नार = त्रि० नरस्येदम् अण्। १ नरसम्बन्धिनि २ परमात्मसम्बन्धिनि च “नारं स्पृष्ट्वा तु सस्नेहं सचेलं जलमाविशेत्” स्मृतिः नरशब्दे उदा० दृश्यम्। ३ जले “आपो नारा इति प्रोक्ताः आपौ वै नरसूनवः” मनुः। आर्षत्वात् ङीपोऽभावः। लोके स्त्रियां ङीब नारी इत्येव। ४ तर्णके बालके च मेदि०। नराणां समूहः अण्। ५ नरसमूहे न०।

नारक = पु० नरक एव प्रज्ञा० अण्। १ नरके। नरको भोम्यतयाऽस्त्यस्व अण्। २ नरकस्त्ये प्राणिनि त्रि० अमरः।

नारकिन् = त्रि० नरको भोज्यतयाऽस्त्यस्य इनि। नरकभोगिनि “परेण विहितं कर्म स्वकर्मेति वदेच्च यः। स उच्यते ब्रह्मघाती महानारकिनारकी” वृहद्धर्मपु०।

नारकीट = पु० नारकीव एटति इट–गतौ क। १ अश्मकीटे नारे मनुष्यसमूहे कीट इव। २ स्वदत्ताशाहन्तरि च मेदि०

नारङ्ग = न० नारं गच्छति वा० ड मुम् नारमिवाङ्गं यस्य वा शकु०। ३ गर्जरे (गा~जर) राजनि०। २ पिप्पलीरसे ३ यमजप्राणिनि ४ विटे। न अरङ्गो यत्र। ५ फलप्रधानवृक्षविशेषे पु० मेदि० (नारङ्गी) ६ नागरङ्गे जम्बीरभेदे “नारङ्गं मधुराम्लं स्यात् रोचनं वातनाशनम्। अपरं त्वम्लमत्युष्णं दुर्जरं वातपित्तनुत्” राजवल्लभः। “नारङ्गकेसरमपाकृतवीजपूरं योऽश्नाति खण्डमरिचोद्भवचूर्णमिश्रम्। अन्नं गले विशति तस्य नरस्य जीर्णं संगृह्यमाण इव राहुगलेन चन्द्रः”।

नारङ्गक्षीरिणी = स्त्री नारङ्गमिश्रिता क्षीरिणी। क्षीरिकाभेदे “क्षिप्त्वा नारङ्गमज्जां वै पचेत् सर्पिषि तापिते। तत्र खण्डं विनिःक्षिप्य पक्वं मत्वाऽवतारयेत्। शीती भूते विनिःक्षिप्य मात्रयार्द्धशृतं पयः। नारङ्गक्षीरिणीत्येषा सुगन्धिसुरभीकृता। विष्टम्भिती हरेद्वातं पित्तञ्च गुरुपाचिका” शब्दार्थचि० धृतवाक्यम्।

नारङ्गवर्णक = न० नारङ्गस्येव वर्णोऽस्य फले कप्। गृञ्जने शब्दार्थचि०।

नारद = पु० नरस्य धर्म्यम् “नराच्चेति वक्तव्यम्” इत्यञ् नारं ददाति दा–क। १ देवर्षिवरे मुनिभेदे तन्नामनिरूक्तिर्नहुधा दर्शिता यथा “नारं पागीयमित्युक्तं तत्पितृभ्यः सदा भवान्। ददाति तेन ते नाम नारदेति भविष्यति” इत्यागमः। नारदेन पुराकल्पाश्रितः स्तजन्मवृत्तान्तो व्यासं प्रति भाग० १। ५। ६ अ० उक्तो यथा

“अहं पुराऽतीतभवेऽभवं मुने! दास्याश्च कस्याश्चन वेदवादिनाम। निरूपितो वालक एव योनिनां शुश्रूषणे प्रावृषि निर्विविक्षताम्। ते मय्यपेताखिलचापलेऽर्भके दान्तेऽधृतक्रीडनकेऽनुवर्त्तिनि। चक्रुः कृपां यद्यपि तुल्यदर्शनाः शुश्रूषमाणे मुनयोऽल्पभाषिणि” इत्युपक्रमे तेभ्यो मुनिभ्यो विमलज्ञानस्य आत्मनो लाभमुक्त्वा अनन्यमक्त्या परमेश्वरोपासने कृते भगवतः पार्षदेन जन्मान्तरे तव पारमेश्वररूपदर्शनं भविष्यतीति आत्मानं प्रति उपदेशं वर्णयित्वाऽन्ते स्वस्य जन्मान्तरं वर्णितं यथा “एवं कृष्णमतेर्ब्रह्मन्नासक्तस्यामलात्मनः। कालः प्रादुरभूत् काले तडित् सौदामनी यथा। प्रयुज्यमाने मयि तां श्रद्धां मागवतीं तनुम्। आरब्धकर्मनिर्वाणो ह्यापतत् पाञ्चमौतिकः। कल्पान्त इदषादाय शयानेऽम्भस्युदन्वतः। शिशयिषोरनुप्राणं विवेशान्तरहं विभोः। सहस्रयुगपर्य्यन्त उत्थायेदं सिसृक्षतः। मरीचिमिश्रा ऋषयः प्राणेभ्योऽहञ्च जज्ञिरे। अन्तर्क- हिश्च लोकांस्त्रीन् पर्थ्येम्यस्कन्दितव्रतः। अनुग्रहान्महाविष्णोरविघातगतिः क्वचित्। देवदत्तामिमां वीणां स्वरब्रह्मविभूषिताम्। मूर्च्छयित्वा हरिकथां गायमानश्चराम्यहम्”। कश्यपापत्यनारदवीर्येण तस्य कल्पभेदे शुद्रागर्भजातकथा ब्रह्मवै० प्र० ख० २१। २२ अ० यथा “कान्यकुब्जे च देशे च द्रुमिलो गोपराजकः। कलावती तस्य पत्नी वन्ध्या चापि पतिव्रता। स्वामिदोषेण, सा सन्ध्याकाले च भर्तुराज्ञया। उपस्थितं वने घोरे नारदं काश्यपं मुनिम्। क्रोशमानञ्च श्रीकृष्णं ज्वलन्तं ब्रह्मवर्च्चसा। तस्थौ सुवेशं कृत्वा सा ध्यानान्तञ्च मुनेः पुरः। उवाच विनयेनैव कृत्वा च श्रीहरिं हृदि। गोपिकाहं द्विजश्रेष्ठ! द्रुमिलस्य च कामिनी। पुत्रार्थिनी चागताहं त्वन्मूलं भर्त्तुराज्ञया। वीर्य्याधानं कुरु मयि स्त्री नोपेक्ष्या ह्युपस्थिता। तेजीयसां न दोषाय वह्णेः सर्वभुजो यथा। वृषलीवचनं श्रुत्वा चुकोप मुनिपुङ्गवः। वृषली तत् पुरस्तस्थौ शुष्ककण्ठौष्ठतालुका। एतस्मिन्नन्तरे तेन पथा गच्छति मेनका। तस्या ऊरुस्थलं दृष्ट्वा मुनेर्वीर्यं पपात ह। ऋतुस्नाता च वृषली कृत्वा तद्भक्षणं मुदा। सा विप्रगेहे साध्वी च सुषाव तनयं वरम्। तप्तकाञ्चनवर्णाभं ज्वलन्तं ब्रह्मतेजसा। अनावृष्ट्यावशेषे च काले बालो बभूव ह। नारं ददौ जन्मकाले तेनायं नारदाभिधः। ददाति नारं ज्ञानञ्च बालकेभ्यश्च बालकः। जातिस्वरो महाज्ञानी तेनायं नारदाभिधः। वीर्येण नारदस्यैव बभूव बालको मुने!। मुनीन्द्रस्य वरेणैव तेनायं नारदाभिधः। कल्पान्तरे ब्रह्मकण्ठाद्बभूवुर्बहवो नराः। नरान्ददो तत्कण्ठञ्च तेन तन्नारदः स्मृतः। ततो बभूव बालश्च नारदात् कण्ठदेशतः। ततो ब्रह्मा नाम चक्रेनारद इति मङ्गलम्” आदिनारदश्च व्रह्मणो ललाटाज्जातः यथोक्तं हरिवं० २१० अ० “ललाटमध्यादसृजन्नारदं प्रियविग्रहम्। सनत्कुमारं मूर्घ्नश्च महायोगी पितामहः”। तस्य दक्षशापकथा “नष्टेषु श्वबलाश्वेषु दक्षः क्रुद्धोऽब्रवीद्वचः। नारद नाशमेहीति गर्भवासं वसेति च हरिवं० ३ अ०। तस्याहर्निशं च भ्रमणं दक्षशाप्रात् यथा “तांश्चापि नष्टान् विज्ञाय पुत्रान् दक्षः प्रजापतिः। क्रोधं चक्रे महाभान! नारदं स शशाप च” स च शापः “तस्माश्लोकेषु ते मूढ! न भवेद्भ्रमतः पदम्” भाग० ६। ५। ४१ स च भगवदवतारभेदः यथाह भाग० १। ३। ९ “नृतीय- मृषिसर्गं वै देवर्षित्वमुपेत्य सः। तन्त्रं सात्वतमाचष्टे नैष्कर्म्म्यं कर्मणाम्मतम्”। तस्य स्वरूपं यथा “ज्वलिताग्निप्रतीकाशो बालार्कसदृशेक्षणः। सव्यापवृत्तं विपुलं जटामण्डलमुद्वहन्। चन्द्रांशुशुक्ले वसने वसानो रुक्मभूषणः। वीणां गृहीत्वा महतीं कक्षासक्तां सखीमिव। कृष्णाजिनोत्तरासङ्गो हेमयज्ञोपवीतवान्। दण्डी कम ण्डलुघरः साक्षाच्छक्र इवापरः। मेत्ता जगति गुह्यानां विग्रहाणां गुहोपमः। महर्षिर्विग्रहरुचिर्विद्वान् गान्धर्ववेदवित्। वैरकेलिकिलो विप्रो ब्राह्मः कलिरिवापरः। देवगन्धर्वलोकानामादिवक्ता मुनिः परः। गाता चतुर्णां वेदानामुद्गाता प्रथमर्त्विजाम्। स नारदोऽथ विप्रर्षिर्ब्रह्मलोकचरोऽव्ययः” हरिवं० ५५ अ०। २ विश्वामित्रपुत्रभेदे “लीलाढ्यो नारदश्चैव तथा कूर्चासुखः स्मृतः” भा० अनु० ४ अ०। विश्वामित्रपुत्रोक्तौ। स्वायम्भवमनुसृष्टे ३ प्रजापतिभेदे “अहं प्रजाः सिसृक्षुस्तु तपस्तप्वा सुदुरुश्चरम्। पतीन् प्रजानामसृजं महर्षीनादितो दश। मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम्। प्रचेतसं वसिष्ठञ्च भृगुं नारदमेव च” स्वायम्मवमनूक्तौ। कश्यपस्य मुनिपत्न्यां जाते ४ गन्धर्वभेदे “कलिः पञ्चदशस्तेषां नारदश्चैव षोडशः। इत्येते देवगन्धर्वा मौनेयाः परिकीर्तिताः” भा० आ० ६५ अ०।

नारदपञ्चरात्र = न० नारदकृते पञ्चरात्रे तन्त्रभेदे तत्र प्रतिपाद्यविषयाश्च दिङ्मात्रमत्रोच्यन्ते। अभिगमनमुपादानमिज्या स्वाध्यायो योग इति पञ्चविधमुपासनं तत्राभिगमनं नाम देवतास्थानमार्गस्य संमार्जनोपलेपनादि। उपादानं नाम गन्धपुष्पादिपूजासाधनसम्पादनम्। इज्या नाम देवता पूजनम्। स्वाध्यायो नाम अर्थानुसन्धानपूर्वको मन्त्रजपो वैष्णवसूक्तस्तोत्रपाठो त्रामसंकीर्त्तनं तत्त्वप्रतिपादकशास्त्राभ्यासश्च। योमो नामदेवतानुसन्धानम्। अन्यत् तत्र दृश्यम्।

नारदशिक्षा = स्त्री नारदकृते वर्णोच्चारणशिक्षाभेदे

नारदीय = न० नारदस्येदम् “वृद्धाछः” पा० वेदव्यासकृते नारदं प्रति सनकाद्युपदेशात्मके महापुराणभेदे तत्प्रतिपाद्यविषयाश्च वृहन्नारदीये ९६ अ० उक्ता यथा श्रीब्रह्मोवाच। “शृणु विप्र! प्रवक्ष्यामि पुराणं नारदीयकम्। पञ्चविंशतिसाहस्रं वृहत् चित्रकथाश्रयम्। सूतशौनकसंवादः सृष्टिसंक्षेपवर्णनम्। नानाधर्मकथाः पुण्याः प्रवृत्ते समुदाहृताः। प्रागभागे प्रथमे पादे सन- केन महात्मना। द्वितीये मोक्षधर्माख्ये मोक्षोपायनिरूपणम्। वेदाङ्गानाञ्च कथनं शुकोत्पत्तिश्च विस्तरात्। सनन्दनेन गदिता नारदाय महात्मने। महातन्त्रे समुद्दिष्टं पशुपाशविमोक्षणम्। मन्त्राणां शोधनं दीक्षा मन्त्रोद्धारश्च पूजनम्। प्रयोगाः कवचं नामसहस्रं स्तोत्रमेव च। गणेशसूर्य्यविष्णूनां शिवशक्त्योरनुक्रमात्। सनत्कुमारमुनिना नारदाय तृतीयके। पुराणलक्षणञ्चैव प्रमाणं दानमेव च। पृथक् पृथक् समुद्दिष्टं दानकालपुरःसरम्। चैत्रादिसर्वमामेषु तिथीनाञ्च पृथक् कृथक्। प्रोक्तं प्रतिपदादीनां व्रतं सर्वाघनाशनम्। सनातनेन सुनिना नारदाय चतुर्थके। पूर्वभागोऽयमुदितो वृहदाख्यानसंज्ञितः। अस्योत्तरे विभागे तु प्रश्र एकादशीव्रते। वशिष्ठेनाथ संवादो मान्धातुः परिकीर्त्तितः। रुक्माङ्गदकथा पुण्या मोहिन्युत्पत्तिकर्म च। वसुशापश्च मोहिन्यै पश्चादुद्धरण क्रिया। गङ्गाकथा पुण्यतमा गयायात्रानुकीर्त्तनम्। काश्या माहात्म्यमतुलं पुरुषोत्तमवर्णनम्। यात्राविधानं क्षेत्रस्य वह्वाख्यानसमन्वितम्। प्रयागस्याहि माहात्म्यं कुरुक्षेत्रस्य तत्परम्। हरिद्वारस्य चाख्यानं कामोदाख्यानकं तथा। वदरीतीर्थमाहात्म्यं कामाख्यायास्तथैव च। प्रभासस्य च माहात्म्यं पुराणाख्यानकं ततः। गौतमाख्यानकं पश्चाद् वेदपादतपस्ततः। गोकर्णक्षेत्रमाहात्म्यं लक्षणाख्यानकं तधा। सेतुमाहात्म्यकथनं नर्मदातीर्थवर्णनम्। अवन्त्याश्चैव माहात्म्यं मथुरायास्ततःपरम्। वृन्दावनस्य महिमा वसोर्व्रह्मान्तिके गतिः। मोहिनीचरितं पश्चादेवं वै नारदीयकम्। यः शृणोति नरो भक्तप्रा श्रावयेद्वा समाहितः। स याति ब्रह्मणो धाम नात्र कार्य्या विचारणा। यस्त्वेतदिह पूर्णायां धेनूनां सप्तकान्वितम्। प्रदद्याद्द्विजवर्य्याय स लभेन्मोक्षमेव च। यश्चानुक्रमणीमेतां नारदीयस्य वर्णयेत्। शृणुयाद्वैकचितेन सोऽपि स्वर्गगतिं लभेत्”।

नारसिंह = न० नरसिंहमधिकृत्य कृतो ग्रन्थः अण्। नरसिंहचरिताख्याने उपपुराणभेदे

नारा = स्त्री नरस्येयमण् बा० ङीबोऽभावः। जले शब्दर०। “आपो नारा इति प्रोक्ता आपो वै नरसूनवः” मनुः।

नाराच = पु० नरान् आचामति आ + चम–ड स्वार्थे अण्, नारं नरसमूहमाचामति आ + चम–ड वा। सर्वलौहमये वाणे अमरः। “तत्र नाराचदुर्दिनम्” रघुः नालीकशब्दे दृश्यम्” कुपित मदनमुक्तोत्तप्तनाराचलीलाम्” माघः “इह गनरचतुष्कसृष्टन्तु नाराचमाचक्षते” उक्ते छन्दोभेदे न०

नाराचिका = स्त्री नाराचस्तदाकारोऽस्त्यस्याः ठन्। नाराचाकृतियुक्ते स्वर्णकारादीनां तोलनार्थे यन्त्रभेदे (निकति) शब्दर० अस्त्यर्थे अण् ङीप्। नाराचीत्यपि तत्रार्थे। स्वल्पार्थे ङीपि तु स्वल्पे नाराचे स्त्री।

नारायण = पु० नानाविधा निरुक्तिः अनुपदं वक्ष्यते तदनुसारेण व्युत्पत्तिः। १ विष्णौ परमात्मनि “जह्नुर्नारायणो नरः” विष्णु स०। भाष्ये अस्य व्युत्पत्तिर्दर्शिता यथा “नर आत्मा ततो जातान्याकाशादीनि नाराणि तानि कार्य्याणि अयते कारणात्मना व्याप्नुते नारायणः “यच्च किञ्चिज्जगत् सर्वं दृश्यते श्रूयतेऽपि वा। अन्तर्वहिश्च तत्सर्वं व्याप्य नारायणः स्थितः” इति मन्त्रवर्णात् “नराज्जातानि तत्त्वानि नाराणीति विदुर्बुधाः। तान्येवायनं यस्य तेन नारायणः स्मृतः” इति महामारते। अयनत्वात् प्रलय इति वा “यत् प्रयन्त्यभि संविशन्तीति” श्रुतेः “आपो नारा इति प्रोक्ता आपो वै नरसूनवः। ता यदस्यायनं पूर्वं तेन नारायणः ॠतः” मनुः। ब्रह्मवै० ज० ख० १०९ अ० अन्यथा निरुक्तिर्दर्शिता यथा “सारूयमुक्तिवचनो नारेति च विदुर्बुधाः। यो देवोह्ययनं तस्य स च नारायणः स्मृतः। नाराश्च कृतपापाश्चाप्ययनं गमनं स्मृतम्। यतो हि गमनं तेषां सोऽयं नारायणः स्मृतः। नारञ्च मोक्षणं पुण्यमयनं ज्ञानमीप्सितम्। तयोर्ज्ञानं भवेद् यस्मात् सोऽयं नारायणः स्मृतः”। “नारायणेति शब्दोऽस्ति वागस्ति वशवर्त्तिनी। तथापि नरके मूढाः पतन्मीह किमद्भुतम्”। महाभारतम्। नरस्यापत्यम् नडा० फक्। २ नरस्यापत्ये पु० स्त्री० ३ अजामिलपुत्रभेदे “कान्यकुब्जे द्विजः कश्चिद्दासीपतिरजामिलः। नाम्ना नष्टसदाचारो दास्याः संसर्गदूषितः। तस्य प्रवयसः पुत्रादश तेषान्तु योऽवरः। वालो नारायणी नाम्ना पित्रोश्च दयितो भृशम्। दूरे क्रीडनकासक्तं पुत्रं नारायणाह्वयम्। ग्लपितेन स्वरेणोच्चै राजुहावाकुलेन्द्रियः”। “निशम्य म्रियमाणस्य मुखतो हरिकीर्त्तनम्। मर्तुर्नाम महाराज! पार्श्वदाः सहसाऽपतन्। विकर्षतोन्तर्हृदयाद्दासीपतिमजामिलम्” भाग० ६। १ अ०। नारायणस्येदम् अण्। ४ नारायणसम्बन्धि सैन्यभेदे “मत्संहननतुल्यानां गोपानामर्वुदं महत्। नारायणा इति ख्याताः सर्वसंग्रामयोधिनः” भा० उ० ७ अ० ५ धमैपुत्रर्षिभेदे नरशब्दे दृश्यम्। सुखबोधोक्ते ६ तैलभेदे न० तच्च त्रिविधं स्वल्पं वृहन्महच्चेतिभेदात्। तेषां पाकद्रव्यादि क्रमेण तत्रोक्तं तत्रस्वल्पस्य “विल्वाग्निमन्वश्योनाकपाटलापारिभद्रकाः। प्रसारण्याश्वगन्धा च वृहती कण्टकारिका। बला चातिबला चैव श्वदंष्ट्रा सपुनर्णवा। एषां दश पलान् भागान् चतुर्द्रोणेऽम्भसः पचेत्। पादशेषं परिस्राव्य तैलपात्रे प्रदापयेत्। शतपुष्पा देवदारु मांसी शैलेयकं वचा। चन्दनं तगरं कुष्ठमेलापर्णीचतुष्टयम्। रास्ना तुरगगन्धा च सैन्धवं सपुनर्णवम्। एषां द्विपलिकान् भागान् पेषयित्वा विनिःक्षिपेत्। शतावरीरसञ्चैव तैलतुल्यं प्रदापयेत्। आजं वा यदि वा नव्यं क्षीरं दत्त्वा चतुर्गुणम्। पाने वस्तौ तथाभ्यङ्गे मोज्ये चैव प्रशस्यते। अश्वो वा वातसम्भग्नो गजो वा यदि वा नरः। पङ्गुकः पीठसर्पी च तैलेनानेन सिध्यति। अधोभागे च ये वाताः शिरोमध्यगताश्च ये। दन्तशूले हनुस्तम्भे मन्यास्तम्भे गलग्रहे। बल्यं शुष्यति चैकाङ्गं नतिर्यस्य च विहला। क्षीणेन्द्रिया नष्टशुक्रा ज्वरक्षीणाश्च ये नराः। बधिराः शल्लजिह्वाश्च मन्दमेधस एव च। अल्पप्रजा च या नारी या च गर्भं न विन्दति। वातार्त्तौ वृषणौ येष्ममन्त्रवृद्धिश्च दारुणा। एतत् तैलवरं तेषां स्वल्पं नारायणं स्मृतमिति”दृहतः “शतावरी चांशुमती पृश्निपर्णी शठी बला। एरण्डस्य च मूलानि वृहत्याः पूतिकस्य च। गवेधुकस्य मूलानि तथा सहचरस्य च। एषां दशपलान् भागान् जलद्रोणे विपाचयेत्। पादशेषं रसे पूते तत्र तैलं समावपेत्। पुनर्णवाबचादारुशताह्वाचन्दनामुरु। शैलेयं तगरं कुष्ठमेलाभांसीस्थिराबला। अश्वाह्वासैन्धवं रास्नापलार्द्धानि च पेषयेत्। मव्याश्रपयसः प्रस्थौ द्वौ द्वावत्र प्रदापयेत्। शतावरीरसप्रस्थं तैलप्रस्थं विपाचयेत्। अस्य तैलस्य सिद्धस्य शृणु वीर्य्यमतः परम्। अश्वानां वातभग्नानां कुञ्जराणां तथा नृणाम्। तैलमेतत् प्रयोक्तव्यं सर्ववातनिवारणम्। आयुष्मांश्च नरः पीत्वा निश्चयेन दृढो भवेत्। गर्भमश्वतरी विन्देत् किम्पुनर्मानुषी तथा। हृत्स्यूलं पार्श्वशूलञ्च तथैवार्द्धावभेदकम्। अपचिं गण्डमालाञ्च वातरक्तं हनुग्रहम्। कामलां पाण्डुरोगञ्च अश्मरीञ्चापि नाशयेत्। तैलमेतद् भगवता विष्णुना परिकीर्तितम्। नारायणमिति ख्यातं वातान्तकरणं शुभमिति”। वृहन्नारायणतैलम्।महतः “विल्वाश्वगन्धा वृहती श्वदंष्ट्रा श्योनाकवाट्यालकपारिभद्रम्। क्षुद्रा कठिल्लातिबलाग्निमन्थं मूलानि चैषां सरलायुतानाम्। मूलं विदद्यादथ पाटलीशं प्रत्येकमेषां प्रवदन्ति तज्ज्ञाः। सपादप्रस्थं विधिनोद्धृतञ्च द्रोणैरपामष्टभिरेव पक्त्वा। पादावशेषेण रसेन तेन तैलाढकाभ्यां सममेवदुग्धम्। छानस्य मांसद्रवमेव तुल्यमेकत्र सम्यक् विपचेत् सुबुद्धिः। दद्याद्रसञ्चैव शतावरीणां तैलेन तुल्यं पुनरेव तत्र। रास्नाश्वगन्धाद्रुमदारुकाष्ठं पर्णी चतुष्का गुरुकेसराणि। सिन्धूत्थमांसीरजनीद्वयञ्च शैलेयकं चन्दनपुष्कराणि। एला सयष्टी तगराव्दपत्रं भृङ्गाष्टवर्गास्तु वचापलाशम्। स्थौणेयवृश्चीरकचोरकाख्यमेभिः समस्तैर्द्विपलप्रमाणैः। कर्पूरकाश्मीरमृगाण्डजानां दद्यात् सुनन्धाय वदन्ति केचित्। प्रस्वेददौर्गन्ध्यनिवारणार्थं चूर्णीकृतानाम् द्विपलप्रमाणम्। आलोड्य सम्यग्विधिवद्विपक्वं नारायणं नाम महच्च तैलम्। सर्वैः प्रकारैर्विधिवत् प्रयोज्यमश्वस्य पुंसां पवनार्दितानाम्। ये पङ्गवः पीठविसर्पर्णाश्च एकाङ्गहीनार्द्दितवेपमानाः। वाधिर्यशुक्रक्षयपीडिताश्च मन्याहनुस्तम्भशिरोगदार्त्ताः। मुक्ता नरास्ते बलवीर्य्ययुक्ताः संसेव्य तैलं सहसा भवन्ति। वन्ध्या च नारी लभते च पुत्रं वीरोपमं सर्वगुणोपपन्नम्। शाखाश्रिते कोष्ठगते च वाते वृद्धौ विधेयं पवनार्दितानाम्। जिह्वानिले दन्तगते च शूले औन्मादकौब्जज्वर कर्षितानाम्। प्राप्नोति लक्ष्मीं प्रमदाप्रियत्त्वं जीवेच्चिरं चापि भवेद्युवेव। देवासुरे युद्धवरे समीक्ष्य स्नाव्यस्थि मम्नानसुरैः सुरांश्च। नारायणेनापि सुवृंहणार्थं स्वनामतैलं विहितन्तु तेषाम्”।

नारायणक्षेत्र = न० ६ त०। नारायणस्वामिके गङ्गातटक्षेत्रभेदे “प्रवाहमवधिं कृत्वा यावद्धस्तचतुष्टयम्। तत्र नारायणः स्वामी नान्यः स्वामी कथञ्चन” ब्रह्मपु०। अत्र च वर्ज्यमुक्तं वृहद्धर्म पु० ४५ अ०। “अत्र किञ्चिन्न दद्याच्च साक्षात्पात्राय पुण्यवान्। अत्र प्रतिग्रहे राजन्! विक्रीता जाह्नवो भवेत्। विक्रीतायाञ्च जाह्नव्यां विक्रीतः स्याज्जनार्द्दनः। जनार्दने च विक्रीते विक्रीतं भुवनत्रयम्। कोऽपि न त्राणकर्त्तास्य निःस्वम्बन्धप्रसङ्गतः”। तत्र कर्त्तव्यानि यथा “दीक्षाञ्च देवपूजाद्ध जपं गङ्गातटे चरेत्। शुष्कवासः पिधायात्र सावित्रीजपमाचरेत्। श्राद्धञ्च तर्पणञ्चैव परोपकारकर्म च। परोद्देशञ्च मनसा त्यक्तद्रव्यस्य दापनम्। स्तवपाठञ्च मौनञ्च नीचालापविवर्ज्जनम्। केवलं वारिपानञ्च कर्त्तव्यं ब्रह्मभावतः। एतानि किल कर्माणि क्षेत्रे नारायणे चरेत्”।

नारायणतीर्थ = न० तीर्थभेदे शिवपु०।

नारायणप्रिय = पु० ६ त०। १ शिवे २ पीतचन्दने नैघण्टुप्रका०।

नारायणबलि = पु० नारायणमुद्दिश्य देयो बलिः। दुर्मरणमृतानामौर्द्धदेहिकक्रियासम्प्रदानतायोग्यत्वार्थं नारायणादिपञ्चदेवतोद्देशेन देये बलिभेदे तस्य निमित्तञ्च आत्मधातिन्शब्दे ६६० पृ० उक्तं तद्विधानं निर्णय सिन्धावुक्तं यथा “नारायणवलिस्तु हेमाद्र्याद्यनुसारेणोच्यते तत्रादौ क्रियानिबन्धे गारुडे तर्पणमुक्तम् “कार्य्यं पुरुषसूक्तेन मन्त्रैर्वा वैष्णवैरपि। दक्षिणाभिमुखो भूत्वा प्रेतं विष्णुमिति स्मरन्। अनादिनिधनो देवः शङ्खचक्रगदाधरः। अक्षय्यः पुण्डरीकाक्षः प्रेतमोक्षप्रदो भवेति”। शुक्लैकादश्यां देशकालौ संकीर्त्यामुकगोत्रस्यामुकस्य दुर्मरणात्मघातजदोषनाशार्थम् और्ध्वदेहिकसम्प्रदानत्वयोग्यतासिध्यर्थं नारायणवलिं करिष्ये इति सङ्कल्प्य ब्रह्माणं विष्णुं शिवं यमं प्रेतञ्च पञ्चकुम्भेषु स्थापयेत् “विष्णुः स्वर्णमयः कार्यो रुद्रस्ताम्रमयस्तथा। ब्रह्मा रौप्यमयस्तत्र यमो लोहमयो भवेत्। प्रेतोदर्भमयः कार्य्य इति देवप्रकल्पनेति” गारुडोक्तामु सर्वासु हैमीषु बा प्रतिमासु षोडशोपचारैः पुरुषसूक्तेनाभ्यर्च्याग्निं प्रतिष्ठाप्य चरुं पुरुषसूक्तेन प्रत्यृचं नारायणायेदमिति हुत्वा देवानामग्रे दक्षिणाग्रदर्भेषु विष्णुरूपं प्रेतं स्मरन् नामगोत्राभ्यां मधुघृततिलयुतान् दश पिण्डान् यज्ञोपवीत्येवामुकगोत्रामुकशर्मन्! प्रेत। विष्णुरूपाय ते पिण्ड उपतिष्ठताभिति दत्त्वा पुरुषसूक्तेनाभिमन्त्र्य तेनैव शङ्खोदकेनाभिषिच्याभ्यर्च्यामुकशर्माणममुकगोत्रं विष्णुरूपं प्रेतं तर्पयामीति पुरुषसूक्तेन प्रत्यृचं तर्पयित्वा एवमामान्नं ब्रह्मादिपञ्चभ्यो दद्यात् मन्त्रस्तु “ब्रह्मविष्णुमहाद्वेवा यमश्चैव सकिङ्करः। वलिं गृहीत्वा कुर्वन्तु प्रेतस्य च शुभां गतिम्”। मिताक्षरायान्तु होमवल्यादि नोक्तम्। ततः प्रतिदैवतं त्रिविधं फलं शर्करामधुगुडघृतानि च निवेद्य पिण्डानभ्यर्च्य नद्यां क्षित्वा रात्रौ नव सप्त पञ्च वा विप्रान्तिमन्त्र्योपोषितो जागरं कृत्वा श्वोभूते पुनर्विष्णुं ब्रह्माणं रुद्रं यमं संपूज्यैकोद्दिष्टविधिना श्राद्धपञ्चकं करिष्ये इत्युक्त्वा विष्णुयमब्रह्मरुद्रप्रेतान् स्मरन् विप्रानुपवेश्य प्रेतस्थाने चैकं विष्णुं स्मरन् पाद्यावाहनार्घ्ययुतं तृप्तिप्रश्रान्तं कृत्वोल्लेखनादि कृत्वान्नशेषेण विष्णवे ब्रह्मणे शिबाय यमाय सपरिवाराय चतुरः पिण्डान् दत्त्वा प्रेतनामगोत्रे स्मृत्वा विष्णुनाम्ना पञ्चमं दत्त्वाभ्यर्च्याचान्तेभ्यो दक्षिणां दत्त्वैकं प्रेतं स्मृत्वा विशेषतः सन्तोष्य विप्रैः प्रेतायेदं तिलोदकमुपतिष्ठतामिति सतिलमुदकं दापयित्वा भुञ्जीतेति। अत्र विशेषान्तरं च अनन्तभट्टकृतान्त्येष्टिपद्धतौ ज्ञेयम्”।

नारायणसरस् = न० ६ त०। तीर्थभेदे। “तेऽपि (शवलाश्वाः) पित्रा समादिष्टाः प्रजासर्गे धृतव्रताः। नारायणसरो जग्मुर्यत्र सिद्धाः स्वपूर्वजाः” भाग० ६। ५। २३

नारायणाश्रम = न० ६ त०। तीर्थभेदे “वाराणसी मधुपुरी पम्पा विन्दुसरस्तथा। नारायणाश्रमो नन्दा सीतारामाश्रमादयः” भाग० ७। १४। २६

नारायणी = स्त्री नारायणस्येयम् अण् ङीप्। नारायणस्य १ शक्तौ २ लक्ष्म्यां ३ दुर्गायाञ्च तन्निरुक्तिः “यशसा तेजसा रूपैर्नारायणसमा गुणैः। शक्तिर्नारायणस्येयं तेन नारायणी स्मृता” ब्रह्मवै० प्र० ख० ४५ अ०। “नारायणार्द्धाङ्गमूता तेन तुल्या च तेजसा। तथा तस्य शरीरस्था तेन नारायणी स्मृता” जन्मख० २७ अ०। नारस्य जीवसंघस्य जलस्य वा अयनी स्थानभूता। “जलायना नराधारा समुद्रशयनाऽपि वा। नारायणी समाख्यातानरनारीप्रवर्त्तिका। वसत्यदृष्टा सर्वेषु भूतेष्वन्तर्हितायतः। देव्या व्याप्तमिदं सर्वं जगत् स्थाबरजङ्गमम्” देवीपु०। ४ शतावर्य्यां हेमच०। ५ मुद्गलमुनिपत्न्यां च। “सर्वस्यार्त्तिहरे देवि! नारायणि! नमोऽस्तुते” देवीमा०

नारायणीय = त्रि० नारायणस्येदम् “वृद्धाच्छः” पा० छ। १ नारायणसम्बन्धिनि २ तदुपाख्याने। तच्चोपाख्यानं नारदनारायणर्षिसंवादरूपं भा० शा० ३२६ अ० अध्यायावधि “नारदस्य च संवादमृषेर्नारायणस्य च” इत्युपक्रमे “नारायणीयमाख्यानमेतत्ते कथितं तव” इत्यन्तेन ३४८ अध्यायान्तेन दर्शितम्। ३ तत्प्रतिपादकोपनिषद्भेदे च उपनिषच्छब्दे दृश्यम्।

नारायणोपनिषद् = स्त्री ६ त०। उपनिषद्भेदे उपनिषच्छब्दे १२२३ पृ० दृश्यम्।

नाराशंस = पु० नरैरांशस्यते आ + शन्स–कर्मणि घञ् नराशंसाः पितरः तेषामयम् अण्। नाराशंसानां पितॄणां सोमपानसाधने १ चमसे “ते नाराशंसा आवैश्वदेवात्” कात्या० श्रौ० ९। १२। ८ “ते चमसा नाराशंससंज्ञाभवन्ति” कर्कः “आप्यायितांश्चमसान् सादयन्ति ते नाराशंसा भवन्ति” आश्व० श्रौ० ५। ६। ३०। नाराशंसा भवन्ति इत्यर्थः अन्वर्थसंज्ञेयं नाराशंसा नाम त्रय! पितृगणा ऊमाः और्वाः काव्याश्चेति तेषामनुसवनं यथासङ्ख्येनाप्यायितानां चमसानां देवता भवन्तीति नाराशंसाश्चमसा भवन्ति” नारायण०। २ तद्देवतासु पितृषु “अथ यदि नाराशंसेषु सन्नः किञ्चिदापद्यते पितृभ्यः नाराशंसेभ्यः इति जुहुयात् पितरोहि तर्हि नाराशंसाः” शत० ब्रा० १२। ६। ३३। ३ पित्र्यचमसस्थसोमे च “मनो न्वा हुवामहे नाराशंसेन सोमेन” ऋ० १०। ५७। ३ “नाराशंसेन चमसगतेन सोमेन। नरैः शस्यन्ते इति नराशंसाः पितरः तेषां चमसानां कम्पनमेव होमः। तथाविधेन सोमेन” भा०। ४ मन्त्रभेदे “येन नराः प्रशस्यन्ते स नारांशसोमन्त्रः” निरु० ९। ९ स च रुद्रदैवत्यः यथाह “वाकोवाक्यं पुराणञ्च नाराशंसांश्च गाथिकाः” याज्ञ० व्याख्याने “नाराशंसान् रुद्रदैवत्यामन्त्रान्” मिता०।

नारिकेल = पु० नल–इण् नालिः केन वायुना जलेन वा इलति चलति इल–क कर्म० रलयोरैक्यम्। स्वनामख्यातेऽवृक्षे अमरः। नालिकेरोऽपि तत्रार्थे शब्दरत्ना०। “नारिकेलफलं शीतं दुर्जरं वस्तिशोधनम्। विष्टम्भि वृंहणं बल्यं वातपित्तास्रदाहनुत्। विशेषतः कोमल नारिकेलं निहन्ति पित्तज्वरमूत्रदोषान्। तदेव जीर्णं गुरुपित्तकारि विदाहि विष्टम्भि मतं भिषग्भिः” नवस्य जलगुणाः। “तस्याम्भः शीतलं हृद्यं दीपनं शुक्रलंलघु। पिपासा पित्तजित् स्वादु वस्तिशुद्धिकरं परम्”। तस्य मस्तिष्कगुणाः “नारिकेलस्य तालस्य खार्जूरस्य शिरांसि तु। कषायस्निग्धमधुरवृंहणानि गुरूणि च” भावप्र० “वालस्य नारिकेलस्य जलं प्रायो विरेचनम्” इति राजवल्लभः। कांस्यपात्रे तत् जलं मद्यतुल्यं यथाह “नारिकेलोदकं कांस्ये ताम्रपात्रे स्थितं मधु। गव्यञ्च ताम्रपात्रस्थं मद्यतुल्यं घृतं विना” इति कर्मलोचनम्। तस्येदमण्। २ तदीये त्रि० “नारिकेलासवं तत्र शात्रवं व यशः पपुः” रघुः। अष्टम्यां तद्भक्षणनिषेधः “नारिकेले च मूर्खता” ति० त० तिथिभेदेऽभक्ष्योक्तौ “कोजागररात्रौ तदुदकपानं कार्यं यथाह “नारिकेलोदकं पीत्वा कोजाबर्त्तिमहीतले” ति० त० कोजागरशब्दे दृश्यम्।

नारिकेलक्षीरी = स्त्री क्षीरिकाभेदे “नारिकेलं तनूकृत्य च्छिन्नं पयसि गोः क्षिपेत्। सितागव्याज्यसंयुक्तं तत् पचेन्मृदुनाग्निना। नारिकेलोद्भवा क्षीरी स्निग्धा शीतातिपुष्टिदा। गुर्वी सुमधुरा वृष्या रक्तपित्तानिलापहा” भावप्र०।

नारी = स्त्री नरजातिः स्त्री नृ + नर + वा जातौ ङीष् नि०। १ नरजातिस्त्रियां तद्भेदा रतिमञ्जर्य्यामुक्ता यथा “पद्मिनी चित्रिणी चैव शङ्खिनी हस्तिनी तथा। चतस्रो जातयो नार्य्या रतौ ज्ञेया विशेषतः” अन्यथाऽपि त्रिधा “योषितस्त्रिविधा ब्रह्मन् गृहिणां मूढचेतसाम्। साध्वी भोग्या च कुलटा ताः सर्वाः स्वार्थतत्पराः। परलोकभयात् साध्वी तथेह यशसेऽर्थतः। कामस्नेहाच्च कुरुते भर्त्तुः सेवाञ्च सन्ततम्। भोग्या भोगार्थिनी शश्वत् कामस्नेहेऽथ केवलम्। कुरुते पतिसेवाञ्च न च भोगा दृते क्षणम्। वस्त्रालङ्कारसम्भोगं सुस्निग्धाहारमुत्त मम्। यावत् प्राप्नोति सा भोग्या तावच्च वशगा प्रिया। कुलाङ्गारसमा नारी कुलटा कुलनाशिनी। कपटात् कुरुते सेवां स्वामिनो न च भक्तितः। सदा पुंयोगमा शंसुर्मनसा मदनातुरा। आहारादधिकं जारं प्रार्थयन्ती नवं नवम्। जारार्थे स्वपतिं तात! हन्तुमिच्छति पुंश्चली। तस्यां यो विश्वमेन्मूढो जीवनं तस्य निष्फलम्। कथिता योषितः सर्वा उत्तमाधममध्यमाः। स्वात्मारामा विजानन्ति मनसा ता न पण्डिताः” ब्रह्मवै० ब्रह्म० ख० २३ अ०। गुरुत्रयपादके छन्दोभेदे “मो नारी” वृ० र०

नारीकवच = पु० सूर्यवंश्ये अश्मकस्य पुत्रे मूलकापरपर्य्याये नृपभेदे “अश्मकान्मूलको जज्ञे यः स्त्रीभिः परिरक्षितः। नारीकवच इत्युक्तो निक्षत्रे मूलकोऽभवत्” भाग० ९। ९। ३२ “स्त्रीभिः संवेष्ट्य परशुरामतः परिरक्षितः। अतो नारीकवच इत्युक्तः निःक्षत्रे सति क्षत्रवंशस्य मूलमभवत् अतो मूलक इति चोक्तः” श्रीधरः।

नारीकेल = पु० नारिकेल + पृषो०। नारिकेलशब्दार्थे शब्दरत्ना गौरा० ङीष्। नारीकेलीत्यप्यत्र स्त्री शब्दरत्ना०।

नारीच = न० नाडीच + पृषो०। (नालिता) शाकभेदे राजवल्ल

नारीतरङ्गक = पु० नारीं तरङ्गयति तरङ्ग + कृतौ णिण्वुल्। नाडीचित्तचञ्चलकारके जारे षिड्गे शब्दमा०

नारीतीर्थ = न० तीर्थभेदे भा० आ० २२६। २७ अ० तदाविर्भ वकथा दृश्या “त्रीणि पुण्यानि तीर्थानि ततः प्रभृति चैव ह। नारीतीर्थानि नाम्नेह ख्यातिं यास्यन्ति सर्वतः। पुण्यानि च भविष्यन्ति पावनानि मनीषिणाम्” यत्र घर्गाप्रमृतिपञ्चाप्सरसः विप्रशापेन ग्राहतां प्राप्ता अर्जुनेन मोचिताः अतस्तत्तीर्थनारीतीर्थत्वेन ख्यातम्।

नारीदूषण = न० ३ त०। “पानं दुर्जनसंसर्गः पत्या च विरहोऽटनम्। स्वप्नोऽन्यगृहवासश्च नारीणां दूषणानि षट्” मनूक्ते स्त्रीणां दोषभेदे। पानं सुरापानम्।

नारीमुख = पु० नाडी मुखं प्रधानं यत्र। वृ० मं० १४ अ० कूर्मविभागे नैरृत्यामुक्ते देशभेदे “वडवामुखारवाम्बष्ठ कपिलनारीमुखानर्त्ताः”।

नारीष्ट = त्रि० ६ त०। १ नारीप्रिये २ मल्लिकायां स्त्री राजनि०।

नारीष्ठ = त्रि० नार्य्यां तदानुकूल्ये तिष्ठति स्था–क षत्वम्। गन्धर्वभेदे “गन्धर्वाभ्यां नारीष्ठाभ्यां महाहाहाहूहूभ्यां स्वाहा” सां० श्रौ० ४। १०। ७

नारेय = पु० सत्राजित्पुत्रभङ्गकारस्य पुत्रभेदे “सभाक्षो भङ्गकारात्तु नारेयश्च नरोत्तमौ। जज्ञाते गुणसस्पन्नौ” हरिवं० ३९ अ०।

नार्य्य = पु० नृ–ण्यत् नरहिते नर्य्यं तस्येदं अण् वा। नरहितसम्बन्धिनि यज्ञे निघण्टुः “नार्य्यस्य दक्षिणा” ऋ० ८। ४। २९।

नार्य्यङ्ग = पु० नार्य्यं नरहितसम्बन्धिनं गच्छति गम–ड मुम् च। नारङ्गे जम्बीरभेदे हेमच०।

नार्य्यतिक्त = पु० नित्यकर्म०। किराततिक्ते नैघण्टुप्रकाशिका तस्य नरहितत्वात् तिक्तत्वाच्च तथात्वम्।

नाल = स्त्री न० नल–बन्धे ज्वला० ण। १ काण्डे २ पद्मादिदण्डे हेमच० “नालामृणालाग्रभुजो भजामः” नैष० “कश्चित् कराभ्यामुपगूढनालम्” रघुः “तयोरुपर्य्यायतनालदण्डः” कुमा०। नल–घञ्। ३ जलनिर्गमे जलादेः प्रवाहे पु० “यथा तोयार्थिनस्तोयं यन्त्रनालादिभिः शनैः” मार्कण्डेयपु०।

नालम्बी = स्त्री शिवस्य वीणायाम् हेमच०।

नालवंश = पु० नालं वंश इव। नले तृणभेदे राजनि०।

नालि(ली) = स्त्री नल–णिच् इन् वा ङीप्। १ नाड्यां दण्डे २ सिरायां ३ पद्मादिदण्डे ४ शाकभेदे च द्विरूपकोषः।

नालिक = पु० नलमेव नालमस्त्यस्य ठन्। १ पद्मे शब्दरत्ना०। २ महिषे पुंस्त्री० त्रिका० नाला + स्वार्थे क। नालिका नालायां स्त्री नालिताशाके शब्दच०। चर्मकषायां स्त्री जटाध०। हस्तिकर्णवेधनिकायां स्त्री हारा०। “गजाः सकृत्करतल लोलनालिका” माघः। श्वेतकलम्ब्यां कल्पतरुः “कुसुम्भं नालिकाशाकमिति” ति० त० पाठान्तरम्।

नालिकेर = पु० नल–बा० इण् केन वायुना ईर्य्यते ईर–घञ् कर्म०। नारिकेले तच्छब्दे दृश्यम्। तस्य खण्डपाकविधिगुणादि वैद्यके उक्तं यथा “कुडवं नालिकेरस्य सूक्ष्मं दृषदि पेषितम्। शुद्धखण्डस्य कुडवं गव्यक्षीरे चतुर्गुणे। आलोड्य नालिकेरस्य जले मृद्वग्निना पचेत्। धान्यकं पिप्पलीं शुण्ठीं चातुर्जातं सुचूर्णितम्। शाण प्रमाणं प्रत्येकं शीतीभूते क्षिप्रेद्बुधः। नालिकेरस्य खण्डोऽयं पुंस्त्वनिद्राबलप्रदः। अम्लपित्तं क्षयं कासं शूलं च परिणामजम्। नाशयेद्रक्तपित्तञ्च शुष्कं दावानलो यथा”। अत्र घृतपलेन कुष्माण्डवन्नालिकेरस्य भर्जनं विधेयमिति सम्प्रदायः। वृ० सं० १४ अ० कूर्मविभागे आग्नेय्यामुक्ते २ देशभेदे “वृषनालिकेरचर्मद्वीपेत्यादि” तद्वाक्यम्। पृषो० रस्य लः। नालिकेलोऽप्यत्र।

नालिता = स्त्री नल–णिच्–क्त। नारीचशब्दोक्तगुणके पट्टशाके स्वनासख्याते शाकभेदे शब्दर०।

नाली = स्त्री नालि + वा ङीप्। १ शाककडम्बे (डा~टा) ख्याते पदार्थे मेदि०। “नालेन रहिता नाली सुस्विन्ना मुष्टिपीडिता। घृते तप्ते परिक्षिप्ता चिञ्चिणीपत्रसंयुता। नाली सरा लघुः शीता पित्तनुत् कफवातला। मुक्त शोककरी ज्ञेया लिप्ता शीथघ्निका मता” शब्दार्थचि०। २ हस्तिकर्णवेधन्याम् ३ दण्डात्मककाले घट्याम् त्रिका०। ४ पद्मे शब्दर० ५ पद्मदण्डे ६ प्रणाल्याम् ७ वाद्यविशेषे शब्दार्थचि०।

नालीक = पु० नाल्या कायति कै–क। मुखमात्रे लौहसंयुक्ते अन्तश्छिद्रे १ शरभेदे २ शल्याङ्गे ३ पद्मसमूहे च न० मेदि० ४ शल्ये विश्वः “कर्णिनालीकनाराचानुत्सृजन्तो महारथाः” भा० व० ६१ अ० ५ नारिकेलकमण्डलौ “तल्पे न शयीत नग्नो नालीकं विभृयाद्व्रती” स्मृतिः “कामुकानिव नालीकांस्त्रिणताः सहसाऽमुचन्” माघः। ततः पुष्करा० देशे इनि। नालीकिनी तत्समूहे स्त्री।

नालीघटी = स्त्री नाद्ध्या दण्डकालस्य बोधनार्था घटी डस्य लः। घटीवादनवाद्यभेदे स्त्री शब्दार्थचि०।

नालीप = पु० कदम्बके नैघण्टु प्रकाशिका।

नालीव्रण = पु० न० नाडी तत्र व्रणः + डस्य लः। नाडीव्रणशब्दार्थे

नाल्य = त्रि० नलस्यादूरदेशादि सङ्काशा० ण्य। नलस्यादूरदेशादौ

नावयज्ञिक = पु० नवयज्ञस्य तत्प्रतिपादकग्रन्थस्य व्याख्यानो ग्रन्थः ठञ्। नवयज्ञप्रतिपादकग्रन्थव्याख्याने १ ग्रन्थे नवयज्ञो वर्त्ततेऽस्मिन् काले तम इति वा ठञ्। २ नवयज्ञविधानयोग्ये काले च।

नाविक = पु० नाबा तरति “नौद्व्यचष्ठन्” पा० ठन्। १ नावा तारिणि। नौरस्त्यस्य बाह्यतया व्रीह्या० पक्षे ठन्। नौपृष्ठस्थदण्डचालनेन नौकाचालके ३ कर्णधारे “महावातसमुद्भूतामपरीक्षितनाविकाम्। अन्यनौप्रतिबद्धां वानोपेयान्नावमातुराम्” काम० नी० “नाविकपुरुषे न विश्वासः”। “अख्यातिरिति ते कृष्ण! मग्नानौर्नाविके त्वयि” इति च उद्भटः।

नाविन् = त्रि० नौरस्त्यस्य व्रीह्या० पक्षे इनि। नाविके स्वामी।

नावोपजीवन = पु० नावा उपजीवनमस्य आर्षे अलुक्स०। १ नौचालनोपजीविजातिभेदे “निषादो मद्गुरं सूते दासं नावोपजीवनम्” भा० आनु० ४८ अ० सङ्करजात्युक्तौ।

नाव्य = त्रि० नावा तार्य्यं यत् “वान्तोयि प्रत्यये” पा० आवादेशः। १ नौकयातार्य्ये देशे २ नौतार्य्यनद्यादौ च “नाव्याः सुप्रतराः नदीः” रघुः। नवस्य भावः ष्यञ्। ३ नूतनत्वे न०

नाव्युदक = न० नावि स्थितमुदकं नावि अग्निहोत्रसमाप्तिं यावदुदकम्। १ नौकास्थिते जले अग्निहोत्रार्थमग्निप्रणने कृते जलमात्रे च “तयोर्जलयोराहिताग्निना पाननिषेधः कात्या० श्रौ० ४। १०। १५ उक्तो यथा “अनृतातिथ्यपनोदपूतिदार्वाधानर्बीषपक्वनाव्युदकानि वर्जयेत्” सू० नाव्युदकम् नौशब्देन “नौर्ह वा एषा स्वर्ग्या यदग्निहोत्रमिति” श्रुतेरग्निहीत्रमुच्यते तेन अग्निहोत्रार्थमुद्धरणे कृते तत्समाप्तिं यावत् उदकपानं न कुर्य्यादित्यर्थः। अथ वा नावि नौकायां यदुदकम् तस्य पानं न कुर्य्यादिति मानवे “या अन्तर्नाव्यापः स्युर्न तासामाचामेन्न क्लिन्नं दार्वादध्यादिति”। यजमान आधानानन्तरमेतानि यावज्जीवं वर्जयेत्” कर्क०।

नाश = पु० नश–भावे घञ्। १ ध्वंसे निधने २ अदर्शने ३ पलायने ४ अनुपलम्भे च मेदि०। ध्वं सश्च जन्याभावः इति नैयायिकाः अतीतावस्थेति सांख्याः “नाशः कारणलयः” सा० सू० “लीङ् श्लेषणे इत्यनुशासनात् लयः सूक्ष्मतया कारणेष्वविभागः सएवातीतावस्थाख्यो नाश इत्युच्यते” प्र० व० भा०। आत्यन्तिकनाशश्च कारणेन सह नाशः इति भेदः “विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते” संक्षेप० “अधिष्ठानावशेषो हि नाशः कल्पितवस्तुनः” वेदा० प० “स्मृतिभ्रंशात् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति” गीता।

नाशन = त्रि० नाशयति नश–णिच् ल्यु। नाशके “त्रिविर्ध नरकस्येदं द्वारं नाशनमात्मनः” गीता। ण्वुल् नाशकोऽप्यत्र “ये परस्वापहर्त्तारः परस्वानाञ्च नाशकाः” भा० अनु० २३ अ०।

नाष्टिक = त्रि० नष्टं द्रव्यं स्वामित्वेनार्हति वा० ठञ्। १ नष्टद्रव्यार्हे तत्स्वामिनि। “अथ मूलनाहार्य्यं प्रकाश क्रयशोघितः। अदण्ड्यो मुच्यते राज्ञा नाष्टिको लभते धनम्” इति मनुः “यदि स्वं नैव कुरुते ज्ञातिभिर्नाष्टिको धनम्। प्रसङ्गविनिवृत्त्यर्थं चोरवद्दण्डमर्हति” वी० मि० व्यासः। प्रसङ्गः चोरत्वसंशयः।

नाष्ट्र = त्रि० नश + णिच्–ष्ट्रन्। नाशके स्त्रियां टाप् गौरादि गणे मातामहीशब्दस्यग्रहणात् षितां ङीष् अनित्य इति षित्त्वेऽपि स्त्रियां न ङीष्। “सूर्य्यो मा दिवाभ्यो नाष्ट्राभ्यः पातु” ताण्ड्य० ब्रा० १। ४। २ “विश्वाभ्यो मा नाष्ट्राभ्यःषाहि” यजु० ३०। १२

नासत्य = पु० द्वि० व०। नास्ति असत्यं यस्य नभ्राडित्यादिना पा० नञः प्रकृतिभावः। अश्विनीकुमारयोः अमरः। “नासत्याभ्यां वयति वपुः” यजु० १९। ८३ अश्विनीकुमारौ च द्वौ नासत्यदस्रनामानौ यथाह “देवौ तस्यामजायेतामश्विनौ भिषजां वरौ। नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनाविति” हरिवं० ९ अ०। तेनास्य प्रत्येकाभिप्रायत्वेएकवचनान्ततापि हरिवंशे तथाप्रयोगात्। निरुक्तकारस्तु ६। १३ “ता~ अध्वर उशतो यक्ष्यग्ने श्रुष्टी ८ भगं नासत्या पुरन्धिम्” इमामृचमधिकृत्य नासत्यशब्दस्य निरुक्तिभेदा नाह। सत्यावेव नासत्यावित्यौर्णवाभः। सत्यस्य २ प्रणेतारावित्याग्रायणः, नासिकाप्रभवौ वभूवतुरिति वा”। तयोर्नासाभवत्वं च अरुणात्मजशब्दे ३५९ पृ० तृश्यम्।

नासमौजस् = पु० भजमानवंश्यस्य कम्ब्वलवर्हिषः पुत्रभेदे “असमौजाः सुतस्तस्य नासमौजाश्च ताबुभौ” हरिवं० ३९ अ० तत्पुत्रोक्तौ।

नासा = स्त्री नास–शब्दे भावे अ। १ शब्दे बा० करणे अ। २ नासिकायां ३ गन्धग्राहकेन्द्रियभेदे च। द्वारोपस्थित काष्ठे (झनकाठ) (कपालि) ख्याते ४ पदार्थे अमरः ५ वासकवृक्षे राजनि० तत्पुष्पस्य नासाकृतित्वात्तस्य तथात्वम्। नासायाः शुभाशुभलक्षणं गारुडे उक्तं यथा “शुकनासः सुखी स्याच्च शुकनासेऽतिजीवनम्। छिन्नाग्ररूपनासः स्यादगम्यागमने रतः। दीर्घनासे च सौमाग्यं चौर आकुञ्चितेन्द्रियः। स्त्रीमृत्युश्चिपिटनास ऋजुर्भाग्यवतां भवेत्। अल्पच्छिद्रा सुपुटा च अवक्रा च नृपेश्वरे। क्रूरे दक्षिणवक्रा स्याद्धनिनां च क्षुतं सकृत्” इति गरुडपु०।

नासागतरोग = पु० सुश्रुतोक्ते नासागतव्याधिभेदे यथा “अथातो नासागतरोगविज्ञानीयमध्यायं व्याख्यास्यामः। अषीनसः १ पूतिनस्यं २ नासापाक ३ स्तथैव च। तथाशोणितपित्त ४ ञ्च पूयशोणित ५ मेव च। क्षवथु ६ र्भ्रंशथु ७र्दीप्तो ८ नासानाहः ९ परिस्रवः १०। नासाशोषेण ११ सहिता दशैकश्चेरिता गदाः। चत्वार्य्यर्शांसि चत्वारः शोफाः सप्तार्बुदानि च। प्रतिश्यायाश्च ये पञ्च वक्ष्यन्ते सचिकित्सिताः। एकत्रिंशन्मितास्ते तु नासारोगाः प्रकीर्त्तिताः। आनह्यते यस्य विधूप्यते च पापच्यते क्लिद्यति चापि नासा। न वेत्ति यो गन्धरसांश्च जन्तुर्जुष्टं व्यवस्येत्तमपीनसेन १। तञ्चानिलश्लेष्मभवं विकारं ब्रूयात्प्रतिश्यायसमानलिङ्गम्। दोषैर्विदग्धैर्गलतालुमूले संबाहितो यस्य समीरणस्तु। निरेति पूतिर्मुखनासिकाभ्यान्तं पूतिनस्यं २ प्रवदन्ति रोगम्। घ्राणश्रितं पित्तमरूंषि कुर्य्याद्यस्मिन्विकारे बलवांश्च पाकः। तं नासिकापाक ३ मिति व्यवस्येद्विक्लेदकोथावपि यत्र दृष्टौ। चतुर्विधं द्विप्रभवं द्विमार्गं वक्ष्यामि भूयः खलु रक्तपित्तम् ४। दौषैर्विदग्धैरथ वापि जन्तोर्ललाटदेशेऽभिहतस्य तैस्तु। नासा स्रवेत् पूयमसृग्विमिश्रं तं पूयरक्तं ५ प्रवदन्ति रोगम्। घ्राणाश्रिते मर्मणि सम्प्रदुष्टे यस्यानिलो नासिकया निरेति। कफानुयातो बहुशः सशब्दस्तं रोगमाहुः क्षवथुं ६ विधिज्ञाः। तीक्ष्णोपयोगादतिजिघ्रतो वा भावान् कटूनर्कनिरोक्षणाद्वा। सूत्रादिभिर्वा तरुणास्थिमर्मण्युद्घाटिते यः क्षवथुर्निरेति। प्रभ्रश्यते नासिकयैव यश्च सान्द्रो विदग्धो लवणः कफस्तु। प्राक्सञ्चितो मूर्घ्निच पित्ततप्तं तं भ्रंशथुं ७ व्याधिमुदाहरन्ति। घ्राणे भृशं दाहसमन्विते तु विनिःसरेद्धूम इवेह वायुः। नासा प्रदीप्तेव च यस्य जन्तोर्व्याधिन्तु तं दीप्त ८ मुदाहरन्ति। कफावृतो वायुरुदानसंज्ञो यदा स्वमार्गे विगुणः स्थितः स्यात्। घ्राणं वृणोतीव तदा स रोगो नासाप्रतीनाह ९ इति प्रदिष्टः। अजस्नमच्छं सलिलप्रकाशं यस्याविवर्णं स्रवतीह १० नासा। रात्रौ विशेषेन हि तं नासापरिस्रावमिति व्यवस्येत्। घ्राणश्रिते श्लेष्मणि मारुतेन पित्तेन गाढं परिशोषिते च। समुच्छसित्यूर्द्ध्वमधश्च कृच्छ्राद्यस्तस्य नासापरिशोष ११ उक्तः। दोषैस्त्रिभिस्तैः पृथगेकशश्च ब्रूयात्तथार्शांसि तथैव शोफान्। शालाक्य सिद्धान्तमवेक्ष्य वापि सर्वात्मकं सप्तकमर्बुदं तु। रोगः प्रतिश्याय इह प्रदिष्टः स वक्ष्यते पञ्चविधः पुरस्तात्। शोफाश्च शोफविज्ञाने नासास्रोतोव्यवस्थिताः। निदानेऽर्शांसि निर्दिष्टान्येवं तानि विभावयेत्”।

नासाच्छिन्नी = स्त्री नासा च्छिन्ना यस्याः ङीप्। पूर्णिकाखगे त्रिका०।

नासादारु = न० नासार्थं दारु। द्वारोर्द्ध्वस्थे काष्ठे (झनकाठ) (कपालि) अमरः।

नासालु = पु० नासायै नासिकाशब्दाय अलति पर्य्याप्नोति अलौण्। कट्फलवृक्षे शब्दच० नासायां तत्फलचूर्णयोगे हि नासिकाशब्दो भवतीति तस्य तथात्वम्।

नासावंश = पु० नासा तन्मध्यभागोवंश इव उच्चत्वात्। नासापृष्ठस्थमध्यभागे।

नासासंवेदन = पु० नासा संविद्यतेऽनेन सम् + विद–ल्युट्। काण्डीरलतायां राजनि०।

नासिकन्धम = त्रि० नासिकां धमति नासिका + ध्मा–खश् मुम् ह्रस्वश्च। नासिकां शब्दायमानां कुर्वति नासिकया शब्दकारके।

नासिन्धय = त्रि० नासिकां तत्स्थजलं धयति नासिका + धेखश् मुम् ह्रस्वश्च। नासिकास्थजलपायके नायिकया जलपायके।

नासिका = स्त्री नास–शब्दे ण्वुल्। १ घ्राणेन्द्रिये २ तदाधारगोलके नासाशब्दार्थे। अस्य शसादौ भत्वे च नसादेशः। नसः नसा नोभ्याम् नस्यमित्यादि।

नासिकामल = पु० ६ त०। नासास्थिते मले शिङ्घाणे (शिकनी) हारा०।

नासिक्य = त्रि० नासिका + चतुरर्थ्यां सङ्काशा० ण्य। १ नासिकासमीपादौ। स्वार्थे ष्यञ्। २ नासिकायाम्। भवार्थे शरीरावयवत्वात् यत्। ३ नासिकाभवे त्रि० ४ अश्विनीकुमारयोः पु० द्वि० व० हेमच०। ५ दक्षिणदेशभेदे “कर्णाटमहाटविचित्रकूटनासिक्यकोल्लगिरिः” वृ० सं० १४ अ० दलिणस्थदेशोक्तौ। खार्थे क। नासिक्यक नासायां शब्दमा०।

नासीर = न० नासाय शब्दाय ईर्त्ते ईर–क। १ अग्रेसरसैन्ये त्रिका० २ अग्रेसरमात्रे त्रि० शब्दर० “नलस्य नासीर गते वितेनतुः” नैष०।

नास्ति = अव्य० अस्तीति विभक्तिप्रतिरूपमव्ययं “सह सुपा” पा० नशब्देन स०। अविद्यमानतायां सत्त्वाभावे यथा नास्तिक्षीरा “अस्ति नास्ति न जानाति” इति चाणक्य

नास्तिक = त्रि० नास्ति परकोकस्तत्साधनमदृष्टं तत्साक्षीश्वरो वा इति मतिरस्य ठन्। १ परलोकाभाववादिनि २ तत्साधनादृष्टाभाववादिनि ३ तत्साक्षिण इश्वरस्यासत्त्ववादिनि च चार्वाकादौ चार्वाकादिश्च चार्वाकः माध्यमिकः योगाचारः सौत्रान्तिकः वैभाषिकः दिगम्बरश्चेत षड्विधः। “अतिमात्रोज्झितभीरनास्तिकः” माघः।

नास्तिकता = स्त्री नास्तिकस्य भावः तल्। मिथ्यादृष्टौ परलोकाद्यभावज्ञानस्य मिथ्यात्वात् “प्रज्ञानाशात्मकोमोहस्तथा धर्मार्थनाशकः। तस्मान्नास्तिकता चैव दुराचारश्च जायते” भा० शा० १२३ अ०।

नास्तिक्य = न० नास्तिकस्य भावः ष्यञ्। नास्तिकतायाम् “नास्तिक्यं वेदनिन्दाञ्च देवतानाञ्च कुत्सनम्” मनुः।

नास्तिद = पु० आम्रवृक्षे शब्दच०।

नास्तिवाद = पु० नास्ति परलोकादिरिति वादः। नास्तिकतायाम् “नास्तिवादार्थशास्त्रं हि धर्मविद्वेषणं परम्” हरिवं० २८ अ०।

नास्य = न० नासायां भवत् शरीरावयवत्वात् यत्। १ बलीवर्द्द नासाबन्धनरज्ज्वाम् “छिन्ननास्ये भग्नयुगे तिर्य्यक्प्रतिमुखागते” मनुः। नासा + चतुरर्थ्यां ण्य। २ नासासन्निकृष्टादौ त्रि० “मनुष्यान् स्वपुषो दृष्ट्वा नास्यघ्रासं चकार यः” हरिवं० ३१७ अ० नासासन्निकृष्टस्थग्रासमित्यर्थः।

नाह = पु० नह–बन्धने भावे घञ्। १ बन्धने २ कूटे च मेदि०।

नाहल = पु० म्लेच्छजातिभेदे हेमच०।

नाहुष(षि) = पु० नहुषस्यापत्यं वा० अण् अत इञ् वा। नहुषनृपापत्ये यजातौ। “ययातिर्नाहुषः सम्राडासीत् सत्यपराक्रमः” भा० आ० ७५ अ०।

नि = अव्य० नी–वा० डि प्रादिः उपसर्गः। १ संधे २ अधोभावे न्यग्भावे ३ भृशे ४ आदेशे ५ नित्ये ६ कौशले ७ बन्धने ८ अन्तर्भावे ९ समीपे १० दर्शने ११ उपरमे १२ आश्रये च गणरत्नमहोदधिः उदाहृतं च तत्रैव क्रमशस्तेष्वर्थेषु १ निकरो मणीनां २ निपतितः। ३ निगृहीतं ४ निदेशितं, ५ निविशते ६ निपुणः ७ निबन्धः ८ निपीतमुदकम्। ९ निकटः १० निदर्शनं ११ निवृत्तः १२ निलयः। १३ संशये १४ क्षेपे १५ दाने १६ मोक्षे १७ विन्यासे च मेदि०। १८ निषेधे १९ निश्चये दुर्गादासः।

निः(नि)क्षेप = पु० निर्–(नि)वा क्षिप–भावे घञ्। १ अर्पणे (गच्छितराखा) अष्टादशविवादान्तर्गते २ विवादभेदे। स च वीर० मि० विस्तरेण दर्शितो यथा “अथ निः(नि)क्षेपाख्यव्यवहारपदम्। तत्र निः(नि) क्षेपो नाम स्वद्रव्यस्य विश्वासेन पुरुषान्तरे स्थापनम्। तथा च नारदः “स्वद्रव्यं यत्र विस्रम्भान्निः(नि)क्षिपत्यविशङ्कितः। निः(नि)क्षेपो नाम तत्प्रोक्तं व्यवहारपदं बुधैरिति” नच न्यासोपनिध्योरतिव्याप्तिस्तयोर्लक्ष्यत्वान्निः (नि)क्षेप एव। ग्राहकस्यासमक्षं समर्पितो न्यास इत्युच्यते। अतएव वृहस्पतिः “राजचौरादिकभयाद्दायादानां च वञ्चनात्। स्थाप्यतेऽन्यगृहे द्रव्यं न्यासः स परिकीर्त्तितः” इति। अयमेवागणितद्रव्यस्थापने उपनिधिरित्युच्यते। तथा च नारदः “असङ्ख्यातमविज्ञातं समुद्रं यन्निधीयते। तज्जानीयादुपनिधिं निः(नि)क्षेपङ्गणितं विदुरिति”। असङ्ख्यातम् अनाख्यातम् अविज्ञातम् अदर्शितम्। अतएव वृहस्पतिः “असमक्षं व्यवहितमसङ्ख्यातमदर्शितम्। मुद्राङ्कितञ्च यद्द्रव्यं तदौपनिधिकं स्मृतमिति” व्यवहितं करण्डकादौ प्रक्षिप्य पिहितम्। अतएव याज्ञवल्क्यः “वासनस्थमविज्ञातं हस्तेऽन्यस्य यदर्प्यते। द्रव्यन्तदौपनिधिकं प्रतिदेयन्तथैव तदिति” वासनं द्रव्याधार करण्डकादि तत्स्थं वासनस्थम्। हस्तग्रहणमुपलक्षणम्। अतएव नारदः “निः(नि)क्षिप्यते परगृहे तदौपनिधिकं स्मृतमिति”। तथा चायमेतेषाम्भेदः। ग्राहकस्य समक्षं गणयित्वा स्थापितं निः(नि)क्षेपः। गृहस्वामिनोऽसमक्षं गणितं वा तस्मिन्नामते एतद्दातव्यमित्युक्त्वाऽन्यस्य तत्पुत्रादेर्हस्ते दत्तं न्यासः। मुद्राङ्कितमसमक्षमनणितं स्थापितमुपनिधिरिति। निः(नि)क्षेपादीनां स्थापनप्रकारमाह मनुः “कुलजे वृत्तसम्पन्ने धर्मज्ञे सत्यवादिनि। महापक्षे धनिन्यार्य्ये निः(नि)क्षेपं निः(नि)क्षिपेद्बुधः” इति। महापक्षे बहुतरबन्धुयुक्ते। निः(नि)क्षेपग्रहणमुपलक्षणम्। वृहस्पतिः “स्थानं गृहञ्च तद्वर्णं विधानञ्च गुणन्तथा। सत्यं शौचं वन्धुजनं परीक्ष्य स्थापयेन्निधिमिति” निधिरुपनिधिः। एतदप्युपलक्षणम्। निः(नि)क्षेपादीनां रक्षणं कथं कर्तव्यं ग्राहकेणेत्याह वृहस्पतिः “ससाक्षिकं रहोदत्तं द्विबिधं समुदाहृतम्। पुत्रवत्परिपाल्यं तद्विनश्यत्यनवेक्षणे” इति। पालयितुः फलभपालयितुर्दोषञ्चाह “ददतो यद्भवेत् पुण्यं हेमकूप्याम्बरादिकम्। तत् स्यात्फलमतो न्यासो यथैव शरणागतः। भर्तृद्रोहं यथा नार्याः पुंसः पुत्रसुहृद्बधे। दोषो भवेत्तथा न्यासे भक्षितोपेक्षिते नृणाम्। न्यास- द्रव्य” न गृह्णीयात्तन्नाशस्त्वयशस्करः। गृहीतं पालयेद्यत्नात् सकृद्याचितमर्पयेदिति” न्यासग्रहणमुपलक्षणम्। तेन फलरक्षणादिकं निः(नि)क्षेपादित्रयसाधारणमिति मन्तव्यम्। दैवराजोपघाते ग्राहकस्य न दोष इत्याह वृहस्पतिः “दैवराजोपघातेन यदि तन्नाशमाप्नुयात्। ग्रहीतृद्रव्यसहितं न तद्दोषोऽत्र विद्यत” इति। ग्रहीतुरिति शेषः उपेक्षादिद्रव्यदोषाभावादिति मावः। ग्रहीतृद्रव्यसहितमित्युपेक्षाभावनिश्चयायोक्तम्। तेन कथञ्चिन्निः(नि)क्षिप्तमात्रस्य विनाशे प्रमाणान्तरादुपेक्षाभावे निश्चिते ग्रहीतुर्दोषो न विद्यते इति मन्तव्यम्। दैवराजग्रहणमसमाधेयनिमित्तोपलक्षणार्थम्। अतएव कात्यायनः “राजदैविकचौरैर्वा निः(नि)क्षिप्तं यत्र नाशितम्। ग्रहीतुः सह भाण्डेन दातुर्नष्टन्तदुच्यते” इति। भाण्डेन अर्थेन। नारदोऽपि “ग्रहीतुः सह योऽर्थेन नष्ट एव स दायिनः। दैवराजकृते तद्वन्न चेत्तज्जिह्मकारितमिति” तद्वदितिपदेनैकमुपमेयमन्यदुपमानमित्यवगम्यते। तेनैवं योजना ग्रहीतुरर्थेन सह यो नष्टः स दायिन एव एवन्दैवराजकृते यो नष्टः सोऽपि दायिन एव नष्ट इति दैवग्रहणन्तस्करोपलक्षणम्। अतएव याज्ञवल्क्यः “न दाप्योपहतन्तन्तु राजदैविकतस्करैरिति” दैविकपदस्यार्थो विवृतो मनुना “चौरैर्हृतञ्जलेनोढमग्निना दग्धमेव वा। न दद्याद्यदि तस्मात्स्वं न संहरति किश्चनेति”। यदि तस्मान्निः(नि)क्षेपादल्पमपि धनन्न संहरति न गृह्णाति तर्हि न दद्यादित्यर्थः। तथा च स एव “समुद्रे नाप्नुयात्किञ्चिद्यदि तस्मान्न संहरेदिति” क्वचित् केनचिद्धेतुना नष्टमपि ग्रहीता भूल्यद्वारेण न दाप्य इत्याह कात्यायनः “ज्ञात्वा द्रव्यवियोगन्तु दाता यत्र विनिः(नि)क्षिपेत्। सर्वोपायविनाशेऽपि ग्रहीता नैव दाप्यते” इति। निः(नि)क्षेपग्रहीतारं प्रत्याह कात्यायनः। “निः(नि)क्षिप्तं यस्य यत्किञ्चित् तत्प्रयत्नेन पालयेत्। दैवराजकृतादन्यो विनाशस्तस्य कीर्त्त्यते” इति। यस्य पार्श्वे यत् स्थापितन्तत्तेनावहितेन रक्षणीयम्। यतो दैवराजकृतादन्यो विनाशस्तस्य ग्राहकस्य दोपेण कृतत्वेन कीर्त्त्यते इत्यर्थः। न केवलन्दुष्कीर्त्तिरेव तस्य किन्तु विनाशे जाते वस्तुगत्या दोषो वह्वर्थहानिश्चेत्याह स एव “यस्य दोषेण यत्कञ्चिद्विनश्येत ह्रियेत वा। तद्द्रव्यं तोदयन्दाप्यो दैवराजकृताद्विनेति”। दोषः उपेक्षादि- लक्षणः। वृहस्पतिरपि “भेदेनोपेक्षया न्यासं ग्रहीता यदि नाशयेत्। याच्यमानो न दद्याद्वा दाप्यन्तत्सोदयम्भवेदिति” कात्यायनोऽपि “न्यासादिकं परद्रव्यं प्रभक्षितमुपेक्षितम्। अज्ञाननाशितञ्चैव येन दाप्यः स एव तदिति” अत्र विशेषमाहतुर्व्यासकात्यायनौ “भक्षिते सोदयन्दाप्यः समन्दाप्य उपेक्षिते। किञ्चिदूनं प्रदाप्यः स्याद्द्रव्यमज्ञाननाशितमिति” किञ्चिदूनञ्चतुर्थांशन्यूनमिति मिताक्षरायाम्। याचनानन्तरमदत्तस्य पश्चाद्दैवराजकृतेऽपि विनाशे तन्मूलमात्रं दातव्यमित्याह व्यासः “याचनानन्तरं नाशे दैवराजकृतेऽपि सः। ग्रहीता प्रतिदाप्यः स्यान्मूलमात्रन्न संशयः इति। प्रत्यर्पणविलम्बमात्रापराधे सवृद्धिकदानस्यान्याय्यत्वात्। राज्ञे च तत्समो दण्डो देय इत्याह नारदः “याच्यमानस्तु यो दातुर्निः(नि)क्षेपन्न प्रयच्छति। दण्ड्यः स राज्ञो भवति नष्टे दाप्यश्च तत्सममिति” नष्टे दैवतो राजतो वेति शेषः। याज्ञवल्क्योऽपि “भ्रंशश्चेन्मार्गितेऽदत्ते दाप्यो दण्डञ्च तत्सममिति”। मार्गिते याचितेऽदत्ते सति यदि भ्रंशो दैवराजकृतो नाशो भवति तथापि तद् द्रव्यं मूल्यपरिकल्पनेन। “धनिने ग्राहको दाप्योदण्डो राज्ञे च तत्समम्”। तत्समं दण्डमित्यर्थः। यः पुनःस्थापकाननुज्ञया निः(नि)क्षेपमुपभुङ्क्ते तस्य दण्डमाह नारदः “यत्रार्थं साधयेत्तेन निः(नि)क्षेपे त्वननुज्ञया। तत्रापि दण्ड्यः स भवेत्तञ्च सोदयमावहेदिति” दण्डश्च साधितद्रव्यानुसारेण। याज्ञवल्क्योऽपि “आजीवन् स्वेच्छया दण्ड्यो दाप्यस्तञ्चापि सोदयमिति” आजीवन् भोगवृद्ध्यर्थप्रयोगादिना उपजीवन् स्वेच्छया स्वाम्यननुज्ञया। वृद्धिप्रमाणमाह कात्यायनः। “निः(नि)क्षेपं वृद्धिशेषञ्च क्रयविक्रयमेव च। याच्यमानं न चेद्दद्याद्वर्द्धते पञ्चकं शतमिति”। निः(नि)क्षेपहर्त्तारम्प्रत्याह विष्णुः “निः(नि)क्षेपापहारी वृद्धिसहितन्धनं धनिकस्य दाप्यः”। अस्य दण्डमाह मनुः “निः(नि)क्षेपस्यापहर्त्तारं तत्समन्दापयेद्दमम्। तथोपनिधिहर्त्तारमविशेषेण पार्थिवः” निः(नि)क्षेपापह्नवे कर्त्तव्यमाह व्यासः “निः(नि)क्षेपन्निह्नुते यस्तु नरो बन्धुबलान्थितः। साक्षिभिर्वाथ द्रव्येण विभाव्य प्रतिदाप्यते” दण्डमाह वृहस्पतिः “गृहीत्वापह्नुते यत्र साक्षिभिः शपथेन वा। विभाव्य दापयेद्राजा तत्समं विनयन्तथेति” विनयं दण्डम्। ससाक्षिकनिः(नि)क्षेपादौ स्थापकस्या- नृतवादित्वे साक्षिभ्यो यथास्थितमर्थमवगत्य दण्डनीयः स राज्ञेत्याह मनुः “निः(नि)क्षेपो यः कृतो येन यावांश्च कुलसन्निधौ। तावानेव स विज्ञेयो विब्रुवन् दण्डमर्हतीति” कुलं साक्षिवृन्दम्। असाक्षिके त्वाह वृहस्पति “रहोदत्ते निधौ यत्र विसंवादः प्रजायते। विभावकन्तत्र दिव्यमुभयोरपि च स्मृतमिति” उभयोर्मध्ये एकस्येत्यर्थः उभयग्रहणं “रुच्या वान्यतरः कुर्यादित्ययमेव पक्षे यथा स्यादिति। ग्रहीतृस्थापकयोरनृतवादित्वे दण्डमाह मनुः “निः(नि)क्षेपस्यापहर्त्तारमनिः(नि)क्षेप्तारमेव च। सर्वैरुपायैरन्विच्छेच्छपथैश्चैव वैदिकैः। यो निः(नि)क्षेपं नार्पयति यश्चानिः(नि)क्षिप्य याचते। उभौ तौ चोरवच्छास्यौ दाप्यौ वा तत्समं दममिति” चौरवच्छास्यौ चौरवद्दण्ड्यौ चौरवद्दण्डेन दण्ड्यावितियावत्। दण्डस्य प्रमाणमाह सममिति। मत्स्यपुराणे। यस्तु “यो निः(नि)क्षेपं नार्पयति यश्चानिः(नि)क्षिप्य याचते। ताबुभौ चौरवच्छास्यौ दाप्यौ च द्विगुणं दममिति” द्विगुणो दण्ड उक्तः स दुर्वृत्तविषयो ब्राह्मणातिरिक्तविषयो वा अन्यया समदण्डप्रतिपादकमनुवचनविरोधः स्यादिति। निः(नि)क्षिप्तं द्रव्यमकाले ददतो द्विगुणोदम इत्याह कात्यायनः “ग्राह्यस्तूपनिधिः काले कालहीनन्तु वर्जयेत्। कालहीने ददद्दण्डं द्विगुणञ्च प्रदापयेदिति” ग्राह्यः निः(नि)क्षेपकारिणेति शेषः यद्भयादुपनिधिरन्यस्य हस्ते न्यस्तस्तद्भयातीते काले न ग्राह्य इत्यर्थः। भयातीते काले स्वयमेव नायाचितमर्पणीयम् “सकृद्याचितमर्पयेदिति” वृहस्पतिस्मरणात्। तद्भये वर्त्तमाने स्वयमेवायाचितन्दीयमानं कालहीनन्तस्य दानन्दौष्ट्येनैवेति तद्ददतोऽपि दण्डोयुक्तः। प्राड्विवाकं प्रत्याह मनुः “यो निः(नि)क्षेपं याच्यमानो निः(नि)क्षेप्तुर्न प्रयच्छति। स याच्यः प्राड्विवाकेन तन्निः(नि)क्षेप्तुरसन्निधौ। स यदि प्रतिपद्येत यथान्यस्तं यथाश्रितम्। न तत्र विद्यते किञ्चित् यत्परेणाभियुज्यते” इति। यदा तु न प्रतिपद्येत तदा राजानं प्रत्याह स एव “तेषां न दद्यायद्यदि तु तद्धिरण्यं यथाविधि। द्वयन्निगृह्य दाप्यः स्यादिति धर्मस्य धारणा। निःक्षिप्तस्य धनस्यैव प्रीत्योपनिहितस्य च। राजा विनिर्णयं कुर्य्यादक्षिण्वन्थासधारिणामिति” तेषां अभियोक्तृणाम्। द्वयं द्विगुणम्। निगृह्य दण्डयित्वा अचिण्वन् अताडयन्। निः(नि)- क्षेप ग्रहीतारं प्रत्याह वृहस्पतिः “स्थापितं येन विधिना येन यच्च यथाविधि। तथैव तस्य तद्देयं न देयं प्रत्यनन्तरे” इति। स्थापितेतरस्य यस्य स्थापितद्रव्यस्वाम्यमस्ति स इह प्रत्यनन्तर उच्यत इति स्मृतिचन्द्रिकायां प्रत्यनन्तरे पुत्रादाविति कल्पतरौ। स्थापकं प्रत्याह मनुः “यो यथा निः(नि)क्षिपेद्धस्ते यमर्थं यस्य मानवः। स तथैव ग्रहीतव्यो यथा दायस्तथा ग्रहः। मिथोदाय कृतो येन ग्रहीतो मिथ एव वा। मिथ एव प्रदातव्ये यथा दायस्तथा ग्रहः। समुद्रे नाप्नुयात् किञ्चिदयदि त स्मान्न संहरेदिति” दायो दानं स्थापनमिति यावत् ग्रहोग्रहणं मिथः अन्योन्यमेव एतदुक्तम्भवति ससाक्षिकं स्थापितम् साक्षिसमक्षं ग्रहीतव्यम्। रहसि स्थापितं रहस्येवेति। समुद्रे मुद्रासहिते निःक्षेपेमु मूषकादिनोपहते निः(नि)क्षेपं स्थापयित्वा न किञ्चिद्दूसणमाप्नुयात्। यदि तस्मान्निः(नि)क्षेपात् प्रतिमुद्राकरणादिना न संहरेत्किञ्चिदित्यर्थः। स्थापयितुर्मरणे प्रत्यनन्तरे तद्देयमित्याह स एव “स्वयमेव तु यो दद्यान्मृतस्य प्रत्यनन्तरे। न स राज्ञाऽभियोक्तव्यो न निःक्षेप्तुश्च बन्धुभिरिति” अनेन वचनेन वचोभङ्ग्या स्थापके मृते प्रत्यनन्तरे प्रत्यर्पणं ग्राहकेण कार्य्यमित्युक्तम्। स्वयमेव याचनमन्तरेणेत्यर्थः। याचनमन्तरेण दानम्भयादिकालापाये मन्तव्यम् अन्यथा दोषापत्तेः। प्रत्यनन्तर वहुत्वे तु नैकस्मिन् प्रत्यनन्तरे देयं किन्तु सर्वप्रत्यनन्तरसन्निधाविति न निःक्षेप्तुबन्धुभिरभियोक्तव्य इत्यनेन सूचयाम्बभूव। यदा तु ग्राहकः स्वयमेव न ददाति तदा प्रत्यनन्तरकर्त्तव्यमाह स एव। “अच्छलेनैव चान्विच्छेत्तमर्थं प्रीतिपूर्वकम्। विचार्य्य तस्य वा वृत्तं साम्नैव परिसाधयेदिति” अन्विच्छेत् अवधारयेत्परिसाधनं ग्राहकसकाशादादानन्तद्ग्राहकवृत्तिं विचार्य्य स तद्वृत्तग्राहकविषये साम्नैव कार्य्यं न भयादिप्रदर्शनेन। दुर्वृत्तग्राहकविषये तु ऋणादानप्रकरणोक्तेन भयादिप्रदर्शनाद्युपायान्तरेण छलादिना कार्य्यमित्यस्मादेव वचनादवगम्यते। तथा सद्वृत्ते विप्रतिपन्ने भूतानुसारेण साधयितुमशक्ये साक्ष्याद्यभावे प्रत्यनन्तरादिना साधुयेत्। दुर्वृत्ते तु विप्रतिपन्ने छलादिना परिहरेदिति चास्मादेव वचनादवगम्यते। सद्वृत्ते छलादिप्रयोगबच्छपथेन शोधनस्याप्यनुचितत्वात्। ग्राहके तु मृते पश्चाद्यदधीनं निःक्षेपादि जायते तेनैव स्थापके प्रत्यनन्तरे वा प्रत्यर्पणीयमित्यतिस्थूलत्वात् स्मृतिकारैरुपेक्षितमित्यस्मादृणादानप्रकारवदुवन्नेयं यदि ग्राहकोऽसौ स्वयं न ददाति तदा स्थापकः प्रत्यनन्तरो वा पूर्वोक्तमार्गेणाग्विच्छेत् सम्प्रतिपन्नं पूर्वोक्तेन प्रकारेण परिग्रहं साधयेदित्येतदपि स्मृतिकारैरुपेक्षितं ज्ञातुं शक्यत्वादिति। “द्वयीषु निः(नि)क्षेष इवार्पितं द्वयम्” कुमा०।

निःप्रभ = त्रि० निर्गता प्रभा यस्य “प्रादिभ्यो धातुजस्य वाचोत्तरपदलोपः” वार्त्ति०। गतशब्दलोपः वा विसर्गस्य षत्वम्, १ प्रभाशून्ये पक्षे षत्वे निष्प्रभ इत्यपि तत्रार्थे

निःशम = पु० निर्गतः शमात् “निरादयः क्रान्ताद्यर्थे पञ्चम्याः” वार्त्ति० निरा० ५ त०। १ क्रोधे त्रिका० पक्षे शत्वम्।

निःशलाक = त्रि० निर्गतः शलाकायाः निर्गता शलाका यस्मात् वा। १ निर्जने रहसि अमरः। “अरण्ये निःशलाके वा मन्त्रयेदविभावितः” मनुः वा शत्वम्।

निःशल्या = स्त्री निर्गतं शल्यं यस्याः ५ ब०। १ दन्तीवृक्षे राजनि० तत्सेवने हि शीघ्रं शल्यं निर्गच्छति। २ शल्यवत्प्रतिबन्धकरहिते त्रि० “निःशल्यमुत्सृजेयं जीवितम्” दशकुमा० पक्षे शत्वम्।

निःशूक = पु० निर्गतः शूकोऽस्मात्। १ सुण्डशालौ राजनि० २ अग्रशून्यमात्रे त्रि०। वा शत्वम्

निःशेष = त्रि० निर्गतः शेषो यस्य। समस्ते सकले “निःशेष च्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरः” काव्यप्र० वा शत्वम्। निश्शेष तत्रार्थे

निःशोध्य = त्रि० निर्गतं शोध्यमस्मात्। निर्मले मृष्टे अमरः। पक्षे शत्वम्।

निःश्रयणी = स्त्री निश्चितं श्रीयतेऽनया श्रि–करणे ल्युट् ङीप्। काष्ठमयसोपाने शब्दरत्ना० वा शत्वम्। निःश्रि–इनि ङीप्। निश्रयिणीत्यप्यत्र शब्दर०।

निःश्रेणि = स्त्री निश्चिता श्रेणिरत्र। काष्ठसोपाने अमरः। वा शत्वम्। “चक्रे त्रिदिवनिःश्रेणिः सरयूरनुयायिनाम्” रघुः।

निःश्रेयस = न० नितराम् श्रेयः नि० अच् समा०। १ मोक्षे २ मङ्गले ३ विज्ञाने ४ भक्तौ ५ अनुभावे च शब्दरत्ना०। “पण्डितो ह्यर्थकृच्छ्रेषु निःश्रेयसकरं वचः” भा० स० १६९ श्लो० “तपो विद्या च विप्रस्य निःश्रेयसकरं परम्” मनुः। नितरां श्रेयो यस्मात् अच् समा०। ६ शङ्करे पु० मेदि० वा शत्वम्। निश्श्रेयस तत्रार्थे

निःश्वास = पु० निरे + श्वस–भावे घञ्। प्राणवायोर्नासया बहिर्निःसरणे “वृषलीफेनपीतस्य निःश्वासोपहतस्य च” मनुः। वा शत्वम्। निश्श्वास तत्रार्थे

निःषम = अव्य० निर् सम + तिष्ठन्ग्वा० स० सुषामा० षत्वम्। निन्दायाम् अमरः।

निःषन्धि = त्रि० निष्क्रान्तः सन्धेः सुश्लिष्टित्वात् निरादिस० सुषामा० षत्वम्। १ सन्धिशून्ये २ दृढे त्रिका० वा षत्वम्।

निःषामन् = त्रि० निष्क्रान्तः साम्नः निरा० सुषामा० षत्वम्। सामरहिते वा षत्वम्।

निःसम्पात = पु० निर्गतः सम्पातो यत्र प्रादि० बहु०। गमनशून्ये १ निशीथे त्रिका० वा सत्वम्। २ गतिशून्ये च “आकाशमपि बाणौघैर्निःसम्पातं विधीयताम्” हरिवं० ९९ अ०।

निःसंशय = त्रि० निर्गतः संशयोऽस्मात् प्रा० ब०। सन्देहशून्ये “कृते निःसंशये पापे न भुञ्जीतानुपस्थितः” प्रा० त०। पक्षे सत्वम्। निःसन्दे होऽप्यत्र।

निःसङ्ग = त्रि० निर्गतः सङ्गो यस्मात् प्रा० बहु०। सङ्गरहिते सङ्गश्च स्नेहः फलाभिसन्धिश्च “निःसङ्गता मुक्तिपदं यतीनाम्” विष्णुपु० “वेदोक्तमेव कुर्वाणो निःसङ्गोऽर्पितमीश्वरे” मल० त० धृत भाग० ११ स्कन्धवचनम्।

निःसरण = न० निर् + सृ–भावे ल्युट्। १ निर्गमे करणे ल्युट्। २ गृहादिमुखे ३ मरणे ४ निर्वाणे ५ उपाये च हेमच०। “दुःखनिःसरणं वेद सर्वज्ञः स सुखी भवेत्” भा० शा० २१५ अ० वा सत्वम्।

निःसार = पु० निर्गतः सारो यस्मात्। १ शाखोटकवृक्षे (सेओडा) २ श्योनाकभेदे राजनि० ३ साररहिते त्रि०। “मानुष्ये कदलीस्तम्भनिःसारे सारमार्गणम्” शु० त० “जगत् सर्वन्तु निःसारमनित्यं दुःखभाजनम्” कालिकापु० २७ अ०। ४ कदल्यां स्त्री वा सत्वम्।

निःसारण = न० निर् + सृ–णिच् ल्युट्। १ बहिष्करणे स्वार्थे णिच् करणे ल्युट् वा। २ मृहादिमुखे ३ निःसरणे च शब्दर० वा सत्वम्।

निःसारित = त्रि० निर् + सृ–णिच् कर्मणि क्त। बहिष्कृते जटाधरः।

निःसीम(न्) = निगता सीमा यस्मात् निरादि० बहु०। सीमारहिते अवधिशून्ये “निःसीमानन्दमासीदुपनिषदुपमा तत्परीभूय भूयः” नैष० “अहह महतां निःसीमानश्चरित्रविभूतयः” भार० र०अत्र डापोऽभावपक्षे नान्तत्वात् स्त्रियां वा टाप् मनन्तत्वात् न ङीप् इति भेदः। वा सत्वम्

निःस्नेह = त्रि० निर्गतः स्नेहो यस्य प्रादि० बहु०। स्नेहशून्ये स्नेहश्च तैलादिद्रव्यं प्रीतिश्च। “निःस्नेहं कीटमुषितम्” स्मृतिः “ये प्रतिग्रहनिःस्नेहास्ते नराः स्वर्गवा नामिनः” भा० अनु० २३ अ०। २ अतस्यां स्त्री त्रिका० तस्य निष्काशितस्नेहत्वात् तथात्वम्। वा विसर्मस्य सत्वम्।

निःस्नेहफला = स्त्री निःस्नेहं फलं यस्याः। श्वेतकण्टकार्य्यां राजनि०।

निःस्पृह = त्रि० निर्गता स्पृहाऽस्य। आशाशून्ये “त्रिदिवस्थेष्वपि निष्पृहीऽभवत्” रघुः।

निःस्रव = पु० निर् + स्रु–अप्। अवशेषे “राजनि स्थापितो योऽर्थः प्रत्यहं तेन विक्रयः। क्रयो वा, निस्रवस्तस्मात् बणिजां लाभकृत् स्मृतः” याज्ञ० “निःस्रवः अवशेषः” मिता०।

निःस्राव = पु० निःस्रवति निर् + स्नु–ण। (माड) (फेन) १ भक्तरसे हेमच० भावे घञ्। २ व्यये “बह्वादानोऽल्पनिःस्रावः ख्यातः पूजितदैवतः” कामन्द०।

निःस्व = त्रि० निर्गतं स्वमस्य प्रा० ब०। १ दरिद्रे “शूर्पाकारौ विरूक्षौ च वक्रौ पादौ सिरालकौ। संशुष्कौ पाण्डुरनखौ निःस्वस्य विरलाङ्गुली” गरुडपु०। २ धनरहिते ३ ज्ञातिरहिते च।

निःस्वभाव = त्रि० निर्गतः स्वभावो यस्य प्रा० ब०। स्वभावशून्ये। बौद्धमते वस्तुमात्रस्य निःस्वभावत्वम् यथोक्तं लङ्कावतारे “बुद्ध्या विविच्यमानानां स्वभावो नावधार्यते। अतो निरभिलप्यास्ते निःस्वभावाश्च दर्शिताः” (ते पदार्थाः)

निकक्ष = अव्य० कक्षस्य समीपम् सामीप्येऽव्ययी०। पश्चिमापरसन्धिसमीपे “चित्यं परिषिञ्चत्यग्नीद्दक्षिणे निकक्षे” कात्या० श्रौ० १८। २। १ “पश्चिमापरसन्धिः कक्षस्तस्य समीपं निकक्षम्” वेददी०। अव्ययीभावे अदन्तात् सप्तस्या वा न लुक्।

निकट = त्रि० निबद्धम् निबद्धार्थात् नेः “सम्प्रोदश्च” पा० चात् कटच्। आसन्ने सम्बवे। “अदूरे गम्यतां किञ्चिन्निकटं सरः” पञ्चत०।

निकर = प० निकॄ + भावादौ अप्। १ समूहे अमरः। २ सारे ३ न्यायदत्तधने ४ निधौ च मेदि० “निष्यन्दिनीरमिकरेण कृताभिषेका” माघः।

निकर्षण = न० निर्गतं कर्षणमस्मात् प्रा० ब०। १ कर्षणरहिते भूभामे २ गृहादिपरिच्छिन्नदेशे सन्निवेशे ३ पुरग्रामाद्बहिभागस्थविहारभूमौ कर्षणशून्यत्वात् तयोस्तथात्वम्।

निकव(स) = पु० नि + कम(स)–अच् निकष(स)त्यनेन करणे घो वा। १ कषणे २ कषपाषाणे च (कषटीपातर) अमरः। “निकषे देमरेखेव श्रीरासीदनपायिनी” रघुः कर्मणि च। ३ परीक्षार्थं कषणकर्महेमादौ त्रि० “यदा निर्गुण माप्नोति ध्यानं मनसि पूर्वजम्। तदा प्रज्ञायते ब्रह्म निकषं निकषे यथा” मा० शा० २०५ अ०। ४ शाणे अस्त्रादितीक्ष्णतासाधनास्त्रे अमरः।

निकषा = अध्य० नि + कष–वा० आ। १ निकटे अमरः। “विलङ्घ्य लङ्कां निकषा हनिष्यति” माघः निकषायोगे शेषार्थे द्वितीया २ मध्ये च मेदि०। ३ राक्षसमातरि स्त्री

निकषात्मज = पु० ६ त०। राक्षसे अमरः।

निकषोपल = पु० कर्म०। १ शाणे (कषटी) २ प्रस्तरभेदे च।

निकाम = न० नि + कम–घञ् अभिधानात् क्लीवता। १ इष्टामतिक्रमे २ पर्य्याप्ते ३ अतिशये च अमरः। “निकामतप्ता द्विविधेन वह्निना” कुमा० “नित्यं हरेः सन्निहिता निकामम्” माथः।

निकामन् = त्रि० नि + कम बा० मनिन्। नितरां कामुके “सिषक्ति सृजमानानि कामभिः” ऋ० १०। ९२। ९ “निकामभिः नितरामभिलाषुकैः” भा०।

निकाय = पु० नि + चि–थञ् कुत्मम्। १ निवासे २ सजातीयप्राणिसङ्घे ३ लक्ष्ये ४ परमात्मनि मेदि० “तथा देवनिका यानां सेन्द्रणाञ्च दिवौकसाम्” भा० आ० १२३ अ०। “तस्य सर्वनिकायेषु निर्झरेषु गुहासु च” रामा० ४। ४४। ३१

निकाय्य = पु० नि + चि–ण्यत् कुत्वम्। गृहे अमरः। “न प्रणाय्यः जनः कच्चित् निकाय्यं तेऽधितिष्ठति” भट्टिः।

निकार = पु० नि + कृ–कॄ–वा भावे घञ्। १ मारणे २ परिभवे अमरः “राक्षां निकारे सहसा प्रवृत्तः” भा० आ० १८९ अ०। “निकारोऽग्रे पश्चाद्धनमहह भोस्तद्धि निधनम्” शान्ति० श० ३ भर्त्सने च ४ धान्यादेरूर्द्धक्षेप्रणे अमरः। ४ खलीकारे शब्दमा०।

निकारण = न० नि + कॄ–णिच्–ल्युट्। १ मारणे २ बधे अमरः

निकाल्य = त्रि० नि + कल–ण्यत्। चालनीये त्रिका०।

निकाश = पु० नि + काश–घञ्। १ प्रकाशे २ समीपे च। तुल्यार्थे अस्य निभादित्वात् नित्यस० वा दीर्घश्च। “उवाच पूर्णेन्दुनिकाशवक्त्राम्” हरिवं १५४ अ० “आकर्णमुल्लसितमम्बु विकाशिकाशनीकाशमाप समतां सितचामरस्य” माघः। साद्वश्येऽस्य न पृथक्प्रयोगः।

निकाष = पु० नि + कष–भावे घञ्। समुल्लिखने कषणे “तेजोभिः कणकनिकाषराजिलौहैः” किरा०।

निकास = पु० नि + कास–घञ्। प्रकाशे नीकाशशब्दार्थे सादृश्ये भरतः निभादिवत् नास्य पृथक्प्रयोतः।

निकुच्यकर्णि = अव्य० निकुच्यौ सङ्कुचौ कर्णौ यत्र द्विदण्ड्या० इच्समा०। सङ्कुच्यकर्णके

निकुञ्चक = पु० नि + कुन्च–ण्वुल्। १ कुडवपादे प्रसृतपरिमाणे अमरः २ वानीरभेदे जलवेतसे भावप्र०।

निकुञ्ज = पु० न० नितरां कौ जायते जन–ड पृषो०। लतादिपिहितोदरे कुञ्जे “कपिकुलमुपयाति क्लान्तमद्रेर्निकुञ्जम्” ऋतुस०।

निकुञ्जिकाम्रा = स्त्री निकुञ्जमुत्पत्तिस्थानत्वेनास्त्वस्या ठन् कर्म०। कुञ्जबल्लर्य्यां श्रीफलतुल्यगुणायां लतायाम् राजनि०।

निकुम्भ = पु० नि + कुभि–अच्। १ दन्तीवृक्षे २ कुम्भकर्णराक्षसपुत्रभेदे च मेदि०। “स कुम्भञ्च निकुम्भञ्च कुम्भकर्णात्मजाबुभौ” रामा० लङ्का० ७५। ४६ श्लो०। ३ दानवभेदे “निचन्द्रश्च निकुम्भश्च कुपटः कपटस्तथा” भा० आ० ७५ अ०। प्रह्णादस्य ४ पुत्रभेदे “प्रह्णादस्य त्रयः पुत्राः ख्याताः सर्वत्र भारत!। विरोचनश्च कुम्भश्च निकुन्भश्चेति भारत!” भा० आ० ६० अ०। ५ हर्य्यश्वनृपपुत्रे “हर्य्यश्वथ्य निकुम्भोऽभूत् क्षात्रधर्मरतः मदा” हरिवं० १२ अ०। ६ विश्वदेवभेदे “विश्वदेवाश्च विश्वायां धर्माज्जाता इति श्रुतिः” इत्युपक्रमे “विश्वावसुसुपर्वाणौ निकुम्भश्च महायशाः” हरिवं० २०४ अ०। तत्र निकुम्भ इत्यत्र विष्कुम्भ इति पाठान्तरम्। ७ कुरुसेनाधिपान्तर्गते नृपभेदे “दुःशासनो निकुम्भश्च कुण्डभेदी पराक्रमी” भा० द्रो० १५६ अ०। ८ कुमारामुचरभेदे “शङ्कुकर्णो निकुम्भश्च पद्मः कुमुद एव च” भा० श० ७६ अ० तत्सेनाध्यक्षोक्तौ। ९ राक्षसेशे शिवानुचरभेदे “पार्श्वे तिष्ठन्तमाहूय निकुम्भमिदमब्रवीत्। राक्षसेश! पुरीं नत्वा शून्यां वाराणसीं कुरु” हरिवं० २९ अ० “अयेहि मां किङ्करमष्टमूर्त्तेः कुम्भोदरं नाम निकुम्भमित्रम्” रघुः १० दन्तीवृक्षे स्त्री गौरा० ङीष् वा राजनि०।

निकुम्भाख्यवीज = न० निकुम्भं दन्तिकावृक्षवीजमाख्याति स्ववीजेन आ + ख्या–क। जयपाले राजनि०।

निकुम्भित = न० नि + कुभि–क्त। नृत्यकरणभेदे “करणानान्तु सर्वेषां सामान्यं लक्षणन्त्विदम्। प्रायो वामकरो वक्षःस्थितोऽन्यः पुरतोऽनुगः। पादाभ्यां करणं ज्ञेयं शतमष्टोत्तरं मतम्” इत्युपक्रमे “निकुम्भितं पार्श्वक्रान्तमतिक्रान्तं विवर्त्तनम्” सङ्गीतदा०।

निकुम्भिला = स्त्री लङ्कायाः प्रश्चिमभागस्थायां १ गुहायां २ तत्स्थदेव्याञ्च “मानुषं मांसमास्वाद्य प्रनृत्यामो निकुम्भिलाम्” रामा० सु० २४। ४५ “निकुम्भिला नाम लङ्कायाः पश्चिमभागवर्त्तिनी भद्रकाली तां तत्समीपं गत्वा प्रनृत्यामः” इति तट्टीका। “तेन वीरेण तपसा वरदानात् स्वयम्भुवः। अस्त्रं ब्रह्मशिरः प्राप्तं कामगाश्च तुरङ्गमाः। स एष किल सैन्येन प्राप्तः किल निकुम्भिलाम्। यद्युत्तिष्ठेत् कृतं कर्म हतान् सर्वांश्च विद्धि नः। निकुम्भिलामसंप्राप्तमकृतास्त्रं च यो रिपुः” रामा० लङ्का० ८५। ११ श्लो०

निकुरम्ब = न० नि + कुर–शब्दे बा० अम्बच्। समूहे अमरः। “अनिलतरलकिशलयनिकरेण करेण लतानिकुरुम्बम्” गीतगोविन्दम्।

निकुलीनिका = स्त्री निपाते “गतागतं प्रतिगतं चुह्लीश्च निकुलीनिकाः” भा० क० ४९ अ०। “निकुलीनिकाः निपाताः” नीलकण्ठः।

निकूल = पु० नरमेधाङ्गे षष्ठयूपे पशुभेदालम्भोद्देश्ये देवभेदे “उत्कूलनिकूलाभ्यन्त्रिष्ठिनम्” यजु० ३०। १४।

निकृत = त्रि० नि + कृ–क्त। १ पराभूते २ दूरीकृते ३ शठे अमरः। ४ पतिते ५ नीचे च मेदि०।

निकृति = स्त्री नि + कृ–भावे क्तिन्। १ भर्त्सने २ क्षेपे ३ शाठ्ये मेदि० ४ दैन्ये शब्दरत्रा० “निकृतिपरेषु परेषु भूरिधाम्नः” किरा० “निकृत्या कामये नाहं सुखान्युत धनानि वा भा० स० २०४ श्लो०। ५ पृथिव्यां निघण्टुः। साध्यायां धर्मस्य पुत्रे ६ वसुभेदे “सप्तमञ्च ततो वायुमष्टमं निकृर्ति” वसुम्। धर्मस्थापत्यमित्येवं साध्यायां वै व्यजायत” हरिवं० २०४ अ०।

निकृष्ट = त्रि० नि + कृष–क्त। अधमे जात्याचारादिनिन्दिते अमरः।

निकेचाय = पु० नि + चि–यङ् लुक्–घञ् “आदेश्च कः” इति सूत्रे च कः इति बक्तव्ये आदेरित्युक्तिर्यङ्लुक्यादेरेव सि० कौ० उक्तेः आदेः चस्य कः। गोमयादीनां पुनःपुनः राशीकरणे

निकेत = पु० नि + कित–निवासे आधारे घञ्। १ गृहे निकेतने भरतः। “निकेतः श्रूयते पुण्यो यत्र विश्रवसो मुनेः” भा० व० ८९ अ०।

निकेतन = न० नि + कित–निवासे आधारे ल्युट्। १ गृहे अमरः “शरणेष्यनियमश्चैव वृक्षमूलकेतनः” मनुः। कर्मणि ल्युट्। २ पलाण्डौ पु० शब्दच०।

निकोचक = पु० नि + कुच–शब्दे वुन्। अङ्कोटे अमरः अच् निकोच तत्रार्थे “निचुणपिचु निकोचचोरमाणप्रभृतोनि पित्तरोगराण्याहुः स्निग्धोष्णानि गुरूणि च” सुश्रुतः।

निकोठक = पु० नि + कुठि–वुन् पृषो० नलोपः। अङ्कोठवृक्षे भरतः।

निक्रमण = न० नितरां क्रमते यत्र नि + क्रम–आधारे ल्युट्। स्थाने “निक्रमणं निषदनं निवर्त्तनं यच्च पट्वीशमर्वतः” ऋ० १६२। १४ “निक्रमणं स्थानम्” भा०।

निक्वण = पु० नि + क्वण–शब्दे “क्वणो वीणायाम्” पा० पक्षे अप्। वीणायाः शब्दे अमरः।

निक्वाण = पु० क्वण–शब्दे पक्षे घञ्। वीणादेः शब्दे अमरः

निक्षा = स्त्री निक्ष–अच्। निख्यायां (निकी) ख्याते क्षुद्रयूके उणादिकोषः।

निक्षुभा = स्त्री नि + क्षुभ–क। १ सूर्यपत्न्यां २ ब्राह्मण्याञ्च हेमा० व्र० ख० भविष्यपु० “निक्षुभार्कव्रतं भानोः सदा प्रीति विवर्द्धनम्” इत्युपक्रमे “निक्षुभा सूर्यपत्नी तया सहितोऽर्कः निक्षुभार्कः” तत्र व्याख्या, “निक्षुभा ब्राह्मणी ज्ञेया वाचकोऽर्कः प्रकीर्त्तितः” तत्रैव भविष्यपु०।

निक्षिप्त = त्रि० नि + क्षिप–क्त। १ त्यक्ते जटा० २ कृतनिः क्षेपद्रव्ये च

निक्षेप = पु० नि + क्षिप–घञ्। १ निःक्षेपशब्दार्थे निःक्षेपशब्दे दृश्यम्। २ शिल्पिहस्ते संस्कारार्थं द्रव्यादेरर्पणे च

निखर्व = पु० १ अयुतकोटिसंख्यायां २ तत्संख्येये च “अर्वुदमब्जं खर्वनिखर्वमहापद्मशङ्खवस्तखात्” लीला० नितरां खर्वः ३ वामने त्रि० हेमच०।

निखर्वट = पु० रावणसैन्यगतराक्षसभेदे “विरूपाक्षेण सुग्रीवस्तारेण च निखर्वटः” भा० व० २८४ अ०।

निखात = त्रि० नि + खन–क्त। खनित्वाऽऽरोपिते “अष्टादशद्वीपनिखातयूपः” रघुः।

निखिल = त्रि० निवृत्तं खिलं शेषो यस्मात्। सकले समग्रे अमरः। “सर्वं तु समवेक्ष्येदं निखिलं ज्ञानचक्षुषा” मनुः।

निगड = पु० न०। नि + गल–अच् सस्य डः। १ शृङ्खलायाम् (वेडी)। निवृत्तो गडः सेचनमस्मात् कठिनत्वात्। २ लोहमये हस्तिपादबन्धने अन्दुके अमरः। “संसारे संनिबद्धानां निगडच्छेदकर्त्तरि” ब्रह्मवै० पु० “बद्धापराणि परितो निगडान्यलावीत्” माघः। ३ बद्धे त्रि० “वद्धस्य निगडस्य च” मनुः “निगडः निगडितः” कुल्लू०। लस्य नडः। निगलः तत्रार्थे हेमच०।

निगडित = त्रि० निगडो जातोऽस्य तार० इतच्। १ बद्धे संयते

निगण = पु० निगरण + पृषो०। १ होमधूमे त्रिका०।

निगद = पु० नि + गद–अच्। १ भाषणे २ शब्दमात्रे च अमरः। “यद्गृहीतमविज्ञातं निगदेनैव शब्द्यते” ऋ० भाष्यधृतमन्त्रः। “निगदस्तु जनैर्वेद्यः” आगमोक्ते ३ जपे च। कर्मणि घञ्। उच्चैर्जप्ये ४ मन्त्रे च “य एवात्र मन्त्रो यो निगदः” शत० व्रा० ११। २। १६।

निगम = पु० निगम्यतेऽत्र अनेन वा नि + गम–घञ्। १ पुरभेदे तत्र भवः अण् न वृद्धिः। २ वाणिजे ३ कटभेदे ४ वणिक्पथे हट्टे मेदि०। ५ निश्चये ६ अध्वनि पर्य्यायकथनेन वेदार्थबोधके ७ ग्रन्थभेदे हेमच० न्यायमतसिद्धे पञ्चावयवन्यायमध्ये चरमावयवे निगमनशब्दे दृश्यम्। ८ न्यायशास्त्रे ९ तन्त्रभेदे १० वेदे च। “निगमकल्पतरोर्गलितं फलम्” भाग० १। १। ३ “आद्यं नैघण्टुकं काण्डं द्वितीयं नैगमं तथा” ऋ० अनुक्रमणिकायाम् “निगमशब्दो वेदवाची यास्केन तत्र तत्रापि निगमो भवतीत्येवं वेदवाक्यानामवतारितत्वात् तस्मिन् निगम एव प्रायेण वर्त्तमानानां शब्दानां चतुर्थाध्यायरूपे द्वितीयस्मिन् काण्डे उपदिष्टत्वात्तस्य काण्डस्य नैगमत्वम्” ऋग्वेदभाष्ये माधवः।

निगमन = न० निगम्यतेऽनेन करणे ल्युट्। १ न्यायस्य चरमावयवे। निगमनलक्षणं गौ० सू० उक्तं यथा

“हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम्” गौ० सू० “साधर्म्योक्ते वैधर्म्योक्ते वा यथोदाहरणमुपसंह्रियते तस्मादुत्पत्तिधर्मकत्वादनित्यः शब्दः इति निगमनम् निगम्यन्तेऽनेनेति प्रतिज्ञाहेतूदाहरणोपनया एकत्रेति निगमनम् निगम्यन्ते समर्थ्यन्ते सम्बोध्यन्ते तत्र साधर्म्योक्ते तावद्धेतौ वाक्यम् अनित्यः शब्दः इति प्रतिज्ञा, उत्पत्तिधर्मकत्वादिति हेतुः। उत्पत्तिधर्मकं स्थाल्यादिद्रव्यमनित्यमित्युदाहरणम्। तथा चोत्पत्ति धर्मकः शब्द इत्युपनयः तस्मादुत्पत्तिघर्मकत्वादनित्यः शब्द इति निगमनम् वैधर्म्योक्तेऽपि अनित्यः शब्द उत्पत्तिधर्मकत्वात् अनुत्पत्तिधर्मकमात्मादि द्रव्यं नित्यं दृष्टम् न च तथाऽनुत्पत्तिधर्मकः शब्दः तस्मादुत्पत्तिघर्मकत्वादनित्यः शब्द इति” भाध्यम्। तत्सूत्रं वृत्तौ तु अन्यथा व्याख्यातम्।

“हेतोर्व्याप्तिविशिष्टपक्षधर्मस्य अपदेशः कथनं प्रतिज्ञायाः प्रतिज्ञार्थस्य साध्यविशिष्टपक्षस्य वचनं निगमनं तथा च व्याप्तिविशिष्टपक्षधर्महेतुकथनपूर्वकसाध्यविशिष्टपक्षप्रदर्शकः व्याप्तपक्षधर्महेतुज्ञाप्यसाध्यविशिष्ट- पक्षवोधकस्तादृशबोधको वान्यायावयवो निगमनम् इति” अनु० चिन्ता० तल्लक्षणं यथा “उपनयानन्तरं निगमनं तच्चानुमितिहेतुलिङ्गपरामर्शप्रयोजकशब्दज्ञानकारणव्याप्तिपक्षताधीप्रयुक्तसाध्यधीजनकं वाक्यम्”। प्रतिकूलप्रमाणाभावसूचके २ प्रतिज्ञोपसहारवचने तस्मात् तथेति वचने यथा “असकृदनुचिन्तितानामव्याहततरनिजोपदेशानाम्। प्रामाण्यपरमसीम्नां निगमनमिदमेव निखिलनिगमानाम्” वेदान्तप्र०।

निगरण = न० नि + गॄ–ल्युट्। गरणस्य वमनस्य प्रतिरूप व्यापारे १ भक्षणे मेदि०। निगीर्य्यतेऽनेन करणे ल्युट्। २ गले पु० मेदि०। ३ होमधूमे शब्दरत्ना०। रस्य लः। निग लनमप्यत्र।

निगा(ग)ल = पु० नि + गॄ–घञ् अप् वा रस्य सः। १ भक्षखे करणे घञ्। २ अश्वगलदेशे अमरः “घण्टागलसमीपस्थो निगालः कीर्त्तितो बुधैः” अश्वशास्त्रम्।

निगालवत् = पु० निगाल + अस्त्यर्थे मतुप् मस्य वः। अश्वे शब्दार्थचि०।

निगीर्ण = त्रि० नि + गॄ–क्त। १ भक्षिते २ अन्तर्भाविते च “विषयिणारोप्यमाणेऽन्तःकृते–निगीर्णे अन्यस्मिन्नारोपविषये” काव्यप्र०।

निगु = पु० निगृह्यते ज्ञायते पदार्थोऽनेन नि + ग्रह बा० डु रलोपश्च। १ मनसि त्रिका०। २ मले ३ मूले ४ चित्रकर्मणि च संक्षिप्तसारोणादिवृत्तिः।

निगुत् = त्रि० नि + गु–शब्दे क्विप् तुक्। मयादिना अव्यक्तशब्दकारके “प्रत्यञ्चोयन्तु निगुतः” ऋ० १०। १२८। ६

निगूढ = त्रि० नि + गुह–क्त। १ गुप्ते २ वनमुद्गे पु० हेमच० “सुराजेव निगूढमन्त्रसाधनकथितविग्रहः” काद०।

निग्रन्थन = न० नि + ग्रन्थ–भावे ल्युट्। मारणे हेमच०।

निग्रह = पु० नि + ग्रह–अप्। १ भर्त्सने २ सीमायाम् ३ बन्धने ४ अनुग्रहाभावे ५ चिकित्सायां निषिद्धे प्रवृत्तस्य ६ तिरस्कारे ७ मारणे प्रवृत्तिवारणय ८ रोधे च निरोधरूप योगेन अभ्यासवैराग्यां ९ मनसोनिरोधे “निग्रहानुग्रहे शक्तः प्रभुरित्यभिधीयते”। “तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्” गीता। १० परमेश्वरे पु० “प्रग्रहो निग्रहो व्यग्रः” विष्णुसं०। “सर्वं प्रलये निगृह्णातीति निग्रहः” भा०।

निग्रहस्थान = न० नौतमोक्ते वादिनोनिग्रहास्पदे वाक्यभेदे तल्लक्षणं यथा “विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम्” गौ० सू० “क्रमप्राप्तं निग्रहस्थानम् लक्षयति। निग्रहस्य खलीकारस्य स्थानं तच्च विप्रतिपत्तिरप्रतिपत्तिश्च विप्रतिपत्तिर्विरुद्धा प्रतिपत्तिरप्रतिपत्तिः प्रकृताज्ञानं यद्यप्येतदन्यतरत् परनिष्ठं नोद्भावयितुमर्हं प्रतिज्ञाहान्यादेर्निग्रहस्थानत्वानुपपत्तिश्च तथापि विप्रतिपत्त्यप्रतिपत्त्यन्यतरोन्नायकधर्मवत्त्वं तदर्थः उद्देश्यानुगुणसम्यग्ज्ञानामावलिङ्गत्वं प्रतिज्ञाहान्याद्यन्यतमत्वं वा लक्षणमित्यपि वदन्ति” वृत्तिः। निग्रहस्थानानि द्वाविंशतिः यथा “प्रतिज्ञाहानिः १ प्रतिज्ञान्तरम् २ प्रतिज्ञाविरोघः ३ प्रतिज्ञासन्न्यासो ४ हेत्वन्वर ५ मर्थान्तरं ६ निरर्थक ७ मविज्ञातार्थ ८ मपार्थक ९ मप्राप्तकालं १० न्यून ११ मधिकं १२ पुनरुक्त१३ मननुभाषण १४ मज्ञानम १५ऽप्रतिभा १६ विक्षेपो १७ मतानुज्ञा १८ पर्य्यनुयोज्योपेक्षणं १९ निरनुयोज्यानुयोगो २०ऽपसिद्धान्तो २१ हेत्वाभासाश्च २२ गौ० मु० उक्तानि।

निग्राह = पु० नि + ग्रह–घञ्। अनिष्टं ते भूयादित्येवं रूपे शापे।

निघ = पु० निर्विशेषण हन्यते हन–क नि०। समविस्तारदेर्ध्ये तुल्यारोहपरिणाहे पदार्थे अमरः। निघा निघतरुच्छन्नैः” भट्टिः “निघो निमितम्” पा० निमितमिह समारोहपरिणाहाभ्यां मितं निमितमित्युच्यते” जयम०।

निघण्टिका = स्त्री कन्दभेदे राजनि०।

निघण्टु = पु० नि + घटि–उ। पर्य्यायनाम्रामेकत्रार्थकथनाय संग्रहे कोषाभिधानादौ तच्च ऋग्वेदभाष्योपक्रमे उक्तं यथा “आद्यं नैघण्ठुकं काण्डं द्वितीयं नैगमं तथा” अस्यार्थः एकार्थवाचिनां पर्य्यायशब्दानां सङ्घो यत्र प्रायेणोपदिश्यते तत्र निघण्टुशब्दः प्रसिद्धः। तादृशेष्वमरसिंहवैजयन्तीहलायुधादिषु दश निघण्टव इति व्यवहारात्। एवमत्रापि पर्य्यायशब्दसङ्घोपदेशादाद्यकाण्डस्य नैघण्टुकत्वम्। तस्मिन् काण्डे त्रयोऽध्यायाः। तेषु प्रथमे पृथिव्यादिलोकदिक्कालादिद्रव्यविषयाणि नामामि, द्वितीये मनुष्यतदवयवादिद्रव्यविषयाणि, तृतीये तदुभयद्रव्यगततनुबहुत्वह्रसत्वादिधर्मविषयाणि”।

निघर्ष = पु० नि + घृष–भावे घञ्। षर्षणे (घसा) “तरुशाखान्त निघर्षजोऽनलः” किरा०। ल्युट्। निघर्षणमप्यत्र न०। यथा हि कनकं शुद्धं तापच्छेदनिघर्षणैः” भा० शा० १२२ ५७ श्लो०।

निघस = पु० नि + अद + अप् घसादेशः। भोजने अमरः।

निघात = पु० नि + हन–भावे घञ्। १ आहनने अन्यस्वरेण २ अन्यस्वरहनने उदात्तादिहननपूर्वके अनुदात्तकरणे च कर्मणि घञ्। अनुदात्ते ३ स्वरे “समानवाक्ये निघातयुष्मदस्मदादेशाः” वार्त्ति०। “उदात्तादिहननपूर्वकमनुदात्तकरणं निघातः” मनोरमा। “ज्यानिघातकठिनाङ्गलित्वचौ” रघुः।

निघाति = पु० निहन्यतेऽनया निहन्–इञ् कुत्वञ्च। लोहघातिन्याम् उणादिकोषः।

निघृष्व = त्रि० नि + घृष–क्वन् निपा०। १ स्वुरे २ तन्मार्जने च उज्ज्वल० कर्मणि क्वन्। ३ ह्रस्वे निघण्टुः।

निघ्न = त्रि० निहन्यते नि + हन–घञर्थे क। १ अधीने अमरः। नियम्यत्वात् तस्य तथात्वम् “निघ्नस्य मे भर्त्तृनिदेशरौक्ष्यम्” रघुः। २ आहते ३ पूरिते च “स्थाप्योऽन्त्यवर्गो द्विगुणान्त्यनिघ्नः” लीला० “पुनर्द्वादशनिघ्नाच्च लभते यत्फलं बुधैः” सूर्यसि०। सूर्यवंश्ये ४ अनरण्यसुते नृपभेदे पु०। “अनरण्यसुतो निघ्नो निघ्नपुत्रौ बभूवतुः” हरिवं० १७ अ०। अनमित्रपुत्रे ५ नृपभेदे च “अनमित्रसुतो निघ्नो निघ्नस्य तु बभूवतुः” हरिवं० ३९ अ०।

***