भर = पु० भृ–अप्। १ अतिशये। कर्त्तरि अच। २ मरणकर्त्तरि त्रि० अमरः।

भरग = त्रि० भरमतिशयं गच्छति नम–ड। १ अतिशयगन्तरि भरगेति वर्णत्रयद्योत्ये २ भर्गशब्दार्थे परब्रह्मणि यथोक्तं ब्राह्म० स० योगियाज्ञवल्क्येन “भेति भासयते यस्मात् रोक रञ्जयति प्रजाः। गेति च गच्छतेऽजस्वं भरगात् भर्ग उच्यते”। तत्र भासि–ड भः रञ्जि ड–रः। गम–ड नः तेषां समाहारः भरगम्। तद्वर्णत्रययोगात् मर्ग इत्य च्यते पृषो०।

भरट = पु० भृ–अटन्। १ कुम्भकारे तेन हरति भस्या० ष्ठन् भर- टिक तेन हर्त्तरि त्रि० स्त्रियां षित्त्वात् ङीष् भराटकी।

भरण = न० भृ–भावकरणादौ ल्युट्। १ वेतने २ पोषणे ३ धारणे च। अश्विन्यवधिके द्वितीये ४ नक्षत्रे शब्दर० ५ घोषकलतायाञ्च स्त्री ङीप्। नक्षत्रभेदे पु० मेदि०। तस्यायोगतारादिकम् अश्लेषाशब्दे उक्तम् सा च राशिचक्रस्य४० अंशोत्तरं १३। २० कलाविकलात्मिका। उग्रगणान्तर्गताअधोमुखन्तर्गता च। भरणेन हरति भस्त्रादि० ष्ठन् भरणिक वेतनेन हारिणि त्रि० स्त्रियां ङीष्।

भरणीभू = पु० भरण्यां भवति भू–क्विप्। राहुग्रस्थे हेमच० भगदैवतशब्दे दृश्यम्।

भरण्ड = पु० भृ–अण्डन्। १ स्वामिनि २ नृपे च उणादिको०।

भरण्य = कण्ड्वा० नामधातुः भुरणेत्यत्र पाठान्तरम् धारणे पोषणे पर० सक० सेट् भरण्यति भुरण्यति वा।

भरण्यभुज् = त्रि० भरण्यं वेतनं भुङ्क्ते भुज–क्विप्। वैतनिके कर्मकरे अमरः।

भरण्याह्वा = स्त्री भरण्या आह्वा आह्वा यस्याः। पर्वपुष्पीवृक्षे (रामदूती) शब्दच०।

भ(भु)रण्यु = पु० कण्ड्वा० भ(भू)रण्य उन्। १ शरण्ये २ मित्रे च शब्दमाला। ३ अग्नौ ४ चन्द्रे ५ स्वामिनि च संक्षिप्तसा०। भुरण्युरिति पाठान्तरम्।

भरत = पु० भरं तनोति तन–ड। (जडभरत) इति ख्याते १ मुनिभेदे जडभरतकथा च ३०१५ पृ० दृश्या नाट्यशास्त्रस्य अलङ्कारशास्त्रस्य च २ कर्त्तरि मुनिभेदे ३ शवरे ४ तन्तुवाये ५ क्षेत्रे ६ केकयीसुते रामानुजे च। भरतेन प्रोक्तम् भारतं नाट्यशास्त्रमधीयते अण् तस्य लुक्। ७ तच्छ स्त्राध्येतृषु ब० व०। ८ दुष्मन्तेन शकुन्तलायामुत्पादिते पुत्रभेद पु० तस्यापत्यानि इञ् तस्य बहुषु लुक्। ९ भरतवंश्ये नृपे पु० ब० व०। दौष्मन्तिभरतकथा भाग० ९। १० अ० दृश्या १० ऋषभदेवपुत्रभेदे भाग०५। ४ अ०। ११ वह्निपुत्रभेदे “पावनो लौकिको ह्यग्निः प्रथमो ब्रह्मणः सुतः। ब्रह्मौदनाग्निस्तत्पुत्रो भरतो नाम विश्रुतः” मात्स्ये ४८ अ०। रामानुजभरतस्य जन्म यथा “भरतो नाम कैकय्यां जज्ञे सत्यपराक्रमः। साक्षाद्विष्णोश्चतुर्भागः सर्वैः समुदितो गुणैः”। १२ भौत्यमनुपुत्रभेदे मार्कपु० १०० अ०। १३ आयुधजीविसंधभेदे पु० ततः यौधेया० स्वार्थे अण्। भारत तदर्ये ब० व०। १४ ऋत्विक्षु ब० व० निघण्टुः।

भरतखण्ड = कुमारिकाखण्डे “कुमारिकेति विख्याता यस्या नाम्ना प्रकथ्यते। इदं कुमारिकाखण्डं चतुर्वर्गफलव्रदम्। यथा कृतावनीयञ्च नानाग्रामादिकल्पना। इदं भरतखण्डश्च मया सम्यक् प्रकल्पितम्” स्कन्दपु०।

भरतद्वादशाह = पु० भरतकृते द्वादशाहसाध्ये यज्ञभेदे “सर्वाग्निष्टोमो भरतद्वादशाहः” कात्या० श्रौ० २४। ७। १२। “तत्र यज्ञे सर्वाग्निष्टोमा भवन्ति प्रायणीयोदनीयबर्जम्। तेन दशरात्रस्य स्थाने दशाप्यग्निष्टोमाः भवन्ति आद्यन्तयोः प्रायणीयोदनीययोरतिरात्रावेव” संग्रहव्याख्या आश्व० श्रौ० १०। ५। ८ सूत्रादौ तु अन्यथोक्तं यथा “अथ भरतद्वादशाहः” सू० “अथशब्दोऽहीनकैवल्यबुद्धिविच्छेदार्थः। सत्राहीनसाधारणाश्चत्वारो द्वादशाहा उक्ताः। तत एकोऽहीन उक्तः। उत्तमश्च साधारण एवमतस्तविच्छेदार्थममथशब्दः प्रयुक्तः” नारा०। “इममेवेकाहं पृथक् संस्थाभिरुपेयुः” सू० “भरतद्वादशाह स्याहःकॢप्तिः। इममेव प्रकृतैकाहं पृथग्भूतामिः संस्थाभिर्युक्तं द्वादशकृत्वः कुर्य्युः। विकृतिषु प्रकृतेः मनिहितत्वादिदमुच्यते। उत्तरत्र संस्थाविधानादेव संस्थासम्बन्धे सिद्धे पृथक्सस्थाभिरितिवचनं वचनादेव स्थाननियमो नातिदेशादिति ज्ञाषनार्थम्” नारा०। “अतिरात्रमग्रेऽथाग्निष्टोममथाष्टा उक्थ्यानथाग्निष्टोममथातिरात्रम्” सू० “द्वादशाहमामान्येन प्राप्तानां संस्थानां विधीयमानो भरतद्वादशाहे अयमपवादः” नारा०।

भरतपुत्रक = पु० मरतस्य नाट्यशाखकर्तुः पुत्र इव कायति कै–क। नटे हेम०।

भरतप्रसू = स्त्री ६ त०। १ केकय्यां शब्दर०। २ शकुन्तलायाम् ३ ऋषभदेवपत्न्यां च।

भरतवर्ष = न० ६ त०। भारते वर्षे।

भरताग्रज = पु० ६ त०। दाशरथौ श्रीरामे।

भरद्वाज = पु० ज्येष्ठस्य भ्रातुरुतथ्यस्य पत्न्यां ममतायां वृहस्पतिना जनिते मुनिभेदे। तदुत्पत्तिकथा विष्णु पु० ४ अं० १९ अ०। भाग० ९। २० अ०। द्वाजशब्दे ३७९५ पृ० तन्निरुक्तिरुक्ता। भा० अनु० ९३ अ० अन्यथा निर्वचनमुक्तं यथा “भरेऽसुतान् भरेऽशिष्यान् भरे देवान् भरे द्विजान्। भरे भार्य्या भरद्वाजं भरद्वाजोऽस्वि शोभने!”। “प्रजा वै वाजस्ता एष विभर्त्ति यद्बिभर्त्ति तस्याद्भरद्वाज इति श्रुत्यनुसारेण खनामाह “भरे इति अशिष्यान् शासितुमयोग्यानपि राचसान् शत्रूंश्च वशेकृत्य करुणया पालयामि तथा असुतान् अपुत्रानुदासीनानपि दीनानदीनान् पालयामि भार्य्यां भार्य्येति पुत्रभृत्यादेरुपलक्षणम् ईदृग्विवोऽन्योऽपि वाजं वेगं शत्रूणां साहसमन्नं वा भरेत्स पृथिवीवत् सर्वं तहोन्नप्रदश्च भवतीति तस्मा- दहमपि तथास्मीत्यर्थः। भरे द्वाजमिति च्छेदे तु द्वाभ्यां जातं सङ्करजमित्यर्थः ननु “माता भस्त्रा पितुः पुत्रो येन जातः स एव सः” इति स्मृतेश्चर्मकोशतुल्या मातेत्यतः सर्वोप्येकज एवेति नास्ति कश्चिद् द्वाजः न हि द्वाभ्यां रेतःसेकाभ्यामेको जायत इति सम्भवति सत्यम् आहवनीयादीनामपि संस्कारवतां सर्वेषां द्विविधं जन्म योनितः संस्कारतश्च तत्र सङ्करोऽन्यस्माज्जातोऽन्येन स्वपुत्र इति बुद्ध्या संस्कृत इति स एव द्वाजः द्विर्जायत इति द्विर्जोऽन्यः द्वाभ्यां स्त्रीपुरुषाभ्यां जायत इत्यर्थः द्वाजादयो निपात्यन्ते तत एव द्वाजा अपि सन्तीति “वशी वशं नयसि एकजात! त्वमिति” मन्त्रे मन्योः संकल्पस्य एकजेति विशेषेणं द्वाजे तु वीजसंस्कार सङ्कारादवश्यं संकल्पयोर्वाड्मनसयोर्वा पौर्वापर्यविरोधा भवतीति विश्वासघातकादयो द्वाजा इति ज्ञेयं तदयं संग्रहः “कौशिके क्रौर्यतपसी राधेये शौर्यभीरुते। खले वाक्चित्तवैमत्ये वीजसंस्कारसङ्करादिति” नीलक०। २ मनोरूपे सचेतने ऋषिभेदे तन्निरुक्तिर्यथा “भरद्वाज ऋषिरिति। मनो वै भरद्वाज ऋषिरन्नं वाजो योवै मनो बिभर्ति सोऽन्नं वाजं भरति तस्मान्मनो भरद्वाज ऋषिः” शत० ब्रा० ८। १। १। ९। अस्यार्थः “भरद्वाज ऋषिः बिभर्तीति भरन् वाजमन्नं यः स भरद्वाजीऽन्नधर्ता मनः मनसि स्रस्थे अन्नादनेच्छोत्पत्तेः ऋषिः सचेतनो मनोरूपः” यजु० १३। ५५ वेददी०। (भारुइ) ३ खगभेदे पुंस्त्री० अमरः। ४ देशभेदे भा० भी० ९ अ०। भरद्वाज ऋषिश्च गोत्रपवर्त्तकः तच्छब्दे २७९६ पृ० दृश्यम्।

भरम = त्रि० भृ–बा० अमच्। भरणकर्त्तरि। ततः शुभ्रादि० अपत्ये ढक्। भारमेव तदपत्ये पुंस्त्री०।

भरस् = पु० भृ–असुन्। भरणे। ऋ० ५। १५। ४।

भरित = त्रि० भरो जातोऽस्य तारका० इतच्। १ जातभरणे हरित + पृषो० हस्य भः। २ हरितर्णे ३ तद्वति त्रि० स्त्रियां ङीप् तस्य नः। भरिणी तद्वर्णयुक्तायां स्त्रियाम्।

भरित्र = न० द्वि० व० भृ–इत्र। बाह्लीः निघण्टुः।

भरिमन् = पु० भृ–कर्मणि इमनिच्। १ कुटुम्बे उज्ज्वल०। भावे इमनिच्। २ भरणे उणादिको० कर्त्तरि इमनिच् ३ विष्णौ सि० कौ०।

भरु = पु० भृ–उन्। १ स्वामिति उज्ज्वल०। २ स्वर्णे ३ शिवे मेदि०।

भरुक = पु० दक्षिणदेशभेदे वृ० स० १४ अ०।

भरुज = पुंस्त्री० भेतिशब्देन रुजति रुज–क। शृगाले ततः जातित्वेऽपि स्त्रियां बह्वा० वा ङीष्। भरुजा भरुजी। ततः इवार्थे अङ्गुल्या० ठक्। भारुजिक तदर्थे।

भरुटक = न० भृ–उट संज्ञायां कन्। भृष्टामिषे हेमच०।

भरे = अव्य० भृ–वा० ए। संग्रामे निघण्टुः।

भर्ग = पु० भ्रस्ज–घञ् भर्जादेशे कुत्वम्। १ शिवे २ ज्योतिःपदार्थे ३ आदित्यान्तर्गते ऐश्वरे तेजसि, “आदित्यान्तर्गतं वर्चा भर्गाख्यं तन्मुमुक्षिभिः। जन्ममृत्युविनाशाय दुःखस्य त्रितयस्य च। ध्यानेन पुरुषैर्यच्च द्रष्टव्यं सूर्य्यमण्डले” योगियाज्ञ०। तस्य तेजस ऐश्वरत्वञ्च “यदादित्यगतं तेजो जगद्भासयतेऽखिलम्। यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मासकम्” इति गीतायामुक्तम्। भावे घञ्। ४ भर्जने च। ५ धृष्टकेतुवंश्ये नृपभेदे हरुवं० २९ अ०। ६ देशभेदे। तत्र भवः तस्य राजा वा अण्। भार्ग। तद्देशनृपे तत्र भवे च स्त्रियां न लुक् भार्गी।

भर्गस् = पु० भृज–असुन् न्यङ्क्वा०। तेजसि ऋ०१। १४१। १।

भर्गादि = पु० तद्राजार्थे प्रत्ययस्य स्त्रियां लुगनिमित्ते शब्दगणे स च गणः “भर्ग करूष केकय कश्मीर साल्व सुस्थल उरस् कौरव्य”।

भर्गायण = पु० प्रवरर्षिभेदे प्रवराध्यायः।

भर्ग्य = पु० भ्रम्ज–ण्यत् भर्जादेशे कुत्वम्। शिवे रायसु०।

भर्जन = न० भ्रसज–भावे ल्युट् भर्जादेशः (भाजा) तण्डुलादेः पाकभेदे शब्दमा०।

भर्णस् = त्रि० भृ–असुन् नुगागमः। भरणकारके ऋ० ९। ६०। २

भर्तृ = पु० भृ–तृच्। १ स्वामिनि २ अधिपतौ अमरः। ३ राजनि ४ पोषके ५ धातरि च त्रि० मेदि० याजका० षष्ठ्या समासः। ६ विष्णौ पु० “सवनो भावनो भर्त्ता” विष्णु स० तस्य सत्त्वगुणेन पालनात् तथात्वम्।

भर्तृघ्नी = स्त्री भर्त्तारं हन्ति हन–टक् ङीप्। पतिघातिन्यां पाणिरेखायां “पाषण्ड्यानाश्रितास्तेनाभर्तृघ्न्यः कामगादिकाः” याज्ञ०। आर्षत्वात् मनुष्यकर्तृकत्वेऽपीह टक्।

भर्तृदारक = पु० भर्तुरधिपस्य राज्ञः दारकः पुत्रः। नाट्योक्तौ १ राजकुमारे। २ तत्कन्यायां स्त्री। भर्तृदारिका० अमरः।

भर्तृस्थान = न० तीर्थभेदे भा० व० ८४ अ०।

भर्तृहरि = पु० भर्त्ता हरिरिव। वाक्यपदीयादि ग्रन्थकर्त्तरि विक्रमादित्यस्य ज्येष्ठे भ्रातरि राजभेदे!

भर्त्स = अधिक्षेपे चुरा० उभ० सक० सेट्। भर्त्सयति ते अबभर्त्सत् त।

भर्त्सन = न० मर्त्स–ल्युट्। अपकारवचने अधिक्षेपे तिरस्कारायापकारार्थकवाक्योक्तौ। युच्। भर्त्सनाप्यत्र स्त्रा

भर्त्स्यपत्रिका = स्त्री भर्त्स्यं भर्त्सनीयं पत्रमस्याः कप कापि अत इत्त्वम्। महानीलीवृक्षे राजनि०।

भर्भ = हिंसायां भ्वा० पर० सक० सेट्। भर्भति अभर्भीत्।

भर्म(न्) = न० भृ–मन् मनिन् वा। १ स्वर्णे अमरः। २ भृतौ ३ नाभौ ४ धुस्तूरे च हेमच०। नान्तः अदन्तश्च द्विरूपकोषः

भर्मण्या = स्त्री भर्मणि साधु यत्। भृतौ हेमच०।

भर्माश्व = पु० भरतवश्ये नृपभेदे भाग० ९। २१। २४।

भर्व = हिंसायां भ्वा० पर० सक० सेट्। भर्वति अभर्वीत। भोजने निघण्टुः।

भल = बधे दाने निरूपणे च भ्वा० आ० सक० सेट्। भलते अभलिष्ट बभले।

भल = निरूपणे चु० आ० सक० सेट्। भालयते अबोभलत।

भलता = स्त्री भाति–भा–क कर्म०। राजवलालतायाम् शब्दर०

भलन्दन = पु० १ दिष्टवंश्ये नृपभेदे भाग० ९। २। १६। २ कान्यकुब्जदेशीये नृपभेदे ब्रह्मवै० प्रकृ० ख० १७ अ०।

भलानस् = त्रि० भद्रमुखे ऋ० ७। १८। ७।

भल्ल = दाने बधे निरूपणे च भ्वा० प० सक० सेट्। भल्लति अभल्लीत्।

भल्ल = पु० भल्ल–अच्। १ भल्लूके। २ अस्त्रभेदे पुंन०। स्वार्थे क भल्लूके पुंस्त्री० वा गौरा० ङीष् पक्षे टाप्। भल्लकाप्यत्र। ततः सङ्कला० निर्वृत्तार्थे अण्। भाल्ल भल्लकृते त्रि० चतरर्थ्यां सख्या० ठञ्। भाल्लिक तस्यादूरदेशादौ त्रि०। वृ० स० १४ उक्ते ऐशान्यां स्थिते ३ देशभेदे पु०। ४ तद्देशभवे च ब० व०। स्वार्थे क। भल्लक तत्रार्थे ततः स्वार्थे छ। भल्लकीय तदर्थे तस्यापत्यं छ। भल्लकीय तदपत्यादौ त्रि०।

भल्लपाल = पु० भल्लं पालयति पालि–अण् उप० स०। भल्लपालके ततः सख्या० चतुरर्थ्याम् ठञ्। भाल्लपालिक तेन निर्वृत्तादौ।

भल्लपुच्छी = स्त्री भल्लस्य पुच्छमिव पुष्पमस्याः ङीप्। (गोरक्षतण्डुला) क्षुपभेदे शब्दच०।

भल्लवि = पु० ऋषिभेदे तस्यापत्यमिञ्। भाल्लवि तदपत्ये तस्यापत्यं ढकञ्। भाल्लवेय तदपत्ये पुंस्त्री०। इन्द्रद्युम्ने ऋषिभेदे पु० छा० उ०।

भल्लाक्ष = पु० भल्लस्येवाक्षि यस्य षच्समा०। मन्ददृष्टौ हंसभेदे छा० उ०।

भल्लाट = पु० १ शशिध्वजराजपुत्रे कल्किपु० २२ अ०। २ ब्रह्मदत्तवंश्ये ३ नृपभेदे हरिवं०२० अ०।

भल्लात = पु० न० भल्लं भल्लास्त्रमिवातति स्पर्शिनम् अत–अच्। (भेला) वृक्षभेदे स्वार्थे क। तत्रैव पुंस्त्री० गौ० ङीष्। भल्लातक्यप्यत्र रत्नमा०। “भल्लातकं त्रिषु प्रोक्तमरुष्कोऽरुष्करो-ऽग्निकः। तथैवाग्नीमुखी भल्ली वीरवृक्षश्च शोफहृत्। भल्लातकफलं पक्वं स्वादुपाकरसं लघु। कषायं पाचनं स्निग्धं तीक्ष्णोष्णं छेदि भेदनम्। मेध्यं वह्निकरं हन्ति कफवातव्रणोदरम्। कुष्ठार्शोग्रहणीगुल्मशोफनाहज्वरक्रिमीन्। तन्मज्जा मधुरो वृष्यो वृंहणो वातपित्तहा। वृन्तमायुष्करं स्वादु पित्तघ्नं केश्यमग्निकृत्। भल्लातकः कषायोष्णः शुक्रलो मधुरो लघुः। वातश्लेष्मोदरानाहकुष्ठार्शोग्रहणीगदान्। हन्ति गुल्मज्वरं चित्रवह्निमान्द्यकृमिव्रणान्” भावप्र०। गुडभल्लातकशब्दे भल्लातकीगुडपाकविधिर्दृश्यः।

भल्लातकतैल = सुश्रुतोक्ते भल्लातकफलच्यवनजाते तैलभेदे “दुरूढत्वात् तु शुक्लानां कृष्णकर्म हितं भवेत्। भल्लातकान्वासयेत् तु क्षीरे प्राङ्मूत्रभावितान्। ततो द्विधा छेदयित्वा लौहे कुम्भे निधापयेत्। कुम्भेऽन्यस्मिन्निखाते तु तं कुम्भमथ योजयेत्। मुखं मुखेन सन्धाय गोमयैर्दाहयेत् ततः। यः स्नेहश्च्यवते तस्माद्ग्राहयेत् तं शनैर्भिषक्। ग्राम्यानूपशफान्दग्धान् सूक्ष्मचूर्णानि कारयेत्। तैलेनानेन संसृष्टं शुक्लमालेपयेद् व्रणम्। मल्लातकविधानेन सारस्नेहांस्तु कारयेत्। ये च केचित् फलस्नेहा विधानं तेषु कीर्त्तितम्। दुरूढत्वात्तु कृष्णानां पाण्डुकर्म हितं भवेत्। सप्तरात्रं स्थितं क्षीरे छागले रोहिणीफलम्। तेनैव पिष्टं सुश्लष्णं सवर्णकरणं हितम्”।

भल्लातकलौह = न० चक्रदत्तोक्ते भल्लातकादिपक्वे लौहरूपे औषधभेदे “चित्रक त्रिफला मुस्तं ग्रन्थिकं चविकाऽमृता। हस्तिपिप्पल्यपाभाण्टण्डोत्पलकुठेरकाः। एषां चतुप्पलान् भागान् जलद्रोणे विपाचयेत्। भल्लातकसहस्रे द्वे छित्त्वा तत्रैव दापयेत्। तेन पादावशेषेण लौहपात्रे पचेद्भिषक्। तुलार्द्धं तीक्ष्णलौहस्य घृतस्य कुडवद्वयम्। त्र्यूषणं त्रिफलावह्निसेन्धवं विडमौद्भिदम्। सौवर्चलविडङ्गानि पलिकांशानि कल्पयेत्। कुडवं वृद्धदारस्य तालमूल्यास्तथैव च। शूरणस्य पलान्यष्टौ चूर्णं कृत्वा विनिः क्षिपेत्। सिद्धे शीते प्रदातव्यं मधुनः कुडवद्वयम्। प्रातर्भोजनकाले च ततः स्वादेद् यथाबलम्। अर्शांसि ग्रहणीदोषं पाण्डुरोगमरोचकम्। क्रिमिगुल्माश्मरीमेहान् शूलञ्चाशु व्यपोहति। करोति शुक्रोपचयं बलीपलितनाशनम्। रसायनमिदं श्रेष्ठं सर्वरोगहरं परम्”।

भल्लातकविधान = सुश्रुतोक्ते सहस्रतत्फलसेवनप्रकारभेदे “अत ऊर्द्ध्वं भल्लातकंविधानमुपदेक्ष्यामः। मल्लातकानि परिपक्वान्यनुपहतान्याहृत्यैकमादाय द्विधा त्रिधा चतुर्द्धां वा छेदयित्वा कषायकल्पेन विपाच्य कषायस्य शुक्तिमनुष्णां घृताभ्यक्ततालुजिह्वौष्ठः प्रातः प्रातरुपसेवेत ततोऽपराह्णे क्षीरं सर्पिरोदन इत्याहार एवमेकैकं वर्द्धयेत् तावद्यावत्पञ्चेति ततः पञ्च पञ्चाभिवद्धयद्यावत् सप्ततिरिति प्राप्य च सप्ततिमपकर्षयेद्भूयः पञ्च पञ्च यावत्पञ्चेति पञ्चभ्यश्चैकैकं यावदेकमिति। एवं भल्लातकसहस्रमुपयुज्य सर्वकुष्ठार्शोभिर्विमुक्तो बलबानरोगः शतायुर्भवति। द्विव्रणीयोक्तेन विधानेन भल्लातकनिश्च्युतितं स्नेहमादाय प्रातः प्रातः शुक्तिमात्रमुपयुञ्जीत जीर्णे पूर्ववदाहारः फलप्रकर्षश्च। भल्लातकमज्जभ्यो वा स्नेहमादायापकृष्टदोषः प्रतिसंसृष्टभक्तो निवातमागारं प्रविश्य यथाबलं प्रसृतिं प्रकुञ्चं चोपयुञ्जीत। तस्मित् जीर्णे क्षीरं सर्पिरोदन इत्याहारः”।

भल्ली = स्त्री भल्ल हिंसे अच् गौरा० ङीष्। भल्लातके शब्दरत्ना० तत्फलस्य स्पर्शिनां व्रणकारितया हिंसकत्वात्तस्यास्तथात्वम्। स्वार्थे क भल्लिका तत्रार्थे शब्दच०।

भल्लु(ल्लु)क = पु० स्त्री भल्ल–उ(ऊ) क। (भालूक) १ जन्तुभेदे अमरः स्त्रियां ङीष्। २ श्योनाकभेदे राजनि०। स च वीरभल्लादिगणे सुश्रुते उक्तः। द्रव्यगणशब्दे दृश्यम्। ३ कोषस्थे जलजन्तुभेदे “शङ्खशङ्खनखशुक्तिशम्बूकभल्लूकप्रभृतयः कोशस्थाः” सुश्रुतः।

भव = पु० भवत्यस्यात् भू–अपादाने अप्। १ महादेवे तस्य तन्नामनिरुक्तिः शत० ब्रा० ६। १। ३। १५। “तमब्रवीद्भवीऽसीति। तद्यदस्य तन्नामाकारोत्पार्जन्यन्तद्रूपमभवत् पर्जन्यो वै भवः पर्जन्याद्धीदं सर्वं भवति सोऽब्रवीज्ज्यायान् वाऽतोऽस्मि धेह्येव मे नामेति” जलस्य पर्जन्यहेतुकत्वात् तस्य जलमूर्त्तित्वम्। अतएवास्याष्टमूर्त्तिमध्ये जलरूपेण भवनाम्ना तस्यार्चा। भावे अप्। २ जन्मनि ३ उत्पत्तौ ४ प्राप्तौ ५ संसारे मेदि०। कर्त्तरि अच् (चालता) ६ फले न० राजनि०।

भवक = त्रि० भू–ल्वु। १ उत्पन्ने २ आशीर्वादके संक्षिप्तसा०।

भवकेतु = पु० केतुभेदे वृ० स० ११ अ० वेतुशब्दे दृश्यम्।

भवघस्मर = पु० ६ त०। दावानले शब्दमा०।

भवत् = त्रि० भा–डवतु। १ युष्मदर्थे, सर्वनामता चास्य। भवान् भवत्याः पुत्रः भवत्पुत्रः। भू–शतृ। २ वर्त्तमानकालाथ ३ भवनकर्त्तरि च। भवन् स्त्रियामुभयत्र ङीप् शत्रन्तस्य नुम्। ङीवन्तः ४ विषाक्तबाणे शब्दरत्ना०।

भवदा = स्त्री स्कन्दानुचरमातृभेदे भा० श० ४७ अ०।

भवदादि = पञ्चमीसप्तमीतरविभक्त्यान्तादपि “इतराभ्योऽपि दृश्यते” पा० तसिलादिप्रत्ययनिमित्ते शब्दगणे तत्र “दृशिग्रहणात् भवदादियोग एव” वार्त्ति०। स च गणः “भवान दीर्घायुः देवानांप्रियः आयुष्मान्”। तेन स भवान् ततो भवान् तत्रभवान् तत्रभवन्तम् इत्यादि एवम् सदीर्घायुः ततो दीर्घायुरित्यादि।

भवदारु = पुंन० भवप्रियं दारु। देवदारुवृक्षे राजनि०।

भवदीय = त्रि० भवतोऽयम् छम् सित्त्वात् पदत्वे तस्य दः। त्वत्सम्बन्धिनि।

भवन = न० भ–आधारे ल्युट्। १ गृहे अमरः भावे ल्युट्। २ भावे ३ जन्मनि ४ सत्तायाञ्च मेदि०।

भवनपति = पु० ६ त०। १ गृहखामिनि २ राश्यधीशे च भवननाथादयोऽप्यत्र।

भवन्त = पु० भू–झच्। काले उज्ज्वल० संक्षिप्तसा०।

भवन्ति = पु० भू–झिच् अस्य स्त्रीत्वमपि। वर्त्तमानकाले जन्मादौ स्त्रीत्वे ङीप्। “अस्तिर्भवन्तीपरः प्रयोक्तव्यः” महामाष्यम्।

भवभूत = न० भवरूपे अविततस्वरूपे परमेश्वरे “विश्वरूपं भवभूतमीड्यम्” श्वेता० उ०।

भवभूति = पु० ६ त०। १ महादेवविभूतौ। महावीरचरितोत्तररामचरितमालतीमाधवादिनाटककर्त्तरि २ विद्वद्भेदे।

भवरुत् = पु० भव जन्मान्ते रोदित्यनेन रुद–करणे क्विप्। प्रेतपदहे त्रिका०।

भवाचल = पु० ६ त०। मन्दरस्य पूर्ववर्त्तिनि शैलभेदे कैलासे। “शीतार्त्तश्चक्रसुञ्जश्च कुलीरोऽथ सुकङ्कवान्। मणिशैलोऽथ वृषवान् महानालो भवाचलः। सविन्दुर्मन्दरो वेणुस्तामसी निषधस्तथा। देवशैलश्च पूर्वेण मन्दरस्य महाचलाः” मार्कपु० ५५ अ०।

भवात्मज = पु० ६ त०। १ कार्त्तिकेये २ गणेशे च ३ मनसादेव्या स्त्री शब्दमा०

भवादृक्ष(श)श् = त्रि० भवतस्तवेव दर्शनमस्य भवत् + दृश–क्विप् ढक् कस् क्विप् वा सर्वनामत्वात् आत्। भवत्तुल्ये जने। टकि क्विपि च ङीप् भवादृशी।

भवानी = स्त्री भवस्य पत्नी भव + ङीप् आनुक् च। शिवभार्य्यायाम् दुर्गायाम् अमरः।

भवानीगुरु = पु० ६ त०। हिमाचले तस्य तदुत्पादकत्वेन तद्गुरुत्वात् तथात्वम्।

भवानीपति = पु० ६ त०। महादेवे तत्पदस्य काव्ये प्रयोगे भवान्याः पत्यन्तरप्रतीतिकारित्वाद्विरुद्धार्थद्योतकत्वं काव्यदोषः।

भवान्तकृत् = पु० ६ त०। १ वेधसि तस्य स्वल्पकाले सर्वभूतानां जन्मविनाशकत्वात् तथात्वम्। “यदा स्वपिति शान्तात्मा तदा सर्वं प्रलीयते” मनुः। २ संसारनाशके ज्ञाने च।

भवाभीष्ट = पु० भवस्य महादेवस्याभीष्टः। १ गुग्गुलौ राजनि० ७ त०। २ भवेऽभीप्सिते त्रि०।

भवायनी = स्त्री भवे महादेवशिरसि अयनं स्थानमस्याः गौरा० ङीष्। १ गङ्गायाम् शब्दर० २ शिवतत्पर शैवे त्रि०।

भविक = न० भवोभूतिरुत् पाद्यत्वेनास्त्यस्य टन्। १ कुशले कुशलस्य भूतिहेतुत्वात्तथात्वम्। अर्श० अच् २ तद्वति त्रि० अमरः।

भवित = त्रि० भवो जातोऽस्य तार० इतच्। भूते अतीतोत्पत्तिके जटा०।

भवितव्य = न० भू–भविष्यति कर्त्तरि च नि० तव्यत्। अवश्य भव्ये “भवितव्यं भवत्येव यद्विधेर्मनसि स्थितम्”।

भवितव्यता = स्त्री भवितव्यस्य भावः तल्। १ अवश्यम्भावे। २ भाग्ये च जटाधरः।

भविन = त्रि० भू–चिन्तायाम् बा० इन। काव्यस्य कर्त्तरि त्रिका०

भविल = पु० भू–भविष्यति इलच्। १ भव्ये भविष्यति उज्ज्वल २ जारे पु० त्रिका०।

भविष्णु = त्रि० भू–इष्णुच्। भवनशीले अमरः।

भविष्य(त्) = पु० भू–“ऌटः सद्वेति” शतृ–स्यट् च पृषो० वा तलीपः। भाविनि १ काले २ तत्कालवर्त्तिनि पदार्थे त्रि० स्त्रियां ङीप् नुम् च “अव्याक्षेपो भविष्यन्त्याः” रघुः। तलोपपक्षे क्लीवता। उत्तरपदस्थः त्रि०। “यद्भविष्यो विनश्यति” पञ्चत० ३ भविष्यमधिकृत्य कृते पुराणभेदे न०। तच्च महापुराणान्तर्गतं पुराणं तत्प्रतिपाद्यविषयादिकं नारदीयपु० ४ पा० १०० अ० उक्तं यथा “अथ ते संप्रवक्ष्यामि पुराणं सर्वसिद्धिदम् भविष्यं भवतः सर्वलोकाभीष्टप्रदायकम्। तत्राहं सवदवानामादिकर्त्ता समुदातः। सृष्ट्यर्थं तत्र सञ्जातो मनुः स्वायम्भुवः पुरा। स मां प्रणम्य पप्रच्छ धर्मं सर्वार्थसाधकम। अहं तस्मै तदा प्रीतः प्रावोचं धर्मसंहिताम्। पुराणानां यदा व्यासो व्यासञ्चक्रे महामतिः। तदा तां संहितां सर्वां पञ्चधा व्यभजन्मुनिः। अथोरकल्पवृत्तान्तनानाश्चर्य्यकथाचिताम्”। तत्र प्रथमपूर्वणि। तत्रादिमं स्मृत पर्व ब्राह्मं यत्रास्त्युपक्रमः। सूतशौनकसंवादै पुराणप्रश्नसंक्रमः। आदित्यचरितः प्रायः सर्वाख्यानसमाचितः। सृष्ट्यादिलक्षणी- येतः शास्त्रसर्वसरूपकः। पुस्तलेखकलेखानां लक्षणञ्च ततः परम्। संस्काराणाञ्च सर्वेषां लक्षणञ्चात्र कीर्त्तितम्। पक्षत्यादितिथीनाञ्च कल्पाः सप्त च कीर्त्तिताः। अष्टसाद्याः शेषकल्पाः वैष्णवे प्रर्वणि स्मृताः। शैवे च कामतो भिन्नाः सौरे चान्यकथाचयः। प्रति सर्गाह्वयं पश्चान्नानाख्यानसमाचितम्। पुराणस्योपसंहारसहितं षर्व पञ्चमम्। एषु पञ्चषु पूर्वस्मिन् ब्रह्मणो महिमाधिकः”। द्वितीयतृतीयचतुर्थपञ्चमपर्वसु “धर्मे कामे च मोक्षे तु विष्णोश्चापि शिवस्य च। द्वितीये च तृतीये च सौरो वर्गचतुष्टये। प्रतिसर्गाह्वयं त्वान्त्यं प्रोक्तं सर्वकथाचितम्। एतत् भविष्यं निर्दिष्टं पर्ब व्यासेन धीमता। चतुर्दशसहन्तु पुराणं परिकीर्त्तितम्। भविष्यं सर्वदेवानां साम्यं यत्र प्रकीर्त्तितम्। गुणानां तारतम्येन समं ब्रह्मेति हि श्रुतिः”। तत्फलश्रुतिः। “तल्लिखित्वा तु यो दद्यात् पौष्यां विद्वान् विमत्सरः। गुडधेनुयुतं हेमवस्त्रमाल्यविभूषणैः। वाचकं पुस्तकञ्चापि पूजयित्वा विधानतः। गन्धाद्यैर्भोज्यभक्ष्यैश्च कृत्वा नीराजनादिकम्। यो वै जितेन्द्रियो भूत्वा सोपबासः समाहितः। अथ वा यो नरो भक्त्या कीर्त्तयेच्छृणुयादपि। स मुक्तः पातकैर्घोरैः प्रयाति ब्रह्मणः पदम्। योऽप्यनुक्रमणीमेतां भविष्यस्य निरूपिताम्। पठेद्वा शृणुयाच्चैतौ मुक्तिभुक्तिञ्च विन्दतः”। ४ (चालता) फलमेदे राजनि०। तान्तं ५ जले निघण्टुः। भविष्यत्त्वञ्च वर्त्तमानप्रागभावप्रतियोगित्वमिति नैयायिकाः पदार्थस्य अनागतावस्थाभेद इति सांख्यादयः। ४ हरिवंशपर्वभेदे न०।

भविष्यदाक्षेप = पु० “सत्यं ब्रवीमि न त्वं मां द्रष्टुं वल्लभ! लप्स्यसे। अन्यचुम्बनसंक्रान्तलाक्षारक्तेन चक्षषा। सोऽयं भविष्यदाक्षेपः प्रागेवातिमनस्रिनी। कदाचिदपराधोऽस्य भावीत्येवमरुन्ध यत्”। काव्यादर्शोक्ते अर्थालङ्कारभेदे।

भवीयस् = त्रि० अतिशयेन बहुः बहु + ईयसुन् “बहोर्लोपो भूश्च वहोः” पा० भूरादेशः वेदे न ईलोपः। बहुतरे ऋ० १। ८३। १ लोके तु ईयसुन ईकारलोपः भूय इत्येव।

भव्य = त्रि० भू–कर्त्तरि नि० यत्। १ भाविनि “अवश्यभव्येम्रनवग्रहाग्रहेति” नैषधम्। (चालता) २ फलभेदे राजनि० “भव्यं स्वादु कषायाम्लं हृद्यमास्यस्य शोधनम्। तदेव पक्वं दाषघ्नं गुरुग्राहि विषापहम्” राजव०। ३ अस्थ्निःमेदि० ४ शुभे ५ सत्ये ६ योग्ये च न०। ७ तद्वति त्रि०। ८ कर्मरङ्गे पु० ९ गजपिप्पल्यां १० अतस्यां च स्त्री मेदि०। ११ रसभेदे शब्दर०

भष = कुक्कुरशब्दे भ्वा० पर० सक० सेट्। भषति अभषीत्–अभाषीत्

भष = पुंस्त्री० भष–अच्। १ कुक्कुरे शब्दरत्ना० स्त्रियां जातित्वात् ङीष्। ३ स्वर्णक्षीर्य्यां स्त्री रत्नमा० टाप्।

भषक = पु० स्त्री० भष–क्वुन्। कुक्कुरे अमरः। स्त्रियां ङीष्।

भषण = न० भष–भावे ल्युट्। कुक्कुरशब्दे हेमच०।

भस = दीप्तौ अक० भर्त्सने सक० जु० पर० सेट्। बभस्ति। अभासीत् अभसीत् बभास। वैदिकीऽयम्।

भस = भक्षणे प० सक० सेट् निघण्टुः। भसति अभा(भ)सीत् बभास।

भसद् = न० भस–अदि। १ जघने उज्ज्वल०। २ भास्करे ३ मांसे च ४ जघने स्त्री मेदि० ५ कारण्डवखगे ६ प्लवे पु० उणादिको० ७ काले पु० त्रिका०।

भसन्त = पु० भस–वा० झच्। काले त्रिका० तत्र भवन्त इत्येव पाठः।

भसन्धि = पु० ६ त०। नक्षत्रभेदानां सन्ध्यात्मके कालभेदे यथोक्तम् “सार्पेन्द्रपौष्ण्यधिष्ण्यानामन्त्याः पादाः भसन्धयः। तदग्रभेष्वाद्यपादो गण्डान्तं नाम कीर्त्त्यते” सू० सि०। अश्लेषाज्येष्ठारेवतीनक्षत्राणामन्त्याश्चतुर्थाश्चरणाः नक्षत्र सन्धयो भवन्ति। तदग्रभेषु तेषामश्लेषाज्येष्ठारेवतीनक्षत्राणामुत्तरेषु मथामूलाश्विनीनक्षत्रेष्वित्यर्थः प्रथमचरणो गण्डान्तं नाम प्रसिद्धमुच्यते। यद्यप्यश्लेषाज्येष्ठारेवतीनक्षत्राणामन्तिमं घटिकाद्वयं मघामूलाश्विनीनक्षत्राणामादिमं घटिकाद्वयमिति चतस्रोऽन्तरघटिका गण्डान्तम्। एतदतिरिक्तो नक्षत्रसन्धिः पूर्वनक्षत्रान्तघटिकोत्तरनक्षत्रादिमघटिकेत्यन्तरालघटिकाद्वयं चन्द्रमण्डलसम्बन्धेन घटिकाः सार्द्धद्वयमिति संहिताविरुद्धं तथापि सूर्य्योक्तस्य स्वतः प्रामाण्यान्न क्षतिः। अथविअकवाक्यतार्थं पादशब्दः करमेत्रादिवद् द्विसङ्ख्यावाचकः। घटिका इत्यध्याहारश्च। तथा च द्विसङ्क्यामिता अन्त्यघटिकानक्षत्रसन्धिः” रङ्ग०। २ नक्षत्रयोः सन्धिकाले च तदानयनं सि० शि० दर्शितं तच्च तिथिसन्धिशब्दे ३३०० पृ० दर्शितम्।

भसित = न० भस–क्त। भस्मनि हेम०।

भसूचक = पु० भानि नक्षत्राणि सूचयति सूचि–ण्वुल्। दैवज्ञे शब्दर०।

भस्त्रा = स्त्री भस–ष्ट्रन्। १ चर्मप्रसेविकायाम् अग्निसन्धुक्षणे चर्मनिर्मिते यन्त्रभेदे। (या~ता) अमरः। षित्त्वात् ङीष्। अत्रैव शब्दरत्ना० स्वार्थे क टाप न इत्त्वम्। भस्त्राकाप्यत्रैव। ततः उत्करा० चतुरर्थ्यां छ। भस्त्रीय तददूरदेशादौ त्रि०।

भस्त्राफला = स्त्री भस्त्रेव फलमस्याः ङीप्। (टेपारि) क्षुपभेदे

भस्मक = न० भस्म करीति कृ–ड। (भस्मकीट) बहुभोजनकारके १ रोगभेदे। “कट्वादिरूक्षान्नभुजां नराणां क्षीणे कफे मारुतपित्तवृद्धौ। अतिप्रवृद्धः पवनान्वितोऽग्निर्भुक्तं क्षणाद्भस्म करोति यस्मात्। तस्मादसौ भस्मकसंज्ञकोऽभूदुपेक्षितोऽयं पचते च धातून्”। भस्मकस्य सोपद्रवमरिष्टमाह “तुट्स्वेददाहमूर्च्छादीन् कृत्वैवात्यग्निसम्भवान्। पक्त्वान्नमाशु धात्वादीन् स क्षिप्रं नाशयेद्ध्रुवम्” भावप्र०। भस्मेव इवार्थे कन्। २ कलधौते रूप्ये ३ विडङ्गे च मेदि०।

भस्मकूट = पु० भस्मरूपे पर्वतभेदे कालि० ८१९०।

भस्मगन्धा = स्त्री भस्मन इव गन्धोऽस्याः। रेणुकाख्यगन्धद्रव्ये भावप्र०। स्वार्थे क अत इत्त्वम्। तत्रैव जटा०

भस्मगन्धिनी = स्त्री भस्मन इव गन्धोऽस्त्यस्या बाहुल्येन इनि ङीप्। रेणुकाख्ये गन्धद्रव्ये अमरः।

भस्मगर्भ = पु० भस्म गर्भे यस्य। १ तिनिशवृक्षे राजनि० २ कपिलशिंशपायाम् अमरः। ३ रेणुकाख्यगन्धदूव्ये स्त्री जटाधरः टाप।

भस्मजावाल = पु० उपनिषद्भेदे उपनिषच्छब्दे दृश्यम्।

भस्मतूल = न० भस्म तूलयति तूल–उत्क्षेप्रे क। १ ग्रामकूटे २ पाशुघर्षणे ३ हिमे च मेदि०।

भस्मन् = न० भस–मनिन्। (छाइ) दग्धगोमयादिविकारे अमरः अस्य शिकदेहलेपने कारणं कालिकापु० ४१ अ० उक्तं यथा “महादेवोऽथ तद्भस्म मनोभवशरीरजम्। आदाय सर्वगात्रेषु भूतिलेपं तदाकरोत्। लेपशेषाणि भस्मानि समादाय तदा हरः। सगणोऽन्तर्दधे कालीं विहाय विधिसम्मतः”। तद्धारणविधिर्यथा “भस्मोपरि चन्दनादिकं न धार्यं तदुक्तं कौर्मे “वैदिकैर्मन्त्रै रहितं चन्दनागुरुकुङ्कुमम्। तिर्यक्पुण्ड्रात्मना धार्यं कान्तिसौख्याभिलाषिभिः। पुण्ड्रोधृतश्चन्दनाद्यैरपि भस्म संत्यजेत्। दह्येत भस्मसंत्यागी सतीशक्रोधवहिवः। चन्दनाद्युपरि प्राज्ञो धारयेद्भस्य वैदिकम्। लौकिकं चदनाद्यं तु भस्मोपरि न धारयेत्। भस्मवसन्दनादीनां त्यागेनार्थो न विद्यते। चन्दनादीन्यतो लौकिकान्येवात्र न संशयः। उपरिष्टाच्चन्दनादेर्धृतेऽल्पे सितभस्मनि। चन्दनाद्युत्थभूषाया फलाप्तेः को निवारकः”। त्रिपुण्ड्रधारणं मन्त्ररहितं तूष्णीं व कार्यम्” तदुक्तं विद्येश्वरसंहितायां “जावा- लोक्तादिकैर्मन्त्रैर्धार्यं भस्मत्रिपुण्ड्रकम्। अन्यथा जेज्जलं यावद्रजस्तन्नरक व्रजेदिति”। शिवधर्मे “येन भ स्मोक्तमार्गेण न धृतं मुनिपुङ्गव!। तस्य षिद्धि मुने। जन्म निःफलं सूकरो यथा”। मन्त्रसारसुधानिधौ” त्रिपुण्ड्रकं सदा कुर्य्यात् मन्त्रपूतेन भस्मना। मन्त्रेण हीनं यः कुर्य्यात् परभागी भवेन्नरः”। शिवापूजा तद्धारणं न सिध्यति “विना भस्मत्रिपुण्ड्रेण विना रुद्राक्षमालया। महादेवोऽचितो येन न च तस्य फलप्रदः लिङ्गपु०।

भस्मरोहा = स्त्री भस्मनि रोहत रुह–अच्। दग्धिकायाम् राजनि०।

भस्मवेधक = पु० भस्मन इव वेधो वेधनं यस्य कप्। कर्पूरे शब्द०

भस्मसा = अव्य० डाजन्तः। चर्वणजन्यशब्दानुकारे यजु० ११। ८० वेददी०।

भस्मसात् = अव्य० भस्म कात्र्स्न्येन सम्पन्नं करोति भस्मन् + साति। साकल्येन भस्मरूपताकरणे।

भस्माचल = पु० कामरूपस्थे गिरिभेदे कालिकापु० ८१ अ०।

भस्मासुर = पु० असुरभेदे। इति ख्याते वृकासुरे शिववरेण स यस्य शीर्षं करेण स्पृशति स भस्म भवतीति कथा भाग० १०। ८८ अ०।

भस्माह्वय = पु० भस्म आह्वयते सारूप्येण स्पर्द्दते आ + ह्वे वा० श। कर्पूरे त्रिका०।

भा = दीप्तौ अदा० पर० अक० अनिट्। भाति अभासीत् बभौ। प्रति + बुद्धिप्राखर्य्ये। वि + अति + मिथोभासने–आ०। दीप्तिश्च तैजसपदार्थावयवभेदः प्रकाशश्च। स च ज्ञाने विषयतया प्रकाशः षित्। भावे अङ्। भा

भा = स्त्री भा–अङ् टाप्। दीप्तौ अमरः।

भाऋजीक = पु० भास ऋजीकः। भासः प्रार्जके प्रसिद्धे ऋ० १। ४४। ३ भा०।

भाकुट = पु० भया दीप्त्या कुटति कुट–क। (भेट्की) मत्स्यभेदे राजव०।

भाकुरि = पु० भां कुर्चति कुर्च–कि पृषो०। दीप्तिकारके शत० ब्रा० ९। ४१। ९ भा०।

भाकूट = पु०। १ पर्वतमेदे २ मत्स्यभेदे च (भेटकी) मेदि०।

भाकोष = पु० भानां दीप्तीनां कोष इव। सूर्य्ये त्रिका०।

भाक्त = त्रि० भक्तेः गौण्यावृत्तेरागतः अण्। १ औपचारिके गौण्या वृत्त्या बोधितेऽर्थे। भक्तस्यान्नस्येदम् अण्। २ अन्नसम्बन्धिनि त्रि०। भक्तमन्नमस्मै नियतं दीयते वा अण्। ३ नियतभक्तदानसम्प्रदाने त्रि०। भक्ताय हितम् अण्। ४ भक्तसम्पादनसाधने तण्डुले।

भाक्तिक = त्रि० भक्तमस्मै नियतं दीयते ठक्। नियतभक्तदान् सम्प्रदाये।

भाक्ष = त्रि० भक्षा शीलमस्य छत्रा० अण्। भक्षणशीले।

भाग = पु० भज–भावे घञ्। १ भजने कर्मणि घञ्। २ अशे अमरः इष्टवस्तुनोऽर्द्धे ३ एकदेशे ४ भाग्ये “त्रिंशांशकेस्तथा राशेर्भाग इत्यभिधीयते” इति ज्योतिषोक्ते राशेः ५ त्रिंशांशके च शब्दर०। भगो देवताऽस्य अण्। ६ पूर्वफल्गुनीनक्षत्रे तत्समसख्यायाम् ७ एकादशसंख्यायां ८ भागहारे केनचित् अङ्केन कस्यचित् भजनरूपे अङ्कशास्त्रोक्ते व्यापारभेदे।

भागजाति = स्त्री। भागस्य विभजनस्य प्राकारभेदे सा च चतुर्विधा भागजातिः प्रभागजातिः भागानुबन्धो भागापवाहश्च तत्र अंशानां समछेदकरणं भागजातिः इत्युच्यते। यथा “अन्योऽन्यहराभिहतौ हरांशौराश्योः समच्छेदविधानमेवम्। मिथोहराभ्यामपर्त्ति ताभ्यां यद्वा हरांशौ सुधियात्र गुण्यौ” लीला०। भागस्य भागः प्रभागो यथा “लवालवघ्नाश्च हराहरघ्नाः भागप्रभागेषु सवर्णनं स्यात्”। लीला०। भागस्यानुबन्धो योजनं भागानुबन्धो भागावाहश्च तद्वियोजनम् यथा। “छेदघ्नरूपेषु लवा धनर्णमेकस्य भागा अधिकोनकाश्चेत्। स्वांशाधिकोनाः खलु यत्र तत्र भागानुबन्धे च लवापवाहे। तलस्थहारेण हरं निहन्यात् स्वांशाधिकोनेन न तु तेन भागान्” लीला०

भागधेय = न० भाग + स्वार्थे धेय अभिधानात् नपुं सकत्वम्। १ भाग्ये। भागेन धीयतेऽसौ धा–कर्मणि यत्। २ राजदेये करे पु० अमरः। भागो धीयतेऽस्मै धा–सम्प्रदाने यत्। ३ दायादे सपिण्डे अजयपालः।

भागलक्षणा = स्त्री भागे लक्षणा। शक्यार्थांशभेदपरित्यागेन इतरांशबोधकलक्षणाभेदे जहजहत्स्वार्थलक्षणायाम्। जहजहल्लक्षणाशब्दे ३०८१ पृ० दृश्यम्।

भागवत = त्रि० भगवतः भगवत्या वा इदम् सोऽस्य देवता वा अण्। भगवतः भगवत्या वा १ भक्ते, २ तयोः सम्बन्धिनि च “भग्नाः कृषेर्भागवता भवन्ति” उद्भटः। तयोः सम्बन्धिगुणवर्णने ३ महापुराणे ४ उपपुराणे च न० “यैर्न श्रुतं प्रागवतं पुराणम्” भाग०। भागवतञ्च महापुराणभेदः उपपुराणभेदो वा उपपुराणशब्दे विस्तरेणं दर्शितः। नारदीयपु० महापुराणप्रतिपाद्यविषयोक्तौ ये विषया उक्तास्ते नान्यत्रेति विष्ण भागवतस्यैव महापुराणत्वमित्येके उपपुराणशब्दे अन्यमतं दृश्यम्। विष्णुभागवतप्रतिपाद्यविषयाश्च नार० पु० ४ अ० ९६ उक्ता यथा “मरीचे! शृणु वक्ष्यामि वेदव्यासेन यत् कृतम्। श्रीमद्भागवतं नाभ पुराणं ब्रह्मसम्मितम्। तदष्टादशसाहस्रं कीर्त्तितं पापनाशनम्। सुरपादपरूपोऽयं स्कन्धै- र्द्वादशभिर्युतः। भगवानेव विपेन्द्र! विश्वरूपी समीरितः” तस्य प्रथमस्कन्धे। “तत्र तुप्रथमे स्कन्धे सूतर्षीणां समागमः। व्यासस्य चरितं पुण्यं पाण्डवानां तथैव च। पारीक्षितसुपाख्यानमितीदं समुदाहृतम्”। द्वितीयस्कन्धे “परीक्षिच्छुकसंवादे सृतिद्वयनिरूपणम्। ब्रह्मनारदसंवादेऽवतारचरितामृतम्। पुराणलक्षणञ्चैव सृष्टिकारणसम्भवः। द्वितीयोऽयं समुदितः स्कन्धो व्यासेन धीमता”। तृतीयस्कन्धे “चरितं विदुरस्याथ मैत्रेयेणास्य सङ्गमः। सृष्टिप्रकरणं पश्चाद् ब्रह्मणः परमात्मनः। कापिलं साङ्ख्यमप्यत्र तृतीयोऽयमुदाहृतः”। चतुर्थस्कन्धे “सत्याश्चरितमादौ तु ध्रुवस्य चरितं ततः। पृथोः पुण्यसमाख्यानं ततः प्राचीन वर्हिषः। इत्येष तूर्य्यो गदितो विसर्गे स्कन्ध उत्तमः”। पञ्चमस्कन्धे “प्रियव्रतस्य चरितं तद्वंश्यानाञ्च पुण्यदम्। ब्रह्माण्डान्तर्गतानाञ्च लोकानां वर्णनन्तत। नरकस्थितिरित्येष संस्थाने पञ्चमो मतः”। षष्ठस्कन्धे “अजामिलस्य चरितं दक्षसृष्टिनिरूपणम्। वृत्राख्यानं ततः पश्चान्मरुतां जन्म पुण्यदम्। षष्ठोऽयमुदितः स्कन्धो व्यासेन परिपोषणे” सप्तमस्कन्धे “प्रह्लादचरितं पुण्यं वर्णाश्रमनिरूपणम्। सप्तमी गदितो वत्स! वासनाकर्मकीर्त्तने”। अष्टमस्कन्धे। “गजेन्द्रमोक्षणाख्यानं मन्वन्तरनिरूपणम्। समुद्रमथनञ्चैव बलिवैभवबन्धनम्। मतस्यावतारचरितमष्टमोऽयं प्रकीर्त्तितः”। नवमस्कन्धे “सूर्य्यवंशसमाख्यानं सोमवंशनिरूपणम्। वंश्यानुचरिते प्रोक्तो नवमोऽयं महामते!”। दशमस्कन्धे “कृष्णस्य बालचरितं कौमारञ्च व्रजस्थितिः। कैशोरं मथुरास्थानं यौवनं द्वारकास्थितिः। भूभारहरणञ्चात्र निरोधे दशमः स्मृतः”। एकादशस्कन्धे “नारदेन तु संवादो वसुदेवस्य कीर्त्तितः। यदोश्च दत्तात्रेयेण श्रीकृष्णेनोद्धवस्य च। यादवानां मिथोऽन्तश्च मुक्तावेकादशः स्मृतः। द्वादशस्कन्धे “भविष्यकलिनिर्देशो मोक्षो राज्ञः परीक्षितः। वेदशाखाप्रणयनं मार्कण्डेयतपः स्मृतम्। सौरी विभूतिरुदिता सात्त्वती च ततः परम्। पुराणसंङ्ख्याकथनमाश्रये द्वादशो ह्ययम्। इत्येवं कथितं वत्स! श्रीमद्भागवतं तव”। तत्कलश्रुतिः “वक्तुः श्रोतुश्चोपदेष्टुरनुमोदितुरेव च। साहाय्यकर्त्तुर्गदितं भक्तिभुक्तिविमुक्तिदम्। प्रौष्ठपद्यां पूर्णिमायां हेमसिंहसमाचितम्। देयं भागवतायेदं द्विजाय प्रीतिपूर्वकम्। संपूज्य वस्त्रहेमाद्यैर्भगवद्भक्तिमिच्छता। योऽप्यनुक्रमणीमेतां श्रावयेच्छृणुयात्तथा। स पुराण श्रवणजं प्राप्नोति फलमुत्तमम्”। विस्तरस्तु भाग० १२ उपसंहाराध्याये दृश्या। भगवद्भक्तरूपभागवतलक्षणं यथा भाग० ११ स्क०। “सर्वभूतेषु यः पश्येद्भगवद्भावमात्मनः। भूतानि भगयत्यात्मन्येष भागवतोत्तमः। न यस्य स्तपर इति वित्तेष्वात्मनि वा भिदा। सर्वभूतसमः शान्तः स वै भागवतोत्तमः”। हरियोगेश्वरोत्तरे “गृहीत्वापीन्द्रियैरर्थान् यो न द्वेष्टि न काङ्क्षति। विष्णोर्मायामिदं पश्यन् स वै भागवतोत्तमः”। वृहन्नारदीये “शिवे च परमेशाने विष्णौ च परमात्मनि। समबुद्ध्या प्रवर्त्तन्ते ते वै भागवतोत्तमाः”। स्कान्दे “येषां भागवतं शास्त्रं सदा तिष्ठति सन्निधौ। पूजयन्ति च ये नित्यं ते स्युर्भागवता नरा। येषां भागवतं शास्त्रं जीवितादधिकं भवेत्। महामागवताः श्रेष्ठा विष्णुना कथिता नराः”। लैङ्गे “भोजनाच्छादनं सर्वं यथा शक्त्या ददाति यः। विष्णु भक्तस्य सततं स वै भागवतः स्मृतः”। गारुडे “येन सर्वात्मना विष्णुमक्त्या भावो निवेशितः। वैष्णवेषु कृतात्मत्वान् महाभागवती हि सः”। वृहन्नारदीये “तुलसीकाननं दृष्ट्वा ये नमस्कुर्वते नराः। तत्काष्ठाङ्कितकर्णाये ते वै भागबतोत्तमाः। तुलसीगन्धमाघ्राय सन्तोषं कुर्वते तु ये। तन्मूलमृद्धृता यैश्च ते वै मागवतीत्तमाः”। स्कान्दे “मत्कथां कुरुते यस्तु मत्कथासु शृणोति च। हृष्यते मत्कथायाञ्च स वै मागवतोत्तमः”। वृहन्नारदीये “मन्मानसाश्च सद्भक्ता मद्भक्तजनलीलुपाः। तन्नामश्रवणासक्तास्ते वै भागवतोत्तमाः। येऽभिनन्दन्ति नामानि हरेः शृण्वन्ति हर्षिताः। रोमाञ्चितशरीराश्च ते वै भागवतीत्तमाः। अन्येषामुदयं दृष्ट्वा येऽभिनन्दन्ति मानवाः। हरिनाम परा ये च ते वै भागवतोत्तमाः”। स्कान्दे “येऽर्चयन्ति सदा विष्णुं यज्ञेश वरदं हरिम्। देहिनः पुण्यकर्माणः सदा भागवता हि ते”। लैङ्गे “विष्णुक्षेत्रे शुभान्येव करोति स्नेहसंयुतः। प्रतिमाञ्च हरेर्नित्यं पूजयेत् प्रत्यतात्मवान्। विष्णुभक्तः स विज्ञेयः कर्मणा मनसा गिरा। नारायणपरा नित्यं भूप! भागवतो हि सः” पद्मोत्तरखण्डे “तापादिपञ्चसंस्कारी नवेज्या कर्मकारकः। अर्थपञ्चकयिद्विप्र! महाभागवती हि सः। एकान्तेन सदा विष्णौ यस्माद्देवे परायणाः। तस्मादेकान्तिनः प्रोक्तास्तद्भागवतचेतसः” भाग० ११ स्कान्दे “ज्ञात्वा ज्ञात्वाथ ये वै मां यावान् यश्चास्मि यादृशः। भजन्त्यनन्यभावेन ते वै भागवता मताः। न कामकर्मवीजानां यस्य चेतसि सम्भवः। वासुदेवैकनिलयः स वै भागवतोत्तमः”। स्कान्दे “यस्य कृच्छ्रगतस्यापि केशवे रमते मनः। न विच्युता च भक्तिर्वै स वै भागवतो नरः। आपद्गतस्य यस्येह भक्तिरव्यभिचारिणी। नान्यत्र रमते चित्तं स वै भागवतो नरः”। हरियोगेश्वरे “विसृजति हृदयं न यस्य साक्षाद्धरिरवशाभिहि तोऽप्यथौघनाशः। प्रणयरसनयाधृताङ्घिपद्मः स भवति भागवतप्रधान उक्तः” हरिभक्तिविलासे १० वि०।

भागवित्ति = पु० चूडनामके ऋषिभेदे “एतसु हैव चूडो भागवित्तिः” शत० ब्रा० १४। ९। ३। १८ ततः कुत्सायां यून्यपत्ये वा ठक्। भागवित्तिक तदीये कुत्सिते यून्यपत्ये पक्षे फक्। भागवित्तेय तत्रार्थे

भागवृत्ति = स्त्री उणादिवृत्तिभेदे।

भागहार = पु० भागस्य हारो हरणम्। लीलावत्युक्ते अङ्कपरिकर्माष्टकमध्ये भागहरणरूपे व्यापारभेदे “भागहारे करणसूत्रं वृत्तम्। भाज्याद्धरः शुध्यति यद्गुणः स्यादन्त्यात् फलं तत् खलु भागहारे। समेन केनाप्यपवर्त्त्य हारभाज्यौ भजेद्वा सति सम्भवे तु”। अत्र पूर्वोदाहरणे गुणिताङ्कानां स्वगुणच्छेदानां भागहारार्थं न्यासः भाज्यः। १६२०। भाजकः १२। भजनाल्लब्धो गुण्यः १३५। अथवा भाज्यहारौ त्रिभिरपवर्त्तितौ ५४० चतुर्भिर्वा ४०५ स्वस्वहारेण हृते कलं तदेव १३५।

भागासिद्धि = स्त्री हेत्वाभासभेदे “पक्षतावच्छेदकसामानाधिकरण्येन साध्याभावः। यथा पृथिवी गन्धवती घटत्वादित्यादौ पृथिवीत्वसामानाधिकरण्येन पटादौ घटस्वाद्यभाव। वाघे गदा०। यथा वा पृथिव्यादयश्चत्वारः परमाणबो नित्या गन्धवत्त्वादित्यत्र जलादौ गन्धाभावः।

भागिन् = त्रि० भज–घिनुण्। अंगविशिष्टे। रिवयां ङीप्।

भागिनेय = पुंस्त्री० भगिन्या अपत्यम् ठक्। स्वसृपुत्रे। तत्कन्यायां खी ङीप्।

भागीयस् = त्रि० अतिशयेन भागी रिशतन् इनोपोपः। अतिशयभागयुते हरिवं० १३१ अ० अ०।

भागीरथी = स्त्री भागीरथेन सानीता तेन भागीरथी स्मृतां ब्रह्मव० प्र० रव० उक्ते गङ्गारूपे नदीभेदे।

भागुरि = पु० स्मृतिव्याकरणादिकर्त्तरि मुनिभेदे। वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः” सि० कौ०।

भाग्य = न० भज–ण्यत् कुत्वम्। १ शुभाशुभसूचके कर्मजन्येऽदृष्टे अमरः। भागः प्रयोजनमस्य यत्। २ भागार्थे त्रि०। भागमर्हति यत्। ३ भागार्हे त्रि०।

भाङ्गीन = न० भङ्गायाः विजयायाः भवनं क्षेत्रं खञ्। (भाङ) भङ्गाभवनयोग्ये क्षेत्रे। खञ्। भाङ्ग्यमप्यत्र। हेमच।

भाज = पृथक्करणे, अद० चु० उभ० सक० सेट्। भाजयति ते अवभाजत् त।

भाजक = त्रि० भज–ण्वुल्। भागकारके अङ्कभेदे विभाजके

भाजन = न० भज्यतेऽनेन भाज–ल्युट्। १ पात्रे अमरः। २ आथारे ३ योग्ये च मेदि०। ४ आढकपरिमाणभेदे वैद्यकम्।

भाजिन् = त्रि० भज–सेवायां णिनि। सेवके कामन्दकीय०।

भाजित = त्रि० भाजि–कर्मणि क्त। १ पृथक्कृते। २ भक्ते च।

भाजी = स्त्री० भाज–कर्मणि घञ् नि० ङीप्। भृष्टव्यञ्जनभेदे। अन्यत्र भाजा। सि० कौ०।

भाज्य = त्रि० भज्यते विभज्यते भज–कर्मणि ण्यत्। विभजनीये “भाज्यो हरः शुध्यति यद्गुणः स्यादि” ति लीलावती।

भाटक = पु० न० भट–पोषणे ण्वुल्। परगृहयानादेरुपभोगार्थं तत्स्वामिने दीयमाने घने। (भाडा) हला०। “परभूमौ गृहं कृत्वा भाटयित्वा वसेत् तु यः। स तद् गृहीत्वा निर्गच्छेत्तृणकाष्ठेष्टकादिकम्। स्तोमं विना वसित्वा तु परभूमावनिच्छतः। निर्गच्छंस्तृणकाष्ठानि न गृह्णीयात् कथञ्चन” कात्यायनः। “गृहवाप्यापणादीनि गृहीत्वा भाटकेन यः। स्वामिनोनार्पयेद्यावत्तावद्दाप्यः स भाटकम्। वापी परकृता अप्रतिष्ठितेति विवक्षितम्। “हस्त्यश्वगोखरोष्ट्रादीन् गृहीत्वा भाटकेन यः। स्वामिनोनार्पयेद्यावत्तावद्दाप्यः स भाटकम्”। वृद्धमनुः “यो भाटयित्वा शकटं नीत्या नान्यत्र गच्छति। भाटं न दद्याद्दाप्योऽसावनूढस्यापि भाटकम्”। शकटं वृषनौकादेरप्युपलक्षणम्। अनूढस्यावाहितस्यापि शकदादेः” इति विषादचिन्तामणिः।

भाण = पु० सा० द० उक्तलक्षणे दशरूपकान्तर्गते दृश्यकाव्यभेदे तल्लक्षणं यथा “भाणः स्याद्धूर्त्तचरितो नानावस्थान्तरात्मकः। एकाङ्क एक एवात्र निपुणः पण्डितो विटः। रङ्गे प्रकाशयेत् स्वेनानूभूतमितरेण वा। सम्बोधनोक्तिप्रत्युक्ती कुर्य्या- दाकाशभाषितैः। सूचयेद्वीरशृङ्गारौ शौर्य्यसौभाग्य वर्णनैः। तत्रेतिवृत्तमुत्पाद्यं वृत्तिः प्रायेण भारती। मुखनिर्वहणे सन्धी लास्याङ्गानि दशापि च”। अत्राकाशभाषितरूपं परवचनमपि स्वयमेवानुवदन्नुत्तरप्रत्युत्तरे कुर्य्यात्। शृङ्गारवीररसौ च सौभाग्यशौर्य्यवर्णनेन सूचयेत्। प्रायग्रहणात् कौशिक्यपि वृत्तिर्भवति। उदाहरणं लीलामधुकरः” सा० द०।

भाण्ड = न० भाण्ड–अच् भण–ड–स्वार्थे अण् वा। पात्रे १ तैलाद्याधारे २ भाजने (भा~ड) “अराजदैविकं नष्टं भाण्डं दाप्यस्तु वाहकः” नारदः। ३ गृहभेदे (भा~डार) “ब्रह्माण्डभाण्डोदरेत्यादि” वीरचरितम्। ४ बणिजां मूलधने ५ अश्वभूषायां मेदि०। ६ नदीकुलद्वयमध्ये पात्रे च हेमच०। ७ गर्दभाण्डे वृक्षे पु० शब्दच०। भण्डस्य भावः अण्। ८ भण्डचरित्रे न० (भाडामि) अजयः।

भाण्डपुट = पु० नापिते जटाधरः।

भाण्डपुष्प = पु० सर्पभेदे त्रिका०।

भाण्डल = त्रि० भाण्डं लाति ला–क। माण्डग्राहके स्त्रियां गौरा० ङीष्।

भाण्डव = त्रि० भण्डोरदूरादि सुवास्त्वा० अण्। भण्डुसमीपादौ।

भाण्डागार = कर्म०। (भा~डार) गृहभेदे हेमच०। तत्र नियुक्तः ठन्। भाण्डगारिक तत्र नियुक्ते त्रि०।

भाण्डार = न० भाण्डं तदाकारमृच्छति ऋ–अण् उप० स०। गृहभेदे (भा~डार)।

भाण्डारिन् = पु० भाण्डमृच्छति ऋ–णिनि। अन्नादिद्रव्यगृहेषु कृताधिकारे। “क्षुधितस्तृषितः कामी विद्याथी कृषिकारकः। भाण्डारी च प्रवासी च सप्त सुप्तान् प्रबोधयेत्” इति व्यवहारप्रदीपः।

भाण्डि = स्त्री भण्डस्येदम्। नापितस्य खुराद्याधारपात्रभेदे (भा~डि)

भाण्डिवाह = पु० भाण्डिं क्षुराद्याधारं (भाडि) वहति वहअण् उप० स० नापिते भाण्डि + अस्त्यर्थे लच्। भाण्डिल तत्रार्थे शब्दमा०।

भाण्डीर = पु० भण्ड–ईरच् पृषो०। १ वटवृक्षे २ वृन्दावनस्थे ३ वटवनभेदे च जटा०। “प्रलम्बो नाम भूत्वाथो वटं भाण्डीरमाश्रितः” हरिवं० ५५ अ०।

भाति = स्त्री भा–क्तिन्। शोभायाम् राजनि०।

भातु = पु० भा–तुन्। १ सूर्य्ये त्रिका०। २ दीप्ते त्रि० संक्षिप्त०।

भाद्र = पु० भद्राभिर्युक्ता पौर्णमासी भाद्री सा यस्मिन् भासे अण्। चैत्रादितः मष्ठे चान्द्रे १ मासे अमरः। २ तन्मा- सीयपौर्णमास्यां स्त्री ङीप्। भद्रेव स्वार्थे अण्। ३ पूर्वोत्तरभाद्रपदाख्यनक्षत्रे न०। “भाद्रद्वये सागरे” ज्योतिषम्। ४ भाद्र्या पौर्णमास्यायुक्ते पक्षे तथाविधे ५ गुरुवर्षे च कार्त्तिकशब्दे दृश्यम्।

भाद्रपदा = स्त्री ब० व०। भद्रस्येदं अण् भाद्रमिव पदमासाम्। अश्विन्यवधिके पञ्चविंशषड्विंशयोर्नक्षत्रयोः। १ तद्युक्ता पौर्णमासी अण् ङीप्। २ भाद्रमासस्य पौर्णमास्याम् साऽत्र मासे अण्। ३ चान्द्रे भाद्रे मासि पु०। तादृशे ४ पक्षे ५ गुरुवर्षभेदे च कार्त्तिकशब्दे दृश्यम्।

भाद्रमातुर = पु० भद्रायाः सत्याः मातुः अपत्यम् अण् मातुरुत्। सतीपुत्रे हेमच०।

भान = न० भा–भावे ल्युट्। १ प्रकाशे २ दीप्तौ ३ ज्ञाने प्रकाशे च।

भानु = पु० भा–नु। १ सूर्य्ये २ अर्कवृक्षे ३ किरणे ४ राजनि च अमरः ५ प्रभो धरणिः। ६ भूतजैनभेदे हेमच०। उत्तममुन्वन्तरे ७ देवे ब० व० हरिवं० ९ अ०। ९ धर्मपत्नीभेदे स्त्री हरिवं० ३ अ०। १० गन्धर्वभेदे पु० भा० आ० ६५ अ०। ११ यदुवंश्यक्षत्रियभेदे भानुमत्याः पितरि पु० हरिवं० १४९ अ०। १२ विष्णौ पु० “अनृतांशूद्भवो भानुः” विष्णुस० “तमेव भान्तमनुभाति सर्वम्” श्रुतेस्तस्य तथात्वम्।

भानुफला = स्त्री भानुरिव दीप्तिमत् फलं प्रसवो यस्याः। कदल्याम् जटाधरः। तस्याः मोचकस्य सूर्य्यतुल्यवर्णत्वात्तथात्वम्।

भानुमती = स्त्री भानोर्यादवनृपभदस्य कन्यायां हरिवं० १४९ अ०।

भानुमत् = स्त्री भानुः किरणोऽस्त्यस्य मतुप्। १ सूर्य्ये शब्दरत्ना० २ अर्कवृक्षे च। भानुमालीत्यप्यत्र। ३ नृपभेदे पु० भा० भी० ५४ अ०। अहंजातिनृपस्य भार्य्यायां जाते कृतवीर्य्यस्य ४ दुहितृभेदे स्त्री भा० आ० ९५ अ०।

भानुसेन = पु० कर्णपुत्रभेदे भा० क० ४८ अ०।

भानेमि = पु० भानोः नेमिरिव। १ सूर्य्ये २ अर्कवृक्षे च त्रिका०।

भान्त = पु० भायाः दीप्तेः पञ्चदशाहमध्ये अन्तो यस्य। शुक्लकृष्णपक्षयोः पञ्चदशाहमध्ये कान्तेरुपचयापचययुक्ते चन्द्रे “भान्तः पञ्चदशी” यजु० १४। २३ वेददी० ६ त०। २ नक्षत्रराश्योरते च।

भाम = क्रोधे भ्वा० आत्म० अक० सेट्। भामते अभामिष्ट बभामे।

भाम = पु० भाम–घञ्। १ क्रोधे निघण्टुः। भा–भावे म। २ दीप्तौ च। कर्त्तरि स। ३ सूर्य्ये मेदि०। ४ अर्कवृक्षे च। ५ भगिनीपतौ पु० शब्दरत्ना ६ कोपनायां स्त्रियां स्त्री मेदि०।

भामनी = पु० भामं नयति नी–क्विप्। परमेश्वरे “एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाति सर्वेषु लोकेषु भाति य एवं वेद” छा० उ०। “एष उ भामनीरेष हि यस्मात् सर्वेषु लोकेष्वादित्यचन्द्राग्न्यादिरूपैर्भाति दीप्यते। “तस्य भासा सर्वमिदं विभातीति” श्रुतेरतो भामानि नयतीति भामनीः” भा०।

भामिन् = त्रि० भाम–णिनि। क्रोधयुक्ते स्त्रियां ङीप्। कोपनायां स्त्रियाम् स्त्री ङीप् अमरः।

***