निमग्न = त्रि० नितरां मग्नः नि + मस्म–क्त। जलादौ नितरां निविष्टे “निमग्नेनाप्यन्तर्मनमजलकशेरन्तरुदरम्” रसगङ्गाधरः। निमग्नस्यादूरदेशादि० वराहा० क। नैमग्नक निमग्नस्यादूरदेशादौ त्रि०।

निमज्जथु = पु० नि + मस्ज–भावे अथुच्। निमज्जने “तल्पे कान्तान्तरैः सार्द्धं मन्येऽहं धिङ्निमज्जथुम्” भट्टिः।

निमज्जन = न० नि + मस्ज–भाये ल्युट्। जलादावगाहने स्नाने “दृङ्निमज्जनसुपैति सुधायाम्” नैव०।

निमन्त्रण = न० नि + मन्त्र–भावे ल्युट्। आवश्यकश्राद्धभोजनादौ प्रवर्त्तने। “विधिनिमन्त्रणामन्त्रणाधीष्टसंपश्न प्रार्थनासु लिङ्” पा० “यस्याकरणे प्रत्यवायस्तन्निवन्त्रणम्” सि० कौ०। तथा च प्रत्यवायप्रयोजकाभावप्रतियोगि निमन्त्रणम्। “व्राह्मणप्रातिवेश्यानामेतदेवा निमन्त्रणे” याज्ञ० “निमन्त्रणार्थं दूतांश्च प्रेषयामास शीघ्रगान्” मा० व० २५५ अ०। श्राद्धनिमन्त्रणप्रकारादि निमन्त्रितस्य नियमादि च नि० सि० निरूपितं यथा चन्द्रिकायां मात्स्ये “पठन्निमन्त्र्य नियमान् श्रावयेत् पैतृकान् वुधः। अक्रोधनैः शौचपरैः सततं ब्रह्मचारिभिः। भवितव्यं भवद्भिश्च मया च श्राद्धकारिणा” यत्तु मनुः “सर्वायासविनिर्मुक्तैः कामक्रोधविवर्जितैः। भवितव्यं मवद्भिर्नः श्वोभूते श्राद्धकर्मणीति” तत्पूर्वेद्युर्निमन्त्रणपरं न तदहः। तत्रैव देबलः “असम्भवे परेद्युर्वा ब्राह्मणांस्तान्निमन्त्रयेत्। अज्ञातीनसमानार्षानयुग्मानात्मशक्तितः”। कात्यायनः अनिन्द्येनामत्त्रितो नापक्रामेत् केतनं गृह्यसक्तः”। अथ श्राद्धकर्तृभोक्तृनियमाः तत्र मिमन्त्रितविप्रत्यागेऽपरार्के यमः “केतनं कारयित्वा तु योऽतिपातयति द्विजम्। बह्महत्यामवाप्नोति शूद्रयीनौ च जायते। आमन्त्र्य ब्राह्मणं यस्तु यथान्यायं न पूजयेत्। अतिकृच्छ्रासु षोरासु तिर्य्यग्योनिषु जाग्रते”। प्रमदात्त्यागे हारीतः “प्रमादाद्विस्मृतं ज्ञात्वा प्रसाद्यैनं प्रयत्नतः। तर्पयित्वा यथान्यायं सर्वं तत् फलमश्नुते”। प्रमदाभावे तु नारायणः “एकस्मिन्नेनसि प्राप्ते ब्राह्मणो नियतः शुचिः। यतियान्द्रायणं कृत्वा तस्मात् पापात् प्रमुच्यते” यमः “आमन्त्रितस्तु यो विप्रो भोक्तुमन्यत्र गच्छति। नरकाणां शतं गत्वा चाण्डालेप्यमिजायते”। तत्रैव देवलः “पूर्वे निमन्त्रितोऽन्येन कुर्य्यादन्यप्रतिग्रहम्। भुक्ताहारोऽथ वा भुङ्क्ते सुकृतं तस्य नश्यति”। यदि विप्रो विलग्वेत तदोक्तमादित्यपुराणे “आमन्त्रितश्चिरं नैव कुर्य्याद्विप्रः कदाचन। देवतानां पितॄणाञ्च दातुरन्नस्य चैव हि। चिरकारी भवेट्द्रोही पच्यते नरकाग्निना”। पृथ्यीचन्द्रोदये यमः “निमन्त्रितस्तु यो विप्रो ह्यध्वानं माति दुर्मतिः। भवन्ति पितरस्तस्य तं मासं पांशुभोजनाः। आमन्त्रितस्तु यः श्राद्धे हिंसां वै कुरुते द्विजः। पितरस्तस्य तं मासं भवन्ति रुधिराशनाः। आमन्त्रितस्तु यो विप्रो भारमुद्वहते द्विजः। पितरस्तस्य तं मासं भवन्ति स्वेदभोजनाः। निमन्त्रितस्तु यो विप्रः प्रकुर्य्यात् कलहं यदि। पितरस्तस्य तं मासं भवन्ति मलभोजनाः”। शङ्खः “निमन्त्रितस्तु यः श्राद्धे मैधुनं सेवते द्विजः। श्राद्धं दत्त्वा च भुक्त्वा च युक्तः स्यान्महतैनसा”। ऋतावपि मैथुनं निषिद्धम् “ऋतुकाले नियुक्तो वा नैव गच्छेत् स्त्रियं क्वचित्। तत्र गच्छन्नवाप्नोति ह्यनिष्टानि फलानि तु” इति तत्रैव माधवीये च वृद्धमनूक्तेः “श्राद्धं करिष्यन् कृत्वा वा भुक्त्वा वापि निमन्त्रितः। उपोष्य च तथा भुक्त्वा नोपेयाच्च ऋताबपि। भोक्ष्यन् करिष्यन् श्वः श्राद्धं पूर्वरात्रौ प्रयत्नतः। व्यवायं भोजनञ्चापि ऋतावपि विवर्जयेत्” इति तत्रैवाश्वलायनोक्तेश्च। विज्ञानेश्वरेण तु श्राद्धे ऋतौ गच्छतोऽपि न दोष इत्युक्तम् तत्त्वगतिकत्वे ज्ञेयम्। वृहस्पतिः “द्विनिशं ब्रह्मचारी स्याच्छाद्धकृद्ब्राह्मणैः लह! अन्यथा वर्त्तमनौ तु स्यातां निरयगामिनौ। पुनर्भोजनमध्वानं भारमायासमैथुनम्। श्राद्धकच्छाद्धभुक् चैव सर्वमेतद्विवर्जवेत्। स्वाध्यायं कलहञ्चैव दिवास्वापं तथैव च”। यत्तु श्राद्धकाशिकायां पुराणसमुच्चये “कृत्वा तु रुधिरस्रावं न विद्वान् श्राद्धमावरेत्। एकं द्वे त्रीणि वा विद्वान् दिनानि परिवर्जयेत्” इति तन्निर्मूलम्। पृथ्वीचन्द्रोदये यमः “पुनर्भोजनमध्वानं भाराध्ययनमैथुनम्। सन्ध्यां प्रतिग्रहं होमं श्वाद्धभोक्ताऽष्ट वर्जयेत्”। सन्ध्यानिषेधः प्रायश्चित्तात् पूर्वं ज्ञेयः यथाहोशनाः “दशकृत्वः पिबेदापो गायत्र्या श्राद्धभुक् द्विजः। ततः सन्ध्यामुपासीत जपेच्च जुहुयादपि”। गौडास्तु “सायं सन्ध्यां परान्नञ्च छेदनञ्च वनस्पतेः। अमावस्यां न कुर्वीत रात्रिभोजनमेव च। द्यूतञ्च कलहञ्चैव सायंसन्ध्यां दिवाशयम्। श्राद्धकर्त्ता च भोक्ता च पुनर्भुक्तिञ्च वर्जयेत्” कामधेनौ वराहाद्युक्तेः श्राद्धकर्त्तुरपि सायंसन्ध्याविषेधमाहुः शिष्टास्तु निर्मूलत्वमाहुः। होमनिषेधस्तु स्वयंहोमविषयः “सूतके च प्रवासे च अशक्तौ श्राद्धभोजने। एवमादिनिमित्तेषु हावयेन्न तु हापयेत्” इति छन्दोगपरिशिष्टात्। तत्रैवादित्यपुराणे “निमन्त्रितस्तु न श्राद्धे कुर्य्याद्भार्य्यादिताडनम्”। चन्द्रिकायां प्रचेताः “श्राद्धभुक् प्रातरुत्थाय प्रकुर्य्याद्दन्तधावमम्। श्राद्धकर्त्ता न कुर्वीत दन्तानां धावनं बुधः” हेमाद्रौ जाबालिः “दन्तघावनताम्बूले तैलाभ्यङ्गममोजनम्। रत्यौषधपरान्नञ्च श्राद्धकृत् सप्त वर्जयेत्”। विष्णुरहस्ये “श्राडोपवासदिवसे खादित्वा दन्तधावनम्। गायत्र्या शतसम्पूतमम्बु प्राश्य विशुध्यति। पुनर्भोजनमध्वानं या नप्रायासमैधुनम्। दानप्रतिग्रहौ होमं श्राङ्गभुक् त्वष्ट वर्जयेत्”। “निमन्त्रयेत पूर्वेद्युर्ब्राह्मणानात्मवान् शुचिः। तैश्चापि संयतैर्भाव्यम् मनोवाक्कायकर्मभिः” याज्ञ० “पूर्वेद्युरपवेद्युर्वा श्राद्धकर्मण्युपस्थिते। निमन्त्रयेत त्र्यवरान् सम्यक् विप्रान् यथोदितान्” मनुः। “पूर्वेद्युर्निवेदनम् वेदनं परेद्युर्द्वितीयं, तृतीयमामन्त्रणम्” आपस्तम्बः “निवेदनं श्वोमया श्राद्धं कर्त्तव्यं तत्र भवन्तो निमन्त्रणीया इत्येवंरूपं निवेदनम्। द्वीतयं वेदनं त्वामहं निमन्त्रये इत्यनेन निमन्त्रणम्। त्वयि श्राद्धमहं करिष्ये” इति तृतीयमनुज्ञाग्रहणरूपम्” श्रा० त० रघु०

निमय = पु० नि + मि–अच्। परिवर्त्तने द्रव्यान्तरदानेन द्रव्यान्तरग्रहणरूपे विनिमये तत्र अविक्रेयद्रव्याणां विनिमयेनैव ग्रहणं कर्त्तव्यं यथा भा० शा० ७८ अ० “रसारसैर्न्निमातव्या नत्वेव लबणं रसैः। कृतान्नञ्चाकृतन्नेन तिलाधान्येन तत्समाः”। अविक्रेयाणि अपण्यशब्दे २२४ पृ० दर्शितानि।

निमान = न० निमीयतेऽनेन नि + मा–ल्युट्। मूल्ये “संख्यायागुणस्य निमाने मयट्” पा० “निमानं मूल्यम्” सि० कौ०।

निमि = पु० अत्रिवंश्ये १ दत्तात्रेयपुत्रे “स्वावम्भुवोऽत्रिः कौरव्य! परमर्षिः प्रतापवान्। तस्य वंशे महाराज! दत्तात्रेय इति स्मृतः। दत्तात्रेयस्य पुत्रोऽभून्निन्निर्नाम तपोधनः” भा० अनु० ९१ अ०। २ कौरबवंश्ये भाविनृपभेदे “दण्डपाणिर्निमिस्तस्य क्षेमको कविता ततः। क्षेमकं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ” भाग० ९। २२। ९। द्वापरयुगीये असुरांशनृपभेदे “अक्षप्रपातने चैव निमिर्हंसश्च दानवौ” हरिवं० १६१ अ०। ४ इक्ष्वाकुवंश्ये नृपभेदे “स्मासीद्राजा निमिर्नाम इक्ष्व कूणां महात्मनाम्। पुत्रो द्वादशमो वीर्य्ये धर्मे च परिनिष्ठितः” रामा० उ० ५५ स० तस्य वसिष्ठशापेन विदेहप्राप्तिकथा “यस्मात्त्वमन्यं वृतवान् मामवज्ञाय पार्थिव!। चेतनेन विनाभूतो देहस्ते पार्थिवैष्यति”। तत्सर्गान्ते तस्य सर्वभूतानां नेत्रेषु निमेषरूपतया स्थितिकथा “सुप्रीताश्च सुराः सर्वे निमेश्चेतस्तदाऽब्रुवन्। वरं वरय राजर्षे! क्व ते चेतो निरूप्यताम्। एवमुक्तः सुरेः सर्वैर्निमेश्चेतस्तदाऽब्रवीत्। नेत्रेषु सर्वभूतानां वमेयं सुरसत्तमाः!। वादमित्येव विबुधा निमेश्चेतस्तदाऽब्रुवन्। नेत्रेषु सर्वभूतानां वायु भूतश्चरिष्यसि। त्वत्कृते निमिषिष्यन्ति चक्षूंषि पृथिवीपते!। वायुमूतेन चरता विश्रमार्थं बुहुर्मुहुः”

निमित = त्रि० नि + मि–क्त। समदीर्घविस्तारपरिमाणयुर्क्त निघशब्दे दृश्यम्।

निमित्त = न० नि + मिद–क्त। “अनात्मनेपदनिमित्ते” पा सूत्रनिर्देशान्न न दस्य नः। १ हेतौ २ चिह्ने च अमरः “निमित्तेषु च सर्वेषु ह्यप्रमत्तो च भवेन्नरः” स्मृतिः “मयैव पूर्वं निहता धार्त्तराष्ट्राः निमित्तमात्रं भव सव्यसाचिन्।” गीता “अतः कालं प्रवक्ष्यामि निमित्तं कर्मणामिह” ति० त० भविष्यपु० “मासपक्षतिथीनाञ्च निमित्तानाञ्च सर्वशः। उल्लेखनमकुर्वाणो न तस्व फलभाग् भवेत्” ति० त० भविष्यपु०। ब्रह्माण्डे “निमित्तानि च शंसन्ति शुभाशुभफलोदयम्” “निमित्तं मनश्चक्षुरादिप्रवृत्तौ” हस्तामलकम्। शुभाशुभसूचके ३ शकुने “निमित्तानि च पश्यामि विपरीतानि केशव!” गीता ४ फले उद्देश्ये “निमित्तात् कर्मयोगे” वार्त्ति० निमित्तमिह फलम्। ५ निमित्तनिश्चये नैमित्तिकं निमित्तनिश्चयादागतम्। ६ शरव्ये च शब्दार्थचि० स्वार्थे क तत्रार्थे संज्ञायां कन्। निमित्तक चुम्बने शब्दमाला।

निमित्तकारण = न० कर्म०। नैयायिकमते समवायिकारणाऽसमवामिकारणभिन्नकारणे तथाहि घटादौ मृत्तिकादि समवायि कारणम् कपालद्वयसंयोगोऽसमयवायिकारणम्। कुलालचक्रदण्डसलिलसूत्रादि निमित्तकारणम्। एवमदृष्टादि कालादि च। एवन्यत्र यथायथमुन्नेयम्।

निमित्तकृत् = त्रि० निमित्तं शकुनं रुतेन करोति कृ–क्विप् तुक्। रवेण दुष्टादुष्टशकुनकारके काके राजनि०। तस्य रवेण शकुनसूचकत्वात् तथात्वम्। काकरुतशब्दे १८४४ पृ० दृश्यम्।

निमित्तबध = पु० निमित्तेन रोधादिहेतुना बधः। रोधादिनिमित्ते १ गवादेर्वधे तत्र प्रायश्चित्तादि प्रा० त० उक्तं यथा “रोधादिनिमित्तकप्रायश्चित्तम्। तत्राङ्गिराः “रोधने बन्धने चापि योजने च गवां रुजः। उत्पाद्य मरणं वापि निमित्ती तत्र लिप्यते। पादञ्चरेद्रोधबधे द्वौ पादौ बन्धने चरेत्। योजने पादहीनं स्याच्चरेत् सर्वं निपातने”। निमित्ती लिप्यत इति यथाकथञ्चित् मरणनिमित्ततारतम्येन “यो भूय आरभते तास्मन् फले विशेषः” इत्यापस्तम्बवचनात् पापविशेषेणं लिप्यते तद्विशेषात् प्रायश्चित्तविशेषमाह पादञ्चरेदित्यादि। रोधः शीणायाः गोराहारप्रचारनिर्गमविरोधः। बन्धनमयथाबन्धनमकालबन्धनञ्च। योजनं हलशकटादौ योजनं तत्रातिवाहादिनेति शेषः। अत्रैव विषये व्यवनः “प्राजापत्यद्वयं गोहत्याप्रायश्चित्तं रोधनबन्धनयोक्त्रबधे पादवृद्ध्या नस्रानि लोमानि शिखावर्जं सशिखं वपनं त्रिषवणं गवानुगमनं सहशयनं सुमहत्तृणानि रथ्यासु चारयेत् व्रतान्ते ब्राह्मणभोजनमिति”। रोधनबन्धनयोक्त्रबध इत्यादेरयमर्थः रोधनिमित्तकवधे प्राजापत्यस्य पादः प्रायश्चित्तं नखच्छेदनमात्रम्। बन्धननिमित्तबधे प्राजापत्यस्य द्वौ पादौ नखानां लीम्नाञ्च छेदनम्। योक्त्रनिमित्ते च बधे प्राजापत्यपादत्रयं नखलोमशिखावर्जकेशच्छेदनञ्च। दण्डादिप्रहारबधे सम्पूर्ण प्राजापत्यम् नखलोमकेशशिखाच्छेदनञ्च इति। एतद्विषय एव मिताक्षराधृतं संवर्त्तवचनं तदेकवाक्यत्वात् तद्यया “पादेऽङ्गलोमवपनं द्विपादे श्मश्रुणोऽपि च। त्रिपादे च शिम्नावर्जं वशिखन्तु निपातने”। अत्र प्राजापत्यस्य पादादित्वे किं मानमिति चत्। पराशरवचनम् “रोधने तु चरेत् पादं बन्धने चार्द्धमेव हि। योजने पादहीनं स्यात् प्राजापत्यं निपातने”। “कृच्छ्रमज्ञानताडने” इति वार्हस्वत्यात्। दण्डोऽत्र हस्तप्रमाणो ग्राह्यः। तदधिके तु द्विगुणपायश्चित्तविधानात्। यथा अङ्गिराः “अङ्गुष्ठमात्रः स्थौल्येन बाहुमात्रः प्रमाणतः। सार्द्रश्च सपलाशश्च दण्ड इत्यभिधीयते”। “अस्यादूर्द्ध्वप्रहारेण यदि गां विनिपातयेत्। द्विगुणन्तु भवेत्तत्र प्रायश्चित्तमिति स्थितिः”। सपलासः सपत्रः। एतद्वचनविषय एव च्यवनीक्तप्राजापत्यद्वयमिति एतच्चाज्ञानतः यथा वृहस्पतिः “पादञ्चरेत् रोधवधे कृच्छ्रार्द्धं बन्धधातने। अतिवाहे च पादोनं कृच्छ्रमज्ञानताडने”। अन्नानञ्च क्षीणायामक्षीणत्वभ्रमः। क्षैण्यज्ञाने तु पायिकमरणं ज्ञात्वा प्रवृत्तस्य चान्द्रायणपादादिकम्। यथा हारीतः “नासाच्छेदनदाहेषु कर्णच्छेदनबन्धने। अतिदोहातिवाहाभ्यां कृच्छ्रं चान्द्रायणं चरेत्” हत्वेति शेषः। कृच्छ्रं व्रतं तेन चान्द्रायणव्रतमित्यर्थः। इति शूलपाणिमहामहोपाध्यायाः। भवदेवभट्टैस्तु निपातने कूपावदादिषु इति व्याख्यातं तदपि युक्तं अन्यथा तत्र पातजनकभयादिदर्शकस्य प्रायश्चित्तस्यानध्यतद्धायापत्तेः। “शस्त्रादिना तु हत्वा गां मानवं ततपाक्षरेत्। रोधादिना त्वाङ्गिरनमापस्तम्बोक्तमेव चेति” बृहस्पत्युक्तं तत्र प्रयमादिपदामुष्टिलोष्ट्रलगुडविषाग्न्यादीनां प्रायिकमृत्युफलानां ग्रहणम्। रोधादिनेति यथा कथञ्चिन्निमितमात्रस्य, बन्धादेरिति शूलपाणिव्याख्यान्तराच्च। तस्मान्निपातनपरम् उभयपरम्। एतच्च रात्रौ रक्षणार्थं रोधबन्धनव्यतिरिक्तविषयम्। “सायं संयमसनार्थन्तु न दुष्येद्रोधबन्धयोः” इति अङ्गिरोवचनात् वन्धने मिताक्षरायां विशेषमाह व्यासः “न नारिकेलैर्नच शाणतालैर्नचापि मौञ्जैर्नच बन्धशृङ्खलैः। एतैस्तु गावो न हि बन्धनीया बद्ध्वा तु तिष्ठेत् परशुं गृहीत्वा। कुशैः काशैश्च बध्नीयात् स्थाने दोषविवार्जते”। निमित्तिन्शब्दे वक्ष्यमाणे मन्यूत्पादनदारा २ हनने च।

निमित्तविद = त्रि० निमित्तं शकुनं शुभाशुभसूचकं लक्षणं वेत्ति विद–क्विप्। निमित्तज्ञे दैवज्ञे हेमच० निमित्तज्ञादयोऽप्यत्र। “निमित्तज्ञस्तपोधनः” रघुः।

निमित्तिन् = त्रि० निमित्तवस्त्यस्य इनि। निमित्तयुक्ते १ कार्ये प्रा० वि० उक्ते २ बधकर्त्तृभेदे च यथा “कर्त्ता च पञ्चविधः कर्त्ता प्रयोजकोऽनुमन्ता अनुग्राहकोनिमित्ती चेति”। निमित्तिनमाह विष्णुः “अन्यायेन गृहीतस्वो न्यायमर्थयते तु यः। यसुद्दिश्य त्यजेत् प्राणांस्तमाहुर्ब्रह्मघातकम्” तल्लक्षणं प्रो० वि० उक्तं “उद्देश्यत्वे सति हन्तुर्मन्यूत्पादको निमित्तो” इति मन्यूत्पादने निमित्तमाह तत्रैव वृद्धशा० “गोभूहिरण्यहरणे स्त्रीसम्बन्धकृतेऽपि च। यमुद्दिश्य त्यजेत्प्राणांस्तमाहुर्ब्रह्मधातकम्” वृहस्मतिः “ज्ञातिमित्रकलत्रार्थं सुहृत्क्षत्रार्थमेव च। यमुद्दिश्य त्यजेत् प्राणांस्तभाहुर्ब्रह्मघातकम्। गोभूहिरण्यहरणे स्त्रीणां क्षेत्रगृहस्य च। यमुद्दिश्य त्यजेत् प्राणांस्तमाहुर्ब्रह्मथातकम्। गुर्वर्थं पितृमात्रर्थमात्मार्थमथ वा पुनः। यमुद्दिश्य त्यजेत् प्राणांस्तमाहुर्ब्रह्मथातकम्” षट्त्रिंशन्मतमिति कृत्वा पठितम् “आक्रोशितस्ताद्धितो वा धनैर्बा परिपीडितः। यमुद्दिश्य त्यजेत् प्राणांस्तगाहुर्ब्रह्मघातकम्” सत्रोद्दिश्येति सर्वत्र कीर्त्तनात् उद्देशाभावे निमित्ततामात्रेण वधित्वं नास्ति अर्थादिहरणाक्रोशनताडनादीनां मन्युकारणानामुपात्तत्वादेतेषाभभावे धनाद्यर्थं वृक्षारोहणादिना ये म्रियन्ते (यदि मह्यं घनं न दास्यसि तदा वृक्षारोहणेन मरिष्यामीतिं) तत्र कीर्त्तनमात्रेण निमित्तबधो नास्ति तथा च पठन्ति “अमम्बेन यः फश्चित् द्विजः प्राणान् परित्यजेत्। तणैष तद्भवेत् पाषं न तु यं परिकीर्त्तयेत्” अयम्बन्धेगेति वाक्कृतादिसकलापराधसम्ब- न्धामावपरं यच्च “सम्बन्धेन विना देव! शुष्कवादेन कोपितः” इति भविष्यपुराणवचनं वार्षिकप्रायश्चित्तविधायकं तत् वाक्कृतेतरापराधसम्बन्धाभावपरं “शुष्कवादेन कोपितः” इत्यभिधानात्। एवं यत्राक्रोशनादौ पश्चात्कृते नापराधः तत्रापि न बधः यथा वृहस्पतिः “आष्युष्टस्त यदाक्रोश~स्ताडितः प्रतिताडवम्। हत्वाततायिनञ्चैव नापराधी भवेन्नरः”। शास्त्रविहितताडमादौ कृते यत्र पुत्रशिष्यादिर्म्रियते तत्रापि बधो नाख्येव तथा भविष्यपुराणे “पुत्रः शिष्यस्तथा भार्य्या शासितश्चेद्विनश्यति। न शास्ता तत्र दोषेण लिप्यते देवसत्तम!। अशास्त्रीयताडनादौ भवत्येव यथा मनुः। “पुत्रः शिष्यस्तथा भार्य्या दासी दासस्तु पञ्चमः। प्राप्तापराधास्ताह्याः स्यूरज्ज्वा वेणुदलेन वा। अधस्तान्नु प्रहर्त्तव्यं नोत्तमाङ्गे कदाचन। अतोऽन्थथा तु प्रहर~श्चौरस्याप्नोति किल्यिषम्”। एवञ्च विहितदण्डाचरणे शास्त्रीयकरग्रहणे क्रियमाणे यदि म्रियते तदापि वधो नास्त्येव दण्डादिशास्त्रविरोधान्निषेधाप्रवृत्तेः। वधनिमित्तिनस्तु प्रायश्चित्तं तत्रोक्तं यथा “निमित्तिनस्तु वचनात् त्रैवार्षिकं सम्बन्धे, असम्बन्धे वार्षिकं यथा भविष्ये “ससम्बन्ध यदा विप्रो हत्वात्मानं मृतो गुह!। निर्गुणः सहसा क्रोधादुमृहक्षेत्रादितो विभो!। त्रैवार्षिकं व्रतं कुर्य्यात् ब्रह्मचर्व्यञ्चरन् वने”। सम्बन्धशब्दोऽत्र धनसम्बन्धपरः। ताडनादिना तिरस्कारेऽपि त्रैवार्षिकमाह सएव “तिरस्कतो यदा विप्रो निर्गुणो म्रियतेऽनच!। सनिमित्तं यदा विप्रस्तदेदं शुद्धवे चरेद। त्रैवार्षिकं ब्रह्मचर्य्यं कृत्वा शुध्येत विप्रहा”। षनताडनादिसम्बन्धाभावे वाक्कलहमात्रेण मृते वार्षिकमाह सएव “यसुद्दिश्य द्विजो हन्यात् ब्राह्मणं स्वयमेव हि। आत्मानं सहसा क्रोधात्तस्य किन्नुभवेदिदम्। सम्बन्धेन विना देव! शुष्कवादेन कोपितः। केशस्मश्रुनखादीनां कृत्वा वै वपनं गुह!। ब्रह्मचर्य्यञ्चरन् वीर! वर्षेणैकेन शुध्यति” एतत्त्रितयकारणाभावेऽर्थलोभादिना मृते प्रायश्चित्ताभाव इति प्रागुक्तम्” प्रा० चि०।

निमिष = पु० नि + कुटा० मिष–भावे घञ्। १ चक्षुर्निमीलनरूपे व्यापारे तदुपलक्षिते “सुस्थे नरे सुखासीने यावत् स्पन्दति लोचनम्” इति मनूक्ते २ कालभेदे “सुरमत्स्यावनिमिषौ” अमरः। निमिषत्यस्मात् नि + मिष–अपादाने घञ्। ३ परमेश्वरे “निमिषोऽनिमिषः सम्बी वाचस्यतिरुदारधीः” विष्णुस० मुश्रुतोश्ले नेत्रवर्त्माश्रिते ४ रोगमेदे “अर्बुदं निमिषश्चापि” इत्यादिना विमज्य स च तत्र लक्षितो यथा “निमेषणीः सिरा वायुः प्रविष्टो वर्त्मसंश्रयाः। पालयेदतिवर्त्मानि निमिषः सगदो मतः”।

निमिषित = न० नि + मिष–क्त। नेत्रव्यापाभेदे पक्ष्माकुञ्चने

निमीलन = न० नि + मील–भावे ल्युट्। १ नेत्रनिमेपरूपव्वापारे २ पक्ष्यसङ्कोचने आधारे ल्युट्। ३ मरणे हेमच०। ४ अविकाशे “अप्ताप्य च भवेत् पसादेवं वापि निमीलनात्” सू० सि०।

निमीला = स्त्री नि + मील–भावे अ। १ नेत्रमुद्रके करणे अ। २ निद्रायां प्रमीलायाम् स्वार्थे क। निमीलिका तत्रार्थे निमीलयति स्वरूपम् निमील–णिच् ण्वुल्। व्याजे स्त्री शब्दर०।

निमीश्वर = पु० अतीतायामुत्सर्पिण्यां जाते जिनेश्वरभेदे हेमच०

निमूल = त्रि० निवृत्तं मूलं यस्य प्रा० ब०। १ मूलरहिते। तदुपपदे “निमूलसमूलयोः कपः” पा० णमुल्। निमूलकार्ष कषति। नि + मूल–क। २ प्रकाशने च तथ “नेरनिधाने” पा० नेःपरस्व मूलस्यान्तोदात्तता “निधानमप्रकाशता ततोऽन्यदनिधानं प्रक्राशनमित्यर्थः तदर्थे मूलान्तस्यान्तोदात्तत्वमित्युक्तेरस्य प्रकाशनार्थता।

निमेय = त्रि० नि + माङ्–माने यत्। १ परिवर्त्तनीये भावे यत्। २ परिवर्त्ते न०।

निमेष = पु० नि + मिष–भावे घञ्। नेत्रस्य स्पन्दनरूपे व्यापारे नेत्रपक्ष्मणोः स्वाभाविकोन्मेषस्य विरोधिव्यापारे नराणायकृत्रिकविकाशानन्धरं १ पक्ष्माकुञ्चमे। तदुपसक्षिते २ कालभेदे च “द्वौ निमेषौ त्रुटिर्नाम द्वे त्रुटी तु लवः स्मृतः” अग्निपु० “निमेषा दश चाष्टौ च काष्ठात्रिंशत्तु ताः कला। त्रिंशत् कला मुहूर्त्तः स्यात्” मनुः। “योऽक्ष्णोर्निमेषस्य खराम ३० भागः सु तत्परस्तच्छतभाग उक्तः। त्रुटिर्निमेषैर्धृतिमि १८ श्च काष्ठा तत्त्रिंशता सद्गणकैः कलोक्ता” सि० शि० “योऽक्ष्णोर्लोचनयोः पक्ष्मपातः स निमेषो स यावताकालेन निष्पाद्यते तावान् फलाऽपि निमेधशब्देनोच्यते उपचारात्” प्रमि०। “निमेषमात्रादवधूय तद्व्यथाम्” “पपौ निमेषालसपक्ष्मपङ्क्तिः” रघुः। स्वार्थे क निमेषक तत्रार्थे ४ कविकाशे च

निमेषकृत् = स्त्री निमेषं करोति कृ–क्विप् तक् ६ त०। तष्ठिति शब्दमाला तस्याः निमेषकालेग (स्वल्पकालेन) निमीषन तुल्याधिकाशयुक्तत्व त् तथात्वम्।

निमेषणी = स्त्री निमिषत्यनया नि + मिष–करणे ल्युट् ङीप्। नेत्रर्वत्माश्रिते निमेषसाधने सिराभेदे निमिषशब्दे दृश्यम्

निमेषरुच् = पु० निमेषं तत्कालं व्याप्य रोचते रुच–क्विप्। खद्योते त्रिका० निमेषद्युदादयोऽप्यत्र तस्य स्वल्पकालमात्रद्योतनात् तथात्वम्।

निम्न = त्रि० नि + म्ना–क। १ नीचे २ गभीरे (नावाल) अमरः। “पयश्च निम्नाभिमुखं प्रतीपयेत्” कुमा० “आपो न निम्नैरुदभिर्जिगत्नवः” ऋ० १०। ७८। ५ “प्रयाति निम्नामिमुखं नवोदकम्” ऋतुसं०। वृक्षादिषु लतावेष्टनाज्जाते २ चिह्नभेदे शब्दार्थचि०।

निम्नगा = स्त्री निम्नं गच्छति गम–ड। १ नदीमात्रे २ नीचगामिनि त्रि० “अनुरोदितीव करुखेन पत्रिणां विरुतेन वत्सलतयैष निम्नगाः” माघः “उदधेरिव निम्नगाशतेष्यभवन्नास्य विमानना क्वचित्” रघुः।

निम्ब = पु० निवि–सेचने अच् वबयोरैक्यात् मः। (निम्) ख्याते वृक्षे अमरः “निम्बः शीतो लघुर्ग्राही कटुपाकोऽग्निवातहृत्। अहृद्यः श्रमतृट् कासज्वरारुचिकृमि प्रणुत्। निम्बपत्रं स्मृतं नेत्र्यं कृमिपित्तविषप्रणुत्। वातलं कटुपाकञ्च सर्वारोचककुष्ठनुत्। निम्बं फलं रसे तिक्तं पाके तु कटु भेदनम्। स्निग्धं लघूष्णं कुष्ठघ्नं गुल्मार्शःकृमिमेहनुत्”। निम्बशाकगुणाः “निम्बस्य कोमलदलानि सुयत्रभृष्टान्याज्ये क्षिपेत्तदनु सैन्धवतक्रयुक्तान्। शालीयतण्डु फणान् सह रामठेन चाघारितान् ददति रोचनमेव लेहात्”। “करञ्जनिम्बजफलं कृमिकुष्ठप्रमेहजित्। निम्बतैलन्तु कुष्ठघ्नं तिक्तं कृमिहरम् परमिति” राजवल्लभः। “मसूरं निम्बपत्रञ्च योऽत्ति मेषगते रवौ। अतिरोषान्वितस्तस्य तक्षकः किं करिष्यति” ति० त०। षष्ठ्यां तिथौ तद्भक्षणनिषेधो यथा “कलङ्की जायते विल्वे तिर्यग्योनिश्च निम्बके” ति० त०। तिथिभेदे वर्ज्योक्तौ। निम्बक इत्यत्र स्वार्थे क।

निम्बतरु = पु० निम्ब इव तत्संज्ञको वा तरुः। १ मन्दारवृक्षे अमरः। २ निम्बसंज्ञके तरौ च।

निम्बवीज = पु० निम्बस्य वीजमिव वीजं यस्य। राजादनीवृक्षे राजनि०।

निम्बू = स्त्री निवि–सेचने क वबयोरैक्यात् भः। (कागजीनेबु) जम्बीरभेदे ततः स्वार्थे क, वा ह्रस्वः अभिधानात् पुंस्त्वम्। निम्बुक निम्बूक तत्रार्थे पु०। तस्य फल्म् अण् तस्यलुपि। तत्फले न० “निम्बूकमम्लं वातथं दीपनं षाचनं लघु। निम्बुकं कृमिसमूहनाशनं तीक्ष्णमम्लमु दरग्रहापहम्। वातपित्तकफशूलिने हितं कष्टनष्टरुचिरोचनम् परम्। त्रिदोषवह्निक्षयवातरोगनिपीडितानां विषविह्वलानाम्। मलग्रहे बद्धगुदे प्रदेयं विसूचिकायां मुन यो वदन्ति” भावप्र०। “भागैकं निम्बुकं तोयं षड्भागं शर्करोदकम्। लवङ्गमरिचोन्मिश्रं पानकं पानफोत्तमम्। निम्बूफलभवं पानमत्यम्लं वातनाशनम्। वह्नि दीप्तिकरं रुच्यं समस्ताहारपाचकम्” राजनि०।

निम्लोच = पु० नि + म्लुचु–भावे घञ्। अस्तगमने “कृष्णद्युमणि निम्लोचे” भाग० ३। २। ८। भावे ल्युट् निम्लोचन तत्रार्थे न० आधारे ल्युट् ङीप् सूर्य्यास्तस्थाने पुरीभेदे स्त्री। “पश्चादु वारुणीं निम्लोचनीं नाम” भाग० ५। २१। १५

निम्लोचि = पु० यदुवंश्ये भजमाननृपस्य पुत्रभेदे “भजमानस्य निम्लोचिः किंकालो वृष्णिरेव च” भाग० ९। २४। ५

नियत = त्रि० नि + यम–क्त नितरां यतते यत–अच् वा। १ संयते २ नियमकारिणि ३ नियमयुते “नियमो यमश्च नियतं मतिं यथा” माघः। कर्मणि क्त। ४ कृतनियमे च। “प्रत्येकं नियतं कालमात्मनो व्रतमादिशेत्। प्रायश्चित्तमुपासीनो वाग्यतस्त्रिषवणं स्पृशेत्” प्रा० त० शङ्खलिखितौ। “पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम्” उद्वा० त० मनुः। “अन्यथासिद्धिशून्यस्य नियता पूर्ववर्त्तिता” भाषा०।

नियताप्ति = स्त्री नियता निश्चिता आप्तिः। सा० द० उक्ते नाट्ये प्रारब्धकार्य्यस्य अवस्थाभेदे अवस्या विभज्य “अपायाभावतः प्राप्तिर्नियताप्तिर्विनिश्चिता” अपायाभावान्निर्धारितैकान्तफलप्राप्तिर्नियताप्तिः। यथा रत्नावल्याम् “राजा देवीप्रसादनं त्यक्त्वा नान्यमत्रोपायं पश्यामीति” देवीलक्षणापायस्य प्रसादनेन निवारणान्नियतफलप्राप्तिः सूचिता” सा० द०।

नियति = स्त्री नियम्यतेऽनया नि + यम–करणे क्तिन्। १ भाग्ये दैवे अमरः “नियतिं लोक इवानुरुध्यते” किरा०। “आसादितस्य तमसा नियतेर्नियोगात्” माघः “नियतिकृतनियमरहिताम्” काव्यप्र०। २ ईश्वरेच्छाभेदे अविद्यायाम्। “महामायेत्यविद्येति नियतिर्मोहनीति च। प्रकृतिर्वासनेत्येव तवेच्छाऽनन्त! चोच्यते” पुराणान्तरम्। करणे क्तिच् ङीप्। दुर्मायां देव्यां स्त्री “ऋतिः संस्मरणाद्देवी नियती च नियामतः” देवीपु०।

नियन्त = त्रि० नि + वम–वृच्। १ नियमकारिणि शासके स्त्रियां ङीप्। २ अश्वनिवमकारिणि सारथौ पु० अमरः “रेखामात्रमपि क्षुण्णादामनोर्वर्त्मनः परम्। न व्यतीयुः प्रजास्तस्य नियन्तुर्नेमिवृत्तयः” रघुः। ३ परमेश्वरे पु० “अपराजितः सर्वसहोनियन्ता नियमोऽयमः” विष्णु स०।

नियन्त्रण = न० नि + यन्त्रि–ल्युट्। प्रतिबन्धदूरीकरणे ए कत्रस्थापनार्थव्यापरभेदे “अनेकार्थस्य शब्दस्यैकार्थे नियन्त्रणरूपं विशेषम्” सा० द०। भावे युच्। नियन्त्रणापि तत्रार्थे स्त्री।

नियन्त्रित = त्रि० नि + यन्त्रि–क्त। १ कृतनियमने २ प्रतिबन्धादिना एकत्रस्थापिते “अनेकार्थस्य शब्दस्य संयोगाद्यैर्नियन्त्रिते। एकत्रार्थेऽन्यधीहेतुः” सा० द०।

नियम = पु० नि + यम–घञ् वा ह्रखः। १ प्रतिज्ञायाम् अङ्गीकारे अमरः। २ नित्ये ३ आगन्तुकसाधनकर्मरूपे व्रते ४ नियन्त्रणायां ५ निश्चये मेदि० पा० सू० उक्ते ६ योगाङ्गभेदे “यमनियमासनपाणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि” सूत्रे उद्दिश्य “शौचसन्तोषतपःस्वाध्यायेश्वरप्राणिधानानि नियमाः” सू० विभज्योक्तं “तत्र शौचं मृज्जलादिजनितं मेध्याभ्यवहरणादि च बाह्यमाभ्यन्तरं चित्तमलानामाक्षालनम्। सन्तोषः सन्निहितसाधनादधिकस्यानुपादित्सा। तपो द्वन्द्वसहनं द्वन्द्वञ्च जिघत्सापिपासे शीतोष्णे स्थानासने काष्ठमौनाकारमौने च व्रतानि चैवं यथायोगं कृच्छ्रचान्द्रायणसान्तपनादीनि। खाध्यायो मोक्षशास्त्राणामध्ययनं प्रणवजपो वा ईश्वरग्रणिधानं तस्मिन् परमगुरौ सर्वकर्मार्पणं “शय्यासनस्थोऽथ पथि व्रजन् वा स्वस्थः परिक्षीणवितर्कजालः। संसारवीजक्षयमीधमाणः स्यान्नित्यमुक्तोऽमृतभोगमागी” यत्रेदमुक्तं ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्चेति” भा० “शौचादिनियमान् व्याचष्टे शौचमिति। आदिशब्देन गोमयादयो गृह्यन्ते। गोमूत्रयावकादि मेध्यं तस्याभ्यवहरणादि आदिशब्दात् ग्रासपरिमाणसङ्ख्यानियमादयो ग्राह्या मेध्याभ्यवहरणादिजनितमिति बक्तव्ये मेध्याभ्यवहरणादि चेत्युक्तं कार्ये कारणत्वोपचारात्। चित्तमलाः मदमानासूयादयस्तदपनयो मनःशौचम् प्राणयात्रामात्रहेतोरभ्यधिकस्यानुपादित्सा सन्तोषः प्रागेव स्वीकरणपरित्यागादिति विशेषः। काष्ठमौनमिङ्गितेनापि स्वाभिप्रायाप्रकाशनम् अवचनमाकारमौनम्। परिक्षीणवितर्कजाल इति वितर्को वक्ष्यमाणः संशयविपर्य्ययौ चेति एतावता शुद्धाभिसन्धिरुक्तः। एते च यमनियमाः विष्णुपुराणे उक्ताः “ब्रह्मचर्यमहिंसां च सत्यास्तेयापरिग्रहम्। सेवेत योगी निष्कामो योग्यतां स्वमनो नयन्। स्वाध्यायशौचसन्तोषं तपांसि नियतात्मवान्। कुर्वीत ब्रह्मणि तथा परस्मिन् प्रवणं मनः। एते यमाः सनियमाः पञ्च पञ्च प्रकिर्त्तिताः। विशिष्ट फलदाः काम्या निष्कामाश्च विमुक्तिदाः” विव०। सर्वदर्शनसंग्रहे पातञ्जलदर्शनप्रसङ्गे स्वाध्यायशब्देन प्रणवजपवत् तान्त्रिकमन्त्रजपोऽप्युच्यते इत्युक्तम्।

“नियमाः पञ्च सत्याद्या वाह्यमाभ्यन्तरं द्विधा। शौचं, तुष्टिश्च सन्तोषस्तपश्चेन्द्रियनिग्रहः। स्यानमौनो पवासेज्यास्वाध्यायोपस्थनिग्रहः। तपोऽक्रोधो गुरौ भक्तिः शौचञ्च नियमाः स्मृताः। यमाः पञ्चाथ नियमाः शौचं द्विविधमीरितम्। सन्तोषस्तपसां जप्यं वासुदेवार्चनं दमः” गारुडपु० “तपः सन्तोष आस्तिक्यं दानं देवस्य पूजनम्। सिद्धान्तश्रवणञ्चैव ह्रीर्मतिश्च जपो हुतम्। दशैते नियमाः प्रोक्ता योगशास्त्रविशारदैः” तन्त्रसारः। ७ विधिभेदे तल्लक्षणादि लौगाक्षिभास्करेणोक्तं यथा “विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति। तत्र चान्यत्र च प्राप्तौ परिसख्येति गीयते” अस्यार्थः। प्रमाणान्सरेणाप्राप्तस्य प्रापकोविधिरपूर्वविधिः। यजेत स्वर्गकाम इत्यादि स्वर्गार्थकयागस्य प्रमाणान्तरेणाप्राप्तस्यानेन विधानात्। पक्षे अप्राप्तस्य प्रापकोविधिर्नियमविधिः यथा व्रीहीनवहन्तीत्यादिः। कथमस्य पक्षेऽप्राप्तेः प्रापकत्वमिति चेत् इत्यम् अनेन हि अवधातस्य वैतुष्यार्थत्वं न प्रतिपाद्यते अन्वयव्यतिरेकसिद्धात् किन्तु नियमः स चाप्राप्तांशपूरणं वैतुष्यस्य हि नानोपाय साध्यत्वादवघातं परित्यज्योपायान्तरं यदा ग्रहीतुमारभ्यते तदावघातस्याप्राप्तत्वेन तद्विघाननामकमप्राप्तां पूरणमेवानेन विधिना क्रियते। अतश्च नियमविघावप्राप्तांशपूरणात्मको नियम एव वाक्यार्थः पक्षेऽप्राप्तावघात विधानमिति यावत्”। मिताक्षरोक्तं विशेषोदाहरणादिमृतुकालशब्दे १४३७ पृ० दर्शितं तत्र दृश्यम्। नियमे च इतरसंवलने न दोषः। परिसंख्यायां दोष इति भेदः। पाक्षिके सतीत्यादिकारिकां व्याख्याय उदाहरणं परिसंख्यातो भेदश्च विधिरूपग्रन्थे दर्शितो यथा “नियमः पाक्षिके सतीति विधिं विना प्रवृत्तेः पाक्षिकत्वे सतीत्यर्थः प्रवृत्तिनियमे सतीति यावत तथाच तद्गोचरप्रवृत्तिनियमनिर्वाहको विधिस्तन्नियमविधिरिति कलितम्। तादृशसावघातादिविधिः व्रीहीनवहन्तीतिविधिं विना पुरोडाशनिष्यादकव्रीहिवैतुष्यद्वारा यागोपकारकेऽवधाते इतरपरीहारेण नखदलनादावपि प्रवृत्तिप्रसक्त्याऽवधाते प्रवृत्तिनियमो न स्यादिति तादशे विधेः प्रवृत्तिनियमनिर्वाहकत्वं यागोपकारके व्रीहि वैतुष्येऽवचाताधीनत्वनियमस्तादृशविधितो यद्यपि दुर्लभः नियमस्यापदार्धत्वादवाक्यार्थत्वाच्च तथापि तादृशविधितो ब्रीह्यबधातत्वेन नियोगसाधनताऽवगमात् यागजन्यपरमापूर्वस्य तदवधातरूपकारणं विनापि निष्पत्तिप्रतिलन्धानेन तत्र नियतप्रवृत्तिनिर्वाहः। तत्र चान्यत्र चेति यत्रोद्देश्ये यस्य विधानं तदन्यस्मिन्नपि तत्सम्बन्धस्य तस्मिन वा तदन्यसस्वन्धस्य प्रवृत्तितः प्रलक्तावित्यर्थः। तादृशश्च प्रसञ्चकप्रवृत्तिविरोधिविधिः परिसंख्याविधिरित्यर्थः तत्र “इमाममृभ्रन् रशनामृतस्येत्यश्वामिधानीमादत्ते” इति। तत्रेमामित्यादिमन्त्रस्य रशनातात्रग्रहणप्रकाशकतया अश्वरशनादान इव गर्दभरशनाया आदानेऽपि मन्त्रस्य विनियोगो लिङ्गात् लभ्यते तथाच तदादानकालेऽपि {??}न्त्रपाठप्रवृत्या तत्रापि तन्मन्त्रसम्बन्धः स्यात् एतस्माच्च विधितः प्रथममश्वरशनाग्रहणे एतन्मन्त्रविनियोगलाभे निराकाङ्क्षतया गर्दमरशनाग्रहणे न तद्विगियोगलामैति वैयर्थ्ये न तदाचरणमिति एतद्विधेर्विधेयस्येतरोद्देश्यसम्बन्धप्रसञ्जकप्रवृत्तिविरोधिता। अथ व्रीहीनव हन्तीति नियमबिधिदर्शितपरिसंख्याविध्योः को विशेषः नियमविधेरपि षरिसंख्यावदितरनिवृत्तिफलकत्वात् नियमविध्यसत्त्वे पुरीडाशद्वारा यागोपकारकवैतुष्याद्यर्थिनोऽवथातेतरतदुपावे प्रवृत्तिप्रसक्तेः। यदि चावधातनियमविधेरवधातप्रवृत्तिनियमफलकत्वं परिसंख्यातो विशेषः इमामगृभ्रन् रशनामित्यादि परिसंख्याया अश्वरशनादाने मन्त्रपाठप्रवृत्तिनियमस्य मन्त्रलिङ्गेन मन्त्रस्यासाधारण्येनोपकारकताबोधनादेव निर्वाहात्तस्याः प्रवृत्तिनियमानुपपादकत्वादिति विभाव्यते तदा अस्तु परिसंख्याया नियमानन्तर्भावः नियमस्तु परिसंख्यायामन्तर्भवतु परिसंख्याफलस्य तत्साधारण्यात् इति चेन्न नियमस्थले इतरनिवृत्तेरर्थतः सम्भवेऽपि तत्र तत्तात्पर्य्यानुपगमात् नियतप्रवृत्तावेव तत्तात्प्रर्य्यात् न चोपायान्तरनिवृत्तावपि नियमतोऽवघातप्रवृत्त्युपपत्तेर्निवृतावेव तत्तात्पर्य्यं न तु नियतप्रवृत्तावित्येव किं गोपयेत इति वाच्यम् अवघातविधिनाऽवघातस्यासाधारण्येन यागोपकारकत्ववोधनेऽपि अवघातमात्रेण वैतुष्यनिर्वाहाप्रतिसन्धाने अन्योपायसंवलनेनाप्यवधातप्रवृत्तिसम्भवादवघातविधेरितरनिवर्त्तकत्वायोगेन तलेतरनिवृत्तो तात्पर्य्यासम्भवात्। एवम् ऋतौ भार्य्यामुपेयादित्यादिनियमी न तु परिसंख्या दोषत्रयग्रासादिति सर्वसिद्धान्तोऽपि व्याहन्येत स्रार्थमन्तरेणैवानिष्टाननुवन्धिभार्य्यागमने ऋतुकालव्याप्तिबोधात् तदैकवाक्यतया परिसंख्याफलस्येतरकाले भार्य्यागमननिवृत्तिमिर्वाहान्नियमानावश्यकत्वात्। न च ऋत्वनभिगमने प्रत्यमवायश्रुतेः ऋतुकालाभिगमस्यावश्यकत्वे तत्तात्षर्व्यमावश्यकमिति नियम इति वाच्यम्। अनृतावनभिगमस्यापि “इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः” इत्यादिना निषेधात्तदेकवाक्यतया परिसंख्याया एवौचित्यात् इति चेन्न येन रूपेण उद्देश्यता तदन्यरूपध्यापकता उद्देश्यविधेयभावमर्य्यादातो न लभ्यते इति पञ्च पञ्चनखान् भुञ्जीत इत्यादावुद्देश्याविशेषेण भक्ष्यपञ्चनखत्वादौ शशकाद्यभेदव्याप्त्यलाभ इत्याशयेन तत्र षरिसंख्यायां खार्थहान्थादिदोषत्रयस्य प्राचीनैरभिधानात्”। मीमांसापरिभाषायाञ्च “यो विधिः पक्षे प्राप्तमर्षं नियमयति स नियमविधिः यथा व्रीहीनवहन्तीति। एतद्विध्यभावे दर्शपूर्णमासिकेषु व्रीहिषूत्प त्तिवाक्यावनतपुरोडाशोपयोगि तण्डुलनिष्पत्त्यनुकूल वैतुष्यकार्य्यायावहनमवत् कदाचिन्नस्वविदलनमपि प्राप्नुयादिति तस्मिन् पक्षेऽवहनमस्य प्राप्त्यभावात् कार्य्वान्ययोपपत्तेरवहननस्व पाक्षिकी प्राप्तिः स्यात् सत्यस्मिन् विधौ अवहननेमैव वैतुष्यं कार्यमिति नियमे सति विदसनं सर्वात्मना निवर्त्तत इति नियमविधिरयम्। न च वैतुष्यस्य नरूविदलनेनापि सम्भवादवहनगनियमो व्यर्थः प्रयोजनाभावादिति वाच्यम् अवथातेनैव वैतुष्यकरखे किञ्चिददृष्टं जन्यते इत्यदृष्टाङ्गीकारात् नियमेनदृष्टकार्य्यालाभेऽप्यदृष्टस्योत्पत्तेः। तच्चापूर्वं यागोत्पत्त्यपूर्वद्वारा फलापूर्वे उपयुज्यते तेन नियमापूर्वाभावे फलापूर्वमेवनोत्पद्यत इति कल्पनान्नियमापूर्वस्य न वैयर्थ्यम् एव व्रीहिसोमादिनियमविधिषु बोध्यम्”। अधिकं विधिरसावनग्रन्थे दृश्यम्। कवितावर्णननियममेदाः यथा “वर्णयेस्य मदप्येतन्नियमोऽथ प्रदर्श्यते। भूर्जत्वघिमवत्येव चलये ह्येव चन्दनम्। सामान्यवर्णने शौल्क्यं छत्राप्यः- पुष्पवाससाम्। कृष्णत्वं केशकाकाहिपयोनिधिपयो मुचाम्। रक्तत्वं रत्नवन्धूकविद्याम्भोजविवस्वताभ्। तथा वसन्त एवान्यपुष्टानां कलकूजितम्। वर्षास्वेव मयूराणा रुतं नृत्यञ्च वर्णयेत्। नियमस्य विशेषोऽथ पुनः कश्चित् प्रकाश्यते। कमलासम्पदोः कृष्णहरितोर्नागसर्पयोः। पीतलोहितयोः स्वर्णपरागाग्निशिखादिषु। चन्द्रेशशैलयोः कामध्वजे मकरमत्स्ययोः। दानवासुरदैत्यानामैक्यमेवाभिसम्मतम्। बहुकालजन्मनोऽपि शिवचन्द्रस्य बालता। मानवा मौलितो वर्ण्या देवाश्चरणतः पुनः”। नियममयति नि + यम–णिच्–अच्। ८ सर्वनियामके परमेश्वरे “अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमोऽयमः” विष्णुस० “स्वेषु स्वेष्वधिकारेषु प्रजा मियमयतीति नियमः” भा०।

नियमन = न० नि + यम–भावे ल्युट्। १ नियमशब्दार्थे २ निग्रहे ३ बन्धे “नियमनादसतां च नराधिपः” रघुः इतरनिवारणरूपे ४ परिसंख्यार्थे च “युग्माग्निकृतभूतानि षण्मुन्योर्वसुरन्ध्रयोः। रुद्रेण द्वादशी युक्ता चतुर्दश्या च पूर्णिमा। प्रतिपदाप्यमावास्या तिथ्योर्युग्मं महाफलम्। एतद्व्यस्तं महाघोरं हन्ति पुण्यं पुराकृतम्” निगमवाक्यतात्पर्य्य कथने “एतत्प्रयोजनं तु तिथिविशेषविहिते कर्मणि तिथिखण्डविशेषनियमनम्” ति० त० रघु०। एतदुपदर्शित खण्डविशेषतिथावेव कुर्य्यान्नेतरत्रेति परिसंख्यातुल्यत्वं गम्यते। नियमपरत्वे विपरीतकरणे दोषाभावप्रसङ्गात् मियमे इतरसंवलनस्य शास्त्रार्थत्वात् नचैद्युक्तम् इतरत्र करणे निन्दाश्रवणात्। अतः परिसंख्याकार्य्यकारीह नियमनमिति स्थितम्।

नियमसेवा = स्त्री नियमेन सेवा विष्णोः। नियमपूर्वकम् आश्विनस्य शुक्लैदश्यामारभ्य कार्त्तिकमासे विष्णोः सेवायाम् “आश्विनस्य तु मासस्य या शुक्लैकादशी भवेत्। कार्त्तिकस्यन्ध्रतानीह तस्यां कुर्य्यादतन्त्रितः। अकृत्वा नियमं विष्णोः कार्त्तिकं यः क्षिपेन्नरः। जन्मार्जितस्य पुण्यस्य फलं नाप्नोति नारद!”। किञ्च “नियमेन विना चैव न नयेत् कार्त्तिकं मुने!। चातुर्मास्यं तथा चैव ब्रह्महा स कुलाधमः” हरिभक्तिविलासः।

नियमस्थिति = स्त्री नियमेन स्थितिरत्र। तपस्यायाम् हेमच०

नियमित = त्रि० नि + यम–णिच्–कर्मणि क्त। १ कृतवन्धने “किञ्चिद्भ्रुभङ्गीलीलानियमितजलधिंरामन्वेषयामि” महाना०। २ कृतनियमे च

नियम्य = त्रि० नि + यम–यत्। १ निरोद्धव्ये २ निग्राह्ये च “त्वया नियम्या ननु दिव्यचक्षुषा” रघुः।

निययिन = पु० नी–भावे क्विप् निये नयनाय इनः प्रभुः बा० अलुक्स०। प्रापणाय स्वामिनि रथादौ “न्वेषं निययिनं रथम्” ऋ० १०। ७। २

नियव = पु० नि + यु–मिश्रणे वेदे वा० अप्। मिश्रीभावे “गोषु युधो नियवं चरन्तीः” ऋ० १०। ३०। १० लोके तु घञ। नियाव तत्रार्थे।

नियातन = न० नितरां यात्यते याति–ल्युट्। १ निपातने नितरां यातना यत्र प्रा० ब०। २ भययुते नयनानन्दः।

नियान = न० नियमेन यान्ति गावोऽत्र या–आधारे ल्युट्। गोष्ठस्थाने। “यन्नियानं न्यासं संज्ञानम्” ऋ० १०। १९। ४ “नियानं गोष्ठम्” भा०।

नियाम = पु० नि + यम–घञ्। नियमे

नियामक = त्रि० नि + यम–णिच्–ण्वुल्। नियमकारके नियामकत्वम् अदृष्टकालादेः “कारणस्य कार्यं प्रति नियामकत्वम्” सर्वद० “कृत्तद्धितसमासानामभिधानं नियामकम्” अमरः। स्त्रियां टापि अत इत्त्वम् नियामिका। “विकल्पे आत्मप्रीतिर्नियामिका” मिता० २ निरासके च “लोकप्रसिद्धमेवैतद्वारि वह्नेर्नियामकम्” कामन्द०।

नियुक्त = त्रि० नि + युज–क्त। १ अधिकृते २ नियोजिते ३ प्रेरिते च “केनापि देवेन हृदि स्थितेन यथा नियुक्तोऽस्मि तथा करोमि” आ० त० प्रातःकृत्ये। “नियुक्तस्तु यथान्यायं यो मांसं नात्ति मानवः” स्त्रिया सम्यग्नियुक्तया” “विधवायां नियुक्तस्तु” “नियुक्तो यो विधिं हित्वा” इति च मनुः।

नियुत् = पु० नि + यु–कर्मणि क्विप् तुक्। १ वायोरश्वे निघ० “सहस्रेण नियुता नियुत्वते” ऋ० १। १६। १ “जातावेकवचनम्। नियुत इति वायोरश्वानां नामधेर्य “नियुतो वायोरिति निरुक्ते उक्तत्वात्” भा० कर्मणि क्विप्। २ नियोजिते ३ नियते च नियुद्रथशब्दे दृश्यम्।

नियुत = न०। १ लक्षसंख्यायां २ दशलक्षसंख्यायां ३ तत्संख्येयेषु च “शतं सहस्रमयुतं नियुतं प्रयुतं मतम्। स्त्री कोटिरर्वुदमिति क्रमाद्दशगुणोत्तरम्” इति रत्रकोषः। “एकं दश शतञ्चैव सहस्रमयुतं तथा। लक्षञ्च नियुतञ्चैव कोटिरर्षुद एव च। वृन्दः खर्वो निखर्वश्च शङ्खपद्मौ च सागरः। अन्त्यं मध्यं परार्द्धञ्च दशवृद्ध्या यथोत्तरम्” पुराणम्।

नियुत्वत् = पु० नियुतोऽश्वाः सन्त्यस्य मतुप् मस्य वः तान्तस्यास्त्यर्थ परे पदत्वाभावात् न तस्य दः। वायौ “नियुत्वान् सोमपीतये” यजु० २७। ३२। तस्येदं छ। नियुत्वतीय वायुदेवताके हविरादौ “एष वा प्राजापत्य एष वा नियुत्वतीयः” शत० ब्रा० ६। २। २ १५।

नियुत्सा = स्त्री भरतवंश्यस्य प्रस्तारनृपस्य पत्न्याम् “प्रस्तारस्य नियुत्सायां हृदयज आसीत् विभुः” भाग० ५। ५। ७ नियुत्सायामित्यत्र निरुत्सायामिति पाठान्तरं साऽपि तत्रार्थे।

नियुद्ध = न० नि + युध–भावे क्त। बाहुयुद्धे अमरः। “नियुद्धं सङ्कटयुतम्” सा० द०। निपूर्वकस्य युध्यतेः बाहुयुद्धपरत्वम्। “तेन नियोद्धुकामे किमु बद्ध्ववर्मणी” नैष०।

नियुद्रथ = त्रि० नियुत्–नियोजितो नियतो वा रथोयस्य। गमनाय नियोजितरथे “स दस्रा नियुद्रथः” ऋ० १०। २६। १ “नियुद्रथो गमनाय सर्वदा नियतरथो नियुक्तरथो वा” भा०

नियोग = पु० नि + युज–घञ् कुत्वम्। १ प्रेरणे इष्टसाधनत्वादि बोधनेन २ प्रवर्त्तने नियोज्यशब्दे दृश्यम्। ३ आज्ञायाम् ४ अवकॢप्तौ अवधारणे तच्चावधारणम् अन्ययोगव्यवच्छेदार्थकम्। “एवानियोगे” सुग्ध०। अनियोगे अनवकॢप्तावित्यर्थः “तत्सिषेवे नियोगेन स विकल्पपराङ्मुखः” रघुः। पुत्रोत्पादनाय विधवायाः ५ नियोजने च। नियोगप्रकारश्च क्षेत्रजशब्दे २४०६ पृ० दृश्यः। “उक्तो नियोगो मनुना निषिद्धः स्वयमेव हि” वृहस्पतिः।

नियोग्य = त्रि० नियोक्तुमर्हति नि + युज–अर्हार्थे कर्त्तरि ण्यत् कुत्वम्। प्रभौ। शक्यार्थे कर्मणि तु न कुत्वम्।

नियोजन = न० नि + युज–भावे ल्युट्। १ प्रेरणे २ प्रवर्त्तने भृत्यादेः कर्मकरणाय ३ उपदेशात्मकव्यापारे “नियोजनकालेऽष्टाचत्वारिंशतमाद्यानग्निष्ठे” कात्या० श्रौ० २१। १। ८। ४ नितरां योजने च “पाशं कृत्वा प्रतिमुञ्जत्यथातो नियोजनस्यैव” शत० व्रा० ३। ७। ३। १३।

नियोज्य = त्रि० नि + युज–शक्यार्थे कर्मणि ण्यत् “प्रयोज्यनियोज्यौ शक्यार्थे” पा० उक्तेः न कुत्वम्। १ प्रवर्त्तनीये नियुञ्जतेः प्रवर्त्तनार्थकत्वात् कर्मणि ण्यता तत्कर्म चच्यते प्रवर्त्तनाकर्म च तज्जन्यप्रवृत्तिमान्। तथा च स्वर्गकामोयजेतेत्यादौ स्वर्गकामो यागे नियोज्यः स्वर्गकामादेश्च कामनाद्वारा यागे कृतिसाध्यताधीद्वारा प्रवृत्तिर्जायते इति तस्य तथात्वम्। तदेतत् शब्दचि० उक्तं यथा “स्वर्गकामो यजेतेत्यादौ इष्टसाधनत्वं कार्यत्वं वा यदि विधिः समभिव्याहृतक्रियान्वयी तदन्यान्वयी वा गुरुमते यागादिर्न कार्यतया लिङा बोध यितुं शक्यते स्वर्गकामनियोज्यान्वययोग्यताविरहात्। कामनाविशिष्टस्य हि ममेदं कर्त्तव्यमिति बोद्धृत्वं नियोज्यत्वं कामना च तद्बोधोपयोगे सति भवति स च कामनानन्तरं काम्यसाधनताबोधात् कार्यताबोधे सति स्यात् एवञ्च स्वर्गसाधनताबोधे सति स्वर्गकामनियोज्यान्वययोग्यता। न च कालान्तरे भाविस्वर्गे क्रिया साक्षात् परम्परया वा साधनमिति शब्दो बोधयितुमर्हति आशुविनाशित्वात् परम्पराघटकानुपस्थितेश्च तृतीय प्रकारस्याभावात् अन्यथा तमादाय साधनत्वसम्भवात् कल्प्यमप्यपूर्वं न स्यात् इष्टसाधनताविधिपक्षे तु स्फुटैवानुपपत्तिः। कार्यताविधिपक्षे अन्वयप्रकारतया साधनत्वं शाब्दमिति फलतो न विशेषः। अतः क्रियातोऽन्यत् स्वर्गसाधनतार्हं कार्यं क्रियाकार्यतानिर्वाहकमित्यार्थम्” गदाधरेणेदं नियोज्यान्वयग्रन्थे विवृतं दिङ्मात्रमत्रीच्यते “लिङोऽर्थः कार्यत्वं पाकादिक्रियायामेब प्रथमतोऽन्वेति न तु स्वर्गकामो यजेतेत्यादितो यागादौ प्रथमतस्तदन्वयः किन्तु कार्यत्वेनैव वैदिकलिङ्वाच्येऽपूर्वे प्रथमतो विषयतया यागाद्यन्वयः प्रतीयते विषयत्वन्तु जन्यत्वम् तत्र च शक्यतावच्छेदककार्यत्वैकदेशे कृतौ स्वर्गकामान्वयः एवञ्च यागविषयकं स्वर्गकामकार्यमिति प्राथमिको बोधः तदनन्तरमपूर्वस्य कृतिसाध्यता यागद्वारैव, यागमकृत्वा अपूर्वस्य साधयितुमशक्यत्वादतो यागकार्यतां विनाऽपूर्वकार्यत्वसनुपपन्नमित्यनुपपत्तिप्रतिसन्धांने तत्सह कृतलोकस्थलकॢप्तक्रियाकार्यतान्वयगोचरशाव्दसामग्रीतो यागे औपादानिकोवोधः। पुनरनुसन्धीयमानशब्दसहकृतानुपपत्तिज्ञानमेवोपादानमिति गीयते तदसहकृतं ज्ञानञ्चार्थापत्तिरिति। न च यागकार्यतायाः पूर्वमप्रतीतत्वेन यागकार्यताव्यतिरेकस्य दुर्ग्रहत्वात् उक्तानुपपत्तिधीरेव न घटते इति वाच्यं यागो यदि कार्य्यो न स्यात् तदाऽपूर्वमपि कार्यं न स्यात् इति तर्काकारानुपपत्ति प्रतिसन्धानस्य यागकार्यतासिद्ध्यनधीनस्य यागकार्य्यता साधकत्वोपगमात्। न चापाद्यापादकयोवेयधिकरण्यान्नोक्त तर्कसम्भव इति वाच्यं यागो यदि कृतिसाध्यो न स्यात् असाध्यककृत्यसाध्यकृतिसाध्यव्यापारको न स्यादित्ये तादृशतर्कोपगमेन सामञ्जस्यात्। कृतिसाध्यज्वलनादिरूपव्यापारके कृत्यसाध्यकाष्ठादौ व्यभिचारवारणायासाध्यान्तं यापारविशेषणं, कृतिसाध्यव्यापारके नित्ये व्यभिचारवारणायाऽननुकूलत्वमपेक्ष्य असाध्यकत्वं कृतौ विशेषणं शब्दानुपपत्तिधीजन्यतावच्छेदकधर्म्मयोः सङ्करी न दोषो गुणगतजात्यनभ्यु पगमेन तयोर्ज्जातित्व विरहात्। अस्तु वा केवलशब्दादिप्रमाणजन्यबोधविजातीय एव औपादानिकवोधः अपूर्वाविषयककामिकृतेरपूर्वसाधनक्रियाविषयकत्वं विनाऽपूर्वसाधनतानुपपत्तेः कृतौ क्रियाविषयकत्वोपपादकत्वं तस्याः काम्यसाधनत्वमप्यपूर्वकार्यत्वोपपादकम् इति यागादेः काम्यसाधनताप्यौपादानिकी, अस्माकं काम्यसाधनत्वस्य विधिप्रत्ययावाच्यत्वेऽप्यध्याहारितस्याप्यर्थस्य शाब्दधीगोचरतया पदाजन्याया अपि स्वर्गसाधनत्वोपस्थितेः पदजन्यक्रियाद्युपस्थितिसहितायाः शाब्दसामग्रीत्वादिष्टसाधनत्वस्योपादानलभ्यता। वाजपेयेन यजेतेत्यादौ च तदाभिधानिकमेव स्वर्गादिपदोपस्थाप्ये इष्टे कथञ्चित् तृतीयार्थकरणत्वान्वय उपेयते इति गुरुमतं निराकृत्य आहत्यैव यागादौ विध्यर्थकृतिसाध्यत्वेष्टसाधनत्वयोरन्वयबोधं व्यवस्थापयितुकामो विचाराङ्गं विप्रतिपत्तिं दर्शयति अथेति स्वर्गकामोयजेतेत्यादाविति कालान्तरभाविफलकामबोधकघटितवेदवाक्ये इत्यर्थः प्रतिपाद्यत्वं विघावन्वेति विधित्वञ्च विदधाति प्रवर्त्तयतीति व्युत्पत्त्या प्रवृत्तिप्रयोजकत्वं प्रवृत्तिजनकतावच्छेदकप्रकारताश्रयत्वम्। कार्यत्वस्य विशिष्यैव कथं न पक्षतोपेयते इत्याकाङ्क्षायाम् इष्टसाधनतासाधारणरूपावच्छिन्नःपक्षो, गुरूणामभावसाधने एव नैयायिकाभिमतस्याहत्यक्रियायामिष्टसाधनतान्वयस्यापि निराकरणं भवतीत्युक्तानुगतरूपेण पक्षकरणप्रयोजनमाविस्कर्त्तुं विधित्वेन संग्राह्यमर्थद्वयं दर्शयति इष्टसाधनत्वं कार्यत्वं वेति वाकारोऽनास्थायां न विकल्पे। इष्टसाधनत्वस्य विधित्वपक्षे कार्यत्वस्याकत्त्वात्। एवञ्चालौकिकक्रियागोचरकालान्तरभाविफलकामनाधीनप्रवृत्ति परलिङ्पद तात्पर्य्यविषयप्रवर्त्तकधर्मत्वमेव पर्य्यवसितं पक्षतावच्छेदकम्” इत्युपक्रमे तु मध्ये “स्वर्गकामेति काम्यस्वर्गसाधनतानिर्वाहकापूर्वरूपय्यापारे साधनत्वाप्रत्यायमे स्वर्गकामकृतिसाध्यत्वान्वयबोधजनकधीविषयतदन्द्रयप्रयोजक स्वर्गकामनियोज्यकत्वरूपयोग्यताविषयकशाब्दज्ञानस्य जनकीभूतं यन्नियोज्यतया स्वर्गकामरूपनियोज्यस्यान्वयप्रयोजकस्वर्गसाधनतायाज्ञानं तदसम्भवादित्यर्थः। कृतिविषयनिष्ठकाम्यसाधनतायाः कृतिविशेषप्रयोजकत्वेऽपि इष्टासाधनस्यापि सन्ध्यावन्द- नादेः कृतित उत्पत्तेः। कृतिसाध्यत्वसामान्ये यद्यपि साक्षान्नेष्टसाधनत्वं प्रयोजकं तथापि तत्र कर्त्तुः क्रियानियोज्यत्वं क्रियाविषयककृतिसाध्यताज्ञानबत्त्वरूपं प्रयोजकमिति कार्यतान्वयबोधसामान्ये कर्त्तुर्नियोज्यताज्ञानमन्वयप्रयोजकरूपयोग्यताज्ञानविधया कारणम् तदपि ज्ञानं शाब्दात्मकमेवोपेयम् प्रमाणान्तराभावात्। एवञ्च काम्यस्थले कामिनियोज्यतया वोधे कामनाविशिष्टस्यैव तथाभानमङ्गीकार्यं कामनाया विशेषणत्वाव श्यकत्वात् कामनाया उपलक्षणत्वे आत्ममात्रस्यैवोपल क्ष्यतया निष्कामसाधारणनियोज्यताबोधो न, विधेरप्रामाण्यप्रसङ्गात्” “वस्तुतो वेदस्थले विशिष्टान्वयपरताया औत्सर्गिक्याः कथञ्चित्सम्भवे तत्त्यागायोगादपि कामनाया विशेषणत्वमावश्यकमेव”। स्थलान्तरे च “यद्यपि नियोज्यत्वं विधिकर्तृकप्रवर्त्तनारूपनियोगकर्मत्वं धात्वर्थतावच्छेदकप्रवृत्तिरूपफलाश्रयत्वमेव प्रवर्त्तकज्ञानानुकूलव्यापारस्य नियोगत्वे च तादृशज्ञानाश्रयत्वमेव तथापि निरुक्तं पारिभाषिकमेव वा नियोज्यत्वम् अथ वा प्रवर्त्तकज्ञानोपधायकतानिर्वाहकव्यापारो नियोग इति कामानासाधारणं तादृशज्ञानोपधायकत्वं नियोज्यत्वं कामनायास्तद्बोधोपयोगे कार्यताबोथजनकत्वेभवति निर्वहतीत्यर्थः। अन्यथा विशेषणांशे तद्वाधेन कामनाया विशेषणत्वायोगादिति भावः। स चेति कामनायास्तद्बोधोपयोगश्चेत्यर्थः। कामनानन्तरं काम्यसाधनताबोधात् कार्यत्वबोधे सतीति कामनाधीनकाम्यसाधनता बोधस्य कार्यताबोधोपयोगे सतीत्यर्थः साक्षात्तदनुपयोगादिति भावः। काम्यसाधनताबोधस्य काननाधीनत्वं कामनाविषयकत्वेन बोध्यं तथा च कामनाविशिष्टस्य क्रियानियोज्यत्वं कामनायाः क्रियानिष्ठकाम्यसाधनता ज्ञानोपयोगितानिर्वाह्यमिति तद्ध्वटकक्रियानिष्ठकाम्यसाधनत्वमपि नियोज्यतान्वयप्रयोजकमिति पर्य्यवसितम्। एवञ्च स्वर्गकामसाधनताया नियोज्यतया स्वर्गकामान्वय प्रयोजकत्वे च सति सत्येव नियोज्यान्वययोग्यता नियोज्यत्वान्वयप्रयोजकयोग्यताघटितनियोज्यान्वयबोधसामग्रीसम्पत्तिः। एवञ्च यागः स्वर्गसाधनीभूत स्वनियोज्य स्वर्गकामकार्यतान्वयधीरेतन्मते तत्र स्वर्गकामे नियोज्यताज्ञानं क्रियायां स्वर्गसाधनताज्ञानञ्च योग्यताज्ञानमेव औपादानिकरूपमनुपपत्तिमात्रमूलकं वा अपेक्ष्यते इति तस्या अपि स्वर्गसाधनताविषयकतया तन्निर्वाहक- फलसमयपर्य्यन्तस्थायिव्यापारजनकत्वज्ञानभप्यपेक्षितमिति नाहत्यक्रियाकार्यताधीरिति समुदायार्थः”। एवं शुचित्वतत्कालादिरूपकर्त्तृविशेषयुतस्यापि नियोज्यत्वम् अत्र को नियोज्यः इत्याकाङ्क्षयोत्थापितस्य शुचितत्तत् कालजीवित्वादेरधिकारिविशेषणस्य नियोज्यताप्रयोजकत्वात् इत्याकारे विस्तरः।

नियोद्धृ = पु० नि + युघ–तृच्। १ कुक्कुटे राजनि० २ वाहुयुद्धकारिणि त्रि०।

निर् = अव्य० नॄ–क्विप् न दीर्घः। १ वियोगे २ अत्यये ३ आदेशे ४ अतिक्रमे ५ भोगे ६ निश्चिते च गणरत्नमहो०। तत्र यथाक्रममुदाहृतं च यथा १ निःसङ्गः ३ निर्मेघम् ३ निर्देशः। ४ निषक्रान्तः ५ निर्वेशः। ६ निश्चितम्। ७ निषेधे मेदि० निर्मक्षिकम्। अयं शब्दः प्रादिः सान्तः रान्तश्च “निसस्तपतावासेवने” पा० ८। २१२० सूत्रे निस इति निर्देशात् निष्कृतं दुष्कृतमित्युदाहृत्य “इदुदुपघस्य सकारस्य यो विसर्जनीयः” इति भाष्योक्तेश्च सान्तत्वम्। “निरः कुषः” पा० ७। २। ४६ सूत्रे निर इति निर्देशात् रान्तत्वम्। एवं दुस् दुर् सान्तोरान्तश्च दुष्कृतमित्यत्र भाष्योक्तेः सान्तत्वम् “सुदुरोरधिकरणे” वार्त्ति० सूत्रे सुदुरोरिति निर्देशात् रान्तत्वम्। उपसर्गगणसूत्रे तु तन्त्रोच्चारितः” मनोरमा।

निरंश = त्रि० निर्गतोऽंशात् निरा० त०। सूयभुज्यमानराशेः प्रथमे राशेस्त्रिशांशरूपे भागे तद्राशिभोगस्य अंशशून्यत्वात् तथात्वम्। “राशेः प्रथमभागस्थः निरंशः सूर्यः उच्यते” ज्योतिषम्। २ रवे राश्यन्तरसंक्रान्तिदिने रघु०। निर्गती भागो यस्य प्रा० ब० वा कप्। ३ भागरहिते च। “पतितस्तत्सुतः क्लीवः पङ्गुन्मत्तको जडः। अन्धोऽचिकित्स्यरोगार्त्तो भर्त्तव्यास्ते निरंशकाः” याज्ञ० “निरंशौ क्लीवप्रतितौ जात्यन्धवधिरौ तथा” मनुः। अनंशौवेति पाठः

निरक्ष = त्रि० निर्गतः अक्षस्तदुन्नतिर्यस्मात् प्रा० ब०। अक्षोन्नतिशून्यदेशे स च देशः सू० सि० उक्तो यथा “समन्तान्मेरुमध्यात् तु तुल्यभागेषु तोयधेः। द्वीपेषु दिक्षु पूर्वादि नगर्य्यो देवनिर्मिताः। भूवृत्तपादे पूर्वस्यां यमकीटीति १ विश्रुता। भद्राश्ववर्षे नगरी स्वर्णप्राकारतोरणा। याम्यायां भारते वर्षे लङ्का २ तन्महती पुरी। पश्चिमे केतुमालाख्ये रोमकाख्या ३ प्रकीर्त्तिता। उदक् सिद्धपुरी ४ नाम्ना कुरुवर्षे प्रकीर्त्तिता। भूवृत्तपादविवरास्ताश्चान्यीन्यं प्रतिष्ठिताः। ताभ्यश्चोत्तरगो मेरुस्तावानेव सुराश्रयः। तासामुपरिगो याति विषुवस्थो दिवाकरः। न तासु विषुवंच्छाया नाक्षस्योन्नतिरिष्यते। मेरोरुभयतो मध्ये ध्रवतारे नभःस्थिते। निरक्षदेशसंस्थानासुभये क्षितिजाश्रये। अतो नाक्षोच्छ्रयस्तासु ध्रुवयोः क्षितिजस्थयोः। नवतिर्लम्बकांशास्तु मेरावक्षांशकास्तथा”।

निरग्नि = पु० निर्गतोऽग्निस्तत्साध्यकार्यं यस्मात् प्रा० ब०। श्रोतस्मार्त्ताग्निसाध्यकर्मरहिते द्विजे “एकोद्दिष्टं सदा कुर्य्यात् निरग्निः श्राद्धदः सुतः” उशनाः “वीरहा वा एष देवानां भवति योऽग्निमुद्वासयते” श्रुतौ अग्नित्यागस्य पुत्रहत्यातुल्यपापजनकत्वमुक्तम्। उपपातकशब्दे निरग्नितादोष उपपातकत्वेन मनुनोक्तो दर्शितः।

निरङ्कुश = त्रि० निर्गतोऽङ्कुश इव प्रतिबन्धको यस्य प्रा० ब०। १ प्रतिबन्धशून्ये २ अनिवार्य्ये जटाध० “विक्रयार्थं हि यो हन्यात् भक्षयेद्वा निरङ्कुशः” भा० अनु० ३६०८ श्लो०। “निरङ्कुशाः कवयः”। “कुबलयदृशां वामः कामो निकामनिरङ्कुशः” गीतगो०।

निरङ्ग = त्रि० निर्गतमङ्गं यस्य प्रा० ब०। १ अङ्गहीने २ रूपकालङ्कारभेदे न० सा० द० अलङ्कारशब्दे ४०२ पृ० दृश्यम्।

निरङ्गुल = त्रि० निर्गतमङ्गुलिभ्यः प्रा० त० अच्समा०। अङ्गुलितोनिर्गते।

निरजिन = न० निर्गतमजिनात् प्रा० त०। अजिनात् निर्गते निरुदकादि० अन्तोदात्ततास्य।

निरञ्छन = न० शालाङ्गोपायाभ्यासरज्वाः प्रथमे षष्ठे भागे कर्त्तव्ये लक्षणभेदे शालाङ्गमुक्तं परिशिष्टे “विंशत्यरत्निः शाला स्यात्तदर्द्धेन तु विस्तृतेति” तत्साधनोपायश्च “प्रमाणार्द्धं बाभ्यस्याभ्यासपष्ठे लक्षणं करोति तन्निरञ्छनमिति अत्र विंशत्यरत्निर्मूलरज्ज्वुः दशारत्निरभ्यासरज्ज्वुः तस्याः प्रथमे षष्ठे भागे निरञ्छनम् तस्या अर्द्धे पञ्चारत्निमिते श्रोण्यङ्कनार्थमिति” कात्या० श्रौ० ७। १। २४ कर्कः।

निरञ्जन = त्रि० निर्गतमञ्जनं कज्जलं तदिव समलमज्ञानं वा यस्मात् प्रा० ब०। १ कज्जलरहिते नेत्रे २ दोषरहिते ३ अज्ञानशून्ये परमात्मनि पु० “तदा विद्वान् पुण्यपापे विधूय निरञ्जनं परमं साम्यमुपैति” मुण्डकोप० “निरवद्यं निरुञ्जनम्” श्वेता०। ४ शिवे पु० “दीर्घरोमा दीर्घभुजो दीर्घवाहुर्निरञ्जनः” हरिवं० २२७ अ० शिवनामोक्तौ।

निरति = स्त्री नितरां रतिः, नि + रम–क्तिन् वा। अत्यन्तरतौ।

निरतिशय = पु० निर्गतोऽतिशयो यस्मात् नितरामतिशयो वा। १ अत्यन्तातिशये २ स्वापेक्षयातिशयशून्ये ३ परमेश्वरे यदपेक्षया कस्याप्यतिशयाभावः ४ तस्मिन् त्रि०। “तत्र निरतिशयं सार्वज्ञ्यवीजम्” पात० सू० “यदिदमतीतानामतप्रत्युत्पन्नप्रत्येकसमुच्चयातीन्द्रियग्रहणमल्पं बह्विति सार्वज्ञ्यवीजमेतद्विवर्द्धमानं यत्र निरतिशयं स सर्वज्ञः। अस्ति काष्ठाप्राप्तिः सार्वज्ञ्यवीजस्य सातिशयत्वात् परिमाणवदिति यत्र काष्टाप्राप्तिर्ज्ञानस्य स सर्वज्ञः स च पुरुषविशेषः” भा० “व्याचष्टे यदिदमिति। बुद्धिसत्वावरकतमोऽपगमतारतम्येन यदिदमतीतानागतप्रत्युत्पन्नानां प्रत्येकञ्च समुच्चयेन च वर्त्तमानानामतीन्द्रियाणां ग्रहणं तस्य विशेषणमल्पं बह्विति सार्वज्ञ्यवीजं कारणम्। कश्चित् किञ्चिदेवातीतादि गृह्णाति कश्चिद् बहुतरं कश्चिद्बहुतमम् एतद्विवर्द्धमानं यत्र निष्क्रान्तमतिशयात् स सर्वज्ञ इति तदनेन प्रमेयमात्रं कथितम्। अत्र प्रभाणयात अस्ति काष्ठा प्राप्तिः सार्वज्ञ्यवीजस्येति साध्यनिर्देशः निरतिशयकाष्ठा यतः परमतिशयवत्ता नास्तीति। तेन नावधिमात्रेण सिद्धसाधनं, सातिशयत्वादिति हेतुः। यत् सातिशयं तत् तत्सर्वं निरतिशयं यथा कुवलामलकविल्वेषु सातिशयमिति। व्याप्तिं दर्शयति परिमाणवत्। न च गरिमादिगुणैर्व्यभिचार इति साम्प्रतम्, न स्वल्वऽवयवगरिमावयविनः किन्त्वा, परमाणुभ्य अन्त्यावयविभ्यो यावन्तः केचन तेषा प्रत्येकं वर्त्तिनं गरिमाणं समाहृत्य गरिमवर्द्धमानताभिमानः ज्ञानन्तु प्रतिज्ञेयं समाप्यते इत्येकद्विबहुविषयतया युक्तं सातिशयमिति न व्यभिचारः” विवरणम्।

निरत्यय = त्रि० निर्गतोऽत्ययो यस्य प्रा० ब०। १ अत्ययशून्ये “निरत्ययं साम न दान वर्जितम्” किरा०। अभावेऽव्ययी०। २ अत्ययाभावे अव्य०।

निरध्व = त्रि० निष्क्रान्तोऽध्वनः प्रा० त० अच्समा०। अध्वनो निष्क्रान्ते।

निरनुनासिक = त्रि० निर्गतमनुनासिकमनुनासिकत्वं यस्य। अनुनासिकभिन्ने वर्णभेदे “यलो द्विधाऽरो निरनुनासिकः सानुनासिकः” मुग्धवोधः।

निरनुयोज्यानुयोग = पु० गौतमोक्ते निग्रहस्थानभेदे तल्लक्षणम् तत्रोक्तं यथा “निग्रहस्थानातियोगो निरनुयोज्यानुयोयः” सू० “निग्रहस्थानलक्षणस्य मिथ्याध्यवसायादनिग्रहस्थाने निगृहीतोऽसाति परं ब्रुवन् निरनुयोज्यानुयोगान्निगृहीतो वेदितव्यः” इति भा०। “अवसरे यथार्थनिग्रहस्थानोद्भावनातिरिक्तं यन्निग्रह- स्थानोद्भावनं तदित्यर्थः एतेनावसरे निग्रहस्थानोद्भावने एकनिग्रहस्थाने निग्रहस्थानान्तरोद्भावने च नाति व्याप्तिः। सोऽयं चतुर्द्धा छलं जातिराभासोऽनवसरग्रहणञ्च। आभासो व्यभिचारादावसिद्ध्याद्युद्भावनम् अनवसरग्रहणञ्चाकाले एवोद्भावनं यथा त्यक्षसि चेत् प्रतिज्ञाहानिः विशेषयसि चेत् हेत्वन्तरम्। एवमवसरमतीत्यकथनमपि, यथा उच्यमानग्राह्यस्यापशब्दादेः परिसमाप्तौ एवमनुक्तग्राह्याज्ञानाद्यननुभाषणावसरेऽनुद्भाव्यबोधाविष्करणानुभाषणप्रवृत्ते वादिनि तदुद्भावनमित्यादिकमुह्यम्” वृत्तिः।

निरन्तर = त्रि० निर्गतमन्तरं यस्मात् प्रा० ब०। १ सन्तते अविच्छिन्ने सन्ततियुक्ते सन्ततिश्च दैशिकी कालिकी च तत्र दैशिकविच्छेदशून्ये “कृतापराधानपि योषितः प्रियान् परिष्वजन्ते शयने निरन्तरम्” ऋतुस० “भूभर्त्तुरायतनिरन्तरसन्निविष्टाः” माघः “निरन्तरास्वन्तर वातवृष्टिसु” कुमा० कालिकविच्छेदशून्ये निरवधौ यथा “कपिलानां सवत्सानां वर्षमेकं निरन्तरम्” भा० व० ९७ अ० २ अपरिधाने ३ अनन्तर्द्धाने ४ अभेदे ५ अतादार्थ्ये च। निरन्तरालादयोऽप्यत्र “निरन्तराला करिणां कदम्बकैः”

निरन्तराभ्यास = पु० कर्म०। १ सततावृत्ते ब० व०। २ स्वाध्यायेत्रिका०

निरन्वय = त्रि० नास्ति अन्वयः सम्बन्धो यत्र। १ सम्बन्धरहिते “का त्वमेकाकिनी भीरु! निरन्वयजने वने” भट्टिः। २ स्वामिसमक्षतारूपसम्बन्धशून्ये स्तेयभेदे “स्यात् साहसं त्वन्वयवत् प्रसभं कर्म यत् कृतम्। निरन्वयं भवेत् स्तेय हृत्वाऽपह्नूयते च यत्” मनुः (निरन्वयं) “स्वामिपरोक्षापहृतं स्तेयम्” कुल्लू०। ३ स्वामिसम्बन्धशून्ये स्तेये च “परिपूतेषु धान्येषु शाकमूलफलेषु च। निरन्वये शतं दण्डः सान्वयेऽर्द्धशतं दमः” मनुः “निष्पुलाकीकृतेषु धान्येषु शाकादिषु चापहृतेषु अन्वयो द्रव्यस्वामिनां सम्बन्धः येन सह कश्चिदपि सम्बन्धो नास्ति” कल्लू०। ४ निर्वंशे च।

निरपत्रप = त्रि० निष्क्रान्तः अपत्रपायाः प्रा० त०। निर्लज्जे धृष्टे जटा०। “अप्सरो मेनका ब्रह्मन् निर्दया निरपत्रपा” भा० आ० ८ अ०।

निरपेक्ष = त्रि० निर्गता अपेक्षा यस्य प्रा० ब०। १ अपेक्षाशून्ये स्वार्थवोधनाय अन्यापेक्षाशून्ये “निरपेक्षो रवः श्रुतिः” भट्टवार्त्तिकम्। “तंत्तत्कर्मसु विनियोगसाधकानां श्रुति लिङ्गादीनां मध्ये श्रुतेः (श्रूयमाणविभक्तेः) इतरानपेक्षणेन विनियोगसाधकत्वात् तथात्वं लिङ्गादीनां तु द्विती- यादिश्रुतिं कल्पयित्वा तद्द्वारैव तथात्वमिति सापेक्षत्वमिति भेदः। २ आशाशून्ये “अध्यात्मरतिरासीनो निरपेक्षो निरामिषः” मनुः। ३ अशक्तविषयके “उक्तानि प्रतिषिद्धानि पुनः सम्भावितानि च। सापेक्षनिरपेक्षाणि श्रुतिवाक्यानि कोविदैः”। “सापेक्षनिरपेक्षाणि शक्ताशक्तविषयाणि” ज्योति० त० रघु०।

निरमण = न० नियतं रमणम्। नियतरतौ अत्यन्तानुरागे “निरृतिर्निरमणात्” निरु० २। ७ नियतं रमत्यस्मिन् नि + रम + आधारे ल्युट्। २ नियतरागाधारे “अश्वशतं निरष्टं निरमणम्” शत० ब्रा० १३। ४। २। ५

निरमित्र = पु० पाण्डवनकुलस्य पुत्रमेदे “नकुलस्तु चैड्यां करेणुमतीं नाम भार्य्यामुदवहत् यस्यां पुत्रं निरमित्रं नामाजनयत्” भा० आ० ४५ अ०। निर्गतोऽमित्रो यस्य। २ शत्रुरहिते त्रि०। ३ त्रिगर्त्तराजपुत्रभेदे पु० “हाहाकारो महानासीत् त्रिगर्त्तानां जनेश्वर!। राजपुत्रं हतं दृष्ट्वा निरमित्रं महारथम्” भा० द्रो० १५७ अ०। ४ बार्हद्रथवंश्ये भाविनि नृपभेदे पु० “ततो युतायुस्तस्यापि निरमित्रोऽथ तत्सुतः” भाग० ९। २२। ३० भाविवार्हद्रथवंशोक्तौ।

निरय = पु० निर्गतोऽयोत्र प्रा० ब० नीचैरेत्यत्र निर् + इ आघारे अच् वा। नरके अमरः “निरये चैव पतनं यातनाश्च यमक्षये” मनुः।

निरयण = न० निर् + अय–भावे ल्युट्। निर्गमने। करणे ल्युट्। निर्गमनोपाये “पश्चात् निरयणं कृतम्” ऋ० १०। १२३। ६ “निरयणं निर्गमनोपायः” भा०।

निरर्गल = त्रि० निर्गतमर्गलमिव प्रतिबन्धो यस्य प्रा० ब०। प्रतिबन्धशून्ये अमरः।

निरर्थ = पु० निर्गतोऽर्थो यस्य प्रा० ब०। अर्थशून्ये १ निष्फले २ अभिधेयशून्ये च “निरर्था साप्यमूर्त्तत्वात् पुरुषस्य महीपते” मार्कण्डेयपु०।

निरर्थक = त्रि० निर्गतोऽर्थो यस्य प्रा० ब० वा कप्। १ निष्फले “प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः” भा० उ० ३५ अ०। “इत्थं जग्म निरर्थकं क्षितितलेऽरुण्ये यथा मालती” सा० द०। २ अभिधेयशून्ये ३ काव्यदोषभेदे च “निरर्थकं तुहीत्यादि पूरणैकप्रयोजनम्” चन्द्रा० गौतमोक्ते ४ निग्रहस्थानभेदे “वर्णक्रमनिर्देशवन्निरर्थकम्” सू० “यथा नित्यः शब्दः कचटतपय्जवगडदश्त्वात् झभञ्घढधषबदिति एवम्प्रकारं निरर्थकम् अभिधानाभिधेयभावानुपपत्तौ अर्थगतेरभावाद् वर्णा एव क्रमेण निर्दिश्यन्त इति” भा०। “वर्णानां क्रमेण निर्देशो जवगडेत्यादिप्रयोगस्तत्तुल्यो निर्देशोर्निरर्थकं निग्रहस्थानम् अवाचकपदप्रयोग इति फलितार्थः। अवाचकत्वं च शक्त्या निरूढलक्षणया शास्त्रपरिभाषया वा बोध्यं समयबन्धव्यतिरेकेणेति बिशेषणीयं तेन यत्रापभ्रंशेन विचारः कर्तव्य इति समयबन्धस्तत्रापभ्रंशे न दोषः। झटिति संवरेण तु न दोष इत्युक्तप्रायम्। अस्य सम्भवः प्रमादादित्यवधेयम्” वृत्तिः। क्रमश्चेहाक्षरसमाम्नाये माहेश्वरे सूत्रे यथा पठितास्तथेत्यर्थः।

निरवकाश = त्रि० निर्गतोऽवकाशो यस्य प्रा० ब०। १ असम्भवत्कालान्तरकर्त्तव्यताके कार्य्ये २ अवकाशशून्ये च।

निरवग्रह = त्रि० निर्गतीऽवग्रहः प्रतिबन्धो वृष्टिप्रतिबन्धो नियमनं वा यस्य प्रा० व०। १ स्वच्छन्दे स्वतन्त्रे अन्येच्छानधीनप्रवृत्तियुक्ते अमरः। “केचित् क्रोधसमाविष्टा मदान्धा निरवग्रहाः” भा० भी० ९४ अ०। २ वृष्टिप्रतिबन्धशून्ये च।

निरवद्य = त्रि० निर्गतभवद्यं दोषः अज्ञानं रागद्वेषादि वा यस्य। १ निर्दोषे उत्कृष्टे “तस्य निरवद्यविद्योद्द्योतेन द्योतितस्तत्त्वतोऽयमर्थः” दायभा०। २ अज्ञानश्न्ये ३ रागादिशून्ये परमात्मनि च “निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्” श्वेता० उ०।

निरवयव = त्रि० निर्गतोऽवयवो यस्य। न्यायमत १ अवयवशून्ये परमाण्वाकाशादौ सर्वथावयवशून्ये २ ब्रह्मणि च “नाशकारणाभावेन निरवयवद्रव्याणां नाशाभावः” सा० प्र० भा०

निरवशेष = त्रि० निर्गतोऽवशेषो यस्य। अवशेषशून्ये समग्रे “यावत् निरवशेषं भवति तावत् दाहयित्वा” आश्व० श्रौ० ३। ११। ५।

निरवसित = त्रि० निर् + अव + सो–क्त। येन भुक्ते पात्रं संस्कारेणापि न शुध्यति तस्मिन् पात्रबहिष्कृते चण्डालादौ।

निरवहानिका = स्त्री निर + अव + हन–ण्वुल्। प्राचीरे शब्दमाला।

निरविन्द = पु० पर्वतरूपे तीर्थभेदे “अश्मपृष्ठे गयायाञ्च निरविन्दे च पर्वते” भा० आनु० २५ अ०।

निरशन = अव्य० अशनस्याभावः अव्ययो०। १ भोजनाभावे। निर्गतमशनं यस्य प्रा० ब०। २ भोजनरहिते त्रि० “अश्मकुट्टा निरशना दशपञ्चतपाश्च ये” हरिवं० ४६ अ०।

निरष्ट = पु० निर्गतानि अष्टौ वयोव्यञ्जनानि यस्मात् डद्समा०। चतुर्विंशतिवर्षीये २ अश्वे “अश्वशतं निरष्टं निरमणम्” शत० ब्रा० १२। ४। २। ५ “अश्वस्य दन्तगतानि वयोव्यञ्जनानि भवन्ति तेषामेमैकं त्रीणि त्रीणि बर्षाणि अनुवर्त्तते तान्यष्टौ व्यञ्जनानि निर्गतान्यस्मादिति निरष्टं चतुविंशतिवषीयम्” भा०। निर + अक्ष–क्त। २ निराकृते त्रि० “वृषायुधो न वध्रयो निरष्टाः” ऋ० १। ३३। ६ “निरष्टा निराकृताः” भा०।

निरस = त्रि० निवृत्तो रसो यस्मात् प्रा० ब०। १ निवृत्तरसे रसहीने २ निःश्रेणिकातृणे स्त्री राजनि०।

निरसन = न० निर् + असु–क्षेपे भावे ल्युट्। प्रत्याख्याने अमरः “स पितुर्विक्रियां दृष्ट्वा राज्यान्निरसनं तथा” मा० आश्व० ४ अ०। आधारे ल्युट्। २ बधे निष्कृष्य असनम् क्षेपणम्। ३ निष्ठीवने च मेदि०। ष्टिवु निरसने इत्युक्तेः ष्ठीवनस्य निष्कृष्यश्लेष्मादेः क्षेपणरूपत्वात्तथात्वम्।

निरस्त = त्रि० निर–अस–क्षेपे कर्मणि क्त। १ प्रत्याख्याते निवारिते अमरः “निरस्तगाम्भीर्य्यमपास्तपुष्पकम्” माघः “निरस्तः परावसुः” क्रव्यादाग्निभानत्यागे मन्त्रः। २ त्वरितोदिते न०। ३ त्यक्तशरे पु० अमरः। ४ निष्ठ्यूते ५ प्रतिहते ६ प्रेषिते त्रि० मेदि०। भावे क्त। ७ निष्ठीवने ८ निवारणे ९ क्षेपणे च न०।

निरस्थि = न० निर्गतमस्थि यस्मात् प्रा० ब०। दूरीकृतास्थिके मांसे “मांसं निरस्थि सुस्विन्नं पुनर्दृ दि चूर्णितम्” सुश्रुतः।

निरहङ्कार = त्रि० निर्गतोऽहङ्कारो यस्य प्रा० व०। १ अभिमानशून्ये देहेन्द्रियादावहममित्यभिमानशून्ये २ धनविद्यावत्त्वादिनिमित्तात्मोत्कर्षसम्भावनाहीने च “निर्वैरा निरहङ्कारा विगतक्रोधमत्सराः” भा० आश्र० ३२ अ०।

निरहम् = त्रि० निर्गतमहमिति बुद्धिर्यस्य प्रा० ब०। अहङ्कारशून्ये “प्रत्यक् प्रशान्तं सुधियोपलम्भं ह्यनामरूपं निरहं प्रपद्ये” भाग० ५। १९। ४ श्लो०।

निरह्न = पु० निर्गतमह्नः प्रा० स० टच्समा० “अह्नोह्न एतेभ्यः” पा० अह्नादेशः अह्नोऽदन्तात्” पा० नियमात् न णत्वम् “अह्नाहान्ताः पुंसि” पा० पुंस्त्वम्। १ निर्गते दिने निष्क्रान्तोऽह्नः निरा० त० साधनं प्राग्वत्। २ दिनात् निर्नते त्रि०।

***