रुक् समुपैति गाढम्। विवर्द्धते चांशुमता सहैव सूर्य्यापवृत्तौ विनिवर्त्तते च। शीतेन शान्तिं लभते कदाचिदुष्णेन जन्तुः सुखमाप्नुयाच्च। तं भास्करावर्त्तमुदाहरन्ति सर्वात्मकं कष्टतमं विकारम्”।

भास्करि = पु० भास्करस्यापत्यम्० इञ्। १ वैवस्वते मनौ २ कर्णे च। ३ सुनिभेदे भा० शा० ४७ अ०।

भास्कारेष्टा = स्त्री ६ त०। आदित्यभक्तालतायां राजनि०।

भास्मन = त्रि० भस्मनो विकारः अण् मनन्तत्वात् न टिलोपः। भस्मविकारे।

भास्मायन = पु० भणनो गोत्रापत्यम् चफञ्। भस्मर्षिगोत्रापत्ये ततः स्यार्थे अण् स्त्रियां म्या भास्मायन्या तत्रार्थे स्त्री

भास्वत् = पु० भास् + अस्त्यर्थे मतुप् मस्य वः। १ सूर्य्ये २ अर्कवक्षे २ वीरे मेदि० ४ दीप्ते त्रि० हेमच०। स्त्रियां ङीप् सा च ५ नद्यां ब० व० ६ ऊषसि च स्त्री निघण्टुः। ७ ज्योतिषनिबन्धभेदे स्त्री यत्र सूर्य्यग्रहणादिनिरूपणमस्ति।

भास्वर = त्रि० भास–वरच्। १ दीप्तियुक्ते २ सूर्य्ये ३ अग्नौ मेदि० ४ दिने ५ अर्कवृक्षे च पु०। ६ कुष्ठौषधे (कुड) न० राजनि० ७ स्कन्दानुचरभेदे पु० भा० श० ४६ अ०।

भिक्ष = लोभे लाभायोक्तौ सक० याचने द्विक० क्लेशे अक० भ्वा० आत्म० सेट्। भिक्षते अभिक्षिष्ट विभिक्षे।

भिक्षा = स्त्री भिक्ष–अ। १ याच्ञायाम् अमरः। २ सेवायां ३ भृतौ च मेदि०। उपचारात् ४ भिक्षिते वस्तुनि। तत्र ब्रह्मचारिभिक्षाप्रकारः ब्रह्मचर्य्यशब्दे ४५९६ पृ० उक्तः। तस्या दानावश्यकत्वम् प्रमाणं च आ० त० मार्कपु० उक्तं यथा “भोजनं हन्तकारं वा अग्रं भिक्षामथापि वा। अदत्त्वा नैव भोक्तव्यं यथाविभवमात्मनः। ग्रासप्रदानाद्भिक्षा स्यात् अग्रं ग्रासचतुष्टयम्। अग्राच्चतुर्गुणं प्राहुर्हन्तकारं द्विजोत्तमाः”। ग्रासं पलमात्रमिति नव्य वर्द्धमानः”। भिक्षाया दानपात्राणि उक्तानि विष्णुपु० “दद्याच्च भिक्षात्रितयं परिव्राट ब्रह्मचारिणाम्। स्वेच्छया तु नरो दद्यात् विभवे सत्यवारितम्। इत्येतेऽतिथयः प्रोक्ताः संप्राप्ता भिक्षुकाश्च ये। चतुरः पूजयन्नेतान् नृयज्ञर्णात् प्रमुच्यते”। चकारः पूर्वोक्तातिथिभोजनेन समुच्चयार्थः। सन्यासिभिक्षादाने तु “यतिहस्ते जलं दद्यात् भैक्ष्यं दद्यात् पुनर्जलम्। तद्भैक्ष्यं मेरुणा तुल्यं तज्जलं सागरोपमम्”। विष्णुधर्मोत्तरे “चाण्डालो वाथ पापो वा शत्रुर्वा पितृघातकः। देशकालात्ययगतो मरणीयो मतो मम” विष्णुपु०। “व्याघितस्यान्नहीनस्य कुटुम्बात् प्रच्युतस्य च। अध्वानं वा प्रपन्नस्य भिक्षाचर्य्यं विधीयते”। अत्र भिक्षाद्यदाने भोजननिषेधात् मनुष्ययज्ञस्य नित्यत्वाच्च अतिथिप्राप्तेरनित्यत्वात् यज्ञसिद्धये ब्रह्मणमात्राय भिक्षादिदानमावश्यकम्। अतएव बौधायनः “अहरहर्ब्राह्मणेभ्योऽन्नं दद्यात् आमूलफलशाकेभ्यः अथैवं मनुष्ययज्ञसमाप्नोति”। विष्णुः भिक्षुकाभावे चाग्रं गोभ्यो दद्यात् अग्नौ वा क्षिपेत्”।

भिक्षाटन = न० भिक्षार्थमटनम्। भिक्षार्थे गमने तस्य सायं प्रातश्च निषेधो यथा “सायं प्रातर्गृहद्वारं भिक्षार्थं नावघट्टयेत्” कूर्मपु० १५ अ०।

भिक्षादि = पु० “समूहार्थे भिक्षादिभ्योऽण्” पा० उक्ते अण्प्रत्ययनिमित्ते शब्दगणे स च गणो यथा “भिक्षा गर्भिणी क्षेत्र करीष अङ्गार चर्मन् सहस्र युवति पदादि पद्धति अर्थर्वन् दक्षिणा भत विषय श्रोत्र” पा० ग०।

भिक्षापात्र = न० भिक्षाहरणार्थं पात्रम् शा० त०। १ भिक्षाया आहरणार्थे पात्रे भिक्षुशब्दे दृश्यम्। २ भिक्षादानसंप्रदाने ब्रह्मचार्य्यादौ भिक्षाशब्दे दृश्यम्।

भिक्षाशित्व = न० भिक्षाशिनो भावः त्व। १ भिक्षाशिनोभावे २ पैशुन्ये हारा०।

भिक्षाशिन् = त्रि० भिक्षालब्धमश्नाति अश–णिनि। भिक्षालब्धीपजीविनि। “भिक्षाशी विचरेत् ग्रामम्” स्मृतिः।

भिक्षु = त्रि० भिक्ष–उन्। १ भिक्षाकारके २ चतुर्थाश्रमे पु० ३ तद्वति च। तदाश्रमे अधिकारिणश्च आश्रमशब्दे उक्ताः। तद्धर्माः नि० सि० उक्ता यथा “अथ यतिधर्माः प्रातरुत्थाय व्रह्मणस्पते इति जपित्वा दण्डादीनि मृदञ्च निधाय मूत्रपुरीषयोर्गृहस्थचतुर्गुणं शौचं कृत्वाचम्य पर्वद्वादशीवर्जं प्रणवेन दन्तधावनं कृत्वा तेनैव मृदा बहिःकटिं प्रक्षाल्य जलतर्पणवर्जं स्नात्वा पुनर्जङ्घे प्रक्षाल्य वस्त्रादीनि गृहीत्वा मार्जनान्तं कृत्वा केशवादिनमोन्तनामभिस्तर्पयित्वा ओं भूस्तर्पयामीत्यादि व्यस्तसमस्तव्याहृतिभिर्महर्जनस्तर्पयामीति तर्पयेत्। “ओं भूः स्वाहेति स्वाहाशब्दान्तैः स्वधाशब्दान्तैश्चैभिरेव पुनस्तर्पयेदिति केचित्। तत आत्तम्याञ्जलिना प्रणवेन जलमादाय व्याहृतिभिरुद्धृत्य गायत्र्या त्रिः क्षिप्त्वा गायत्रीं जपेत्। उदिते सूर्य्ये प्रणवेन व्याहतिभिर्वार्घ्यं त्रिर्दत्त्वा मित्रस्य चर्षणीत्याद्यैः पूर्वोक्त सौरीभिरिदं विष्णुस्त्रिर्देवो ब्रह्मजज्ञानमिति चोपस्थाय सर्वभूतेभ्यो नम इति प्रदक्षिणमावर्त्तते ततो नत्वा “आदित्याय विद्महे सहस्राक्षाय धीमहि। तन्नः सूर्य्यः प्रचोदयादिति” त्रिर्जपेत्। एवं त्रिकालं विष्णुपूजां ब्रह्म यज्ञञ्च कुर्य्यात्। अथ भिक्षा। विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने। काले पराह्णभूयिष्ठे नित्यं भिक्षां यतिश्वरेत्” इत्युक्ते काले उद्वयमिति चतसृभिरादित्यमुपस्थाय तनैक्यं ध्यात्वा आकृष्णेनेति प्रदक्षिणं कृत्वा ये ते पन्थान इति जप्त्वा “योऽसौ विष्ण्वाख्य आदित्ये पुरुषोऽन्तर्हृदि स्थितः। सोऽहं नारायणोदेव इति ध्यात्वा मणम्य तम्”। त्रितण्डं दक्षिणे त्वङ्गे ततः सन्धाय बाहुना। पात्रं वामकरे क्षिप्त्वा श्लेषयद्दक्षिणेन त्विति” बोधायनोक्तदिशा त्रीन् पञ्च सप्त वा गृहान् गत्वा भवत्पूर्वं भिक्षां याचित्वा “पूर्णमसि पूर्णं मे भूया” इत्यागन्त्य शुचिरन्नं प्रोक्ष्य ओं भूः स्वधा नम इत्यादिव्यस्तसमस्त व्याहृदितिभिः सूर्य्यादिदेवेभ्यो भूतेभ्यश्च भूमौ क्षिप्त्वा भुक्त्वा प्रणवेन षोडश प्राणायामान् कुर्य्यादिति संक्षेपः। गौतमव्याख्यायां भृगुः। “यतिहस्ते जलं दत्त्वा भैक्ष्यं दद्यात् पुनर्जलम्। भैक्ष्यं पर्वतमात्रं स्यात् तज्जलं सागरोपमम्”। अत्र सर्वत्र मूलं माधवापरार्कमदनरत्नस्मृत्यर्थसारादौ ज्ञेयम्। कण्वः “एकरात्रं वसेद्ग्रामे नगरे पञ्चरात्रकम्। वर्षाभ्योऽन्यत्र वर्षासु मासांस्तु चतुरो वसेत्”। जावालश्रुतौ “शून्यागारे देवगृहतृणकुटीवल्मीकवृक्षमूलकुलालशालाग्निहोत्रगृहनदीपुलिनगिरिकुहरनिर्झरस्थण्डिलेष्वनिकेतनः” इति। मात्स्ये “अष्टौ मासान् विहारः स्याद् यतीनां संयतात्मनाम्। एकत्र चतुरोमासान् वार्षिकान्निवसेत् पुनः। अविमुक्तपविष्टानां विहारस्तु न विद्यते”। अत्रिः “भिक्षाटनं जपं स्नानं ध्यानं शौचं सुरार्चनम्। कर्त्तव्यानि षडेतानि सर्वथा नृपदण्डवत्। मञ्चकं शुक्लवस्त्रञ्च स्त्रीकथां लौल्यमेव च। दिवास्वापञ्च यानञ्च यतीनां पतनानि षट्। आसनं पात्रलोभश्च सञ्चयः शिष्यसंग्रहः। दिबास्वापो वृथाजल्पो यतेर्बन्धकराणि षट्”। दक्षः “नाध्येतव्यं न वस्तव्यं न श्रोतव्यं कथञ्चन। यतिपात्राणि मृद्वेणुदार्वलाबूमयानि च”। मदमनरत्ने अत्रिः “पित्रर्थं कल्पितं पूर्वमन्नं देवादिकारणात्। वर्जयेत् तादृशीं भिक्षां परबाधाकरीं तथा”। वृहस्पतिः “न तीर्थवासी नित्यं स्वान्नोपवासपरो यतिः। न चाध्ययनशीलः स्यान्न व्याख्यानपरो भवेत्”। एतद्वेदार्थभिन्नपरम्। अत्रिः “स्नानं सुरार्चनं ध्यानं प्राणायामो बलिस्तुतिः भिक्षाटनं जपः सन्ध्या त्यागः कर्मफलस्य च”। एते धर्मा मिता० प्रायेणोक्तास्तद्वाक्यञ्चाश्रमशब्दे दृश्यम्। ४ बुद्धभेदे जटा० ५ श्रावणीक्षुपे राजनि०। ६ कोकिलाक्षे भावप्र० ७ उपनिषद्भेदे च।

भिक्षुक = पु० भिक्ष–उक। भिक्षोपजीविनि। “ब्रह्मचारी यतिश्चैव विद्यार्थी गुरुपोषकः। अध्वगः क्षीणवृत्तिश्च षडेते भिक्षुकाः स्मृताः” अत्रिणा पारिभाषिकादर्शिताः। ततः समूहे खण्डिका० ठञ्। भैक्षुक तत्समुदाये न०। कडारा० कर्म० वा परनिपातः। विप्राभक्षुकः भिक्षुकविप्र इत्यादि।

भिक्षुसंघाटी = स्त्री भिक्षुं संघटते प्राप्नोति सम् + चट्–अणुप० स०। धीवरे हेमच०।

भिक्षुसूत्र = न० भिजोः तदाश्रमविधितधर्मस्य ज्ञापकं सूत्रम् शा० त०। व्यासकते ब्रह्मसूत्रे शारीरकसूत्रे।

भिण्ड = पुंस्त्री० भण–ड पृषो०। कराकृतिरक्तवर्णपर्णे वर्तुलाकारवोज क्षुपभेदे। स्त्रीत्वे टाप् राजनि० गौरा० ङीष् तत्रार्थे

भिण्डीतक = पु० भिण्डी सती तकते तक–हासे अच्। भिण्डीक्षुपे राजनि०।

भित्त = न० भिद–क्त नि० तस्य न नः। खण्डे अमरः।

भित्ति = स्त्री भिद–क्तिन १ गृहादेः कुड्ये (देयास) २ प्रभेदे शब्दरत्ना०। ३ अवकाशे ४ संविसागे विश्वः। स्वार्थे क। तत्रार्थे सज्ञायां कन्। पल्ल्यां हेमच०।

भित्तिचार = पु० भित्त्या कुड्यादिभेदनेन चोरयति चुर–अच्। (सि~धेल) सन्धिभेदकचौरे।

भित्तिपातन = पुंस्त्री० भित्तिं कुद्ध्यं पातयति भेदनेन पातिल्यु। महामूषिकभेदे राजनि० स्त्रियां जातित्वात् ङीष्।

भिद = द्विधाकरणे विशेषकरणे च रुधा० उभ० सक० अनिटू। भिनत्ति भिन्ते इरित् अभिदत् अभैत्सीत् अभित्त। विभेद विभिदे। मिन्नः। भेत्ता।

भिद = अंशकरणे भ्वा० पर० सक० सेट् इदित्। भिन्दति अभिन्दीत्

भिद् = स्त्री भिद्–सम्प० भावे क्विप्। १ भेदे २ विशेषकरणे च। कर्त्तरि क्विप्। ३ भेत्तरि त्रि०।

भिदक = न० भिद–क्वुन्। वज्रे १ हीरके। २ खड्गे उणा० को०

भिदा = स्त्री भिद–भावे अङ्। १ विदारणे द्वैधीकरणे २ विशेषकरणे च।

भिदादि = स्त्री अङ्प्रत्ययनिर्वृत्ते शब्दनखे स च गणः पा० ग० उक्तो यथा “भिदा छिदा विदा क्षिपा गुहा श्रद्धा मेधा गोधा आरा हारा कारा (बन्धनस्थाने) क्षिपा तारा (ज्योतिषि) धारा रे(ले)खा चूडा पीडा वपा वसा मृजा कृपा। अत्र छिदा द्वैधीकरण एवान्यत्र छित्तिः। आरा शस्त्र्यामन्यत्र अर्त्तिः। धारा जलप्रवाहेऽन्यत्र धृतिः। गुहा गिर्य्योषध्योः अन्यत्र गूढिरिति बोध्यम्”।

भिदि = पु० भिद–कि। वज्रे द्विरूपको०।

भिदिर = न० भिद–किरच्। वज्रे त्रिका०।

भिदु = न० भिद–कु। वज्रे त्रिका०।

भिदुर = न० भिद–कुरच्। १ स्वयंभेदनशीले अमरः। २ प्लक्षवृक्षे राजनि०। तस्य सौधभेदकाङ्कुरवत्त्वात् तथात्वम्।

भिदेलिम = त्रि० भिद–कर्मकर्त्तरि केलिम्। स्वयं भिद्यमाने।

भिद्य = पु० भिद–कर्त्तरि क्यप् नदे नि०। नदे हेमच०।

भिद्र = न० भिद–रक्। वज्रे त्रिका०।

भिन्दिपाल = पु० मिदि विदारणे रन् भिन्दिं भेदनं पालयति पालि–अण्। १ हस्तक्षेप्ये नातिकास्न्ने अमर- टीकायां मरतः। हस्तप्रमाणे अस्त्रभेदे क्षीरस्वामी। हमा० प० तल्लक्षणमन्यथोक्तं यथा “भिन्दिपालस्य लक्षणं प्रोच्यते तस्य य आयामी यत्प्रमाणं दण्डस्य च यः परिणाहो यतसंस्थानं द्रव्यादिप्रमाणं ग्रहणमोक्षौ दष्टादुष्टाश्च गतयस्तत्सर्वं यथोक्तं वक्ष्यामि वत्स! निबोध। तत्र भिन्दिपालस्य दण्डः फलाचितः सप्तहस्तो ज्येष्ठो भवति द्वादशाङ्गलहीनी मध्यमो वितस्तिहीनस्तु कनिष्ठो मानतः स्याद्दण्डश्च सप्ताङ्गुलपरिणाहः श्रेष्ठो भवति मृध्यमो द्व्यङ्गुलहीनस्त्र्यङ्गुलहीनश्च कनिष्ठो भवति मूले परीणाहो ग्राह्यः स च गोपुच्छवत् वेदितव्यो दण्डार्थ पुनः कूटजदृक्षजं वैणवं भद्रसिंहव्यं कदम्बकं वा दारुमयं वा कारयेत तन्मया हि दण्डा दृढाः स्युः कालाकुलोत्सादकारिणह् कल्मषा विवर्द्धयन्ति चतुस्त्रिंशदवका अवनोदकारकानमोन्नमनसहा पूर्बभारपरीक्षमाश्च भवन्ति ते नित्यं दण्ठेषु कुशलैः शुभलक्षणा विज्ञेया दण्डस्योपरि पत्रं कर्णिकासंस्थानां प्रयोजयेत् कर्णिका च द्व्यङ्गुलोत्सेधा षडङ्गुला च लेख्या स्यात् यथा दण्डपरीणाहं बलित्थां कारयेत् सौवर्णं रजतमयं वा कांस्यं वा ताम्रं वा लौहमयं शार्ङ्गजातमस्थिजं योजयेत् तदालाभे तु वैक्षवं दृढं वा विदध्यात् भिन्दिपालफलन्तु विंशत्यङ्गुलप्रमाणं भवति मिस्त्रिंशसदृशम् पीतं सुनिशितधारमुत्तमं कुर्वीत अष्टादशाङ्गलप्रमाणं मध्यं षोडशाङ्गुलप्रमाणं नीचं निर्दिष्टं तत्र यावत्यः फलपत्रपुष्पाणां योनयो दृश्यन्ते तावत्यो भिन्दिपालफलकाः, कर्तव्या तथा विस्तारे त्र्यङ्गुलमूले वोच्छकसहबद्धोर्द्धमष्टाङ्गुलं दण्डसूत्रेणाववेष्टयेत् पूर्वभागे मध्यान्तादिपात्रैरित्युत्तमाधममध्यमानां भवेत् दण्डस्य प्रमाणद्विगुणं फलं तस्य गौरवात् भवति तत्राष्टदशाङ्गुलं भिन्दिपालफलाग्रम् ऋजु कार्य्यं पञ्चभिः पञ्चभिः पलैर्बर्द्धिततया वच्छतपलं श्रेष्ठं पलाग्रेण शतिकः उत्तमः कर्त्तव्यः अशीतिपलोमध्यमः षष्टिपालो नीचः”।

भिन्न = त्रि० भिद–क्त। १ विदारिते अमरः २ सङ्गते ३ अन्यार्थे ४ प्रस्फुटिते च मेदि०। ५ रोगभेदे न०। “शक्तिकुन्तेषुखड्गाग्रविषाणैराशयी हतः। यत्किञ्चित् प्रस्रवेत्तद्धिभिन्नमित्यभिधीयते” भावप्र०। आशयः कोष्ठः।

भिन्नक = पु० भिन्नं कं यस्य। बौद्धे त्रिका०। तन्मत विश्वस्य क्षणभङ्गुरत्वेन स्थायिसुखराहित्यात्तस्य तथात्वम्।

भिन्नकूट = न० कामन्द० उक्ते वलव्यसनभेदे। तत्र च बल- व्यसनं नानाबिधमुक्तं यथा “उपरुद्धं परिक्षिप्तं विमानितममानितम्। अमतं व्यधितं श्रान्तं दूरायातं नवागतम्। परिक्षीणाग्ररहितं प्रहताग्रजवं तथा। आशानिर्वेदभूयिष्ठमनृतप्राप्तमेव च। कलत्रगर्भं विक्षिप्तमन्तःशल्यं तथैव च। भिन्नगर्भं ह्यपसृतमभियुक्तं तथैव च। क्रुद्धमौलाविमिश्रञ्च विशिष्टञ्चापि विद्विषा। दूथयुक्तं स्वविक्षिप्तं मित्रविक्षिप्तमेव च। विच्छिन्नविविधासारं शून्यमूलं तथैव च। अस्वामिसङ्गतञ्चापि भिन्नकूटं तथैव च। दुष्पार्ष्णिग्रहमन्धञ्च बलव्यसनमुच्यते”। भिन्नगर्भमप्यत्र।

भिन्नक्रम = पु० भिन्नः क्रमो यत्र। वाक्यगते उपक्रमराहित्यरूपे भग्नप्रक्रमाख्ये काव्यदोषभेदे।

भिन्नगात्रिका = स्त्री भिन्नं विदारितं गात्रमवयवी यस्याः। कर्कट्याम् राजनि०

भिन्नगुणन = न० लीला० उक्ते पूरणभेदे “अंशाहतिश्छेदबधेन भक्ता लब्धं बिभिन्ने गुणने फलं स्यात्” उदा०। तत्र दृश्यम्।

भिन्नपरिकर्म्मन् = न० लीला० उक्ते सच्छेदस्य सङ्कलनघ्यवकलनादिरूपाङ्गसंस्काराष्टके परिकर्मन्शब्दे दृश्यम्।

भिन्नभिन्नात्मन् = पु० भिन्नप्रकारः प्रकारे द्वित्वम् तादृश आत्मा यस्य। चणके (चोला) शब्दच०।

भिन्नयोजनी = स्त्री भिन्नं युज्यतेऽनया युज–करणे ल्यटे ङीप्। पाषाणभेदके वृक्षे राजनि०।

भिन्नवर्चस्(स्क) = त्रि० भिन्नं वर्चो यस्य वा कप्। द्रवीभूतमलके सुश्रुतः।

भिन्नविट्का = स्त्री० भिन्ना विट् मलं यया। १ अलाबू लतायां सुश्रुतः। ६ ब०। २ द्रवीभूतमलके त्रि०।

भिन्नार्थ = त्रि० भिन्नोऽर्थो वाच्यो यस्य कप्। अन्यपदार्थे अमरः।

भियस् = न० भी–वा० कसुन्। भवे ऋ० १। ५२। ९। उदा०

भिरिण्टिका = स्त्री श्वेतगुञ्जायाम् राजनि०।

भिल = भेदने वा चु० उ० पक्षे तु० पर० सक० सेट्। भेलयति–ते भिलति अबीभिलत् त अभेलीत्।

भिल्ल = पु० भिल–लक्। म्लेच्छजातिभेदे। (भिल) स च ब्राह्मणकन्यायां तीवराज्जातः। “पुलिन्दमेदभिन्नाश्च” इत्युपक्रमे “एते वै तीवराज्जाताः कन्यायां ब्रह्मणस्य च” पराशरपद्धतिः।

भिल्लगवी = स्त्री भिल्लानां गौरिव पच् समा० ङीष्। गवयजाति स्त्रियां राजनि०।

भिल्लतरु = पु० भिल्लतियः तदुपजीव्यत्वात् तरुः। लोध्रे राजनि०

भिल्लभूषण = न० भिल्लं भूषयति भूमि–ल्यु। गुञ्जावृक्षे राजनि० तत् फलस्य तेषां भूषतत्वात् तस्य तथात्वम्।

भिल्लोट = पु० भिल्लप्रियमुटम् पत्रं यस्य। लोध्रवृक्षे सुश्रुतः।

भिल्ली = स्त्री भिल–लक् गौ० ङीष्। लोध्रे राजनि०।

भिष = रोगप्रतीकारे सौ० पर० सक० सेट्। भेषति अभेषीत्।

भिषक्प्रिया = स्त्री ६ त०। गुडूच्याम् राजनि०।

भिषग्जित = न० ३ त०। औषधे त्रि०।

भिषग्भद्रा = स्त्री ७ त०। भद्रदन्तिकायाम् राजनि०।

भिषग्मातृ = स्त्री भिषजां मातेव। वासकवृक्षे राजनि०।

भिषज् = चिकित्सायां कण्ड्वा० ष० सक० सेट्। भिषज्यति अभिषजी(ज्यी)त्।

भिषज् = पु० विभेत्यस्मात् रोगः “भियः सुक् ह्रस्वश्च” उणा० अजि कण्ड्वा० भिषज्–क्विप् वा। १ चिकित्सके। २ विष्णौ पु०। तस्य संसाररोगहारित्वात् “भीषा स्यात् वातः पवते” इत्यादि श्रुत्या सर्वेषां भीतिजनकत्वाद्वा तथात्वम्। ततः अपत्ये गर्गा० यञ् भैषज्य वैद्यपुत्रे स्त्रियां ङीप् यलोपः भैषजी। भिषजो भावः अण् “भेकजाश्च” पा० निर्देशात् गुणः न वृद्धिः। भेषज चिकित्सायाम् न०। ततः स्वार्थेञ्य। भैषज्य न० तत्रार्थे।

भिष्णज् = उप० सेवायां कण्ड्वा० प० सक० सेट्। भिष्णज्यत अभिष्णजी(ज्यी)त्।

भिस्सटा = स्त्री भिस्सामन्नं टीकुते टीक–ड पृषो०। अन्ने अमरः। पृषो०। भिष्मटा भिस्मिटा भिष्मिकास्तत्र पाठान्तराणि।

भिस्स = स्त्री भिद्–क्विप् सो–क पृषो० दस्य सः। अन्ने अमरः

भी = भवे जु० पर० अक० अनिट्। विभेति अभैषीत् बिभयामब० भूव आस चकार बिभाय। भीरुः भीतः। एतद्योगे “भीत्रार्थानां भयहेतुः” पा० भयहेतोरपादानता। व्याघ्रात् भीत।

भी = भये अक० भरणे सक० क्य्रादि० वा वा० पर० अनिट भीनाति मिनाति। अभैषीत्।

भी = स्त्री भी–सम्प० क्विप्। भये अमरः।

भीणी = स्त्री कुमारानुचरमातृभेदे भा० श० ४७ अ०।

भीत = न० भी–भावे कर्त्तरि वा क्त। १ भवे २ तद्युते त्रि०। ३ मन्त्रभेदे पु० “शिवो वा शक्तिरथ वा भीताख्यः स प्रकीर्त्तितः” तन्त्रसारः

भीति = स्त्री भी–क्तिन्। १ भये अमरः। २ कम्पे च त्रिका०।

भीम = त्रि० बिभेत्यस्मात् भी–अपादाने मक्। १ भयहेतौ २ भयानकरसे अमरः। ३ महादेवे ४ भीमसेने ५ अम्लवेतसे च पु० मेदि०। ६ परमेश्वरे पु० तस्य “भीषास्माद्वातः परते” इत्यादिश्रुतेः सर्वेषां मयहेतुत्वात् तथात्वम्। महादेवस्याष्टमूर्त्तिभध्ये आकाशरूपे ७ मूर्त्तिभेदे ८ देवगन्धर्वभेदे भा० आ० ६५ अ०। आङ्गिरसे वह्निभेदे भा० व० २१९ अ०। १० दानवभेदे भा० श० २२७ अ०। ११ अमावसुवंश्ये नृपभेदे हरिवं० २७ अ०। सात्त्वतवंश्ये १२ नृपभेदे हरिवं० ९५ अ०। १३ विदर्भाधीशे नृपभेदे दमयन्तीपितरि तत्कथा भा० व० ५१ अ०। १४ अष्टादशाक्षरमन्त्रभेदे “आदौ मध्ये तथा चान्ते चतुरस्रयुतो मनुः। ज्ञातव्यो भीम इत्येष यः स्यादष्टादशाक्षरः” तन्त्रसा०।

भीमक = पु० पार्वत्यारोषजाते गणभेदे हरिवं० १६८ अ०।

भीमजानु = पु० यमसभास्थे नृपभेदे भा० स० ८ अ०।

भीमतिथि = स्त्री भीमोपासिता तिथिः शा० त०। भीमैकादश्याम् माघशुक्लैकादश्याम्।

भीमद्वादशी = स्त्री भीमोपासिता द्वादशी १ माघशुक्लद्वादश्याम् तत्र भीमसेनकृते २ व्रतभेदे च हेमा० व्र० पद्मपु०।

भीमनाद = पु० ६ ब०। १ सिंहे शब्दच०। कर्म०। २ भमानकशब्दे पु०

भीमपराक्रम = त्रि० भीमः पराक्रमोऽस्य। १ भयानकपराक्रमे २ विष्णौ पु० “भीमो भीमपराक्रमः” विष्णुस०।

भीमपुर = न० ६ त०। विदर्मराजस्य नगरे कुण्डिनपुरे भीमनगरादयोऽप्यत्र।

भीमबल = त्रि० ६ ब०। १ भयानकवीर्य्ये २ धृतराष्ट्रपुत्रभेदे पु० भा० आ० १७ अ०। ३ वह्निभेदे पु० भा० व० २१९ अ०।

भीमयु = स्त्री आत्मनो भीमं वृषमिच्छति क्यच् वेदे नि० उन्। आत्मनो वृषभेच्छौ स्त्रीगव्याम् ऋ० ५। ५६। ३।

भीमरथ = पु० १ अमुरभेदे गरुडपु० ८६ अ०। २ धृतराष्ट्रपुत्रभेदे भा० आ० ६७ अ०। ३ धन्वन्तरिवंश्ये नृपभेदे हरिवं० २९ अ०। ४ दशार्हवंश्ये नृपभेदे हरिवं ३७ अ०। सत्यभामायां जाते वासुदेवस्य ५ पुत्रभेदे हरिवं १६२ अ०।

भीमरथी = स्त्री “सप्तसप्ततिमे वर्षे सप्तमे मासि सप्तमी। रात्रि र्भीमरथी नाम नराणामतिदुस्तरा” इत्युक्तायां १ रात्रौ। “तामतीत्य नरी योऽसौ दिनानि यानि जीवति। क्रतु भिस्तानि तुल्यानि सुवर्णशतदक्षिणैः। गतिः प्रदक्षिणं विष्णोर्जल्पनं मन्त्रभाषणम्। ध्यानं निद्रा सुधा चान्नं भीमरथ्याः फलश्रुतिः” वैद्यके। २ नदीभेदे भा० व० ८८ अ०।

भीमरिका = स्त्री सत्यभामागर्भजातायां श्रीकृष्णस्य कन्यायां हरिवं० १६२ अ०।

भीमल = त्रि० भियोमलः सम्बन्धो यतः। भयङ्करे यजु० ३०। ६।

भीमविक्रम = पु० १ धृतराष्ट्रपुत्रभेदे भा० अ० २७ अ०। ६ ब०। २ भयानकविकमे त्रि०।

भीमविक्रान्त = पुंस्त्री ६ ब०। १ सिंहे त्रिका० स्त्रियां जातित्वात् ङीष्। ६ ब०। २ भयानकविक्रमयुते त्रि०।

भीमवेश = त्रि० ६ ब०। १ भयानकवेशयुते २ धृतराष्ट्रपुत्रभेदे पु० भा० अ० ५७ अ०। ३ दानवभेदे पु० हरिवं २४ अ०।

भीमवेशवत् = पु० धृतराष्ट्रपुत्रभेदे भा० आ० १८६ अ०।

भीमशर = पु० धृतराष्ट्रपुत्रभेदे भा० आ० ६७ अ०।

भीमशासन = पु० भीमं शासनमस्य। १ यमे शब्दार्णवः भयानकशासनकर्त्तरि २ नृपादौ च।

भीमसेन = पु० युधिष्ठिरानुजे १ मध्यमपाण्डवे २ कर्पूरभेदे च शब्दरत्ना०। ३ जनमेजयस्य भ्रातृभेदे भा० आ० ३ अ०। ४ पौरवप्राचीनजनमेजयस्य पुत्रभेदे भा० आ० ९४ अ०।

भीमहास = पु० इन्द्रतूले (वुडिरसुता) शब्दरत्ना०।

भीमा = स्त्री १ भीमाख्यायाम दुर्गायाम् २ रोचनाख्यगन्धद्रव्ये शब्दरत्ना० ३ कशायां शब्दमाला ४ नदीभेदे भा० व० २२३ अ०

भीमादेवी = स्त्री भीमाख्या देवी। दुर्गामूर्त्तिभेदे “पुनश्चाहं यदा भीमं रूपं कृत्वा हिमाचले। रक्षांसि क्षपयिष्यामि मुनीनां त्राणकारणात्। तदा मां मुनयः सर्वेस्तोष्यन्त्यानम्रमूर्त्तयः। भीमादेवीतिविख्यातं तन्मे नाम भविष्यति” देवीमा०

भीमादि = पु० “भीमादयोऽपादाने” पा० अपादाने निपातनसाध्ये शब्दगणे स च गणः पा० ग० उक्तो यथा “भीम भीष्म भयानक वाह चरु प्रस्कन्दन प्रपात समुद्र स्रुव स्रुक् दृष्टि रक्षः शङ्कु सुक मूर्ख खलति”।

भीमैकादशी = स्त्री भीमेनोपास्या एकादशी शाक० त०। माघशुक्लैकादश्याम्। तत्कर्त्तव्यव्रतादिकं मत्स्यपु० ६५ अ० उक्तम्।

भीरु = त्रि० भी–क्रु। १ मयशीले अमरः। २ शतावर्य्यां स्त्री धरणिः। ३ कण्टकार्य्यां ४ शतपादिकायां शब्दर०। ५ छायायां ६ योषिति ७ अजायां स्त्री मेदि०। ८ शृगाले पु० शब्दमा०। ९ व्याघ्रे राजनि० १० इक्षुभेदे रत्नमा०।

भीरुक = पु० भी–क्रुकन्। १ शृगाले २ व्याघ्रे ३ इक्षुभेदे च। “वातपित्तप्रशमनो मधुरो रसपाकयोः। सुशीतो वृंहणो बल्यः पौण्ड्रकोभीरुकस्तथा” भावप्र०। ४ भययुक्ते त्रि०।

भीरुकच्छ = पु० देशभेदे मार्कपु० ५७ अ०।

भीरुपत्री = स्त्री भीरूणि पत्राणि यस्याः ङीप्। शतमूल्याम् अमरः

भीरुष्ठान = न० ६ त० अम्बाम्बेति षत्वम्। भीरूणां स्थाने।

भीरुहृदय = पु० ६ ब०। १ मृगे त्रिका० २ भयशीलहृदये त्रि०।

भीरू = स्त्री भीरु + रिवयाभूङ्। भवशीलायां नार्य्यां भरतः।

भीलु(क)(लूक) = त्रि० भी क। भयशीले क्लु कन्। तत्र भल्लूकेपु० शब्दरत्ना० पृषो० भीलूक तत्रार्थे भल्लूके शब्दमा०।

भीषक = त्रि० भीषयते भी–णिच्–सुक् ण्वुल्। भयकारके हेमच०।

भीषण = पु० भीषयते भी–णिच्–सुक् ल्यु १ भयानकरसे २ कुन्दुरुके ३ हिन्ताले राजनि० ४ शल्लक्यां ५ महादेवे शब्दरत्ना० ६ कपोते च पु० ७ गाढे ८ दारुणे च त्रि० मेदि०।

भीषा = स्त्री भी–णिच्–सुक् भावे अङ्। १ भयप्रदर्शने “क्षेत्रं वा भीषया हरन्” मनुः। स्वार्थे णिच्। २ भये च “भीषास्माद्वातः पवते” श्रुतिः। तृतीयास्थाने वेदे आध्।

भीष्म = न० भी–णिच्–सुक् अपादाने मक्। १ भयानकरसे अमरः। २ भयानके त्रि० ३ रुद्रे ४ राक्षसे पु० हेमच० ५ गङ्गागर्भजाते शान्तनुपुत्रभेदे पु० गङ्गाजशब्दे दृश्यम्।

भीष्मक = पु० रुक्मिण्याः पितरि नृपभेदे हरिवं० ९१ अ०।

भीष्मकेशव = पु० काशीस्थे केशवमूर्त्तिभेदे काशी० ३३ अ०।

भीष्मजननी = स्त्री ६ त०। गङ्गायाम् राजनि०। गङ्गाजशब्दे २४९१ पृ० दृश्यम्।

भीष्मपञ्चक = न० भीष्मेण प्राप्तमुपदिष्टं वा पञ्चकम्। कार्त्तिकशुक्लेकादश्यादिषु १ पञ्चसु तिथिषु तत्कर्त्तव्ये २ व्रतभेदे च। तन्निरुक्तिर्यथा “भीष्मेणैतत् पुरा प्राप्तं व्रतं पञ्च दिनात्मकम्। सकाशात् वासुदेवस्य तेनोक्तं भीष्मपञ्चकम्” हेमा० व्र० नारदपु०। पञ्चात् तेन च पाण्डवायोप दिष्टं यथोक्तं तत्रैव “इदं भीष्मेण धर्म्यञ्च शरतल्पगतेन च। तदेवात्र समाख्यातं दुष्करं भीष्मपञ्चकम्”। तत्कालश्च तथोक्तो यथा “कार्त्तिकस्य शुभे पक्षे स्यात्तु सम्यगयतव्रतः। एकादश्यान्तु गृह्णीयात् व्रतं पञ्च दिनात्मकम्”। तत्रैव तद्विधानं दृश्यम्।

भीष्मरत्न = हिमालयोत्तरदेशजातशुक्लबर्णप्रस्तरविशेषे। तस्योत्पत्त्यादि यथा “सूत उवाच। “हिमवत्युत्तरे देशे वीर्य्यं पतितं सुरद्विषस्तस्य। सम्प्राप्तमुत्तमानामाकरतां भीष्मरत्नानाम्। शुक्लाः शङ्खाब्जनिभाः श्योनाकसन्निभाः प्रभावन्तः। प्रभवन्ति ततस्तरुणा वज्रनिभा भीष्मपाषाणाः। हिमाद्रिप्रतिबद्धं शुद्धमपि श्रद्धया विधत्ते यः। भीष्ममणिं ग्रीवादिषु स सम्पद सर्वदा लभते। प्रणयुक्तस्य तस्यैव धारणान्मुनिपुङ्गव!। विधाणि तानि नश्यन्ति सर्वाण्येव महीतले। विषमा न धाधन्ते ये तमरण्यनिवासिनः समीपेऽपि। द्वीपि वृकशरभकुञ्जरसिंहधादयो हिंस्वाः। तस्योत्कबलित कृतिनो पवन्ति भयं न चापि समुपस्थितम्। भीष्म- मणिर्गुणयुक्तः सम्यक् संप्राप्ताङ्गलित्रितयः। पितृतर्पणे पितृणां तृप्तिर्बहुर्वार्षिकी भवति। शाम्यन्त्युद्भूतान्यपि सर्पाण्डजाखुवृश्चिकविषाणि। सलिलाग्निवैरि तस्करभयानि भीमानि नश्यन्ति। सैबलयलाहकाभं परुषं पीतप्रमं प्रभाहीनम्। भलिनद्यतिं विवर्ण्णं दूरात् परिवर्जयेत् पाज्ञः। मूल्यं प्रकल्प्यमेषां विबुधवरैर्देशकालविज्ञानात्। दूरे भूतानां बहु किञ्चिन्निकटप्रसूतानाम्” गारुडे ७६ अ०। भीष्ममण्यादयोऽप्यत्र।

भीष्मसू = स्त्री भीष्मं सूते सू–क्विप्। गङ्गायाम् अमरः।

भीष्माष्टमी = स्त्री ६ त०। भीष्मस्य देहत्यागदिवसे माघस्य शुक्लाष्टम्याम्। अतस्तस्मिन् दिने सर्ववर्णैस्तस्य तर्पणं कार्य्यम् यथोक्तं ति० त० मविष्योत्तरे “शुक्लाष्टम्यान्तु माघस्य दद्याद् भीष्माय यो जलम्। संवत्सरकृतं पापं तत्क्षणादेव नश्यति”। घबलधृता स्मृतिः “अष्टम्यान्तु सिते पक्षे भीष्माय सतिलोदकम्। अन्नञ्च विधिवद्दद्युः सर्वे वर्णा द्विजातयः”। सर्वे इत्युपादानात् ब्राह्मणशूद्रयोरप्यधिकारः। द्विजातय इति सम्बोधनम् “ब्राह्मणस्त्वन्यवर्णानां यः करोत्यौर्द्धदेहिकम्। तद्वर्णत्वमसौ याति इह लोके परत्र च” इति मरीचिवचनन्तु भीष्मकृत्येतरपरम्। तथा च स्मृतिः। “ब्राह्मणाद्यास्तु ये वर्णा दद्युर्भीष्माय नो जलम्। संवत्सरकृतं तेषां पुण्यं नश्यति सत्तम!”। असवर्णजलदाननिषेधस्तु प्रकरणादपि भ्रात्रादिविषय इति श्रीदत्तः। “आभिरद्भिवराप्नोतु पुत्रपौत्रोचितां क्रियाम्” इत्याशंसामन्त्रे पुत्रपौत्रीचितामित्यभिधानात् पितृकर्मरीत्या तच्च कर्त्तव्यम्। ब्राह्मणः पितृतर्पणानन्तरं क्षत्रियादिकस्तु तत् पूर्वं तर्पयेत् इति संवत्सरप्रदीपादयः। अत्र वीज वर्णज्यैष्ठ्यम्” रघु०।

***