पुष्प = विकाशे दि० पर० अक० सेट्। पुष्प्यति अपुष्पीत्। पुपुष्प “शरदि पुष्प्यन्ति सप्तच्छदाः”। कण्ड्वा० अपुष्प्यीत्।

पुष्प = न० पुष्प्यति पुष्प–विकाशे अच्। (फुल) ख्याते १ कुसुमे २ स्त्रीरजसि। भावे घञ्। १ विकाशे पु० मेदि० ४ कुवेरविमाने न० नेत्ररोगभेदे हेमच०। “पुष्पञ्च पत्रं च फलं तथैव यथोत्तरं ते लघवः प्रदिष्टाः तेषां तु पुष्पं कफपित्तहन्तृ फलं निहन्यात् कफमारुतौ च” सुश्रुते सामान्यतस्तस्य गुणा उक्ताः। विशेषतः पुष्पवर्गे अन्येषां गुणा तत्रोक्ताः। स्त्रीरजसि “शुक्रं दुष्टं शोणितं चाङ्गनानां पुष्पोद्रेकं तस्य नाशञ्च कष्टम्। पुष्पकाले शुचिस्तस्मादपत्यार्थी स्त्रियं व्रजेत्” इति सुश्रुतः। पुष्पशब्दनिरुक्तिस्तद्गतविशेषादिकं नानातन्त्रे उक्तं यथा तत्र पुष्पशब्दव्युत्पत्तिः कुलार्णये “पुण्यसंबर्द्धनाच्चाषि पापौघपरिहारतः। पुष्कलार्थप्रदानाच्छ पुष्पमित्यभिधीयते”। प्रपञ्चसारे “तुलस्यौ पङ्कजे जात्यौ केतक्यौ करवीरके। शस्तानि दश पुष्पाणि तथा रक्तोत्पलानि च। उत्पलानि च नीलानि कह्नारकुमुदानि च”। विश्वसारतन्त्रे “बहूनि कुसुमानि च” इति पाठः। “मालतीं कुन्दमन्दारं नन्द्यावर्त्तादिकानि च। पलाशपाटलापद्मजयन्त्यावर्त्तकानि च। चम्पकानि सनागानि रक्तमन्दारकाणि च। अशोकोद्भवविल्वाख्य कर्णिकारोद्भवानि च”। विश्वसारतन्त्रे शक्तिविमये विशेष उक्तो यथा “अथ देव्यर्चने वक्ष्ये पुष्पाणि शृणु पार्वति!। इत्युपक्रमे तुलस्यादीन्युक्त्वा “एतान्यन्यानि तन्त्रेऽस्मिन् पुष्पाणि सन्ति वै प्रिये!। मानादेशोद्भवानि स्युः सर्वकालोद्भवानि च। फलानि चैव पुष्पाणि दद्याद्देव्यै विशेषतः। अथ पुष्पं प्रवक्ष्यामि कर्मयोगे महेश्वरि! शृणुष्व परया भक्त्या यथोक्तं ब्रह्मणा पुरा। कमले करवीरे द्वे कुसुमे तुलसीद्वयम्। जातीसुमे केतकीद्वे कुमारीचम्पकोत्पलम्। कुन्दमन्दारपुन्नागपाटलानागचम्पकम्। आरग्बधं कर्णिकारं पावन्ती नवमल्लिका। सौगन्धिकं सकोरण्डं पलाशाशोकसर्जकाः। अपामार्गः सिन्धुवारो वापुलीकञ्च कामजम्। व्याघ्रचेलं दमनकं मरुवकं ततःपरम्। लवङ्गं जलकर्चूरं तगरञ्च जवा तथा। शिवपुष्पं द्रोणपुष्पं कामराजं सुकेतकम्। अन्यानि वनपुष्पाणि जलजस्थलजानि च। गिरिजानि देशजानि नानापुष्पाण्यतःपरम्।” सारदायाम् “कमले करवीरे द्वे कुमुदे तुलसीद्वयम्। जातीद्वयं केतके द्वे कह्लारं चम्पकोत्पले। कुन्दमन्दारपुन्नागपाटालानागचम्पकम्। आरग्बधं कर्णिकारं जयन्ती नवमालिका। सौगन्धिकं सकोरण्टं पलाशाशोकमल्लिकाः। धुस्तूरं सर्जकं विल्वमर्जुनं मुनिपुष्पकम्। अन्यान्यपि सुगन्धीनि पत्रपुष्पाणि देशिकैः। उपदिष्टानि पूजायामाददीत विचक्षणः”। योगिनीतन्त्रे ७ पटले “शृणु देवि! प्रवक्ष्यामि पुष्पाध्यायं समासतः। ऋतुकालोद्भवैः पुष्पैर्मल्लिकाजातिकुङ्कुमैः। सितरक्तैस्तथापुष्पैर्नीलपद्मैश्च पाण्डुरैः। किंशुकैस्तगरैश्चैव जवाकनकचम्पकैः। बकुलैश्चैव मन्दारैः कुन्दपुष्पैः कुरुण्डकैः। धुस्तूरकादियुक्तैश्च बन्धूकागस्त्यसम्भवैः। मदनैः सिन्धुवारैश्च दर्वाङ्कुरसुकोमलैः। मञ्जरीभिः कुशानाञ्च बिल्वपत्रैः सुकोमलैः” तत्रैव ९ पटले “तुलसीद्वे मालतीद्वे तमालामलकी तथा। पुन्नागं मुनिपुष्पश्च मल्लिकाञ्च निवेदयेत्। करवीरस्य कुसुमैर्येऽर्चयन्ति जनार्द्दनम्। दर्शनात्तस्य देवेशि! नरकाग्निः प्रणस्यति”। करवीरादिमाहात्म्यं पूरश्चरणरसोल्लासे १० पटले “करवीरं जवा देवि! स्वयं काली न चान्यथा। तारा च अपरा चैव स्वयं त्रिवुरसुन्दरी”। तथा “करवीरजवामूले तुलस्या नगनन्दिनि। यदि प्राणांस्त्यजेद्देवि! माहात्म्यं तस्य सुन्दरि!। वक्त्रकोटिशतेनापि जिह्वाकोटिशतेन च। वर्णितुं तस्य माहात्म्यं न शक्तोमि कदाचन”। “शुक्लं कृष्णं तथा पीतं हरितंलोहितं तथा। करवीरं महेशानि! जवापुष्पं तथैव च। स्वयं काली महामाया स्वयं त्रिपुरसुन्दरी। अनादरं न कर्त्तव्यं कृत्वा च नरकं व्रजेत्”। दशमपटले “कृष्णापराजिता साक्षाद्भद्रकाली न संशयः। करवीरञ्च भुवना द्रोणं भुवनसुन्दरी। जवा साकाद्भगवती सर्वविद्यास्वरूपिणी। ये साधका जगन्मातरर्च्चयत्ति शिवप्रियाम्। एतैश्च कुसुमैश्चण्डि! स शिवो मात्र संशयः। येनार्चिता जगद्धात्री द्रोणकृष्णजवादिभिः। राजसूयाश्वमेधाद्यैर्वाजपेयाग्निहोत्रकैः। फलं यज्जायते चण्डि! तत् सर्वं कुसुभार्चनात्। जवाद्रोणं तथा कृष्णामार्लू करवीरकम्। साक्षाद्ब्रह्म खरूपञ्च महादेव्यै निवेदयेत्। श्वेतचन्दनसंयुक्तं रक्तचन्दबलेपितम्। यो दद्याद्भक्तिभावेन स विश्वेशो न संशयः”। अथ कामनाभेदे पुष्पविशेषः तत्रैव “करवीरस्य माघ्यस्य सहस्वाणि ददाति यः। स कामान् प्राप्य चाभीष्टान् देवीलोके महीयते। तथैककरवीरेण पद्मानां द्वे सहस्रके। महाघोरे महोत्पाते महापदि च सङ्कटे। महादुःखे महारोगे महाशोके महाभये। पूजयेत् कालिकां तारां भुवनां षोडशीम् शिवाम्। बालां छिन्नाञ्च वगलां धूमां भीमां करालिनीम्। कमलाभन्न पूर्णाञ्च दुर्गां दुःखविनाशिनीम्। सर्वविद्या जवाद्रोण करवीरैर्मनोहरैः। मालूरपत्रैः कृष्णाभिः कृष्णां संपूज्य मूतले। साधकेन्द्रो महेशानि! भवेन्मुक्तो न संशयः”। भुण्डमालायां दशमपटले “जवापुष्पैर्द्रोणपुष्पैः करवीरैर्मनोहरैः। कृष्णापराजितापुष्पैरब्जैश्च मुनिपुष्पकैः। पूजयेत् परया भक्त्या चण्डिकां परमेश्वरीम्”। योगिनीतन्त्रमत्स्यसूक्तयोः “येऽर्चयन्ति जनाध्यक्षं करवीरैः सितासितैः। चतुर्युगानि देवेशि! प्रीतो भवति माधवः। “वकपुष्पं च जातिस्तु तथा रुद्रजटस्य च। वाजप्रेयस्य यज्ञस्य फलं प्राप्नोति नान्यथा। सर्वेषामेव पुष्पाणां प्रवरं नीलमुत्पलम्। नीलोत्पलसहस्रेण यस्तु मालां प्रयच्छति। दुर्गायै विधिवद्देवि! तस्य पुण्यफलं शृणु। वर्षकोटिसहस्राणि वर्षकोटिशतानि च। देव्या अनुचरो भूत्वा रुद्रलोके महीयते”। मुण्डमालायाम् “लक्षाणां महिषैमेषैरजैर्दानैर्मखैः शुभैः। पूजिता सा जगद्धात्री यद्येषा कुसुमार्चिता। माहात्म्यञ्चैव कृष्णायाः कृष्णा जानाति कृत्स्नशः। तदर्द्धञ्चाप्यहं देवि! तदर्द्धं श्रीपतिः सदा। तदर्द्धमब्जजन्मा वै तदर्द्धं वेदसाधकः। अन्यपुष्पस्य माहात्म्यं संक्षेपाद्वच्मि शङ्करि!। पृथिव्या मण्डले स्वर्गो वैकुण्ठे कालिकापुरे। जवादिकरवीरैश्च दलैः किं किं फलं लभेत्। न जानाति जगद्धात्री को वेद पार्वतीं विना। करवीरैः श्वेतरक्तैरक्तचन्दनमिश्रितैः। पूजयेत् क्ष्मातटे यस्तु स विश्वेशो भवेद्ध्रुवम्। कृष्णापराजितापुष्पैर्यस्तु देवीं प्रपूजयेत्। सोऽश्वमेधसहस्राणां फलं प्राप्य शिवां व्रजेत्। सहा० विपत्तौ यो दद्याज्जवां कृष्णापराजिताम्। द्रोणं वा करवीरं वा स गच्छेत् कालिकापुरम्”। तत्रैव “किञ्च पाद्यैः किञ्च वाद्यैर्नैवेद्यैः किञ्च पूजनैः। मधुदानैर्मधुपर्कैः कुम्भकैः किञ्च रेचकैः। पूरकैः किञ्च वा ध्यानैः पाणायामैश्च किञ्च वा। किं जपैः किं तपोभिर्वा मत्स्यैर्मांसैश्च पञ्चमैः। किमन्वमन्त्रैः किं मन्त्रः किं यन्त्रैः किञ्च साधवः। लिं वेदैरासवैः किं वा श्यशानैर्मन्थसाधनैः। किमध्वरैर्मन्त्रपूतैर्मन्त्रार्थैर्षन्त्रजीवनैः। किं योनिमुद्रया किं वा तीर्थैः किं ब्रह्मसाधनैः। किं मातृकान्यासगणैः किं कटैः किं घटैः पटैः। किं काकचञ्चुभिः षोडान्यासैः किं धर्मसाधनैः। येनार्च्चिता महादेवी करवीरैर्जवादिभिः। कृष्णापुराजितापुष्पैः करवीरैर्मनोहरैः। द्रोणैस्तु केतकीपुष्पैर्जवामालूरपत्रकैः। पूजिता यैर्भगवती तेषां किं कर्म साधनैः”। नित्यातन्त्रे एकादशपटले “म तुलस्या यजेत् कालीं नाक्षतैर्विष्णुसर्चयेत्। अपराजितायादानेन साक्षात्तुष्टा भवेच्छिवा। कालिकायाश्च ताराया करवीरमतिप्रियम्। जवापुष्पं महेशानि! दद्यान्न धारयेत् कचित्। रक्तोत्पलेन देवेशि! कालिकां पूजयेत् सकृत्। शतवर्षसहखाणां पूजायाः फलमाप्नुयात्”। तथा “दुर्वापि गर्भसंयुक्ता देवी तुष्टिकरी भवेत्”। पुरसरणरसोल्लासे “मञ्जरीं सहकारस्य केशवाय निवेदयेत्। रुद्रजटां शिरोषञ्च दाडिमं काञ्चनं तथा। नीलकण्ठं मयूरञ्च योन्याकारञ्च वर्जयेत्। पुष्पदाने काम्यफलं नित्यातन्त्रे ईश्वर उवाच। “ब्रह्महत्यादिपापानां प्रायसितं सुरेश्वरि। रक्तपुष्पैर्महादेवि! चक्रराजं प्रपूजयेत्। कुलाचारक्रमेणैव कर्पूरक्षोदमण्डितम्। महापातककोटिस जन्मान्तरकृता अपि। मासमात्रेण हन्यन्ते सत्यं सत्यं न संशयः। लक्ष्मीस्तस्य भवेद्गेहे सुस्थिरा पीरवन्दिते!। जवापुष्पैर्महेशानि! पूर्ववद् याद पूजयेत्। मासमात्रेण नश्यन्ति सप्तजन्मकृताम्बपि। ब्रह्महत्यादिप्रापानि धनवान् जायते कविः। पूर्ववत् केतकीपुष्पै पत्रैर्वा यदि पूजयेत्। सासमात्रेण देवेशि। उपसातकको टयः”। (नश्यन्तीति पूर्वोक्तेनान्वयः)। “लभते राजसौभाग्यं साधको नात्र संशयः। शतपत्रैर्महेशानि। पूर्ववत् पूजवेच्छिवाम्। मासमात्रेण देवेशि! सर्वपापं विनाशयेत्। चम्पकैः पूजयेद्देवीं पूर्ववम्मासमात्रकम्। निहत्य परमेशानि! पातकं शतजन्मजम्। सौभाग्यं लभते भन्त्री त्रिषु लोकेषु पार्वति!। श्वेतपद्मैर्महेनिहत्य परमेशानि! मासमात्रं पपूजयेत्। त्रिंशज्जन्मकृतं पापं नाशयेन्नात्र संशयः। बन्धूकैः पूर्ववद्देवि! मासमात्रं प्रपूजयेत्। निहत्य सर्वपापानि राजानं वशमानयेत्। मालतीमञ्चिकाजातीकुन्दैः श्वेतोव्पलैः सह। सुसिश्रैः पूर्व- वद्देवि! भागमात्रं प्रपूजयेत्। ब्रह्महत्यादिपाषानि शतजन्मकृतान्यपि। गाक्षयेत् परमेशानि! मुक्तिस्तस्य करे स्थिता। रक्तोत्पनजवावह्निबन्धूकागस्त्यकैः शिवाम्। पूर्ववत् परमेशानि। मासमात्रं प्रपूजयेत्। पातकं नाशयित्वाऽसौ मम तुल्यो भवेन्नरः। नागकेशरकह्लारबकुलैः सिन्धुवारकैः। पाटलः पूजयेद्देवि! श्रीपीठान्तर्निसासिनीम्। पूर्ववत् पूजयेद्देवि! मासमात्रं प्रसन्नधीः। सहस्रजन्मजं पापं नाशयेज्ञात्र संशयः। सौभाग्यमतुलं तस्य भवेद्देवी प्रसादतः”। योगिनीतन्त्रे “नोत्सृज्य दद्यात् पुष्पाणि वनस्यानि कदाचन। न शक्नुवन्ति वै देवाः समाकर्षितुसुद्यताः। एकैकं कुसुमं यक्षा रक्षन्ति दश वै यतः। तथा यक्षाङ्गनाः पञ्च क्षर्वतः कुसुमावृताः। तस्मादाह्वच कुसुमं यजेद्देवान् पितॄनपि” इति वृक्षस्थपुम्पदाननिषेधः। मत्स्यसूक्ते “स्वात्वा मध्याह्नसमये न च्छिद्यात् कुसुम नरः। तत्पुष्पेरर्च्चने देवि! रौरवे परिपच्यते” मध्याह्न इत्युपादानात् प्रातःस्नातस्य पुष्याहरणे न दोषः। अथ पुष्प माला विश्वसारतन्त्रे “नीलोत्पलसहस्रेण यस्त मालां प्रयच्छति। दुर्गायै विधिवद्देवि! तस्य पुण्यफलं शृणु। वर्षकोटिसहस्राणि वर्षकोटिशतानि च। दव्या अनुचरो भूत्वा रुद्रलोके महीयते”। योगिनीतन्त्रे नवमपटले “मालतीमालया विष्णुरर्चितो येन कार्तिके। पापाक्षरकृता माला नाशिता तस्य विष्णुना”। तथा “करवीरकृतां मालां गाधवाय प्रयच्छति। देवेन्द्रोऽपि महेशानि! करोति करसंपुटम्”। तत्रैक “न भेदयेद् यज्ञसूत्रं मालाञ्चैव न भेदयेत्। विशिष्य मालतीमालां व्याघ्रधर्म तथैव च”। वृहन्नलीतन्त्रे द्वितीवपटले “कोकणदञ्च बन्धूकं कर्णिकाद्वयमेव च। वकमन्दाररक्ताणि करवीराणि शस्यते। मल्लिकात्रितयं जाती क्षौमपुष्यं जयन्तिका। विल्वपत्रं कुरुवकं मुनिपुष्पञ्च केसरम्। वासन्ती चैव सौगन्धं कालपुष्पं मनोहरम्। आमलकञ्च कादम्बं बकुलं यूथिका तथा। बिल्वैर्मरुवकाद्येश्च तुललोवर्जितैः शुभैः। ओड्रपुष्पैर्विशेषेण वज्रपुष्पेण शोभितम्। सवं पुष्पं प्रदद्याच्चभक्तियुक्तेन चेतसा। जवापुष्प महेशानि! दद्याद्वेव्यै विशेषतः। पद्मं प्रियतरं देव्या शेफाली बकुलं तथा। रक्तोत्पलेन देवेशि! पूजयेत् परमां शिवाम। लक्षवर्षसहस्राणां पूजायाः फमाद्गुयात्। शिरीषं वरम देव्याः पीतिद तगरं तथा। स्थलपद्मं सुतुतरं लक्षसंख्यक्रमेण तु। सदि दद्यात्महेक्षानि! कर्यसिद्धिः सुरेश्वरि!। तदैव मन्त्रसिद्धिः स्यान्नात्र कार्य्या विचारणा। द्विजार्गी तुलसीं रम्यां तस्याः प्रीतिकरीं पराम्। काञ्चनं रक्तवर्णञ्च अतिप्रियतरं महत्। भक्तियुक्तो महशानि! सर्वपुष्पं निवेदयेत्”। वृहन्नीलतन्त्रे “चातुर्मास्ये तु लक्षैलमालत्या योऽर्च्चयेद्धरिम्। शतजन्मकृत पापं तत्क्षणादेव नश्यति। करवीरस्य कुसुमैर्येऽर्चयन्ति हरेर्द्दिने। दर्शनात्तस्य देवेशि! नरकाग्निः प्रणश्यति”। वर्ज्यपुष्पाणि “नार्च्चयेत् झिण्टिपुष्पेण पीतैश्च तगरैस्तथा। श्वेतेनोड्रेख कृष्णेन विजयेन नचार्चयेत्”। प्रपञ्चसारे षष्ठपटले “अङ्गने पतितै र्माल्यैः शीर्णैर्वा जन्तुदूमितैः। आघ्रातैरङ्गसंस्पृष्टै रूषितैर्नापि र्च्चयेत्”। सारदायाम् “मलिनं भूमिसंस्पृष्ट कृमिकेशादिदूषितम्। अङ्गस्पृष्टं समाघ्रातं त्यजेत् पर्युषितं तथा”। मत्स्यसृक्ते चतुर्द्दशपटले “शेफालिका तु कह्लारं शरतकाले प्रशस्यते। अन्यत्र न स्पृशेद्देवि! प्रायश्चित्तन्तु पूजनात्। नार्चयेद्रक्तकृष्णेन तथोग्रगन्धिकेन च। करवीरस्य माध्यस्य बन्धूजीवस्य चैव हि। कशरस्य सवज्रस्य रक्तं देवि! प्रशस्यते”। योगिनीतन्त्रे “बिल्वप्त्रं शमीपत्रं तमालामलकीदलम्। अपाङ्गभृङ्गपत्रञ्च कुशं दूर्वास्तथैव च। पुष्पाणामप्यभावे तु फलान्यपि निवेदयेत्। फलानामप्यभावे तु तत्पत्रै पूजयेद्धरिम्।” गुप्तपूजापुष्पञ्च तत्रैव “सिहास्यञ्चैव मालूरं धुस्तूरञ्च चतुर्विधम्। तथा रुद्रजटे द्वे च गुह्यपुष्पञ्च शङ्करि। पद्मे नीलोत्पले देवि। वकमन्दारकाञ्चने। माधवीद्वे तमालञ्च गुप्तमेतद्वरार्चने”। दिवारात्रिभेदेन पुष्पविशेषेण पूजनमुक्तं तत्रैव “कनकानि सुगन्धीनि रात्रौ देयानि शङ्करि!। दिवा चाग्यानि पुष्पाणि दिवा रात्रौ च मल्लिका। देवालयस्य पुष्पेण यो देवं प्रतिपूजयेत। अन्धत्वं प्राप्नुयात् सोऽपि दश वर्षाणि पञ्च च”। देवताविशेपे पुष्पविशेषवर्जगमपि तत्रैव “शिवे विवर्जयेत् कुन्दं माधे माध्यं प्रशस्यते। गणेशे वर्जयेन्माध्यमशोकं तगरन्तथा। सूर्य्ये माघ्यञ्च मन्दारं कनकञ्च तथैव च। महालक्ष्म्यै च तुलसीं झिण्टिकां काञ्चनन्तथा। बन्धूजीवञ्च द्रोणञ्च सरस्वत्यै न दापयेत्। ग्रहाणां विल्वपत्रञ्च शमीपत्रं तथैव च। ब्रह्मणे वर्जयेत् काशं कौसुम्भं शमीपुष्पकम्। वात्रीपुष्पं कुरण्टञ्च जलपुष्पं तथैव च। दुर्गायै न प्रदद्याच्च सोमपुष्पं तथेव च। त्रिपुरायै काञ्चनञ्च कनकं वासकं तथा। किंशुकं कृष्णकान्ताञ्च इन्द्राक्ष्यै वर्जयेत्तथा। अकर्मण्यपुष्पदाने दोषो यथा “वराह उवाच” अकर्मण्येन पुष्पेण यो मामर्चयते भुवि। पातकं तस वक्ष्यामि तच्छृणु त्व वसुन्धरे!। नाहं तत् प्रतिगृह्णामि न च ते वै, मम प्रियाः। मूर्खैर्भागवतैर्दत्तं मम विप्रयकारिणः। पतन्ति नरके घोरे रौरवे तदनन्तरम्। अज्ञातस्य च दोपेण दुःखान्यनुभवन्ति च। वानरो दश वर्षाणि मार्जारश्च त्रयोदश। मूषकः पञ्चवर्षाणि बलीवर्दश्च द्वादश। छागश्चैवाष्ट वर्षाणि वर्षं वै ग्रामकुक्कुटः। त्रीणि वर्षाणि सहिषो भवत्येव न संशयः। एतत्ते कथितं भद्रे! पुष्पं यन्मेऽत्र रोचते। अकर्मण्यं विशालाक्षि! पुष्पं यो न ददाति वै” वराहपु०। देवी प्रियपुष्पाणि यथा “पुष्पाणि देव्या वैष्णव्याः प्रियाणि शृणु संप्रति। बकुलैश्चैव मन्दारैः कुन्दपुष्पकुरण्टलैः। करवीरार्कपुष्पैश्च शालमलैश्चापराजितैः। दमनैः सिन्धुवारैश्च वकैर्मरुवकैस्तथा। लताभिर्ब्रह्मवृक्षैश्च दूर्वाङ्कुरैश्च कोमलैः। मञ्जरीभिः कुशानाञ्च विल्वपत्रैः सुशोभनैः। पूजयेद्वैष्णवीं देवीं कामाख्यां त्रिपुरां तथा। अन्याश्च याः शिवाप्रीत्यै जायन्ते पुस्पजातयः। ता इमाः शृणु कीर्त्यन्ते मया वेताल! भैरव!। मालती मल्लिका जाती यूथिका माधवीलता। पाटला करवीरञ्च जवा तर्कारिका तथा। कुब्जकं तगरश्चैव कर्णिकारोऽथ रोचनः। चम्पकाम्रातकौ बाणवर्वरौ मल्लिका तथा। अशोका लोध्रतिलकावटरूषशिरीषके। शमीपुष्पञ्च द्रोणञ्च पद्मोत्पलवकारुणाः। श्वेतारुणे त्रिसन्ध्ये च पलाशः खदिरस्तथा। वनमालाऽथ सेवन्ती कुमुदोऽथ कदम्बकः। चक्रं कोकणदञ्चैव भण्डिलो गिरिकर्णिका। नागकेशरपुन्नागौ केतक्यञ्जलिका तथा। दोहदा र्वाजपूरश्च नमेरुः शालमेव च। त्रपुषी चण्डसिन्धुश्च झिण्टी पञ्चविधा तथा। एवमाद्युक्तकुसुमैः पूजयेत् वरदां शिवाम्” वर्जनीयपुष्पं यथा “पुष्पञ्च कृमिसम्भिन्नं विशीर्ण भग्नमुद्गतम्। सकेशं मूषिकाधूतं यत्नेन परिवर्जयेत् याचितं परकीयञ्च तथा पर्युषितञ्च यत्। अन्त्यस्पृष्ट पदास्पृष्ट यत्नेन परिवर्जयेत्” कालिका पु० ६८ ५४ अ०। केशवपूजने प्रशस्तपुष्पाणि यथा “मालतीमल्लिका चव यूथिका चातिसुक्तिका। पाटलाकरवीरञ्च जयासवतिरेव च। कुब्जकस्तगरश्चैव कर्णिकारः कुरुण्टकः। अम्पकस्तगरः कुन्दो बाणवर्वरमल्लिकाः। अशोकस्तिलकश्चम्पस्तथा चैवाटरूषकः। अमी पुष्पप्रकारास्तु शस्ताः केशवपूजने। केतकीपत्रपुष्पञ्च पुष्पं भृङ्गारकस्य च। तुलस्यामलकी चैव सद्यस्तुष्टिकरं हरेः। पद्मान्यम्बुसमुत्थानि रक्तनीले तथोत्पले। सितोत्पलञ्च कृष्णस्य दयितानि सदा नृप!। तानि पुष्पाणि देयानि विष्णवे प्रभविष्णवे” अग्निपु०। किञ्च “जातो शताह्वा सुमना कुन्दं बहुपुटं तथा। वाणञ्च पङ्कजाशोकं करवीरञ्च यूथिका। पारिभद्रं पाटला च वकुलं गिरिशायिनी। तिलकं वनजञ्चैव पीतकं तगरन्त्वपि। एतानि हि प्रशस्तानि कुसुमान्यच्युतार्च्चन। सुरभीणि तथान्यानि वर्जयित्वा तु केतकीम्। येषामपि हि पुष्पाणि प्रशस्तान्यच्युतार्चने। पल्लवान्यपि तेषां स्युः प्रशस्तानि महासुर!। वीरुघानां प्रधानेन वर्हिषाञ्चार्चयेत्तथा। नानारूपैश्च्वाम्बुभवैः कमलेन्दीवरादिभिः। प्रबालैः शुचिभिः शुद्धैर्जलप्रक्षालितैर्वले!। वनस्पतीनामर्चेत तथा दूर्वादिपल्लवैः” वामनपु० ९१। विष्णौ पुष्पविशेषदानस्य फलं यथा “आरामप्रभवैः पुष्पैरच्छिद्रैः कीटवर्जितैः। तथाऽपर्य्युषितैस्तद्वत् कार्त्तके विष्णुमर्चयेत्। वर्णानां हि यथा विप्रस्तीर्थानां जाह्नवी यथा। देवानाञ्च यथा विष्णुः पुष्पाणां मालती तथा। मालतीमालया देवं योऽर्चयेद् गरुडध्वजम्। जन्मदुःख जरारोगैः कर्मभिर्मुक्तिमाप्नुयात्। मालतीमालया येन पूजितः कार्त्तिके हरिः। पापलक्षायुतं तस्य वत्स! शौरिः प्रमार्जति। मालतीपुष्पमालाभिः कार्त्तिके पुष्पमण्डपम्। विष्णोर्गृहे कृतं यैस्तु ते यान्ति परमां गतिम्। जातिपुष्पैर्विरचितां मालां यः सम्प्रयच्छति। विष्णवे विधिवद्धक्त्या तस्य पुण्यफलं शृणु। कल्पकोटिसहस्राणि कल्पकोदिशतानि च। वसेद्विष्णुपुरेश्रीमान् विष्णुतुल्यपराक्रमः। यः स्वर्णकेतकैः पुष्पैः पूचयेद् गरुडध्वजम्। अब्दकोटिशतं यावत्तुष्टः स्यात्तस्य वै हरिः। दामोदरं पूजेवेद्यः कुसुमैः केतकोद्भवैः। स वसेद्विष्णुनिलये देवेन सह मोदते। मल्लिका कुसुमैर्देवं योऽर्चयेत् त्रिदेशश्वरम्। कार्त्तिके परया भक्त्या दहेत् पापं त्रिघार्जितम्। सुगन्धैर्मल्लिकापुष्पैरच्युतं योऽर्चयेन्मुने!। स सर्वपापनिर्मुक्तो विष्णुलोके महीयते। वेदधर्मेण केनापि संप्राप्वे मधुमाघवे। योऽर्च्चयेत् स मुनिश्रेष्ठ! लभते वैष्णवं पदम्। यः पुनः पाटलापुष्पैरर्च्चयेद् गरुडध्वजम्। सुपुण्यान्मा परं स्थानं स प्रयाति हरेर्मुने!। अगस्त्यपुष्पैदैवेशं येऽर्च्चयन्ति जनार्द्दनम्। देवर्षे! दर्शनात्तेषां नरकाग्निः प्रणश्यति। न तत् करोति विप्रेन्द्र! तपसा तोषितो हरिः। यत् करोति हृषीकेशो मुनिपुष्पैरलङ्कृतः। विहाय सर्वपुष्पाणि मुनिपुष्पेण केशवम्। कार्त्तिके योऽर्च्चयेद्भक्त्या वाजिमेधफलं लभेत्। मुनिपुष्पकृतां मालां ये यच्छन्ति जनार्दने। शक्रोऽपि तैः समं वत्स! कुरुते ह्यभिभाषणम्। ददात्यभीप्सितान् कामान् वृक्ष चिन्तामणिर्यथा। कार्त्तिके मुनिपुष्पेण पूजितो गरुडध्वजः। गवामयुतदानेन यत् फलं कार्त्तिके मुने!। मुनिपुष्पेण चैकेन कार्त्तिक्यां तत् फलं स्मृतम्। येऽर्च्चयन्ति सुराध्यक्षं करवीरैः सितासितैः। तेषां वर्षशतं यावत् प्रभुर्भवति केशवः। बकुलाशोककुसुमैर्येऽर्च्चयन्ति जगत्पतिम्। निर्भीकास्ते भवन्तीह यावच्चन्द्रदिवाकरी। अशोककुसुमैरम्यैर्जन्मशोकभयाषहम्। पूजयित्वा हरिं याति पदं विष्णोरनामयम्। शुभगन्धैः सितैर्वत्स! कुसुमैः पङ्कजोद्भवैः। अधोक्षजं समभ्यर्च्य नरो याति हरेः पदम्। अभ्यर्च्य कौमुदैः पुष्पैः केशवं त्रिदशैरपि। अटरूषकपुष्पैश्च पूजयेद्यो जगत्पतिम्। स पुण्यवान्नरो याति तद्विष्णोः परमं पदम्। कार्त्तिके योऽर्च्चयेद्विष्णुं तुलसीबिल्वपङ्कजैः। त्रिदर्शरपि पूज्यः स न शक्यो यमकिङ्करैः। माधवेयोऽर्च्चयेद्विष्णुं तुलमीबिल्वपङ्कजैः। त्रिदशैरपि पूज्यः स न शक्यो यमकिङ्करैः। माधवे योऽर्च्चयेद्विष्णुं सुपुष्पैस्तिलकोद्भवैः। घूतपापो विरातङ्कः सविष्णोर्याति तत् पदम्। समित्पुष्पकुशादीनि श्रोत्रियः स्वयमाहरेत्। शूद्रानीतैस्तैश्च हरेः पूजां कुर्वन् व्रजत्यधः। तस्माद्विप्रो मुनिश्रेष्ठ! शिष्येख खयमेव वा। पुष्पादीनि समाहृत्य पूजेयत् परमेश्वरम्। विप्रो दूर्वामयैः पुष्पेस्तथा काशकुशोद्भवैः। तुखलीबिल्वपत्रैश्च पूजयेद्देवताः पितृन्। नार्च्चयेत्तगरैः सूर्य्यं धूर्त्तपुष्पेण केशवम्। देवीं लकुचपुष्पैश्च शङ्करं नागकेशरैः”। कालविशेषे तस्य पर्य्युषितत्वं यथा “प्रहरं तिष्ठते जाती प्रहरार्द्ध्वन्तु मल्लिका। त्रियामं मुनिपुष्पञ्च करवीरमहर्निशम्”। आम्बमञ्जरीविल्वपत्रदानफलं यथा “मञ्जुरीं सहकारस्य ये प्रयच्छन्ति वैष्णवाः। कार्त्तिके सफलास्ते स्युर्गोकोटीफलभागिनः। कार्त्तिके योऽर्च्चयेद्भक्त्या विल्वपत्रेण केशवम्। दद्याद् यज्ञायुतफलं केशवस्तस्य वै मुने!। बिल्वपत्रेण ये कृष्णं कार्त्तिके कलिमर्दनम्। पूजयन्ति महाभक्त्या मुक्तिस्तेषां करे स्थिता। नागकेशरपुष्पैर्यः पूजयेद् गरुडध्वजम्। स याति वैष्णवं स्थानं यत्र गत्वा न शोचते। कदम्बकुसुमैर्यो वै पूजयेन्मधुसूदनम्। जन्मायुतार्जितं पापं स्फोटितं तेन नारद!। न तथा केतकीपुष्पैर्मालती कुसुमैस्तथा। तोषमायाति देवेशः कदम्बकुसुमैर्यथा। दृष्ट्वा कदम्बपुष्पाणि तोषमायाति माधवः। किं पुनः पूजितो देवः सर्वकामप्रदो हरिः। हरिं किंशुकपुष्पैर्यः पूजयेत् त्रिदशाधिपम्। वैकुण्ठे रमते शश्वत् विष्णुना सह वैष्णवः। वर्षाकाले च देवेशं कुमुदैश्चन्द व्राचितैः। योऽर्च्चयेत् परमं विष्णुं संसारे न पुनर्विशेत्। कुन्दपुष्पैश्च विप्रर्षे! योऽर्चयेद् गरुडध्वजम्। कोटि जन्मार्जितं पाप तत्क्षणादेव नश्यति। शमीपुष्पैश्च देवेशं पूजयेदसुरद्विषम्। यमं न पश्येद्विप्रर्षे! न याति दुर्गतिं नरः” पाद्मोत्तरख० १३१ अ०। लक्ष्मोतुल्यप्रियपुष्पाणि नारदीयसं० “मालती बकुलाशोक शेफालीनवमालिकाः। अम्लानतगराङ्कोठमल्लिका मधुपिण्डिकाः। यूथिकाष्टापदं कुन्दं कदम्बं मधुपिष्पलम्। पाटलाचम्पकं कृष्णं लवङ्गमतिमुक्तकम्। केतकं च कुरुवकं विल्वं कह्लारकं द्विज!। पञ्चविंशतिपुष्पाणि लक्ष्मीतुल्यपियाखि मे”। केशवार्चने निषिद्धपुष्पाणि विष्णुधर्मोत्तरे। “उग्रगन्धीन्यगन्धीनि कुसुमानि न दापयेत्। अन्यायतनजातानि कण्टकीनि तयैर्व च। वक्तानि यानि धर्मज्ञे! चैत्यवृक्षोद्भवानि च। श्मशानजाथान्यन्यानि यानि चाकालजानि च”। तथा “कुटजं शाल्मलीपुष्धं शिरीषञ्च जनार्दने। निवेदितं भयं रोगं निःस्वत्वश्च प्रयच्छति। बन्धुजीवकपुम्पाणि रक्तान्यपि च दापयेत्। अन्यरक्तकपुष्पाणां दानात् दौर्भाव्यमाप्नुयात्”। परारोपितवृक्षस्य पुष्पग्रहणे दोछः। अगस्त्यः “परारोपितवृक्षेभ्यः पुष्पाण्यानीय योऽर्चयेत्। अविज्ञाप्य च तस्यैव निष्फलं तस्य पूजितम्”। एतद् द्विजेतरपरम् “द्विजस्तृणैधः पुष्पाणि सर्वतः स्ववदाहरेत्” इति याज्ञवम्क्यात्। “देवाद्यर्थन्तु कुसुममस्तेयं मनुरब्रवीत्” इति वचनात्। “गोऽग्न्यर्थे तृणमेधांसि वीरुद्वनम्पतीनां पुष्पाणि खवदाददीत फलानि चापरिवृंहितानि” इति गोतमवचनाच्च। द्विजेतरस्य दण्डोऽपि “तृणं वा यदि वा काष्ठं पुष्पं वा यदि वा फलम्। अनापृच्छन् हि गृह्णानो हस्तच्छेदनमर्हति” इति स्मृतेः। “देवोपरिधृर्त मस्तकोपरिधृतम् अधोवस्त्रधृतम् अन्तर्जलक्षालितञ्च पुष्पं दुष्टमिति” हरिभक्तिनामके ग्रन्थे। अभिवाद्याभिवादककरस्थपुष्पं प्रोक्षणात् कर्मण्यम्” इति केचित्। याचितादिपुष्पदानस्य निष्फलत्वम्। “याचितं निष्फलं पुष्पं क्रयक्रीतञ्च निष्फलम्” इति वदन्ति। वामहस्तचितादि पुष्पस्यादेयत्वं यथा “न पुष्पच्छदनं कार्य्यं देवार्थं वामहस्ततः। न दद्यात्तानि देवेभ्यः संस्थाप्य वामहस्ततः। समित्पुष्पादीनां स्वयमाहरणीयत्वं हारीतशातातपौ “समित्पुष्पकुशादीनि ब्राह्मणः स्वयमाहरेत्। शूद्रानीतैः क्रयक्रीतैः कर्म कुर्वन् पतत्यधः”। क्रये प्रतिप्रमवमाह ब्रह्मपु० “पुष्पैर्धूपैश्च नैवेद्यैर्वीरक्रयक्रियाहृतैः”। वीरक्रयो वीरवत् याच्ञाशून्येन विक्रेतुरुसन्यस्तमूल्येन क्रयः। पुष्पदानप्रकारो ज्ञानमालायां “पुष्पं वा यदि वा पत्रं फलं नेष्टमधोमुखम्। पुष्पाञ्जलिविधिं हित्वा यथोत्पन्नं तथार्पणम्”। मध्याह्नस्नानानन्तरं पुष्पचयनस्य दोषो यथा “स्नानं कृत्वा तु ये केचित् पुष्पं गृह्णन्ति वै द्विजाः। देवतास्तन्न गृह्णन्ति भस्मीभवति दारुवत्”। एतत्तु द्वितीयस्नानाभिप्रायम्। इति रत्नाकरः। व्यक्तं मत्स्यसूक्ते “स्नात्वा मध्याह्नसमये न छिन्द्यात् कुसुमं नरः। तत्तत्पुष्पार्चने देवि! रौरवे परिपच्यते”। पुष्पाभावे देयानि विष्णुधर्मोत्तरे “पुष्पाभावेऽपि देयानि पत्राणि च जनार्दने। पत्राभावे जलं दद्यात्तेन पुण्यमवाप्यते”। पुष्पदानमाहात्म्यं यथा “न रत्रैर्न सुवर्णेन न वित्तेन च भूरिणा। तथा प्रसादमायाति यथा पुष्पैर्जनार्दनः”। देवताविशेषे वर्जनीयपुष्पं यथा शातातपः “शिवे विवर्जयेत् कुन्दमुन्मत्तञ्च हरेस्तथा। देवीनामर्कमन्दारौ सूर्य्यस्य तगरन्तथा”। पुष्पविशेषाणां कालभेदे पर्य्युषितमुक्तं भविष्ये “पद्मानि सितरक्तानि कुमुदान्युत्पलानि च। एषां पर्युषिताशङ्का कार्य्या पञ्च दिनोत्तरम्”। पुष्विशेषस्यापर्युषितत्वं यथा “तुलस्यगस्त्यविल्वानां न च पर्युषितात्मता”। योगिनीतन्त्रे “विल्वपत्रञ्च माघ्यञ्च तमालामलकोदलम्। कह्लारं तुलसीञ्चैव पद्मञ्च मुनिपुष्पकम्। एतत् पर्यु पित न स्यात् यच्चात्यत् ककिकात्मकम्।” कलिकात्मकं प्रस्फुटनयोग्यम् एका० त०। अन्यत् पर्युषितशब्दे दृश्यम्।

पुष्पक = न० पुष्पमिव पुष्पेण वा कायति कै–क स्वार्थे क वा। १ पुष्पशब्दार्थे २ रीतिपुष्पे ३ कुवेरविमाने ४ नेत्ररोगभेदे ५ रत्नकङ्कणे ६ रसाञ्जने ७ लौहकांस्यै ८ मृत्तिकाङ्गारवाहकशकट्याञ्च मेदि०। ९ कासीसे हेमच०।

पुष्पकरण्डक = न० अवन्तिस्थे शिवोद्यानभेदे “महाकालस्योज्जविनी विशालाऽवन्तिका तथा। तस्योद्यानं तु विज्ञेयं नाम्ना पुष्पकरण्डकम्” शब्दमा०। ततः अस्त्यर्थे इनि ङीप्। पुष्पकरण्डिका उज्जयिन्यां स्त्री हेमच०। ६ त०। (साजि) २ पुष्पचयनपात्रभेदे न०।

पुष्पकाल = पु० पुष्पस्य कालः। १ स्त्रीणामृतुसमये द्वादशवर्षादौ क ले पुष्पप्रधानः कालः शा० त० २ कुसुमप्रधाने ३ वसन्तकाले।

पुष्पकासीम = न० पुष्पमिव कासीसम्। कासीसभेदे राजनि०। “कासीसं धातुकासीसं पांशुकासीसमित्यपि। तदेव किञ्चित् पीतन्तु पुष्पकासीसमुच्यते” भावप्र० कासीसशब्दे दृश्यम्

पुष्पकीट = पु० पुष्पप्रियः कीटः। १ भ्रमरे त्रिका० ७ त० २ कुसुमस्थितकृमिमात्रे च।

पुष्पकेतन = पु० पुष्पं केतनं यस्य। कामदेवे हेमच०।

पुष्पकेतु = न० पुष्पनिर्मितः केतुरिव। १ कुसुमाञ्जने अमरः ६ ब०। २ कामदेवे च।

पुष्पघातक = पु० पुष्पं हन्ति हन–ण्वुल्। १ वंशे शब्दमा०। २ कुसुमनाशके त्रि०।

पुष्पचाप = पु० पुष्पमय चापमस्य। कामे पुष्पधन्वादयोऽप्यत्र।

पुष्पचामर = पु० पुष्पं चामर इव यस्य। १ मदनवृक्षे त्रिका०। २ वेत्रवृक्षे शब्दमाला०।

पुष्पज = न० पुष्पाज्जायते जन–ड ६ त०। १ पुष्परसे राजिनि०। २ पुष्पजातमात्रे त्रि० “अपारयन्तं किल पुष्पजं तेजः” सा० द०

पुष्पद = पु० पुष्पं ददाति दा–क उप० स०। वृक्षे हेमच०।

पुष्पदंष्ट्र = पु० पुष्पमिव दंष्ट्राऽस्य। नागभेदे हरिवं० ३ अ०।

पुष्पदन्त = पु० पुष्पमिव दन्तो यस्य। १ वायुकोखस्थे दिग्गजभेदे अमरः। २ विद्याधरभेदे मेदि०। ३ जिनभेदे हेमच०। ४ बागभेदे धरणिः। ५ वैष्णवानुचरभेदे भाग० ८। २१। १०। ६ पुरद्वाराधिपभेदे “शुद्धाक्षमैन्द्रं भल्लाटं पुष्पदन्तं तथैव च” हरिवं० ११६ अ०।

पुष्पदन्तक = पु० महिम्न इत्यादिस्तवकर्त्तरि भन्धर्वभेदे।

पुष्पदामन् = न० पुष्पनिर्मितं दाम। १ पुष्पनिर्मितमाल्ये भूता श्वाश्वान्त मतनसररगैः कीर्त्तितं पुष्पदाम वृ० र० टी० उक्ते जनविंशत्यक्षरपादके १ छन्दोभेदे च।

पुष्पद्रव = पु० ६ त०। कुसुमरसे मकरब्दे राजनि०।

पुष्पध = पुंस्त्री “ब्रात्यात् तु जायते विप्रात् पापात्माभुर्जकण्टकः। आवन्त्यवाटधानौ च पुष्पधः शैख एव च” मनूक्ते व्रात्यविप्रजाते जातिभेदे स्त्रियां जातिअत्वात् ङीष्।

पुष्पधनुस् = पु० पुष्पं धनुरस्य “वा संज्ञायाम्” पा० पक्षे संज्ञात्वे न अनङ्। कामदेवे माधः ९४।

पुष्पधन्वन् = पु० पुष्पं धनुरस्य संज्ञात्वात् वा अनङ्। कामदेवे अमरः। धन्वन्शब्देन समासेनेव प्रयोगोपपत्तौ अनङ्विधानम् असंज्ञायां धनुःशब्दप्रयोगनिवृत्त्यर्थम्।

पुष्पधारण = पु० पुष्पं धारयति धारि–ल्यु। विष्णौ शा० ७ अ०।

पुष्पनिक्ष = पुंस्त्री पुष्पं निक्षति निक्ष–चुम्बने अण् उप० स०। भ्रमरे पु० स्त्रियां जातित्वात् ङीष्।

पुष्पनिर्यास = पु० ६ त०। पुष्परसे मकरन्दे राजनि०। “पुष्पनिर्यासकः शीतः कषायः स्थौल्यमारकः। दाहम्बमार्त्ति बमिनुत् मोहवक्त्रामयप्रलुत्। तृष्णार्त्तिकफवित्तघ्नसिरारोचकनाशनः। तर्पणः सुरभिः सारो भिधमूभिः परिकीर्त्तितः” राजनि०।

पुष्पनेत्र = न० पुष्पनिर्मितं नेत्रम्। पुष्पगिर्मिते वस्तिशस्वाकाऽवयवमेदे नेत्रशब्दे ४१४० पृ० दृश्यम्। “क्षारनक्षकषायन्तु पुष्यनेत्रेण योजितम्” सुश्रुतः।

पुष्पन्धय = पुंस्त्री० पुष्यंधयति धे–खश् मुम्। १ अमरे राजनि० स्त्रियां जागित्वात् ङीष्। २ कुसुमरसपागिनि त्रि० स्त्रियां घेटः टित्त्वात् ङीप्।

पुष्पपत्त्र = न० ६ त०। (फुलेर पापडि) मवदल चला०।

पुष्पपत्त्रिन् = पु० पुष्पं तन्मयः पत्री गाणोऽस्य। कुलुमशरे लामे।

पुष्पपथ = पु० ६ त०। स्त्रीणामृतुरजोनिर्गद्वारे योनौ त्रिका०।

पुष्पपाण्डु = पु० मण्डलिसर्पभेदे सुश्रुतः अहिशब्दे दृश्यम्।

पुष्पपुर = न० पाटलिपुत्रनगरे कुसुमपुर (घाटना)।

पुष्पप्रच(चा)य = पु० प्र + चि–“हस्तादाने चेरस्तेये” पा० घञ् “हस्तादान इत्यनेन प्रत्थासत्तिरादेयस्य गम्यते” सि० कौ० प्रशबेग तादृशी प्रत्यासत्तिर्द्योत्यते। हस्तेग कुसुमानां चयने। चौर्य्ये तु अच्। चौर्य्येण कुसुमहरणे। हस्तादान इत्युक्तेः यष्ट्यादिगा चयने तु अजेय।

पुष्पप्रचायिका = स्त्री पष्यायेण पुष्पणां चयनम् प्र + चिपर्य्याये ण्वुच् तदन्तस्य स्त्रीत्वम् क्रीडात्वात् नित्य० ल०। आद्युदात्तता च परिपान्ना कुसुमाना चवने।

पुष्पफल = पु० पुष्पयुक्तं फलमस्य। १ कपित्थे अमरः २ कुष्माण्डे शब्दमाला।

पुष्पभूषित = त्रि० ३ त०। १ कुसुमेनालङ्कृते। २ बणिग्नायके रूपकप्रकरणभेदे सा० द० प्रकरणोदाहरणम्।

पुष्पमास = पु० पुष्पप्रधानो मासः शाक० त०। चैत्रे मासि २ वसन्तसमये राजनि०।

पुष्परक्त = पु० पुष्पं रक्तं यस्य। सूर्य्यमणिवृक्षे राजनि०।

पुष्परजस् = न० ६ त०। कुसुमपरागे हेमच०।

पुष्परथ = पु० पुष्पनिर्मितो रथः। पुष्पनिर्मिते रथभेदे हेमच०

पुष्परस = पु० ६ त०। मकरन्दे कुसुमनिर्यासे अमरः।

पुष्परसाह्वय = न० पुष्पस्य रस आह्वयो यस्य। मधुनि राजनि०

पुष्पराग = पु० पुष्पस्येव रागो वर्णो यस्य। १ मणिभेदे (पोकराज) तस्य लक्षणादि युक्तिकल्पतरावुक्तं यथा “सुच्छायपीतगुरुगात्रसुरङ्गशुद्धं स्निग्धञ्च निर्मलमतीव सुवृत्तशीतम्। यः पुष्परागशकलं कलयेदमुष्य पुष्णाति कीर्त्तिमतिर्शार्य्यसुखायुरर्थान्” तस्य दोषलक्षणं यथा “कृष्णविन्द्वङ्कितं रूक्षं घवलं मलिनं लघु। विच्छायं शर्कराकारं पुष्परागं सदोषकम्”। तस्य परीक्षालक्षणे यथा “घृष्टो विकाशयेत् पुष्परागमधिकमात्मीयम्। न खलु पुष्परागो जात्यतया परीक्षकैरुक्तः” राजनि०। तस्योत्पत्त्यादि यथा “सूत उवाच। पतिता या हिमाद्रौ हि त्वचस्तन्वाः सुरद्विषः। प्रादुर्भवन्ति ताभ्यस्तु पुष्परागा महागुणाः। आपीतपाण्डुरुचिरः पाषाणः पुष्परागसंज्ञस्तु। कौरुण्टकनामा स्यात् स एव यदि लोहितापीतः। आलोहितस्तु पीतः स्वच्छः काषायकः स एवोक्तः। आनीलशुक्लवर्णः स्निग्धः सोमा लकः स्वगुणैः। अत्यन्तलोहितो यः स एव खलु पद्मरागः स्यात् सुनीलः सन्। मूल्यं वैदूर्य्यमणेरिव गदितं ह्यस्य रत्नशास्त्रविदा। धारणफलञ्च तद्वत् किन्तु स्त्रीणां शुमप्रदो भवति” गारुडे ७५ अ०। प्रकारान्तरम् शणपुष्पसमः कान्त्या स्वच्छभावस्तु चिक्कणः। पुत्रदो घनदः पुण्डः पुष्परागो मणिर्धृतः। दैत्यधातुसमुद्भूतः पुष्परागमणिर्द्विधा। पद्मरागाकरे कश्चित् कश्चित्तार्क्ष्योपलाकरे। ईषत्पीतच्छविच्छायं स्वच्छं कान्त्या मनोहरम्। पुष्परागमिति प्राक्तं रङ्गसोममहीभुजा। ब्रह्मादिजातिभेदेन तद्विज्ञेयं चतुर्विधम्। छाया चतुर्विधा तस्य सिता पीता सितासिता”। क्लीवत्वमपि।

पुष्पराज = पु० पुष्पमिव राजते राज–अच्। पुष्परागमणौ।

पुष्परेणु = पु० ६ त०। परागे कुसुमरजसि शब्दर०।

पुष्परोचन = पु० पुष्पं रोचनेव यस्य। नागकेशरे। त्रिका०

पुष्पलाव = त्रि० पुष्पं लुनाति मालारचनायै लू–अण् उप्र० स०। मालाकारे त्रिका०। णिनि। पुष्पलाविन् तत्रार्थे जटा०।

पुष्पलिह् = पु० पुष्पं लेढि लिह–क्विप् ६ त०। मधुकरे। क। पुष्पलिहोऽप्यत्र अमरः।

पुष्पवन्त(त्) = पु० द्वि० व०। पुष्प + मत्वर्थे मतुप् मस्य वः। १ रविशशिनोः। पृषो० अदन्तोऽप्ययं तयोरर्थयोः। अत्र “रवित्वचन्द्रत्वाभ्यामेकशक्तिमदेव नियतद्विवचनाकाङ्क्षम्” शब्द० प्र० द्वन्द्वप्रक०। विस्तरस्तु गदाधर शक्तिवादे दृश्यः। २ कुसुमयुक्ते त्रि०।

पुष्पवती = स्त्री पुष्पं स्त्रीरजः अस्त्यस्य मतुप मस्य वः। ऋतुमत्यां स्त्रियाम् अमरः।

पुष्पवर्ग = पु० ६ त०। सुश्रुतोक्ते कुसुमविशेषसमुदाये तेषां विशेषगुणाश्च तत्रोक्ता यथा “कोविदारशणशाल्मलीपुष्पाणि मधुराणि मधुरविपाकानि रक्तपित्तहराणि च। वृषागस्त्ययोः पुष्पाणि तिक्तानि कटविपाकानि क्षयकासापहानि। मधुशिग्रुकरीरकुसुमानि कटुविपाकानि वातहराणि सृष्टमूत्रपुरीषाणि च। “आगस्त्यं नातिशीतोष्णं नक्तान्धार्ना प्रशस्यते। रक्तवृक्षस्य निम्बस्य मुष्ककार्कासनस्य च। कफपित्तहरं पुष्पं कुष्ठघ्नं कुटजस्य च। सुतिक्तं मधुरं शीतं पद्मं पित्तकफापहम्। मधुरं पिच्छिलं स्निग्धं कुमुदं ह्लादि शीतलम्। तस्मादल्पान्तरगुणे विद्यात् कुवलयोत्पले। सिन्धुवारं विजानीयाद्धितं पित्तविनाशनम्। मालतीमल्लिके तिक्ते सौरभ्यात् पित्तनाशने। सगन्धिविशदं हृद्यं बकुलं प्राटलानि च। श्लेष्मपित्तविषघ्नन्तु नागं तद्वच्च कुङ्कुमम्। चम्पकं रक्तपित्तघ्नं शीतोष्णं कफनाशनम्। किंशुकं कफपित्तघ्नं तद्वदेव कुरण्टकम्। यथावृक्षं विजानीयात् पुष्पं वृक्षोचितं तथा। मधुशिग्रुकरीराणि कटुश्लेष्महराणि च”। अन्येषां गुणा भावप्र० विशेषत उक्तास्तत्र दृश्याः।

पुष्पवाटी = स्त्री० ६ त०। पुष्पोद्याने। स्वार्थे क। तत्रार्थे अमरः। “दक्षिणेन पुष्पवाटिकामालाप इव श्रूयते” शकुन्तला।

पुष्पवा(बा)ण = पु० पुष्पं बाणोऽस्य। १ कन्दर्पे २ कुशद्वीपस्थपर्वतभेदे भा० व० १२ अ०। ३ दैत्यभेदे भा० शा० २२७ अ०। ४ नायकभेदे पुष्पबाणचरिते दृश्यम्।

पुष्पवाहन = पु० राजभेदे अग्निपु०।

पुष्पवाहिनी = स्त्री नदीभेदे हरिवं० २६६ अ०।

पुष्पशकटी = स्त्री दैववाण्याम् हारा०।

पुष्पशकलिन् = पु० निर्विषसर्पभेदे सुश्रुतः। अहिशब्दे दृश्यम्।

पुष्पशर = पु० पुष्पं शरोऽस्य। कुसुमेषौ कामदेवे।

पुष्पशरासन = पु० पुष्पमयं शरासनं धनुर्यस्य। कामे

पुष्पशून्य = पु० ३ त०। १ उडुम्बरे राजनि०। २ पुष्परहितमात्रे त्रि०

पुष्पसमय = पु० ६ त०। वसन्ते ऋतौ अमरः।

पुष्पसार = पु० ६ त०। १ कुसुमरसे राजनि०। ७ त०। २ तुलस्यां ब्रह्मवै० पु०।

पुष्पसौरभा = स्त्री पुष्पे सौरभमस्याः। कुसुमे सौरभान्विते कलिकारावृक्षे राजनि०।

पुष्पस्वेद = पु० ६ त०। कुसुमरसे मकरन्दे राजनि०।

पुष्पहासा = स्त्री पुष्पं हास इव यस्याः। १ रजस्वलायां स्त्रियां शब्दच०। मुकुलात्मना स्थितानां पुष्पाणां हास इव प्रपञ्चरूपेण प्रकाशोऽस्य। २ विष्णौ पु०। “पुष्पहासः प्रजागरः” विष्णुस०। ६ त०। ३ कुसुमविकाशे पु०।

पुष्पहीन = पु० ३ त० १ कुसुमरहिते द्रुमे। २ उदुन्दरवृक्षे स्त्री ३ रजःशून्यायां स्त्रियां स्त्री हेम०।

पुष्पा = स्त्री चम्पापुर्य्या (भागलपुर) त्रिका०।

पुष्पागम = पु० पुष्पाण्यागच्छन्त्यत्र आ + गम आधारे अप्। वसन्ते पुष्पातरादयोऽप्यत्र।

पुष्पाजीव = पु० पुष्पमाजीवति आ + जीव–अण् उप० स०। मालाकारे हमच०

पुष्पाञ्जन = न० ६ त०। कुसुमाञ्जने (कोमकाजल)। राजनि०

पुष्पानन = पु० पुष्पमिव विकसितमाननमस्मात्। मद्यभेदे भा० स० १० अ०।

पुष्पाम्बुज = न० पुष्पस्याम्बुनो जायते जन–ड ५ त०। मकरन्दे राजनि०।

पुष्पायुध = पु० पुष्पमायुधमस्य। कुसुमायुधे कामदेवे पुष्पास्त्रादयोऽप्यत्र।

पुष्पार्ण = पु० राजभेदे भाग० ४१३११।

पुष्पावचायिन् = पु० पुष्पमवचिनोति मालार्थम् अव + चिणिनि ६ त०। मालाकारे हेमच०

पुष्पासव = न० ६ त०। मधुनि राजनि० तस्य पुष्पोद्भवत्वात् मादकत्वाच्च तथात्वम्।

पुष्पास्त्र = पु० पुष्पमस्त्रमस्य। कुसुमायुधे कामे हेमच०।

पुष्पाह्वा = स्त्री पुष्पमित्याह्वा यस्याः। शतपुष्पायाम् राजनि०

पुष्पिका = स्त्री पुष्प + ण्वुल्। १ दन्तमले हारा०। २ लिङ्गमले हेम०। ग्रन्थाध्यायसमाप्तौ तत्प्रतिपाद्यकथने ग्रन्थांशभेदे यथा “इति महाभारते शतसाहस्र्यां संहितायामित्यादि”।

पुष्पित = त्रि० पुष्प + तार० इतच्। १ संजातकुसुमे। पुष्प–कर्तरि क्त। २ विकसिते च।

पुष्पिताग्रा = स्त्री “अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा” वृ० र० उक्ते अर्द्धसमवृत्तभेदे।

पुष्पिन् = त्रि० पुष्प + मत्वर्थे इनि। १ कुसुमयुक्ते वृक्षे स्त्रियां ङीप्। सा च २ रजस्वलायां स्त्रियां स्त्री।

पुष्पेषु = पु० पुष्पमिषुर्यस्य। कुसुमबाणे कामे हेम०।

पुष्पोत्कटा = स्त्री राक्षसीभेदे सा च रावणकुम्भर्णयोर्माता “पुष्पोत्कटायां जज्ञाते द्वौ पुत्रौ राक्षसेश्वरौ। कुम्भकर्णदशग्रीवौ” भा० व० २७४ अ०।

पुष्प्य = पुष्प विकशने कण्ड्वा० पाठान्तरम् सक० सेट्। पुष्प्यति अपुष्प्यीत्।

पुष्य = पुंस्त्री कार्य्यं पुष्यति पुष–कर्त्तरि यत् नि०। अश्विन्यादि २७ नक्षत्रमध्ये १ अष्टमे नक्षत्रे, स्त्रीत्वे टाप्। तस्याधिपतिः जीवः। तद्योगतारादिकम् अश्लेषाशब्दे दृश्यम्। २ पौषमासे ३ कलियुगे च पु० मेदि०।

पुष्यनेत्रा = स्त्री पुष्यः नक्षत्रं नेता प्रथमावधिशेषपर्य्यन्त समापको यस्याः अच्समा०। यस्यां रात्रौ प्रथमावधिशेषपर्य्यन्तं पुष्यनक्षत्रस्य दर्शनं तादृश्यां रात्रौ।

पुष्यरथ = पु० यात्रार्थे रथे अमरः। पुष्परथेति तत्र पाठान्तरं तत्रार्थे

पुष्यलक = पुंस्त्री पुष–कि पुषिः पुष्टिस्तस्यै अलति पर्य्याप्नोति अल–अच् स्वार्थे क। गन्धप्रधाने मृगभेदे। “सीम्नि पुष्यलकोहतः” सि० कौ०। स्त्रियां जातित्वात् ङीष्। २ क्षपणके ३ कीले च पु० मेदि०।

पुष्यस्नान = न० पुष्यनक्षत्रकाले स्नानम्। शास्त्रोक्तविधानेन पुष्यनक्षत्रयुक्तकाले नृपस्याभिषेकभेदे तद्विधानं वृ० सं० ४८ अ० दृश्यम्। तत्कालश्च तत्रोक्तो यथा “शुभे मुहूर्त्ते संप्राप्ते पुष्ययुक्ते निशाकरे” पुष्याभिषेकोऽप्यत्र।

पुष्यानुग = न० चक्रदत्तोक्ते चूर्णभेदे “अम्बष्ठकीमोचरसो समङ्गापद्मकेशरान्। वाह्लीकातिविषामुस्तं विल्वं लोध्रं सगैरिकम्। कट्फलं मरिचं शुण्ठीं मृद्वीकां रक्तचन्दनम्। कष्ट्वङ्गवत्सकालान्तधातकीमधुकार्जुनम्। पुष्येणीद्धृत्य तुल्यानि श्लञ्जचूर्णानि कारयेत्। तानि क्षौद्रेण संयुज्य पाययेत् तण्डुलाम्बुना। असृग्दरातिसारेषु रक्तं यच्चोपवेश्यते। दोषागन्तुकृता ये च बालानां तांश्च नाशयेत्। योनिदोषं रजोदोषं श्वेतं नीलं सपीतकम्। स्त्रीणां श्यावारुणं यच्च तत् प्रसह्य निवर्त्तयेत्। चूर्णं पुष्यानुगं नाम हितमात्रेयपूजितम्”।४४२७ पृ० प्रकृतिशब्दस्य परिशिष्टम्

राज्ञां पुरोहितादिषु २१ दशसु सुमन्त्रादिषु २२ अष्टासु च यथोक्तं शुक्रनीतिशास्त्रपरिशिष्टे “पुरोधाश्च प्रतिनिधिः प्रधानः सचिवस्तथा। मन्त्री च प्राड्विवाकश्च पण्डितश्च सुमन्त्रकः। अमात्यो दूत इत्येता राज्ञः प्रकृतयो दश। दशमांशाधिकाः पूर्वा दूतान्ताः क्रमशः स्मृताः। अष्टप्रकृतिभिर्युक्तो नृपः कैश्चित् स्मृतः सदा। सुमन्त्रः पण्डितो मन्त्री प्रधानः सचिवस्तथा। अमात्यः प्राड्विवाकश्च तथा प्रतिनिधिः स्मृतः। एताभृतिसमास्त्वष्टौ राज्ञः प्रकृतयः सदा”। एतेषां लक्षणानि तत्रैवोक्तानि दृश्यानि विस्तरभयान्नोक्तानि।४४३१ पृष्ठस्थप्रगन्धशब्दात् पूर्वत्र परिशिष्टम्

पुस = मर्द्दे व्यूसे हानौ च चुरा० उभ० सक० सेट्। पोसयति ते अपूपुसत् त।

पुस्त = बन्धे अनादरे च चु० उभ० सक० सेट्। पुस्तयति ते अपुपुस्तत् त।

पुस्त = न० पुस्त–अच्। “मृदा वा दारुणा वापि वस्त्रेणाप्यथ चर्मणा। लौहरत्नैः कृतं वापि पुस्तमित्यभिधीयते” इत्युक्ते १ लिप्यादिशिल्पकर्मणि। स्वार्थे क। २ लिप्याधारे ग्रन्थे पुंस्त्री० स्त्रीत्वे गौरा० ङीष्। पुस्तकमानलेखनप्रकारादिकं योगिनीतन्त्रे उक्तं यथा “मानं वक्ष्ये पुस्तकस्य शृणु देवि! समासतः। मानेनास्य फलं विन्द्यादमाने श्रीर्हता भवेत्। हस्तमात्रं मुष्टिमात्रमाबाहु द्वादशाङ्गुलम्। दशाङ्गुलं तथाष्टौ च ततो हीनं न कारयेत्”। तस्य वेधो यथा “वेधद्वयं मुष्टिहस्ते बाहुमात्रे त्रिरन्ध्रकम्। समभागे महेशानि हस्तादो रूप(१)रन्ध्रकम्। अष्टाङ्गुलं परित्यज्य मध्ये वेधं तु कारयेत्। प्रादेशादौ मवेद्रन्ध्रं द्व्यङ्गुले वा समाचरेत्। पुस्तकस्य च आद्यन्ते यन्त्रवेधं विकल्पयेत्। भार्य्याहानिर्भवेदाशु धनानां वा क्षयो भवेत्। दग्धरन्ध्रे भवेत् पीडा वर्तुलं शुभदं भवेत्। चतुष्कोणे विप्लवस्तु त्रिकोणे मरण भवेत्”। पुस्तकलेखनपत्रं यथा “भूर्जे वा तेजपत्रे वा ताले वा ताडिपत्रके। अगत्वचापि देवेशि! पुस्तकं कारयेत् प्रिये!। सम्भवे स्वर्णपत्रे च ताम्रपात्रे च शङ्करि!। अन्यवृक्षत्वचि देवि! तथा केतकीपत्रके। मार्त्तण्डपत्रे रौप्ये बा वटपत्रे वरानने!। अन्यपत्रे वसुदले लिखित्वा यः समभ्यसेत्। स दुर्गतिमवाप्नोति धनहानिर्भवेद्ध्रुवम्। पुस्तके पाठ्यवेदलिखननिषेधो यथा “वेदस्य लिखनं कृत्वा यः पठेद् ब्रह्महा भवेत्। पुस्तकं वा गृहे स्थाप्यं वज्रपातो भवेद् ध्रुवम्”। युगभेदे पुस्तकाक्षरस्थ देवा यथा “सत्येऽक्षरे स्थितः शम्भुः शूलपाणिस्त्रिलोचनः। पजापतिर्द्वापरे च त्रेतायां सूर्य्य एव च। कृते युगे पिनाकी च कलौ लिप्यक्षरे हरिः”। तल्लेखकपूजाफलं यथा “आरम्भे च समाप्तौ च लेखकं प्रतिपूजयेत्। हरिञ्च गन्धपुष्पाद्यैर्वस्त्रैश्च सुमनोहरैः। यावदक्षरसंख्यानं प्रतिपत्रं च सुन्दरि!। तावद्युगसहस्राणि ब्रह्मलोके वसेच्चिरम्”। लेखकस्य वेतनग्रहणे दोषो यथा “वेतनं यस्तु गृह्णीयात् लिखित्वा पुस्तकं स तु। यावदक्षरसंख्यानं तावच्च नरकं वसेत्”। भूमौ पुस्तकलेखनस्थापननिषेधो यथा “न भूमौ विलिखेद्वर्णं यन्त्रं न पुस्तकम् लिखेत्। न भूमौ पुस्तकम् स्थाप्यं न मुक्तमाहरेत्तु तत्। भूपृष्ठग्रहणे चैव अक्षरं वाऽथ पुस्तकम्। भूमौ तिष्ठति देवेशि! जन्मजन्मसु मूर्खता। तदा भवति देवेशि! तस्मात्तत् परिवर्जयेत्”। तस्य दानफलं यथा “विप्राय पुस्तकं दत्त्वा धर्मशास्त्रस्य च द्विज। पुराणस्य च यो दद्यात् स देवत्वमवाप्नुयात्। शास्त्रदृष्ट्या जगत्सर्वं सुश्रुतञ्च शुभाशुभम्। तस्मात् शास्त्रं प्रयत्नेन दद्याद्विप्राय कार्त्तिके। वेदविद्याञ्च यो दद्यात् स्वर्गे कल्पत्रयं वसेत्। आत्मविद्याञ्च यो दद्यात्तस्य खंख्या न विद्यते। त्रीणि तुल्यप्रदानानि त्रीणि तुल्यफलानि च। शास्त्रं कामदुघा धेनुः पृथिवी चैव शाश्वती” इति पाद्मोत्तरखण्डे ११७ अ०। वेदशास्त्रादिदानफलं यथा “वेदार्थयज्ञशास्त्राणि धर्म- शास्त्राणि चैव हि। मूल्येन लेखयित्वा यो दद्याद् याति स वैदिकम्। इतिहासपुराणानि लिखित्वा यः प्रयच्छति। ब्रह्मदानसमं पुण्यं प्राप्नोति द्विगुणीकृतम्” इति गारुडे २१५ अ०। पुराणादिपुस्तकदानविधिः हेमा० दा० चण्डीशब्देऽधिकं दृश्यम्।

पुस्तकमुद्रा = स्त्री “वाममुष्टिं स्वाभिसुखीं कृत्वा पुस्तकमुद्रिका” तन्त्रसारोक्ते मुदाभेदे।

पुस्तकर्म्मन् = त्रि० पुस्तं ग्रन्थलेखनं कर्माऽस्य। लेख्यादिकर्मकर्त्तरि हला०।

पू = शोधे दि० आत्म० सक० सेट्। पूयते अपविष्ट। पुपुवे पूत।

पू = शोधे भ्वा० आ० सक० सेट्। पवते अपविष्ट। पुपुवे पूत० पवित्रः।

पू = शोधे क्य्रादि० प्वा० उभ० सक० सेट्। पुनाति पुनीते अपावीत् अपविष्ट पुपाव पुपुवे। आर्षे क्वचित् श्नाप्रत्ययस्य ह्रस्वः। “स्मरणात् पुनते पापं धारणात् पूर्वसञ्चितम्”।

पूग = पु० पू–गन् किच्च। (सुपारि) १ वृक्षे २ समूहे अमरः ३ छन्दसि ४ भावे ५ कण्टकिवृक्षे च शब्दरत्ना०। ६ पूगफले न०। समूहार्थात् तस्मात् पूरणे डट् तिथुक् च। पूगति ख पूगपूरणे त्रि० स्त्रियां ङीप्। पूगे भवः दिगा० यत्। पूग्य तद्भवे त्रि०। समासे आद्युदात्तताऽस्य।

पूगपात्र = न० पूगस्य दन्तचर्वित तद्रसस्य आधारभूत पात्रम्। (पिकदानी) पतद्ग्रहे हारा०।

पूगपीठ = पु० न० ६ त०। पतद्ग्रहे त्रिका०।

पूगपुष्पिका = स्त्री पूगसहितं पुष्पमत्र कप् कापि अत इत्त्वम्। विवाहोत्सवे दीयमाने गुवाकयुक्तताम्बूलदानकर्मणि त्रिका०।

पूगरोट = पु० पूगः पूगवृक्ष इव रोटयति द्योतते रुट–द्युतौ अच्। हिन्तालवृक्षे त्रिका०।

पूज = पूजने चु० उभ० सक० सेट्। पूजयति ते अपूपुजत् त।

पूजक = त्रि० पूज–ण्वुल्। पूजाकारके। अकान्तत्वेऽपि याजकादि० षष्ठीसवासः देवपूजकः इत्यादि।

पूजन = न० पूज–भावे ल्युट्। १ अर्चने। पूज्यतेऽसौ कर्मणि ल्युट् ङीप्। २ शकुनिविहगस्त्रीभेदे भा० शा० १३९ अ० तदुपाख्यानं दृश्यम्।

पूजनीय = त्रि० पूज + कर्मणि अनीयर्। १ पूजार्हे। २ पूजन्यां पतगयोषिद्भेदे स्त्री हरिवं० २० अ० दृश्यम्।

पूजा = स्त्री पूज–भावे अ। अर्चने। ल्युट्। पूजनमप्यत्र न०। उपचारशब्दे तङ्गभेदा उक्ताः देवीपूजायां मुखभेदनिरूपणं यथा “दिग्विभागे तु कौवेरी दिक् शिवापीतिकारिणी। तस्मात्तन्मुखमासीनः पूजयेच्चण्डिकां सदा” पूजास्थानानि यथा “लिङ्गस्थां पूजयेद्देवीं पुस्तकस्थां तथैव च। स्थण्डिलस्थां महामायां पादुकाप्रतिमासु च। चित्रे च त्रिशिखे खड्गे जलस्थां वापि पूजयेत्। पञ्चाशदङ्गुलं खड्गं त्रिशिखञ्चं त्रिशूलकम्। शिलायां पर्वतस्याग्रे गङ्गायामपि तत्समम्। आर्य्यावर्त्ते मध्यदेशे तथा पर्वतगह्वरे। देवीं संपूयेन्नित्यं भक्त्विश्रद्धासम न्वितः। वराणास्यां सदा पूजा सम्पूर्णफलदायिनी। ततस्तु द्विगुणा प्रोक्ता पुरुषोत्तमसन्निधौ। ततोऽपि द्विगुणा प्रोक्ता द्वारवत्यां विशेषता। सर्वक्षेत्रेषु तीर्थेष पूजा द्वारवतीसमा। बिन्ध्ये शतगुणा प्रोक्ता गङ्गायामपि तत्समा। आर्य्यावर्त्ते मध्यदेशे ब्रह्मावर्त्ते तथैव च। बिन्ध्यवत्फलदा पूजा प्रयागे पुष्करे तथा। ततश्चतुर्गुणं प्रोक्तं करतोयानदीजले। तस्माच्चतुर्गुणफलानन्दिकुण्डे च भैरव!। ततश्चतुर्गुणा प्रोक्ता जल्पीशेश्वरसन्निधौ। तत्र सिद्धेश्वरीयोनौ ततोऽपि द्विगुणा स्मृता। ततश्चतुर्गुणा प्रोक्ता लोहित्यनदपाथसि। तत्समा कामरूपे तु सर्वत्रैव जले स्थले। सर्वश्रेष्ठो यथा विष्णुर्लक्ष्मी सर्वोत्तमा यथा। देवीपूजा तथा शस्ता कामरूपे स्मरालये। देवीक्षेत्रं कामरूपं विद्यतेऽन्यन्न तत्समम्। अन्यत्र विरला देवी कामरूपे गृहे गृहे। ततः शतगुणं प्रोक्तं नीलकूटस्य मस्तके। ततोऽपि द्विगुणं प्रोक्तं हीरके शिवलिङ्गके। ततोऽपि द्विगुणा प्रोक्ता शैलपुत्रादियोनिषु। ततः शतगुणा प्रोक्ता कामाख्या योनिमण्डले” कालिकापु० ५४५७ अ०। पूजासनानि तत्फलानि च यथा “उपविश्यासने रम्ये कृष्णाजिनकुशोत्तरे। राङ्कवे कम्बले वापि काशादौ व्याघ्रचर्मणि। न कुर्य्यादर्च्चनं विष्णोः शिवे! काष्ठासनादिषु। काष्ठासने वृथा पूजा पाषाणे रोगसम्भवः। भूम्यासने गतिर्नास्ति वस्त्रासने दरिद्रता। कुशासने ज्ञानवृद्धिः कम्बले सिद्धिरुतमा। कृष्णाजिने धनी पुत्री मोक्षः स्याद्व्याघ्रचर्मणि। मन्त्रयोगं प्रकुर्वीत भोगार्थं सुखमासने” इति पाद्मोत्तरखण्डे ७४ अ०। पूजाधिकारिताप्रयोजकदेवषट्कपूजाऽऽदौ कार्य्या “गणेशञ्च दिने शञ्च वह्निं विष्णुं शिवं शिवाम्। संपूज्य देवषट्कञ्च सोऽधिकारी च पूजने। गणेशं विघ्ननाशाय निष्पापाय दिवाकरम्। वह्निं शुद्धाय विष्णुञ्च मुक्तये पूजयेन्नरः। शिवं ज्ञानाय ज्ञानेशं शिवाञ्च वुद्धिवृद्धये। संपूज्य तान् लभेत् प्राज्ञो विपरीतमतोन्यथा” इति ब्रह्मवै० प्रकृतिखण्डे ८ अ०। सामान्यतस्तन्त्रोक्तपूजाप्रकारस्तुं “आदावृष्यादिकन्यासः करशुद्धिस्ततःपरम्। अङ्गुलिव्यापकन्यासौ हृदादिन्यास एव च। ध्यानं पूजा जपश्चेति सर्वतन्त्रेष्वयं विधिः” तन्त्रसारः।

पूजाधार = पु० ६ त० देवतानां पूजनाधारे जलादौ यथोक्त तन्त्रसारे नारदीये “आपोऽग्निर्हृदयं चक्रं विष्णोः क्षेत्रसमुद्भवम्। यन्त्रञ्च प्रतिमास्थानं अर्चने सर्वदा हरेः” गौतमीये “शालग्रामे मनौ यन्त्रे प्रतिमामण्डलेषु वा। नित्यं पूजा हरेः कार्य्या न तु केवलभूतले। शालग्रामशिलास्पर्शात् कोटिजन्माघनाशनम्। किं पुनश्चार्चनं तत्र हरिसान्निध्यकारणम्। बहुभिर्जन्मभिः पुण्यैर्यदि कृष्णशिलां लभेत्। गोष्पदेनैव चिह्नेन तेन जन्म समाप्यते”। एतेन विष्णुपूजायां शिलाया अतिप्राधान्यम् मण्डलादीनान्तु सर्वसाधारणत्वात्” योगिनी तन्त्रे “लिङ्गस्थां पूजयेन्देवीं पुस्तकस्थां तथैव च। मण्डलस्थां महामायां यन्त्रस्थां प्रतिमासु च। जलस्थां वा शिलास्थां वा पूजयेत् परमेश्वरीम्”। कौलावलीये “यत्रापराजितापुष्पं जवापुष्पञ्च विद्यते। करवीरे शुक्लरक्ते द्रोणं वा यत्र तिष्ठतिः। तत्र देवी वसेन्नित्यं यद्यन्त्रे चण्डिकार्चनम्”। एतत् सर्वं यन्त्राभावे तथा च “यन्त्रं मन्त्रमयं प्रोक्तं मन्त्राणां देवतैव हि। देवात्मनोर्यथाऽभेदो यन्त्रदेवतयोस्तथा। तथा। आदौ लिखेद्यन्त्रराजं देवतायाश्च विग्रहम्। कामक्रोधादिदोषोत्थ सर्वदुःखनियन्त्रणात्। यन्त्रमित्याहुरे तस्मिन् देवः प्रीणाति पूजितः। विना यन्त्रेण पूजायां देवता न प्रसीदति। दुःखनिर्यन्त्रणात् यन्त्रमिताहुस्तन्त्रवेदिन”।

पूजार्ह = त्रि० पूजामर्हति अर्ह–अण् उप० स०। १ पूजायोग्ये २ मान्ये च शब्दर०।

पूजित = त्रि० पूज–कर्मणि क्त। यस्य पूजा कृता तस्मिन् अर्चिते अमरः।

पूजिल = पु० पूज–कर्मणि इलच् किच्च। १ पूज्ये त्रि०। २ देवे उणा०।

पूज्य = पु० पूज–यत्। १ श्वशुरे। २ पूजनीयमात्रे त्रि०। “य एव विद्वांस्तपसा च वृद्धः स एव पूज्यो भवति द्विजानाम्” मत्स्यपु० ९ अ०।

पूण = राशीकरणे चु० उभ० सक० सेट्। पूणयति ते अपूपुणत् त

पूत = न० पू–क्त। अपनीतबुषे (आगडारहित) १ वहुलीकृते घान्ये अमरः। २ व्रतादिना शुद्धे त्रि० जटाध०। ३ सत्ये। ४ शङ्खे ५ श्वेतकुशे ६ विकङ्कतवृक्षे च पु०। ७ दूर्वायां स्त्री टाप् राजनि० ८ पवित्रे त्रि०।

पूतक्रतु = पु० पूतः शुद्धः क्रतुरस्य। इन्द्रे जटा०। तस्य षत्नी ङीष् ऐङ्। पूतक्रतायी तत्पत्न्यां शच्याम् स्त्री।

पूतगन्ध = पु० पूतः पवित्रो गन्धो यस्य। वर्वरे (वावुइतुलसी) राजनि०।

पूततृण = न० नित्यक०। श्वेतकुशे राजनि०।

पूतद्रु = पु० नित्यक०। पनसवृक्षे राजनि०।

पूतधान्य = न० नित्यक०। तिले राजनि०।

पूतना = स्त्री पूतयति पूत + णिच्–ल्यु। १ हरीतकीभेदे सा च सिन्धुदेशजादल्पत्वक वृहती च लेपने प्रशस्ता राजनि०। २ गन्धमांस्यां राजनि०। ३ कंसस्य धात्रीभेदे सा च शकुनी रूपं कृत्वा कृष्णस्य विषाक्तं स्तनं ददौ। कृष्णेन च तस्याः प्राणेन सह स्तनं पपाविति कथा हरिवं० ६३ अ०। भाग० १०। ६। कंसेन प्रहिता सा राक्षसीरूपा बालघातिनी सौम्यरूपं कृत्वा कृष्णाय विषाक्तं स्तनं पातुं ददौ कृष्णेन च तस्याः स्तनपानमिषेण प्राणा कर्षणेन सा निहतेति स्थितम्। ४ बालग्रहभेदे सुश्रुतः तल्लक्षणादिकं ग्रहशब्दे ३७६४ पृ० उक्तम्। ५ बालानां क्षुद्रेरोगभेदे अहिपूतनशब्दे ५८४ पृ० तल्लक्षणादि। ६ वालमातृकाभेदे “तृतीये दिवसे मासे वर्षे वा गृह्नाति पूतना नाम मातृका। तया गृहीतमात्रेण प्रथर्म भवति ज्वरः। गात्रमुद्वेजयति स्तन्यं न गृह्णाति दृष्टिं बध्नाति क्रन्दति ऊर्द्ध्वं निरीक्षते” चक्रपाणिदत्तः।

पूतनारि = पु० ६ त०। वासुदेवे श्रीकृष्णे शब्दर० पूतनारात्यादयोऽप्यत्र। पूतनाशब्दे दृश्यम्।

पूतफल = पु० पूतानि फलान्यस्य। पनसे (कांटाल)। राजनि०

पूतभृत् = पु० पूतं शुद्धं सोमरसं बिभर्त्ति भृ–क्विप् ६ त०। सोमरसाधारे पात्रभेदे यजु० १८। २३ वेददी०।

पूतयव = अव्य० पूता निस्तूषीकृता यवा अत्र तिष्ठद्गु० अव्ययी०। पूतयवाधारे खलादौ।

पूतात्मन् = त्रि० पूत आत्मा यस्य। १ शुद्धान्तःकरणे २ शुद्धदेहे च। ३ विष्णौ पु० “पूतात्मा परमात्मा च” विष्णुस०।

पूति = न० पू–कर्त्तरि क्तिच्। १ रोहिषतृणे। भावे क्तिन्। २ पवित्रतायाम् राजनि०। पूय विशरणे दुर्गन्धे च क्तिच्। ३ दुर्गन्धे ४ दुर्गन्धवति त्रि० रायमुकुटः।

पूतिक = न० पूत्या दुर्गन्धेन कायति कै–क। १ विष्ठायाम् २ पूतिकरञ्जे पु०। ३ शाकभेदे स्त्री (पु~इ) “पूतिका ब्रह्मधातिका” इति स्मृतिः। ४ मार्जाल्याञ्च राजनि०। पूतिका च सोमांशुतो जातेति सोमस्यालाभे प्रतिनिधित्वेन ग्राह्वा तदेतत् ताण्ड्यब्रा० ८। ४। ५। ३ उक्तं यथा “तस्य ये ह्रियमाणस्यांशवः परापतंस्ते पूतीका अभवन्” छान्दसो दीर्घः। “ह्रियमाणस्य सोमस्य पतिताः अंशवः पूतिका अमवन्” तस्मात् सोमाभावे पूतीकादीनां प्रतिनिघित्वेन स्वीकर्त्तव्यतामभिधातुं प्रासङ्गिकानामेषाम् उपन्यासः” भा०।

पूतिकरज(ञ्ज) = पु० पूतियुक्तः करजः (ञ्जः)। (नाटाकरमजा) करञ्जभेदे अमरः। करञ्जशब्दे १६८८ पृ० दृश्यम्।

पूतिकर्णक = पु० पूतिः कर्णो यत्र कप्। कर्णरोगभेदे “कर्णविद्रधिपाकाद्वा जायते चाम्बुपूरणात्। पूयं स्रवति वा पूति स ज्ञेयः पूतिकर्णकः” इति माधवकरः।

पूतिकामुख = पु० पूतिका तत्फलमिव मुखमस्य। शम्बूके शब्दरत्ना०।

पूतिकाष्ठ = न० पूतेः पावनार्थं काष्ठम् चतुर्थ्यर्थे अश्वघासवत् ६ त०। देवदारुणि शब्दच०। संज्ञायां कन्। पूतिकाष्ठक सरलवृक्षे पु० अमरः।

पूतिकीट = पु० कर्म०। (ग~धोपोका) कीटभेदे सुश्रुतः।

पूतिकेश्वरतीर्थ = तीर्थभेदे शिवपु०।

पूतिगन्ध = पु० पूतिर्दुष्टो गन्धो यस्य। १ गन्धके तमरः। २ इङ्गुदीवृक्षे राजनि०। ३ रङ्गे न०। कर्म०। ४ दुर्गन्धे पु० वा इत्समा०। पूतिगन्धि दुष्टगन्धयुक्ते त्रि०। स्वार्थे क। पूतिगन्धि कदुष्टगन्धान्विते। पूतिशाके वाकुच्यां स्त्री राजनि०

पूतिघास = पु० “मद्गुमूषिकवृक्षशायिकाऽवकुशपूतिघासवानरप्रभृतयः मृगाः” सुश्रुतोक्ते जन्तुभेदे।

पूतितैल = स्त्री पूति दुर्गन्धं तैलं यस्याः। ज्योतिष्मत्याम् (लताकट्की) रत्नमा०।

पूतिनस्य = न० नसि भवः यत् कर्म०। “दोषैर्विदग्धैर्गलतालुमूले संवासितो यस्य समीरणस्तु। निरेति पूतिर्मुखनासिकाभ्यान्तं पूतिनस्यं प्रवदन्ति रोगम्” सुश्रुतोक्ते नासारोगभेदे

पूतिनासिक = त्रि० पूतिर्नासिकाऽस्य। दुर्गन्धनासायुक्ते “पिशुनः पूतिनासिकः” याज्ञ० पिशुनताकर्मविपाकतया पौतनासिक्यमुक्तम्।

पूतिपत्त्र = पु० पूतीनि पत्त्राण्यस्य। श्योनाकभेदे राजनि०।

पूतिपुष्पिका = स्त्री पूतीनि पुष्पाण्यस्याः कप् कापि अत इत्त्वम्। मातुलुङ्गायाम् रत्नमा०।

पूतिफला(ली) = स्त्री पूतीनि फलान्यस्याः वा ङीप्। सोमराज्याम् अमरः। ङीवन्तः जटाध०।

पूतिमयूरिका = स्त्री पूतिर्मयूरीव ततः स्वार्थे क। अज मोदायाम् राजनि०।

पूतिमाष = पु० गोत्रप्रवरर्षिभेदे “संकृतिपूतिमाषतण्डिशम्बुशैव गवानामाङ्गिरसगौरिवीतसाङ्कृत्येति” आश्वश्रौ० १२। १२५ ततः गर्ग० अपत्ये यञ्। पौतिमाष्य तदपत्ये पुंस्त्री०।

पूतिमृत्तिक = न० ७ ब०। नरकभेदे याज्ञ० ३२२ श्लो०।

पूतिमेद = पु० पूतिर्मेदोऽस्य। अरिमेदे विट्खदिरे। राजनि०

पूतिवक्त्र = पु० पूति वक्त्रमस्य। दुर्गन्धमुखयुक्ते “पूतिवक्त्रस्तु सूवकः” याज्ञ० ३२११ श्लो० तन्निदानकर्मभेदे उक्तः।

पूतिवात = पु० पूत्यै पवित्रतायै वातोऽस्य। १ विल्ववृक्षे रत्नमा० कर्म०। २ दुष्टगन्धयुक्तवाया पु०।

पूतिवृक्ष = पु० कर्म०। श्योनाकवृक्षे रत्नमा०।

पूतिशारिजा = स्त्री पूतिः शारीव जायते जन–ड। खट्टाशे (खटाश) वनजन्तुभेदे त्रिका०।

पूतीक = पु० पूतिक + पृषो०। पूतिकरञ्जे अमरः।

पूतीकरञ्ज = पु० पूतिकरञ्ज + पृषो०। करञ्जभेदे रत्नमाला।

पूतीका = स्त्री पूतिका + पृषो०। (पु~इ) ख्याते लताभेदे पूतिकशब्दे ताण्ड्य० ब्रा० वाक्ये दृश्यम्।

पूत्यण्ड = पु० पूति दुर्गन्धमण्डमस्य। (ग~धोपोका) १ गन्धकीटे २ मृगनाभियोमिमृगभेदे च पुंस्त्री० मेदि०। भा० शा० ३२४ अ०

पूथिका = स्त्री पूतिका + पृषो०। पूतिकायां शाकभेदे सुश्रुतः। चुच्युशब्दे २९५६ पृ० दृश्यम्।

पून = त्रि० पू–क्त “पूञो विनाशे” पा० क्तस्य नः। विनष्टे।

पूप = पु० पू–पक्। १ पिष्टके अमरः। पूपाय हितम् अपूपा० छ पक्षे यत्। पूपीय पूप्य तदर्थे तण्डुलादौ त्रि०।

पूपला = स्त्री पूपं तदाकारं लाति ला–क। पोलिकायां हेमच० स्वार्थे क। पूपलिका तत्रार्थे हारा०।

पूपाली = स्त्री पूपाय अलति अल–अच् गौरा० ङीष्। पोलिकायां त्रिका०।

पूपाष्टका = स्त्री अष्ट परिमाणं यस्याः कन् अष्टका अष्टमी उपचारात् तवकर्त्तव्यं श्राद्धम् पूपद्रव्यसाधनाष्टका कर्म०। आग्रहायण्याः परतः कृष्टाष्टमीविहिते श्राद्धे। “आद्याः पूपैः सदा कार्य्या मांसैरन्या भवेत्तथा। शाकैः कार्य्या तृतीया स्यादेष द्रव्यगतो विधिः” ति० त०।

पूपिका = स्त्री पूपस्तदाकारोऽस्त्यस्याः ठन्। पोलिकायां हेम०

पूय = दुर्गन्धे अक० भेदने विशरणे च सक० दिवा० आत्म० सेट्। पूय्यते अपूयिष्ट। अपूयिढ्रं (ध्वम्) पुपूये।

पूय = न० पूय–अच्। व्रणादिनिःसृते रक्तविकारभेदे (पू~ज)। हेमच०। भावे ल्युट्। पूयन तत्रार्थे न० शब्दच०।

पूयमानयव = अव्य० पूयमाना निस्तुषीक्रियमाणा यवा यत्र। तिष्ठद्गुप्र० अव्ययी०। परिष्क्रियमाणयवाधारे खलादौ।

पूयरक्त = पु० पूययुक्तं रक्तमत्र। “दोषैर्विदग्धैरथ वापि जन्तोर्ललाटदेशेऽभिहतस्य तैस्तु। नासा स्रवेत् पूयमसृग्विमिश्रं तं पूयरक्तं प्रवदन्ति रोगम्” सुश्रुतोक्ते नासारोगभेदे पूयशोणितादयोऽप्यत्र।

पूयवर्द्धन = पु० पूयं वर्द्धयति वृध–णिच्–ल्यु। सुश्रुतोक्ते नवधान्यादौ द्रव्यवर्गभेदे। “नवधान्यमाषतिलकलायकुलत्थनिष्पावहरितकशाकाम्ललवणकटुकंगुडपिष्टविकृतिवल्लूरशुष्कशाकाजाविकानूपौदकमांसवशाशीतोदककृशरपायसदधिदुग्धतक्रप्रभृतीन् परिहरेत्। तक्रान्तोनवधान्यादिर्योऽयं वर्ग उदाहृतः। दोषसञ्जननो ह्येष विज्ञेयः पूयवर्द्धनः”।

पूयारि = पु० ६ त०। निम्बवृक्षे राजनि०। पूयनाशकादयोऽप्यत्र।

पूयालस = पु० “पक्वः शोफः सन्धिजः संस्रवेद्यः सास्रं पूयं पूति पूयालसः सः” सुश्रुतोक्ते सन्धिगतरोगभेदे।

पूयोद = न० पूयमे वोदकमत्र उदादेशः। नरकभेदे भाग० ५२७।

***