नैयग्रीध = न० न्यग्रोधरय विकारः प्लक्षा० चण् तस्य न लुक् पटान्मनात पूर्वमैत्। पटफलादौ अमरः। “नैवग्रीर्ध भवति स्वधामेवावरुन्धै” शत० ब्रा० १२७२११४

नैयङ्कव = त्रि० न्यङ्कोरिदम् अण् यात्पूर्वमैत्। न्यङ्कुमृगस्य चर्मादौ।

नैयमिक = त्रि० नियमादागतः ठक्। नियमविधिप्राप्ने कर्मणि ऋतुभार्य्यागमनादौ।

नैयाय = त्रि० न्यायस्य व्याख्यानो ग्रन्थः ऋगयनादि० अण्। न्यायव्याख्याने ग्रन्थे।

नैयायिक = त्रि० न्यायं वेत्त्यधीते उण्था० ठक्। न्यायज्ञे “नैया० यिकानान्तु नये द्व्यणुकादावपीष्यते” भाषा०।

नैयासिक = त्रि० न्यासं वेत्ति अधीते उक्था० ठक्। १ हरदत्तकृतपदमञ्जर्य्यपरनामकन्यासग्रन्थाभिज्ञे २ मातृकादिन्यासवेत्तरि च।

नैरन्तर्य्य = न० निरन्तरस्य भावः ष्यञ्। अविच्छेदे “स तु दीर्घकालनैरन्तर्य्यसत्कारासेवितो दृढभूमिः” पात० सू० “नैरन्तर्य्यात्तु संक्रान्तेर्ज्ञेयं विष्णुपदीद्वयम्” सू० सि०

नैरपेक्ष्य = न० निरपेक्षस्य भावः ष्यञ्। अपेक्षाशून्यत्वे “नैरप्रेक्ष्येऽपि प्रकृत्युपकारेऽविवेको निमित्तम्” सां० सू०

नैरयिका = त्रि० निरये वसति ठक्। नरकवासिनि “पञ्जेन्द्रिया एव देवा नरा नैरयिका अपि” हेमच०।

नैराश्य = न० निराशस्य निष्कामस्य मावः ष्यञ्। आशाशून्यत्वे “आशा हि परमं दुःखं नैराश्यं परमं सुखम्। यथा संत्यज्य कान्ताशां मुखं सुष्ठाप पिङ्गला” सां० प्र० भाष्यधृत वाक्यम् नैराश्यस्य सुखरूपत्वं तत्र समर्थितं यथा “निराशः सुखी पिङ्गलावत्” सां० सू० “नन्वाशानिवृत्त्या दुःखनिवृत्तिः स्यात् सुखं तु कुनः साधनाभावनादिति” उच्यते। चित्तस्य सत्वप्राधान्येन स्वाभाविकं यत् सुखमाशया पिहितं तिष्ठति तदेवाशाविगमे लब्धवृत्तिकं भवति तेजःप्रतिबद्धजलशैत्यवदिति न तत्र साधनापेखा” सां० प्र० भा०।

नैरुक्त = त्रि० निरुक्तस्य व्याख्यानो ग्रन्थः तत्र भवो वा ऋगयनादि० अण्। १ निरुक्तव्याख्याने ग्रन्थे तत्र २ भवे (आसक्ते) च “त्रैविद्योर्हैतुकस्तर्को नैरुक्तो धर्मपाठकः” मनुः।

नैरुक्तिक = त्रि० निरुक्तं निर्वचनं वेत्ति तद्ग्रन्थं वाऽधोते उक्था० टक्। १ निर्वचनाभिज्ञे २ निरुक्तग्रन्थाध्येतरि च।

नैरूहिक = पु० निरूहः प्रयोजनमस्य ठक्। सुश्रुतोक्ते वस्तिभेदे निरूहशब्दे ४०८८ पृ० दृश्यम्।

नैरृत = पुंस्त्री निरृतेरपत्यम् अण्। १ राक्षसे अमरः स्त्रियां ङीष्। “तस्यापि (अधर्मस्य) निरृतिर्भार्य्या नैरृता येन राक्षसाः” भा० आ० ६६ त०। निरृतिशब्दे इयं मृत्योर्भार्य्येत्युक्तं कल्पभेदादविरोधः। “भवनप्रस- योद्वेलादाचख्यर्नैरृतोदधे” रघुः। निरतेरिदम् अण् २ निरृतिसम्बन्धिनि स्त्रियां ङीप्। सा च ३ दक्षिणपश्चिमदिशि ४ राक्षसशक्तौ च “नैरृतीं दिशमाश्रयेत्” आ० त०। ५ मूलनक्षत्रे न० तस्य तद्देवताकत्वात् तथात्वम्।

नैरृतेया = पुंस्त्री० निरृत्याः अपत्यम् स्त्रीप्रत्ययान्तत्वात् ढक्। निरृत्या अपत्ये “नैरृतेया दुहितरस्तासां स प्रसवः स्मृतः” सुश्रु०।

नैरृत्य = त्रि० निरृतिर्देवताऽस्य आर्षे बा० यक्। निरृतिदेवताके पश्वादौ “गर्दभं पशुमालभ्य नैरृत्यं म विशुध्यति” याज्ञ०। लोकेतु अण्। नैरृत इत्येव

नैर्गुण्य = न० निर्गुणस्य भावः ष्यञ्। सत्वादिगुणसङ्गराहित्ये “नैर्गुण्यात् ब्रह्म चाप्नोति सगुणत्वान्निवर्त्तते” भा० शा० २०५ अ०।

नैर्मल्य = न० निर्मलस्य भावः ष्यञ्। निर्मलत्वे १ स्वच्छत्वे। “विषयेष्वतिसंरागो मानसो मल उच्यते। तेष्वेव हि विरागस्तु नैर्मल्यं समुदाहृतम्” इत्युक्ते २ विषयवैराग्ये च “शशाङ्कस्येव ते कोपं नैर्मल्यं प्रापयिष्यति” भा० द्रो० २०० अ० “वाक्यार्थः शब्दोच्चारणमात्रेण वेद्यः एष (व्यङ्ग्यार्थः) तु तथाविधप्रतिभानैर्मल्यादिनेति निमित्त भेदः” सा० द०।

नैलायनि = पुंस्त्री नीलस्यापत्यं तिका० फिञ्। नीलवानरस्यापत्ये

नैल्य = न० नीलस्य भावः ष्यञ्। नीलवर्णे निलकण्ठशब्दे उदा०।

नैवकि(ति) = पुंस्त्री निवक(त)स्यार्षेरपत्यम् इञ्। निवक(त)र्षेरपत्ये ततः यूनि फक् तस्य तौल्वल्या० न लुक्। नैवका(ता)यनि यूनि तदपत्ये

नैवाकव = त्रि० निवाकोरिदम् अण्। निवचनशीलसम्बन्धिनि तस्यादूरदेशादि० उत्करा० छ। नैवाकवीय तस्यादूरदेशादौ।

नैवातायन = त्रि० निवातस्यादूरदेशादि पक्षा० चतुरर्थ्यां फक्। वातशून्यदेशसमीपादौ।

नैवासिक = त्रि० निवासे साधु गुडा० ठञ्। निवाससाधौ

नैविड्य = न० निविडस्य भावः ष्यञ्। १ घनत्वे अविच्छेदेन संयोगे २ वंशीफुत्कारगुणभेदे च “नैविड्यं प्रौढता चापि सुस्वरत्वञ्च शीव्रता। माधुर्य्यमिति पञ्चामी फुत्कारेषु गुणाः स्मृताः” संगी०।

नैवेद्य = न० निवेदं निवेदनमहेति ष्यञ् नि + विद–णिच् कर्मणि यत् स्वार्थे अण् वा। “निवेदनीयं द्रब्यन्तु नैवेद्यमिति कथ्यते” इति स्मृत्युक्ते देवतोद्देशेन त्यक्तव्ये द्रव्ये तस्य व्युत्पत्तिर्यथा “चतुर्विधं कुलेशानि! द्रव्यं तु षड्रसान्वितम्। निवेदनात् भवेत् तृप्तिर्नैवेद्यं तदुदाहृतम्” कुलार्णवे १७ उल्लामे। तद्द्रव्याणि यथा “ससितेन सुशुद्धेन पायसेन ससर्पिषा। सितोदनं सकदलिकं दध्याद्यैश्च निवेदयेत्” इति प्रपञ्चसारः। “निवेदनीयं यद्द्रव्यं प्रशस्तं प्रयतं तथा। तद्भक्ष्यार्हं पञ्चविधं नैवेद्यमिति कथ्यते। भक्ष्यं भोज्यञ्च लेह्यञ्च पेयं चोष्यञ्च पञ्चमम्। सर्वत्र चैतन्नैवेद्यमाराध्यस्य निवेदयेत्”। तत्पात्रं यथा “तैजसेषु च पात्रेषु सौवर्णे राजते तथा। ताम्रे वा प्रस्तरे वापि पद्मपत्रेऽथ वा पुनः। यज्ञदारुमये वापि नैवेद्यं स्थापयेद्बुधः। सर्वाभावे च माहेये स्वहस्तघटितं यदि” इति तन्त्रसारः। तद्दानफलं यथा “नैवेद्येन भवेत् स्वर्गो नैवेद्येनामृतं भवेत्। धर्मार्थकाममोक्षाश्च नैवेद्येषु प्रतिष्ठिताः। सर्वयज्ञफलं नित्यं नैवेद्यं सर्वतुष्टिदम्। ज्ञानदं मानदं पुण्यं सर्वभोग्यमयं तथा। मनसापि महादेव्यै नैवेद्यं दातुमिच्छति। यो नरो भक्तियुक्तः सन् दीर्घायुः स सुखी भवेत्। महामायां कदा देवीमर्चयिष्यामि भक्तितः। नानाविधैस्तु नैवेद्यैरिति चिन्ताकुलस्तु यः। स सर्वकामान् संप्राप्य मम लोके महीयते” इति कालिकापु० १६९। ७० अ०। तत्कालो यथा “अर्वाक् विसर्जनाद्द्रव्यं नैवेद्यं सर्वसुच्यते। विसर्जिते जगन्नाथे निर्माल्यं भवति क्षणात्। पञ्चरात्रविदो मुख्या नैवेद्यं भुञ्जते सुखम्” गरुडपु०। तस्य स्थापनस्थानं यथा गौतमीये “वामतस्तु तथा धूपमग्रे वा न तु दक्षिणे। नैवेद्यं दक्षिणे भागे पुरतो वा न पृष्ठतः”। दक्षिणभागस्तु देवताया एव न तु साधकस्य। “पक्वञ्च देवतावामे आमान्नञ्चैव दक्षिणे” पुरश्चरणचन्द्रिका। “दक्षिणं तु परित्यज्य वामे चैव निधापयेत्। अभोज्यं तद्भयेदन्नं पानीयञ्च सुरोपमम्” इति तन्त्रसारः। तन्मुद्रा यथा “नैवेद्यमुद्रामङ्गुष्ठकनिष्ठाभ्यां प्रदर्शयेन्। कनिष्ठानामिकाङ्गुष्ठैर्मुद्रा प्राणस्य कीर्त्तिता। तर्जनीमध्यमाङ्गुष्ठैरपानस्य तु मुद्रिका। अनामामध्यमाङ्गुष्ठैरुदानस्य तु सा स्मृता। तर्जन्यऽनामामध्याभिः साङ्गुष्ठाभिश्चतुर्थिका। सर्वाभिः सा समानस्य प्राणादन्नेषु योजिता। तारपूर्वां जपेन्मुद्रां प्राणादीनां प्रदर्शयेत्” इति यामलः। ब्राह्मणाय तत्समर्पणं यथा “साक्षात् खादति नैवेद्यं विप्रसूपो जनार्दनः। ब्राह्मणे परितुष्टे च तन्मुष्टाः सर्वदेवताः। देवाय दत्त्वा नैवेद्यं द्विजाय न प्रयच्छति। भस्मीभूतञ्च नैवेद्यं पूजनं निष्फलं भवेत्। देवदत्तं नृ भोक्तव्यं नैवेद्यञ्च विना हरेः। प्रशस्तं सर्वदेवेषु विष्णोर्नैवेद्यभोजनम्”। शूद्रस्य तद्भक्षणविधिर्यथा “शूद्रश्चेद्धरिभक्तश्च नैवेद्यभोजनोत्सुकः। आमान्नं हरये दत्त्वा पाकं कृत्वा तु खादयेत्” श्रीकृष्णजन्मखण्डे ११ अ०। नारसिंहे “मोचकं पनसं जम्बु तथाऽन्यल्लवलीफलम्। प्राचीनामलकं श्रेष्ठं मधुकोडुम्बरन्तथा। यत्नपक्वमपि ग्राह्यं कदलीफलमुत्तमम्” मोचकं कदलकम्। प्राचीनामलकं करमर्दकम्। वराहपुराणे “अपर्युषितपक्वानि दार्तव्यानि प्रयत्नतः। खण्डाज्यादिकृत पक्वं नैव पर्युषितं भवेत्”। वामनपुराणम् “हबिषा संस्कृता ये च यव गोधूमशालयः। तिलमुद्गादयो माषा ब्रीहयश्च प्रियाः हरेः” विष्णुः “नाभक्ष्यं नैवेद्यार्थे भक्षेष्वजामहिषी क्षीरं वर्जयेत्। पञ्चनखश्च मत्स्यवराहमांसानि चेति”। अभक्ष्य मिति यद्वर्णस्य यदभक्ष्यं स्वरूपतोलशुनादि तत् तेन न देयम्। न तु रात्र्यादौ दध्यादि। पञ्चनखश्च शशातिरिक्तः। “मार्गं मांसं तथा छागं शाशं मांसन्तथैव च। एतानि हि प्रियाणि स्युः प्रयोज्यानि वसुन्धरे!” इति वराहपुराणे भगद्वाक्यात् तथा “माहिषञ्चाविकं मांसमयाज्ञिकमुदाहृदम्। माहिषं वर्जयेन्मांसं क्षीरं दधि घृतन्तथा” देवलः। “चाण्डालेन शुना वापि दृष्टं हविरयज्ञियम्। विडालादिभिरुच्छिष्टं दुष्टमन्नं विवर्जयेत्”। “अन्यत्र हिरण्योदकस्पर्शादिति”। श्रीभागवते “यदुयदिष्टतमं लोके यच्चापि प्रियमात्मनः। तत्तन्निवेद न्मह्यं तदानन्त्याय कल्प्यते” मह्यं वासुदेवाय आह्नि० त०। नैवेद्यञ्च पञ्चोपचारादिपूजाङ्गम्। तद्दाने च थण्टावादनं कर्त्तव्यम् “धूपे दीपे च नैवेद्ये स्नपने वसने तथा। घण्टानादं प्रकुर्वीत तथा नीराजनेऽपि च” विधा० पा० धृतवाक्यात्।

नैवेश = त्रि० निवेशेन निर्वृत्तम् सङ्कला० अण्। निवेशनिर्वृत्ते। निवेशो विवाहः।

नैवेशिक = त्रि० निवेशाय विवाहाय हितम् ठक्। विवाहार्थं दीयमाने द्रव्ये “नैवेशिकं स्वर्णधूर्य्यं दत्त्वा स्वर्गे महीयते” याज्ञ० “नैवेशिकं विवाहोचितं द्रव्यम्” शु० त० रघु०।

नैश = त्रि० निशाया इदम् शैषिकोऽण्। निशासम्बन्धिनि “पूर्वां सन्ध्यां जप~स्तिष्ठन् नैशमेनो व्यपोहति” मनुः। सलिलमये शशिनि रवेर्दीधितयस्तमोनैशम्। क्षप- यन्ति” वृ० सं० ४ अ० “जगति नैशमशीतकरः करैः” माघः

नैशिक = त्रि० निशाया भवः निशाया व्यापको वा “कालाट ठञ्” पा० ठञ्। १ निशाभवे २ रात्रिव्यापके स्त्रियां ङीप्। “नृणामकृतचूडानां विशुद्धिर्नैशिकी स्मृता” मनुः। “आदन्तजन्मनः सद्य आचूडान्नैशिकी स्मृता” याज्ञ०

नैश्श्रेयस = त्रि० निश्श्रेयसाय हितमण्। निःश्रेयससाधने “शुश्रूषैव तु शूद्रस्य धर्मो नैश्श्रेयसः परः” मनुः पक्षे विसर्गः नैःश्रेयस तत्रार्थे।

नैश्श्रेयसिक = त्रि० निश्श्रेयसं प्रयोजनमस्य ठक्। निश्श्रेयससाधने “सुखाभ्युदयिकञ्चैव नैश्श्रेयसिकमेव च” मनुः। पक्षे विसगः नैःश्रेयसिक तत्रार्थे।

नैषध = पु० निषधानां राजा अण्। १ निषधदेशनृपे “स नैषधस्यार्थपतेः सुतायाम्” रघुः। २ नलनृपे त्रिका० “न नैषधे कार्यमिदं निगाद्यम्” “देवः पतिर्विदुषि! नैषधराजगत्या” नैषध०। निषधोऽभिजनोऽस्य अण्। ३ पित्रादिक्रमेण निषधदेशवासिनि त्रि० बहूषु उभयत्र अणो लुक्। निषधाः तन्नृपा तद्देशवासिनश्च। नैषधं नलमधिकृत्य कृतो ग्रन्थः अण्। ४ नलनृपचरितरूपे द्वाविंशतिसर्गात्मके श्रीहर्षकविकृते महाकाव्यभेदे महाकाव्योदाहरणे “यथा रघुवंशशिशुपालबधनैषधादिः” सा० द०

नैषधीय = त्रि० नैषधस्येदम् “वृद्धाच्छः” पा० छ। नलसम्बन्धिनि। “काव्ये चारुणि नैषधीयचरिते सर्गोऽयमादिर्गतः” नैषधम्।

नैषध्य = पुंस्त्री निषधस्य लक्षणया तन्नृपस्याप्रत्यम् नादित्वात् ण्य। निषधनृपस्यापत्ये स्त्रियां टाप्।

नैषाद = पुंस्त्री निषादस्यापत्यम् विदा० अञ्। निषादस्यापत्ये ततः हरिता० यूनि फक्। नैषादायन यूनि तदपत्ये

नैषादक = त्रि० निषादेन कृतम् कुलाला० संज्ञायां वुञ्। निषादकृते पदार्थभेदे।

नैषादकि = पुंस्त्री निषादस्यापत्यं विदा० अञ्। “व्यासवकड निपादेत्यादि” वार्त्ति० अकङ्। निषादस्यापत्ये।

नैषादि = पुंस्त्री निषादस्यापत्यम् आर्षे इञ्। निषादापत्ये “न स तं प्रतिजग्राह नैषादिरिति चिन्तयन्” भा० आ० १३२ अ०। लोके तु विदा० अज्। नैषाद इत्येव।

नैषिध = पु० निषधः नलो वाचकतयाऽस्त्यस्य अण् पृषो०। तन्नामनामके नलरूपे दक्षिणाग्नौ “कव्यवालो नलश्चैवेति” नलस्याग्निनामत्वात् लक्षितलक्षणया तस्य तथात्वम् “तस्मित्वसन्तीन्द्रो यमो राजा नडो नैषिधोऽन श्नन्त्सांगमनोऽसन् पांसवः” शत० ब्रा० २। ३। २। १ “नलो नैषध इति निषधदेशाधिपतिर्नलः प्रसिद्धो राजा अन्वाहार्य्यपचनोऽग्निः एष एव नलो नैषिध इति निर्दिष्टः। निषधराजस्य च नलस्य दक्षिणाग्नेश्च साम्यमाह तद्यदिति अग्निहोत्रहोमकाले एतमन्वाहार्य्यपचनं यत् यस्माद्दक्षिणत आहरन्ति तस्मादेव नैषधो नलोऽपि यमस्य राज्ञा दक्षिणत उपगच्छतीति लोकप्रसिद्धिः” भा०। “तत्र निष्क्रमणं कुर्वन्नडाय नैषिधायान्वाहार्यपचनाय नम इति मनसा दक्षिणाग्निमुपस्मरेत्” कात्या० श्रौ० ४। १४ पद्धतिः।

नैष्कर्म्य = न० निष्कर्मणो भावः ष्यञ्। विधिना सर्वकर्म्मत्यागे “न कर्मणामनारम्भात् नैष्कर्म्यम् पुरुषोऽश्नुते” गोता। “अलभ्यमिच्छन्नैष्कर्म्यान्सूढबुद्धिरिहोव्यते” भा० शा० ३२ अ०।

नैष्कशतिक = त्रि० निष्कशतमस्त्यस्य “शतसहस्नान्ताच्च निष्कात्” पा० सत्वर्थे ठञ्। निष्कशतमानयुक्ते एवं नैष्कसहस्रिक तन्मानयुक्ते।

नैष्किक = पु० निष्के हेम्नि दीनारे तदगारे नियुक्तः ठक्। १ कोषाध्यक्षे टङ्कशालायां नियुक्ते अमरः। निष्केण क्रीतम् “असमासे निष्कादिभ्यः” पा० ठञ्। २ निष्केण क्रोते समासे तु ठक्। परमनैष्किक स्वरे भेदः। निष्कस्य विकारः “क्रीतवत् परिमाणात्” पा० ठञ्। ३ निष्क विकारे।

नैष्क्रमण = त्रि० निष्क्रमणे शिशोर्गृहाद्बहिर्गमनकाले दीयते तत्र कार्य्यं वा व्युष्ठा० अञ्। शिशोर्निष्क्रमणकाले १ दीयमाने २ तत्र कार्य्ये पदार्थे च

नैष्ठिक = त्रि० निष्ठा नाशपर्य्यन्तं ब्रह्मचर्य्येण तिष्ठति निष्ठायां मरणे वा विहितम् निष्ठायां भवः (आसक्तः) वा ठक्। उपनयनोत्तरं मरणपर्य्यन्तं ब्रह्मचर्य्येण गुरुकुले वासिनि १ ब्रह्मचारिभेदे २ मरणकाले विहिते कर्मणि ३ व्रतविशेषासक्ते च “नैष्ठिको ब्रह्मचारी तु वसेदाऽऽचार्य्यसन्निधौ। तदभावेऽस्य तनये पत्न्यां वैश्वानरेऽपि वा। अनेन विधिना देहं साधयन् विजितेन्द्रियः। ब्रह्मलोकमवाप्नोति नचेह जायते पुनः” याज्ञ० “निवेदितो नैष्ठिकसुन्दरस्तया” कुमा० “विदधे विधिमस्य नैष्ठिकम्” रघुः स्त्रियां ङीप्। “इमाववस्थां पश्यन्त्यः पश्चिमां तव नैष्ठिकीम्” हरिव० ८८ अ०।

नैष्ष्णिह्य = न० निस्स्नेहस्य भावः ष्यञ आर्षे प्रत्वम्। रागा० भावे “यः कामयेत नैष्ष्णिह्यं पाप्सन इयामिति स ऋतपेयेन यजेत” आश्व० श्रौ० ९। ७। ३५। निस्स्नेहस्य भावो नैष्ष्णिह्यम्। पाप्मनो नैष्ष्णिह्यं गच्छेयमिति यः काम येत स ऋतपेयनामकेन एकाहेन यजेत नारा०। लोके तु नैस्स्निह्य इत्येव। पक्षे विसर्गः नैःस्निह्य तत्रार्थे

नैसर्गिक = त्रि० निसर्गादागतः ठक्। स्वाभाविके “अज्ञाननिमित्तः सत्यानृते मिथुनीकृत्य अहमिदं ममेदमिति नैसर्गिकोऽयं लोकव्यवहारः” शा० भा०। तदेव नैसर्गिक मुन्नतत्वम् “नैसर्गिकोऽप्युत्ससृजे विरोधः” रघुः स्त्रियां ङीप्। “पृच्छामस्त्वामियं भक्तिः क्व लब्धा परमात्मनः। कस्य वा शिक्षिता राजन्! किं वा नैसर्गिकी तव” कल्किपु० २६ अ०।

नैस्त्रिंशिक = पु० निस्त्रिंशः खड्गः प्रहरणमस्य ठक्। खड्गेन योद्धरि अमरः।

नो = अव्य० नह–डो। नञर्थे अभावादौ। “गोप्याधिभोगे नो वृद्धिः सोपकारेऽथ हापिते”। “वैश्यवृत्त्या तु जीवन्नो विक्रीणीत कदाचन” याज्ञ०।

नोचेत् = अव्य० नो च चेत् च। नयदीत्यर्थे

नोट = त्रि० नट–अच् पृषो०। नटे ततः गौरा० स्त्रियां ङीष्। नोटी नट्याम्।

नोत् = अव्य० न च उच्च। नैवेत्यर्थे अत्रिमात्रमबर्धन्त नोदिव दिवमस्पृशन्” अथ० ५। १९। १ “प्रजाऽनाशकेन नोत्परा बभूवुः” शत० ब्रा० २। ४। ३। २

नोदन = न० नुद–भावे ल्युट्। १ खण्डने णिच्–भावे ल्युट्। २ प्रेरणे ३ संयोगभेदे च “अभिघातो नोदनञ्च शब्दहेतुरिहादिमः” भाषा० युच्। नोदना प्रेरणायां विधिरूपायां चोदनायां स्त्री।

नोधस् = पु० नु–असि धुट् च। ऋषिभेदे। तेन दृष्टं साम अण्। नौधस सामभेदे न० तच्च माध्यन्दिनसवनेगेयेषु सप्तसु सूक्तेषु षष्ठम् साम यथोक्तं सामसंहितासायणभाष्ये “एवमन्यस्मिन् सवने सप्त सूक्तानि तेषु गायत्रमाहीयवं चेति द्वे सामनी, द्वितीये रौरवं यौधाजयं च तृतीये औशनम्, चतुर्थे रथन्तरम्, पञ्चमे वामदेव्यम्, षष्ठे नौधसम्, सप्तमे कालेयम्”।

नोधा = अव्य० नव–धाच्–पृषो०। नवप्रकारे नवधेत्यर्थे “नोधा विधाय रूपं स्वं सर्वसंकल्पविद् विभुः” भाग० ३। २३। ४५।

नोपस्थातृ = त्रि० न उपतिष्ठति उप + स्था–तृच्। १ दूरस्थे “अन्यवादो क्रियाद्वेषी नोपस्थाता निरुत्तरः” इति स्मृत्युक्ते हीने २ प्रतिवादिनि च।

नौ = स्त्री नुद–डौ। जलोपरिप्लवनसाधने १ तरणौ “नोदके शकटं याति न च नौर्गच्छति स्थले” हितो० “स्यन्दनाश्वैः तमे युध्येदनूपे नौद्विपैस्तथा” मनुः “विप्रक्षत्रविशस्तरन्ति च यया नावा तयैवेतरे” मृच्छ० २ यन्त्रचालनीये नैभेदे च “ततः प्रवासितो विद्वान् विदूरेण नरस्तदा। पार्थानां दर्शयामास मनोमारुतगामिनीम्। सर्ववातसहां नावं यन्त्रयुक्तां पताकिनीम्। शिवे भागीरथीतीरे नरैर्विस्रम्भिभिः कृताम्” भा० आ० १४९ अ०। ततः तार्य्ये यत्। नाव्य नावा तार्य्ये व्रीह्यादि यवखादि० इक। नाविक नौविशिष्टे त्रि०। नावा तरति “नौद्व्यचष्ठन्” ठन्। नाविक नावा तारिणि त्रि० ‘नावोद्विगाः’ पा०। नौशब्दान्तात् द्विगोष्टच् नतु तद्धितलुकि। द्वाभ्यां नौभ्यामागतः द्विनावरूप्यः “द्विगोर्लुगनपत्ये” पा० अचीत्यस्यापकर्षणात् अत्र हलादेर्न लुक्। पञ्चनावप्रियः उत्तरपदद्विगुः द्विनावं त्रिनावम् समा० द्वि०। अतद्धितनुकीति किं? पञ्चभिर्नौभिः क्रीतः आर्हीयष्ठक् अध्यर्द्धपूर्वेत्यादिना तस्य लुकि न, द्विनौः इत्येव। अर्द्धं नावः एकदेशितत्पु० टच्। अर्द्धनावम् क्लीवत्वं कोषात्।

नौकर्णधार = पु० नावः कर्णं धारयति धारि–अण् उप० स०। नाविके नावः कर्णतुल्यस्य (हाल) पदार्थस्य धारके “सुरभिमधुकुसुमानि गन्धा बणिजो नौकर्णधाराश्च” वृ० सं० ५ अ०।

नौकर्णी = स्त्री नौरिव कर्णौ यस्याः ङीष्। कुमारानुचरमातृभेदे “नौकर्णी शिवकर्णी च वसुधा महिमा तथा” भा० ग० ४७ च०।

नौकर्म्मन् = न० नावि कर्म चालनादिव्यापारः नौकायां चालनादिव्यापारे “निषादोभार्गवं सूते दाशं नौकर्मजीविनम्” मनुः।

नौका = स्त्री नौ + स्वार्थे० क। नौशब्दार्थे अमरः निष्पदशब्दे ४१२० पृ० तल्लक्षणादि दृश्यम्। “क्षणमिह सज्जनसङ्गतिरेका भवति भवार्णवतरणे नौका” मोहमुद्गरः चतुरङ्ग क्रीडाङ्गे पदार्थभेदे स्त्री तस्यास्तदाकारत्वात् तथात्वम्। चतुरङ्गशब्दे २८६३ पृ० दृश्यम्।

नौकाकृष्ट = न० चतुरङ्गक्रीडाभेदे चतुरङ्गशब्दे २८६४ पृ० दृश्यम् “काककाष्ठं वृहन्नौका नौकाकृष्टपकारकम्”।

नौकादण्ड = पु० ६ त०। नौकायां चालनार्थं पार्श्वद्वयबद्धे काष्ठदण्डे (दा~ड) अमरः।

नौचर = त्रि० नावा चरति चर–ट। नावा चरणशीले “यादोनाथः शिवजलपथः कर्मणे नौचराणाम्” रघुः।

नौजीविक = त्रि० नावा जीविका यस्य। नौचालनादिजीविकायुक्ते “पण्यभिषग्नौजीविकसलिलजतुरगोपघातकरः” वृ० सं० ७ अ०।

नौतार्य्य = त्रि० नावा तार्य्यम्। नौकया तरणीयदेशादौ।

नौयायिन् = त्रि० नावा याति या–णिनि। नौकया नद्यादेः पारगामिनि तेषां नदीतरणे पणादिनिरूपणम् मनुनोक्तं यथा “पणं यानं तरे दाप्यमित्यादितरशब्दे ३२ ४१ पृ० दृश्यम् “तत्र भाण्डपूर्णानि यानानि तार्यं दाप्यानि सारतः। रिक्तभाण्डानि यत्किञ्चित् पुमांसश्चापरिच्छदाः। दीर्घो ध्वनि यथादेशं यथाकालं तरोभवेत्। नदीतारेषु तद्विद्यात् समुद्रे नास्ति लक्षणम्। गर्भिणी तु द्विमासादिस्तथा प्रवजितो मुनिः। ब्राह्मणा लिङ्गिनश्चैव न दाप्यास्तारिकं तरे। यन्नावि किञ्चिद्दाशानां विशीर्य्येतापरधतः। तद्दाशैरेव दातव्यं समागम्य स्वतोऽंशतः। एष नौयायिनामुक्तो व्यवहारस्य निर्णयः। दाशापराधस्तोये च दैविके नास्ति निग्रहः”।

नौवाह = त्रि० नावं वाहयति वाहि–अण् उप० स०। नौकावाहके (दा~डी) प्रसिद्धे नौकाचालके त्रिका०।

नौषेचन = न० ६ त० सुषामा० षत्वम्। नौकायाः सेचने

न्यका = स्त्री नि + अकि–क बा० नलोपः। विट्कीटे शब्दाम्बु०

न्यकारुका = स्त्री विट् कीटे कृमिभेदे हारा०।

न्यक्कार = पु० न्यक् + कृ–घञ्। १ नीचकरणे च २ तिरस्कारे च “न्यक्कारो ह्ययमेव मे यदरयः” सा० द० “न्यक्कारमासन्नतरं निशम्य” हरिवं १७८ अ०। क्तिन् न्यक्कृतिरप्यत्रार्थे स्त्री

न्यक्त = त्रि० नि + अन्ज–क्त कुत्वम्। नितान्ताञ्जनयुक्तीकृते “अग्निन्यक्ताः पत्नीसंयाजानामृचः स्युः” तै० त्ति० ब्रा० १। ३। १। ४।

न्यक्ष = पुं स्त्री नियते निकृते वा अक्षिणी यस्य षसमा०। १ महिषे मेदि० स्त्रियां ङीष्। २ जामदग्नग्न्ये परशुरामे हेमच०। ३२ कार्त्स्न्ये ४ महिषतृणे न० ५ निकृष्टे अधमे त्रि० अमरः

न्यग्भाव = पु० नीचो भावः। नीचत्वे।

न्यग्रोध = पु० न्यक् रुणद्धि रुध–अच्। १ वटवृक्षे अमरः २ शमीवृक्षे बाहुद्वयविस्तारकृतव्यामरूपपरिमाणे(वा~ओ) ३ बाहो च न्यग्रोधपरिमण्डलशब्दे दृश्यम्। सर्वाणि न्यक्कृत्य स्थिते ४ विष्णौ “न्यग्रोधोदुम्बरोऽश्वत्थ” विष्णुसं०। “सर्वाणि भूतानि न्यक्कृत्य निजमायया रुणद्धि इति न्यग्रोधः” भा० ५ विषपर्ण्यां स्त्री ङीप्। मेदि० एवं ६ मोहनौषधौ च ७ मूषिकपरर्यां विश्वः उग्रसेन नृपस्य ८ पुत्रभेदे पु० “नवोग्रसेनस्य सुतास्तेषां कंसस्तु पूर्वजः। न्यग्रोधश्च सुनामा च” हरिवं० ३८ अ०। तस्यादूरदेशादि ऋश्या० क। न्यग्रोधक तत्सन्निकृष्टदेशादो कुमुदा० ठन्। न्यग्रोधिक तत्सन्निकृष्टदेशादौ त्रि० तत्रार्थे प्रेक्षादि० इनि। न्यग्रोधिन् तत्रार्थे त्रि०।

न्यग्रोधपरिमण्डल = पु० न्यग्रोधःव्यामः परिमण्डलं परिणाहो यस्य। १ व्यामपरिमितोच्छ्रायपरिणाहे पुरुषे। तल्लक्षण यथा “महाधनुर्द्धराश्चैव त्रेतायां चक्रवर्त्तिनः। सर्वलक्षणसम्पन्नान्यग्रोधपरिमण्डलाः। न्यग्रोधौ तु स्मृतौ वाहु व्यामी न्यग्रोध उच्यते। व्यामेन उच्छ्रयो यस्य अध ऊर्द्ध्वञ्च देहिनः। समोच्छ्रयपरिणाहो न्यग्रोधपरिमण्डलः” मत्स्यपु० ११८ अ०। २ अङ्गनाविशेषे स्त्री “स्तनौ सुकठिनौ यस्या नितम्बे च विशालता। मध्ये क्षीणा भवेद्या सा न्यग्रोधपरिमण्डला” इति शब्दमा० दूर्वाकाण्डमिव श्यामा न्यग्रोधपरिमण्डला” भट्टिः।

न्यङ्कु = पु० नितरामञ्चति नि + अन्च–उ न्यङ्क्वा० कुत्वम्। १ मुनिभेदे मेदिनिः। २ बहुश्यङ्गे मृगभेदे अमरः। ३ नितरां गन्तरि त्रि० “सद्योहतन्यङ्कुभिरस्रदिग्धम्” रघुः “न्यङ्कुः स्वादुर्लघुर्बल्यो वृष्यो दोषत्रयापहः” भावप्र०। न्यङ्कोविंकारः अण्। नैयङ्गव तदीयचर्मादौ

न्यङ्कुभूरुह = पु० न्यङ्कुरिव भूरुहः। श्योनाकवृक्षे शब्दार्थचि० तस्य बहुशृङ्गाकारशाखत्वात्तथात्वम्।

न्यङ्क्वादि = कुत्वनिमित्ते शब्दगणभेदे सच पा० ग० सू० उक्तो यथा “न्यङ्कु मद्गु भृगु दूरेपाक फलेपाक क्षणेपाक दूरेपाका फलेपाका दूरेपाकु फलेपाकु तक्र वक्र व्यतिषङ्ग अनुषङ्ग अवसर्ग उपसर्ग श्वपाक मांसपाक मूलपाक कपोतपाक उलूकपाक (संज्ञायां मेघनिदाघावदाघार्षाः)। न्यग्रोध वीरुत् न्यङ्क्वादिः।

न्यङ्ग = पु० नि + अन्ज–घञ्। नितरामञ्जने “सोमस्य न्यङ्गो यदरुणपुष्पाणि फाल्गुनानि” शत० ब्रा० ४। ५। १०

न्यच्छ = न० १ सुश्रुतोक्ते क्षुद्ररोगभेदे “मण्डलं महदल्पञ्च श्यामं वा यदि वा सितम्। सहजं नीरुजं गात्रे न्यच्छमित्यधिभीयते” तल्लक्षणम् २ नितरामच्छे त्रि०।

न्यञ्च् = त्रि० निम्नतयाऽञ्चति अन्च–विच्। निम्ने क्विन् न्यच् तत्रार्थे त्रि०। शसादौ भत्वे च नीचः नीचा अन्यत्र कुत्वम्। न्थक् न्यग्भ्याम्।

न्यञ्चन = न० नितरामञ्चनं गमनम्। १ नितरां गमने न्यञ्चने दुर्गेचिदाशु शरणम्” ऋ० ८। २७। १८। २ न्यग्भावे च।

न्यञ्चित = त्रि० नि + अन्च–णिच्–क्त। अधःक्षिप्ते हेमच०।

न्यन्त = पु० नितरामन्तः। चरमभागे।

न्यय = पु० नि + इण्–भावे अच्। १ नाशे २ अपचये च।

न्यर्थ = पु० नि + ऋ–गतौ थन्। निकृष्टायां गतौ “न भोजा मम्रुर्न न्यर्थमीयुः” ऋ० १०। १०७। ८ “न्यर्थं निकृष्टां गतिम्” भा० समासे थाथादिस्वरः। निकृष्टोऽर्थो यस्य। २ निकृष्टार्थे त्रि०।

न्यर्बुद = न० १ दशगुणितार्बुदसंख्यायां २ तत्सङ्ख्येगे च “प्रयुतञ्चार्बुदञ्च न्यर्बुदञ्च समुद्रश्च” यजु० १७। २ “अर्बुदं दशगुणं न्यर्वुदम्” वेददीपः।

न्यर्बुदि = पु० निकृष्टः अर्बुदिर्देवो देवान्तरं यतः। रुद्रभेदे “अर्बुदिर्नाम यो देव ईशानश्च न्यर्बुदिः” अथ० ११। ९। ४

न्यस्त = त्रि० नि + अस–कर्मणि क्त। १ क्षिप्ते २ त्यक्ते ३ विसृष्टे ४ निहिते च अमरः “न्यस्तशस्त्रं टिलीपञ्च तञ्च शुश्रुवुषां प्रभुम्” रघुः।

न्यस्तशस्त्र = पु० न्यस्तं शस्त्रं शस्त्रसाध्यं युद्धं येन। “न्यस्तशस्त्रा महाभागाः पितरः पूर्वदेवताः” मनूक्ते १ पितृलोके २ त्यक्तायुधे च “न्यस्तशस्त्रं दिलीपञ्च” रघुः।

न्यस्य = त्रि० नि–असु–क्षेपे कर्मणि बा० आर्षे यत्। स्थापनीये त्यक्तव्ये “अर्जुनार्जुन! बीभ्रत्सो! न न्यस्यं गाण्डिवं त्वया” भा० द्रो० २०० अ०। लोके तु ण्यत्। नास्य इत्येव

न्याक्य = न० नि + अकि–ण्यत् बा० नलोपः। भृष्टतण्डुले(सुडि) (भाजाचाल) शब्दच०।

न्याद = पु० नि + अद–णः न थसादेशः। आहारे अमरः।

न्याय = पु० नि + इण्–भावकरणादौ घञ्। १ उचिते २ गोतपणीतपोडशपदार्थनिरूपके शास्त्रभेदे प्रतिज्ञाहेतूदाहरणोपनयननिगमनात्मके ३ वाक्यमेदे “अनुमितिचरमकारण लिङ्गपरामर्शप्रयोजकशब्दज्ञानजनकवाक्यत्वम्” तल्लक्षणमिति चिन्तामणिः। “उचितानुपूर्वीकप्रतिज्ञादिपञ्चकससुदायत्वमिति” शिरोमणिः। अवयवशब्दे ४३२ पृ० दृश्यम्। यथा पर्बतो वह्निमान् (प्रतिज्ञा) पूमात् (हेतुः) यो यो धूमवान् स वह्निमान् यथा महानसम् (उदा०) वह्निव्याप्यधूमवांश्चायम्। (उपनयनम्) तस्माद्वह्निमान् (निगमनम्) एतद्दर्शनमतञ्च सर्वदर्शनसंग्रहे दर्शितं यथा

“तत्त्वज्ञानाद्दुःखात्यन्तोच्छेदलक्षणं निश्रेयमम्भवतोति समानतन्त्रेऽपि प्रतिपादित्नं तदाह सूत्रकारः प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयबादजल्पवितण्डाहेत्वासच्छलजातिनिग्रहस्थानां तत्त्व० ज्ञानान्निश्रेयसाधिगमः” इति। इदं न्यायशास्त्रस्यादिमं सूत्रम्। न्यायशास्त्रञ्च पञ्चाध्यायात्मकं तत्र प्रत्यध्यायस्याह्निकद्वयम्। तत्र प्रथमाध्यायस्य प्रथमाह्निके भगवता गोतमेन प्रमाणादिपदार्थनवकलक्षणनिरूपणं विधाय द्वितीये वादादिसप्तपदार्थलक्षणनिरूणं कृतम्। द्वितीयस्य प्रथमे संशयपरीक्षणं प्रमाणचतुष्टयाप्रामाण्यशङ्कानिराकरणञ्च। द्वितीये अर्थापत्त्यादेरन्तर्भावनिरूपणम्। तृतीयस्य प्रथमे शरीरेन्द्रियार्थपरीक्षणं द्वितीये बुद्धिमनःपरीक्षणम्। चतुर्थस्य प्रथमे प्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गपरीक्षणं द्वितीये दोषनिमित्तकत्वनिरूपणम् अवयव्यादिनिरूपणञ्च। पञ्चमस्य प्रथमे जातिभेदनिरूपणं द्वितीये निग्रहस्थान भेदनिरूपणम्। “मानाधीना मेयसिद्धिरिति” न्यायेन प्रमाणस्य प्रथममुद्देशः तदनुसारेण लक्षणस्य कथनीयतया प्रथमोद्दिष्टस्य प्रमाणस्य प्रथमं लक्षणं कथ्यते। साधनाश्रयाव्यतिरिक्तत्वे सति प्रमाव्याप्तं प्रमाणम् १। एवञ्च प्रतितन्त्रसिद्धान्तसिद्धं परमेश्वरप्रामाण्यं संगृहीतं भवति यदचकथत् सूत्रकारः “मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यादिति”। तथाच न्यायपारावारं दृष्ट्वा विश्वविख्यातकीर्त्तिरुदयनाचार्य्योऽपि कुसुमाञ्जलौ चतुर्थे स्तबके “मितिः सम्यकपरिच्छित्तिस्तद्वत्ता च प्रमातृता। तदयोगव्यवच्छेदः प्रामाण्यं गौतमे मते” इति। “साक्षात्कारिणि नित्ययोगिनि परद्वारानपेक्षस्थितौ भूतार्थानुभवे निविष्टनिखिलप्रस्ताविवस्तुक्रमः। लेशादृष्टिनिमित्तदुष्टिविगमप्रभ्रष्टशङ्कातुषः शङ्कोन्मेषकलङ्किभिः किमपरैस्तन्मे प्रमाणं शिवः” इति। तच्चतुर्विधं प्रत्यक्षानुमानोपमानशब्दभेदात्। २ प्रमेयं द्वादशप्रकारकम् आत्मशरीरेन्द्रियार्थवुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गभेदात्। अनवधारणात्मकं ज्ञानं ३ संशयः स त्रिविधः साधारणधर्मासाधारणधर्मविप्रतिपत्तिलक्षणभेदात्। यमधिकृत्य प्रवर्त्तन्ते पुरुषास्तत्प्रयोजनं ४ तद्द्विविधं दृष्टादृष्टभेदात्। व्याप्तिसंवेदनभूमिर्दृष्टान्तः ५ स द्विविधः साधर्म्यवैधर्म्यभेदात्। प्रामाणिकत्वेनाम्युपगतोऽर्थः सिद्धान्तः ६ स चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्यु पगमभेदात्। परार्थानुमानवाक्यैकदेशोऽवयवः ७ स पञ्चविधः प्रतिज्ञाहेतूदाहरणोपनयननिगभनभेदात्। व्याप्यारोपे व्यापकारोपस्तर्कः ८ स चैकादशविधः व्याधातात्माश्रयेतरेतराश्नयचक्रकाश्रयानवस्थाप्रतिबन्दि- कल्पनालाघवकल्पनागौरवोत्सर्गापवादबैजात्यभेदात्। मथार्थानुभवपर्य्याया प्रमितिर्निर्णयः ९ सा चतुर्विधा साक्षात्कृत्यनुमित्युपमितिशाब्दीभेदात्। तत्त्वनिर्णयफलः कथाविशेषो वादः १०। उभयसाघनवती विजिगीषुकथा जल्पः ११। स्वपक्षस्थापनाहीनः कथाविशेषो वितण्डा १२। कथा नाम वादिप्रतिवादिनोः पक्षप्रतिपक्षपरिग्रहः। असाधको हेतुत्वेनाभिमतो हेत्वाभासः १३ सच पञ्चविधः सव्यमिचारविरुद्धप्रकरणसमसाध्यसमातीतकालभेदात्। शब्दवृत्तिव्यत्ययेन प्रतिषेधहेतुश्छलं १४ तत्त्रिविधं अभिधानतात्पर्य्योपचारव्यत्ययवृत्तिभेदात्। स्वव्याघातकमुत्तरं जातिः १५। सा चतुर्विंशतिविधा साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुपपत्तिसम्शयप्रकरणाहेत्वर्थापत्तिविशेषापत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकार्यसमभेदात्। पराजयनिमित्तं निग्रहस्थानं १६ तद्द्वाविंशतिप्रकारं प्रतिज्ञाहानिप्रतिज्ञान्तरप्रतिज्ञाविरोधप्रतिज्ञासन्यासहेत्वन्तरार्थान्तरनिरर्थकाविज्ञातार्थापार्थकाष्राप्तकालन्यूनाधिकपुनरुक्ताननुभाषणा ज्ञानाप्रतिभाविक्षेपमतानुज्ञापर्य्यनुयोज्योपेक्षणनिरनुयोज्यानुयोगापसिद्धान्तहेत्वाभासभेदात्। अत्र सर्वान्तर्गणिकस्तु विशेषस्तत्र शास्त्रे विस्पष्टो विस्तरभिया न प्रस्तूयते। ननु प्रमाणादिपदार्थषोडशके प्रतिपाद्यमाने कथमिदं न्यायशास्त्रमिति व्यवदिश्यते सत्यं तथापि “असाधाण्येन व्यपदेशा भवन्तीति” न्यायेन न्यायस्य परार्थानुमानापरपर्य्यायस्य सकलविद्यानुग्राहकतया सर्वकर्मानुष्ठानसाधनतया प्रधानत्वेन तथा व्यपदेशो युज्यते। तथाऽभाणि सर्वज्ञेन, “सोऽयं परमो न्यायः विप्रतिपन्नपुरुषप्रतिपादकत्वात् तथा प्रवृत्तिहेतुत्वाच्चेति”। पक्षिलस्वामिना च “सेयमान्वीक्षिकी विद्या प्रमाणाद्रिभिः पदार्थैः प्रविभज्यमाना “प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम्। आश्रयः सर्वधर्माणां विद्योद्देशे परीक्षितेति”। ननु तत्त्वज्ञानान्निःश्रेयसम्भवतीत्युक्तं तत्र किं? तत्त्वज्ञानादनन्तरमेव निःश्रेयसं सम्पद्यते नेत्युच्यते किन्तु तत्त्वज्ञानाददुःखजन्मप्रवृत्तिदोषमिय्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभाव इति। तत्र मिय्याज्ञानं नामानात्मनि देहादावात्मबुद्धिः तदनुकूलेषु रागः तत्प्रतिकूलेषु द्वेषः वस्तुतस्त्वात्मनः प्रतिकूलमनुकूलं वा न किञ्चित् समस्ति परस्परानुबन्धाच्च रागादीनां, मूढो रज्यति रक्तो सुह्यति मूढः कृप्यति कुपितो सुह्यतीति ततस्तै- र्दोषैः प्रेरितः प्राणी प्रतिषिद्धानि शरीरेण हिंसास्तेयादीन्याचरति, वाचा अनृतादीनि, भनसा परद्रोहादीनि, सेयं पापरूपा प्रवृत्तिरधर्ममावहतीति। शरीरेण प्रशस्तानि दानपरपरित्राणादीनि, वाचा हितसत्यादीनि, मनसा अहिंसादीनि, सेयं पुण्यरूपा प्रवृत्तिर्धर्मः। सेयमुभयी प्रवृत्तिः। ततः स्वस्वानुरूपं प्रशस्तं निन्दितं वा जन्म पुनः शरीरादेः प्रादुर्भावः। तस्मिन् सति प्रतिकूलवेदनीयतया वासनात्मकं दुःखं भवति। त इमे मिथ्याज्ञानादयो दुःखान्ता अविच्छेदेन प्रवर्त्तमानाः संसारशब्दार्थो घटीयन्त्रवन्निरवधिरनुवर्त्तते। यदा कश्चित् पुरुषधौरेयः पुराकृतसुकृतपरिपाकवशादाचार्य्योपदेशेन सर्वमिदं दुःखायतनं दुःखानुषक्तञ्च पश्यति तदा तत्सर्वं हेयत्वेन बुध्यते ततस्तन्निवर्त्तकमविद्यादि निवर्त्तयितुमिच्छति तन्निवृत्त्युपायश्च तत्त्वज्ञानमिति कस्यचिच्चतसृतिर्विद्याभिर्विभक्तं प्रमेयं भावयतः सम्यग्दर्शनपदवेदनीयतया तत्त्वज्ञानं जायते तत्त्वज्ञानान्मिथ्याज्ञानमपैति मिथ्याज्ञानापाये दोषाः अपयान्ति दोषापाये प्रवृत्तिरपैति प्रवृत्त्यपाये जन्मापैति जन्मापाये दुःखमत्थन्तं निवर्त्तते सात्यन्तिकी निवृत्तिरपवर्गः। निवृत्तेरात्यन्तिकत्वं नाम निवर्त्त्यसजातीयस्य पुनस्तत्रानुत्पाद इति तथा च पारमर्षं सूत्रं “दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावादपवर्गः” इति। ननु दुःखात्यन्तच्छेदोऽपवर्ग इत्येतदद्यापि कफोणिगुडायितं वर्त्तते तत्कथं सिद्धवत्कृत्य व्यवह्रियत इति चेन्मैवं सर्वेषां मोक्षवादिनामपवर्गदशायामात्यन्तिकी दुःखनिवृत्तिरस्तीत्यस्यार्थस्य सर्वतन्त्रसिद्धान्तसिद्धतया घण्टापथत्वात् न ह्यप्रवृत्तस्य दुःखं प्रत्यापद्यते इति कश्चित् प्रपद्यते तथा हि आत्मोच्छेदो मोक्ष इति माध्यमिकमते दुःखोच्छेदोऽस्तीत्येतावत्तावदविवादम्। अथ मन्येथाः शरीरादिवदात्मापि दुःखहेतुत्वादुच्छेद्य इति तन्न सङ्गच्छ्रते विकल्पानुपपत्तेः किमात्मा ज्ञानसन्तानो विवक्षितः तदरिक्तो वा। प्रथमे न विप्रतिपत्तिः कः खल्वनुकूलमाचरति प्रतिकूलमाचरेत। द्वितीये तस्य नित्यत्वे निवृत्तिरशक्यविधानैव प्रवृत्त्यनुपपत्तिश्चाधिकं दूषणं, न खलु कश्चित् प्रेक्षावान् “आत्मनस्तु कामाय सर्वं प्रियं भवतीति” सर्वतः प्रियतमस्यात्मनः समुच्छेदाय प्रयतते सर्वो हि प्राणी मुक्त इति व्यवहरति।

धर्मिनिवृत्तौ निर्मलज्ञानोदयो महोदय इति विज्ञान- वादिवादे सामग्र्यभावः सामानाधिकरण्यानुपपत्तिश्च। भावनाचतुष्टयं हि तस्य कारणमभीष्टं तच्च क्षणभङ्गपक्षे स्थिरैकाधारासम्भवात् लङ्घनाभ्यासादिवदनासादितप्रकर्षं न स्फुटमभिज्ञानमभिजनयितुं प्रभवति सोपप्लवस्य ज्ञानसन्तानस्य बद्धत्वे निरुपप्लवस्य च मुक्तत्वे यो बद्धः स एव मुक्त इति सामानाधिकरण्यं न सङ्गच्छते।

आवरणमुक्तिर्मुक्तिरिति जैनजनाभिमतोऽपि मार्गो न निरर्गलः अङ्ग भवान् पृष्टो व्याचष्टां किमावरणं? धर्माधर्मभ्रान्तय इति चेत् इष्टमेव। अथ देहमेवावरणं तथा च तन्निवृत्तौ पञ्जरान्मुक्तस्य शुकस्येवात्मनः सततोर्द्ध्वगमनं मुक्तिरिति चेत्तदा वक्तव्यं किमयमात्मा मूर्त्तोऽमूर्त्तो वा। प्रथमे निरवयवः सावयवो वा निरवयवत्वे निरवयवो मूर्त्तः परमाणुरिति परमाणुलक्षणापत्त्या परमाणुधर्मवदात्मधर्माणामतीन्द्रियत्वं प्रसजेत्। सावयवत्वे यत्सावयवं तदनित्यमिति प्रतिबन्धबलेनानित्यत्वापत्तौ कृतप्राणाशाकृताभ्यागमौ निष्प्रतिबन्धौ प्रसरेताम्। अमूर्त्तत्वे गमनमनुपपन्नमेव चलनात्मिकायाः क्रियायाः मूर्त्तप्रतिबन्धात्।

पारतन्त्र्यं बन्धः स्वातन्त्र्यं मोक्ष इति चार्वाकपक्षेऽपि स्वातन्त्र्यं दुःखनिवृत्तिश्चेदविवादम् ऐश्वर्य्यं चेत् सातिशयतया सापेक्षतया च प्रेक्षवतां नाभिमतम्। प्रकृतिपुरुषान्यत्वख्यातौ प्रकृत्युपरमे पुरुषस्य स्वरूपेणावस्थानं मुक्तिरिति साङ्ख्याख्यातेऽपि पक्षे दुःखोच्छेदोऽभ्युपेयते विवेकज्ञानं पुरुषाश्रयं प्रकृत्याश्रयं वेति एतावदवशिष्यते तत्र पुरुषाश्रयमिति न श्लिष्यते पुरुषस्य कौटस्थ्यात् स्थाननिरोधापातान्नापि प्रकृत्याश्रयः अचेनत्वात् तस्याः। किञ्च प्रकृतिः प्रवृत्तिस्वभावा निवृत्तिस्वभावा वा आद्ये अनिर्मोक्षः स्वभावस्यानपायात् द्वितीये सम्प्रति संसारोऽस्तमियात्।

नित्यनिरतिशयसुखाभिव्यक्तिर्मुक्तिरिति भट्टसर्वज्ञाद्यभिमतेऽपि दुःखनिवृत्तिरभिमतैव परन्तु नित्यसुखं न प्रमाणपद्धतिमध्यास्ते। श्रुतिस्तत्र प्रमाणमिति चेन्न योग्यानुपलब्धिबाधिते तदनवकाशादवकाशे वा ग्रावप्लावेऽपि तथा भावप्रसङ्गात्। ननु सुखाभिव्यक्तिर्मुक्तिरिति पक्षं परित्यज्य दुःखनिवृत्तिरेव मुक्तिरिति स्वीकारः क्षीरं विहायारोचकग्रस्तस्य सौवीररुचिमनुहरतीति चेत्तदेतन्नाटकपक्षपतितं त्वद्वच इत्युपेक्ष्यते। सुखस्य सातिशयत्वेन प्रत्यक्षतया बहुप्रत्व- नीकाक्रान्ततया साधनप्रार्थनापरिक्लिष्टतया च दुःखाविनाभूतत्वेन विषानुषक्तमधुवत् दुःखपक्षनिःक्षेपात्। ननु “एकमनुसन्धित्सतोऽपरं प्रच्यवते” इति न्यायेन दुःखवत् सुखमप्युच्छिद्यत इति अकाम्योऽयं पक्ष इति चेन्मैवं मस्थाः सुखसम्पादने दुःखसाधनबाहुल्यानुषङ्गनियमेन तप्तायःपिण्डे तपनीयबुद्ध्या प्रवर्त्तमानेन साम्यापातात् तथा हि न्यायोपार्जितेषु विषयेषु कियन्तः सुखखद्योताः कियन्ति दुःखदुर्दिनानि अन्यायोपार्जितेषु तु यद्भविष्यति तन्मनसापि चिन्तयितुं न शक्यमित्येतत् स्वानुभवमनाच्छादयन्तः सन्तोविदाङ्कुर्वन्तु विदांवरा भवन्तः। तस्मात् परिशेषात् परमेश्वरानुग्रहवशाच्छवणादिक्रमेणात्मतत्त्वसाक्षात्कारवतः पुरुषधौरेयस्य दुःखनिवृत्तिरात्यन्तिकी निःश्रेयसमिति निरवद्यम्। नन्वीश्वरसद्भावे किं प्रमाणं प्रत्यक्षमनुमानमागमो वा न तावदत्र प्रत्यक्षं क्रमते, रूपादिरहितत्वेनातीन्द्रियत्वात् नाप्यनुमानं तद्व्याप्तिलिङ्गामावात् नागमः विकल्पासहत्वात् किं नित्योऽवगमयत्यनित्यो वा। आद्ये अपसिद्धान्तापातः द्वितोये परस्पराश्रयापातः। उपमानादिकमशक्यशङ्कं नियतविषयत्वात्। तस्मादीश्वरः शशविषाणायते इति चेत्तदेतन्न चतुरचेतसां चेतसि चमत्कारमाविष्करोति। विवादास्पदं नगसागरादिकं सकर्तृकं कार्य्यत्वात् कुम्भवत्। न चायमसिद्धो हेतुः सावयवत्वेन तस्य सुसाधनत्वात्। ननु किमिदं सावयवत्वम् अवयवसंयोगित्वम् अवयवसमवायित्वं वा नाद्यः गगनादौ व्यमिचारात् न द्वितीयः तन्तुत्वादावनैकान्त्यात्। तस्मादनुपपन्नमिति चेन्मैवं वादीः समवेतद्रव्यत्वं सावयवत्वमिति निरुक्तेर्वक्तुंशक्यत्वात्। नापि विरुद्धो हेतुः माध्यविपर्य्ययव्याप्तेरभावात् नाप्यनैकान्तिकः पक्षादन्यत्र वृत्तेरदर्शनात् नापि कालात्ययोपदिष्टः बाधकानुपलम्भात् नापि सत्प्रतिपक्षः प्रतिभटादर्शनात्। ननु नगादिकमकर्तृकं शरीराजन्यत्वात् गगनवदिति चेन्नैतत् परीक्षाक्षममीक्ष्यते नहि कठोरकण्ठीरवस्य कुरङ्गशावः प्रतिभटो भवति अजन्यत्वस्यैव समर्थतया शरीरविशेषणवैयर्थ्यात्। तर्ह्यजन्यत्वमेव साधनमिति चेन्नासिद्धेः। नापि सोपाधिकत्वशङ्काकलङ्काङ्कुरः सम्भवी अतुकूलतर्कसम्भवात् यद्ययमकर्तृकः स्यात् कार्य्यमपि न स्यादिह जगति नास्त्येव तत्कार्य्यं नाम यत्कारकचक्रमवधीर्य्यात्मानमासादयेदित्येतदविवादम्। तच्च सर्वं कर्तृविशेषोपहितमर्य्यादं कर्तृत्वं चेतरकारकाप्रयोज्यत्वे सति सकलकारकप्रयोक्तृत्वलक्षणं ज्ञानचिकीर्षाप्रयत्नाधारत्वम्। एवञ्चकर्तृव्यावृत्तेस्तदुपहितसमस्तकारकव्यावृत्तावकारणककार्य्योत्पादप्रसङ्गः। इति स्थूलः प्रमादः। तथा निरटङ्कि शङ्करकिङ्करेण “अनुकूलेन तर्केण सनाथे सति साधने। साध्यव्यापकताभङ्गात् पक्षे नोपाधिसम्भवः” इति। यदीश्वरः कर्त्ता स्वात्तर्हि शरीरी स्यादित्यादिप्रतिकूलतर्कजातं जागर्त्तीति चेदीश्वरसिद्ध्यसिद्धिभ्यां व्याघातात् तदुदितमुदयनेन “आगमादेः प्रमाणत्वे वाधनादनिषेधनम्। आभासत्वे तु सैव स्यादाश्रयासिद्धिरुद्धता” इति। न च विशेषविरोधः शक्यशङ्कः ज्ञातत्वाज्ञातत्वविकल्पपराहतत्वात्। तदेतत् परमेश्वरस्य जगन्निर्माणे प्रवृत्तिः किमर्था स्वार्था परार्था वा आद्येऽपीष्टप्राप्त्यर्था अनिष्टपरिहारार्था वा नाद्यः अवाप्तसकलकामस्य तदनुपपत्तेः अतएव न द्वितीयः। द्वितीये प्रवृत्त्यनुपपत्तिः कः खलु परार्थं प्रवर्त्तमानं प्रेक्षावानित्याचक्षीत। अथ करुणया प्रवृत्त्युपपत्तिरित्याचक्षीत कश्चित्तं प्रत्याचक्षीत तर्हि सर्वान् प्राणिनः सुखिन एव सृजेदीश्वरः न दुःखशबलान् करुणाविरोधात्। स्वार्थमनपेक्ष्य परदुःखप्रहरणेच्छा हि कारुण्यं तस्मादीश्वरस्य जगत्सर्जनं न युज्यते। तदुक्तं भट्टाचार्य्यैः “प्रयोजनमनुद्दिश्य न मन्दो हि प्रवर्त्तते। जगच्च सृजतस्तस्य किं नाम न कृतं भवेत्” इति। नास्तिकशिरोमणे! तावदीर्ष्याकषायिते चक्षुषी निमील्य परिभावयतु भवान् करुणया प्रवृत्तिरस्त्येव, न च निसर्गवः सुखमयसर्गप्रसङ्गः सृज्यप्राणिकृतसुकृतदुष्कृतपरिपाकविशेषाद्वैषम्योपपत्तेः न च स्वातन्त्र्यभङ्गः शङ्कनीयः “स्वाङ्गं स्वव्यवधायकं न भवतीति, न्यायेन प्रत्युत तन्निर्वाहाच्च। “एक एव रुद्रो न द्वितीयोऽवतस्थे” इत्यादिरागमस्तत्र प्रमाणम्। यद्येवं तर्हि परस्पराश्रयबाधव्याधिं समाधत्स्वेति चेत् तस्यानुत्थानात् किमुत्पत्तौ परस्पराश्रयः शङ्क्यते ज्ञप्तौ वा। नाद्यः आगमस्येश्वराधीनोत्पत्तिकत्वेऽपि तस्यान्यतोऽवगमात् नापि तदनित्यत्वं ज्ञप्तौ, आगमानित्यत्वस्य तीव्रादिधर्मोपेतत्वादिना सुगसत्वात्। तस्मान्निवर्त्तकधर्मानुष्ठानवशादीश्वरप्रसादसिद्धावभिमतेष्टसिद्धिरिति सर्वमवदातम्”। ४ नये नीतौ ५ नीतिसाधने उपाये ६ विष्णौ च “अग्रणीर्ग्रामणीः श्रीमान् न्यायो तेता समीरणः” विष्णुस० “प्रमाणानुग्राहकस्तर्को न्यायः” भा० तदनुगृहीतप्रमाणगम्यो भगवानपि न्यायशब्देन लक्षितलक्षणया प्रतिपाद्यते” आनन्दगिरिः। “न्यायप्रसूनाञ्जलिः” कुसुमाञ्जलिः “समस्तोपपन्नलिङ्गप्रतिपादकं वाक्यं न्यायः” हरिदासः। निश्चितमीयते निर्णीयतेऽनेन करणे घञ्। ७ वेदार्थनिर्णयसाधने अधिकरणात्मके पदार्थे अधिकरणशब्दे १२६ पृ० दृश्यम्। स च न्यायः पूर्वोत्तरवेदसम्बन्धी जैमिनिवेदव्यासाभ्यां बहुप्रकारो दर्शितः। ततएव संक्षिप्य माधबाचार्य्येण जैमिनीयन्यायमालायां वैयासिकन्यायमालायाञ्च प्रायशः सर्वे न्याया दर्शितास्ते च ततएवावगन्तव्याः। ८ लोकशास्त्रप्रसिद्धदृष्टान्तभेदेषु ते च लौकिकन्यायतया प्रसिद्धाः। ते च नानास्थानात् संगृह्यात्र प्रदर्श्यन्ते
१ “अक्रे चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत्” इति न्यायः यत्राल्पायासेनाभीष्टसिद्धिर्जायते तत्र बह्वायाससाध्ये प्रेक्षावतां न प्रवृत्तिरिति प्रदर्शनायास्य न्यायस्य प्रवृत्तिः।
२ अजाकृपाणीयन्यायः अजाकृपाणपदे तत्स्थितक्रियाविशेषपरे अजागमनकालीनं कृपाणपतनं यथाकस्मिकम्। तथा चाकस्मिकाजागमनकालीनकृपाणपतनतुल्ये आकत्मिकानिष्टलाभस्थलेऽस्य न्यायस्य प्रवृत्तिः।
३ अजातपुत्रनामोत्कीर्त्तनन्यायः भाविसंज्ञया निर्देशेऽस्य प्रवृत्तिः।
४ अधिकं तु प्रविष्टं न च तद्धानिरिति न्यायः यत्राधिकप्रवेशेऽपि प्रकृतस्य न हानिस्तत्रायं प्रवर्त्तते।
५ अध्यारोपन्यायः अध्यारोपो नाम वस्तुन्यवस्त्वारोपः यथाऽरजतभूतायां शुक्तौ रजतारोप इति वेदान्तिनः। ननु कथमवस्तुनोनिरात्मकस्य आरोपः क्वचिद्दृष्टपूर्वस्य सतः क्वचिदारोपदर्शनात् यथा जबायां दृष्टस्य लौहित्यस्य स्फटिके आरोपः इति चेत्सत्यं तत्सिद्धयेऽनुभवमात्रमपेक्ष्यते न तु पूर्वमनुभूतस्य तात्त्विकत्वमपि व्यतिरेकाभावात् सन्दिग्धविपर्य्ययेष्वपि अत्र स्थाणौ मे नरो वा राक्षसोवेति सन्देह आसीत् अस्यां रज्ज्वां सर्पोऽयमिति विपर्य्ययं आसीत् इत्यादिसंस्कारकार्यस्मृतिदर्शनात्। न च सन्देहविपर्य्यययोरेवेयं स्मृतिर्न तदर्थयोरिति वाच्यम् अर्थविरहिणोस्तयोः स्मृतिगोचरत्वायोगात्। तस्मात्तुच्छेतरस्य पूर्वपूर्वभ्रमानुभूतस्याप्युत्तरोत्तरारोपोपपत्तिः। भ्रमतवाहस्य च वीजाङ्कुरप्रवाहन्यायेनानादितयाऽन्योन्याश्रयानवस्थादिप्रसङ्गानबकाशात्। तथा च परमार्थसति सच्चिदानन्दब्रह्मणि वस्तुनि अवस्तुनोऽनिर्वचनीयस्याज्ञानतत्कार्य्यादेरध्यारोपः। ब्रह्मतत्त्वसाक्षात्कारेण चाध्यारोपिताज्ञानादेर्निवृत्तिः यथा शुक्तिकादिज्ञानेन रजतादिनिवृत्तिः। अतएवाज्ञानादीनां ज्ञाननिर्वत्त्यत्वान्यथानुपपत्त्या अध्यारोपितत्वं कल्प्यते इत्याकरे स्थितम्।
६ अन्धकूपपतनन्यायः अनेन पथा गन्तव्यमिति सत्पुरुषेणोपदिष्टस्तत्पथं परिमुञ्चन्नन्धो यथा कूपे पतति एबं वेदाद्युपदिष्टमार्गं परित्यजन्नज्ञः नरकादौ पततीत्यस्य न्यायस्य तत्र प्रवृत्तिः”।
७ अन्धगजन्यायः अन्धैर्निर्धारितो गजः शा० त० अन्घगजः। तत्तुल्यन्यायः। यथा हि जन्मान्धा बहवः कञ्चिटनन्धं पुरुषमूचुरस्मान् गजं ज्ञापयेति। स च गजशालायां नीत्वा कञ्चित् कञ्चित् गजावयवं केनचित् केनचित् ग्राहयित्वोवाच अयं गज इति ते चान्धास्तदुपदिष्टास्तत्तदवयवं गजत्वेन निश्चित्य स्वस्वगृहे आगताः परस्परं विवदन्ते। तत्र कर्णस्पंर्शीं शूर्पाकारो गज इति, शुण्डास्पर्शी महासर्पतुल्य इति जङ्घाग्राही स्तम्भतुल्य इति पुच्छग्राहकः स्थूलरज्जुसम इति पृष्ठग्राही चतुरस्रसमो गज इति। एवमुपदिष्टाज्ञपुरुष बुद्धिवैचित्र्यात् ईश्वरस्य नानारूपकल्पनमित्यत्र न्यायावतारः। अन्धहस्तीत्यादिन्यायोऽप्यत्र प्रसरति।
८ अन्धगोलाङ्गूलन्यायः अन्धेन गृहीतं गोलाङ्गूलम् शा० त० अन्धगोलाङ्गूलंतत्तुल्यन्यायः “तन्निष्ठस्य मोक्षोपदेशात्” शा० सू० भाष्ये “यदि चाज्ञस्य सतो मुमुक्षोरचेतनमनात्मानमात्मेत्युपदिशेत् प्रमाणभूतं शास्त्रं स च श्रद्दधानतयाऽन्धगोलाङ्गूलन्यायेन तदात्मदृष्टिं न परित्यजेत् तदतिरिक्तं चात्मानं न प्रतिपायेत् तथा सति पुरुषार्थाद्विहन्येत अनर्थञ्च ऋच्छेत्” इत्युक्तम्। विवृतञ्चैतत् रत्नप्रभायां यथा “यथा कश्चित्किल दुष्टात्मा महारण्ये पतितमन्धं बन्धुनगरं जिगमिषुं बभाषे किमत्रायुष्मता दुःखितेन स्थीयते इति। स चान्धः सुखवाणीमाकर्ण्य तमाप्तं मत्वोवाच अहो मद्भागधेयं यदत्रभवान् दीनं मां स्वाभीष्टनगरं गन्तुमसमर्थं भाषते इति स च विप्रलिप्सुः दुष्टं गोयुवानमानीय तदीयलाङ्गूलमन्धेन ग्राहयामास उपदिदेश च एनमन्धम् एष गोयुवा त्वामिष्टनगरं नेष्यति मा त्यजास्य लाडूलमिति स चान्धः श्रद्धालुतया तदत्यजन् स्वाभीष्टमप्राधानर्थपरस्परां प्राप्तः तेन न्यायेनेति”। एवमन्यत्राप्येवं विषयेऽस्य प्रचारः।
९ अन्धचटकन्यायः अन्धस्य हस्ते पतितश्चटकः शा० त०। यथा दैवात् अन्धस्य हस्ते पतितश्चटकोऽन्धेन गृहीत इति लोकप्रसिद्धिः। एवं दैवादभीष्टलाभे कस्यचिदकारणस्यापि कारणत्वकल्पनं घुणाक्षरन्यायविषये इवास्य प्रवृत्तिः।
१० अन्धपरम्परान्यायः एकेनान्धेन यथोपदिष्टमन्धान्तरं पुनरन्यमन्धं तथैवोपदिशति इत्येवमज्ञस्याज्ञान्तरं प्रत्युपदेशपरम्परा न प्रामाणिकीति विवक्षायामस्य प्रवृत्तिः।
११ अपवादन्यायः अधिष्ठाने भ्रान्त्या प्रतीतस्य तदतिरेकेणाभविनिश्चयोऽपवादः, यथा स्थाण्वादौ भ्रान्त्या प्रतीतस्य पुरुषादेः स्थास्वाद्यतिरेकेणाभावनिश्चयः। अयमेव बाधो विलापनमिति चोच्यते स चायं बाधस्त्रिविधः श्रौतो यौक्तिकः प्रत्यक्षश्चेति। “अथात आदेशी नेति नेति” “नेह नानास्ति किञ्चन” इत्यादिश्रुतेर्व्रह्मातिरिक्ताभावनिश्चयः श्रौतो बाधः। कनकाद्यतिरेकेण कटकाद्यभावनिश्चयवन्निखिलकारणब्रह्मातिरेकेण निखिलप्रपञ्चाभावं निर्द्धार्त दृश्यमानस्य मिथ्यात्वनिर्द्धारणात् प्रपञ्चस्य ब्रह्ममात्रात्मकत्वनिश्चयो यौक्तिको बाधः। इयं रज्वुः न सर्प इत्युपदेशसहकृतप्रत्यक्षेणेव तत्त्वमस्यादिवाक्यजनितेन चिन्मात्रोऽहमिति प्रत्यक्षेण ब्रह्मात्मनिश्चयः प्रत्यक्षबाधः।
१२ अर्द्धजरतीयन्यायः इवार्थे छ। अयं च ३७४ पृ० दर्शितः।
१३ अशोकवनिकान्यायः अशोकवनिकागमने यथेष्टच्छायासौरभलाभेन अन्यत्र गमनाकाङ्क्षा यथा न भवेत् एवं यत्रेष्ट लाभादन्यत्रेच्छाभावस्तत्रायं प्रवर्त्तते।
१४ अश्मलोष्ट्रन्यायः लेष्ट्रस्य तूलाद्यपेक्षया काठिन्येऽपि अश्मापेक्षया मृदुत्वं यथा। तथा यस्य यदपेक्षया वैषम्यापिक्यं विवक्ष्यते तत्रास्य प्रवृत्तिः। अल्पान्तरत्वविवक्षायां तु पाषाणेष्टकान्यायोऽवतरति।
१५ असाधारण्येन व्यपदेशाभवन्तीति न्यायः यथा गोतमोक्तशास्त्रे प्रमाणादिषोडशपदार्थप्रतिपादनेऽपि तदेकदेश न्यायपदार्थस्य अन्यशास्त्रापेक्षयाप्राधान्येन प्रतिपादनात् न्यायशास्त्रमिति तस्य संज्ञा एवमन्यत्र प्राधान्यविवक्षया तत्तत्संज्ञेति तत्रास्य प्रवृत्तिः।
१६ अहिकुण्डलन्यायः अहेः सर्पस्य यथा कुण्डलाकृतिवेष्टनं स्वाभाविकं तथा यस्य स्वाभाविकधर्मो व्यपदिश्यते तत्रास्य प्रवृत्तिः।
१७ आषाणकन्यायः लोकप्रसिद्धकथनमाभाणकं तद्वद्यम्य प्रसिद्धाभाणकं तत्रास्य प्रवृत्तिः।
१८ आम्रवणन्यायः वने इतरवृक्षसत्त्वेऽपि आम्राणां बाहुल्ये यथा आम्रवणव्यवदेश एवमेकस्य प्राधान्ये “भूयस्त्वास्तद्वाद इति” न्यायेन तद्व्यपदेशो यत्र तत्रास्य प्रवृत्तिः।
१९ उदकनिमज्जनन्यायः सत्याभिसन्धस्य उदकनिमज्जनरूपे दिव्ये शोध्यस्य जलनिमज्जनसमये तत्स्थानान्निःक्षिप्तं शरमादाय तत्पतनस्थानादितोऽपरो नरो यद्यतिवेगेन शोध्यस्थानमागत्य तच्छिरोतिरिक्तं मुखनासिकाद्यवयवं न पश्यति तदा शुद्धिः मिथ्याभिसन्धस्य तद्दर्शनादशुद्धिरित्येवं दिव्ये प्रसिद्धिवत् यत्र सत्यासत्ययोर्ज्ञानं तत्रास्य प्रवृत्तिः।
२० उपयन्नपयन् धर्मोविकरोति हि धर्मिणमिति न्यायः यथा पूर्वस्य रूपरसादिरूपधर्मपरावृत्तौ रूपरसाद्यन्तरोत्पत्तौ च घटादेर्धर्मिणोविकृतिरेवं यस्य घर्मिणः पूर्वधर्मस्यापगमे अन्यधर्मस्योत्पत्तिस्तत्रायं न्यायोऽवतरति।
२१ उपवासाद्वरं भैक्ष्यमितिन्यायः भिक्षायाः क्लेशजनकत्वेऽपि उपवासस्याधिकदुःखप्रदस्यापेक्षया इष्टत्वेन यथा वरत्वं तथा क्लेशदायकतारतम्येन बहुदुःखदायकापेक्षया स्वल्पदुःखदायकस्य वरत्वं यत्रोपदिश्यते तत्रास्य प्रवृत्तिः।
२२ उभयतः पाशारज्वुन्यायः रज्ज्वां यथा उपयपार्श्वे पाशसत्त्वे उभयपार्श्वयोर्गमने बन्धनम् एवमुपन्यस्तयोः पक्षयोर्दुष्टत्वे दोषोद्धारणाभावेन बद्धवद्भावेऽस्य प्रवृत्तिः।
२३ उष्ट्रकण्टकभक्षणन्यायः उष्ट्रस्य शमीकण्टकवेधजातदुःखकालेऽपि शमोपत्रभक्षणजसुखलेशो यथा तथाभीष्टविषयोपार्जनदुःखकाले तदुपार्जितद्रव्यजसुखलेशो यत्रोपदिश्यते तत्रास्य प्रवृत्तिः।
२४ एकं सन्धित्सतोऽपरं प्रच्यवत इति न्यायः यथा एकं कांस्यपात्रावयवभेदं सन्धातुमिच्छतोऽपरं तदवयवमत्यन्तानलसंयोगेन नष्टमिव प्रच्यवते एवमन्यत्र एकस्य सन्धानेच्छया कृतव्याषारभेदेऽन्थस्य यत्र प्रच्यवः, तत्रास्य प्रवृत्तिः। तथा एकामसिद्धिं परिहरतोद्वितीयासिद्धिप्रसङ्गः। यथोदाहृतं बौद्धाधिकारे उदयनेन यथा अङ्कुराद्यकर्तृकं शरीराजन्यत्वादित्यत्र शरीरीति विशेषणेन स्वरूपासिद्धिं परिहरतो बौद्धस्य व्याप्यत्वासिद्धिरापद्यते इत्यन्तेन”।
२५ एकवाक्यतापन्नानां सम्भूयैकार्थप्रतिपादकत्वमिति न्यायः सम्भूय मिलित्वा इतरसाचिव्येनेत्यर्थः। यथा प्रयाजाद्यङ्गजातवाक्यसम्भूयानां दर्शापूर्वार्थकसाधकत्वेनैकवाक्यत्वमित्येवं यत्र विचक्ष्यते तत्रास्य प्रवृत्तिः।
२६ एकसम्बन्धिज्ञानमपरसम्बन्धिस्मारकमिति न्यायः यथा हस्तिदर्शनात् तत्सम्बन्धिनो हस्तिपकादेः स्मरणमेवं शब्दज्ञानात् वृत्तिसम्बन्धेन शब्दसम्बन्धिनोऽर्थस्य स्मरणमित्यादि यत्रोपदिश्यते तत्रास्य प्रवृत्तिः।
२७ एकाकिनी प्रतिज्ञा हि प्रतिज्ञातं न साधयेदिति न्यायः एकाकिनी हेत्वादिचतुष्कहीना परार्थानुमाने हि प्रतिज्ञादिपञ्चकेनैवार्थसिद्धिः न केवलप्रतिज्ञामात्रेणार्थसिद्धिः तथात्वे सर्वत्र सर्वेसिद्धिप्रसङ्गात्। प्रतिज्ञादिपञ्चकञ्चानुपदमुक्तम्। न हि प्रतिज्ञामात्रेणार्थसिद्धिरिति न्यायोऽप्येतादृशएव शब्दमात्र भेदः।
२८ औपाधिकाकाशभेदन्यायः यथा औपाधिकाकाशगोचरं ज्ञानं सविशेषणे हीति न्यायेनोपाधिभेदविषयं तथा जीवब्रह्मभेदविषयं प्रत्यक्षादिकं तदुपाधिभेदविषयमित्येवं यत्र विवक्ष्यते तत्रायं प्रवर्त्तते। “घटसंवृत आकाशे नीयमाने यथा पुनः। घटो नीयेत नाकाशं तद्वज्जीबो नभोपमः” इति श्रुत्युक्तिश्चैतन्न्यायमूलिका।
२९ कण्ठचामीकरन्यायः चामीकरशब्दः चामीकरनिर्मितभूषणपरः। तद्धि यथा कण्ठगतमपि चिरप्राप्तमपि विस्मृतं सत् दुःखाकरोति आप्तोदेशात् प्राप्नमिव भवत् सुखाकरोति न तु वस्तुतोज्ञानातिरिक्ता तस्य प्राप्तिरस्ति प्राप्तत्वात्। एवं यस्य प्राप्तस्य नष्टभ्रान्त्या दुःखं सदुपदेशेन तज्ज्ञानाच्च सुखं यत्रोपदिश्यते तत्रास्य प्रवृत्तिः। तथा जीवस्य स्वतःसिद्धब्रह्मात्मकस्य अज्ञानादि दोषात् तद्विस्मरणं तत्त्वमस्यादिवाक्यजसाक्षात्कारेण अप्राप्तस्य प्राप्तिरिव भवतीत्युपचर्य्यते।
३० कदम्बगोलकन्त्यायः कदम्बगोलकस्य गोलाकारकदम्बस्य सर्वावयवेषु यथा युगपत् पुष्पोद्गमः एवं सर्वप्रदेशेषु युगपत् यत्र प्रसरस्तत्रास्य न्यायस्य प्रवृत्तिः। “कदम्बगोलकन्यायादुत्पत्तिः कस्यचिन्नये” भाषा०।
३१ कफोणिगुडन्यायः कफोणौ गुडाभावेऽपि तदाशया यथा लेहनमेवं यत्र वस्त्वसद्भावेऽपि तत्प्रत्याशया व्यापारभेदस्तत्रास्य प्रवृत्तिः।
३२ करकङ्कणन्यायः कङ्कणं करभूषणमित्यमरोक्तेः कङ्कणशब्दस्यैव करभूषणवाचित्वेऽपि तत्पूर्वं करशब्दप्रयोगे यथा प्रयोगकाले तस्य करसम्बन्धिता द्योत्यते एवमन्यस्यापि तत्काले तत्सम्बन्धद्योतनार्थं यत्र प्रयोगस्तत्रास्य प्रवृत्तिः।
३३ काकतालीयन्यायः इवार्थे छ। काकतालोयशब्दे १८४३ पृ० दृश्यः। अत्रायं विशेषः अतर्कितेष्टलाभे अतर्कितानिष्ट लाभे चायमवतरति तथा हि अकस्मान्महाफलस्याग्रै पतनात् काकस्योपभोगलाभः। एवं तत्फलस्य शिरसि पतनात् मरणमपि सम्भवति। तत्रानिष्टलाभे “फलन्ति काकतालीयं तेभ्यः प्राज्ञान बिभ्यति” वेणीस०। इष्टावाप्तौ “यत्तया मेलनं तत्र लाभो मे यश्च सुभ्रुवः। तदेतनु काकतालीयमवितर्कितसम्भवम्” चन्द्रालोकः। “पतत् तालफलं यथा काकेनोपभुक्तमेवं रहोदर्शनक्षुभितहृदया तन्वी मया भुक्तेति” कुवलयानन्दः।
३४ काकदध्युपघातकन्यायः यथा काकेभ्यो दधि रक्ष्यतामित्यादौ उपघातकमात्राभिप्रायत्वेन काकशब्दस्य दध्युपघातकमात्रे लक्षणा एवं यत्र तात्पर्य्यवशेनेतरार्थपरत्वं तत्रास्य प्रवृत्तिः। तदुक्तमभियुक्तैः “काकेभ्यो रक्ष्यतामन्नमिति बालोऽपि देशितः। उपघातप्रधानत्वात् न श्वादिभ्योऽपि रक्षति?”।
३५ काकदन्तगवेषणान्यायः काकस्य दन्ताः सन्ति नवा तेषां शौक्ल्यं नवेत्यन्वेषणं यथा निष्फलं तथा यस्यान्वेषण निष्फर्ल तत्रास्य प्रवृत्तिः।
३६ काकमांसं शुनोच्छिष्टं स्वल्पं तदपि दुर्लभम् इति न्यायः अत्यन्तनिकृष्टस्यातितुच्छ्रस्यापि दुर्लभत्वेऽयं न्यायः प्रवृर्त्तते।
३७ काकाक्षिगोलकन्यायः एकस्य काकचक्षुषः प्रयोजनवशा द्यथा उभयगोलके सञ्चारः तथा एकस्य पदार्धस्यो भयत्र सम्बन्धविवक्षायामस्य प्रवृत्तिः।
३८ कारणगुणप्रक्रमन्यायः कारणगुणाः सजातीयगुणान् कार्ये आरभन्ते यथा तन्तुरूपादयः स्वकार्य्ये पटे सजातीयरूपादीनारभन्ते न विजातीयानेवं यत्र कारणगुणानुगमस्तत्रास्य प्रवृत्तिः।
३९ कारयितुः कर्त्तृत्वन्यायः यः कारयति स करोत्येव यथा राजा भटादिभिर्युद्धं कारयन् तत्कर्त्तेति व्यपदिश्यते युद्धफलविजयराज्यलाभादेस्तद्गामित्वात्। तथा यत्र विवक्षा तत्रास्य प्रवृत्तिः।
४० कार्य्येण कारणसंप्रत्ययन्यायः कार्य्येण धूभादिना यथा वह्न्यादेरनुमानरूपः संप्रत्यय एवं यत्र कार्येण कारणसंप्रत्ययस्य विवक्षा तत्रास्य प्रवृत्तिः।
४१ कुशकाशावलम्बनन्यायः नद्यादौ पतितस्य सन्तरणानभिज्ञस्य यथ कुशकाशावलम्बनं निरर्थकमेवं प्रवलयुक्तिषु निराकृतासु दुर्बलयुक्त्यवलम्बनं निरर्थकमित्येवमबलम्बनस्य निरर्थकत्वविवक्षायामस्य प्रवृत्तिः।
४२ कूपखानकन्यायः कूपखानकस्य कूपखननकाले गात्रे संलग्नं पङ्कं कूपोत्थितजलेन यथापयाति एवं विग्रहावच्छिन्नेश्वरभेदबुद्धिजन्योदोषस्तदुपासनजन्यसुकृतविशेषजेनाद्वैतवोधेन समूलं निवर्त्त्यतेत्येवं विवक्षायामस्य प्रवृत्तिः।
४३ कूपमण्डूकन्यायः समुद्रमण्डूकं कथञ्चित्तीरसमीपस्थकूपं गतं कूपस्थमण्डूकः पप्रच्छ कुत आगतोभवान्निति स च समुद्रादिति प्रत्युक्तवान्। पुनः कूपमण्डूकः कीदृशः समुद्र इति पप्रच्छ तेन चातीव सहानिति प्रत्युक्तं तत्किं कूपसदृश इत्युक्ते तेन प्रत्युक्तं नहि नहि नास्ति तत्तुल्योऽन्यः सहि सरितां पतिरनवगाह्यगाम्भीर्य्योऽलक्ष्यपारोऽतीव महत्तम इति। कूपमण्डूकस्तु कूपात् महान् नास्ति त्वं तु मिथ्यैव प्रलपसीव्युक्तबान्। समुद्रभेकस्तु तत् श्रुत्वा मनसा तमुपजहासेति लोके गाथा गीयते तथा च यथा समुद्रमज्ञात्वा तन्महिमानं निराकुर्वन् कूपमण्डूक उपहास्यतां प्राप्तस्तथा परसिद्धान्तानभिज्ञस्तद्दूषणाय प्रवर्त्तमान उपहास्यतां गच्छतीति विव क्षायामस्य प्रवृत्तिः।
४४ कूपयन्त्रघटिकान्यायः कूपात् गभीरादपि यन्त्रेण यथा घटिका उत्तोल्यते एवं अतिदुर्वोघत्वेन गम्भीरादपि शास्त्रात् उपदेशादिरूपयन्त्रेण सारोद्धरणं यत्र विवक्ष्यते तत्रास्य प्रवृत्तिः।
४५ कूर्माङ्गन्यायः कूर्मः स्वेच्छया यथा निजाङ्गस्य सङ्कोचविकाशौ करोति एवं यस्येच्छावशात् स्वोपाध्यज्ञानकार्यजातस्य स्वोपाधौ सङ्कोचविकाशकारित्वमित्येवं विवक्षाविषयेऽस्य प्रवृत्तिः “यया संहरते चायं कूर्माङ्गानीव सर्वशः” गीता।
४६ कैमुतिकन्यायः यत्र दुर्बोधस्य दुःसाध्यस्य सुखेन बोधसाघनादि तत्र सुबोधस्य सुसाध्यस्य नितरां सिद्धिरित्येवं यत्र विवक्षा तत्रास्य प्रवृत्तिः।
४७ कोषपानन्यायः कोषपानं दिव्यभेदः। तत्र यथा सर्वदिव्यसाधारणधर्मपूर्वदिनोपवासवतोऽभिशस्तस्य मिथ्यावादिनः प्रभृतित्रयजलपानकाले कश्चित् सुखविशेषो भवति शास्त्रनिर्दिष्टावधिकाले तु महद्दुःखं तथा हरिहरादिष्वेकस्मिन् भक्तिव्याजेनेतरनिन्दां कुर्वतो निन्दाव्यसनिनो यद्यपि तत्काले कश्चित् सुखविशेषः स्यात् तथापि निन्दाजन्यदुरितपरिपाककाले कुम्भीपाकादिजन्यं घोरतमं दुःखं भवतीत्यस्य विवक्षायामस्य न्यायस्य प्रवृत्तिः।
४८ क्रिया हि विकल्प्यते न वस्त्विति त्यायः क्रिया हि कर्तुमकर्तुमन्यथा वा कर्तुं शक्यत्वात् विकल्प्यते न तु वस्तु एवं नैवं वेति विकल्प्यते। तदेतदुक्तं शा० भाष्ये “कर्तुमकर्तुमन्यथा वा कर्तुंशक्यं लौकिकं वैदिकञ्च कर्म यथा अतिरात्रे षोडशिनं गृह्णाति नातिरात्रे षोडशिनं गृह्णाति उदिते जुहोति अनुदिते जुहोति” रथेन पद्भ्यामन्यथा वा गच्छति न गच्छति वेति। न तु वस्त्वेवं नैवमस्ति नास्तीति वा विकल्प्यते विकल्पना हि पुरुषबुद्धिसापेक्षा न वस्तुयाथात्म्यज्ञानं पुरुषबुड्यपेक्षं किं तर्हि वस्तुतन्त्रमेव न हि स्थाणावेकस्मिन् स्थाणुर्वा पुरुषोऽन्योवेति तत्त्वज्ञानं भवति तत्र पुरुषो वान्योवेति मिथ्याज्ञानं स्थाणुरेवेति तत्त्वज्ञानम्” एवमन्यत्राप्यूह्यम्।
४९ खले कपोतन्यायः “वृद्धा युवानः शिशवः कपोताः खले यथाऽमी युगवत् पतन्ति। तथैव सर्वे युगपत् पदार्थाः परस्परेणान्वयिनोभवन्ति” इत्युक्तरीत्या यत्र पदार्थानां युगपदन्वयस्तत्रास्थ प्रवृत्तिः।
५० गड्डलिकाप्रवाहन्यायः गड्डलिकानामवीनां संघादे का चेत् नद्यादौ पतति तदा तत्सङ्घान्तर्गताः सर्वेऽपि वार्यमाणा अपि तत्र पतन्तीति लोकप्रसिद्ध्या यत्र वार्य्यमाणानामपि अनिष्टमार्गे धावनं तत्रास्य प्रवृत्तिः।
५१ गुडजिह्विकान्यायः यथा तिक्तताभिया निम्बपानमकुर्वाणस्य बालस्य जिह्वायां गुडलेपं दत्त्वा पित्रादिस्तं निम्बं पाययति एवमर्थवादवाक्यानि बहायाससाध्ये कर्मण्यप्रवर्त्तमानं पुरुषं स्वर्गाक्षय्यादिकं श्रावयित्वा प्रवर्त्तयन्ति। फलश्रुतिरपि रोचनार्था तदुक्तं मल० त० भाग० ११ स्क० “वेदोक्तमेव कुर्वाणो निःसङ्गोऽर्पितुमीश्वरे। नैष्कर्म्यां लभते सिद्धिं रोचनार्था फलश्रुतिः” “फलश्रुतिरियं नणां नाश्रेयो रोचनं परम्। श्रेयोविवक्षया प्रोक्ता यथा भैषज्यरोचनम्” अस्य तात्पर्य्यमुक्तं तत्रैव “पिब निम्बं प्रदास्यामि खलु खण्डकलड्डुकान्। पित्रैवमुक्तः पिबति तिक्तमप्यतिबालकः”। तत्र यथा निम्बादिपानस्य न खलु खण्डादिलामएव प्रयोजनं किन्त्वारोग्यं तथा वेदोऽप्यवान्तरफलैः प्रलोभयन् मोक्षायैव कर्माणि विधत्ते”।
५२ गोबलीवर्द्दन्यायः बलीवर्द्दस्य गोविशेषत्वेऽपि बलीवर्द्दस्य झटिति गोत्वेन बोधनार्थं यथा प्रयोगः तथाऽन्ययोः सामान्यविशेषरूपयोर्झटिति बोधमार्थं यत्र प्रयोगस्तत्रास्य प्रवृत्तिः। एवं गोवृषन्यायोऽप्येतादृशार्थेऽवतरति।
५३ घट्टकुटीप्रभातन्यायः तच्छब्दे २७८४ पृ० अस्य विवरणम्।
५४ घुणाक्षरन्यायः घुणः कीटभेदः तेन यथेष्टं वंशस्य खोदने कृते ततो रेखासन्निवेशभेदेन दैवाद् यथाऽक्षराकारनिष्पत्तिः एवमन्यार्थप्रवृत्तस्य दैवादन्यार्थस्य यत्र निष्पत्तिर्बिवक्ष्यते तत्रास्य प्रवृत्तिः।
५५ चतुर्वदविन्न्यायः यथा गोहिरण्यादिरूपं बहुधनं चतुर्वेदविदे मया देयमिति कस्यचित् दातुर्वचनं श्रुत्वा कश्चित् मूढः वेदाश्चत्वार इत्यहं जाने मह्यमिदं सर्वं धनं देयमिति वदन् तद्धनं न लभते प्रत्युत उपहसनीयश्च भवति एवं सच्चिदानन्दरूपं प्रत्यगभिन्नं ब्रह्मेति शब्द मात्राभिज्ञस्तदर्थशाब्दवोधमात्रशाली वा यस्तत्त्ववित्त्वाभिमानेन तत्त्वविदां गतिं वाञ्छति स न तां प्राप्नोति प्रत्युत उपहास्यश्च भवति। तथा च वेदसङ्ख्यामात्रज्ञाने तद्विशेषस्वरूपार्थयोरज्ञाने यथा तदभिज्ञयोग्यसम्मानपूजामानालाभः तथा सच्चिदानन्दादिशब्दमात्र ज्ञाने तदर्थस्य साक्षात्काराभावे न ब्रह्मभावापत्तिलक्षणमुक्तिप्राप्तिरित्येवं यत्र विवक्ष्यते तत्रास्य प्रवृत्तिः।
५६ चालनीयन्यायः चालनीभ्रामणे तत्स्थतण्डुलानां स्वछिद्रद्वारा सर्वेषां यथा पतनम्। एवं क्वचित्स्थितवस्तूनां सर्वेषां लक्षणादिवहिर्भावो यत्र सम्भाव्यते तत्रास्य प्रवृत्तिः। यथा व्यापकतालक्षणे साध्यप्रतियोगिकामावप्रवेशे महानसोयवह्न्यधिकरणे पर्वतीयवह्न्यभावस्य एवं पर्वतीयवह्न्यधिकरणे महानसीयवह्न्यभावस्य च सत्त्येन वह्निप्रतियोगिकाभावस्य तत्तदधिकरणे सत्त्वात् सर्वेषां वह्नीनां व्यापकतालक्षणबहिर्भावः।
५७ चौरापराधेन माण्डव्यदण्डन्यायः चौरस्यापराधेन यथा माण्डव्यर्षेः शूलारोपणं पुराणप्रसिद्धम्। एवमेकस्यापराधेनान्यस्य दोषारोपणं यत्र विवक्ष्यते तत्रास्य प्रवृत्तिः।
५८ जकतुम्बिकान्यायः यथा पङ्कलिप्ता तुम्बिका नद्यादौ निमज्जति पङ्कलेपापगमे च उन्मज्जति तद्गतिप्रतिरोधकविरहादेवं जीवः देहादिसम्बन्धहेतुमलादौ क्षीणे सति आलोकाकाशे स्वयमेव गत्वा तिष्ठति तादृशएव तस्यमोक्ष इति दिगम्बरमते स्थितम्।
५९ जलानयनन्यायः यथा जलमानीयतामित्युक्ते अनुक्तमपि तत्पात्रानयनं नान्तरीयकतया प्रतिभाति एवमेकस्योक्तौ तदाधारादेरनुक्तस्यापि अन्यस्य यत्र प्रतीतिस्तत्रास्य प्रवृत्तिः।
६० तण्डुखभक्षणन्यायः यथा चौरस्य तण्डुलभक्षणरूपदिव्ये शीघ्रमेव लोहितादिनिष्ठीवनं दृश्यते “लोहितं दृश्यते यस्य सुखे हनुश्च शीर्य्यते। गात्रं च कम्पते यस्य तमशुद्धं विनिर्दिशेत्” पितामहेन तस्य सद्योऽनिष्टस्योक्तेस्तथा यत्र सद्योऽनिष्टसम्भवस्तत्रास्य प्रवृत्तिः।
६१ तप्तपरशुग्रहस्पन्यायः सत्याभिसन्धस्य मोक्षो मिथ्याभिसन्धस्य वन्ध इति विवक्षायामस्य न्यायस्य प्रवृत्तिः। तप्तपरशुग्रहणञ्च दिव्यभेदः। तथा हि चोरत्वसन्देहे निर्णयार्थं तादृशसन्देहविषयं पुरुषमुद्दिश्य पञ्चाशत्पलसम्मितमस्रिरहितमष्टाङ्गुलायामं लौह परशुमग्नौ प्रक्षिप्याग्निवर्णं कृत्वा अश्वत्थपत्रदधिपूर्वाद्यन्तरितयोः शोध्यस्य हस्तयोर्विधिना प्राड्विपाको निःक्षिपेत् स चेदनृतवादी नाहं चौर इति तदा तादृशपरशुग्रहणे दह्यते यस्तु नाहं चौर इति सत्यवादी स तादृशपरशुग्रहणेऽपि न दह्यते तत्र दाहाभावप्रयोजकं नाहं चौर इति विषयस्य सत्यत्वं दाहप्रयोजकं तु तद्विषयस्यानृतत्वम्। तथा मुक्तौ प्रयोजकमहं ब्रह्मेति वाक्यविषयस्य सत्यत्वं बन्धप्रयोजकं तु नाहं ब्रह्मेति वाक्यविषयस्यानृतत्वम्। अयमेव न्यायः छा० उ० श्रुत्या प्रतिपादितो यथा “तद्यथा पुरुषं सोम्योत हस्तगृहीतमानयत्यपहार्षीत् स्तेयमकाषींत् परशुमस्मै तपतेति स यदि तस्य कर्त्ता भवति तत एवानृतमात्मानं कुरुते मोऽनृताभिसन्धोऽनृतेनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स दह्यतेऽथ हन्यते अथ यदि तस्याकर्त्ता भवति ततएव सत्यमात्मानं कुरुते सत्याभिसन्धः सत्ये नात्मानम न्तर्थाय परशुं तप्तं प्रतिगृह्णाति स न दह्यतेऽथ मुच्यते स यथा तत्र नादह्यतैतदात्म्यमिदं सर्वं स आत्मा तत्त्वमसि श्वेतकेतो” इति।
६२ तप्तमाषकोद्धरणन्यायः तप्तपरशुग्रहणन्थायविषयेऽस्य प्रवृत्तिः तप्तमाषकग्रहणमपि दिव्यभेदः। तत्रापि अतितप्ततैलादितः सौवणमाषकोद्धरणे शोध्यस्य करे स्फोटाद्यभावे शुद्धिः अन्यथा त्वशुद्धिः।
६३ तुष्यतु दुर्जन इति न्यायः यत्र प्रतिवाद्युक्तपक्षं दुष्टमपि वादिना प्रौढिवादेन अङ्गीकृत्यापि दूषणान्तरस्य दानं तत्रास्य प्रवृत्तिः।
६४ तृणजलौकान्यायः यथा जलौका तृणान्तरमवलम्ब्यैव पूर्वमाश्रितं तृणं त्यजति तथा जीवः स्वाविद्याकामकर्मवासमादिभिर्देहान्तरमुत्पाद्यैव पूर्वं देहं त्यजतीति विवक्षायामस्य प्रवृत्तिः।
६५ तृणारणिमणिन्यायः तार्णवह्निं प्रति तृणस्य, आरणेत्र वर्ह्नि प्रति अरणेः मणिजन्यवह्निं प्रतिमणेश्च कारणत्वं न तु वह्नित्वावच्छिन्नं प्रति तृणादेः कारणत्वं परस्परव्यभिचारात्। एवं यत्र कार्य्यकारणभावबाहुल्यं कार्यतावच्छेदकं कारणतावच्छेदकञ्च नाता तत्रास्य प्रवृत्तिः।
६६ दग्धपत्रन्यायः पत्रस्य दग्धत्वेऽपि यथा पूर्वाकारेणावस्थानं गृह्यते एवं यत्र वस्तुनो दाहेऽपि तदाकारप्रतीतिस्तत्रास्य प्रवृत्तिः एवं दग्धपटन्यायोऽप्येवं विषयः।
६७ दग्धवोजन्यायः दग्धस्य वीजस्य यथा नाङ्गुरोत्पादकता एवमविवेकनाशे न ससारवृक्षपरोह इत्येवं यत्र विवक्षा तत्रास्य प्रवृत्तिः।
६८ दण्डचक्रन्यायः दण्डचक्रसूत्रसलिलादेर्यथा घटत्वाद्येकधर्मावच्छिन्नं प्रति कारणत्वमेवं विवक्षायामस्य प्रवृत्तिः।
६९ दण्डापूपन्यायः दण्डस्याखुना भक्षणे प्रतीते तत्संलग्नापूपस्य भक्षणमर्थात् यथा प्रतीयते एवं यत्र दुष्करे कस्मिंश्चिदर्थे कृतऽन्यस्य सुकरस्य कृतत्वमर्थात् सिद्धं प्रतीयते इत्यस्य विवक्षायामस्य प्रवृत्तिः।
७० देवदत्तापुत्रन्यायः पुत्रस्य मातापितृसम्बन्धित्वेऽपि मातुः प्राधान्यविवक्षायां यथा देवदत्तापुत्र इत्युच्यते तथाऽन्यत्र यत्र भातुः प्राधान्यविवक्षा तत्रास्य प्रवृत्तिः। पितुः प्राधान्ये देवदत्तपुत्र इति व्यपदेशः। अतएव यजुर्वेदवंशकीर्त्तने स्त्रीप्राधान्येनैव निर्देशो यथा “अथ वंशः तदिदं वयं भारद्वाजीपुत्राद्भारद्वाजीपुत्रो वात्सीमाण्डवी पुत्राद्वात्सीमाण्डवीपुत्रः इत्यादि” शत० ब्रा० १४। ९। ४। ३०।
७१ धटारोहणन्यायः धटारोहणं तुलारोहणं दिव्यभेदः। तत्र सत्याभिसन्धस्य शुद्धिः मिथ्याभिसन्धस्याशुद्धिः तथा हि “तुलितो यदि बर्द्धेत स शुद्धः स्यान्न मंशयः। समावा हीयमानो वा न विशुद्धो भवन्नरः” इत्युक्तदिशा शुद्ध्यशुद्धी ज्ञेये। एवं यत्र विवक्षा तत्रास्य प्रवृत्तिः।
७२ धर्माधर्मग्रहणन्यायः धर्माधर्ममूर्त्तिग्रहणरूपदिव्ये सत्याभिसन्धस्य यथा धर्ममूर्त्तिग्रहणं मिथ्याभिसन्धस्याधर्ममूत्तिग्रहणम् ताभ्यां च जयपराजयौ यथा भवतः। एवं यत्र विवक्षा तत्रास्य प्रवृत्तिः। तच्च दिव्यं पितामहेनोक्तं यथा “राजतं कारयेत् धर्ममधर्मं सीसकायसम्। लिखद्भूर्जे पटे वापि धर्माधर्मौ सितासितौ। अभ्युक्ष्य षञ्चगव्येन गन्धमाल्यैः सभर्चयेत्। सितपुष्पस्तु धर्मः स्यादधर्माऽसितपुष्पभृत्। एवंविधावथालेख्य पिण्डयोस्तौ निधापयेत्। गोमयेन मृदा वापि पिण्डौ कार्यौ समन्वतः। मृद्भाण्डकेऽनुपहते स्थाप्यौ चानुपलक्षितौ। उपलिप्ते शुचौ देशे देवब्राह्मणसन्निधौ। आवाहयेत् ततो देवाल्ला~कपाला~श्च पूर्ववत्। धर्मावाहनपूर्वं तु प्रतिज्ञापत्रकं ततः। यदि पापविमुक्तोऽहं धर्मस्त्वायातु मे करे” “अभियुक्तस्तयोश्चैकं प्रगृह्णीताविलम्बितः। धर्मे गृहीते शुद्धिः स्यादधर्ने तु स हीयते”।
७३ नष्टाश्वदग्धरथन्यायः इत्थं लोकप्रसिद्धिः द्वौ हि रयिनौ कञ्चिद्ग्रामं प्रविश्य रथाभ्यामवतीर्य्याश्वा~श्च मोचयित्वा खष्ट्वायां निविष्टौ दैवेन तदानीं दन्दह्यमाने तस्मिन् ग्रामे तयोरेकः पश्चादश्वान्निःसारमिष्यामीति धिया रथमादौ निःसारितवान् अपरस्त्वश्वान्, तावता तस्मिन्स्थले दग्धे एकस्याश्वानष्ठा द्वितीयस्य रथोदग्धः तौ चान्योन्यापेक्षया एकं रथं कृत्वा यथेष्टदेशं यथा प्रजग्मतुस्तथार्थवादविधिवाक्ये प्रधानाङ्गवाक्ये चेतरेतराकाङ्क्षयैकवाक्यतां प्राप्य प्रवृत्त्यादिकं जनयतः।
७४ न हि करकङ्कणदर्शनायादर्शापेक्षेति न्यायः यथा प्रत्यक्षयोग्यं करेस्थितं कङ्कणं प्रत्यक्षेणैव गृह्यते न तद्दर्शनायादर्शापेक्षा एवं प्रत्यक्षसामग्रीसत्त्वे तयैव पदार्थप्रतीतिर्नानुमित्यादिसामग्र्यपेक्षेति विवक्षायामस्य प्रवृत्तिः “न हि करिणि दृष्टे चीत्कारेण तमनुमिमतेऽनुमातारः” वाचस्पत्युक्तमेतन्यायमूलकम्। अनुमित्सायां तु तदपेक्षा “प्रत्यक्षपरिकलितमप्यर्थमनुमानेन बुभुत्सन्ते तर्करसिकाः” इति वाचस्पत्युक्तेः।
७५ न हि त्रिपुत्रोद्विपुत्रः कथ्यते इति न्यायः त्रित्वस्य द्वित्वव्यापककत्वेऽपि वाक्यस्य सावधारणत्वात् पुत्रत्रयवतः पुत्रद्वयवत्त्वेऽपि न तस्य द्विपुत्रशब्दवाच्यता न्यूनसख्या व्यवच्छेदकत्वेन त्रिशब्दस्य न यथा द्विपुत्रवाचकतेत्येवं यत्र विवक्षा तत्रास्य प्रवृत्तिः।
७६ न हि दृष्टेऽनुपपन्नं नामेति न्यायः न प्रत्यक्षविषये प्रमाणान्तरान्वेषणमिति यत्र विबक्षा तत्रास्य प्रवृत्तिः तथा हि प्रत्यक्षस्य सर्वप्रमाणबाधकत्वात् अनुपपत्तेरर्थापत्तिरूपतया व्यभिरेकानुमितिरूपतया वा प्रत्यक्षेण बाध्यत्वात् प्रत्यक्षविषये विरोधिन्या अनुपपत्तेर्नसम्भवः।
७७ नहि निन्दा निन्द्यं निन्दितुं प्रवर्त्तते किन्तु विधेयं स्तोतुमिति न्यायः निन्दार्थवादस्य तदितरत्र प्राशस्त्यविधानार्थमेव प्रवृत्तिर्न तु तस्य निन्दार्थं निन्दायां प्रयोजनाभावादित्येवं मीमांसायां लोके च प्रसिद्धम्।
७८ निम्नगाप्रवाहन्यायः नदीप्रवाहो हि यां दिशं स्वभावतो गच्छति ततोऽन्यत्र तस्य नयने महाप्रयासेऽपि न सम्भव एवं जन्मान्तरीयसंस्कारवशाद्यस्मिन्नीशविग्रहे ध्यान्याद्यात्मकचिवृत्तिप्रवाहस्ततोऽन्यत्र नयने महायत्नस्यापि वैफल्यम् इत्येवं बिवक्षायामस्य प्रवृत्तिः
७९ नृपनापितन्यायः इत्थं हि लौकिकी गाथा कस्यचिन्नृपस्य भृत्यो नापितः कश्चित्, प्रातः समस्तनगरमन्विष्यातिरमणीयतमो बालो मे दर्शनाय त्वयाऽऽनेतव्य इति, नृपेणाज्ञप्नः प्रातरुत्थाय सर्वं पुरमन्विष्य दृष्ट्वापि च तत्र तत्रातिरमणीयतमान्वालान् स्वपुत्रतुल्यानमत्वा तमेव राजवेश्मनि नीत्वा निवेदयामास स्वामिन्नानीतोऽयं द्वितीय इव रतिपतिरतिमनोज्ञाकृतिर्बाल इति राजा च तमुपशान्तानलाङ्गाराभं खल्वाटकाणं स्थूललम्बोदरं कृशह्रस्वबाहुजङ्घमालोक्य उपहासमयं मे खलु कृतवानिति मत्वा चुकोप उवाच च अरे जाल्म किमिदमुपहसनं क्रयते इति। नापितश्च कूपितं नृपं ज्ञात्वा कृताञ्जलिर्भूत्वोवाच राजेन्द्रमौले! तव चरणमुपालभे नायमुपहासः किन्तु मे मनसीत्थमेव निश्चयो नास्त्येतादृशस्त्रिलोक्यां तव पुर्य्यां तु का कथेति राजा च सत्यमेतादृश्येव स्नेहातिशयवशंवदस्य चित्तस्य दशेति मत्वा कोपं तत्याजेति। तथा च यथाऽतिकुरूपेऽपि पुत्रे रागातिशयवशान्नापितस्य सर्वोतमत्वधीस्तथा भन्दधियां केषाञ्चिज्जन्मान्तरीयसंस्कारप्रयुक्तरागातिशयवशात् कणिश्चिदतिक्षुद्रेऽपि देवे सर्वोत्तमत्वधीः परित्यज्य च हरिहरादींस्तदुपासने प्रवृत्तिरित्येवं विषयेऽस्य प्रवृत्तिः
८० पङ्कप्रक्षालनन्यायः “प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्” इत्युक्तदिशा पङ्कलेपने प्रक्षालनमपेक्ष्य पङ्कस्पर्शनमेव न कर्त्तव्यमिति लोकप्रसिद्धिवदन्यत्रापि अनिष्टसाथनस्य कारणान्तरेण निवारणमपेक्ष्य अनिष्टसाधनमेव न कर्त्तव्यमिति यत्र विवक्षा तत्रास्य प्रवृत्तिः।
८१ पञ्जरचालनन्यायः यथा दशभिः पञ्जरस्थपक्षिभिः स्वस्वयत्नैरेकां पञ्जरे क्रियामुत्प द्य तस्य चालनं तिर्य्य गूर्द्ध्वनयनं च क्रियते तथा दशभिरिन्द्रियैरेकां प्राणनरूपां क्रियामुत्पाद्य देहचालनं क्रियते इति सांख्ये स्थितम्।
८२ पञ्जरमुक्तपक्षिन्यायः पञ्जरस्था विहगामुक्ता यथेष्टमुत्प्लुत्य यथा देशान्तरं गच्छन्ति तथा जीवः बन्धनान्मुक्त ऊर्द्ध्वाकाशे तिष्ठतीति जैनमते स्थितम्।
८३ पाषाणेष्टकान्यायः यथा तूलादपेक्षया कठिनाया अपि इष्टकायाः पाषाणापेक्षयामृदुत्वम् एवं यत्र विवक्षा तत्रास्य प्रवृत्तिः।
८४ पिष्टपेषणन्यायः पिष्टस्य पुनःपेषणं यथा निरर्थकम् एवं कृतस्य करणं वृथेति विवक्षायामस्य प्रवृत्तिः। तथाचोक्तं “कृतस्य करणं नास्तीति”।
८५ पुत्रलिप्सया देवं भजन्त्या भर्त्तापि नष्ट इति न्यायः अभीष्टान्तराशया व्यापारवतस्तन्मूलं यत्र नश्यति तत्रास्य प्रवृत्तिः तथा च वृद्धिमिष्टवतोमूलं विनष्टमिति न्यायविषयेऽस्य प्रवृत्तिः।
८६ प्रपाणकन्यायः सितादिनानाद्रव्यैर्मिलितैर्यथा एकोऽद्भुतरसोनिष्पाद्यते तथा यत्र अनेकसाधनैश्चित्ररूपः पदार्थो जायते तत्रास्य प्रवृत्तिः। यथा विभावानुभावादिभिः शृङ्गारादिरसाभिव्यक्तिः एवमन्यत्रापि!
८७ पासादवासिन्यायः एक एव देवदत्तः प्रासादस्योपर्य्यधस्ताच्च कालभेदेन वसन्नषि प्रासादवासप्राधान्ये प्रासादवासीत्युच्यते तथाऽन्यस्य प्राधान्यधर्मेण व्यपदेश विवक्षायामस्य प्रवृत्तिः।
८८ फलवत्सहकारन्यायः यथातिमधुरपक्वफलनमिनशाखोऽतिसौरभ आम्रवृक्षः स्वमुपसन्नं छायार्थिनं जनं फलं परिमल चाप्रार्थितमपि ददातीति तथा विवक्षायामस्य प्रवृत्तिः।
८९ वहुराजपुरन्यायः एकस्मिन् पुरे यदा वहवो राजानस्तदा तेषामैकमत्याभावेन यथा प्रजानां क्लेशस्तथा एकस्मिन् देहे नानेन्द्रियाणां कर्तृत्वे स्वीकृते मिथोविरोधान्नैकमपि सिध्येत्। तथा हि यदा चक्षुर्दशैनाय प्रवर्त्त मानं भवति तदा अन्यानि च इन्दियाणि स्वस्वक्रियानिर्वाहोद्यतानि भवन्ति चेत्तदा दर्शनादि नैकमपि न जायते एवं विवक्षायामस्य प्रचारः।
९० बहुवृकाकृष्टमृगन्यायः यथा तुल्यबलैः वहुभिर्वृकैराकृष्टस्य मृगस्य न नियतैकत्र स्थितिरेवं यत्र बहूनां परस्परविरोधस्तत्र नैकस्य स्थिरतेत्येवं विषयेऽस्य प्रवृत्तिः।
९१ बहूनामनुग्रहोनाय्य इति न्यायः अनुग्रहः साहार्य्य न्याय्यः न्यायान्नीतेरनपेतोऽर्थस्ततदुपेतः कार्य्यसाधक इति यावत् यथाहुः “बहूनामप्यसाराणां मेलनं कार्य्यसाधकम्। तृणैः संपाद्यते रज्जुस्तया नागोऽपि बध्यते” इति तथा विवक्षायामस्य प्रवृत्तिः।
९२ बिलवर्त्तिगोधान्यायः बिले गर्त्ते वर्त्तमानायाः गोधाया विभजनं विभाजकधर्मेण निर्देशो यथा न सम्भवति तस्य अदृष्टत्वादेवमज्ञातपरसिद्धान्तस्य तद्दूषणाय प्रवृत्तिर्भवतीत्येवं विवक्षायामस्य प्रवृत्तिः।
९३ ब्राह्मणग्रामन्यायः यथा ग्रामे अन्येषु वर्णेषु वसत्स्वषि ब्राह्माणानां बाहुल्ये ब्राह्मणग्राम इत्युच्यते एवं विवाक्षायामस्य प्रवृत्तिः। एवं मल्लग्रामन्यायादयोऽपि प्राधान्यविवक्षायां “प्रधान्येन व्यपदेशा भवन्तीति” न्यायविषये प्रवर्त्तन्ते
९४ ब्राह्मणश्रमणन्यायः श्रमणो वौद्धयतिः तस्याशास्त्रीयविधिना त्यक्तशिखासूत्रकच्छादेस्त्यक्तनित्यादिकर्मणश्च तदानीं ब्राह्मणत्वाभावेऽपि यथाभूतपूर्वेण ब्राह्मणत्वेन निर्देशस्तथा यत्र भूतपूर्वगत्या निर्देशस्तत्रास्य प्रवृत्तिः।
९५ भिक्षुपादप्रसारणन्यायः यथा कश्चिद्भिक्षुर्यथेष्टभोजनाच्छादनवासगृहादिलाभार्थं कस्यचिद्धनिनो गृहे प्रविश्य युगवत् सर्वाभीष्टालाभं मन्यमानः प्रथमं धनिगृहे मे पादप्रसारणमस्तु पश्चादनेन परिचयमुत्पाद्य सर्वं स्वाभीष्टं संपादयिष्यामीति धिया स्वल्पामपि भिक्षां बहु मन्यमानः पश्चात् क्रमेण स्वाभीष्टं सम्पादयति एवं यत्र विवक्षा तत्रास्य प्रवृत्तिः।
९६ मज्जनोन्मज्जनन्यायः यथा नद्यादौ पतितः सन्तरणानमिज्ञः कदाचिन्मज्जति कदाचिदुन्मज्जति। एवं दुष्टवादिना स्वपक्षसमर्थनाय यतमानेन प्रवलयुक्तिमनासाद्य क्लिश्यते इति यत्र विवक्षा तत्रास्य प्रवृत्तिः।
९७ मणिमन्त्रन्यायः मणिमन्त्रादीनां वह्नेर्दाहं प्रति यथा स्वातन्त्र्येण प्रतिवन्धकत्वम् लोकसिद्धम् न च तत्र युक्त्यपेक्षा एवं कामिनीजिज्ञासाया अपि ज्ञानमात्रं प्रतिप्रतिबन्धकत्वमित्येवं यत्र पृथक् प्रतिबन्धकत्वं तत्रास्य प्रवृत्तिः।
९८ मण्डूकतोलनन्यायः केनचित् कापटिकषणिजा स्वाभीष्टमानपूरणार्थं मण्डूकेषु मेयद्रव्यसहकारेण तुलामारोपितेषु मध्ये कतिचिदुत्प्लुतत्य यदा पलायन्ते तदा तस्य यथा कपटव्यक्तिर्भवति एवं यत्र विवक्षा तत्रास्य प्रवृत्तिः।
९९ मरणाद्वरं व्याधिरितिन्यायः वरमिति सामान्येन क्लीवम। अत्यन्तदुःखजनकविषयोपस्थितौ यथा तदपेक्षयाऽल्पदुःखजनकस्वीकारो तथा विवक्षायामस्य प्रवृत्तिः। अत्रैव विषये “मारणाय गृहीतोऽङ्गच्छेदं स्वीकरोतीति, न्यायोऽपि प्रवर्त्तते “सर्वनाशे समुत्पन्ने अर्द्धं त्यजति पण्डितः” इति सर्वजनीनप्रसिद्धेः।
१०० मुञ्जादिषोकोद्धरणन्यायः मुञ्जादेतन्नामकतृणविशेषादिपीका गर्भस्थं कोमलं तृणम्। वहिरावरकतया स्थि- तानां स्थ्लतृणानां मुञ्जाख्यानां विभजनेन यथेषीका समुद्ध्रियते तथा यत्र विवक्षा तत्रास्य प्रचारः।
१०१ यत्कृतकं तदनित्यमिति न्यायः कृतकं कार्यं जन्यभाव इति यावत् तथा च कार्य्यभावस्य उत्पत्तेः प्रागसत्त्वेन प्रागभावप्रतियोगित्वात् न प्रागभावाप्रतियोगित्वघटितनित्यत्वम्। ध्वंसस्य प्रागभावप्रतियोगित्वेऽपि भावत्वाभावात् न व्यभिचार इति तार्किकाः। वेदान्तिमते तु ध्वंसस्यापि नाशाभ्युपगमेन न भावत्वं विशेषणीयमिति भेदः।
१०२ यत्रोभयोः समोदोषो न तत्रैकोऽनुयोज्य इति न्यायः वादिप्रतिवादिभ्यां न्यस्तपक्षयोर्यत्र तुल्योदोषो न तत्र एकः पर्य्यनुयोज्यः स्वपक्षेऽपि तद्दोषसत्त्वात् इत्येवं यत्र विवक्षा तत्रास्य प्रवृत्तिः “यत्रोभयोः समोदोषः परिहारोऽपि वा समः। नैकः पर्य्यनुयोक्तव्यस्तादृशार्थविचारणे” इति सां० प्र० भा० धृतवाक्यम्।
१०३ यद्विशेषयाः कार्यकारणभावोऽसति वाधके तत्सामान्ययोरपीति न्यायः यथा तार्किकाणां घटत्वकुलालकृतित्वादिना कार्यकारणभावे सिद्धे कार्य्यत्वेन कृतित्वे न च कार्यकारणभावः नतु कुलालकृतेर्जातित्वेन द्रव्यत्वेन घटादिकं प्रति कारणत्वं तथात्वे तयोरन्यथासिद्धत्वेनाकारणत्वं स्यात् कारणतां प्रति अन्यथासिद्धेर्बाधकत्वात् अतएव न द्रव्यत्वेन दण्डादेर्घटादिं प्रति, कारणत्वं नापीन्द्रियत्वेन प्रत्यक्षत्वावच्छिन्नं प्रति, इन्द्रियत्वस्यैकस्याभावदिति”
१०४ यादृशं मुखं तादृशी चपेटेति न्यायः तुल्यरूपपरिहार विवक्षायामस्य प्रवृत्तिः।
१०५ यादृशो यक्षस्तादृशो वलिरिति न्यायः तुल्यरूपोपहार विवक्षायामस्य प्रवृत्तिः।
१०६ येनोक्रम्यते येन चोपसंह्रियते स वाक्यार्थ इति न्यायः यथा गिरिरग्निमान् इति प्रतिज्ञावाक्येन पवतस्यैवोपक्रमः तस्माद्वह्निवानिति निगमनवाक्येऽपि गिरेरेव वह्निमत्त्वेन बोधात् सएव वाक्यार्थएवमन्यत्रापि।
१०७ योजनप्राप्यायां कावेर्य्यां मल्वबन्धनमिति न्यायः कावेरी नदीविशेषः मल्लः कैवर्त्तभेदस्तद्वेशः वस्त्रभेदस्य बन्धनं यद्वा मल्लो बाहुयुद्धकुशलस्तद्वद्बन्धोलम्बितवाससां कटौ बन्धनं मल्लबन्धनं तच्च नदीतारणाय कार्यमिति लोकप्रसिद्धम्। तद्यथा योजनमार्गेण प्राप्यायां तस्यामयुक्तं तथा यत्र विवक्षा तत्रास्य प्रचारः।
१०८ रक्तपटन्यायः यदा तु निराकाङ्क्षेऽपि वाक्ये आकाङ्क्षा- मुत्थाप्यैकवाक्यता क्रियते तदा रक्तपटन्यायप्रवृत्तिः यथा पटोऽस्तीति वाक्यस्य निराकाङ्क्षस्यापि कीदृश इत्याकाङ्क्षामुत्थाप्य रक्त इत्यनेनैकवाक्यता क्रियते तथा प्रकृतीनां दर्शपूर्णमासादीनां स्वपकरणस्थाङ्गैर्निवृत्तोपकाराकाङ्क्षाणामनारभ्याधीताङ्गैः, विकृतीनां चातिदिष्टाङ्गैः परिपूर्णानां शरमयादिभिः सहोत्थिताकाङ्क्षाविरहेऽप्युत्थापिताकाङ्क्षयान्वय इत्येवं विषयेऽस्य प्रचारः।
१०९ राजपुरप्रवेशन्यायः विशृङ्खलतया राजपुरप्रवेशे राजपुररक्षकैस्ताडनादिकं क्रियेतेतिभिया श्रेणीभूततया यथा तत्पुरप्रवेश एवं सुशृङ्खलतया यत्र कार्यकरणस्य विवक्षा तत्रास्य प्रवृत्तिः।
११० लक्षणप्रमाणाभ्यां हि वस्तुसिद्धिरिति न्यायः सजातीय विजातीयव्यावर्त्तको लक्ष्यवस्तुगतः कश्चिल्लौके वेदे वा प्रसिद्धो धर्मः लक्षणं तेन लक्ष्ये वस्तुनि सम्भावनायां जातायां प्रमातुमुद्युक्तः प्रमाणेन तदवगच्छति यथा ताभ्यां वस्तुसिद्धिस्तत्तद्व्यवहारयोग्यतया ज्ञानं, तथा च यथा गन्धवत्त्वादिलक्षणेन प्रत्यक्षादिप्रमाणेन च पृथिव्यादिसिद्धिस्तथा यत्र विवक्षा तत्रास्य प्रवृत्तिः।
१११ लूतातन्तुन्यायः लूता कीटविशेषः सा यथा स्वदेहात् तन्तून् निर्माति संहरति च स्वदेहे, यथा च तस्याः स्वतः तन्तुनिर्माणे स्वतः निमित्तकारणत्वरूपकर्तृत्वं, स्वदेहापेक्षया उपादानकारणत्वम् एवं ब्रह्मणः जगतां स्वतः कर्तृत्वं, स्वशक्तिमायाद्वारा उपादानत्वं च एवञ्च जगत् स्वशक्त्या निर्माति स्वशक्तौ संहरति च इत्येवं विंवक्षायामस्य प्रवृत्तिः।
११२ लोष्टलगुडन्यायः लोष्टस्य उपमर्दकः लगुडो यथा, तथा उपमर्द्योपमर्दकयोः साचिष्यविवक्षायामस्य प्रवृत्तिः।
११३ लोहचुम्बकन्यायः चुम्बकः मणिभेदः स यथा निष्क्रियोऽपि सन्निधिमात्रेण लौहस्याकर्षकः तत्क्रियाहेतुश्च भवति एवमसङ्गस्याकर्तुरपि पुरुषस्य प्रकृत्यादिक्रियाप्रवर्त्तकत्वमित्यादि यत्र विवक्षा तत्रास्य प्रवृत्तिः।
११४ वरगोष्ठीन्यायः गोष्ठी बधूवरपक्षयोः अन्योन्यवार्त्ता वरस्य वरलाभाय गोष्ठी वरगोष्ठो वरबधूवन्धूनामन्योन्यगोष्ठी तया ऐकमत्ये सति वरलाभरूपमेकं कार्यं यथा निष्पाद्यते एवं यत्र विवक्षा तत्रास्य प्रवृत्तिः।
११५ वरघाताय कन्यावरणमिति न्यायः विषकन्यायां वृतायां यत्र वरस्य घातः सम्भाव्यते तत्र तां नोद्वहेत् एवं विवक्षायामस्य प्रवृत्तिः। तथा च अनिष्ठान्तरपातादिसम्भा- वनायाम् अभीष्टहेतुरपि वस्तु न वरणीयमित्येवं तन्न्याय तात्पर्य्यम्। अयमेव न्यायः क्वचित् “नहि वरघाताय कन्यामुद्वाहयतीति” न्यायतया पठ्यते।
११६ वह्निधूमन्यायः धूमरूपकार्यदर्शनात् यथा कारणरूप वह्नेरनुमानं तथा यत्र कार्यलिङ्गेन कारणानुमानं तत्रास्य प्रवृत्तिः।
११७ विल्लखल्लाटन्यायः अयं न्यायः श्लोकेनाभियुक्तैर्निबद्धो यथा “खल्वाटो दिवसेश्वरस्य किरणैः सन्तापितो मस्तके वाञ्छन् देशमनातपं विधिवशाद्विल्वस्य मूलङ्गतः। तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः प्रायोगच्छति यत्र भाग्यरहितस्तत्रापदां भाजनमिति”। तथा च इष्टान्तरं समीहमानस्याभीष्टप्राप्तिर्दूरतःप्रत्युतानिष्टप्राप्तिरित्येवं यत्र विवक्षा तत्रास्य प्रवृत्तिः।
११८ विशेष्ये विशेषणं तत्रापि च विशेषणमिति न्यायः भूतलं जलवद्घटवदित्यादौ भूतले घटोविशेषणं स च भूतलांशे विशेषणमितिरोत्या यत्र भासते तत्रास्य प्रवृत्तिः।
११९ विषभक्षणत्यायः विषभक्षणं दिव्यभेदः। तस्य यथा सत्याभिसन्धस्यानिष्टामुत्पादकत्वम् मिथ्याभिसन्धस्यानिष्टहेतुत्वमेवं यत्र विवक्षा तत्रास्य प्रवृत्तिः। तत्वकारमाह नारदः “दद्याद्विषं सोपबासो देवब्राह्मसन्निधौ। घूपोपहारमन्त्रैश्च पूजयित्वा महेश्वरम्। द्विजानां सन्निधावेव दक्षिणाभिमुखे स्थिते। उदङ्तुखः प्राङ्मुखो वा विषं दद्यात् समाहितः” इति। विषञ्च वत्सानाभादि ग्राह्यम् “शृङ्गिणो दृत्सनाभस्य हिमजस्य विषस्य च” इति पितामहस्मृतेः। शुद्धत्वाशुद्धत्वपरीक्षा तु याज्ञवल्क्येनोक्ता “यस्य वेगैर्विना जीर्येच्छुद्धिं तस्य विनिर्दिशेत्” इति। विषवेगो नाम धातोर्धात्वन्तरप्राप्तिः “धातोर्धात्वन्तरं प्राप्तिर्विषवेग इति स्मृतः” इति वचनात् तेषां लक्षणानि तु विषतन्त्राद्बोध्यानि। “पूर्वाह्णे शीतले देशे विषं देयं तु देहिनाम्। घृतेन योजितं श्लक्ष्णं पिष्टं त्रिंशद्गुणान्वितम्” इति पितामहोक्तमितं देयम्। तथा च एबं विषे पीते यावत्करतालिकाशतपञ्चकं तावत्कालः प्रतीक्षणीयः अनन्तरं चिकित्सनीयः “पञ्चतालशतं कालं निर्विकारो यदा भवेत्। तदा भवति संशुद्धस्ततः कुर्य्यात् चिकित्सितम्” इति वचनात् यदा तु सविकारस्तदाऽशुद्ध इत्यर्थात् सिद्धम्।
१२० विषवृक्षन्यायः अन्थोवृक्षस्तावदास्तां विषस्य वृक्षोऽपि कुतश्चित्कारणात् सम्यग्बर्द्धयित्वा स्वयं छेतुमनर्हः इति न्यायार्थः एवं स्वार्जितस्यानिकृष्टस्यापि स्वयंनाशननयुक्तमिति विवक्षायामस्य प्रवृत्तिः।
१२१ वीचितरङ्गन्यायः यथा वीच्यान्तरङ्गान्तरमुत्पद्यते तेन च पुनस्तरङ्गाररित्येवं यत्र परम्परया उत्पत्तिस्तत्रास्य प्रवृत्तिः “वीचितरङ्गन्यायेन तदुत्पत्तिस्तु कीर्त्तिता” भाषा० “प्रथमशब्देन बहिर्दिगवच्छिन्नोऽन्यः शब्दस्तेनैव चान्यः शब्दो जन्यते तेन चान्यस्तद्व्यापकः एवं क्रमेण श्रोत्रोत्पन्नो गृह्यते” सि० मुक्ता०।
१२२ वीजाङ्कुरन्यायः वीजं विना नाङ्कुरो जायते अङ्कुरं विना च न वीजोत्पत्तिः इत्येवं यत्र परस्परकार्य्यकारणभावस्तत्रायं न्यायः प्रवर्त्तते तथा च वीजजातीयं प्रति अङ्कुरजातीयं, अङ्कुरजातीयं प्रति च बीजजातीयं कार णमतो वीजाङ्कुरप्रवाहोऽनादिः तथा च यद्वीजं प्रति यदङ्कुरस्य कारणत्वं तदङ्कुरं प्रति तद्वीजस्य न कारणत्वमतो नान्योल्य श्रयः एष च प्रामाणिकत्वात् गृह्यते यत्र च न प्रामाणिकत्व तत्र नानादित्वकल्पनेति प्रामाणिकप्रवाहस्यैवानादित्वकल्पना नान्यस्येति सिद्धान्तात् सूचितं च तथा शा० भा० यथा “तत्कृतधर्माधर्मनिमित्तं सशरीरत्वमिति चेत् न शरीरसम्बन्धस्यासिद्धत्वाद्धर्माधर्मयोरात्मकृतत्वासिद्धेः। शरीरसम्बन्धस्य धर्माधर्मयोस्तत्कृतत्वस्य चेतरेतराश्रयत्वप्रसङ्गादन्धपरम्परैवैषा अनादित्वकल्पना” भा० “आत्मनः शरीरसम्बन्धे जाते धर्माधर्मोत्पत्तिः तस्यां च सत्यां सम्बन्धरूपजन्मेत्यन्योन्याश्रयादेकस्यासिद्ध्या द्वितीयस्यासिद्धिः स्यादिति परिहरति नेत्यादिना नन्वेतद्देहजन्यधर्माधर्मकर्मण एतद्देहसम्बन्धहेतुत्वे स्यादन्योन्याश्रयः पूर्वदेहकर्मण एतद्देहसम्बन्धोत्पत्तिः, पूर्वदेहश्च तत्पूर्वदेहकर्मणः तद्देहसम्बन्धोत्पत्तिः, तत्पूर्वदेहश्च तत्पूर्वदेहकृतकर्मण इति वीजाङ्कुरवदनादित्वान्नायं दोष इत्यत आह अन्धेति अप्रमाणिकीत्यर्थ। न हि वीजादङ्कुरः ततो वीजान्तरञ्च यथा प्रत्यक्षेण दृश्यते तथात्मनो देहसम्बन्धः पूर्वकर्मकृतः प्रत्यक्षः नाप्यस्ति कश्चिदागमः प्रत्युतासङ्गो हीत्यादि श्रुतिः सर्वकर्तृत्वं वारयतीति भावः” आनन्दगिरिणा।
१२३ वृक्षप्रकम्पनन्यायः यथा वृक्षमारूडः अधःस्थेन केनचिद नरेण प्रथममिय शाखा प्रकत्प्रयितव्या अन्येन च प्रथममिय शाखा प्रकम्बयितव्येति भिन्नगिन्नशाखा प्रकम्पने नियोजितस्तदधःस्थेनैव केनचित् सर्ववृक्षप्रकम्पने नियोजितः सन् सर्वैः प्रथमशाखाविशेषप्रकम्पनस्याज्ञप्तत्वेन यौगपद्यस्यासम्भवेन क्रमविकल्पोपगमेऽपि सर्वाविरोधासिद्धेः तच्चिकीर्षया सर्वं वृक्षं प्रकम्पयति तत्प्रकम्पनेन हि सर्वाः शाखा अपि प्रकम्पिताः स्युरिति भवति सर्वैरविरोधः एवं यत्र सर्वाविरोधेनाचरणं तत्रास्य प्रवृत्तिः।
१२४ वृद्धकुमारीवाक्यन्यायः अयं न्यायो महाभाष्ये व्याख्यातः “तद्यथा वृद्धकुमारी इन्द्रेणोक्ता वरं वृणीष्वेति सा च वरमवृणीत पुत्रा मे बहुक्षीरघृतमोदनं काञ्चन पात्र्यां भुञ्जीरन्निति न च तावटस्याः पतिर्भवति कुतः पुत्राः कुतो गावः कुतो धान्यादिकं तत्रानया एकेन वाक्येन पतिः पुत्रा गावो धान्यं हिरण्यञ्चेति सर्वं संगृहीतं भवतीति तथा तत्तदुपासनया मोक्षप्रतिपादकवाक्यैरपि चित्तशमादिश्रवणादिसाधनसहिततत्त्वज्ञानं च यदन्तरेण मोक्षासिद्धिस्तत्सर्वं संगृहीतं भवतीति एवमेकवाक्यैर्यत्र नानार्थप्रतिपादनं तत्रास्य प्रवृत्तिः अयं च वृद्धमारीवरन्यायः इति क्वचित् पठ्यते।
१२५ वृद्धिमिष्टवतो मूलमपि विनष्टमिति न्यायः वृद्धिर्धनप्रयोगे अधर्मर्णात् प्राप्यांशभेदलाभः तामिष्टवतः उत्तमर्णस्य अधमर्णदौष्ट्यात् यथा मूलं नश्यति एवं यत्र अभीष्टान्तरमम्पादानाय प्रयतमानस्य मूलं नश्यति तत्रास्य प्रवृत्तिः।
१२६ शङ्खवेलान्यायः वेलाविशेषे शङ्खध्वनिविशेषः यत्र नियमितः तत्र शङ्खध्वनिना वेलाविशेषज्ञानं यथा जायते तथा यत्र विवक्षा तत्रास्य प्रवृत्तिः। यथा चैत्रोत्तरं वैशाखः वैशाखोत्तरं ज्यैष्ठ इति क्रमविशेषज्ञानं शङ्खवेलान्यायादिति म० त० रघु०।
१२७ शतपत्रपत्रभेदनन्यायः यथा सूच्या शतपत्रभेदने कालयौगपद्यप्रतीतिर्भ्रमः तथा हि प्रथमक्षणे सूचीक्रियया तस्याः पत्रेण संयोगः द्वितीये षत्रावयवयोः क्रिया तृतीये तयोर्विभागः तुरीये आरम्भसंवोगनाशः पञ्चमे पत्रनाश इति प्रतिपत्रभेदने बहुक्षणविलम्वस्य युक्तिसिद्धत्वात् तथा दीर्घशष्कुल्यादिभक्षणादौ रांसनादिज्ञानानां यौगपद्यप्रतीतिर्भ्रम इति एवं क्रमण जायमानायां यौगपद्यभ्रमो यत्र विवक्ष्यते तत्रास्य प्रवृत्तिः।
१२८ शते पञ्चाशदिति न्यायः व्यापकशतसंख्यायां यथा व्याप्यपञ्चाशत्संख्या निविष्टा एवं यत्र व्यापके व्याप्यस्य निवेशस्तत्रास्य प्रवृत्तिः।
१२९ शालिसम्पत्तौ कोद्रवाशनन्यायः शालिः उत्तमधान्यभेदः कोद्रवः अधमधान्यभेदः उत्तमवस्तुसद्भावे यत्राधमवस्तुसेवनं तत्रास्य प्रवृत्तिः।
१३० श्यामरक्तन्यायः घटादौ श्यामगुणनाशे यथा रक्तगुणोत्पत्तिरेवं यत्र पूर्वगुणनाशे अपरगुणसमावेशस्तत्रास्य प्रवृत्तिः।
१३१ श्यालशुनकन्यायः इत्थं लौकिक्याख्यायिका कश्चित्पुरुषः स्वगृहे वर्त्तमाने शुनि श्यालनामसङ्केतं कृतवान् सुग्धा च तद्भार्या तं भ्रातरं मन्यते स्म स च यदा तस्याः कोपोत्पादनाय तं श्वानं प्रति गालीर्ददाति स्म तदा सातिकोपपरीतात्मीयतयाऽतिदुःखवती बभूवेति तथा च स्वाभ्रातरि शुनके भ्रातृताभ्रान्तिमत्या भार्य्यायाः कोपोत्पादनाय भर्त्त्रा शुनकनिन्द्रा क्रियते तथात्यन्ताभिन्नेऽपि तत्तद्विग्रहावच्छिन्ने परमेश्वरे भेदभ्रमवतां कोपोत्पादनाय शास्त्रेण तदिष्टविग्रहावच्छिन्नपरमेश्वरनिन्दाव्याजेनेतरविग्रहावच्छिन्नेशस्तुतिः क्रियते इति केचित्। वस्तुतस्तु यथा श्यालगालिप्रदाने वक्तृतात्पर्य्याभावेऽपि श्यालैक्येन तात्पर्यभ्रमात्तस्याः कोपोत्पादस्तथा शास्त्रस्य ब्रह्मविष्ण्वाद्यपकर्षे तात्पर्य्यभावेऽपि तेषां सूत्रविराडादिनामसाम्येन तात्पर्य्यभ्रमवतां कोपादिः। इयांस्तु विशेषो यत्तस्य कुपितप्रियामुखावलोकनाय प्रवृत्तिः शास्त्रस्य तु मारणाय गृहीत इति न्यायेन कथञ्चिदैक्यबोधनायेति भेदः।
१२२ सन्दंशपतितन्यायः संदशः। (सा~डाशी) इति यस्य प्रसिद्धिः तेन स्वावयवयोर्मध्यपातिनः पदार्थस्य यथा ग्रहणम् एवं पूर्वोत्तरयोः पदार्थयोर्ग्रहणेन तन्मध्यस्थपदार्थस्य ग्रहणं यत्र विवक्ष्यते तत्रास्य प्रवृत्तिः।
१३३ सन्निहितादपि व्यवहितं साकाङ्क्षं बलीय इति न्यायः शाब्दबोधयोग्यतया साकाङ्क्षस्य स्वार्थान्वयबोध प्रयोजकतेति नियमेन तस्य चासत्तिक्रममनादृत्य अन्वययोग्य पदार्थवाचकशब्दस्य व्यवहितत्वेऽपि आसत्तिं पृकल्प्य यथा काव्यादावन्वयः एवं यत्रं साकाङ्क्षकत्वं तत्रैव तस्यान्वय इति यत्र विवक्षा तत्रास्य प्रवृत्ति।
१३४ सन्निहिते बुद्धिरन्तरङ्गमिति न्यायः सन्निकृष्टविप्रकृष्टयोर्यत्रोभयोरन्वयसम्भावना तत्र सन्निहितस्यैव आसत्ति बलादन्वयः न विप्रकृष्टस्येत्येवं विवक्षायामस्य प्रवृत्तिः।
१३५ समूहालम्बनन्यायः यत्र उपस्थितपदार्थानां विशेषणविशेष्यभावेनान्वयासम्भवः तत्र उपस्थितपदार्थानां समूहमालम्ब्यैव बोधः यथा घटः पटश्च इत्यादौ घटपट योरुभयोरेव विशेष्यता। सभूहालम्बनबोधे च विशेष्यताद्वयम् संशये तु एका विशेष्यतेति भेदः।
१३६ सम्भवत्येकवाक्यत्वे वाक्यभेदो न चेष्यते इति न्यायः पशुना यजेतेत्यादौ यागे एकत्वविशिष्टपशुकरणकत्वं विधेयं न तु पशौ एकत्वं यागे च पशुकरणकत्वमित्येवं विधेयद्वयम्। एवमन्यत्रापि।
१३७ सर्वं विशेषणं सावधारणमिति न्यायः यथा श्वेतः शङ्ख इत्यादौ श्वेत एवेत्यर्थपरत्वमेवन्यत्रापि।
१३८ सर्वं वाक्यं सावधारणमिति न्यायः अवधारणवाचकस्याभावे यत्रावधारणं प्रतीयते तत्रास्य पवृत्तिः। एवकारादिसत्त्वे तु तस्यैवावधारणवाचकत्वम् न तत्रास्य प्रवृत्तिः।
१३९ सर्वापेक्षान्यायः बहुषु निमन्त्रितेषु एकस्मिन् आगतेऽपि यथा न तस्मै भोजनं दीयते अपेक्षते च सर्वान् एवं यत्र सर्वापेक्षा तत्रास्य प्रवृत्तिः।
१४० सविशेषणे हि वर्त्तमानौ विधिनिशेधौ विशेषणमुपसंक्रामतः सति विशेष्ये बाधे इति न्यायः यथा घटाकाशमानय न मण्याकाशमित्यानयनविषयौ विधिनिषेधौ विशेष्ये आकाशे वाधाद्घटादिरूपं विशेषणमुपसंक्रामतस्तथा यत्र विवक्षा तत्रास्य प्रचारः। न च निषेधस्य कथं बाधः तस्य प्रसक्तिपूर्वकतया तदभावेऽनुपपत्तेः किं चात्र विधिनिषेधशब्दौ भावाभावमात्रबोधकौ तथा च घटाकाशोऽत्रानीतो न मण्याकाशः घटाकाश उत्पन्नः शरावाकाशो विनष्ट इत्यादौ भावाभावौ विशेष्ये बाधाद्विशेषणमुपसंक्रामतस्तथा विवक्षायामस्य प्रवृत्तिः। विशेष्ये बाधाद्विशेषणे तयोः पर्यवसानभित्यर्थः।
१४१ साक्षात् प्रकृतौ विकारलय इति न्यायः यथा घटादीनां लयः स्वप्रकृतौ कपालादावेव न तु परमाणौ तथैवानुभवादित्येवं विकारस्य स्वप्रकृतिलयो यत्र विवक्ष्यते तत्रास्य पवृत्तिः।
१४२ सावकाशनिरवकाशयोर्मध्ये निरकाशोबलयान् इति न्यायः सम्भवद्विषयान्तरः सावकाशः अतथाभूतो निरवकाशः तेन निरवकाशेन साव काशोविधिर्वाध्यते यथा माहिंस्यात् सर्वाभूतानीति निषेधवाक्यं निरवकाशेन श्वेतमालभेतेति वाक्येन बाध्यते हिंसाया वैधेतरविषयकत्वसम्भवेन तत्र तस्य सावकाशत्वात् पश्वालम्भनस्य विषयान्तराभावात् न तस्य सङ्कोच एवमन्यत्रापि।
१४३ सिंहावलोकन्यायः सिंहो यथा कञ्चिन्मृगं हत्वाग्रे गच्छन्नन्योऽपि कश्चित् मृगश्चेत् स्यात्तदा तमपि ह न्यामिति बुद्ध्या पृष्ठदेशाबलोकनं पुरोदेशावलोकनञ्च करोति हन्ति च दृष्टिपथमागतं मृगादिकं इति प्रसिद्धम् तथा एकस्य शब्दस्य पुरतः पृष्ठे च यत्र उभयोरन्वयस्तत्रास्य प्रवृत्तिः।
१४४ सूचीकटाहन्यायः अल्पायाससाध्या सूची वह्वायास साध्यः कटाहः यथा तयोर्निर्माणाय प्रयतमानस्य प्रथमं स्वल्पायाससाध्ये सूचीनिर्माणे प्रवृत्तिः ततो बह्वायाससाध्यकटाहनिर्माणे एवं यत्र बह्वायाससाध्यमुपेक्ष्य स्वल्पायाससाध्यस्य निर्देशादि तत्रास्य प्रवृत्तिः।
१४५ सूत्रशाटिकान्यायः सूत्रस्य शाटिकोपादानत्वेऽपि यथा भाविन्या शाटिकासंज्ञया निर्देशस्तथा यत्र भाविन्या संज्ञया उपादानस्य कार्यसंज्ञया निर्देशस्तत्रास्य प्रवृत्तिः।
१४६ सोपानारोहणन्यायः यथा प्रासादमारोढुकामः कश्चिद्युगपदारोढुमशक्नुवन् पूर्वां पूर्वां कक्षां परित्यजन्नुत्तरामुत्तरां च कक्षामारोहन् क्रमेण प्रासादमारोहति तथा स्वस्वरूपभूतमपि ब्रह्म अज्ञानेन व्यवहितमिवापन्नमात्मत्वेन ज्ञातुकामो मुमुक्षुः सहसा साक्षात्कर्तुमशक्नुवन् पुत्रादाराभ्यानन्दमयान्तेषूत्तरस्मिन्नुत्तरस्मिन्नात्मत्यबुद्ध्या पूर्वेषु पूर्वेष्वात्मत्वबुद्धित्यागे कृते सति क्रमेण प्रपञ्चोपशमं शिवमद्वैतं चतुर्थनात्मत्वेन जानातीति एवमादिषु तस्य प्रवृत्तिः।
१४७ सोपानावरोहणन्यायः यथा हि येन क्रमेण सोपानमारोहन्ति तद्विपरीतक्रमेण ततोऽवरोहन्तीति लोके प्रसिद्धं तथा पञ्चकोषावतरणक्रमेण अद्वैततत्त्वे बुद्धिमारोहयितुमशक्तो भोग्यभोगायतनतदाश्रयचतुर्दशभुवनतदाधारब्रह्मण्डानि पञ्चीकृतपञ्चभूतमात्राणि न तेभ्योऽतिरिच्यन्ते इति सम्भावयेत् पञ्चीकृतानि। भूतानि सूक्ष्मशरीराणि चापञ्चीकृतभूतेभ्यो नातिरिच्यन्ते इति जानीयात्। एवं गन्धतन्मात्रात्मिकां पृथिवीं रसतन्मात्रात्मकाम्मात्रत्वेन भावयेत् अपश्र रूपतन्मात्रात्मकत्रेजोमात्रत्वेन, तच्च तेजः स्पर्शतन्मात्रात्मक बायुमात्रत्वेन, तञ्च वायुं शब्दतन्मात्रात्मकाकाशमात्रत्वेन, तञ्चाकाशं स्वकारणभूतमायोपहितमहेश्वरमात्रत्वेन भावयेदिति एवं च यथा पूर्वोक्तक्रमेणावरोहणात् सुखेन भूमिं प्राप्नोति तथैवानेन विपरीतक्रमेण भावनात् सुखेन भूमानमद्वितीयं शिवमाप्नोतीति। प्रलयोऽप्यनेनैव व्युत्क्रमेण भवतीति बोध्यं साक्षात् प्रकृतौ विकारलयः इति न्यायात् तथा चस्मर्य्यते “जगत् प्रतिष्ठा देवर्षे! पृथिव्यप्सु प्रलीयते ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयते। वायुश्च लीयते व्योम्नि तच्चाव्यक्ते प्रलीथते। अव्यक्तं पुरुषे ब्रह्मनिष्कले संप्रलीयत इति।
१४८ स्थविरलगुडन्यायः वृद्धहस्तपातितलगुडस्य यथा यथास्थानं न पतनमेवं लक्ष्यस्थानेऽपातेऽस्य प्रवृत्तिः।
१४९ स्थूणानिखननन्यायः स्थूणा गृहस्तम्भभेदः तस्या निख सनदाढ्यार्थमुत्तोत्तोल्यः पुनःपुनः कराभ्यां चालयित्वा यथा निखननं क्रियते एवं समर्थितपक्षस्य दाढ्यार्थमुदाहरणयुक्त्यादिभि पुनःपुनर्यत्र समर्थनं तत्रास्य प्रवृत्तिः।
१५० स्थूलारुन्धतीन्यायः यथा हि ध्रुवमरुन्घतीञ्च दर्शयतीति विधिबलाद्वरबध्वोरन्धतीदर्शने प्राप्ते सूक्ष्मतमायास्तस्याझटिति दर्शयितुमशक्यतया अरुन्धती दृश्यतामित्युक्ते चन्दाद्यपेक्षयाह्यरुन्धत्या अतिदूरस्थत्वेननभस्थलस्थमेव किञ्चिदरुन्धतीत्वेन इयं दृश्यतामित्यङ्गुलिनिर्देशेन तावच्चन्द्रमरुन्धतीत्वेन वदति ततश्चन्द्रेतरास्तत्समीपस्थास्तारकाः, तत इतरतारकाभिन्नाः सप्तर्षिसंज्ञिकाः समीपतराः, ततस्तन्मध्यवर्त्तिनीं वसिष्ठरूपां समीपतमां तारकामणन्धीयामत्युक्ता तत्पार्श्ववर्त्तिनीमरुन्धतीमेवारुन्धतीत्वेन बोधयति एवं यत्रातिसूक्ष्मदुर्विज्ञेयवस्तुविज्ञानाय क्रमेण तत्समीपसमीपतरसमीपतमं वस्तु शास्त्रेण तत्तयोच्यते तत्र स्थूलारुन्धतीन्यायोऽवतरति। अयमेव केनचिदरुन्धतीप्रदर्शनन्यायत्वेनोदाह्रियते।
१५१ स्वामिभृत्यन्यायः स्वामिन उपकारार्थं प्रवर्त्तमाना भृत्यास्तदुपकारकरणेन सन्तोषितात् स्वामिनः प्रसादलब्धामुपकृतिं यथा लभन्ते एवं यत्र परस्परोपकार्य्यकारकभावो विवक्ष्यते तत्रास्य प्रवृत्तिः।

सांख्यसूत्रे ४ अ० कतिचित् प्रसिद्धदृष्टान्ता उक्तास्तेऽपि न्यायशब्देनानुक्ता अपि प्रसिद्धदृष्टान्तदर्शनप्रसङ्गादत्र अकारादिक्रममनादृत्य सूत्रक्रमेणैव प्रदर्श्यन्ते यथा “राजपुत्रवत् तत्त्वोपदेशात्” सां० प्र० ४। १ सू० “राजपुत्रस्येव तत्रौपदेशाद्विवेको जायत इत्यर्थः। अत्रेयमाख्यायिका कश्चिद्राजपुत्रो गण्डर्क्षजन्मना पुरान्निःसारितः शवरेण केनचित् पोषितोऽहं शवर इत्यभिमन्यमान आस्तो तं जीवन्तंज्ञात्वा कश्चिदमात्यः प्रबोधयति न त्वं शवरो राजोपुत्रऽसीति स यथा झटित्येव चाण्डालाभिमानं त्यक्त्वा तात्त्विकं राजभावमेवालम्बते राजाहमस्मीति। एवमे- वादिपुरुषात् परिपूर्णचिन्मात्रेणाभिव्यक्तादुत्पन्नस्त्वं तस्यांश इति कारुणिकोपदेशात् प्रकृत्यभिमानं त्यक्त्रा ब्रह्मपुत्रत्वादहमपि ब्रह्मैव न तु तद्विलक्षणः संसारीत्येवं स्वस्वरूपमेवालम्बत इत्यर्थः। तथा च गारुडे “यथैकहेममणिना सर्वं हेममयं जगत्। तथैव जातमीशेन जातेनाप्यखिलं भवेत्। ग्रहाविष्टो द्विजः कश्चिच्छूद्रोऽहमिति मन्यते। ग्रहनाशात् पुनः स्वीयं ब्राह्मण्यं मन्यते यथा। मायाविष्टस्तथा जीवो देहोऽहमिति मन्यते। मायानाशात् पुनःस्वीयं रूपं ब्रह्मास्मि मन्यते” भा०। “पिशाचवदन्यार्थोपदेशेऽपि” ४। २ सू० “अर्जुनार्थं श्रीकृष्णेन तत्त्वोपदेशे क्रियमाणेऽपि समीपस्थस्य पिशाचस्य यथा विवेकज्ञानं जातमेवमन्येषामपि गवेदित्यर्थः” भा०। “श्येनवत् सुखदुःखी त्यानवियोगाभ्याम्” ४। ५ सू० “परिग्रहो न कर्त्तव्यो यतो द्रव्याणां त्यागेन लोकः सुखी वियोगेन च दुःखी भवति श्येनवदित्यर्थः। श्येनो हि सामिषः केनाप्यपहत्यामिषाद्वियोज्य दुःखी क्रियते स्वयं चेत् त्यजति तदा दुःखाद्विमुच्यते तदुक्तम् “सामिषं कुररं जघ्नुबलिनोऽन्थे निरामिषाः। तदामिषं परित्यज्य स सुखं समविन्दत” इति मनुनाप्युक्तम् “नदीकूलं यथा वृक्षो वृक्षं वा शकुनिर्यथा। तथा त्यजन्निमं देहं कृच्छ्राद् ग्राहाद्विमुच्यते” भा०। “अहनिर्ल्वयिणीवत्” ४। ६ सू० “यथाहिर्जीर्णां त्वचं परित्यजत्यनायासेन हेयबुद्ध्या तथैव मुमुक्षुः प्रकृतिं वहुकालोपभुक्तां जीर्णां हेयबुद्ध्या त्यजेदित्यर्थः। तदुक्तम् “जीर्णां त्वचमिवोरगः इति” भा०। “क्षिन्नहस्तवद्वा” ४। ७ सू० यथा “छिन्नहस्तं पुनः कोऽपि नादत्त तथैवैतत् त्यक्तं पुनर्नाभिमन्थेतेत्यर्थः” भा०। “असाधनानचिन्तनं बन्धाय भरतवत्” ४। ८ सू० “विवेकस्य यदन्तरङ्गसाधनं न स चेद्धर्मोऽपि स्यात् तथापि तदनुचिन्तनं तदनुष्ठाने चित्तस्य तात्पर्य्यं न कर्त्तव्यं यतस्तद्बन्धाय भवति विवेक विणारकतया भरतवत् यथा भरतस्य राजर्षेर्धर्म्यनपि दीनानाथहरिणशावकस्य पोषणमित्यर्थः। तथा च जडभरतं प्रकृत्य विष्णुपुराणे “चपलं चपले तस्मिन् दूरगं दूरगामिनि। आसीच्चेतः समासक्तं तस्मिन् हरिणपोतके” भा०। “वहुभिर्योगे विरोधो रागादिभिः कुमारीशङ्खवत्” ४। ९ सू० “बहुभिःसङ्गो न कार्य्यः। बहुभिः सङ्गे हि रानाद्यभिव्यक्त्या कलहो भवति योगभ्रंशकः। यथा कुमारीहस्तशङ्खानामन्योऽन्यस- ङ्गेन झणत्कारो भवतीत्यर्थः” साङ्ख्यप्रवचनभाष्यम्। “अनारम्भेऽपि परगृहे सुखी सर्पवत्” ४। १२ सू० “सुखी भवेदिति शेषः शेषं सुगमम्। तदुक्तम् “गृहारम्भो हि दुःखाय न सुखाय कथञ्चन। सर्पः परकृटं वेश्म प्रावश्य सुखमेधते” भा०। “बहुशास्त्रगुरूपासनेऽपि सारादानं षट्पदवत्” ४। १३ सू० “कर्त्तव्यमिति शेषः। तदुक्तं “अणुभ्यश्च महद्भ्यश्च शास्त्रेभ्यः कुशलो नरः। सर्वतः सारमादद्यात् पुष्पेभ्य इव षट्पदः”। “सारभूतमुपासीत ज्ञानं यत् स्वार्थसाधकम्। ज्ञानानां बहुता यैषा योनविघ्नकरी हि सा। इदं ज्ञेयमिदं ज्ञेयमिति यस्तृषितश्चरेत्। असौ कल्पसहस्तेषु नैव ज्ञानमवाप्नुयात्” मार्क० पु० भा०। “इषुकारवन्नैकचित्तस्य समाधिहानिः” ४। १४ सू० “यथा शरनिर्माणयैकचित्तस्येषुकारस्य पार्श्वे राज्ञो गमनेनापि न वृत्त्वन्तरनिरोधो हीयत एवमेकाग्रचित्तस्य मर्बथापि न समाधिहानिर्वृत्थन्तरनिरोधक्षतिर्भवति। ततश्च विषयान्तरसञ्चाराभावे ध्येयसाक्षात्कारोऽप्यबश्यं भवतीत्वेकाग्रतां कुर्य्यादित्यर्यः। तदुक्तं “तदैवमात्मन्यवरुद्धचित्तो न वेद किञ्चिद् बहिरन्तरं वा। यथेषुकारो नृपतिं प्रबन्तमिषौ गतात्मा न ददर्श पार्श्वे” भा०। “कृतनियमलङ्घनादानर्थक्यं लोकवत्” ४। १५ सू० “यः शारवेषु कृतो योगिनां नियमस्तल्लङ्घने ज्ञाननिष्पत्त्याख्योऽर्थो न भवति कोकवत्। यथा लोके भैषज्यादौ विहितपथ्यादीनां जङ्घने तत्तत्सिद्धिर्न भवति तद्वदित्यर्थः। णशक्त्या ज्ञानरक्षार्थं वा लङ्घने तु न ज्ञानप्रतिबन्धः। “अपेतव्रतकर्मा तु केवलं ब्रह्मणिस्थितः। ब्रह्मभूतश्चरन् लोके ब्रह्वचारीति कथ्यते” भा०। “तद्विस्मरणेऽपि भेकोवत्” ४। १६ सू० “सुगभम्। भेक्याचेयमाख्यायिका कश्चिद्राजा मृगयां गतो विपिने सुन्दरीं कन्यां ददर्श। सा च राज्ञा भार्य्याभावाय प्रार्थिता नियमं चक्रे यदा मह्यं त्वया जलं प्रदर्श्यते तदा जया गन्तव्यमिति। एकदातु क्रीडया परिश्रान्ता राजानं पप्रच्छ कुत्र जलमिति। राजापि सभयं विस्मृत्यजलमदर्शयत्। ततः सा भैकराजदुहिता कामरूपिणो भेकी भूत्वा जलं विवेश ततश्च राजा जालादिभिरनिष्यापि न तामाविददिति” भा०। “नोपदेशश्रवणेऽपि कृतकृत्यता परामर्शादृते विरोसनवत्” ४। १७ सू० परामर्शो सुसवाक्यतात्पर्य्यर्थनिर्णायक विचारस्तं विनोपदेशवाक्यश्रवणेऽपि तत्त्वज्ञाननियमो नास्ति प्रजापतेरुपदेशश्रवणेऽपीन्द्रविरोचनयोर्मध्ये विरोजनस्य परामर्शाभावेन भ्रान्तत्वश्रुतेः (छा० उ०) अतो गुरूपदिष्टस्य मननमपि कार्य्यमिति। दृश्यते चेदानीमप्येकस्यैव तत्त्वमस्युपदेशस्य नानारूपैरर्थैः सम्भावना। अखण्डत्वमवैधर्म्यलक्षणाभेदोऽविभागश्चेति” भा०। “न कालनियमो वामदेवत्” ४२० सू० “ऐहिकसाधनादेव भवतीत्यादिर्ज्ञानोदये कालनियमो नास्ति वामदेववत्। वामदेवस्य जन्मान्तरीयसाधनेभ्यो गर्भेऽपि यथा ज्ञानोदयस्तथान्यस्यापीत्यर्थः। तथा च श्रुतिः “तद्धैतत् पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्य्यश्चेति तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं भवतीत्यादिरिति”। अहं मनुरभवमित्यादिकमवैधर्म्यलक्षणाभेदपरं सर्वव्यापकताख्यब्रह्मतापरं वा। “सर्वं समाप्नोषि ततोऽसि सर्वः” इत्यादि स्मृरणात् भा०।

“विरक्तस्यैव हेयहानमुपादेयोपादानं हंसक्षीरवत्” ४। २३ सू० “विरक्तस्यैव हेयानां प्रकृत्यादीनां हानमुपादेयस्य चात्मन उपादानं भवति। यथा दुग्धजलयोरेकीभावापन्नयोर्मध्येऽसारजलत्यागेन सारभूत क्षीरोपादानं हंसस्यैव न तु काकादेरित्यर्थः” भा०। “न कामचारित्वं रागोपहते शुकवत्” ४२४ सू० “रागोपहते पुरुषे कामतः सङ्गो न कर्त्तव्यः शुकवत्। यथा शुकपक्षी प्रकृष्टरूप इति कृत्वा कामचारं न करोति रूपलोलुपैर्बन्धनभयात् तद्वदित्यर्थः” भा०।

“गुणयोगाद्बद्धः शुकवत्” ४२६ सू० “तेषां सङ्गे तु गुणयोगात् तदीयरागादियोगाद्बद्धः स्यात् शुकवदेव। यथा शुकपक्षी व्याधस्य गुणैरज्जुभिर्बद्धो भवति तद्वदित्यर्थः। अथ वा गुणितया गुणलोलुपैर्बद्धो भवति शुकवदित्यर्थः। तथैवोक्तं सौभरिणा “स मे समाधिर्जलवासमित्रमत्स्यस्य सङ्गात् सहसैव नष्टः। परिग्रहः सङ्गकृतो ममायं परिग्रहोत्थाश्च महाविधित्साः” भा। “न भोगाद्रागशान्तिर्मुनिवत्” सां० ४२७ सू० “यथा मुनेः सौभरेर्भोगान्न रागशान्तिरभूत् एवमन्येषामपि न० भवतीत्यर्थः। तदुक्तं सौभरिणैव “आ मृत्युतो नैव मनोरथानामन्तोऽस्ति विज्ञातमिदं मयाद्य। मनोरथासक्तिपरस्य चित्तं नो जायते वै परमार्थसङ्गि” भा०। “न मलिनचेतस्युपदेशवीजप्ररोहोऽजवत्” ४। २९ सू० “उपदेशरूपं यज्ज्ञानवृक्षस्य वाजं तस्याङ्कुरोऽपि रागा- दिमलिनचित्ते नोत्पद्यते अजवत्। यथाऽजनाम्नि नृपे भार्य्याशोकमलिनचित्ते वशिष्ठेनोक्तस्याप्युपदेशवीजस्य नाङ्कुर उत्पन्न इत्यर्थः” भा०।

“नाभासमात्रमपि मलिनदर्पणवत्” ४। ३० सू० “आपातज्ञानमपि मलिनचेतस्युपदेशान्न जायते विषयान्तरसञ्चारादिभिः प्रतिबन्धात् यथा मलैः प्रतिबन्धात् मलिनदर्पणेऽर्थो न प्रतिविम्बति तद्वदित्यर्थः” भा०।

“न तज्जस्यापि तद्रूपता पङ्कजवत्” ४। ३१ सू० तस्मादुपदेशाज्जातस्यापि ज्ञानस्योपादेशानुरूपता न भवति सामग्र्येणानवोधात्। पङ्कजवत्। यथा वीजस्योत्तमत्वेऽपि पङ्कदोषाद्वीजानुरूपता पङ्कजस्य न भवति तद्वदित्यर्थः। पङ्कस्थानीयं शिष्यचित्तम्” भा०।

***