न्यायपथ = पु० न्यायोपेतः पन्थाः शा० त० अच् समा०। मीमांसाशास्त्रे

न्यायवृत्त = न० न्यायोपेतं वृत्तं शा० त०। १ शास्त्रविहिताचारे ब० व०। २ तद्वति त्रि०।

न्यायसारिणी = स्त्री न्यायं सरति सृ–णिनि। युक्तिपूर्वककर्मानुसारिण्याम् रीतौ लुण्ठ्यां त्रिका०।

न्याय्य = त्रि० न्यायादागतः न्यायादनपेतो न्याये भवः वा दिगा० यत् वा। १ न्यायसिद्धे २ न्यायोपेते यौक्तिके ३ न्यायभवे च “सर्वेषामपि तु न्याय्यं दातुंशक्त्या मनीषिणः”। “न्याय्यं वः शिशुरुक्तवान्” मनुः “इदमत्रोत्तरं न्याय्यमिति बुद्ध्या विमृश्य सः” कुमा०। वर्ग्यादि० आद्युदात्ततास्य।

न्यास = पु० नि + अस–कर्मणि, भावे वा घञ्। १ स्थाप्यद्रव्ये (गच्छित) अमरः निःक्षेपशब्दे ४०५२ पृ० तल्लक्षणादि दृश्यम्। “राज्यं न्यासमिवाभुनक्” रघुः २ अर्पणे ३ विन्यासे च हेमच०। “अलसवलितैरङ्गन्य सैः कृताङ्गुलितर्जनैः” सा० द०। “नमयन् सारगुरुभिः पादन्यासैर्बसुन्धराम्” कुमा०। ४ त्यागे “काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः” गीता। “वक्ष्ये विविदिषान्यासं विद्वन्न्यासं च भेदतः। हेतू विदेहमुक्तेश्च जीवन्मुक्तेश्चतौ क्रमात्” जीवन्मुक्तिविवेकः। ५ हरदत्तप्रणीते पदमञ्जर्यपरपर्य्याये व्याकरणग्रन्थभेदे “अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धना। शब्दविद्येव नो भाति राजनीतिरपस्पशा” माघ० “तन्त्रपुराणाद्युक्ते पूजाजपादेः प्राक्कर्त्तव्ये देहावयवभेदेषु वर्णाद्युच्चारणरूपे ६ व्यापारभेदे “अङ्गन्यासकरन्यासौ वीजन्यासं तथैव च” वटुकस्तोत्रम्। सामान्यपूजाङ्गन्यासास्तु “आदावृष्यादिकन्यासः करशुद्धि स्ततःपरम्। अङ्गुलीव्यापकन्यासौ हृदादिन्यास एव च” तन्त्रसा०। तत्कालस्तु “प्रातःकालेऽथ वा पूजासमये होमकर्मणि। जपकाले समस्ते वा विनियोगः पृथक् पृथक्। पूजाकाले समस्तं वा कुर्य्यात् साधकसत्तमः” इति योगिनीहृदयम्। यामले “भूतशुद्धिलिपिन्यासौ विना यस्तु प्रपूजयेत्। विपरीतफलं दद्यादभक्त्या पूजनं यथा”। सामान्यन्यासेऽङ्गुलिनियमो गौतमीये “मनसा विन्यसेन्न्यासान् पुष्पेणैवाथ वा मुने!। अङ्गुष्ठानामिकाभ्यां वा चान्यथा विफलं भवेत्”। यामले “हृदयं मध्यमानामा तर्जनीभिः, स्मृतं शिरः। मध्यमातर्जनीभ्यां, स्यादङ्गुष्ठेन शिखा स्मृता। दशभिः कवचं प्रोक्तं, तिसृभिर्नेत्रगीरितम्। प्रोक्ताङ्गुलीभ्यामस्त्रं स्यादङ्गुक्लप्तिरियं मता” इति। तिसृभिस्तर्जनीमध्यमानाम भिः। “तर्जनीमध्यमानामाः प्रोक्ता नेत्रत्रयक्रमात्। यदि नेत्रद्वयं प्रोक्तं तदा तर्जनिमध्यमे” इति भट्टधृतवचनात् “हृदयादिषु विन्यस्येदङ्गमन्त्रा~स्ततः सुधीः। हृदयाय नमः पूर्वं शिरसे वह्निवल्लभा (स्वाह)। शिखायै वषडित्युक्तं कवचाय हुमीरितम्। तेत्रत्रयाय वौषट् स्यादस्त्राय फडिति क्रमात्। षडुङ्गमन्त्रानित्युक्तान् षडङ्गेश्रु नियोजयेत्। पञ्चाङ्गानि मनोर्यत्र तत्र नेत्रमनुं त्यजेत्” इति शारदाति०। वैष्णवे तु “अनङ्गुष्ठा ऋजवो हस्तशाखा भवेन्मुद्रा हृदये शीर्षके च। अधोऽङ्गुष्ठा खलु मुष्टिः शिखायां करद्वन्द्वाङ्गुलयोर्वर्मणि स्युः। नाराचमुष्ट्युद्धृत बाहुयुग्मकाङ्गुष्ठतर्जन्युदितो ध्वनिस्तु। विश्वग्विषक्ताः कथितास्तु मुद्रा यत्राक्षिणी तर्जनिमध्यमे च। अङ्गहीनस्य मन्त्रस्य स्वेनैवाङ्गानि कल्पयेत्” तन्त्रसारः।

न्यासिक = त्रि० न्यासेन चरति पर्पा० ष्ठन्। न्यासकारिणि स्त्रियां षित्त्वात् ङीष्।

न्यासिन् = त्रि० नि + अस–णिनि। १ त्यागिनि २ सन्न्यासिनि च

न्यु(न्यू)ङ्ख = नि + उङ्ख घञ् पृषो० वा दीर्घः। १ ऋग्भेदे गीतिषु उदात्तानुदात्तरूपेषु षोडशसु ओकारेषु तत्र त्रयः प्लुताः त्रयोदश अर्द्धौकारा इत्येवं षोडश ओकाराः तत्प्रकारादिः आश्व० श्रौ० ७११ प्रथमादिसूत्रेषूक्तो यथा “चतुर्थेऽहनि यत् प्रातरनुवाकं प्रतिपद्यर्धर्चाद्योर्न्युङ्खः” १ सू० “पार्ष्टिके चतुर्थेऽहनि यत् प्रातरनुवाकं तस्याद्याया ऋचोयावर्धर्चयोरादी तयोन्युङ्खो भवति। अहरधिकारे पुनेरहनीतिवचनम् अहर्धर्मोऽयं न्युङ्ख इति प्रदर्शनार्थम्। तेनात्र यान्युङ्खभाज ऋचस्तासासन्यत्र वचनादृते त्युङ्खो न भवति नारा० वृ० “द्वितीयं स्वरमोकारत्रिमात्रमुदात्तन्त्रिः” २ सू० “इदानीं न्युङ्खस्य लक्षणमुच्यते तयोरर्धर्चयोर्यो द्वितीयः स्वरः संहितावस्थायान्तमोकारं त्रिमात्रं कृत्वा त्रिः ब्रूयात् पच्छोऽर्धर्चशः कृच्छ्रश इति सर्वत्र शंसनविधानात्। संहितावस्थायामेव मन्त्राणां शंसनमुक्त भवति। अत्र संहितावस्थायामेवमित्युक्तम्। पूर्वसूत्रेऽर्धचांद्योरित्याद्ययोरक्षरयोर्न्युङ्खो विहितः इह तु द्वितीययोर्विधीयते कथमनयोः सम्बन्ध इति पूर्वसूत्रस्यायमभिप्रायः ब्राह्मणोक्तो थो न्युङ्खविधिरेकाक्षरद्व्यक्षरत्र्यक्षरचतुरक्षरैरिति सोऽयमर्धर्चाद्योरित्यनेन सूचितो भवति। यस्तु खलु पक्षस्तत्रैव सिद्धान्तितः तस्मात् द्व्यक्षरेणैव न्युङ्खयेत् इति तमेव पक्षमङ्गीछत्येदानीं न्युङ्खो विधीयते द्वितीयं स्वरम् इत्यादिना” नारा० वृ०। “तस्य तस्य चोपरिष्टादपरिमितान् पञ्च वार्धौकाराननुदात्तान्” ३ सू० “तस्य तस्यौकारस्योपरिष्टादर्धौकाराननुदात्तानपरिमितान् त्रोन् चतुरः पञ्च वा ब्रूयात्। यत्र सङ्ख्याविशेषनिर्दिष्टस्यापरिमितशब्द ब्रवीति तत्र निर्दिष्टसङ्ख्याविशेषादुपरिष्टादपरिमितशब्दार्थो ग्रहीतव्यः। यत्र पुनरुपरिष्टात् संख्याविशेषोन निर्दिष्टस्तत्र प्रागेव संख्याविशेषात् बहुत्वे सत्येवानियता ग्रहीतव्येति सिद्धम्। अर्धश्चासौ ओकारश्चार्धौकार इति कर्मधारयः” नारा० वृ०। “उत्तमस्य तु त्रीन्” ४ सू० “उत्तमस्यौकारस्योपरिष्टात् त्रीनेवार्धौकारान् ब्रूयात्” नारा० वृ०। “पूर्वमक्षरं निहन्यते न्युङ्ख्यमाने” ५ सू० “निहन्यत इत्यनुदात्तीक्रियत इत्यर्थः। न्युङ्खाधिकारे पुनर्न्युङ्ख्यमान इति वचन प्रथमे द्वितीये तृतीये चतुर्थे वाक्षरे न्युङ्ख्यमानेऽपि तस्मात् पूर्वमक्षरं न निहन्यत इत्येवमर्थम्” नारा० वृ०। “तदपि निदर्शनायोदाहरिष्यामः” ६ सू० “उक्तलक्षणस्यापि न्युङ्खस्यार्धौकारस्वरूपस्यालौकिकत्वादन्यदप्येवं जातीयकं सन्देहं व्यबर्त्तयितुं निदर्शनं क्रियते” नारा० वृ०। “आपो ३ उउउउउ ओ ३ उउउउउ ओ ३ उउउ श्च स्थः स्वपस्य पत्नीः सरस्वती तद्गृणते। वयोधो ३ मापो २” ७ सू० “आपो ३ प्लुतः रायो ३ प्लुतः वयोधो ३ मापो ३ प्लुत इत्येवं न्युङ्खस्य पुनरावृत्तिप्रदर्शनं प्रत्यावृत्ति न्युङ्खप्रापणार्थम्। अयमेव पाठः अवच्छिन्नसम्प्रदायागतः। यस्तु पुनःसंहितानुरूमेण पाठः स प्रमादकृतत्वात् त्यक्तव्यः” नारा० वृ०। अत्र प्लुतस्य ओकारत्रयस्य उपरिशिष्टात् पञ्च पञ्च च अर्द्धोकारा एव बोध्या उकाराकारेण ये दर्शितास्ते अर्द्धौ- कारा इति बोध्यम् “यज्ञकर्मण्यजपन्युङ्खसमासु” व्य० “यज्ञक्रियायां मन्त्रएकश्रुतिः स्याज्जपादीन्वर्ज्जयित्वा “अग्निर्मूर्द्ध्वादिवः ककुत्”। यज्ञेति किम्? स्वाध्यायकाले त्रैस्वर्य्यमेव। अजपेति किम्? ममाग्ने! वर्चो विहवेष्वस्तु। जपोनाम उपांशुप्रयोगः यथा जले निमग्नस्य। न्युङ्खानाम षोडश ओकाराः गीतिषु समाख्याः” सि० कौ० कात्या० श्रौ० भाष्यादौ द्वादश ओकारा दीर्घमध्या न्यूङ्खतया उक्ता यथा “एकर्श्रुतिर्दूरात् सम्बुद्धौ यज्ञकर्मणि सुब्रह्मण्यासामजप न्यूङ्खयाजमानवर्जम्” कात्या० श्रौ० १। ८। १९ “एकश्रुतिर्दूरात्सम्बुद्धावित्यनुवर्त्तमाने यज्ञकर्मणि मन्त्राणामेकश्रुतिर्भवति न केनचित् स्वरेण प्रयोगः किं सर्वत्र सुब्रह्मण्यासामजपन्यूङ्खयाजमानवर्जम्। एतानि वर्जयित्वा अन्येषु मन्त्रेष्वेकश्रुतिर्भवति। सुब्रह्मण्योऽमिन्द्रागच्छेत्यादिर्निगदः सुब्रह्मण्या सामानि उङ्कातृभिर्यज्ञे गीयमानानि। जपाश्च धूरसि इन्द्रस्य बाहुरसि मयिदित्याद्या जपतीति शब्देन चोदिता मन्त्राः। न्यूङ्खास्तु पृष्ठ्ये प्रडहे होतृवेदे प्रसिद्धा ओकारा द्वादश पिबा सोममिन्द्र मन्दतु त्वा यं तो ओ ओ ओ ३ ओ ओ ओ ३ ओ ओ ओ ओ ३ सुषाव। हर्य्यश्वाद्रिरित्यादयः। याजमानं च सर्वं विष्णुक्रमादिक्रम्। तत्सम्बन्धिनो ये मन्त्रादिवि विष्णुरित्याद्याः अथ वा यजमानस्येमे याजमानाः एषु सुब्रह्मण्यादिषु याजमानान्तेषु यथा प्राप्तएव संहिता स्वरो भवति नैकश्रुतिः” कर्कः। अनयोः पक्षयोः वेदभेदादविरोधः। २ अतिशये ३ मनोहरे त्रि०।

न्युब्ज = न० नि + उब्ज–अच्। १ कर्मरङ्गफले २ दर्भमयस्नुचि पु० ३ अथोमुखे त्रि० मेदि०। “प्रथमपात्रे संस्नबान् समवनीय पात्रं न्युब्जं कुर्य्यात् पितृभ्यः स्थानमसीति” गोभि० न्युब्जमधोमुखम् “पितृभ्यः स्थानामीति न्युब्जं पात्रं करोत्यधः” याज्ञ०। “पितृपात्रे निधायाथ न्युब्जमुत्तरतोन्यमेत्” मत्स्यपु०। “न्युब्जानि च विमानानि” हरिवं० ४३ अ०। ४ कुशे स्रुग्मात्रे च पु० हेमच० वक्रीकृतपृष्ठाधोमुखे मानुषे ५ कुब्जे त्रि० अमरः।

न्युब्जखड्ग = पु० न्युब्जः कुब्ज इव खड्गः (तरवार) इति प्रसिद्धे खड्गभेदे त्रि०।

न्यून = त्रि० न्यूनयति नि + ऊन–परिमाणै अच्। १ ऊने २ गर्ह्ये च अमरः।

न्यूनपञ्चाशद्भाव = पु० न्यूनपञ्चाशतः ऊनपञ्चाशतो वायनां विकारो यत्र। वातुले (पागल) “उदीरितेन्द्रियो धाता वीक्षाञ्चक्रे यदात्मजाम्। तदैव न्यूनपञ्चाशद्भापो जातः शरीरतः” कालिपु० २ अ०।

न्योकस् = त्रि० नियतमोको यस्य। नियतस्थानयुक्ते “सुतेजसे न्योकसे” ऋ० १। ९। १० “न्योकसे नियतस्थानाथ इन्द्राय” भा०

न्योचनी = स्त्री नि + उचतिः सेवाकर्मा निघ० ल्यु गौरा० ङीष्। दास्याम् “रैभ्यासीदनुदेयी नारांशसी न्योचनी” ऋ० १०। ८५। ६ “न्योचनी बधूशुश्रूषार्थं दीयमाना दासी” भा०।

न्योजस् = त्रि० नि + उब्ज–असि बलोपे गुणः। आर्ज्जावशुन्ये कुटिले।

न्रस्थिमालिन् = त्रि० नुरस्थिमाला अस्त्यस्य इनि। १ नरास्थिमालाभूषणे स्त्रियां ङीप्। २ शिवे पु० त्रिका०। शुभम् इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्यसङ्कलिते वाचणत्ये नकारादिशब्दार्थ सङ्कलनम्। इतः परं ग्रन्थसंक्षेपाशया पकारादिशब्दावधि हकारादिशब्दान्तानां निरुदाहरणा अर्था सङ्कलयितव्याः। परिशिष्टे खण्डे च उदाहरणानि वक्तव्यानि। परिशिष्टम्। ३९२६ पृष्ठस्थनकुलीशब्दार्थपरिशिष्टम्। ३ शिवे तत्प्रणीतञ्च पाशुमतशास्त्रं तन्मतञ्च सर्वदर्शनसंग्रहे दर्शितं यथा “तदेतद्वैष्णवमतं दासत्वादिपदवेदनीयं परतन्त्रत्वदुःखावहत्वान्न दुखं जिहीर्षुणामीप्सितास्पदमित्यरोचयमानाः पारमैश्वर्य्यं कामयमानाः पराभिमता मुक्ता न भवन्ति परतन्त्रत्वात् पारमैश्वर्य्यरहितत्वादस्मदादिवत् मुक्तात्मानश्चा परमेश्वरगुणसम्बन्धिनः पुरुषत्वे सति समस्तदुःखवीजबिधुरत्वात् परमेश्वरवदित्याद्यनुमानं प्रमाणं प्रतिपद्यमानाः केचन माहेश्वराः परमपुरुषार्थसाधनपञ्चार्थप्रपञ्चनपरं पाशुपतशास्त्रमाश्रयन्ते। तत्रेदमादिमं सूत्रम्। “अथातः पशुपतेः पाशुपतयागविधं व्याख्यास्यामः” इति। अस्यार्थः अत्राथशब्दः पूर्वप्रकृतापेक्षः। पूर्वप्रकृतश्च गुरुं प्रति शिष्यम्य प्रश्नः। गुरुस्वरूपं गणकारितायां निरूपितम् “पञ्चकास्त्वष्टविज्ञेया गणश्चैकत्रिकात्मकः। वेत्ता नवगणस्यास्य संस्कर्त्ता पुरुरुच्यते” इति। “लाभामल उपायाश्च देशावस्थाविशुद्धयः। दीक्षाकारिबलान्यष्टौ पञ्चका स्त्रीणि वृत्तयः” इति। तिस्रो वृत्रय इति प्रयो क्रव्यो त्रीणि वृत्तय इति छान्दसः प्रयोगः। तत्र विधी- यमानमुपायफलं लाभः ज्ञानतपोदेवनित्यत्वस्थितिशुद्धिभेदात् पञ्चविधः। तदाह हरदत्ताचार्य्यः “ज्ञानं तपोऽथ नित्यत्वं स्थितिः शुद्धिश्च पञ्चमीति”। आत्माश्रितो दुष्टभावो मलः स मिथ्याज्ञानादिभेदात् पञ्चविधः। तदप्याह सएव “मिथ्याज्ञानमधर्भश्च सक्तिर्हेतुश्च्युतिस्तथा। पशुत्वमूलं पञ्चैते तन्त्रे हेया विविक्तितः” इति। साधकस्य शुद्धिहेतुरुपायः वासचर्य्यादिभेदात् पञ्चविधः। तदप्याह “वासचर्य्या जपो ध्यानं सदा रुद्रस्मृतिस्तथा। प्रतिपत्तिश्च लाभानामुपायाः पञ्च निश्चिताः”। येनार्थानुसन्धानपूर्वकं ज्ञानतपोवृद्धी प्राप्नीति स देशो गुरुजनादिः यदाह “गुरुर्जनो गुहा देशः श्मशानं रुष्ट्र एव चेति” आ लाभप्राप्तेरेकतमादौ यदवस्थानं साऽवस्था व्यक्तादिविशेषेण विशिष्टा, तदुक्तम् “व्यक्ताव्यक्तजपा दानं निष्ठा चैव हि पञ्चमीति”। मिथ्याज्ञानादीनामत्यन्तव्यपोहो विशुद्धिः सा प्रतियोगिभेदात् पञ्चविधा। तदुक्तम् “अज्ञानस्याप्यसङ्गस्य हानिः सङ्गकरस्य च। च्युतिर्हानिः पशुत्वस्य शुद्धिः पञ्चविधा स्मृतेति” दीक्षाकारिपञ्चकं चोक्तम् “द्रव्यं कालः क्रिया मूर्त्तिर्गुरुश्चैव हि पञ्चमः” इति बलपञ्चकञ्च “गुरुभक्तिः प्रसादश्च मतेर्द्वन्द्वजयस्तथा। धर्मश्चैवाप्रमादश्च बलं पञ्चविधं स्मृतमिति” पञ्चमललघूकरणार्थं मानामानविरोधिनोऽर्थार्जनोपाया वृत्तयः भैक्ष्योत्सृष्टयथालब्धाभिधा इति। शेषमशेषमाकर एवावगन्तव्यम्। अत्राथशब्देन दुःखान्तस्य प्रतिपादनम् आध्यात्मिकादिदुःखव्यपोहप्रश्नार्थत्वात्तस्य पशुशब्देन कार्यस्य, परतन्त्रत्ववचनत्वात्तस्य, पतिशब्देन कारणस्य, ईश्वरः पतिरीशितेति जगत्कारणणीभूतेश्वरवचनत्वात्तस्य। योगविधी तु प्रसिद्धौ। तत्र दुःखान्तो द्विविधः अनात्मकः सात्मकश्चेति तत्रानात्मकः सर्वदुःखानामत्यन्तोच्छेदरूपः। सात्मकस्तु दृक्क्रियाशक्तिलक्षणमैश्वर्य्यम्। तत्र दृक्शक्तिरेकापि विषयभेदात् धञ्चविधा उपचर्यते” दर्शनं श्रवणं मननं विज्ञानं सर्वज्ञत्वञ्चेति। तत्र सूक्ष्मव्यवहितविपकृष्टाशेषचाक्षुषस्पर्शादिविषयं ज्ञानं दर्शनम्। अशेषशब्दविषयं सिद्धिज्ञानं श्रवणम्। समस्तचिन्ताविषयं सिद्धिज्ञानं मननम्। निरवशेषशास्त्रविषयं ग्रन्यतोऽर्थतश्च सिद्धिज्ञानं विज्ञानम्। उक्तानुक्ताशेषार्थेषु समासविस्तरविभागविशेषतश्च तत्त्वव्याप्तसदोदितसिद्धिज्ञानं सर्वज्ञत्वम् इत्येषा धीशक्तिः। क्रियाशक्तिरेकापि त्रिविधोपचर्य्यते मनोजवित्वं कामरूपित्वं विक्रमणधर्मित्वञ्चेति। तत्र निरतिशयशीघ्रकारित्वं मनोजवित्वम्। कर्मादिनिरपेक्षस्य स्वेच्छयैवानन्तसलक्षणविलक्षणसरूपकरणाधिष्ठातृत्वं कामरूपित्वम्। उपसंहृतकरणस्यापि निरतिशयैश्वर्य्यसम्बन्धित्वं विक्रमणधर्मित्वभित्येषा क्रियाशक्तिः। यदस्वतन्त्रं सर्वं कार्य्यं त्रिविधं विद्या कला पशुश्चेति। तत्र पशुगुणो विद्या, सापि द्विविधा बोधाबोधस्वभावभेदात् बोधस्वभावा विवेकाविवेकप्रवृत्तिभेदात् द्विविधा तत्र या विवेकप्रवृत्तिः प्रमाणमात्रव्यङ्ग्या चित्तमित्युच्यते। चित्तेन हि सर्वः प्राणी बाह्यार्थात्मप्रकाशानुगृहीतं सामान्येन विवेचितमविवेचितञ्चार्थं चेतयते इति। पश्वर्थधर्माधर्मिका पुनरवबोधात्मिका विद्या स्त्रशास्त्रं येनोच्यते। चेतनपरतन्त्रत्वे सत्यचेतना कला सापि द्विविधा कार्य्याख्या कारणाख्या चेति। तत्र कार्य्याख्या दशविधा पृथिव्यादीनि पञ्च तत्त्वानि रूपादयः पञ्च गुणाश्चेति। कारणाख्या त्रयोदशविधा ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकम् अध्यवसायाभिमानसङ्कल्पाभिधवृत्तिभेदात् बुद्ध्यहङ्कारमनोलक्षणमन्वःकरणत्रयञ्चेति। पशुत्वसम्बन्धी पशुः सोऽपि द्विविधः साञ्जनो निरञ्जनश्चेति। तत्र साञ्जनः शरीरेन्द्रियसम्बन्धी निरञ्जनस्तु पञ्चार्थभाव्यदीपिकादौ द्रष्टव्यः। समस्तसृष्टिसंहारानुग्रहकारि कारणं तस्यैकस्यापि गुणकर्मभेदापेक्षया विभाग उक्तः पतिः साद्य इत्यादिना। तत्र पतित्वं निरतिशयदृक्क्रियाशक्तिमत्त्वं तेनैश्वर्य्येण नित्यसम्बन्धित्वम्। आद्यत्वमनागन्तुकैश्वर्य्यसम्बन्धित्वम् इत्यादर्शकारादिभिस्तीर्थकरैर्निरूपितम्। चित्तद्वारेणात्मेश्वरसम्बन्धो योगः स च द्विविधः क्रियालक्षणः क्रियोपरमलक्षणश्वेति तत्र जपध्यानादिरूपः क्रियालक्षणः क्रियोपरमलक्षणस्तु संविद्गत्या संज्ञितः। धर्मार्थसाधकव्यापारो विधिः। स च द्विबिधः प्रधानभूतो गुणभूतश्च तत्र प्रधानभूतः साक्षाद्धर्महेतुः चर्य्या। सा द्विबिधा व्रतं द्वाराणि चेति। तत्र भत्स्मस्नानशय्योपहारजपप्रदक्षिणादि व्रतम्। तदुर्क्तम् भगवत नकुलीशेन “भस्मना त्रिषवणं स्रायीत भस्मनि शयीतेति”। अत्रोपहारो नियमः स च षडङ्गः। तदुक्तम् सूत्रकारेण “हसितगीतनृत्यहुडुक्कारनमस्कारजप्यषडङ्गोपहारेण उपतिष्ठेतेति”। तत्र हसितं नाम कण्ठोष्ठपुटविस्कूर्जनपुरःसरमहहहेत्यदृहामः। गीतं गान्ध- र्वशास्त्रसमयानुसारेण महेश्वरसम्बन्धिगुणधर्मादिनिमित्तानां चिन्तनम्। नाट्यमपि नाट्यशास्त्रानुसारेण हस्तपादादीनामवक्षेपणादिकमङ्गप्रत्यङ्गोपाङ्गसहितं भावाभावसमेतञ्च प्रयोक्तव्यम्। हुडुक्कारो नाम जिह्वातालुर्सयोगान्निष्पाद्यमानः पुष्टवृषनादसदृशो नादः। हुडुगिति शब्दानुकारो वषडितिवत्। यत्र लौकिका न भवन्ति तत्रैतत् सर्वं गूढं प्रयोक्तव्यम्। शिष्टं प्रसिद्धम्। द्वाराणि तु क्राथनस्पन्दनभन्दनशृङ्गारणावितत्करणावितद्भाधणानि। तत्रासुप्तस्येव सुप्तलिङ्गवद्दर्शनं क्राथनम्। वाय्वभिभूतस्येव शरीरावयवानां कम्पनं स्पन्दनम्। उपहतपादेन्द्रियस्येव गमनं भन्दनम्। रूपपौयनसम्पन्नां कामिनीमवलोक्यात्मानं कामुकमिव यैर्विलासैः प्रदर्शयति तत् शृङ्गारणम्। कार्य्याकार्य्यविवेकविकलस्येव लोकनिन्दितकर्मकरणमवितत्करणम्। भ्याहतापार्थकादिशब्दोच्चारणमवितद्भाषणमिति। गुणभूतस्तु चर्य्यानुग्राहकोऽनुस्नानादिः भैक्षोच्छिष्टादिनिर्मिता योग्यताप्रत्ययनिवृत्त्यर्थः। तदप्युक्तं सूत्रकारेण “अनुस्नाननिर्साल्यलिङ्गधारीति”। तत्र समासो नाम धर्मिमात्राभिधानं तच्च प्रथमसूत्र एव विवृतम्, पञ्चानां पदार्थानां प्रमाणतः प्रपञ्चाभिधानं विस्तरः। स खलु राशीकरभाष्ये द्रष्टव्यः। एतेषां यथासम्भवं लक्षणतोऽसङ्करेणाभिधानं विभागः स तु विहितशास्त्रान्तरेभ्योऽमीषां गुणातिशयेन कथनं विशेषः। तथा हि अन्यत्र दुःखनिवृत्तिरेव दुःखान्तः इह तु पारमैश्वर्य्यप्राप्तिश्च। अन्यत्राऽभूत्वा भावि कार्य्यमिह तु नित्यं पश्वादि। अन्यत्र सापेक्षः कारणम् इह तु निरपेक्षो भगवानेव। अन्यत्र कैवल्यादिफलको योगः इह तु पारमेश्वर्य्यदुःखान्तफलकः। अन्यत्र पुनरावृत्तिः स्वर्गादिः इह पुनरपुनरावृत्तिरूपः सामीप्यादिफलकः। ननु महदेतदिन्द्रजालं यन्निरपेक्षः परमेश्वरः कारणमिति तथात्वे कर्मवैफल्यं सर्वकार्य्याणां समसमयसमुत्पादश्चेति दोषद्वयं प्रादुःष्यात् मैवं मन्येथाः व्यधिकरणत्वात्। यदि निरपेक्षस्य भगवतः करणत्वं स्यात्तर्हि कर्मणो वैफल्ये किमायातम्। प्रयोजनाभाव इति चेत् कस्य प्रयोजनाभावः कर्मवैफल्ये कारणं किं कर्मिणः? किं वा भगवतः। नाद्यः ईश्वरेच्छानुगृहीतस्य कर्मणः सफलत्वोपपत्तेः। तदनुगृहीतस्य ययातिप्रभृतिकर्मवत् कदाचित् निष्फलत्वसम्भवाच्च। न चैतावता कर्मस्वप्रवृत्तिः कर्षकादिवदुप- पत्तेः ईश्वरेच्छायत्तत्वाच्च पशूनां प्रवृत्तेः। नापि द्वितीयः परमेश्वरस्य पर्य्याप्तकामत्वेन कर्मसाध्यप्रयोजनापेक्षाया अभावात्। यदुक्तं “समसमयसमुत्पाद” इति तदप्ययुक्तम् अचिन्त्यशक्तिकस्य परमेश्वरस्येच्छानुविधायिन्या अव्याहतक्रियाशक्त्याः कार्यकारित्वाभ्युपगमात्। तदुक्तं सम्प्रदायविद्भिः “कर्मादिनिरपेक्षस्तु स्वेच्छाचारीयतो ह्ययम्। ततः कारणतः शास्त्रे सर्वकारणकारणमिति”। ननु दर्शनान्तरेऽपीश्वरज्ञानान्मोक्षो लभ्यत एवेति कुतोऽस्य विशेष इति चेन्मैवं वादीः विकल्पानुपपत्तेः किमीश्वरविषयज्ञानमात्रं निर्वाणकारणं किं वा साक्षात्कारः अथ वा यथावत्तत्त्वनिश्चयः। नाद्यः शास्त्रमन्तरेणापि प्राकृरजनबद्देवानामधिपो महादेव इति ज्ञानोत्पत्तिमात्रेण मोक्ष सिद्धौ शास्त्राभ्यासवैफल्यप्रसङ्गात्। नापि द्वितीयः अनेकमलप्रचयोपचितानां पिशितलोचनानां पशूनां परमेश्वरसाक्षात्कारानुपपत्तेः। तृतीयेऽस्मन्मतापातः पाशुपतशास्त्रमन्तरेण यथावत्तत्त्वनिश्चयानुपपत्तेः! तदुक्तमाचार्य्यैः “ज्ञानमात्रे यथाशास्त्रं साक्षाद्दृष्टिस्तु दुर्लभा। पञ्चार्थादन्यतो नास्ति यथावत्तत्त्वनिश्चयः” इति। तस्मात् पुरुषार्थकामैः पुरुषधौरेयैः पञ्चार्थप्रतिपादनपरं पाशुपतशास्त्रमाश्रयणीयम्”। नकुलीश्चरोऽपि शिवे काशीस्थशिवलिङ्गभेदे च काशीख० १०० अ०।

४०० पृष्ठस्थनष्टशब्दार्थपरिशिष्टम्। छन्दःशास्त्रसिद्धे प्रस्तारे इयत्सङ्ख्यकत्वमात्रज्ञाने तत्स्वरूपावधारणाय ४ क्रियाभेदे “प्रस्तारो नष्टमुद्दिष्टमेकद्व्यादिलगक्रिया” वृत्तर० उपक्रमे “नष्टस्य यो भवेदङ्कस्तस्यार्द्धेऽर्द्धे समे च लः। विषमे चैकमाधाय तस्यार्द्धेऽर्द्धे गुरुर्भवेत्”। नष्टस्य अज्ञातस्वरूपस्य योऽङ्कः प्रस्तारमध्यपातिसंख्याज्ञापकः अङ्कः तस्य तत्संख्यायाः समत्वे लोलघुर्लेख्यः तस्य अर्द्धे कृते तस्य समत्वे च सति लो लघुर्लेख्यः। पुनस्तस्याप्यर्द्धे समे लघुः एवं याबदक्षरसंख्या तावत्। नष्टस्य संख्याया विषमत्वे गुरुः, तत्रैकमाधाय संयोज्य तस्यार्द्धे कृते विषमत्वे गुरुः समत्वे लघुः विषमत्वे एकयोजिते पुनरर्द्धे कृते समत्वे लघुः विषमत्वे गुरुः, यथा त्र्यक्षरप्रस्तारे चतुर्थो भेदः कीदृशः इति प्रश्ने, तत्संख्यायाः समत्वात् प्रथमं लघुः तस्यार्द्धे कृते तस्य समत्वेन पुनर्लघुः शिष्टे द्व्यङ्केऽर्द्धीकृते तस्य विषमत्वात् गुरुः एवञ्च चतुर्थो भेदः अन्त्यगुरु इत्युत्तरम् इत्यर्थः।

—प—

पः = पञ्चमवर्गस्य प्रथभोवर्णः स्पशवर्णेषु एकविंशतितमः। तस्योच्चारणस्थानभोष्ठः। तस्योच्चारणे आभ्यन्तरप्रयत्नः ओष्ठेन सह जिह्वाग्रस्य स्पर्शः। बाह्याः प्रयत्नाः विवारश्वासघोषाः अल्पप्राणश्च। अस्मिन् परे विसर्गस्य स्थाने उपाध्मानीयः वर्णाभिधाने अस्य वाचकशब्दाउक्ता यथा “पः सुरप्रियता तीक्ष्णा लोहितः पञ्चमो रमा। गुह्यकर्त्ता निधिः शेषः कालरात्रिः सुरारिहा। तपनः पालनः पाता देवदेवो निरञ्जनः। सावित्री पातिनी पानं वीरतन्त्रो धनुर्द्धरः। दक्षपार्श्वश्च सेनानीर्मरीचिः पवनः शनिः। उड्डीशं जयिनी कुम्भोऽनलरेखा च मीहकः। मूलं द्वितीयमिन्द्राणी लोलाक्षी मनआत्मकः” तदधीशदेवताध्यानं यथा “द्विचित्रवसनां देवीं द्विभुजां पङ्कजेक्षणाम्। रक्तचन्दनलिप्ताङ्गीं पद्ममालाविभूषिताम्। मणिरत्नादिकेयूरहारभूषितविग्रहाम्। चतुर्वर्ग प्रदां नित्यां नित्यानन्दमयीं पराम्। एवं ध्यात्वा पकारन्तु तन्मन्त्रं दशधा जपेत्”। अस्य स्वरूपं यथा “अतः परं प्रवक्ष्यामि पकाराक्षरमव्ययम्। चतुवर्गप्रदं वर्णं शरच्चन्द्रसमप्रभम्। पञ्चदेवमयं वर्णं स्वयं परमकुण्डली। पञ्चप्राणमयं वर्णं त्रिशक्तिसहितं तथा। त्रिगुणावस्थितं वर्णमात्मादितत्त्वसंयुतम्। महामोक्षप्रदं वर्णं हृदि भावय पार्वति!” इयि कामधेनुतन्त्रे ५ पटले। अस्य मातृकन्यासे दक्षपार्श्वे न्यास्यता। काव्यादौ अस्य प्रथमप्रयोगे सुखं फलम्। “सुखभयमरणक्लेशदुःखं प्रवर्गः” वृ० टी०। पवर्गस्थानां पञ्चानां वर्णानां क्रमेण फलपञ्चकोक्तेः।

= पु० पत–पा–वा ड। १ पबने २ पर्णे ३ पाने ४ पातने चरित्रे एकाक्षरकोषः।

पकार = पु० प + स्वरूपे कार। पवणं

पक्कण = पु० पचति पच–क्विप् कण–अच् कर्म०। शवरालये अमरः।

पक्तपौड = पु० (पाखौडा) इति प्रसिद्धे वृक्षभेदे राजनि०।

पक्तृ = त्रि० पच–तृन्। १ पाककर्त्तरि २ अग्नौ पु० अग्निपु० २ अ०

पक्ति = स्त्री पच–भावे क्तिन्। १ पाके २ गौरवे मेदि० ३ परिणामे च।

पक्तिशूल = न० पक्तौ अन्नपरिणामे शूलम्। अन्नादिपाककाले जायमाने शूले रोगभेदे राजनि०।

पक्त्र = न० पच–त्र। नार्हपत्ये गृहस्थधर्मे उज्ज्वलदत्तः।

पक्त्रिम = त्रि० पच–क्त्रि ततो–मप्। पाकनिर्वृत्ते

पक्थ = पु० पच–बा० थल्। १ राजभेदे ऋ० ८२३। १० भा० भाये थल् २ पाके च। ततोऽस्त्यर्थे इनि पकिथन्। पाकयुक्ते ऋ० ६। २०। १३ भा०।

पक्व = त्रि० पच–क्त तस्य वः। १ परिणते २ दृढे ३ विनाशोन्मुखे ४ कृतपाके च अमरः। भावे क्त ५ पाके न०

पक्वकृत् = पु० पक्वं करोति कृ–क्विप् ६ त०। १ निम्बवृक्षे शब्दच० २ पाककर्त्तरि त्रि०।

पक्वरस = पु० पक्वस्य अन्नगुडादेः रसः। मद्ये शब्दरत्ना०।

पक्ववारि = न० पक्वस्यान्नादेर्वारि। काञ्जिके(आमानि)शब्दच०।

पक्वश = पुंस्त्री पुक्कश + पृषो०। णन्त्यजातिभेदे हला०।

पक्वशस्योपमोन्नति = पु० पक्वशस्यस्योपमा यत्र तादृशी उन्नतिरस्य। राजकदम्बे नैघण्टुप्र०।

पक्वातीसार = पु० सुश्रुतोक्ते आमातिसारभिन्ने षञ्चप्रकारे अतिसारभेदे अतिसारशब्दे १०६ पृ० दृश्यम्।

पक्वाधान = न० पक्वस्य पाकस्याधानम् ६ त०। नाभेरधोभागस्थे पाकाशये सुश्रुतः पक्वाशयोऽप्यत्र “पक्वाशयस्त्वधीनाभेरुर्द्धमामाशयः स्थितः” वैद्यकम्।

पक्वान्न = न० कर्म०। १ कृतपाके अन्ने “आमं शूद्रस्य पक्वान्नं पक्वमुच्छिष्टमुच्यते” स्मृतिपरिभाषिते शूद्रस्य २ आमान्ने च।

पक्ष = परिग्रहे अद० चु० उभ० सक० सेट्। पक्षयति ते अपपक्षत् त।

पक्ष = परिग्रहे चु० उभ० सक० सेट् अयं भ्यादिश्च पर० पक्षति पक्षयति ते अपपक्षत् त अपक्षीत्

पक्ष = पु० पक्ष–अच्। १ शुक्लकृष्णप्रतिपदादिपञ्चदश्यन्तपञ्चदशतिथ्यात्मके काले २ खगानां पतत्त्रे (पाका) ३ शरस्य पुङ्खस्थे पत्त्रे। केशात् परः समूहार्थे पक्षप्रत्ययान्तः। ४ केशसमूहार्थे यथा केशपक्ष इत्यादि ५ पार्श्वे ६ गृहे न्यायोक्ते ७ सन्दिग्धसाध्यवति पदार्थे पक्षताशब्दे दृश्यम् यथा पर्वती वह्निमान्। ८ विरोधे ९ सहाये १० वले ११ सख्यौ १२ चुल्लीरन्ध्रे १३ राजकुञ्जरे १५ खगे १६ वलये १७ समूहे १८ पिच्छे १९ देहार्द्धे च अमरमेदिन्यौ। २० विहगे २१ शुद्धे शब्दरत्ना०। २२ वर्गे २३ देहे २४ देहाङ्गभेदे वादिप्रतिवादिभ्यां दर्शितविप्रतिपत्तौ २५ कोटिभेदे च।

पक्षक = पु० पक्ष इव कायति कै–क। १ पार्श्वद्वारे (खिडकी) अमरः। ३ पार्श्वमात्रे गेदि०। ३ सहाये शब्दर०।

पक्षग्रहण = न० भावप्राधान्ये ६ त०। साहाय्यग्रहणे।

पक्षचर = पु० पक्षे शुक्लादौ चरति चर–ठ। १ चन्द्रे २ पृथक् चरे ३ गजे च मेदि०।

पक्षज = पु० पक्षे शुक्ले जायते जन–ड। १ चन्द्रे त्रिका० २ पक्षे जातमात्रे त्रि०। पक्षजन्माप्यत्र शब्दरत्ना०

पक्षता = स्त्री पक्षस्य भावः। न्यायोक्ते अनुमानेच्छाभाव समानाधिकरणे १ साध्यवत्तानिश्चयामावे यत्र वह्न्यादिकं साध्यते तत्र धर्मिणि वह्निमत्त्वनिश्चयाभावे एव पक्षत्वं तत्र तन्निश्चयसत्त्वे तु अनुमानेच्छासत्त्वएव पक्षता नेतरथेति न्याये स्थितम्। “सिषाधयिषया शून्या सिद्धिर्यत्र न विद्यते। स पक्षस्तत्र वृत्तित्वं ज्ञानादनुमितिर्भवेत्” भाषा०

पक्षति = स्त्री पक्षस्य मूलम् ति। पक्षारम्भके १ प्रतिपदि तिथौ खगानां २ पक्षस्य मूले च (डाना) अमरः।

पक्षद्वार = न० पक्षे षर्श्वे द्वारम्। (खिडकौ) पार्श्वस्थे द्वारे अमरः।

पक्षधर = पु० पक्षं धारयति धृ–अच्। १ चन्द्रे जटाध० पक्षं पञ्चदशतिथ्यात्मककालम् तत्तिथिमानादिकं धारयति अच् तत्स्मारके २ विद्वद्भेदे स हि चिन्तमण्यालोकं प्रसन्नराघवनाटकं च चकार तस्य जयदेवेति नामान्तरम् पक्षस्थतिथिमानादिधारणाशक्तिमत्त्वात्तस्य तथाप्रसिद्धिः।

पक्षपात = पु० पक्षे अन्याय्यसाहाय्ये पातः अमिनिवेशः। १ अन्याय्यसाहाय्ये “पक्षपातः पतङ्गानामिति” विजयरक्षितोक्ते खगानां २ ज्वरभेदे च।

पक्षपातिता = स्त्री पक्षपात + अस्त्यर्थे इनि तस्य भावः तल्। १ साहाय्यकरणायाभिनिवेशे २ पक्षाभ्यां पतने च “न परं पथि पक्षपातिनाऽनवलम्बे किमु मादशेऽपि सा” नैषधम्।

पक्षपालि = स्त्री पक्षस्य द्वारभेदस्य पालिरिव (खिडकी) द्वारभेदे शब्दरत्ना०।

पक्षभाग = पु० पक्ष इव भागः। हस्तिपार्श्वभागे अमरः।

पक्षमूल = न० ६ त०। (पाकारमूल) पक्षस्य १ मूले २ प्रतिपत्तिथौ च अभरः।

पक्षवाहन = पुंस्त्री पक्षौ वाहनमिवास्य। खगे शब्दच०। स्त्रियां जातित्वात् ङीष्।

पक्षस् = न० पच–असुन् सुट् च। पक्षशब्दार्थे “पक्षसी तु स्मृतौ पक्षौ” उत्तररत्नम्। यजु० २९। ५ उदा० दृश्यम्।

पक्षसन्धि = पु० पक्षयोः सन्धिः। पर्वसन्धिकाले

पक्षसुन्दर = पु० पक्षे सुन्दरः। लोध्रे हारा०।

पक्षहोम = पु० पक्षव्यापको होमः। पक्षपर्य्यन्तं कर्त्तव्ये होमभेदे।

पक्षाधात = पु० वातरोगभेदे तल्लक्षणादि सुश्रुतोक्तं यथा “अयोगमः सतिर्यग्गा धमनीरूर्द्ध्वदेहगाः। यदा प्रकुपितोऽत्यर्थं मातरिश्वा प्रपद्यते। तदन्यतरपक्षस्य सन्धिवन्धान् विमोक्षयन्। हन्ति पक्षं तमाहुर्हि पक्षाधायं भिषग्वराः। यस्य कृ। स्न्ं शरीरार्द्धमकर्मण्य- मचेतनम्। ततः पतत्यसून् वापि जहात्यनिलपीडितः। शुद्धवातहतं पक्षं कृच्छ्रसाध्यतमं विदुः। साध्यमन्येन संसृष्टमसाध्यं क्षयहेतुकम्। वायुरूर्द्धं व्रजेत्स्थानात् कुपितो हृदयं शिरः। शङ्खौ च पीडयत्यङ्गान्याक्षिपेन्नमयेच्च सः”। पक्षवधोऽप्यत्र।

पक्षान्त = पु० पक्षस्यान्तो यत्र काले। १ अमावास्यायां २ पूर्णिनायाञ्च तिथौ “पक्षान्ते निष्फला यात्रा मासान्ते मरणं ध्रुवम्” ज्यो० त०। ६ त०। ३ पक्षस्यावसाने च।

पक्षादि = पु० ६ त०। पक्ष आदिर्यस्य चतुरर्थ्यां फक्प्रत्ययनिमित्ते शब्दगणे स च गणः पा० ग० सू० उक्तो यथा पक्ष त्वक्ष तुष कुण्ड अण्ड कम्बलिका वलिक चित्र अस्ति पथिन् (पन्थ च) कुम्भ सीरक सरक सकल सरस समल अतिश्वन् रोमन् लोमन् हस्तिन् मकर लोमक शीर्ष निवात पाकसिंहक अङ्कुश सुवर्णक हंसक हिंसक कुत्स बिल खिल यमल हस्त कलासकर्णक”। पाक्षायण इत्यादि।

पक्षालिका = स्त्री कुमारानुचरमातृकाभेदे भा० श० ४७ अ०

पक्षालु = पु० पक्ष + अस्त्यर्थे आलुच्। विहगे शब्दच०।

पक्षावसर = पु० पक्षस्यावसरोऽपसरणं यत्र काले। पौर्णमास्याम् अमावांस्यायाञ्च शब्दर०।

पक्षिणी = स्त्री पक्षतुल्यौ दिवसौ यस्या अस्ति इनि ङीप्। आगामिवर्त्तमानाहयुक्तायां रात्रौ अमरः। “द्वावह्नावेक रात्रिश्च पक्षिणीत्यभिधीयते” शुद्धि० त०। तत्र पूर्वदिन रात्रौ तन्निमित्ते जाते पूर्वदिवसीयदिनमादायैव पक्षिणी व्यवहारः” शु० त० स्थितम्। “यापयेत् पक्षिणीं रात्रिं शिष्यर्त्विग्बान्धवेषु च” मनुः। २ विहगजातिस्त्रियां स्त्री

पक्षिन् = पु० पक्ष + अस्त्यर्थे इनि। १ खगे तेषामुत्पत्तिर्यथा “अरुणस्य भार्य्या श्येनी वीर्य्यवन्तौ महावलौ। सम्पातिञ्च जटायुञ्च प्रासोष्ट पक्षिसत्तनौ। सम्पातिर्जनयन् गृध्रान् काकाः पुत्रा जटायुषः। भार्य्या गरुत्मतश्चापि भासी क्रौञ्ची शुनी शुकी। धृतराष्ट्री गरुत्मांस्तु शुन्यां जज्ञे च षट् सुतान्। त्रिशिखञ्च सुनेत्रञ्च सुमुखं सुनसन्तथा। सुरूपन्तु सुपर्वाणं तेषां पुत्रा अनन्तकाः। चतुर्द्दश सहस्राणि क्रूराणां पन्नगाशिनाम्। सप्तद्वीपेष्विमे सन्ति गारुडास्ते महाबलाः। भासीपुत्रास्तथा भासा उलूकाः काककुक्कुठाः। मयूराः कलविङ्काश्च कपोती चैव तित्तिरी। क्रौञ्च्यां वाध्रीणसा आसन् कुरराः सारसारकाः। धृतराष्ट्री कलहंसान् धार्त्त- राष्ट्रांश्च भामिनी। चक्रवाकांश्च विहगान् सश्येनानौदकान् द्विजान्। अन्यानपि द्विजान् जज्ञे पुत्रपौत्राननन्तकान्” अग्निपु०। गुरुभक्षबहुभक्षस्थूलकायपक्षिणां पूर्वार्द्धस्य श्रेष्ठत्वं यथा “गुरुभक्षा बहुभुजो ये चोपचितमेदसः। एकदेहेऽपि पूर्वार्द्धं भृगाणां पक्षिणां वरम्” पक्षिणामङ्गभेदानामुत्तरोत्तरं गुरुत्वं यथा “सर्वेषाञ्च शिरःस्कन्धप्लीहचर्मयकृद्गुदम्। पादपुच्छान्त्रमस्तिष्क मुष्कक्रोडाः समेहनाः। धातवः शोणिताद्याश्च गुरवः स्युः परस्परम्”। तन्मांसगुणाः। “मत्स्यकूर्मखगाण्डानि स्वादुवाजीकराणि च। कटुपाकानि तानि स्युर्वातश्लेष्महराणि च” राजवल्लभः। तद्भेदमांस गुणाः सुश्रुतोक्ता यथा “लावतित्तिरिकपिञ्जलवर्त्तीरबर्त्तिकावर्त्तकनप्तृकावातीक चकोरकलविङ्कमयूरक्रकरोपचक्रकुक्कुटसारङ्गशतपत्रक कुतिंत्तिरिकुररबाहुकयवलकप्रभृतयस्त्र्याहणा विष्किरा लघवः शीतमधुरा कषाया दोषशमनाश्च। “संग्राही दीपनश्चैव कषायमधुरो लघुः। लावः कटुविपाकश्च सन्निपाते च पूजितः। ईषद्गुरूष्णमधुरो वृष्यो मेधाग्निबर्द्धनः। तित्तिरिः सर्वदोषघ्नो ग्राही वर्णप्रसादनः। हिक्काश्वासानिलहरो विशेषाद्गौरतित्तिरिः। रक्तपित्तहरः शीतो लथुश्चापि कपिञ्जलः। कफोत्थेषु च रोतेषु मन्दवाते च शस्यते। वातपित्तहरा वृष्या मेधाग्निबलवर्द्धनाः। लघवः क्रकरा हृद्यास्तथा चैवोपचक्रकाः। कषायः स्वादुलवणस्त्वच्यः केश्यो रुचिप्रदः। मयूरः स्वरमेधाग्निदृक्श्रोत्रेन्द्रियदार्ढ्यकृत्। स्निग्धोष्णोऽनिलहा वृष्यः स्वेदस्वरवलावहः। वृंहणः कुक्कुटो वन्यस्तद्वद्ग्राम्यो गुरुस्तु सः। वातरोगक्षयवमीविषमज्वरनाशनः”। “कपोतपारावतभृङ्गराजपरभृतकोयष्टिककुलिङ्गगृहकुलिङ्गगोक्षोडकडिडिमाणकशतपत्रकमातृनिन्दकभेदाशिशुकसारिकावल्कुलीगिरिशालह्वालदूषकसुगृहीखञ्जरीटकहारीतदात्यूहप्रभृतयः प्रतुदाः। कषायमधुरा रूक्षाः फलाहारा मरुत्कराः। पित्तश्लेष्महराः शीता बद्धमूत्राल्पवर्चसः। सर्वदोषकरस्तेषां भेदाशी मलदूषकः। कषायस्वादुलवणो गुरुः काणकपोतकः। रक्तपित्तप्रशमनः कषायविशदोऽपि च। विपाके मधुरश्चापि गुरुः पारावतः स्मृतः। कुलिङ्गो मधुरःस्निग्धः कफशुक्रविवर्द्धनः। रक्तपित्तहरो वेश्मकुलिकस्त्वतिशुक्रलः”।

पक्षिराज = पु० ६ त० टच्समा०। गरुडे पक्षीन्द्रादयोऽप्यत्र।

पक्षिल = पु० पक्ष–बा० इलच्। वात्स्यायने गौतमसूत्रभाष्यकारके मुनिभेदे त्रिका०।

पक्षिशाला = स्त्री ६ त०। (चिडियाखाना) १ पक्षिवासस्थाने २ नीडे च त्रिका०।

पक्षिसिंह = पु० पक्षी सिंह इव उपमितस०। गरुडे त्रिका०

पक्षिस्वामिन् = पु० ६ त०। गरुडे हेमच०।

पक्ष्णु = त्रि० पच–स्नु। पाकशीले

पक्ष्मकोप = पु० सुश्रुतोक्ते नेत्ररोगभेदे “पक्ष्माशयगता दोषास्तीक्ष्णोग्राणि खराणि च। निर्वर्त्तयन्ति पक्ष्माणि तैर्जुष्टञ्चाक्षि दूयते। उत्पाटितैः पुनः शान्तिः पक्ष्मभिश्चोपजायते। वातातपानलद्वेषी पक्ष्मकोपः स उच्यते” पक्ष्मप्रकोपोऽप्यत्र पु०।

पक्ष्मन् = न० पक्ष–मनिन्। १ नेत्रावरके लोम्नि २ पद्मादेः केसरे अमरः ३ सूत्रादेरल्पभाशे ४ खगादेः पक्षे च अमरमाला।

पक्ष्मल = त्रि० पक्ष्मन् + सिध्मा० मत्वर्थे इलच्। पक्ष्मयुक्ते

पङ्क = पु० न० पचि–विस्तारे कर्मणि करणे वा घञ् कुत्वम्। अर्द्धर्चा०। १ कर्दमे २ पापे च अमरः।

पङ्ककर्वट = पु० पङ्केषु कर्वटः मनोहरः। जलयुक्तपङ्के त्रिका०।

पङ्ककीर = पुंस्त्री पङ्कप्रियः कीरः। (कादाखो~चा) पक्षिभेदे त्रिका० स्त्रियां जातित्वात् ङीष्।

पङ्कक्रीड = पु० पङ्केन क्रीडति क्रीड–अच् ३ त०। शूकरे त्रिका० ल्यु। पङ्कक्रीडनोऽप्यत्र।

पङ्कगडक = पु० पङ्के स्थितः गडकः। (पा~काल) मत्स्यभेदे त्रिका०।

पङ्कगति = पु० पङ्के गतिरस्य। (पा~काल) मत्स्यभेदे शब्दमा०

पङ्कग्राहृ = पुंस्त्री पङ्के स्थितः ग्राहः। मकरे जलजन्तुभेदे हारा०।

पङ्क(ङ्के)ज = न० पङ्के जायते जन–ड ७ त० वा अलुक्समा०। १ पद्मे २ सारमपक्षिणि च राजनि० पङ्कजनिकर्तृत्वविशिष्टे अस्य शब्दस्य योगरूढता कुमुदादीनां पङ्कजातत्वेऽपि न तत्र रूढिः किन्तु लक्षकतेत्याकारे स्थितम्।

पङ्कजन्मन् = न० पङ्के जन्म यस्य। १ पद्मे राजनि० २ सारसपक्षिणि च।

पङ्कजिनी = स्त्री पङ्कज + पुष्करा० इनि। १ पद्मयुक्तदेशे पद्माकरे २ पद्मसमूहे च हेमच०।

पङ्कण = पु० पक्कण + पृषो०। शवरालये शब्दमाला।

पङ्कप्रभा = स्त्री पङ्कस्येव प्रभा यस्याः। कर्दमतुल्यप्रभान्वित नरकभेदभूमौ हेमच०।

पङ्कमण्डूक = पुंस्त्री पङ्के मण्डूक इव। शम्बुके (शामुक) जलशुक्तिभेदे हारा०।

पङ्क(ङ्के)रुह = न० रुह–क ७ त० वा अलुक्। १ पद्मे अमरः २ सारसखगे च।

पङ्कवास = पु० पङ्के वासोऽस्य। कर्कटे (का~कडा) जलजन्तुभेदे राजनि० स्त्रियां जातित्वात् ङीष्।

पङ्कशुक्ति = स्त्री पङ्के स्थिता शुक्तिः (झिनुक) जलशुक्तिभेदे हारा०।

पङ्कशूरण = पु० पङ्के शूरण इव। शालूके राजनि०

पङ्कार = पु० पङ्कमृच्छति ऋ–अण् उप० स०। १ शैवले २ सेतौ च ३ सोपावे ४ जलकुब्जकपुष्पभेदे मेदि०।

पङ्किल = त्रि० पङ्क + अस्त्यर्थे पिच्छा० इलच्। पङ्कयुक्ते

पङ्केशय = त्रि० पङ्के शेते शी–अच् ७ त० अलुक्स०। १ पङ्कस्थायिनि २ जलौकाभेदे स्त्री “न च सङ्कीर्णचारिण्यो न च पङ्केशयाश्च ताः” सुश्रु०।

पङ्क्ति = स्त्री पचि–विस्तारे क्तिन्। १ सजातीयपदार्थानां स्थितिभेदे (शारि पा~ति) इति ख्याते पदार्थे “भौगिति पुङ्क्तिः” वृ० र० उक्तलक्षणे पञ्चाक्षरपादके २ छन्दोभेदे ३ दशाक्षरपादके छन्दोजातिभेदे “गायत्र्युष्णिगनुष्टुप् च वृहती पङ्क्तिरेव च” वृ० र०। ४ दशसंख्यायाम् पङ्क्तिरथः (दशरथः)। ५ पृथिव्यां शब्दमा०। ६ गौरवे ७ पाके च मेदि०। पतिताद्येकपङक्तौ भोजनादौ दोषः “न संवसेच्च पतित्तैर्न चाण्डालैर्न पुक्कशैः। न मूर्खेर्नावलिप्तैश्च नान्त्यैर्नान्त्यावसायिभिः। एकशय्यासनपङ्क्तिभाण्डपक्कान्नसिश्रणम्। याजनाध्यापने योनिस्तथैव सहभोजनम्। सहाध्यायस्तु दशमः सह याजनमेव च। एकादश समुद्दिष्टा दोषाः साङ्कर्य्य सङ्गिताः। समीपे चाप्यवस्थानात् पापं संक्रमते नृणाम्। तस्मात् सर्वप्रयत्नेन साङ्कर्य्यं परिवर्जयेत्”। पङ्क्तिसाङ्कर्य्यदोषनिवारणोपाया यथा। एकपङ्क्त्युपविष्टा ये न स्पृशन्ति परस्परम्। भस्मना कृतमर्य्यादा न तेषां सङ्करो भवेत्। अग्निना भस्मना चैव षङ्भिः पदृक्तिर्बिभिद्यते” कूर्मपु० १५ अ०।

पङ्क्तिकण्टक = पु० पङ्क्तौ एकपङ्क्तौ वेशनादौ कण्टक इव परिहार्य्यत्वात्। पङ्क्तिदूषके

पङ्क्तिग्रीव = पु० पङ्क्तिसङ्क्यिका ग्रीवा यस्य। रावणे दशग्रीवे शब्दर०।

पङ्क्तिदूष(क) = पु० पङ्क्तिम एकपङ्क्तिं भोजने दूषयति दूषि–अण् ण्वुल् वा उप० स०। अपाङ्क्तेये अपकृष्टब्राह्मणे स च अपाङ्क्तेयशब्दे २४३ पृ० उक्तः। अन्येऽपि केचित् पाद्मे ३५ अ० उक्ता यथा “अपाङ्क्तेयास्तु ये राजन्! कीर्त्तयिष्यामि तान् शृणु। कितवो भ्रूणहा यक्ष्मी पशुपालो निराकृती। ग्राम प्रेष्यो बार्धुषिको गायनः सर्वविक्रयो। अगारदाही गरदः कृण्डाशी सोमविक्रयी। सामुद्रिको राजदूतस्तैलिकः कूटकारकः! पित्रा विवदमानश्च यस्य चोपपतिर्गृहे। अभिशस्तस्तथा स्तेनः शिल्पं यश्चोपजीवति। पर्वकारश्च सूची च मित्रध्रुक् पारदारिकः। अव्रतानामुपाध्यायः काण्डपृष्ठस्तथैव च। श्वभिश्च यः परिक्रामेद्यः शुना दष्ट एव च। परिवित्तिस्तु यश्च स्याद्दुश्चर्मा गुरुतल्पगः। कुशीलवो देवलको नक्षत्रैर्यश्च जीवति। ईदृशा ब्राह्मणा ये च अपाङ्क्तेयास्तु ते मताः। रक्षांसिभुञ्जते हव्यं यदेषान्तु प्रदीयते। श्राद्धे भुक्त्रा महाराज! दुश्चर्मा गुरुतल्पगः। श्राद्धं नाशयते तस्य पितरोऽपि न भुञ्जते। सोमविक्रयिणे दत्तं विष्ठातुल्यं भवेन्नृप! भिषजे शोणितसमं नष्टं देवलके तथा। अप्रतिष्ठं बार्धुषिके निष्फलं परिकीर्त्तितम्। बहुवाणिजके दत्तं नेह नामुत्र तद्भवेत्। भस्यनीव हुतं हव्यं तथा पौनर्भवे द्विजे। ये तु धर्मव्यपेतेषु चरित्रापगतेषु च। हव्यं कव्यं प्रयच्छन्ति तेषां तत्प्ररिणश्यति। ज्ञानपूर्वन्तु ये तेभ्यः प्रयच्छन्त्यल्पबुद्धयः। पुरीषं भुञ्जते तस्य पितरः प्रेत्य निश्चितम्। एतान् विद्धि महाबाहो! अपाङ्क्तेयान् द्विजाधमान्। शूद्राणामुपदेशन्तु ये कुर्वन्त्यल्पबुद्धयः। षष्टिं काणः शतं खञ्जः श्वित्री यावत् प्रपश्यति। पङ्क्त्यां समुपविष्टानां तावद्दूषयते नृप!। यद्वेष्टितशिरा भुङ्क्ते यद्भुङ्क्ते दक्षिणामुखः। सोपानत्कश्च यद्भुङ्क्ते सर्वं विद्यात्तदासुरम्। असूयया च यद्दत्तं यच्च श्रद्धादिवर्जितम्। सर्वं तदसुरेन्द्राय ब्रह्मा भागभकल्पयत्। श्वानञ्च पङ्क्तिदूषञ्च नावेक्षेरन् कथञ्चन। तस्मात् परिवृते दद्यात्तिलांश्चान्ने विकीरयेत्। तिलैर्विरहितं श्राद्धं कृतं क्रोधवशेन च। यातुधानाः पिशाचाश्च विप्रलुम्पन्ति तद्धविः। अपाङ्क्त्यान् यावतः पङ्क्त्यां भुञ्जानो ननु पश्यति। तावत् फलाद्भंशयति दातारं तस्य वाऽनिशम्”।

पङ्क्तिपावन = पु० पङ्क्तिं श्राद्धे भोजनार्थमुपविष्टानामावलिं पुनाति पू–णिच्–ल्यु। श्राद्धभोजनार्थमुपविष्टानां विप्राणां पङ्क्तिपवित्रताकारके विद्याविशिष्टादौ “अपाङ्क्त्योपहता पङ्क्तिः पाव्यते यैर्द्विजोत्तमैः। तान्निबोधत कात्र्स्न्येन द्विजाग्र्यान् पङ्क्तिपावनान्। अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च। श्रो- त्रियान्वयजाश्चैव विज्ञेयाः पङ्क्तिपावनाः त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित्। ब्राह्म्यदेयात्मसन्तानो ज्येष्ठसामग एव च। वेदार्थवित् प्रवक्ता च ब्रह्मचारी सहस्रदः। शतायुश्चैव विज्ञेया ब्राह्मणाः पङ्क्तिपावनाः” मनुः “इमे हि मनुजश्रेष्ठ! विज्ञेयाः पङ्क्तिपावनाः। विद्यावेदव्रतस्नाता ब्राह्मणाः सर्व एव हि। मातापित्रोर्यश्च वश्यः श्रोत्रियो दशपुरुषः। ऋतुकालाभिगामी च धर्मपत्नीषु यः सदा। वेदविद्याव्रतस्नातो विप्रः पङ्क्तिं पुनात्युत। अथर्वशिरसोऽध्येता ब्रह्मचारी यतव्रतः। सत्यवादी धर्मशीलः स्वकर्म निरतश्च यः। ये च पुण्येषु तीर्थेषु अभिषेककृतश्रमाः। मखेषु च समस्तेषु भवन्त्यवभृथप्लुताः। अक्रोधना ह्यचपलाः क्षान्ता दान्ता जितेन्द्रियाः। सर्वभूतहिता ये च श्राद्धेष्वेतान्निमन्त्रयेत्। एतेषु दत्तमक्षय्यमेते वै पङ्क्ति पावनाः। यतयो मोक्षधर्मज्ञा ये वा सुचरितव्रताः। ये चेतिहासं प्रयताः श्रावयन्ति द्विजोत्तमान्। ये च भाष्यविदः केचिद्ये च व्याकरणे रताः। अधीयते पुराणं ये धर्मशास्त्राणि चाप्युत। अधीत्य च यथान्यायं विधिवत्तस्य कारिणः। उपसन्नो गुरुकुले सत्यवादी सहस्रदः। अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च। यावदेते प्रपश्यन्ति पङ्क्त्यां तावत् पुनन्ति च। ततो हि पावनात् पाङ्क्त्या उच्यन्ते षङ्क्तिपावनाः। अनृत्विगनुपाध्यायः स चेदग्र्यासनं व्रजेत्। ऋत्विग्भिरननुज्ञातः पङ्क्त्या हरति दुष्कृतम्। अथ चेद्वेदवित् सर्वैः पङ्क्तिदोषैर्विवर्जितः। न च स्यात् पतितो राजन् पङक्तिपावन उच्यते” पाद्मे सर्ग खण्डे ३५ अ०।

पङ्क्तिरथ = पु० पङ्क्तिसु दशसु दिक्षु गतो रथो यस्य। दशरथे शब्दरत्ना०।

पङ्क्तिवीज = पु० पङ्क्तिभूतानि वीजानि यस्य। वर्वुरवृक्षे राजनि०।

पङ्गु = त्रि० खजि–कु–पनादेशः नुक् च। १ गतिहीने स्त्रियां ऊङ्। २ मन्दगतौ शनिग्रहे शब्दर० तत्कक्षाया अत्युच्चतया वहुकालेन राशिभागादिकस्य तेन भोगात् तस्य भन्दगतित्वम्। अश्वहरणकर्मविपाकेण पङ्गुता जायते इत्युक्तं मनुः।

पङ्गुत्वहारिणी = स्त्री पङ्गुत्वं हरति सेवनात् हृ–णिनि ङीप्। शिमुडीक्षुपे राजनि०।

पङ्गुल = पु० सितकाधाभहयभेदे हेम०।

पच = पाके भ्वा० उभ० सक० अनिट्। पचति ते। अपाक्षीत् अपक्त पपाच पेचे। पक्ता। पक्वम् पचेलिम् पक्तिः पाकः। ड्वित् पक्त्रिमः। अनेन विक्लेदनाया उत्पत्त्यनुकूलव्यापारस्य चेति व्यापारद्वयस्य वचनात् द्विकर्मकत्वम् तण्डुलानोदनं पचतीत्यस्य तण्डुलान् विक्लेदयन् ओदनं निष्पादयतीत्यर्थः। दुहा० गौणे कर्मणि लकारादयः। तण्डुला ओदनं पच्यन्ते दुहादिशब्दे कर्मन्शब्दे च अधिकं दृश्यम्।परि + परितः पाके परिणामे।वि + विशेषेण पाके अन्यथाभूतस्य अन्यरूपेण परिणामे।

पच = व्यक्तीकारे भ्वा० आत्म० अनिट्। पचते अपक्त पेचे।

पच = विस्तारे चु० उ० सक० सेट् इदित्। पञ्चयति ते अपपञ्चत् त।

पचत = पु० पच–अतच्। १ अग्नौ २ सूर्य्ये ३ इन्द्रे च उणादि०।

पचतभृज्जता = स्त्री पचत भृज्जत इत्युच्यते यस्यां क्रियायाम् मयू० स०। पाकभर्जनार्थं निदेशक्रियायाम्।

पचत्पुट = पु० पचत् पुटमस्य। सूर्यमणिवृक्षे शब्दच०।

पचत्य = त्रि० पचते पाके साधुः यत्। पाके साधौ ऋ० ३५२। २२ भा०।

पचति = पु० पच–धातुस्वरूपे श्तिप्। पचधातुस्वरूपे “कर्मस्थाः पचतेर्भावः” व्याक० का०।

पचतिकल्पम् = न० ईषदूनं पचति तिङन्तात् कल्पप्। ईषदून पाककर्त्तरि रूपप्। पचतिरूपमप्यत्र।

पचतितरा(मा)म् = अव्य० अतिशयेन पचति तर(म)प् आमु। अतिशयेन पाककर्त्तरि।

पचन = पु० पच–कर्त्तरि ल्यु। १ अग्नौ शब्दच० २ पाककर्त्तरि त्रि० भावे ल्युट्। ३ पाके न०। करणे ल्युट्। ४ पाकसाधने त्रि० स्त्रियां ङीप्। “मांस्पचन्या उखायाः” इति महाभाष्यम्। सा च ५ वनवीजपूरके राजनि०।

पचपच = पु० पचप्रकारः पच–प्रकारे द्वित्वम् पचस्य पाककर्त्तुर्यमादेरपि पचो वा। महादेवे। भा० शा० २८६ अ०। “यस्य ब्रह्म च क्षत्रञ्चोभे भवत ओदनो मृत्युर्यस्योपसेचनम्” श्रुतेः “अत्ता चराचरग्रहणात्” शा० सू० न्यायाच्च तस्य तथात्वम्।

पचप्रकुटा = स्त्री पच प्रकुट (प्रकर्षेण छिन्धि) इत्युच्यते यस्यां क्रियायाम् मयू० स०। पाकछेदनार्थनियोगक्रियायाम्।

पचम्पचा = स्त्री पचं पाचकं पचति पच–बा० खस् मुम्। दारुहरिद्रायाम् अमरः।

पचलवणा = स्त्री पच लवणमित्युच्यते यस्यां क्रियायाम् मयू० स०। लवणपाकार्थनिदेशक्रियायाम्।

पचा = स्त्री पच–भावे अ। १ पाके अमरः। अच्। २ पाककत्त्र्यां स्त्रियां स्त्री।

पचादि = पु० “नन्दिग्रहिपचादिम्यो ल्युणिन्यचः” पा० कर्त्तरि अच्प्रत्ययनिमित्ते धातुगणे स च गणः पा० ग० उक्तो यथा “पच वच वप वद चन पत नदट् भषट् प्लवट् चरट् गरट् चोरट् गाहट् सूरट् देवट् दोषट् रज मद क्षप सेव मेष कोष मेध नर्त्त व्रण दर्श दन्भ दर्प जार भर श्वप्रच”। आकृतिगणः।

पचि = पु० पच–इन्। १ अग्नौ उज्ज्वलदत्तः धातुनिर्देशे इक्। २ पचधातौ “द्व्यर्थः पचिरिति” महाभाष्यम्।

पचेलिम = त्रि० स्वयमेव पच्यते पच–कर्मकर्त्तरि केलिम। १ स्वयं पक्वे नैष० १। ९४ श्लो०। कर्त्तरि केलिम। २ अग्नौ ३ सूर्र्य्ये च पु० उणादिकोथः।

पचेलुक = त्रि० पच–बा० एलुक। सूदे पाककर्त्तरि त्रिका०।

पच्छस् = अव्य० पादं पादं शस् पद्भावः। पादं पादमिति वीप्सार्थक्रियाकर्मणि छा० उ ०५। २। २७। न्युङ्खशब्दे च उदा०।

पच्य = त्रि० पच–कर्मणि यत्। पाकार्हे अकृष्टपच्यः कृष्टपच्यः इत्यादि।

पज = आवरणे भ्वा० पर० सक० सेट् इदित्। पञ्जति अपञ्जीत् पपञ्ज।

पज्ज = पुंस्त्री पद्भ्यां जायते जन–ड। शूद्रे हेमच० तस्य “पद्भ्यां शूद्रो अजायत” यजु० ३१। १६ ब्रह्मणः प्रादात् जातत्वोक्तेस्तथात्वम् स्त्रियां जातित्वात् ङीष्।

पज्झटिका = स्त्री “प्रतिपद यमकितषोडशमात्रा नवमगुरुत्व विभूषितगात्रा। पज्झटिकाया एष बिवेकः क्वापि न मध्यगुरुर्गणएकः” वृ० र० उक्ते मात्रावृत्तभेदे।

पज्र = पु० पजि–वा० रक् पृषो० नलोपः। १ अङ्गिरसि मुनौ “पज्रा वाअङ्गिरसः” लाट्यायनः। २ पापेन जीर्णे ३ हविर्लक्षणान्नयुक्तेच त्रि०। ऋ० १। ४९०। ५ भा०। ४ प्रार्जिते प्रकर्षेण सम्पादिते च त्रि० ऋ० ६। ५९। ४। भा० “पज्रहोषः प्रार्जितघोषरूपःस्तोमः” इति स्थितम्। पज्रस्यायम् शैषिकः छन्। पज्रीय आङ्गिरसवंश्ये पु० स्त्री।

पञ्चक = त्रि० पञ्चभिः क्रीतः कन्। १ प्रञ्चभिः क्रीते। पञ्चैव स्वार्थेक। २ पञ्चसंख्यान्विते १ शकुनि पञ्चकाधिकृते शास्त्रे सि० कौ०। पञ्च अंशो भागो वेतनं मूल्यं वाऽस्य(सोऽंशवस्न भृतयः) पा० कन्। ३ पञ्चांशयुक्ते ४ पञ्चभृतियुक्ते ५ पञ्चमूल्यान्विते च त्रि०। पञ्चास्मिन् वृद्ध्यादिरूपेण दीयन्ते “तदस्मिन् वृद्ध्यायलाभशुल्कोपदा दीयते” पा० कन्। वृद्ध्यादित्वेन दीय मानपञ्चसंख्यायुक्ते ६ शतादौ। वृद्धिर्दीयत इत्यादिक्रमेण प्रत्येकं सम्बन्धादेकवचनम्। पञ्चास्मिन् वृद्धिः आयः लाभः शुल्कसुपदा वा दीयते। पञ्चकः शतिकः शत्थः साहस्रः। उत्तमर्णेन मूलातिरिक्तम् ग्राह्यं वृद्धिः। ग्रामादिषु स्वामिग्राह्यो भागः आयः विक्रेता मूल्यादधिकग्राह्योः लाभः। रक्षानिर्वेशो राजभागः शुल्कः” सि० कौ० “वर्णक्रमाच्छतं द्वित्रिचतुःपञ्चकमन्यथा” याज्ञ० “चतुर्थ्यर्थ उपसंख्यानम्” वार्त्ति० पञ्च वृद्ध्यादिना दीयन्तेऽस्मै। ७ वृद्ध्यादिना दीयमानपञ्चसंख्यान्वितद्रव्यसम्प्रदाने त्रि०। पञ्चमेन रूपेण ग्रहणम् “तावतिथं ग्रहणमिति लुग्वा” पा० कन्। पूरणार्थस्य वा लुक्। पञ्चमेन रूपेण कस्यचित् ८ ग्रहणे। “तावतिथेन गृह्णातीति कन् वक्तव्यः नित्यञ्च लुक्” वार्त्ति० उक्तः कन् पूरणार्थस्य वा लुक्। पञ्चमेन रूपेण ९ ग्राहके त्रि०। पञ्चानामवयवम् कन् अर्द्धचा० पु० न०। १० पञ्चसंख्यायाम् “एकं द्विकं त्रिकं चैव चतुष्कं पञ्चकं तथा” हरिका०। ११ धनिष्ठान्त्यार्द्धादिपञ्चतारके ज्योतिषम्। १२ रोगाग्निराजचौरमृत्युसंज्ञके वाणपञ्चके च “भौमाकरिक्तामाद्यूते चरोनेऽङ्गे विपञ्चके” मुहू० व्याख्याने पी० धारायां पक्षान्तरे विपञ्चक इत्यस्य बाणपञ्चकार्थकत्वस्योक्तेः बाणाश्च उपयमशब्दे १२६९ पृ० दर्शिताः। पञ्चभागेनानीतत्वा तेषां तथात्वम्। पञ्चके निषिद्धानि यथा वसिष्ठः “वस्वपरार्द्धात्पञ्चकधिष्णये कार्यं गेहस्य गोपनं नैव। दक्षिणादिङ्मुखगमनं दाहं प्रेतस्य काष्ठसंग्रहणमिर्तिनारदः “वस्वन्त्यार्द्धादिपञ्चर्क्षे संग्रहं तृणकाष्ठयोः। याम्यदिग्गमनं शय्या न कार्थं गृहगोपनम्” इति श्रीपतिरपि “वासवोत्तरदलादिपञ्चके याम्यदिग्गमनगेहगोपनम्। प्रेतदाहतृणकाष्ठसंग्रहं शय्यकाविततनं च वर्जयेत्” त्रिविक्रमोऽपि “शय्यावितानं प्रेतादिक्रियां काष्ठतृणार्जनम्। याम्यदिग्गमनं कुर्य्यान्न चन्द्रे कुम्भमीनगे” इति ननु प्रेतदाहे किं नक्षत्रान्तरे मृतस्य धनिष्ठोत्तरार्द्धादिके दाहो न कार्य इति उत पञ्चकएव मृतस्य पञ्चके दाहो न कार्य इति आहोस्विद्यस्मिन् कस्मिंश्चिन्नक्षत्रे पञ्चकातिरिक्ते पञ्चके बा मृतस्य पञ्चके दाहो न कार्य इति त्रयः पक्षाः सम्भवन्ति तत्र यदि विज्ञायते नक्षत्रान्तरे मृतस्य पञ्चके दाहो न कार्य इति तत्र पञ्चके मरणस्य दोषवत्ता न प्राप्नोति तच्चायुक्तं यस्पादुक्तं ब्रह्मपुराणे “कुम्भमीनस्थिते चन्द्रे मरणं यस्य जायते। न तस्योर्ध्वगतिर्दृष्टा सन्ततौ न शुभं भवेत्” इति। अथ विज्ञायते पञ्चकएव मृतस्य पञ्चके दाहो न कार्य इति तदपि न, श्रवणे, धनिष्ठापूर्वार्द्धे च मृतस्य षञ्चके दाहनिषेधो न प्राप्नोति किन्तुदाहः कर्तव्य इत्येव प्राप्नोति। अस्त्वेवमिति चेन्न प्राप्तस्य दाहं त्यजेदिति दाहस्यैव क्रियाकारकसम्बन्धेन प्राधान्यतो निषेधात्, किञ्च “त्रिगुणफलदोवृद्धौ नष्टे हृते च मृतेऽपि वेति” त्रिपुष्करयोगफलवत् पञ्चकमरणनिषेध एव वक्तव्ये दाहनिषेधस्य पृथगुपादानात् कर्त्तव्यतापत्तिः। तस्माद्यस्मिन् कस्मिंश्चिन्नक्षत्रे मृतस्य पञ्चके दाहो न कार्य इति तृतीयः पक्षः साधीयान्। प्राधान्याद्दाहस्यैव निषेध इत्युक्तं प्राक् अतः पञ्चकात् प्राक् मरणदोषो नास्ति तथा तत्रैव दाहोऽपि न दोषाय। यदि क्रियाकरणवशात् कालातिक्रमे सति पञ्चकप्रवृत्तिस्तदा शान्तिं विधाय दाहः कार्यः पञ्चके तु द्वयमपि निषिद्धं मरणं दाहश्चेति। उक्तं च ब्रह्मपुराणे “कुम्भमीनस्थिते चन्द्रे मरणं यस्य जायते। न तस्योर्ध्वगतिर्दृष्टा सन्ततौ न शुभं भवेत्। न तस्य दाहः कर्त्तष्यो विनाशः स्वेषु जन्तुषु। पञ्चकानन्तरं कार्यं कार्यं दाहादिकं खलु। अथ वा तद्दिने कार्य्यो दाहस्तु विधिपूर्वकम्”। रेवतीप्रान्ते मृतस्य रेवतीमपहाय दाहः कार्य इत्यर्थः धनिष्ठोत्तरार्द्धादिमृतस्य दाहस्तु सद्यएव पञ्चकस्य बहुकालव्यापित्वात्पर्युषितदाहनिषेधाच्च। स च दाहः शान्तिविधिपूर्वकः कार्यः। स च विधिरुक्तो ब्रह्मपुराणे “दाहदेशे शवं नीत्वा स्नापयेच्च प्रयत्नतः। दर्भाणां प्रतिमाः कार्याः पञ्चोर्णासूत्रवेष्टिताः। यवपिष्टेनानुलिप्तास्ताभिः सह शवं दहेत्। प्रेतवाहः प्रेतसखः प्रेतपः प्रेतभूमिपः। प्रेतहर्त्ता पञ्चमश्च नामान्येतानि च क्रमात्” इति। विशेषस्त्वन्त्येष्टिपद्धत्यादौ द्रष्टव्यः। नन्वत्र “त्रिगुणफलदो वृद्धौ नष्टे हृते च मृतेऽपि वेति” मरणनिपेधएव वक्तव्यो किं पुनर्दाहनिषेधेन। उच्यते दोषाधिक्यसूचनार्थं हि पुनर्दाहनिषेधः अतएव पञ्चके मृतस्य पुत्तलकविधानं कृत्वा दाहः कार्यः ततः सूतकान्ते पुत्रादिभिः शान्तिकं च विधेयम्। उक्तं च गरुडपुराणे “ततो दाहः प्रकर्त्तव्यस्तैश्च पुत्तलकैः सह। सूतकान्ते तदा पुत्रैः कार्यं शान्तिकपौष्टिकम्। पञ्चके तु मृतो योऽसौ न गतिं लभते नरः। तिलांश्चैव हिरण्यं च तमुदिश्य घृतं ददेत्” इति। अतो नक्षत्रान्तरे मृतस्य पञ्चके दाहप्राप्तौ पुतनकविधिरेव भवति ततः सूतकान्ते शान्तिकं च। एवं पञ्चकान्ते मृतस्याश्विन्यां दाहप्रापौ पुत्तलकविधिर्न किनु स्तूतकान्ते शान्विकमेव विधेयम्” पी० धा०।

पञ्चकपाल = त्रि० पञ्चसु कपालेषु संस्कृतः अण् तस्य लुक्। पञ्चकपालेषु संस्कृते पुरोडाशादौ समा० द्वि०। समाहृत पञ्चकपालेषु स्त्री ङीप्।

पञ्चकर्ण = त्रि० पञ्च कर्णा अस्य लक्षणत्वेऽपि बिष्टादित्वात् न पूर्वपददीर्घः। पञ्चकर्णलक्षणयुक्ते।

पञ्चकर्मन् = न० पञ्चानां कर्मर्णा समाहारः “अनो नलीप्रश्च वा द्विगुः स्त्रियाम्” वार्त्ति० पक्षे नलोपाभावः। पञ्चानां कर्मणां उत्क्षेपादीनां १ समाहारे। तानि च कर्माणि कर्मन्शब्दे १७३६ पृ० उक्तानि। २ वैद्यकोक्ते कर्मपञ्चक० भेदे “वमनं रेचनं नस्यं निरूहश्चानुवासनम्। पञ्चकर्मेदमन्यच्च ज्ञेयमुत्क्षेपणादिकम्”। पक्षे नलोपे ङीपि पञ्चकर्मीत्यप्यत्र स्त्री।

पञ्चकषाय = पु० न० पञ्चविधः कषायः “जम्बुशाल्मलिवाट्यालं वदरं बकुलं तथा। एतेपां वलकलरसः कषायः परिकीर्त्तितः इत्युक्ते पञ्चानां १ कषाये वल्कलरसे। कर्मधा० संज्ञात्वात् न द्विगुः। २ पञ्चसु कषायेषु ब० व०। “जम्बु शाल्मलि वाट्यालं बदरं वकुलं तथा। कपायाः पञ्च विज्ञेयाः देव्याः प्रीतिकराः शुभाः” दुर्गोत्सवत०।

पञ्चकाम = पु० व० ब०। कर्म० संज्ञात्वात् न द्विगुः। “पञ्चकामा इमे देवि! नामानि शृणु पार्वति। काममन्मथकन्दर्पमकरध्वजसंज्ञकाः। मीनकेतुर्महेशानि! पञ्चमः परिकीर्त्तितः” तन्त्रसा० उक्तेषु पञ्चसु कामभेदेषु।

पञ्चकृत्य = पु० पञ्चं विस्तृतं कृत्यं यत्र। पक्तगौडवृक्षे राजनि०

पञ्चकृष्ण = पु० पञ्चसु कृष्णः। कीटभेदे कीटशब्दे दृश्यम्।

पञ्चकोण = न० पञ्च कोणा यस्य। पञ्चकोणात्मके १ क्षेत्रभेदे २ तन्त्रोक्ते यन्त्रभेदे ३ लग्नावधिनवमपञ्चमात्मके स्थाने च

पञ्चकोल = न० “पञ्चकोलं कणामूलं कृष्णाचव्याग्निनागरैः” शब्दच० उक्ते पाचनविशेषे अस्य गुणाः “पञ्चकोलं रसे पाके कटुकं रुचिकृन्मतम्। तीक्ष्णोष्णं पाचनं श्रेष्ठं दीपनं कफवातनुत्। गुल्मप्लीहोदरानाहशूलघ्नं पित्तकोपनम्” भावप्र० उक्ताः। “पिप्पलीपिप्पलीमूलं चव्यचित्रक नागरम्। दीपनीयः शृतो वर्गः कफातिलगदापहः” चक्रदत्तोक्ते २ पाचनभेदे च।

पञ्चकोष = पु० संज्ञात्वात् कर्म०। वेदान्तिकसिद्धे अन्नमयादिषु पञ्चसु कोषवदाच्छादकेषु देहादिषु। तेषां स्वरूपादिकञ्च विवेकचूडामणौ दर्शितं यथा “कोषैरन्नमयाद्यैः पञ्चभिरात्मा न संवृतो भाति। निजशक्तिसमुत्पन्नैः शैवालपटलैरिवाम्बु वापीस्थम्” इत्युपक्तमे “देहोऽयमन्नभवनोऽन्नमयस्तु कोप- श्चान्नेन जीवति विनश्यति तद्विहीनः। त्वक्चर्मर्मांसरुधिरास्थिपुरीषराशिर्नायं स्वयं भवितुमर्हति नित्यशुद्धः”। “कर्मेन्द्रियैः पञ्चभिरञ्चितोऽयं प्राणो भवेत् प्राणमयस्तु कोषः”। “ज्ञानेन्द्रियाणि च मनश्च मनोमयः स्यात् कोषो ममाहमिति वस्तुविकल्पहेतुः। संज्ञादिभेदकलनाकलितो बलीयांस्तत्पूर्वकोषमभिपूर्य विजृम्भते यः। पञ्चेन्द्रियैः पञ्चभिरेव होतृभिः प्रचीयमानो विषयाज्यधारया। जाज्वल्यमानो बहुवासनेन्धनैर्मनोमयाग्निर्दहति प्रपञ्चम्”। “बुद्धिर्बुद्धीन्द्रियैः सार्द्धं सवृत्तिः कर्तृलक्षणः। विज्ञानमयकोषः स्यात् पुंसः संसारकारणम्। अनुव्रजच्चित्प्रतिवि म्बशक्तिर्विज्ञानसंज्ञः प्रकृतेर्विकारः। ज्ञानक्रियावानहमित्यजस्रं देहेन्द्रियादिष्वभिमन्यते भृशम्” आनन्दमयकोषस्तु आनन्दमयकोषशब्दे ७२६ पृ० उक्तः।

पञ्चक्रोशी = स्त्री पञ्चानां क्रोशानां समाहारः। काश्याः दीर्घविस्ताराभ्यां पञ्चसु क्रोशेषु “वाराणस्यां कृतं पापं प्रञ्चक्रोश्यां विनश्यति। पञ्चक्रोश्यां कृतं पापमन्तर्गेहे विनश्यति” काशीख०। तदभेदात् पञ्चक्लोशीदीर्घायामायां २ काश्याञ्च।

पञ्चक्षारगण = न० ६ त०। पञ्चानां क्षाराणां गणः उत्तर० द्विगुः। लवणपञ्चके “क्षारैस्तु पञ्चभिः प्रोक्तः पञ्चक्षाराभिधो गणः। काचसैन्धवसामुद्रविट सौर्वचलैः समैः। स्यात् पञ्चलबणं तच्च सर्ज्जोपेतं षडाह्वयम्” राजनि०।

पञ्चगङ्ग = अव्य० पञ्चानां गङ्गानां नदीनां समाहारः “नदीभिश्च” पा० अव्ययी० “समाहारे चायमिष्यते” सि० कौ०। समाहृतासु पञ्चसु नदीषु भा० द्री० ५४ अ० तत्र पञ्चगङ्गेषु इत्यत्र सप्तम्या वा न लुक्। २ काशीस्थे पञ्चनदतीर्थे पञ्चनदशब्दे दृश्यम्।

पञ्चगण = पु० पञ्चानां गणो यत्र। “विदारी गन्धा वृहती पृश्निपर्ण्णीर्निदिग्धिकाः राजनि० उक्ते विदार्य्यादीनां पञ्चानां गणे।

पञ्चगव = न० पञ्चानां गवां समाहारः टच्समा० क्लीवता च। पञ्चानां गवां समाहारे। पञ्च गावोधनमस्य उत्तरपदद्विगौ टच् समा०। पञ्चसंख्यान्वितगवधनस्वामिनि त्रि०।

पञ्चगव्य = न० गोर्विकारः यत् पञ्चगुणितं गव्यम्। गोमूत्रादि पञ्चके तस्य प्रमाणादि हेमा० ब्र० ख० उक्तं यथा स्कन्दपुराणे विष्णुना “तथा वह्नीन्द्रवाय्वर्कदैवतानि यथाक्रमम्। विद्ध्येतानि कुशोदञ्च पितृराजाधिदैवतम्। प्रोक्तामावे त्वथैतानि कपिलायाः प्रकल्पयेत्। गोमूत्रभागस्तस्यार्द्धं शकृत् क्षीरस्य च त्रयम्। द्वयं दध्नो घृतस्यैकमेकश्च कुशवारिजः। गायत्र्या चैव गोमूत्रं गन्धद्वारेति गोमयम्। आप्यायस्वेति च क्षीरं दधि क्राव्णेति वै दधि। तेजोऽमि शुक्रमित्याज्यं देवस्य त्वकुशोदकम्। एभिस्तु पञ्चभिर्युक्तं पञ्चगव्यं प्रचक्षते। एतदेव महापुण्यं ब्रह्मकूर्चमिति स्मृतम्”। व्यासेन “गोमूत्रं ताम्रवर्णायास्त्वेकमाषकसङ्ख्यया। पुण्यं वरुणदैवत्यङ्गायत्र्यर्चाभिमन्त्रितम्। गोमयं श्वेतवर्णायाश्चतुर्माषकमात्रया। गृह्णीयादग्निदैवत्यङ्गन्धद्वारेति वै शनैः। क्षीरं काञ्चनवर्णायाः सोमदैवत्यमेव च। आप्यायस्वेति मन्त्रेण माषद्वादशसम्प्रितम्। गृह्णीत वायुदैवत्यं कृष्णवर्णोद्भवं दधि। दशमाषमात्रकन्तु दधिक्रावण इति स्मरन्। घृतं तु नीलवर्णार्याः पञ्चमाषकसंख्यया। गृह्णीत सूर्यदैवत्यं तेजोऽसीति जपन् क्रमात्। शतत्रयं माषमानं चत्वारिंशच्च पञ्च च। कुशोदकस्य गृह्णीयाद्देवस्यत्वेति कीर्त्तयन्। ताम्रपात्रे पलाशे वा पात्रे मिश्रीकृतञ्च तत्। आपोहि ष्ठेति चाचोड्य प्रणवेन प्रिबेच्च तत्। उदङ्मुखस्त्रिराचम्प ततो गच्छेत् स्वकं गृहम्। तत्रापि होमे प्राग्वच्च कृत्वा दद्याच्च दक्षिणाम्। ब्राह्मणस्य यथा शक्त्या शीभनं तु मनोहरम्। गवां वर्णास्तु शुक्लाद्याः सन्ति देशेषु यत्र न! तत्र वर्णाविभागेन पञ्च गव्यानि चाहरेत्। वर्णालाभान्नदोषोऽस्ति मात्राहीनं विवर्जयेत्। त्याज्यानि दूषितानां च दधिमूत्रपयांसि च। चेलकेशास्थिभक्ष्याणामभक्ष्यैः सम्पृचां तथा। रोगार्त्तानां च यूकार्त्ति मृताण्डानाममङ्गलम्। (मृताण्डा मृतगर्भाः) निष्फलत्वेन वन्ध्यानां कृत्तानां कृमिभिस्तथा। अमानप्रतिदत्तानि सन्धिनीप्रभवानि च। शुद्धभाण्डे मनोज्ञे च मूमावपतितानि च। ग्रहीतव्यानि विबिधं खेदं तासां न कारयेत्”। ब्रह्मकूर्चव्रतमिदं सर्वपाप प्रणाशनम्। सर्वकामप्रदं पुंसां रूपारोग्ययशःप्रदम्। महतामपि पापानां नाशनं श्रीविवर्द्धनम्”।

पञ्चगव्यघृत = सुश्रुतोक्ते पक्वघृतभेदे “त्रिफलां चित्रकं मुस्तं हरिद्रे द्वे विषां वचाम्। विडङ्गं त्र्यूषं चव्यं च सुरदारु तथैव च। पञ्चगव्यमिदं पानाद्विषमज्वरनाशनम्। पञ्चगव्यमृते गर्भात् पाच्यमन्यद्वृषेण च। वतयाथ परं पाच्यं गुडुच्या तद्वदेव तु। जीर्णज्वरे च शोफे च पाण्डुरोगे च पूजितम्”।

पञ्चगु = त्रि० पञ्चभिर्गोभिः क्रीतः ठक् तस्य लुक् ह्रस्वः। पञ्चभिर्गोभिः क्रीते।

पञ्चगुण = पु० पञ्चगुणितो गुणः कर्म०। १ शब्दस्पर्शरूपरसगन्धरूपेषु गुणेषु। पञ्च गुणा यस्याः। २ पृथिव्यां स्त्री मेदि० “यो यो यावतिखस्तेषां स स तावद्गणः स स्मृतः” मनुना सामान्यत उक्तेः पृथिव्या पञ्चमत्वात् पञ्चगुणत्वम्। ३ त०। ३ पञ्चभिर्गुणिते ४ पञ्चपकारे च संस्का० रघु०।

पञ्चगुप्त = पुंस्त्री करचरणयोश्चतुष्कं शिरश्चेति पञ्च गुप्तान्यस्य। १ कच्छपे त्रिका० स्त्रियां ङीप्। २ चार्वाकदर्शने त्रिका०।

पञ्चगुप्तिरसा = स्त्री पञ्चधा गुप्तौ रसोऽस्याः। स्पृक्कायां राजनि०।

***