प्रु = सर्पणे म्बा० आत्म० सक० अनिट्। प्रवते अप्रोष्ट पुप्रुवे।

प्रुट = मर्दने भ्वा० पर० सक० सेट्। प्रोटति अप्रोटीत् पुप्रोट। अयं धातुपाठे पठितः।

प्रुष = भस्मीकरणे भ्वा० पर० सक० सेट्। प्रोषति अप्रोषीत् पुप्रोष। उदित् क्त्वा वेट्। प्रुषित्वा पुष्ट्वा प्रुष्टः।

प्रुष = सेके पूर्त्तौ च सक० स्नेहे अक० क्र्या० पर० सेट्। प्रुष्णाति अप्रोषीत् पुष्रोष।

प्रुष्ट = त्रि० प्रुष–क्त। दग्धे।

प्रुष्व = प्र० प्रुष–क्वन्। १ ऋतौ २ सूर्य्ये च उज्ज्वल०। ३ जलविन्दौ सि० कौ०।

प्रेक्षा = स्त्री प्र + ईक्ष–भावे अङ्। १ विषयशुभाशुभपर्य्यालोचनायां २ वृद्धिपूर्वककर्मकरणे ततः प्रेक्षादि० चतुरर्थ्याम् इनि। प्रेक्षिन् आलोचनानिर्वृत्तादौ। अस्विन्शब्दे परे घोषादि० पूर्वषदमुदात्तम।

प्रेक्षागार = न० ६ त०। राज्ञां मन्त्रणार्थगृहे हरिवं० ८५ अ० प्रेक्षागृहादयोऽप्यत्र।

प्रेक्षादि = चतुरर्थ्यामिति प्रत्ययनिमित्ते शब्दगणः स च गणः पा० ग० उक्तो यथा “प्रेक्षा हलकां बन्धुका ध्रुवका क्षिपका न्यग्रोध इक्कट कङ्कट सङ्कट कटकूप धुक पुक पुट मह परिवाप यवास ध्रुवका गर्त्त कूपक हिरण्य”।

प्रेक्षावत् = त्रि० प्रेक्षा अस्त्यर्थे मतुप् मस्य वः। समीक्ष्यकारिणि।

प्रेङ्खण = न० प्र + इखि–ल्युट् णत्वम्। १ प्रकर्षेण चलने अष्टादशरूपकान्तर्गते २ रूपकभेदे तल्लक्षणं सा० द० उक्तं यथा

“गर्भावमर्षरहितं प्रेङ्क्षणं हीननायकम्। असूत्रधारमेकाङ्कमविष्कम्भ प्रवेशकम्। नियुद्धसम्फोटयुतं सर्ववृत्तिसमाश्रितम्। नेपथ्ये गीयते नान्दी तथा तत्र प्ररोचना”।

प्रेङ्खा = स्त्री प्र + इखि बा० आधारे अङ्। १ दोलायाम् अमरः भावे अङ्। २ परिभ्रमणे ३ स्वार्थकगतौ अश्वगतौ इति पाठान्तरम्। ४ गृहभेदे मेदि० ५ नृत्ये च धरणिः।

प्रेङ्खित = त्रि० प्र + इखि–क्त। कम्पिते अमरः।

प्रेङ्खोल = दोलने अद० चुरा० उभ० सक० सेट्। प्रोङ्खोलयति ते अपिप्रेङ्खोलत् त। प्रस्योपसर्गत्वमपीच्छन्तीत्यन्ये तेन प्राञ्चिखोलत् त इत्येबरूपम्।

प्रेण = गतिप्रेरणाश्लेषणेषु भ्वा० पर० सक० सेट् माधवः। प्रेणति अप्रेणीत् ऋदित् अपिप्रेणत् त।

प्रेणि = त्रि० प्रेण–इन्। प्रेरके ऋ० १। ११२। १० मा०।

प्रेत = त्रि० प्र–इ–क्त। १ मृते अमरः। २ नरकस्थे जीवभेदे ३ प्रिशाक्षभेदे आतिवाहिकदेहोत्तरं ४ जायमानदेहभेद्र- युते और्द्ध्वदेहिकक्रियाऽभावे तद्रूपप्राप्तिकथा पाद्मोत्त० ख० १६ अ० यथा “ततो बहुतिथे काले स राजा पञ्चताङ्गतः। वैदिकेन विधानेन न लेभे चौर्द्ध्वदोहकम्। विष्णुप्रद्वेषमात्रेण युगानां सप्तविंशतिम्। भुक्त्वा च यातनां थामीं निस्तीर्णनरको नृपः। समया गिरिराजन्तु पिशाचोऽभूत्तदा महान्”। तस्य रूपं यथा “देवद्युतिरधीयानः शुश्राव करुणस्वनम्। सभ्रागत्य ततस्तत्र त” पिशाचं ददर्श सः। विकरालमुखं दीनं पिशङ्गनयनं भृशम्। ऊर्द्ध्वमूर्द्ध्वजकृष्णाङ्गं यमदूतमिवापरम्। चलजिह्वञ्च लम्बोष्ठं दीर्घजङ्घसिराकुलम्। दीर्घाङ्घ्रिशुष्कतुण्डञ्च गर्त्ताक्षं शुष्कपञ्चरम्”। और्द्ध्वदेहिककरणेऽपि केषाञ्चित् कर्मविशेषेण प्रेतत्वप्राप्तिस्तत्रोक्ता यथा “हविर्जुह्वति नाग्नौ ये गोविन्द” वार्चयन्ति ये। लभन्ते नात्मविद्याञ्च सुतीर्थविमुखाश्च ये। सुवर्णं वस्त्रताम्बूलं रत्नमन्नं फलं जलम्। आर्स्तेभ्यो न प्रयच्छन्ति सर्वेषु कृतदारकाः। ब्रह्मस्वञ्च स्त्रीधनानि लोभादेव हरन्ति वे। बलेन छद्मना वापि धूर्त्ताश्च परवञ्चकाः। नास्तिकाः कुहकाश्चौरा ये चान्ये बकवृत्तयः। बालवृद्धातुरस्त्रीषु निर्दयाः सत्यवर्जिताः। अग्निदा गरदा ये च ये चान्ये कूटमाक्षिणः। अगम्यागामिनः सर्वे ये चान्ये ग्रामयाजिनः। व्याधाचरणसम्पन्ना वर्णादिधर्मवर्जिताः। ये चोपदेवदनुजरक्षीयक्षादिसेविनः। सर्वदा मादकद्रव्यपानमत्ता हरिद्विषः। देवतोद्दिष्टपतितनृपश्राद्धान्नभोजिनः। असत्कर्मरता नित्यं सर्वपातकपापिनः। पाषण्दधर्माचरणाः पुरोधोवृत्तिजीविनः। पितृमातृस्नषापत्यस्वदारत्यागिनश्च ये। ये कदर्य्याश्च लुब्धाश्च नास्तिका धर्मदूषकाः। त्यजन्ति स्वामिनं युद्धे त्यजन्ति शरणागतम्। गवां भूमेश्च हर्त्तारो ये चान्ये रत्नदूषकाः। महाक्षेत्रेषु सर्वेषु प्रतिग्रहरताश्च ये। पर द्रोहरता ये च तथा ये प्राणिहिंसकाः। परापवादिनः पापा देवतागुरुनिन्दकाः। कुप्रतिग्राहिणः सर्वे सम्भवन्ति पुनःपुनः। प्रेतराक्षसपैशाच्यतिर्य्यग्वृक्षकुयोनिषु। न तेषां सुखलेशोऽस्ति इह लोके परत्र च”। पाद्मोत्तरखण्डे १८ अ०। पञ्चप्रेतोपख्यानं तत्रैव यथा “ब्राह्मण उवाच प्रेतानां नाम जातीनां युष्माकं सम्भवः कथम्। किं तत् कारणमुद्दिश्य यूयमीदृशनामसाः”। प्रेता उचुः “अहं स्त्राद् सदा भुक्त्वा दद्यां पर्युषितं सदा। एतत्कारणमुद्दिश्य नाम पर्य्युषितं १ मम। सूचिता बहवोऽनेन विप्राद्या ह्यन्नकाङ्क्षिणः। एतत्कारणमुद्दिश्य सूचीमुख २ मिमं विदुः। शीघ्रं गच्छति विप्रेण याचितः क्षुधितेन वै। पश्चाद्भुङ्क्ते द्विजः शिष्टमेष शीघ्रक ३ उच्यते। गृहोपरि सदा भुङ्क्ते स्वाद् द्विजभयेन हि। द्विजाय कुत्सितं दत्त्वा एष रोहक ४ उच्यते। मौनेनापि स्थिरो नित्यं याचितो विलिखन्महीम्। अस्माकमपि पापिष्ठो लेखको ५ नाम एष वै। मेढ्रेण लेखको याति रोहकः पार्श्वतःशिराः। शीघ्रकः पङ्गुतां प्राप्तः सूची सूचीमुखोऽभवत्”। प्रेताः हारस्तत्रोक्तो यथा “द्विज उवाच “ये जीवा भुवि तिष्ठन्ति सर्वे आहारमूलकाः। युष्माकमपि चाहारं श्रोतुमिच्छामि तत्त्वतः” प्रेता ऊचुः “शृणु आहारमस्माकं सर्वसत्त्वविगर्हितम्। श्लेष्ममूत्रपुरीषेण योषितान्तु मलेन च। गृहाणि त्यक्तशौचानि प्रेता भुञ्जन्ति तत्र वै। स्त्रीभिर्जग्धानि जीर्णानि संकीर्णापहतानि च। मलेनातिजुगुप्सानि प्रेता भुञ्जन्ति तत्र वै। भयलज्जाबिहीनानि पतितैः सेवितानि च। अन्योन्यदस्यु युक्तानि प्रेता भुञ्जन्ति तत्र वै। कलहान्वितशोकानि त्यक्तशोभानि मण्डनैः। सवर्चस्कानि भाण्डानि प्रेता भुञ्जन्ति तत्र वै। बलिमन्त्रविहीनानि द्विजादृष्टानि यानि तु। नियमव्रतहीनानि प्रेता भुञ्जन्ति तत्र वै। गुरवो नैव पूज्यन्ते स्त्रीजितानि मलानि च। सक्रोधान्यपवित्राणि प्रेता भुञ्जन्ति तत्र वै। भुञ्जन्ति भिन्नभाण्डेषु मर्य्यादारहितेषु च। अन्योन्योच्छिष्टयुक्तेषु तत्र प्रेतास्तु भुञ्जते। सकेशमाक्षिकोच्छिष्टं पूति पर्युषितं तथा। सक्रोधञ्च सशोकञ्च तच्च प्रेतेषु भोजनम्। सनग्नं भोजनं यच्च नोत्तरीयं पदासनम्। सोष्णीषं सासुरीकक्षं तच्च प्रेतेषु भोजनम्। अर्द्धग्रासं महाग्रासं सोत्क्षिप्तं पतितं तथा। दुर्भुक्तं गोष्ठिकञ्चैव तच्च प्रेतेषु भोजनम्। सौतिकं गृतकञ्चैव राजसं कलुषीकृतम्। निर्दीपं कृमिवच्चाग्रे यद्भुक्तं प्रैतिकन्तु तत्। एतत्ते कथित्त सर्वं यत् प्रेतेष्येव भोजनम्। निर्वाणाः प्रेतजात्या बै कृच्छामस्थां द्विजोत्तम”। प्रेतत्वाभावकारणं यथा न षेतो जायते येन येन चैवेह जायते। एतत्सर्वं समासेन प्रकूहि वदतां वर!” ब्राह्मण उवाच “एकरात्रं त्रिरात्रं वा कृच्छ्रं चान्द्रायणादिकम्। व्रतेष्वप्यु षितो यख क ऐतो जायते नरः। मिष्टान्नपानदाताथ सततं श्रद्धयान्वितः। देवपूजापरो नित्यं न ष्रेतो जायते नरः। त्रिरग्निरेकपञ्चाग्निर्निरग्निर्वाप्युपासकः। सर्वभूतदयापन्नो न प्रेतो जायते नरः। तुल्यमानापमानश्च तुल्यः काञ्चनलोष्टयोः। तुल्यः शत्रौ च मित्रे च न प्रेतो जायते नरः। देवतातिथिपूजासु गुरुजातिषु नित्यशः। वेदशास्त्ररतो नित्यं न प्रेतो जायते नरः। जितक्रोधो मदैश्वर्य्यतृष्णासङ्गविवर्जितः। क्षमाऽक्रोध सुशीलश्च न प्रेतो जायते नरः। देवतातिथिपूजास्तु पर्वतांश्च नदीस्तथा। पश्येद्देवालयांश्चैव न प्रेतो जायते नरः”। प्रेतत्वकारणं यथा “शूद्रान्नं यो द्विजो भुङ्क्ते यः क्रामति द्विजोत्तमम्। वृत्तिहा द्विजदेवेषु स प्रेतो जायते नरः। मातरं पितरं वृद्धं ज्ञातिं साधुजनं तथा। लोभात् त्यजति यः स्निग्धं स प्रेतो जायते नरः। अयाज्ययाजकश्चैव याज्यञ्च परिवर्जयेत्। शूद्रानुग्रहकर्त्ता च स प्रेतो जायते नरः। कुज्योतिषी कुविद्यस्तु कुजनेषु कुदेशकः। शूद्रसेवाकरो राज्ञां स प्रेतो जायते नरः। सेवनायापद्रुतो यः सेवकस्त्वपरिग्रहः। तावुभावपि जायेते प्रेतौ कालान्न किंप्रदौ। द्विजानुमन्त्रितो भुङ्क्ते शूद्रान्नं वा द्विजस्य तु। शूद्रेणैव द्विजः पेतो निरयानुपगच्छति। गीतवाद्यरतो नित्यं मद्यपस्त्रीबिषेषणात्। द्यूतमांसप्रियो यस्तु स प्रेतो जायते नरः। वृथारेता वृथामांसो वृथावादो वृथामतिः। निन्दको द्विजदेवानां स प्रेतो जायते नरः। वृद्धं बालं गुरुं विप्रं योऽवमन्य भुनक्ति वै। कन्यां ददाति शुल्केन स प्रेतो जायते नरः। न्यासापहर्त्ता मित्रध्रुक परपाकरतस्तथा। विश्रम्भघाती कूटश्च स प्रेतो जायते नरः। निर्दोषान् सुहृदो नारीस्त्यजेत् कालान्न पाति यः। धनमीहेत यस्तेषां संप्रेतो जायते नरः। हस्त्यश्वरथयानानि मृतशय्यासनादि यः। कृष्णाजिनञ्च गृह्णानि अनापत्सुगतो द्विजः। तथोभयमुखीं कालं सशैलां मेदिनीं द्विजः। कुरुक्षेत्रस्य यद्दानं चाण्डालात् पतितात्तथा। मासिकेऽपि नवश्राद्धे भुञ्जन् प्रेतान्नभुङ्मतः। ब्रह्महा गोबधी स्तेयी सुरापो गुरुतल्पगः। भूमिकन्यापहर्त्ता यः स प्रेतो जायते नरः। नानासङ्करकृन्नित्यं वर्णसङ्करकृत्तथा। योनिसङ्करकृच्चापि स प्रेतो जायते नरः। विक्रीणाति विषं शङ्खं तिलानां लवणस्य तु। गवा कशरिणां मोहात् विक्रयात् प्रेततां व्रजेत्। कूटमाप्येन तौल्येन क्रयं क्री- णाति विक्रयात्। मद्यतक्रपयोदध्नां स प्रेतो जायते नरः। स्त्रीरक्तो मद्यपाने तु मृगयामनुधावति। नित्यनैमित्तिकेऽदाता स प्रेतो जायते नरः” अग्निपु०। मनुष्याणाञ्च दाहादिक्रिययाऽतिवाहिकदेहानन्तरं प्रेतदेहो भवति यथाह विष्णुधर्मोत्तरे

“तत्क्षणादेव गृह्णाति शरीरमातिवाहिकम्। षातिवाहिकसंज्ञोऽसौ देहो भवति भार्गव!। केवलं तन्मनुष्याणां नान्येषां प्राणिनां क्वचित्। प्रेतपिण्डैस्ततो दत्तैर्देहमाप्नोति भार्गव!। भोगदेहमिति प्रोक्तं क्रमादेव न संशयः। प्रेतपिण्डा न दीयन्ते यस्य तस्य विमोक्षणम्। श्माशानिकेभ्यो देवेभ्य आकल्पं नैव विद्यते। तत्रास्य यातना घोराः शीतवातातपोद्भवाः। ततः सपिण्डीकरणे बान्धवैः स कृते नरः। पूर्णे संवत्सरे देहमतोऽन्यं प्रतिपद्यते। ततः स नरके याति स्वर्गे वा स्वेन कर्मणा” शु० त०। ५ प्राप्तपितृलोके “अत ऊर्द्ध्वं संवत्सरे संवत्सरे प्रेतायान्नं दद्यात्” गोभिलः “प्रेतलोकं परित्यज्य आगता ये महालये” ति० त०।

प्रेतकर्म्मन् = न० ६ त०। १ मृतोद्देशेन कर्त्तव्ये दाहादि सपिण्डनान्तकर्मणि भा० द्रो० ५२ अ०। प्रेतकार्य्यादयोऽप्यत्र। २ प्राप्तपितृलोकोद्देश्यककार्य्ये श्राद्धादौ च “अकृत्वा प्रेतकार्य्याणि प्रेतस्य धनहारकः। वर्णानां यद्बधे प्रोक्तं तद्व्रतं नियतश्चरेत्” दाय० त० वचनम्।

प्रेतगृह = न० प्रेतस्य मृतस्य गृहमिव। मृतस्य शरीराधारे श्मशाने हेमच०। प्रेतावासादयोऽप्यत्र।

प्रेततर्पण = न० ६ त०। मृगोद्देशेन् वर्षपर्य्यन्तं प्रेतशब्दोल्लेखेन कर्त्तव्ये तर्पणविशेषे तद्विधानं शु० ति० यथा

मिश्राचार्य्यपृथ्वीधरधृतविष्णुसूत्रम् “अतः सर्वे शवस्पर्शिनो गत्वा पितृपदस्थाने प्रेतपदोहेन द्वितीयान्तं तर्पयेयुः पितृशब्दोच्चारेण पितृहा भवति”। शातातपः “प्रेतान्तनामगोत्राभ्यामुत्सृजेदुपतिष्ठताम्” इति प्रेतान्तेति तत्पुरुषः न बहुव्रीहिः सर्वजघन्यत्वात् तेन प्रेतान्तनाम–गोत्रञ्चेति समासः एतद्वचनाच्चितापिण्डदाने उपतिष्ठतामिति पितृदयितायामप्युक्तम्। एतेन प्रेतकार्ये समन्धार्थकपदप्रयोगो मैथिलोक्तो हेयः। एतेनामुकगोत्रममुकदेवशर्माणं तर्पयामीति मामगानां प्रयोगः। अत्र प्रेततर्पणे सतिलांस्त्विति विशेषापादानात् सूर्य्यादिवारेऽपि तिलैरेव तर्पणं प्रतीयते। व्यक्तमाह कदमपारिजातधृता स्मृतिः “अयने विषुवे चैव संक्रान्त्यां ग्रहणेषु च। उपाकर्मणि चोत्सर्गे युगादौ मृतवासरे। सूर्य्यशुक्रादिवारे च न दोषस्तिलतर्पणे”। तथा “तीर्थे तिथिविशेषे च कार्य्यं प्रेते च सर्वदा”। तिथिविशेषे अमावस्यादशहरादौ। अत्र दक्षिणाङ्गुष्ठसहितमध्यमादिना वामहस्ते तिलदानं “वामहस्ते तिलान् दत्त्वा जलमध्ये तु तर्पयेत्। मुक्तहस्तन्तु कर्त्तव्यं न मुद्रां तत्र दर्शयेत्” इति विद्याकरधृतवचने वामहस्त इति सप्तम्यन्तश्रवणात् “तिलान् संमिश्रयेज्जले” इति तिलाधिकरणमुपक्रम्याभिधानाच्च। “सव्येन च तिलाः ग्राह्याः” इत्यत्रापि वामहस्ते स्थाप्या इत्यर्थः। सव्येनेति स्थाल्या पचतीतिवदधिकरणे तृतीया “विवक्षातो हि कारकाणि भवन्ती” त्युक्तेः। मुद्रा अङ्गुष्ठतर्जन्यात्मकयोगरूपा तिलग्रहणायेति शेषः”।

प्रेतधूम = पु० ६ त०। चिताधूमे मनुः ४। ६९।

प्रेतनदी = स्त्री प्रेतगम्या नदी। यमद्वारस्थे वैतरणीनामके नदीभेदे शब्द च०।

प्रेतनिर्हारक = पु० प्रेतं निर्हरति गृहात् श्मशानभूमिं निर् + हृ–ण्वुल्। शवहारके “प्रेतनिर्हारकाश्चैव वर्जनीयाः प्रयत्नतः” तस्य अपाङ्क्तेयता मनुनोक्ता। तच्च कुल्लू धनग्रहणपूर्वकहरणपरतया व्याख्यातं यथा “प्रेतनिर्हारको धनग्रहणेन न तु धर्मार्थम्। “एतद्वै परमन्तपो यत् प्रेतमरण्यं हरन्तीति” श्रुत्या विहितत्वात्”

प्रेतपक्ष = पु० प्रेतानां पितॄणां प्रियः पक्षः शा० त०। गौणाश्विनकृष्णपक्षे अत्र मृतयोः पित्रोः पार्वणविधिना त्रैपुरुषिकं श्राद्धं करणीयं यथाह श्रा० त० शङ्खः

“सपिण्डीकरणादूर्द्ध्वं यत्र यत्र प्रदीयते। तत्र तत्र त्रयं कुर्य्यात् वर्जयित्वा मृताहनि। अमावस्यां क्षयो यस्य प्रेतपक्षेऽथ वा पुनः। सपिण्डीकरणादूर्द्ध्वं तस्योक्तः पार्वणो विधिः”। त्रयं सम्प्रदानानां त्रयं कुर्य्यात् त्रिभ्यो दद्यादित्यर्थः। मृताहपर्युदस्तत्रिदैवतत्वस्य प्रतिप्रसवमाह अमावस्यामिति प्रेतपक्षोऽत्र पितृपक्षः अश्वयुक्कृष्णपक्ष इति यावत् न तु कृष्णपक्षमात्रं कृष्णपक्षसामान्यपरत्वेऽमावास्यापदवैयर्थापत्तेः पितृपक्षं विशेषयति हेमाद्रिमाधवाचार्य्यधृतं नागरखण्डम् “नभो वाऽथ नभस्यो वा मलमासो यदा भवेत्। सप्नमः पितृपक्षः स्यादन्यत्रैव तु पञ्चमः”। अत्र श्रावणभाद्रयोरन्यतरस्य मलमासत्वे आषाढापेक्षया सप्तमपक्षस्य पितृपक्षत्वात् अत्र मृतस्यैव प्रेतपक्षमृतत्वं न तु मलमासभाद्रकृष्णबक्षे मृतस्य। ततश्च तत्र मृतस्य वर्षान्तरेऽश्वयुक्कृष्ण क्षेऽपि तच्छ्राद्धकरणे न पार्वणं किन्त्वेकोद्दिष्टमिति। अत्र पार्वणो विधिः पार्वणेतिकर्तव्यताकैकोद्दिष्टविधिरिति नव्यवर्द्धमानप्रभृतयः। तन्न पूर्यवचनोक्तत्रैपुरषिकस्य मृताहे पर्युदस्तस्य पार्वणोविधिरित्यनेन प्रतिप्रसवात्। तस्मात् सदैकोद्दिष्टं त्रैपुरुषिकं न तु षाट्पौरुषिकं “कर्षूसमन्वितं मुक्त्वा तथाद्यं श्राद्धषोडशम्। प्रत्याव्दिकञ्च शेषेषु पिण्डाः स्युः षडिति स्थितिः” इति छन्दोगपरिशिष्टवचनेन प्रत्याव्दिकव्यति रेकेण षट्संख्यानियमात् एवममावस्यादिमरणनिमित्तेन प्रातुरपि प्रत्याव्दिकं पार्वणविधिनैव “अपुत्रा ये मृताः केचित् स्त्रियो वा पुरुषाश्च ये। तेषामपि च देयं स्यादेकोद्दिष्टं न पार्वणम्” इति आपस्तम्बवचने अपुत्रा इति विशेषणोपादनात् सपुत्राणां पार्वणाभ्यनुज्ञानात्। एतच्च मात्रादित्रितयदैवतं कार्यम्। “मात्रे पितामह्यै प्रपितामह्यै पूर्ववत् व्राह्मणान् भोजयित्वा” इत्यन्वष्टकायां तथादर्शनात् अवसानदिननिमित्तत्वेन पार्वणविधिना छन्दोगैरपि मात्रादित्रिकाणां श्राद्धं कर्त्तव्यम् “न योषिद्भ्यः पृथग् दद्यादवसानदिनादृते”। इति छन्दोगपरिशिष्टवचने विशेषतः प्रतिप्रसवात्। एवं सपिण्डीकरणेऽपि। एतच्च मृताहपार्वणं मातापित्रोरेव। तथा च हेमाद्रिधृतकात्यायनवचनम् “सपिण्डीकरणादूर्द्ध्वं पित्रोरेव हि पार्वणम्। पितृव्यभातृमातृणामेकोद्दिष्टं सदैव तु”। मातृपदं सपत्नीमातृपरम्। सपत्नीमात्रित्यत्र मातृपदस्य राजदन्तादित्वात् परनिपातः ततश्च वाक्ये मातृसपत्नीति न प्रयोज्यं किन्तु सपत्नीमातरित्यादिकम्। एवं साग्निकौरसक्षेत्रजाभ्यां मृताहे पार्वणं कर्त्तव्यम् “औरसक्षेत्रजौ पुत्रौ विधिना पार्वणेन तु। प्रत्यव्दमितरे कुर्युरेकोद्दिष्टं सुता दश” इति जावालवचनस्य “यत्र यत्र प्रदातव्यं सपिण्डीकरणात् परम्। प्रार्वणेन विधानेन देयमग्निमता सदा” इति मत्स्यपुराणवचनस्य चैकवाक्यत्वात्। उशना च “प्रत्यव्दं दर्शवच्छ्राद्धं साग्निः कुर्वीत वै द्विजः। एकोद्दिष्टं सदा कुर्य्यान्निरग्निः श्राद्धदः सुतः”। अत्र नि० सि० विशेषमाह वृद्धपराशरः “संग्रामे संस्थितानाञ्च प्रेतपक्षे शशिक्षये। तेषां पार्वणमेवोक्तं क्षयाहेऽपि च सत्तमैः”। “चन्द्र क्षयानाशकंयुगेषु यः प्रेतपक्षे मृतवान् सपिण्डः। मपिमिद्धतानामपि चाव्दिकानि भवन्ति तेषानिह पार्ब- णानि”। तथा “भ्रातुर्ज्येष्ठस्य कुर्वीत ज्येष्ठो भ्रातामुजस्य च। दैवहीनं तु तत्कुर्य्यादिति धर्मविदब्रवीत्”। दैवहीनमेकोद्दिष्टम् ज्येष्ठो भ्रातानाद्यगर्भजः तथा च तत्रैवशातातपः “अनाद्यगर्भोज्येष्ठोऽपि भ्राता सद्भिर्निगद्यते। ऋते सपिण्डनात्तस्य नैव पार्वणमाचरेत्”। आद्यगर्भे तु पार्वणमेकोद्दिष्टं वेत्यर्थः। मातुस्तु हेमाद्रौ कात्यायनः “प्रत्यव्दं यो यथा कुर्य्यात् पुत्रः पित्रे सदा द्विजः। तथैव मातुः कर्त्तव्यं पार्वणं चान्यदेव वा”। यत्तु तेनैवोक्तम् “सपिण्डीकरणादूर्ध्वं पित्रोरेव हि पार्वणम्। पितृव्यभ्रातृमातृणामेकोद्दिष्टं सदैव तु” इति तत् सापत्नमातृपरम्। यत्तु वृद्धपराशरः “अपुत्रस्य पितृव्यस्य तत्पुत्रो भ्रातृजो भवेत्। स एवास्य तु कुर्वीत पिण्डदानादिकक्रियाम्। पार्वणं तेन कार्य्यं स्यात् पुत्रवद्भ्रातृजेन तु। पितृस्थाने तु त कृत्वा शेषं पूर्ववदाचरेत्” इति तत्पितृवद्देशाचारवद्व्यवस्थितमिति पृथ्वी चन्द्रः। श्राद्धदीपकलिकायां चतुर्विंशतिंवते तु “पितृव्यभ्रातृसातृणां ज्येष्ठानां पार्वणं भवेत्। एकोद्दिष्टं कनिष्ठानां दम्पत्योः पार्वणं मिथः। अपुत्रस्य पितृध्यस्य भ्रातुश्चैवाग्रजन्मनः। मातामहस्य तत्पत्न्याः श्राद्धं पार्वणवद्भवेत्” इत्युक्तं तत्पत्न्याः कर्तृत्वेऽपि पार्वणमेव “सर्वाभावे स्वयं पत्न्याः स्वभ्रातॄणाममन्त्रकम्। सपिण्डीकरणं कुर्युस्ततः पार्वणमेव च” इति लौगाक्षि स्मृतेः। “ततः पत्न्यपि कुर्वीत सापिण्ड्यं पार्वणं तथेति” सुमन्तूक्तेश्चेति निर्णयामृते उक्तम्। अन्ये त्वेतत्पाक्षिक पार्वणपरमाहुः अतएव “भर्तुः श्राद्धं तु या नारी मोहात्पार्वणमाचरेत्। न तेन तृप्यते भर्त्ता कृत्वा तु नरकं व्रजेत्” इति वचनं क्षयाहे पाक्षिकैकोद्दिष्ट प्रशंसार्थं न पार्वणनिषेधार्थमित्युक्तं त्रिस्थलीसेतौ भट्टचरणैः। स्वभर्तृप्रभृतित्रिभ्य इत्यनेन विरोधाच्च अपुत्राणामृ चाह हेमाद्रावापस्तम्वः “अपुत्रा ये मृताः केचित् स्त्रियो वा पुरुषाश्च गे। तेषामपि च देयं स्यादैकोद्दिष्टं न पार्वणम्। मित्रबन्धुसपिण्डेभ्यः स्त्रीकुमारीभ्य एव च। दद्याद्वै मासिकं श्राद्धं सांवत्सरमतोऽन्यथा”। पारिजाते तु अन्यथा पार्वणमित्युक्त्वा सर्वत्र पार्वणमित्युक्तम् एकोद्दिष्टवाक्यानि तु तीर्थमहालयपराणीत्युक्तम्। पृथ्वीचन्द्रोदये वृद्धगार्ग्यः “मातुः सहोदरा या च पितुः सहभवा च या। तयोश्च नैव कुर्वीत् पार्वणं पिण्डनादृते” प्रचेताः “सपिण्डीकरणादूर्ध्व- मेकोददिष्टं विधीयते। अपुत्राणां च सर्वेषामपत्नीनां तथैव च”। अपत्नीनां ब्रह्मचर्य्यादीनाम्। मार्कण्डेयपुराणे “प्रतिसंवत्सरं कार्यमेकोद्दिष्टं नरैः स्त्रियाः। मृताहनि यथान्यायं नृणां यद्वदिहोदितम्”। नृणामिति दृष्टान्तात् नोविप्रहतपाषण्ड्यादीनां सपिण्डनाभायेऽपि सांवत्सरमेकोद्दिष्टं कार्यमेवेति शूलपाणिः। अत्रिवृद्धवसिष्ठौ “सपिण्डीकरणादूर्ध्वं यत्र यत्र प्रदीयते। भ्रात्रे भगिन्यै पुत्राय स्वामिने मातुलाय च। पितृव्यगुरवे श्राद्धमेकोद्दिष्टं न पार्वणम्”। यत्तु जातूकर्ण्यः “पितृव्यभ्रातृमातॄणामपुत्राणां तथैव च। मातामहस्यासुतस्य श्राद्धादि पितृवद्भवेत्” इति तदावश्यकत्वार्थं न तु पार्वणार्थमिति हेमाद्रिः। युक्तन्त्वेवम् “मायः पितरमारभ्य त्रयो मातामहाः स्मृताः। तेषां तु पितृवच्छाद्धं कुर्युर्दुहितृसूनवः” इति पुलस्त्योक्तेर्मातामहस्य पार्वणमेव तत्साहचर्य्यात् पितृव्यादौ तथा “पितृव्यभ्रातृमातॄणामेकोद्दिष्टं च पार्वणमिति” क्षयाहोपक्रमे पुलस्त्योक्तेश्च विकल्पः। केचित्त्वापस्तम्बादिवाक्यानि “व्युत्क्रमाच्च प्रमीतानां नैव कायां सपिण्डता” इत्यस्य पितृव्यादिपरत्वादकृतसपिण्ड न पितृव्यादिपराणीत्याहुः। माता सपत्नीमाता। एकोद्दिष्टं तु कनिष्टपरमिति पृथ्वीचन्द्रोदयेऽप्येवम्। विशेषस्मधिकारिनिर्णये पागुक्तः। केवित्पुत्राभावेऽपि पितामहवार्षिकमप्यावश्यकम् “पुत्राभावे च तत्पुत्रः पत्नी माता तथा पिता। वित्तामानेऽपि सच्छिव्यः कुर्य्यात्तखौर्ध्वदेहिकम्” इति मार्कण्डेयपुराणादित्याहुस्तत्र “पौत्रेणैकादशाहादि कर्त्तव्यं श्राद्धषोडशमिति” कातीये विशेषोक्तेः। प्रेतपक्षे श्राद्धकालादिनिरूपणम् श्वा० बि० यथा ब्रह्मपुराणे “अश्वयुक्कृष्णपक्षे त श्राद्धं कुर्य्याद् दिनेदिने। त्रिमागहीनं पक्षं बा त्रिभावं स्वर्द्धमेव वा। न सन्ति पितरश्चेति कृत्वा मनसि यो नरः। श्राद्धं न कुरते तत्र तस्य रक्तं पिनन्ति ते। यावच्च कन्यातुलयोः क्रमादास्ते दिवाकरः। तावत् श्रद्धस्य कालः स्याच्छून्यं प्रेतपुरं तदा”। दिने दिने इति वीप्सा पक्ष श्राद्धार्था तेन पञ्चदश श्राद्धानि दर्शितानि। ननु तिथिह्रामादेकस्विन्नेव वक्षे चतुर्दशत्वादह्नां चतुर्दश श्राद्धानि प्राप्नुवन्ति। एवं तिथिवृद्याहर्वृद्धौ षोडशस्युः। न पञ्चदशतिथ्यात्मकत्वाच्चान्द्रपक्षस्य दिने दिने पन्नदशतिथिष्वित्यर्थः तथा च एकस्मिन् दिने श्रातयोग्यतिथिद्वय- स्वाभे श्राद्धद्वयम् अहोरात्रवृद्धौ न श्राद्धवृद्धिः। तथा च विष्णुधर्मोत्तरप्रथमकाण्डम् “तिथिनैकेन दिवसश्चान्द्रमानेन कीर्त्तितः। अहोरात्रेण चैकेन सावनो दिवसः स्मृतः”। त्रिभामहीनं पक्षं वा इति षष्ठ्यादिकल्प उक्तः त्रिभागमित्येकादश्यादिकल्प उक्तः अर्द्धमेवेति त्रयोदश्यादिकल्पः। न तु अर्द्धमिति पक्षार्द्धमिति व्याख्यानं कल्पतरूक्तं० युक्तम् उत्तरोत्तरलघुकालोपदेशात् सन्निधानाच्च त्रिभागार्द्धप्रतीतेः। त्रिभागहीनत्रिभागपदयोरपि पञ्चम्यादिविवेचनं कल्पतरोर्न युक्तमेव पक्षापेक्षया पञ्चम्यादेस्त्रिभागहीनादिपदार्थत्वानुपपत्तेरमुख्यत्वात्। गोतमोक्तपञ्चम्यादिकल्पस्य सामान्योपक्रमान्नाश्वयुक्परत्वम्। अतएव विष्णुधर्मोत्तरप्रथमकाण्डम् “उत्तरादयनात् श्राद्धे श्रेष्ठं स्याद्दक्षिणायनम्। चातुर्मास्यञ्च तत्रापि प्रसुप्ते केशवे हितम्। प्रौष्ठपद्याः परः पक्षस्तत्रापि च विशेमतः। पञ्चम्यूर्ध्वञ्च तत्रापि दशम्यूर्ध्वमतोऽप्यति। मघायुक्ता च तत्रापि शस्ता राजंस्त्रयोदशी”। पञ्चव्यूर्ध्वदशम्यूर्ध्वमित्यनेन षष्ठ्याद्येकादश्यादिकल्पावुक्तौ। न सन्वीत्यनेनाकरणे प्रत्यवायदर्शनं नित्यत्वज्ञापनार्थं तत्र च पक्षश्राद्धादिकल्पानां विषमशिष्टत्वेनेच्छाविकल्पाऽसम्भवादेकादेया तिस्रो देयाः षड्देया इतिवत् फलभूमा कल्पनीयः। एतेषामेव कल्पानां दर्शितत्वादाश्विने कृष्णपक्षे एकस्मिन्नपि दिने श्राद्धं कर्त्तव्यमिति पक्षश्चिन्तनीयः सामान्यमासविहितन्तु स्यादेव। अत्र संशयः प्रौष्ठपद्यूर्ध्वं यः कृष्णपक्षः स पौर्णमास्यन्तमासव्यवस्थयाऽश्वयुक्कृष्णपक्षो भवति स यदा कन्योपक्रमः कन्यासमाप्यश्च तदा तत्र पक्षश्राद्धमविवादमेय यदा सिंहोपक्रमः कन्यासमाप्यश्च समस्त एव वा सिंहसमाप्यः तदा कीदृशः शास्त्रार्थः। अत्र स्विकनप्रभृतयः ब्रह्मपुराणादिवचनैरेवात्र व्यवस्यां द्रष्टव्यामाहुः। यथा ब्रह्मपुराणम् “यावच्च कन्यातुलयोः क्रसादास्ते दिवाकरः। तावत् श्राद्धस्य कालः स्यात् शून्यं प्रेतपुरं तदा”। तथा भविष्यपुराणे “कन्यां गते सवितरि पितृराजानुशासनात्। तावत् प्रेतपुरी शून्या यावद्वृश्चिकदर्शनम्। ततो वृश्चिक आधाते निराशाः पितरो नृप!। पुनः स्वभवनं यान्ति शापं दत्त्वा सुदारुणम्। हंसे वर्षासु कन्यास्थे शाकेनापि मृहे वसन्। पञ्चम्या उत्तरे दद्यादुभयोर्वंशयोरृणम्। सूर्ये कन्यास्थिते श्राद्धं यो न कुर्य्याद्गृहाश्रमी। कुतस्तस्म धनं पुत्राः पितृनिःश्वासपीडनात्”। हंसे सूर्य्ये इति। ऋणमिव ऋणं पितृमातृकुलस्येदमवश्यं परिशोध्यम् इत्यर्थः एवमादिवचनैः कन्यासम्बन्धेनैव श्राद्धप्रतिपादनात् एतस्यापि वचनस्य तदेकवाक्यतया सौराश्विनपरत्वम्। सौरपरत्वे लक्षणा स्यादिति चेन्न पौर्णमास्यन्तेऽपि तथात्वात्। अतः सिंहोपक्रमे कृष्णपक्षे कन्यासम्बन्धिन्येव भागे श्राद्धं स्यात् न सिंहसम्बन्धिनि अत पक्षश्राद्धं तत्र निवर्त्तत एव त्रिभागहीनमित्यादयः पक्षास्तत्र यथासम्भवं योजनीयाः। कन्यासम्बन्धिन्यपरपक्षे श्राद्धविधानात् उपक्रमे सिंहसम्बन्धेऽपि पक्षस्य कन्यासम्बन्धोऽस्त्येवेति चेन्न एकस्य पक्षावयविनः पञ्चदशतिथ्यात्मकस्याभावात् अत एव पञ्चदशब्राह्मणसमुदायमध्ये एकस्य पुरुषोत्तमस्पर्शे न सर्वेषां पुण्यभागिता एतन्मूलमे वेदं वचनं “कृत्तिकादिभरण्यन्तं वारा वा रविसप्तकाः। नैते संयोगमात्रेण पुनन्ति सकलां तिथिम्”। एकस्य तिथ्यवयविनोऽभावादित्यर्थः इतरथा तु पूर्वदिने रात्रौ चतुर्थीमौमवारयोगे बुधवारेऽपि भौमयुक्तचतुर्थी विहितस्नानदानाद्यापत्तेः। यदा समस्त एवापरपक्षः सिंहार्के निपतेत् तदा तं पक्षं विहाय कन्यागतापरपक्ष एव श्राद्धम्। नन्वेवं पञ्चमपक्षविरोधः। तथा कार्ष्णाजिनिः “शक्रध्वजनिपाताङ्को यः स्यात् पक्षस्तु पञ्चमः। स विज्ञेयोऽपरः पक्षः श्राद्धं तत्र विधीयते। पुत्रमायुर्धनं धान्यं भूतिमारोग्यमेव च। प्राप्नोति पञ्चमे दत्त्वा श्राद्धं कामांस्तथा परान्। एतानेव हि हिंसन्ति पञ्चमं यो व्यतिक्रमेत्। तस्मान्नातिक्रमेद् विद्वान् पञ्चमे पैवृकं विधिम्”। तथा जातूकर्ण्यः “आषाढीमवधिं कृत्वा यः स्यात् पक्षस्तु पञ्चमः। तत्र श्राद्धं प्रकुर्वीत कन्यां गच्छतु वा न वा”। जावालः “अगतेऽपि रवौ कन्यां श्राद्धं कुर्वीत यत्नतः। आषाद्याः पञ्चमः पक्षः प्रशस्तः पिवृकर्मणि”। उच्यते एतेषां वचनानां भोजदेवप्रभृतिभिरलिस्यितत्वेन प्रामाण्याभावात् प्रत्युत पुत्रादिफलसम्बन्धावगमात् काम्यं तद्भविष्यति। कन्यागतस्य च निन्यत्वं प्रागेव दर्शितम्। न च काम्याधिकारनित्याधिकारयोरेकशास्त्रार्थत्वं यावज्जीवाधिकरणविरोधात्। तद्यदि फलार्थितथा कन्यासम्बन्धरहित एव श्राद्धं कृतं तथापि कन्यायामवश्यं कर्त्तव्यम्। वस्तुतस्तु श्राद्धभेदे विधिगौरवापत्तेः कन्यागतश्राय एव फलार्थितया पञ्चमपक्षाख्यगुणफनविधिः तदा केवलं भ्रमपक्षे श्राद्ध- मसङ्गतमेव “कन्यां गच्छतु वा नवेति” पञ्चमपक्षस्तुत्यर्थं न तु कन्यासम्बन्धाभावेऽपि श्राद्धविधानपरं प्राप्ते कन्यागतश्राद्धे गुणफलविधित्वात् तदसङ्गतं ब्रह्मपुराणे “पौर्णमास्यन्तमासेनैव समस्ततिथिकृत्याभिधानात् अश्वयुक् शब्दस्यापि पौर्णमास्यान्तपरत्वात् न सौराश्विनपरत्वम् “आश्वयुज्यां तु कृष्णायां त्रयोदश्यां मघासु च” इति ब्रह्मपुराण एव अश्वयुक्शब्दस्यापि पौर्णमास्यन्तपरत्वावधारणाच्च पौर्णमास्यन्ताश्विन एव मघा त्रयोदशी भवति न दर्शान्ते, लक्षणा च सौरेऽप्यविशिष्टा। अतएव न मुख्यत्वाय दर्शान्तपरतापि क्लप्ततात्पर्य्यानुपपत्त्या लक्षणायां धान्यमस्यधिकरणे दर्शितत्वात्। इदन्तु उच्यते उक्तयुक्तेः पौर्णमास्यान्ताश्विनपरत्वे कन्यानिरपेक्षपञ्चमपक्षे पक्षश्राद्धादिकल्पा नित्यतयाऽवगम्यन्ते न कन्याविशिष्टा निरपेक्षश्रुतेः अत एव न गुणफलविधिः। अत एव कन्यासम्बन्धानुद्भेदेनैव प्रौष्ठपद्यूर्ध्वं पञ्चमपक्षे कृष्णपक्षश्राद्धादिकं दर्शयति विष्णुधर्मोत्तरप्रथमकाण्डम् “उत्तरादयनात् श्राद्धे श्रेष्ठं स्यात् दक्षिणायनम्। चातुर्मास्यञ्च तत्रापि प्रसुप्ते केशवे हितम्। प्रौष्ठपद्याः परः पक्षस्तत्रापि च विशेषतः। पञ्चम्यूर्द्धञ्च तत्रापि दशम्यूर्ध्वमतोऽप्यति। मघा युक्ता च तत्रापि शस्ता राजंस्त्रयोदशी। तत्राक्षयं भवेत् श्राद्धं मधुना पायसेन तु। सर्वस्वेनावि कर्त्तव्यं श्राद्धमत्र नराधिप!। परान्नभोजी त्वपचः श्राद्धमत्र तु कारयेत्”। यानि च कन्याविषयाणि वचनानि तानि पञ्चमपक्षानपेक्षश्राद्धान्तरविधायकान्येव। कन्या प्रौष्ठपद्यूर्द्ध्वपञ्चमपक्षसमुच्चयेऽपि कन्थागतस्यापि श्राद्धस्य नित्यत्वेनावगम्यमानस्य तन्त्रादेव सिद्धेर्न पृथक्करणम्। यदा न कन्यासमुच्चयस्तदा कन्यायामपि नित्यत्वात् कर्त्त व्यमेव परन्तु पक्षश्राद्धादिकल्पेषु प्राभाणाभावात् सकृत्कृते कृतः शास्त्रार्थ इति न्यायात् सकृदेव श्राद्धं कर्त्तव्यम् न अधिमासपाते तत्र श्राद्धं न कर्त्तव्य यथा लघुहारीतः “सपिण्डीकरणादूर्द्ध्वं यत्किञ्चित् श्राद्धिकं भवेत्। इष्टं वाप्यथ वा पूर्त्तं तन्न कुर्य्यान्मलिम्लुचे”। एवमधिमासदोषेणापाटवादिना च तत्र श्राद्धाकरणे तुलायां कर्त्तव्यतामाहं ब्रह्मपुराणे “यावच्च कन्यातुलयोः कमादास्ते दिवाकरः। तावत् श्राद्धस्य कालः स्यात् शून्यं प्रेतपुरं तदा”। अत्र कन्यातुलयोर्दिवाकरावस्थितेः क्रमादेव प्राप्तत्वात् क्रमात् श्राद्धस्य कालः स्वादित्यम्बयः मुख्यकल्पामुकल्पभावेनेत्यर्थः। यस्य या मृततिथिस्तस्य प्रेतपक्षे तत्सजातीयतिथिः पौर्णमासीमृतस्य तु प्रौष्ठपद्येव पार्वणश्राद्धकालः इति हेमाद्रिप्रभृतिव्यवस्थेति पाश्चात्त्यदक्षिणात्यानां तथाचारः। प्रा० वि० तन्मूलव बनानाममूलकत्वमुक्तमतोवङ्गानां न तथाचार इति बोध्यम्। अधिकमपरपक्षशब्दे २३१ पृ० दृश्यम्।

प्रेतपटह = प्रेतस्य प्रेतत्वसूचकः पटहः। मरणकालवादनीये वाद्यभेदे त्रिका०।

प्रेतपति = पु० ६ त०। यमराजे

प्रेतपर्वत = पु० प्रेतोद्धारणार्थः पर्वतः। गयातीर्थस्थे स्वनामख्याते पर्वते वायुपु० गयाप्र०।

प्रेतपिण्ड = पु० प्रेताय देयः पिण्डः। पूरकपिण्डे तस्य प्रेतस्य पिण्डरूपदेहविशेषपूरकत्वात् पूरकसंज्ञा यथोक्तं ब्रह्मपु० “शिरस्त्वाद्येन पिण्डेन प्रेतस्य क्रियते सदा। द्वितीयेन तु कर्णाक्षिनासिकास्तु समासतः। गलांसभुजवक्षांसि तृतीयेन तथा क्रमात्। चतुर्थेन तु पिण्डेन नाभिलिङ्गगुदानि च। जानुजङ्घे तथा पादौ प्रञ्चमेन तु सर्वदा। सर्वमर्माणि षष्ठेन सप्तमेन तु नाडयः। दन्तलोमाद्यष्टमेन वीर्य्यं च नवमेन तु। दशमेन तु पूर्णत्वं तृप्तता क्षुद्विपर्य्ययः”।

प्रेतपुर = पु० ६ त०। यमालये “शून्यं प्रेतपुरं भवेत्” ब्रह्मपु०

प्रेतमेध = पु० ६ त०। पित्र्युदेश्यके श्राद्धरूपे यज्ञे।

प्रेतराक्षसी = स्त्री प्रेतस्य भूतभेदस्य राक्षसीव दूरतोऽपसर्पणकारित्वात्। तुलस्यां रत्नमाला।

प्रेतराज = पु० ६ त० टच्समा०। यमे तस्य मृतस्य शुभाशुभफलविभजनेन शासनात् तथात्वम्।

प्रेतलोक = पु० ६ त०। यमलोके “प्रेतलोकं परित्यज्य आगता ये महालये” उल्कादानमन्त्रः।

प्रेतवन = न० प्रेतानां मृतानां वनमिवाधारत्वात्। श्मशाने हेमच०। प्रेतकाननादयोऽप्यत्र।

प्रेतवाहित = त्रि० ३ त०। भूताविष्टे त्रिका०।

प्रेतशिला = स्त्री गयातीर्थस्थे प्रेतोद्धारणार्थे गुञ्जपृष्ठपर्वतादिस्थे शिलाभेदेवायुपु० गयाप्र०। गरुडपु० ८५ अ० तन्माहात्म्यादि यथा “येयं प्रेतशिला ख्याता गयायां सा त्रिधा स्थिता। प्रभासे प्रेतकुण्डे च गयासुरशिरस्यपि। धर्मेण धारिता भूत्यै सर्वदेवमयी शिला। प्रेतत्वं ये गता नृणां पित्राद्या बान्धवादयः। तेषामुद्धरणार्थाय यतः प्रेतः शिला ततः। अतोऽत्र मुन्यो भूपा राजपात्रादयः सदा। तन्यां शिकायां श्राद्धादिकर्त्तारो ब्रह्मलोकगाः। गयासुरस्य यन्मुण्डं तस्य वृष्ठे शिला यतः। मुण्डपृष्ठो गिरिस्तस्मात् सर्वदेवमयो ह्ययम्। मुण्डपृष्ठस्य पादेषु यतो ब्रह्मसरोमुखाः। अरविन्दवनन्तेषु तेन चैवोपलक्षितः। अरविन्दगिरिर्नाम क्रौञ्चपादाङ्कितो यतः। तस्माद्गिरिः क्रौञ्चपादः पितॄणां ब्रह्मलोकदः। गदाधरादयो देवा आद्या आदौ व्यवस्थिताः। शिलारूपेण च व्यक्तास्तस्माद्देवमयी शिला। गयाशिरश्छादयित्वा गुरुत्वादास्थिता शिला। स्नात्वा प्रेतशिलादौ तु चरणाम्बुसृतेन च। पिण्डं दद्यादिमैर्मन्त्रैरावाह्य च पितॄन् परान्”।

प्रेतशुद्धि = स्त्री प्रेते सति कालविशेषे शुद्धिः। विप्रादीनां भृतानां मरणनिमित्तकाशौचापगमे शुद्धौ “प्रेतशुद्धिं प्रवक्ष्यामि” मनुनोपक्रम्याशौधरूपतद्विरोधिनो दर्शनेन तदपगमे शुद्धिः प्रतिपादिता।

प्रेतशौच = न० प्रेते सति शौचम् ६ त०। प्रेते सति तन्निमित्ताशौचापगमे १ शौचे २ प्रेतसंस्कारभेदे च तत्प्रकारः गरुडपु० १०६ अ० उक्तो यथा “प्रेतशौचं प्रवक्ष्यामि तच्छृणुध्वं यतव्रताः!। ऊनद्विवर्षं निखनेन्न कुर्य्यादुदकन्ततः। आश्मशानादनुव्रज्य इतरो ज्ञातिभिर्मृतः। यमसूक्तं तथा जप्यं जपद्भिर्लौकिकाग्निना। स दग्धव्य उपेतश्चेदाहिताग्न्यावृतार्थवत्। सप्तमाद्दशमाद्वापि ज्ञातयो ह्युपयन्त्यपः। अप नः शोशुचदवमनेन पितृदिङ्मुखाः। एवं मातामहाचार्य्यप्रेतानाञ्चोदकक्रियाः। कामोदकाः सखिपुत्रस्वस्रीयश्वशुरर्त्विजः। नामगोत्रेण ह्युदकं सकृत् सिञ्चन्ति वाग्यताः। पाषण्डपतितस्तेभा न कुर्युरुदकक्रियाम्। न ब्रह्मचारिणो व्रात्या योषितः कामगास्तथा। सुरापास्त्वात्मघातिनो नाशौचोदकभाजनाः। अतो न रोदितव्यं हि त्वनित्या जीवसंसृतिः। क्रिया कार्य्या यथाशक्ति ततो गच्छेद् गृहान् प्रति। विदश्य निम्बपत्राणि नियता द्वारि वेश्मनः। आचम्याथाग्निमुदकं गोमयं गौरसर्षपान्। प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः। प्रवेशनादिकं कर्म प्रेतसंस्पर्शिनांमपि। ईक्षतां तत्क्षणाच्छुद्धिः परेषां स्नानसंयमात्। क्रीतलब्धाशना भूमौ स्वपेयुस्ते पृथक् पृथक्। पिण्डयज्ञावृता देयं प्रेतायान्नं दिनत्रयम्। जलमेकाहमाकाशे स्थाप्यं क्षीरञ्च मृण्मये। वैतानोपासनाः कार्य्याः क्रियाश्च श्रुतिषोदिताः”।

प्रेतश्राद्ध = न० प्रेतोद्देश्यकं श्राद्धम्। प्रेतोद्देश्यके आद्यश्राद्धादिसपिण्डीकरणान्तश्राद्धे तस्य गौणकालादि ति० त० उक्तम् यथा “मासेऽन्यस्मिन् तिथौ तस्मिन् तदा दद्याद्विचक्षणः”। तथा श्रा० त० दर्शितं यथा “षोडशश्राद्धानां यत्पतितं कृष्णैकादश्यां तत्कर्त्तव्यम्। तथा च लघुहारीतः “श्राद्धविघ्ने समुत्पन्ने मृताहाऽविदिते तथा। एकादश्यां प्रकुर्वीत कृष्णपक्षे विशेषतः”। विशेषत इत्यमावस्यापेक्षया तस्यामपि विघ्नादौ विधानात्। यथा हेमाद्रिधृतं षट्त्रिंशन्मतम् “मासिके चाव्दिके त्वह्नि संप्राप्ते मृतसूतके। वदन्ति शुद्धौ तत्कार्यं दर्शे चापि विचक्षणैः”। राजमार्त्तण्डे “श्राद्धविघ्ने समुत्पन्ने अन्तरा मृतसूतके। एकादश्यां प्रकुर्वीत कृष्णपक्षे विशे षतः। श्राद्धविघ्ने समुत्पन्ने मृतस्याबिदिते तथा। अमावस्यां प्रकुर्वीत वदन्त्येके मनीषिणः”। अत्र मृतसूतकोपदानात् ऋष्यशृङ्गवचनेऽशौचपदमेतत्परम्। यत्त्वन्तरा मृतसूतकेऽप्येकादश्यां श्राद्धविधानं तत् “देये पितृणां श्राद्धे तु अशौचं जायते यदि। तदशौचे व्यतीते तु तेषां श्राद्धं विधीयते। शुचीभूतेन दातव्यं या तिथिः प्रतिपद्यते। सा तिथिस्तस्य कर्त्तव्या नत्वन्या वै कदाचन” इति ऋस्यशृङ्गवचन विरोधात् अशौचान्तदिने मलमासादिरूपविघ्नान्तरेण तदकरणे। अतएव श्राद्धविवेके अपाटवाद्यशौचाभ्यामपि पतितमेकोद्दिष्टमेकादश्यामशौचान्ते च मलमासे न कर्त्तव्यं किन्तु मलमासाव्याप्रकृष्णैकादश्यामेवेत्युक्तम्”।

प्रेति = पु० प्रकर्षेण इतिर्गमनं देहेऽस्य। १ अन्ने यजु० १५। ६ वेददी०। प्र + इ–भावे क्तिन्। २ मरणे स्त्री ऋ० १। ३३। ४ भा

प्रेतीषणि = त्रि० प्राप्तगमने ऋ० ६। १। ८

प्रेत्य = अव्य० प्र + इ–ल्यप्। १ लोकान्तरे अमरः “प्रेत्य संज्ञा नास्ति” श्रुतिः। २ मृत्वेत्यर्थे प्रकर्षेण देहत्यागेन अन्यदेहं गत्वेन्यर्थे च। प्रेत्यजातिः प्रेत्यभावः।

प्रेत्यजाति = स्त्री प्रेत्य मृत्वा जातिर्जन्म। मृत्वा जन्मनि।

प्रेत्यभाव = पु० प्रेत्य मृत्वा भावः। मरणोत्तरं पुनर्जन्मनि। “पुनरुत्पत्तिः प्रेत्यभावः” गौ० सू० १। १। १९ “उत्पन्नस्य क्वचित् सत्त्वनिकाये मृत्वा या पुनरुत्पत्तिः स प्रेत्यभावः। उत्पन्नस्य सम्बद्धस्य सम्बन्धस्तु देहेन्द्रियमनोबुद्धिवेदनाभिः पुनरुत्पत्तिः पुनर्देहादिभिः सम्बन्धः पुनरित्यभावाभिधानम् यत्र क्वचित् प्राणभृन्निकाये वर्त्तमानः पूर्वोपात्तान् देहादीन् जहाति तत् प्रैति यत् ततोऽन्यत्र देहादीनन्यानुपादत्ते तद्भवति प्रेत्यभावो मृत्वा पुनर्जन्म सोऽयं जन्ममरणप्रबन्धाभ्यासोऽनादिरपवर्गान्तः प्रेव्यभावो वेदितव्य इति” वात्स्या०। प्रवाहरूपेणानादिसम्बन्धः संसारः प्रेत्यभावः यथोक्तं कणा० सू० उप० वृ० “इच्छाद्वेषपूर्विका धर्माधर्मप्रवृत्तिः” “तत्संयोगो विभागः” सू० “इदानीं धर्माधर्मयोः प्रयोजनं प्रेत्यभावमाह। ताभ्यां धर्माधर्माभ्यां संयोगोजन्म अपूर्वाभिः शरीरेन्द्रियवेदनाभिः सम्बन्धः संयोग इहोच्यते विभागस्तु शरीरमनोविभागो मरणम् तथा चायं जन्ममरणप्रबन्धः संसारः प्रेत्यभावापरनामा धर्माधर्माभ्यामित्यर्थः अस्यैव च प्रेत्यभावस्याजरञ्जरीभाव इति वैदिकी संज्ञा”। “जातस्य च ध्रुवोमृत्युध्रुवं जन्म मृतस च” गीतायां च जन्ममरणप्रवाहस्य ध्रुवत्वमुक्तम्।

प्रेत्वन् = पु० प्र + इ–क्वनिप्। १ इन्द्रे २ वाते मेदि०।

प्रेमन् = पु० न० प्रियस्य भाव इमनिच् प्रादेशः एकाच्कत्वात् न टिलोपः। १ सौहार्दे २ स्नेहे ३ हर्षे मेदि० (वायौ इन्द्रे) शब्दस्तोमोक्तिः प्रामादिकी। “यद्भावबन्धनं यूनोः स प्रेमा परिकीर्त्तिता” उज्ज्वलमण्युक्ते ४ भावबन्धभेदे पु०

प्रेमपातन = न० प्रेम्णा स्नेहेन पातनं यस्य। १ नेत्रलने २ तदुपलक्षिते लोचने शब्दच०।

प्रेमबन्ध = पु० ६ त०। गाढानुरागे।

प्रेमभक्ति = स्त्री प्रेम्णा भक्तिः। श्रीकृष्णे प्रेम्णा स्नेहेन भक्तौ तल्लक्षणं नारदपञ्चरात्रे उक्तं यथा “अनन्यममता बिष्णौ ममता प्रेमसप्लुता। भक्तिरित्युच्यते मीष्मप्रह्लादोद्धवनारदैरिति”। प्रेमभक्तेश्च माहात्म्यं भक्तेर्माहात्म्यतः परम्। सिद्धमेव यतो भक्तेः फलं प्रेमैव निश्चितम्”। तच्चिह्नानि भाग० ७ स्क० उक्तानि यथा “निशम्य कर्माणि गुणानतुल्यान् वीर्य्याणि लीलातनुभिः कृतानि। यदाऽतिहर्षोत्पुलकाश्रुगद्गदं प्रोत्कण्ठ उद्गायति नृत्यते च। यदा ग्रहग्रस्त इव क्वचिच्च हसति क्रन्दते ध्यायति वन्दते जनः। मुहुः श्वसन् वक्ति हरे! जगत्पते! नारायणेत्यात्ममतिर्गतत्रपः। तदा पुमान् मुक्तसमस्तबन्धनस्तद्भावभावानुशयाकृताकृतिः। निर्दग्धवीजानुशयो महीयसा भक्तिप्रयोगेण समेत्यधोक्षजम्”।

प्रेमिन् = त्रि० प्रेमास्त्यस्य ब्रीह्या० इनि टिलोपः। प्रेमयुते

प्रेयस् = त्रि० अतिशयेन प्रियः प्रिय + ईयसुन् प्रादेशः एका च्कत्वात् न टिलोपः। प्रियतमे स्त्रियां ङीप् “प्रेयस्यपि प्रोक्तिता” प्रबोधण०। १ पत्यौ पु० २ भार्य्यायां स्त्री हेम०।

प्रेरक = त्रि० प्र + ईर–ण्वुल्। प्रयोजके प्रवृत्त्यनुकूलव्यापारसाधके।

प्रेरण = न० प्र + ईर–णिच्–ल्युट्। प्रेषणे निकृष्टस्य भृत्यादेः कार्य्यादौ नियोगे। णिच्–युच्। प्रेरणाप्यत्र स्त्री।

प्रेर्त्वन् = पु० प्र + ईर–बनिप् तुट् च। १ सागरे २ नद्यां स्त्री ङीप् वनोर च। प्रेर्तृरी उज्ज्वलद०।

प्रेष = गतौ भ्वा० पर० सक० सेट्। प्रेषति अप्रेषीत्। ऋदित् चङि न ह्रस्वः। अपिप्रेषत् त।

प्रे(प्रै)ष = पु० प्र + इष–घञ् वृद्धिः ईष–वा घञ् गुणः। १ प्रेषणे २ पीडने च लटा०।

प्रेषण = न० प्र + इष–ल्युट्। प्रेरणे नियोगे। णिच्–युच्। प्रेषणाऽप्यत्र स्त्री। प्रेषणेन जीवति वेतना० ठक्। प्रैषणिक तदुपजीविनि त्रि०। प्रेषणं नित्यमर्हति छेदा० ठक्। प्रैषणिक नित्यप्रेषणार्हे त्रि०।

प्रेष्ठ = त्रि० अतिशयेन प्रियः प्रिय + इष्टन् प्रादेशः एकाच्कत्वात् न टिलोपः। १ प्रियतमे अमरः। स्त्रियां टाप्। सा च २ प्रियतमायां ३ जङ्घायाञ्च शब्दच०।

प्रे(प्रै)ष्य = त्रि० प्र + इष–कर्मणि ण्यत् वृद्धिः ईष–वा ण्यत् गुणः। १ प्रेरणीये नियोज्ये २ दामे अमरः। भावे यत्। ३ प्रेरणे न० तत्करोति कृ–ट। प्रेष्यकर नियोगकारके “यन्तुः षुएष्यकराहयः” भा० द्रो० २३ अ०।

प्रेहिकटा = स्त्री प्रेहि कट इत्युच्यते यस्यां क्रियायाम् मयू० स०। कटसम्बाधनक प्रगमनार्थक्रियानियोगे।

प्रेहिकर्दमा = स्त्री प्रेहिकर्दम इत्युच्यते यस्यां क्रियायाम् मयु० स०। कर्दमसम्बोधनकप्रगमननियोगे। एवं प्रेहिद्वितीया प्रेहिबाणिजा एतावपि शब्दौ मयू० समा०। द्वितयवाणिजसम्बोधनकप्रगमननियोगक्रिययोः।

प्रैय = न० प्रियस्य भावः पृथ्वा० इमनिचोऽभावे अण्। प्रियत्वे स्नेहे

प्रैयव्रत = त्रि० प्रियव्रतस्येदम् अण्। प्रियव्रतसम्बन्धिनि वैवस्वतमनोः पुत्रभेदे अपत्ये तु इञ् प्रैयव्रति तत्रार्थे पु०

प्रैष = पु० प्र + इष घञ् वा पररूपाभावः। १ क्लेशे २ मर्दने ३ उन्मादे ४ प्रेरणे च मेदि०।

प्रोक्त = न० प्र + वच–गौणे कर्मण, तस्याविवक्षायां मुख्ये वा कर्मणि क्त। १ कथिते यं प्रति किञ्चित् वस्तु कथ्यते तस्मिन् २ वचेर्न्मुह्यकर्मणि पदार्थे च।

प्रोक्षण्ण = न० प्र + उक्ष–भावे ल्युट्। १ यज्ञार्थे पशुहनने अमरः। २ बधे ३ सेचने च मेदि०। ४ उत्तानहस्तेन जलादेः सेचने अभ्युक्षणशब्दे ३१३ पृ० दृश्यम्। प्रो- क्ष्यतेऽनया करणे ल्युट् ङीप्। ५ प्रोक्षणसाधनेषु अप्सु। स्त्री “असञ्चरे प्रोक्षणीर्निधाय” कात्या० श्रौ० २। ३४० “याभिरद्भिर्हविषः पुरोडासानाञ्च प्रोक्षणं कृतं ताः प्रोक्षण्यः” कर्कः। उपचारात् ७ तदारपात्र्याञ्च स्त्री।

प्रोक्षित = त्रि० प्र + उक्ष–कर्मणि क्त। १ सिक्ते २ निहते मेदि० यज्ञार्थं संस्कृते ३ पश्वादौ च “भक्षयेत् प्रोक्षितं मांसम्” इति स्मृतिः “आरण्याः सर्वदैवत्याः प्रोक्षितः सर्वशो मृगाः। अगस्त्येन पुरा राजन्! मृगया येन पूज्यते” ति० त०।

प्रोज्जासन = न० प्र + उद् + जस–णिच्–ल्युट्। मारणे हेमच०

प्रोञ्छन = न० प्र + उञ्छ–ल्युट्। मार्जने (षो~छा)।

प्रोज्झित = त्रि० प्र + उज्झ–कर्मणिक्त। प्रकर्षेण त्यक्ते “धर्मः प्रोज्झितकैतवोऽत्र” भाग० १। १। ३ श्लो० “तत्र प्रशब्देन मोक्षाभिसन्धिरपि निरासितः” श्रीधरः।

प्रो(प्रौ)ढ = त्रि० प्र + वह–क्त वा वृद्धिः। १ वृद्धे अमरः २ प्रगल्भे हेमच० ३ निपुणे राजनि०। ४ प्रकर्षेण ऊढे च। स्त्रियां टाप्। सा च ५ नायिकाभेदे नायिकाशब्दे ४०४२ पृ० दृश्यम्। “त्रिंशद्वर्षादूर्ध्वं पञ्च पञ्चाशद्वर्षपर्यन्तं प्रौढावस्था यथा “आ षोढशात् भवेद्वाला तरुणी त्रिंशता मता। पञ्चपञ्चाशता प्रौढा भवेद्वृद्धा ततःपरम्”। अस्या वश्यत्वकारणं यथा “अलङ्कारादिभिर्बाला तरुणी रतियोगतः। प्रेमदानादिभिः प्रौढा वृद्धा च दृदताडनात्”। तस्या रमणे दोषो यथा “बाला तु प्राणदा प्रोक्ता तरुणी प्राणहारिणी। प्रौढा करोति वृद्धत्वं वृद्धा मरणदा भवेद्” रतिम०। चत्वारिंशद्वर्णयुक्ते ६ मन्त्रे “षोडशार्णो युवा प्रौढश्चत्वारिंशल्लिपिर्मनुः” तन्त्रसा०। “अर्थवद् ग्रहणेनार्थकस्येति” परिभाषया ऊढेः पृथग्ग्रहणाद्वा क्त वति न वृद्धिः किन्तु यथाह तत्र प्रोढवान् इत्येव।

प्रो(प्रौ)ढपाद = त्रि० प्रौढः पादो यस्य। आसनारोपितपादादिके “आसनारूढपादस्तु जानुनीर्जङ्घयोस्तथा। कृताव सक्थिको यस्तु प्रौढपादः स उच्यते। स्नानमाचमनं होमं भोजनं देवतर्चनम्। प्रौढपादो न कुर्वीत स्वाध्यायं पितृतर्पणम्” इति छन्दोगप०। “अनेकवाह्ये दारुशिले भूमिसमे इष्टकाश्च संकीर्णीभूता” इति बौधायनवचनात्तथाविधे आरूढपादोऽपि न कुर्य्यात्” आ० त०।

प्रो(प्रौ)ढि = स्त्री प्र + वह–क्तिन् वा वृद्धिः। १ सामर्थ्ये २ सामर्थ्यं हेतुके क्रियासु योग्यताध्यवसाये ३ हठोक्तौ च प्रोढिवादः।

प्रोण्ट = पु० प्र + अठि–गतौ अच् पृषो०। पतद्गृहे हारा०।

प्रोत = त्रि० प्र + वे–स्यूतौ क्त सम्प्रसारणम्। १ प्रकर्षेण स्यूते २ ग्रथिते वस्त्रे न० जटा०। भावे क्त। ३ सीवने न०।

प्रोतोत्सादन = न० प्रोतं सद् उत्सादयति उत् + सादिल्यु। १ वस्त्रकुट्टिमे ३ छत्रे च त्रिका०।

प्रोत्फल = पु० प्रकर्षेण उत्फलति प्र + उद्–फल–अच्। सिंहलाङ्गूलाकारपुष्पवति वृक्षभेदे शब्दमाला।

प्रोत्फुल्ल = त्रि० प्र + उत् + फुल्ल–विकाशे अच्। विकसिते।

प्रोत्साहन = न० प्रकर्षेण उत्साहनम्। प्रवृत्तस्य कर्त्तव्ये कर्मणि १ प्रकर्षेण यत्नसम्पादने सा० द० उक्ते २ नाट्यालङ्कारभेदे। प्रोत्साहनञ्च इत्यादिना तान्युद्दिश्य “प्रोत्साहनं स्यादुत्साहगिरा कर्मणि योजनम्” इति लक्षितम्। यथा “कालरात्रिकरालेयं स्त्रीति किं विचितित् ससि। तज्जगत्त्रितयं त्रातुं तात! ताडय ताडकाम्”।

प्रोथ = परिपूर्णतायाम् सामर्थ्ये च भ्वा० उभ० अक० मेट्। प्रोथति ते अप्रोथीत् अप्रोथिष्ट पुप्रोथ थे। ऋदित् चङि न ह्रस्वः। अपुप्रोथत् त।

प्रोथ = पु० न० प्रु + थक्। १ प्रस्थिते “वृक्षान्तसुदकान्तञ्च प्रियं प्रोथमनुव्रजेत्”। २ अश्वनासिकायाम् अमरः। ३ कट्यां पु० मेदि० ४ शाटके पु० त्रिका०। ५ स्त्रीगर्भे पु० विश्वः ६ गर्त्ते ७ भीषणे ८ स्फिग्देशे ९ अश्वमुखे च संक्षिप्तसारः १० पथिके त्रि० ११ प्रथिते त्रि० त्रिका० १२ स्थापिते त्रि० सि० कौ०।

प्रोथथ = पु० प्रोथ–बा० अथ। मुखशब्दे ऋ० १०। ९४। ६ भा०।

प्रोष = पु० प्रुष–दाहे भावे थञ्। सन्तापे राजनि०।

प्रोषक = पु० देशभेदे भा० भी० ९ अ०।

प्रोषित = त्रि० प्र + वस–क्त इट्। प्रवासं गते विदेशं गते। “आर्त्तार्त्ते मुदिता हृष्टे प्रोषिते मलिना कृशा” काशीख० पतिब्रतालक्षणम्।

प्रोषितभर्तृका = स्त्री प्रोषितः भर्त्ता यस्या कप्। यस्याः पतिः विदेशं गतस्तस्यां स्त्रियाम् “नानाकार्य्यावशाद् यस्यादूरदेशं गतः पतिः। सा मनोभवदुःखार्त्ता भवेत् प्रोषितभर्तृका” सा० द०।

प्रो(प्रौ)ष्ठ = पु० प्रकृष्ट सोष्ठाऽस्य वा वृद्धिः। (पु~टि) मत्स्यभेदे रायमुकुटः। स्त्रियां ङीष्। २ देशभेदे भा० भी० ९ अ०। ३ गयि च पुंस्त्री० सि० सौ०। प्रोष्ठपदशब्दे दृश्यम्।

प्रो(प्रौ)ष्ठपदा = स्त्री प्रो(प्रौ)ष्ठो गौस्तस्येव पदं यस्याः। नक्षत्रविशेषे। तद्युक्ता पौर्णमासी अण् सा यत्र मासे पुनरण् वा न दद्विः। १ चान्द्रभाद्रमासे अमरः। प्रोष्ठ- पदासु जातः अण् उत्तरपदवृद्धिः। प्रोष्ठपाद तज्जे ३ माणवके। “जे प्रोष्ठपदानाम्” पा० उक्तेः भवादौ नोत्तरपदवृद्धिः प्रौष्ठपद इत्येव। २ अश्विन्यादिषु पञ्चविंशषड्विंशनक्षत्रयोः स्त्री ब० व० पूर्वोत्तरभाद्रपदयोः प्रत्येकं द्वित्वेन चतुष्कत्वात् बहुत्वम्। प्रोष्ठपदाभिर्युक्ता पौर्णमासी अण्। प्रौष्ठपदी चान्द्र३ भाद्रपौर्णमास्यां स्त्री ङीप् “प्रौष्ठपद्यामतीतायाम्”। प्रेतशब्दे दृश्यम्।

प्रोष्य = अव्य० प्र + वस–ल्यप्। विदेशं गत्वेत्यर्थे तस्य पापीयसा सह मयू० समा० प्रोष्यपापीयस्। विदेशं गत्वा पापवत्तरे त्रि० स्त्रियां ङीप्। “राघवः प्रोष्यपापीयान्” भट्टिः

प्रो(प्रौ)ह = पु० प्र + वह–क वा वृद्धिः। प्रकृष्टवाहके

प्रोहकरटा = पु० प्रोह करट इत्युच्यते यस्यां क्रियायाम् मयूर० समा०। करटंसम्बोधनकप्रकृष्टोहार्थनिदेशक्रियायाम्। एवं प्रोहकर्दमा इत्यपि तत्र पाठान्तरे कर्दमसम्प्रदानकोहनिदेशक्रियायाम्।

प्रोह्यपदि = अव्य० प्रोह्यौ पादौ यत्र प्रहरणे द्विदण्ड्या० स० इच् समा० पद्भावः। प्रकर्षेण द्वाभ्यां पादाभ्यां प्रहरणे

प्रौढमनोरमा = प्रौढानां प्रगल्भानां मनोरमयति रम० णिच् अच्। भट्टोजिदीक्षितकृतायाम् सिद्धान्तकौमुदीव्याख्यायाम्।

प्रौण = त्रि० प्र + ओणृ–अपसारके अच्। १ प्रकर्षेण अपसारके २ निपुणे च धरणिः।

प्रौष्ठिक = त्रि० प्रोष्ठोऽस्त्यस्य ठन्। प्रकृष्टौष्ठयुते ततः शिवा० अपत्ये अण् प्रौष्ठिक तदपत्ये।

प्लक = पु० प्र + कै–क रस्य लः। स्त्रीणामधोऽङ्गभेदे ऋ० ८। ३३। १९ भाष्यम्।

प्लक्ष = भक्षणे भ्वा० उभ० सक० सेट्। प्लक्षति ते अप्लक्षीत् अप्लक्षिष्ट पप्लक्ष क्षे। प्लक्षः।

प्लक्ष = पु० प्लक्ष्यते कीटैः प्लक्ष–कर्मणि घञ्। (पाकुड) १ वृक्षे अमरः। प्रक्ष्लसमीपस्थानात् २ निःसृतायां धरस्वत्यां च भा० व० ८४ अ०। तस्याः प्लक्षप्रस्रवणात् जातणात् तथात्वम् “प्रभवश्च सरस्वत्याः प्लक्षप्रस्रवणं मतम्” भा० श० ५० अ०। ३ प्लक्षद्वीपचिह्निते द्वीपभेदे पु० “प्लक्षो जम्बूप्रमाणो द्वीपः ख्यातिकरो हिरण्मय उत्थितो यत्राग्निरुपास्ते सप्तजिह्वः। तस्याधिपतिः प्रियव्रतात्मज इध्वजिह्वः स्वं द्वीप्रं सप्त वर्षाणि विभज्य सप्तवर्षनामभ्य आत्मजेभ्य आकलथ्य स्वयमात्मयोगेनोपरराम। शिवं यवस सुभद्रं शान्तं क्षेमममृतमभयमिति वर्षाणि। तेषु गिरयो नद्यश्च सप्तैवामिज्ञाताः मणिकूटो वज्रकूटः शतशृङ्ग इन्द्रसेनो ज्योतिष्मान् सुवर्णो हिरण्यष्ठीवो मेघमाल इति सेतुशैलाः। अरुणा नृम्णाऽऽङ्गिरसी सावित्री सुप्रभाता ऋतम्भरा सत्यम्भरेति महानद्यः। यासां जलोपस्पर्शनविधूतंरजस्तमसोहंसपतङ्गोर्ध्वायनसत्याङ्गसंज्ञाश्चत्वारो वर्णाः सहस्रायुषो विबुधोपमसन्दर्शनप्रजननाः स्वर्गद्वारं त्रय्या विद्यया भगवन्तं त्रयीमयं सूर्य्यमात्मानं यजन्ते” भाग० ५। २०। “क्षारोदेन यथा द्वीपी जम्बुसंज्ञोऽभिवेष्टितः। संवेष्ट्यक्षारमुदधिं प्लक्षद्वीपस्तथा स्थितः। जम्बुद्वीपस्य विस्तारः शतसाहस्रसस्मितः। स एव द्विगुणो व्रह्मन्! प्लक्षद्वीपोऽप्युदाहृतः। सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य वै। ज्येष्ठः शान्तभयो नाम शैशिरस्तदनन्तरः। सुखोदयन्तथानन्दः शिवः क्षेमक एव च। ध्रुवश्च सप्तमस्तेषां प्लक्षद्वीपेश्वरा इमे। पूर्वं शान्तभयं वर्षं शिशिरं सुखदं तथा। आनन्दश्च शिवर्ञ्चैव क्षेमकः ध्रुवएव च। मर्य्यादा कारकास्तेषां तथान्ये वर्षपर्बता। सप्तैव तेषां नामानि शृणुष्व मुनिसत्तम!। गोमेदश्चैव चन्द्रश्च नारदो दुन्दुभिस्तथा। सोमकः सुमनाः शैलो वैभ्राजश्चैव सप्तमः। वर्षाचलेषु रम्येषु सर्वेष्वेतेषु चानघाः। वसन्ति देवगन्धर्वसहिताः सततं प्रजाः। तेषु पुण्याः जनपदाश्चिराच्च म्रियते जनः। नाधयो व्याधयो वापि सर्वकालसुखं हि तत्। तेषां नद्यश्च सप्तैव वर्षाणान्तु समुद्रगाः। नामतस्ताः प्रवक्ष्यामि श्रुताः पापं हरन्ति याः। अनुतप्ता शिखा चैव विपापा दिविगा क्रमुः। अमृता सुकृता चैव सप्तैतास्तत्र निम्नगाः। एते शैलास्तथा नद्यः प्रधानाः कथितास्तव। क्षुद्रनद्यस्तथा शैलास्तत्र सन्ति सहस्रशः। ताः पिवन्ति सदा हृष्टा नदीर्जनपदास्तु ते। अपसर्पिणी न तेषां वै न चैवोत्सर्पिणी प्रजा। न तत्रास्ति युगावस्था तेषु स्थानेषु सप्तसु। त्रेतायुगसमः कालः सर्वदैव महामुने!” विष्णुपु०। कल्पभेदान्नामभेदः। तदुत्तरं वनस्य णत्वम् प्लक्षवणम्। प्लक्षस्यादूरदेशादि छ नडा० कुकुच्। प्लक्षकीय तत्समीपादौ त्रि०।

प्लक्षजाता = स्त्री प्लक्षात् तत्समीपस्थप्रस्रवणात् जाता। सरस्वत्यां नद्यां भा० आ० १७० अ०।

प्लक्षतीर्थ = न० प्लक्षमीपस्थं तीर्थं शाक० त०। तीर्थभेदे हरिवं० २६ अ०।

प्लक्षप्रस्रवण = न० प्लक्षस्य समीपस्थं प्रस्रवणम्। सरस्वत्युत्पत्तिस्थाने भा० श० ५० अ०।

प्लक्षराज = पु० ६ त०। सोमतीर्थस्थिते प्लक्षश्रेष्ठे भा० श० ४४ अ०

प्लक्षादि = पु० फले अण्प्रत्ययलुगनिमित्ते शब्दगणे स च गणः पा० ग० उक्तो यथा “प्लक्ष न्यग्रोध अश्वत्थ इङ्गुदी शिग्रु रुरु कक्षतु वृहती”।

प्लक्षावतरण = न० अवतरत्यस्मात् अव–तॄं–अपादाने ल्युट् प्लक्षः तन्निकटस्थितप्रस्रवणरूपमवतरणम्। सरम्नत्या अवतरणस्थाने प्लक्षप्रस्ववण भा० व० ८९ अ०।

प्लति = पु० प्लु–बा० डति। ऋषिभेदे ऋ० १०। ८४। १७

प्लव = न० प्लु–अच्। १ कैवर्त्तीमुस्तके २ गन्धतृणे मेदि०। प्लुत्वा ३ गन्तरि त्रि०। भावे अप्। ४ प्लवने (भासा) कर्त्तरि करणे वा अप्। ५ भेके ६ भेलके (भेला) ७ मेषे ८ श्वपचे ९ वानरे १० जलकाके ११ कुलके १२ प्रवणे १३ पर्कटीवृक्षे १४ काररण्डवखगे १५ शब्दे १६ प्रतिगतौ च पु० मेदि०। जातित्वे स्त्रीत्वमपि स्त्रियां ङीष्। १७ प्रेरणे १८ शत्रौ च पु० शब्दरत्ना०। १९ जालभेदे हेमच० २० पलये (पोलो) मत्स्यधारणयन्त्रभेदे त्रिका०। २१ जलकुक्वुटे मिता० २२ जलचरपक्षिगणभेदे यथोक्तं भावप्र० “हंससारसकाचाक्षवकक्रौञ्चसरारिकाः। नान्दीमुखी सकादम्बा बलाकाद्याः प्लवाः स्मृताः। प्लवन्ते सलिले यस्मादेते तस्मात् प्लवाः स्मृताः”। एतेषां मांसगुणाः। “प्लवाः पित्तहराः स्निग्धा मधुरा गुरवो हिमाः। वातश्लेष्मप्रदाश्चापि बलशुक्रकराः सराः”।

प्लवक = त्रि० प्लु–बा० अक। १ प्लुतगतिकारके २ खग्धारादौ नर्त्तके त्रिका० ३ चण्डाले हला० ४ भेके ६ प्लक्षे राजनि०

प्लवग = पु० प्लवन् सन् गच्छति गम–ड नि०। १ वानरे २ भेके ३ सूर्य्यसरथौ मेदि० ४ प्लवस्ंज्ञखगे शब्दर०। ५ शिरीषवृक्षे राजनि०।

प्लवगति = पु० प्लवेन गतिरस्य। १ भेके शब्दच०। ६ त०। प्लवानां भेकानां गतौ स्त्री।

प्लवङ्ग = पु० प्लवन् सन् गच्छति गम–ड खच् मुम् नि०। १ वानरे २ मृगे शब्दच०। ३ प्लक्षवृक्षे राजनि०।

प्लवङ्गम = पु० प्लवन् सन् गच्छति गम–खच् मुम् मि०। १ भेके। ३ वानरे अमरः।

प्लवन = त्रि० प्लु–ल्यु। १ निम्ने प्रबणे क्रमनिम्नतां गन्तरि “प्रागुदक् प्लवनां भूमिं कारयेत् यत्नतो नरः” ति० त० मत्स्यपु०। भावे ल्युट्। जलोपरि गतौ न० (भाणा)।

प्लविक = त्रि० प्लवेन तरति ठन्। प्लवेन तारिणि।

प्लाक्ष = न० प्लक्षस्य समूहः, तस्य विकारस्तस्य फलं वा अण् न लुप्। १ प्लक्षवृक्षफले २ तद्विकारे ३ तत्समुदाये च।

प्लायोगि = पु० प्रयोगनाम्नः राज्ञः पुत्रः इञ् वेदे रस्य लः। प्रयोगनाम्नः राज्ञः पुत्रे ऋ० ८। १। ३३

प्लावन = न० प्लु–णिच्–ल्युट्। (उथ्लान) द्रवद्रव्यस्य समन्ताद्गत “तापनं घृततैलादेः प्लावनं गोरसस्य च। तन्मात्रमुद्धृतं कुर्य्यात् कठिनं तु पयोदधि” शु० त०। २ निमज्जनसम्पादने ३ बहुतरजलसंयोजने च। करणे ल्युट् ङीप्। ४ भूतानां धारणाभेदे स्त्री “स्तम्भनी प्लावनी चैव शोषणी भामनी तथा। म्लोचनी च भवन्त्येताः भूतानां पञ्च धारणाः” काशीस्व० ४४ अ०।

प्लावित = त्रि० प्लु–णिच्–क्त। जलादिना समन्तात् व्याप्ते माघः १२२६।

प्लाशि = स्त्री प्रकर्षेणाश्नाति भुङ्क्तेऽनया प्र + अश–करणेइ वेदे रस्य लः। शिश्नमूलस्थनाड्याम् यजु० २५। ७

प्लाशुक = पु० प्रकर्षेण आशु कायति भवति कै–क वेदे अस्य लः। प्रकर्षेणाशु पच्यमाने व्रीहौ “प्लाशुकानां ब्रीहीणां सविता वै देवानां प्रसविता सवितृप्रसूतः सूय इत्यथ यत् प्लाशुकानां ब्रीहीणां क्षिप्रे मा प्रसुवानिति” शत० व्रा० ५। ३। ३। २ “प्लाशूनां श्रीर्वै गार्हपतं यावत् हृष्टे तदेनमग्निरेव गृहपतिर्गार्हपतमभिपरिणयत्यथ यदा शूनां क्षिप्रे मा परिणयानिति” ३ म० “प्लाशुकानाम् प्रकर्षेण आशु शोघ्रं पच्यमानानां पुनः प्ररूढानां ब्रीहीणाम्” रेफस्य छान्दसो लत्वनिर्देशः। प्रसुवान् प्रसुवन्तु प्रेरयन्तु। प्लाशुकाः पुनःप्ररूढव्रीहय इत्युक्तम् ततोऽप्यधिककाले पक्षत्रये पाच्यमानाः षष्टिका ब्रीहयःआशवः तेषामाशुत्वं च त्रिचतुरमासनियतपरिपाकव्रीह्यपेक्षम्” भा०।

प्लाशुचित् = अ० शीघ्रे प्राशु इत्यत्र पाठान्तरं निघण्टः।

प्लिह = गतौ भ्वा० पर० सक० सेट्। प्लेहति अप्लेहीत् पिप्लेह।

प्लि(प्ली)हन् = पु० प्लि–कनिन् पृषो० वा दीर्घः। (पिला) १ वामकुक्षिपार्श्वस्थे मांसखण्डे तद्वृद्धिहेतुके २ रोगभेदे च तन्निदानादि भावप्र० उक्तं यथा “विदाह्यभिष्यन्दिरसस्य जन्तोः प्रदुष्टमत्यर्थमसृक्कफश्च। प्लोहाभिवृद्धिं कुरुतः प्रवृद्धौ त प्लीहसंज्ञं गदमामनन्ति। वामे स पार्श्वे परिवृद्धिमेति विशेषतः सीदति चातुरोऽत्र। मन्दज्वराग्निः कफपित्तलिङ्गैरुपद्रुतः क्षीणबलोऽतिपाण्डु”। विदाहि कुलत्थमाषसर्षपशाकादि। अभिषन्दि माहिषं दध्यादि। कफपित्तलिङ्गैरुपद्रुत इत्यर्थः। प्रदुष्टमत्यर्थमसृक्कफश्चेति संप्राप्तिः असृजः पित्तस्य च समानधर्मत्वात्। रक्तजमाह “क्लमो भ्रमो बिदाहश्च वैवश्र्ण्यं गात्रगौरवम्। मोहो रक्तोदरत्वञ्च ज्ञेयं रक्तजलक्षणम्”। पैतिकस्य लक्षणमाह “सज्वरः सपिपासश्च सदाहो मोहसंयुतः। पीतगात्रो विशेषेण प्लोहा पैत्तिक उच्यते”। श्लैष्मिकलक्षणमाह “प्लीहा मन्दव्यथास्थूल कठिनो गौरवान्वितः। अरोचकेन संयुक्तः प्लीहा कफज उच्यते”। वातिकमाह “नित्यमानद्धकोष्ठः स्या(न्नित्योदावर्त्तपीडितः। वेदनाभिः परीतश्च प्लीहा वातिक उच्यते”। तमसाध्यमाह “दोषत्रितयरूपोऽन्यः प्लीहाऽसाध्यो भवत्यपि” भावप्र०। तत्रैवान्यत्र तत्स्थानमुक्तं यथा “अथ शरीरावयवविशेषस्थ यकृत्प्लीहस्वरूपमाह “अधो दक्षिणतश्चापि हृदयाद्यकृतः स्थितिः। तत्तु रञ्जकपित्तस्य स्थानं शोणितजं मतम्”

प्ली = गतौ क्र्या० पर० सक० अनिट्। प्लीनाति अप्लैषीत्। अयं धातुः कविकल्पद्रुमे न दृश्यतं धातुपाठे पाठान्तरेऽस्ति।

प्लीहघ्न = पु० प्लीहानं हन्ति हन–क। (रोडा) दाडिमतुल्यकुसुमवति वृक्षभेदे शब्द च०।

प्लीहशत्रु = पु० ६ त०। प्लीहघ्नवृक्षे अमरः।

प्लीहा = स्त्री प्लिह–क पृषो० दीर्घः। प्लीहरोगे भरतः।

प्लीहारि = पु० ६ म०। अश्वत्थवृक्षे शब्दच०।

प्लीहोदर = न० उदररोगभेदे उदरशब्दे ११४९ पृ० दृश्यम्।

प्लु = सर्पणे उत्प्लुत्य गतौ च भ्वा० आत्म० सक० अनिट्। प्लवते अप्लोष्ट पुप्लुवे। अयं त्रिमात्रतयोच्चारणे च प्लुतशब्दे सि० कौ० प्लवते इति निर्देशात्। गतौ निघण्टुः।

प्लुक्षि = पु० प्लुष–दाहे किस। १ वह्नौ उज्वलद०। २ स्नेहे ३ गृहदाहे संक्षिप्तसारः।

प्लुत = न० प्लु–भावे क्त। १ अश्वगतिभेदे अमरः। २ तिर्य्यग्गतौ ३ लम्फेन गतौ त्रिमात्रकालेनोक्कार्ये वर्णे पु० “एकमात्रो भवेद् ह्रस्वो द्विमात्रो दीर्घ उच्यते। त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनं चार्द्धमात्रकम्” प्रचीनकारिका। अस्य ह्रस्वदीर्घाणामिवाकारभेदाभावेन तदुत्तरवर्त्तित्र्यङ्क नैव तथात्वसूचनं न तु लेखनेऽस्याकारविशेषोऽस्ति। प्लुतत्व विधायकानि पा० सूत्राणि सवृत्तिकानि सोदहरणान्यत्र प्रदर्श्यन्ते “वाक्यस्य प्लुत उदात्तः” पा० इत्यधिकृत्य “प्रत्यभिवादेऽशूद्रे” पा० “अशूद्रविषये प्रत्यभिवादे यद्वाक्यं तस्य टेः प्लुतः स्यात्। अभिवादये देवदत्तोऽहम्। भो आयुष्मानेधि देवदत्त! ३। स्त्रियान्न अभिवादये गार्ग्वहं भो आयुष्मनेधि गार्घि!। नामगोत्रं वा यत्र प्रत्यभिवादवाक्यान्ते प्रयुज्यते तत्रैव प्लुत इष्यते नेह आयुष्मानेधि भोः। राजन्यविशाञ्चेति वाच्यम्। आयुष्मानेधि भोः। आयुष्मानेधीन्द्रवर्म ३ आयुष्मानेधीन्द्रपालित २। सि० कौ० “दूराद्धूते च” पा०। “दूरात् सम्बोधने यद्वाक्यन्तस्य टेः प्लुतः स्यात्। सक्तून् पिब देवदत्त ३! “है हे प्रयोगे हैहयोः” पा०। एतयोः प्रयोगे दूराद्धूते यद्वाक्यन्तत्र हैहयोरेव प्लुतः। स्यात्। है ३ राम! राम! है ३ “गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम्” पा० दूराद्धूते यद्वाक्यन्तस्य ऋद्भिन्नस्यानन्त्यस्यापि गुरोर्वा प्लुतः स्यात्। दे ३ वदत्त। देवद ३ त्त। देवदत्त ३। गुरोः किम्। वकारात् परस्य अकारस्य मा भूत्। अनृतः किम्। कृष्ण ३। एकैकग्रहणं पर्य्यायार्थम्। इह प्राचामिति योगो विभज्यते तेन सर्वः प्लुतो विकल्प्यते “अप्लुतवदुपस्थिते” पा०। उपस्थितोऽनार्ष इतिशब्दस्तस्मिन् परे प्लुतोऽप्लु तवद्भवति। अप्लुतकार्यं यणादिकङ्करोति। सुश्लोक ३ इति। सुश्लोकेति। वत् किम् अप्लुत इत्युक्ते प्लुत एव निषिध्येत तथा च प्रगृह्याश्रये प्रकृतिभावे प्लुतस्य श्रवणन्न स्यात्। अग्नी ३ इति। “इ २ चाक्रवर्मणस्य” पा० इ ३ प्लुतोऽचि परेऽप्लुतवद्वा स्यात्। चिनुहीति चिनु हि ३ इति। चिनु हि ३ इदं चिनुहौदम्। उभयत्र विभाषेयम् “ओमभ्यादाने” पा० ओशिब्दस्य प्लुतः स्यात् आरम्भे। ओ३म् अग्निमीले पुरोहितम्। अभ्यादाने किम् ओमित्येकाक्षरम् “ये यज्ञकर्मणि” पा० ये ३ यजामहे। यज्ञेति किम् ये यजामहे ३ “प्रणवष्टेः” पा० यज्ञकर्मणि टेरोमित्यादेशः स्यात्। अपां रेतांसि जिन्वतो३म्। टेः किम् हलन्ते अन्त्यस्य मा भूत्। “याज्यान्तः” पा० ये याज्यान्ता मन्त्रास्तेषामन्त्यस्यटेः प्लु तो यज्ञकर्मणि। जिह्वामग्ने! चकृषे हव्यवाह ३। अन्तः किम्। याज्यानामृचां वाक्यससुदायरूपाणां प्रतिवाक्यं टेर्न स्यात्। सर्वान्तस्य चेष्यते “ब्रूहिप्रेष्यश्रौषड्वौषडावाहनामादेः” पा० एषासादेः प्लुतो यज्ञकर्मणि। अग्नयेऽनुब्रू३हि। अग्नये गोमयानि प्रे३ष्य। अस्तु श्रौ ३ षट्। सोमस्याग्ने ब्रूहि वौ ३ षट्। अग्निमा ३ वह “अग्नीत् प्रेषणे परस्य च” पा० अग्नोधः प्रेषणे आदेर्यः प्लुतस्मात् वरस्य च। ओ३ आवह नेह अग्नीदग्नीन् विहर ३। बर्हिस्तृणीहि ३। “विभाषा पृष्टप्रतिवचने हेः” पा० प्लुतः। अकार्णीः कटम् अकार्सं हि ३। अकार्षं हि। पृष्टेति किम् कटं करिष्यति हि ३। हेः किम् करोमि ननु “निगृह्यानुयोगे च” पा० अत्र यद्वाक्यन्तस्य टेः प्लुतो वा। अद्यामावास्येत्यात्य ३। अद्य अमावास्येत्येवंवादिनं युक्त्या स्वमयात प्रच्याव्य एवमनु- युज्यत। “आम्रेडितम्भर्त्सने” पा० दस्यो दस्यो ३ घातमिष्यामि त्वाम्। आम्रेडितग्रहणं द्विरुक्तोपलक्षणम्। चौर ३ चौर। “अङ्गयुक्तन्तिङाकाङ्क्षम्” पा० अङ्गेत्यनेन युक्तन्तिङन्तं प्लवते। अङ्ग कूज ३ इदानीं ज्ञास्यसि जाल्म!। तिङ किम्? अङ्ग देवदत्त! मिथ्या वदसि ३। आकाङ्क्षं किम् अङ्ग पच नैतदपरमाकाङ्क्षति। भर्त्सन इत्येव। अङ्गाधीष्व भक्तन्तव दास्यामि। “विचार्य्यमाणानाम्” पा० वाक्यानां टेः प्लुतः। होतव्यं दीक्षितस्य गृह ३ इ। (वक्ष्यमाणेन एतः स्थाने इः) न होतव्य ३ मिति। होतव्यन्न होतव्यमिति विचार्यते। प्रमाणैर्वस्तुतत्त्वपरोक्षणं विचारः। “पूर्वन्तु भाषायाम्” पा० विचार्य्यमाणानां पूर्वमेव प्लवते। अहिर्नु ३ रज्जुर्नु। प्रयोगापेक्षत्वं पूर्वत्वम्। इह भाषाग्रहणात् पूर्वयोगश्छन्दसीति ज्ञायते। “प्रतिश्रवणे च” पा० वाक्यस्य टेः प्लुतोऽभ्युपमे प्रतिज्ञाने श्रवणाभिमुख्ये च! गां मेदेहि भो हन्त ३ ते ददामि ३। नित्यः शब्दो भवितुमर्हति ३। देवदत्त! किमात्थ ३। “अनुदात्तं प्रश्नान्ताभिपूजितयोः” पा० अनुदात्तः प्लुतः स्यात्। दूराद्धूतादिषु सिद्धस्य प्लुतस्यानुदात्तत्वमात्रमनेन विधीयते। अग्निभूत ३ इ। पट ३ उ। अग्निभूते पटो एतयोः प्रश्नान्ते टेरनुदात्तः प्लुतः। शोभनः खल्वसि २ माणवक ३। “चिदिति चोपमार्थे प्रयुज्यमाने” पा० वाक्यस्य टेरनुदात्तः प्लुतः। अग्निचिद्भाया३त्। अग्निचिदिव भायात् उपमार्थे किम् कथञ्चिदाह। प्रयुज्यमाने किम् अग्निर्माणयको भायात् “उपरिस्विदासीति च” पा० टेः प्लुतोऽनुदात्तः स्यात्। उपरिस्विदासी३त्। अधः स्विदादी ३ दित्यत्र तु विचार्य्यमाणानामित्युदात्तः प्लुतः। “स्वरितमाम्रेडितेऽसूयासम्मतिकोपकुत्सनेषु” पा० स्वरितः प्लुतः स्यादाम्रेडिते परेऽसूयादौ गम्ये। असूयायाम् अभिरूपक ३ अभिरूपक रिक्तन्त आभिरूप्यम्। सम्मतौ। अभिरूपक ३ अभिरूपक शोभनोऽसि। कोप। अविनीतक ३ अविनीतक इदानीं ज्ञास्यसि काल्म!। कुत्सने। शाक्तीक ३ शाक्तीक रिक्ता ते शक्तिः। “क्षियाशीःप्रैषेषु तिङाकाङ्क्षम्” पा० आकाङ्क्षस्य तिङन्तस्य टेः स्वरितः प्लुतः स्यात् आचारभेदे आशिषि प्रैषेषु गम्यमानेषु। स्वयं ह रथेन याति ३ उपाध्यः यं पदातिं गमयति। प्रार्थनायाम्। पुर्त्रांश्च लप्सीष्ट ३ धनञ्च तात। व्यापारणे। कटं कुरु ३ ग्रामं गच्छ। आकाङ्क किम् दीर्घायुरसि अग्नीदग्नीन्विहर। “अनन्त्यस्यापि प्रश्नाख्यानयोः” पा० अनन्त्यस्यान्त्यस्यापि पदस्य टेः स्वरितः प्लुत एतयोः। प्रश्ने। अगम३ः पूर्वा३न् ग्रामा३न्। सर्वपदानामयम्। आख्याने अगम३म् पूर्वा३न् ग्रामा३न्। “प्लुतावैचैदुतौ” पा० यत्र दूराद्धूतादिषु प्लुतो विहितस्तत्रैव ऐचः प्लुतप्रसङ्गे तदवयवाविदुतौ प्लवेते। ऐ ४ तिकायन!। औ ४ पग्व। चतुर्मात्रावत्र ऐचौ सम्पद्यते। “एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यादुत्तरस्येदुतौ” पा० अप्रगृह्यस्य एचोऽदूराद्धूते प्लुतविषये पूर्वस्यार्द्धस्याकारः प्लुतः स्यादुत्तरस्य त्वर्द्धस्य इदुतौ स्तः। प्रश्नान्ताभिपूजितविचार्य्यमाणप्रत्यभिवाद याज्यान्तेष्वेव। प्रश्नान्ते। अगम २ पूर्वा३न् ग्रामा३न् अग्निभूत३ इ। अभिपूजिते। भद्रं करोषि पट३ उ। विचार्य्यमाणे। होतव्यन्दीक्षितस्य गृह३ इ। प्रत्यभिवादे। आयुष्मानेधि अग्निभूत३ इ। याज्यान्ते। स्तोमैर्विधेमाग्नय३ इ। परिगणनं किम् विष्णुभूते३ धातयिष्यामि त्वाम्। अदूराद्धूत इति न वक्तव्यम्। पदान्तग्रहणन्तु कर्त्तव्यम्। इह मा भूत् भद्रं करोषि गौ३ रिति। अप्रगृह्यस्य किम् शोभने माले३। “आमन्त्रिते छन्दसि प्लुतविकारोऽयं वक्तव्यः। अग्न३ इ पत्नीव” सि० कौ०

प्लुति = स्त्री प्लु–भावे क्तिन्। प्लवने उत्प्लुत्यगमने। प्लुतिश्च शशादीनामिव गतिः (छयलापि) समन्तात् जलादेर्गतिश्च। त्रिमात्रतयोच्चारणे च।

प्लुष = दाहे भ्वा० पर० सक० सेट्। प्लोषति अप्लोषीत्। पुप्लोष उदित् क्त्वा वेट्। प्लुषित्वा प्लुष्ट्वा।

प्लुष = दाहे दिवा० पर० सक० सेट्। प्लुष्यति ऌदित् अप्लुषत्।

प्लुष = सेके पूर्त्तौ च सक० स्नेहे अक० क्र्या० पर० सेट्। प्लुष्णाति अप्लोषीत् पुप्लोष।

प्लुषि = पु० प्लुष–बा० कि। वकतुल्यतुण्डयुक्ते १ खगभेदे यजु० २४। २९ वेददीपः। २ दाहके सर्पभेदे ऋ० १। ९१। १ भा०। ३ अल्पपरिमाणपुत्तिकादेहे शत० ब्रा० १४। ४। १। २४ भाष्ये दृश्यम्।

प्लुष्ट = त्रि० प्लुष–क्त। दग्धे अमरः। “द्रोण्यस्त्रविप्लुष्टमिदं मदङ्गम्” भाग०

प्लुस = दाहे विभागे च दिवा० पर० सक० सेट्। प्लुस्यति इरित् अप्लुसत् अप्लोसीत् पुप्लोस।

प्लेङ्ख = पु० प्र + उङ्ग–घञ् वेदे तस्य लः। प्रेङ्खणे प्रकृष्टकम्पने तैत्ति० ७। ५। ८। ५

प्लेव = सेवने भ्वा० आत्म० सक० सेट्। प्लेवते अप्लेविष्ट। पिप्लेवे ऋदित् च ङ न ह्रस्वः।

प्लोत = न० प्र + वे–क्त संप्र० रस्य लः। सुश्रुतोक्ते शस्त्रकर्मोपकरणभेदे “अतोऽन्यतमं कर्म चिकीर्षता वैद्येन पूर्वमेवोपकल्पयितव्यानि तद्यथा यन्त्रशस्त्रक्षाराग्निशलाका शृङ्गजलौकालाबूजाम्बबोष्ठपिचुप्लोतसूत्रपत्रपट्टमधुघृतवसापयस्तैलतर्पणकषायालेपनकल्कव्यजनशीतोष्णोदकाकटाहादीनि”।

प्लोष = पु० प्लु ष–भावे घञ्। दाहे अमरः। भावे ल्युट्। प्लोषण दाहे न०

प्सा = भक्षणे अदा० पर० सक० अनिट्। प्साति अप्सासीत्। पप्सौ। गतौ निघण्टुः।

प्सा = स्त्री प्सा–भावे अङ्। भक्षणे त्रिका०।

प्सात = त्रि० प्सा–कर्मणि क्त। भक्षिते अमरः।

प्सान = न० प्सा–भावे ल्युट्। भोजने हेमच०।

प्सु = पु० प्सा–वा कु। रूपे निघण्ठुः।

प्सुर = त्रि० प्सु + बा० अस्त्यर्थे र। रूपवति ऋ० १०। २६। ३ भाष्ये इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्यसंकलिते वाचस्पत्ये पकारादिशब्दार्थसङ्कलनम्। पकारादिषु शब्देषु केचित् शब्दा न सङ्कांलता केषाञ्चिच्चार्थभेदा भ्रमान्नोक्तास्ते इतःपरं परिशिष्टे प्रदर्श्यन्ते।परिशिष्टम् ४२२५ पृष्ठस्थपद्मशब्दपरिशिष्टम्

“अष्टकासु भवेत् पद्म तत्र दत्तं तथाऽक्षयम्” हेमा० श्रा० जातूकर्ण्योक्ते १५ अष्टकाश्राद्धे।

४२२५ पृष्ठस्थ पद्मकशब्दपरिशिष्टम् “यदा विष्टिर्व्यतीपातो भानुवारस्तथैव च। पद्मकं नाम तत्प्रोक्तमयनाच्च चतुर्गुणम्” हेमा० श्रा० शङ्खोक्ते श्राद्ध५ कालभेदे न०।

४३१४ पृ० पारावतशब्दस्य परिशिष्टम् सर्वार्थचिन्तामण्युक्ते क्षेत्रहोरादृक्काणादिदशवर्गमध्ये येषु केषु चित् षट्सु शुभांशेषु। प्रसङ्गात् क्षेत्रादिदशवर्गनिरूपणेन तत्र द्वित्रादिवर्गे एकैकस्य योये नव विशेषसंज्ञाः तत्फलञ्च तत्रोक्तं प्रदर्श्यते तत क्षेत्रशब्दे क्षेत्रपतय उक्ताः दृक्काणाद्यधीश्वराः सर्वार्थ० उक्ता यथा “राशिं त्रिधाकृत्य दृक्काणमाहुस्तदीश १ पुत्रेश २ शुभाधिनाथाः ९। युजीन्दुसूर्य्यौ भवने रवीन्दू नाथौ त्वयुग्मे भवनस्य चार्द्धे। चरेऽंशकानामधिपात्तदंशा राशौ स्थिरे तन्नवमेश्वराद्यः। द्विदेहभे तत्सुतराशिनाथाद्वदन्ति शास्त्रार्थविदो महान्तः। तत् क्षेत्रपा द्वादशभागनाथा लग्नस्य वर्गाधिपतिस्तदीशात्। त्रिशांशपा भौमशनीज्य सौम्यशुक्रा भवन्त्योजगृहे समे तु। विलोमतः पञ्चशराष्टसप्तबाणाः क्रमादूचुरनेकशास्त्रैः। सप्तांशपास्त्वोजगृहे तदीशाद्युग्मे गृहे सप्तमराशिपात्तु। दशांशपानामधिपास्तदीशादोजे समे तन्नवमेश्वराद्याः। अओजे १५ कलानामधिपास्तदीशाश्चतुर्मुखो (अंश) विष्णु ४५ हरौ दिनेशः ५०। युग्मे क्रमाद्व्यत्ययमेव राशौ षष्ठ्यंश ३० कानामधिपास्त्वयुग्भे। घोरांशको १ राक्षस २ देवभागौ ३ कुबेर ४ रक्षोगण ५ किन्नरांशाः ६। भ्रष्टः ७ कुलघ्नो ८ गरला ९ ग्नि संज्ञौ १० मायांशकः ११ प्रेतपुरीशभागः १२। अपां पति१३ र्देवगणेशभागः १४ काला १५ऽहिभागा १६ वमृतांशु १७ चन्द्रौ १८। मृद्वंशकः १९ कोमल २० पद्मभागौ २१ ल क्ष्मोश २२ वागीश २३ दिगम्बरांशाः २४। देवाद्रभागौ २५ २६। कलिनाशभागः २७ क्षितोरश्वांशः २८ कमलाकरांशः २९। क्रमेण मन्दात्मज ३० मृत्यु ३१ काल ३२ दावाग्निधोराऽ ३४ मय ३५ कण्टकांश्च ३६। सुधामृतांशुः ३८ परिपूर्णचन्द्र ३९ विषप्रदग्धो ४० कलिनाश ४१ मुख्यौ ४२। वंशक्षयोत्पातककालरूपाः ४३। ४४। ४५ सौम्य ४६ श्च मृद्वंश ४७ सुशीतलांशू ४८। दंष्ट्रा ४९ कराले ५० न्दुमुख ५१ प्रवीणाः ५२ कालाग्नि ५३ दण्डायुध ५४ निर्मलांशाः ५५। शुभाशुभांशा ५६। ५७ वतिशीतलांशः ५८ सुधापयोधिभ्रमणेन्दरेखाः ५९। ६०। ज्ञेयाः क्रमाद्व्यत्ययमेव युग्मे शुभान्वितांशो यदि शोभनाप्तिः। क्रूराः षष्ठ्यंश (३०) गाः सर्वे नाशयन्ति खचारिणः। परिपूर्णवलैर्युक्ता स्वोच्चमूलत्रिकोणगाः। स्वर्क्षकेन्द्रोत्तमांशस्था मित्रक्षेत्रत्रिकोणगाः। सप्तवर्गोद्भवाः स्वांशाः स्वाधिमित्रांशकान्विताः। वर्गास्तु ये दश प्रोक्ताः पूर्वाचार्यैर्महर्षिभिः। भवन्ति वर्गसंयोगे पारिजातादिसंज्ञकाः १० दुःस्थारिनीचमूढस्था ग्नहा बलविवर्जिताः। मरणाविस्थगाश्चेत्तु पारिजातादिनाशकाः”। अयं पक्षो नादरणीयः। मुख्यपक्षतु स्वत्र्यंशे स्वनवांशके स्वभवन इति ग्राह्याः। “उत्तमं १ तु त्रिवर्गेक्यं चतुर्वर्गन्तु गोपुरम्२। वर्गपञ्चकसंयोगे सिंहासन ३ मिहोच्यते। वर्गद्वयं पारिजातः ४ षण्णां पारावतांशकः ५। सप्तमं देवलोकः ६ स्यादष्टमं च तथा भवेत्। ऐरावतं ९ तु नवमं फलं तेषां पृथक् पृथक्। दशवर्गस्य संयोगे विदुर्वेशेषिकांशकान् १०। ऐरावते सार्वभौमः सर्वैश्वर्य्यसमन्वितः। देवलोके ६ महादानकर्त्ता राजा क्षितीश्वरः। पारावते ५” मातुलिकः सर्वशास्त्रविशारदः। सिंहासने ३ भयेद्भूमिपतिः सर्वैः स्तुतो महान्। गोपुरे२ धनवान्नित्यं सर्बविद्याविशारदः। उत्तमे १ सकला सम्पत् पारिजाते ४ धनान्वितः। स्वांशे १० यशस्वी मतिमान् सर्वसौख्यसमन्वितः”।

४३२८ पृ० पिण्डशब्दपरिशिष्टम्।तत्र संहतश्च एकीकृतः यथा “षण्मनूर्नां तु संपिण्ड्य कालं तत्सन्धिमिः सह” सू० सि० व्याख्याने “संपिण्ड्य एकीकृत्य रङ्गनाथः। संपिण्डं मिश्रितं पिलितं कृत्वेत्यर्थः। तथा च अहर्गणानयने प्रथममव्दानां दृन्दमेकत्र कार्यमिति बोध्यम्। केरलशब्दे २२४१ पृ० पश्नमगोरमानर्शिते “वर्गवर्णप्रमाणञ्च सस्वरं ताडितं निथः। पिण्डसंज्ञा भवेत् तस्य यथाभागैस्तु कल्पना” इत्युक्ते २१ पदार्थे च।१३३४ पृ० पितृपक्षशब्दपरिशिष्टम्गौणाश्विनकृष्णपक्षे ४ प्रेतपक्षे तच्छब्दे दृश्यम्।४३३६ पृष्ठख्यपित्तलशब्दपरिशिष्टम्।सुश्रुतोक्ते योगिरोगभेदे स्त्री स्वीणां ५ योगिरोगा विंशतिविधा उदावर्त्तशब्दे ११६३ पृ० सुश्रुतोक्ता दर्शिताः। तेषां लक्षणान्यत्रोच्यन्ते “सफेमिलमुदावर्त्ता रजःकृच्छ्रेण मुच्चति। बन्ध्यां नष्टार्त्तवां विद्याद्विप्लुतां२नित्यवेदनाम्। परिप्लुतायां ४ भवति ग्राम्यधर्मे रुजा भृशम्। वातला ५ कर्कशत्वक्वा शूलनिस्तोदपीडिता। चतसृष्वपि चाद्यासु भवन्त्यनिलवेदनाः। सदाहं प्रकिरत्यस्रं यस्याः सा लोहितक्षरा ६। सवातमुद्गिरेद्वीजं बामिनी ७ रजसा युतम्। प्रसंसिनी ८ स्पन्दते तु क्षोभिता दुःप्रसूश्च या। स्थितं स्थितं हन्ति गर्भं पुत्रव्नी ९ रक्तसंस्रवात्। अत्यर्थं पित्तला १० योनिर्दाहपाकज्वरान्विता। चतसृष्वपि चाद्यासु पित्तलिङ्गोच्छ्रयो भवेत्। अत्यानन्दा ११ न सन्तोषं ग्राम्यधर्मेण गच्छति कर्णिन्यां १२ कर्णिका योनौ श्लेष्मासृग्भ्यान्तु जायते। मैथुनाचराणात् पूर्वा १३ पुरुषादतिरिच्यते। बहुशश्चातिचरणादन्या १४ वीजं न विन्दति। श्लेष्मला १५ पिच्छिला योनिः कण्डूयुक्तातिशीतला। चतसृस्वपि चाद्यासु श्लेष्मलिङ्गोच्छ्रितिर्भवेत्। अनार्त्तवस्तना षण्डी १६ खरस्पर्शा च मैथुने। अतिकायगृहीतायास्तरुण्याः फलिनी १७ भवेत्। विवृता महती १८ योनिः सृचीवक्त्रा १९ऽतिसंवृता। सर्वलिङ्गसमुत्थाना सर्वदोषप्रकोपजा २०। चतसृष्वपि चाद्यासु सर्वलिङ्गोच्छ्रितिर्भवेत्”। ४३३९ पृ० पिष्टपचनशब्दात् परत्र परिशिष्टम्

***