नर्कुटक = पु० नरस्य कुटकमिव पृषो०। नासायां हेमच०।

नर्त्त = त्रि० नृत्यति नृत–पचा० अच्। १ नृत्यकर्त्तरि “नृत्यप्रियो नित्यनर्त्तो नर्त्तकः सर्वलालसः” भा० अनु० ३७ अ०। नृत–भावे घञ्। २ नर्त्तने पु० ततः छेदा० नित्यार्हार्थे ठञ्। नार्त्तिक अभीक्ष्णनर्त्तनार्हे त्रि०।

नर्त्तक = त्रि० नृत्यति नृत–गात्रविक्षेपे “शिल्पिनि ष्वुन्” पा० कर्त्तरिष्वुन्। जीविकार्थं गात्रविक्षेपभेदनृत्यकारके “भ्रुकुंसश्च भ्रूकुंसश्च भ्रकुंसश्चेति नर्त्तकः” अमरः। स्त्रियां वित्त्वात् ङीष्। “रङ्गाय दर्शयित्वा निवर्त्तते नर्त्तकी यथा नृथात्” सा० का० “नर्त्तकीवत् प्रवृत्तस्य निवृत्तिश्चारितार्थ्यात्” सा० सू०। २ शिवे पु० नर्त्तशब्दे दृश्यम्। ३ सङ्कीर्ण जातिमात्रे पुंस्त्री० “वेश्यायां रञ्जकाज्जातो नर्त्तको गायको भवेत्” उशनाः। नर्त्तयति नृत–णिच् ण्वुल्। ४ अङ्गुल्यादेश्चालके। “तर्कोविचारः सन्देहात् भ्रूशिरोऽङ्गुलिनर्त्तकः” सा० द०। नृत–पचा० अच् संज्ञायां कन्। ५ नलतृणे पोटगले ६ चारणे ७ केलके च शब्दरत्ना० ८ गजे ९ नृपे हेम०। १० करेणौ हस्तिन्यां स्त्री मेदि० ११ नलिकानामगन्धद्रव्ये स्त्री राजनि०। नृत्यकर्त्तुर्लक्षणं सङ्गीतशास्त्रोक्तं यथा “यादृशं नृत्यपात्रं स्याद्गीतं योज्यञ्च तादृशम्। नृत्यस्य धारणात् पात्रं नर्त्तकः परिकीर्त्तितः” “असम्बद्धप्रलापी च सदा भ्रुकुटितत्परः। हासप्रहासचतुरो वाचालो नृत्यकोविदः”।

नर्त्तन = न० नृत–भावे ल्युट्। १ अङ्गविक्षेपभेदे नृत्ये पूर्वपदस्थे निमित्ते सति उत्तरपदस्थस्यास्य क्षुम्ना० न णत्वम् परिनर्त्तनम्। वर्जयेदित्यनुवृत्तौ “कामं क्रोधञ्च लोभञ्च नर्त्तनं गीतिवादनम्” स्नातकव्रतोक्तौ मनुः। णिच्भावे ल्युट्। २ अङ्गुल्यादेश्चालने च

नर्त्तनप्रिय = पु० नर्त्तनं प्रिवमस्य। १ शिवे २ नृत्यप्रियमात्रे त्रि०

नर्त्तनशाला = स्त्री ६ त०। (नाचघर) नृत्यगृहे “यैषा नर्त्तनशालेह मत्स्यराजाय कारिता” भा० वि० २२ अ० नर्त्तन गृहादयोऽप्यत्र।

नर्त्तित = त्रि० नृत–णिच् कर्मणि क्त। कृतताण्डवे चालिते “सललितनर्त्तितवामपादपद्मा” माघः।

नर्त्तु = पु० नृत–उण्। खड्गधारायां स्थित्वा नर्त्तके त्रिका०

नर्द्द = शब्दे अक० गतौ सक० भ्वा० पर० सेट्। नर्द्दति अनर्द्दीत् ननर्द। “उदपानाश्च नंर्दन्ति यथा गोवृषभास्तथा” भा० उ० १४२ अ०। “ते नर्दमाना इव कालमेघाः” भा० आ० १९३ अ० ताच्छील्ये चानश्। “अनर्दिषुः कपि व्याघ्राः”। “विदाञ्चकार धौताक्षः स रिपुं खे ननर्द्द च” भट्टिः प्राद्युपसर्गपूर्वकस्तु तत्तदुपसर्गोद्यत्यार्थयुक्ते शब्दे अणोपदेशत्वात् सति निमित्ते न णत्वम् प्रनर्दति।

नर्द्दटक = न० “यदि भवतो नजौ भजजलागुरुर्नर्द्दटकम्” छन्दोम० उक्तलक्षणे सप्तदशाक्षरपादके छन्दोभेदे।

नर्द्दन = न० नर्द–भावे ल्युट्। शब्दे “नर्दनं मृगपक्षिणाम्” वृ० सं० ४६ अ०।

नर्द्दिन् = त्रि० नर्दति शब्दायते नर्द–णिनि। १ शब्दकारके विकत्थके। पात्रेसमिता० सप्तम्यान लुक गेहेनर्दी।

नर्ब = गतौ भ्वा० पर० सक० सेट्। नर्बति अनर्वीत् ननर्ब। अणोपदेशत्वात् सति निमित्ते न णत्वम्। प्रनर्बति।

नर्म्म = पु० नॄ–मन्। पुरुषमेधीयालभ्यपशूद्देश्ये देवभेदे “नर्माय रेभम्” यजु० ३०। ६ “नर्माय पुंश्चलूम्” ३०। २

नर्म्मकील = पु० नर्मणः परिहासस्य कील इव बन्धनस्थानत्वात्। पत्यौ भर्त्तरि त्रिका०।

नर्म्मट = पु० नर्न–अटन् पृषो०। १ स्वर्परे २ सूर्ये च हारा०।

नर्म्मठ = पु० नर्भणि कुशलः नर्मन् + अठन्। १ नर्मकुशले २ षिड्गे जारे ३ परिहासके शब्दर० ४ चिबुके चुचूके च शब्दार्थ०

नर्म्मद = त्रि० नर्भ ददाति दा–क ६ त०। १ केलिसचिवे मेदि०। २ पृक्वायां हेमच०। ३ नदीभेदे स्त्री मेदि०। सा च नदी कलिङ्गदेशस्य पश्चाद्देशे स्थिता अमरकण्टकपर्वतसन्निकृष्टा यथाह मत्स्यपु० १८५ अध्यायावधि १९० अ० पर्यन्ते तत्कथा दिङ्मात्रमत्र दर्श्यते। “मार्कण्डेय उवाच नर्मदा सरितां श्रेष्ठा सर्वपापप्रणाशिनी। तारयेत् सर्वभूतानि स्थावराणि चराणि च। नर्मदायास्तु माहात्म्यं पुराणे यन्मया श्रुतम्। तदेतद्धि महाराज! तत्सर्वं कथयामि ते। पुण्या कनखले गङ्गा कुरुक्षेत्रे सरस्वती। ग्रामे वा यदि वाऽरण्ये पुण्या सर्वत्र नर्मदा। त्रिभिः सारस्वतं तोयं सप्ताहेन तु यामुनम्। सद्यः पुनाति गाङ्गेयं दर्शनादेव नार्मदम्। कलिङ्गदेशे पश्चार्द्धे पर्वतेऽमरकण्टके। पुण्ये च त्रिषु लोकेषु रमणीया मनोरमा। सदेवासुरगन्धर्वा ऋषयश्च तपोधनाः। तपस्तप्त्वा महाराज! सिद्धिञ्च परमाङ्गताः। तत्र स्नात्वा नरो राजन्नियमस्थो जितेन्द्रियः। उपोष्य रजनीमेकां कुलानां तारयेच्छतम्। जलेश्वरे नरः स्नात्वा पिण्डं दत्त्वा यथाविधि। पितरस्तस्य तृप्यन्ति यावदाभूतसंप्लवम्। पर्वतस्य समन्तात्तु रुद्रकोटिः प्रतिष्ठिता। स्नात्वा यः कुरुते चार्चां गन्धमाल्यानुलेपनैः। प्रीतस्तस्य भवेच्छर्वो रुद्रकोटिर्न संशयः। पश्चिमे पर्वतस्यान्ते स्वयं देवी महेश्वरः। तत्र स्नात्वा शुचिर्भूत्वा ब्रह्मचारी जितेन्द्रियः। पितृकार्यञ्च कुर्वीत विधिवन्नियतेन्द्रियः। तिलोदकेन तत्रैव तर्पयेत् पितृदेवताः। आसप्तमं कुलं तस्य स्वर्गे मोदेत पाण्डव!। षष्टिर्वर्षसहस्राणि स्वर्गलोके महीयते। अप्सरोगणसंकीर्णे सिद्धचारणसेविते। दिव्यगन्धानुलिप्तश्च दिव्यालङ्कारभूषितः। ततः स्वर्गात्परिभ्रष्टो जायते विपुले कुले। धनवान् दानशीलश्च धार्मिकश्चैव जायते। पुनः णरति तत्तीर्थं गमनं तत्र रोचते। कुलानि तारयेत् सप्त रुद्रलोकं स गच्छति। योजनानां शतं साग्रं श्रूयते सरिदुत्तमा। विस्तारेख तु राजेन्द्र! योजनद्वयमायता। षष्टिस्तीर्घसहस्राणि षधिः कोञ्चस्तथैव च। सर्वं तस्य समन्तात्तु तिष्ठतेऽमरकण्टके”।

नर्मदासम्भव = न० नर्मदायां सम्भवति सम्–भू–अच्। द्यार्मदे वाणलिङ्गभेदे तल्लणादिकन्तु याज्ञवल्क्यसंहितायां देवीं प्रति शिववाक्ये “प्रशस्तं नार्मदं लिङ्गं पकजम्बु फलाकृति। मधुवर्णं तथा शुक्लं नीलं मरकतप्रभम्। हंसडिम्बाकृति पुनः स्थापनायां प्रशस्यते। स्वयं संस्रवते लिङ्गं गिरितो नर्मदाजले। पुरा वाणासुरेणाहं प्रार्थितो नर्मदातटे। अध्यवात्सं गिरौ तत्र लिङ्गरूपी महेश्वरः। वाणलिङ्गमपि ख्यातमतोऽर्थाज्जगतीतले। अन्येषां कोटिलिङ्गानां पूजने यत् फलं लभेत्। तत् फलं लभते मर्त्त्यो वाद्यलिङ्गैकपूजनात्”। तथा “ताम्री वा स्फाटिकी स्वार्णी पाषाणी राजती तथा। वेदिका च प्रकर्त्तव्या तत्र सस्थाप्य पूजयेत्। प्रत्यहं योऽर्चयेल्लिङ्गं नार्मदं भक्ति भावतः। ऐहिकं किं फलं तस्य मुक्तिस्तस्य करे स्थिता” नर्भदेशशब्दे तत्तीरस्थपाषाणमात्रस्य शिवलिङ्गरूपित्वं वक्ष्यते। प्रसङ्गात्तस्य लक्षणपरीक्षाद्रिकमुच्यते वीरमित्रोद्रवधृतकालोत्तरे “वाणलिङ्गं तथा ज्ञेयं भुक्तिमुक्तिप्रदायकम्। उत्पत्तिं वाणलिङ्गस्य लक्षण नदतः शृणु। नर्मदादेविकयोश्च गङ्गायमुनयोस्तथा। सन्ति पुण्यनदीनाञ्च वाणलिङ्गानि षण्मुख!। इन्द्रादिपूजितान्यत्र तच्चिह्नैर्विहितानि च। सदा सन्निहितस्तत्र शिवः सर्वार्थदायकः। इन्द्रलिङ्गानि तान्याहुः साम्राज्यार्थप्रदानि च”

आग्नेयं तच्छक्तिनिभमथवा शक्तिलाञ्छितम्। इदं लिङ्गवरं स्थाप्य तेजसाधिपतिर्भवेत्” “दण्डाकारं भवेद् याम्यमथवा रसनाकृति। यद्युक्तं सह तेनैव निर्णिक्तं ज्ञायते तदा। निषिक्तं निधनन्तेन क्रियते स्थापितेन तु” “राक्षसं खड्गसदृशं ज्ञानयोगफलप्रदम्। कर्करादिप्रलिप्तन्तु कुण्टकुक्षियुतं तथा। राक्षसं निरृतेर्लिङ्गं गार्हस्थ्ये न सुखप्रदम्” “वारुणं वर्त्तुलाकारं प्राशाङ्कं चालिवर्चसम्। वृद्धिःसुखादेः स्वत्वस्य संभोगाप्तन्तु मध्यगे” “कृष्णं धूम्रं च वायव्यं ध्वजगं ध्वजभूषणम्। मस्तकेस्थापितं तस्य न्यूनन्यूनमितस्ततः”

“चतुर्वर्णमयं वापि वैष्णवं ज्ञायतेऽग्रतः। वैष्णवं शङ्खचक्राङ्कगदाब्जादिविभूषितम्। श्रीवत्सं कास्तुभाङ्कञ्च सर्वसिंहासनाङ्कितम्। वैनतेयसमाङ्कं वा तथा विष्णुपदाङ्कितम्। वैष्णवं नाम तत्प्रोक्तं सर्वैश्वर्य्यफलप्रदम्” “शालग्रामादिसंस्थन्तु शशाङ्कं श्रीविवर्द्धनम्। पद्माङ्कं स्वस्तिकाङ्कं वा श्रीवत्साङ्कं विभूतये” हेमाद्रिधृतलक्षणकाण्डे नारद उवाच “अथ वक्ष्यामि ते विप्र चिह्नमेकादशं (पूर्वोक्तदशापेक्षया एकादशम्) परम्। श्रवणाद्यस्य पापानि नाशमायान्ति तत् क्षणात्। मधुपिङ्गलवर्णाभं कृष्णकुण्डलिकायुतम्। स्वयम्भु १ लिङ्गमाख्यातं सर्वसिद्धैर्निषेवितम्। नानावर्णसमाकीर्णं जटाशूलसमन्वितम्। मृत्युञ्जयाह्वयं २ लिङ्गं सुरासुरनमस्कृतम्। दीर्घाकारं” शूभ्रवर्णं कृष्णविन्दुसमन्वितम्। नीलकण्ठं ३ समाख्यातं लिङ्गं पूज्यं सुरामरैः। शुक्लाभं शुक्लकेशञ्च नेत्रत्रयसमन्वितम्। त्रिलोचनं ४ महादेवं सर्वपापप्रमोदनम्। ज्वलल्लिङ्गं जटाजूटं कृष्णाभं स्थूलविग्रहम्। कालाग्निरुद्र ५ माख्यातं सर्वसत्वैर्निषेवितम्। मधुपिङ्गलवर्णाभं श्वेतयज्ञोपवीतिनम्। श्वेतपद्मसमासीनं चन्द्ररेखाविभूषिगम्। प्रलयास्त्रसमायुक्तं त्रिपुरारि ६ समाह्वयम्। शूभ्राभं पिङ्गलङ्गटं मुण्डमालाधरं परम्। त्रिशूलधरमीशानं ७ लिङ्गं सर्वार्थसाधनम्। त्रिशूलडमरुधरं शूभ्ररक्तार्द्धभागतः। अर्द्धनारीश्वराङ्खानं ८ सर्वदेवैरभीष्टदम्। ईषद्रक्तमयं कान्तं स्थूलदीर्षं समुज्ज्वलम्। सहाकालं ९ समाख्यातं धर्मकामार्थमोक्षदम्। एतत्तु कथितं तुभ्यं लिङ्गचिह्न णहेशितुः। एकेनैव कृतार्थः स्यात् बहुभिः किमु सुव्रत!” वीरसित्रोदयधृतकालोत्तरे “उक्ताङ्कं श्रेयसे योज्यं शीर्षमन्त्रं विवर्जयेत्। यमवर्णन्तु यल्लिङ्गं यमाङ्कं वा कमण्डलुम्। दण्डाङ्कं सूत्रचिह्नं वा ब्रह्मज्ञानान्वितं मतम्। शशिवर्णं महाकालं नन्दीशं पद्मरागवत्। पद्मरागनिभं सर्वं महाभं सिद्धिपूजितम्। मौक्तिकाभं नीलनिभं रुद्रादित्यैः प्रपूजितम्। वसुदैः सेन्द्रयक्षेशं गुह्यकैर्यातुधानकैः। नानावर्णमयं नीलं शशाङ्कमण्डलप्रभम्” “इत्येतल्लक्षणं प्रोक्तं परीक्षा तत्त्वकोविदैः। त्रिःसप्तपञ्चवारं वा तुलासाम्यं न जायते। तदा वाणं समाख्यातं शेषं पाषाणसम्भवम्”। तुलाकरणन्तु तण्डुलेन अपरतुलादिषु तण्डुला यद्यधिकाः स्युस्तदा तल्लिङ्गं गृहिणां पूज्यम् लिङ्गञ्चेदधिकं तदोदासीनैः पूज्यमिति किंवदन्ती। हेमाद्रिधृतलक्षणकाण्डे सूतसंहितायान्तु “सप्तकृत्वस्तुलारूढं वृद्धिमेति न हीयते। बाणलिङ्गमिति ख्यातं शेषं नार्मदमुच्यते। त्रिपञ्च वारं यस्यैव तुलासाम्यं न जायते। तदा वाणं समाख्यातं शेषं पाषाणसम्भवम्”। वीरमित्रोदये “नद्यां वा प्रक्षिपेद्भूयो यदा तदुपलभ्यते। वाणलिङ्गं तदा विद्धि न्यूनं सुखविवर्द्धनम्”। वाणशब्दव्युत्पत्तिरपि तत्रैव “अथ वाणं समाख्यातं यथा वक्ष्ये तथादितः। बाणः सदा शिवो देवो वाणोवाणासुरोऽपि च। तेन यस्मात् कृतं तस्माद्वाणलिङ्गमुदाहृतम्। सदा सन्निहितस्तत्र शिवः सर्वार्थदायकः। कृतप्रतिष्ठं तल्लिङ्गं वाणाख्येन शिवेन च। पङ्कजस्य फलाकारं कुण्डलस्य समाकृति” पङ्कजफलं पद्मवीजम् “पक्वजम्बुफलाकारं कुक्कुटाण्डसमाकृति” इति हेमाद्रिधृतलक्षणकाण्डे पाटः। “भुक्तिमुक्तिप्रदञ्चैव वाणलिङ्गमुदाहृतम्”। सूतसंहितायान् “संस्थाप्य श्रीबाणलिङ्गं रत्नकोटि गुणं भवेत्। रसलिङ्गे ततो वाणात् फलं कोटिगुणं स्मृतम्। गुणांस्तु रसलिङ्गस्य वक्तुं शक्नोति शङ्करी। सिद्धयो रसलिङ्गे स्युरणिमाद्याः सुसंस्थिताः”। केदारखण्डे “रत्नधातुमयान्येव लिङ्गानि कथितान्यपि। पवित्राण्येव पूज्यानि सर्वकामप्रदानि च। एतेषामपि सर्वेषां काश्मीरं हि विशिष्यते। काश्मीरादपि लिङ्गाच्च बाणलिङ्गं विशिष्यते। बाणलिङ्गात् परं नान्यत् पबित्रमिह दृश्यते। ऐहिकामुष्मिकं सर्वं पूजाकर्त्तुः प्रय- च्छति”। निन्द्यलिङ्गमाह तत्रैव “कर्कशे वाणलिङ्गे तु पुत्रदारक्षयो भवेत्। चिपिटे पूजिते तस्मिन् गृहभङ्गो भवेद्ध्रुवम्। एकपार्श्वस्थिते धेनुपुत्रदारधनक्षयः। शिरसि स्फुटिते वाणे व्याधिर्मरणमेव च। छिद्रलिङ्गेऽर्चिते वाणे विदेशगमनं भवेत्। लिङ्गे च कर्णिकां दृष्ट्वा व्याधिमान् जायते पुमान्। अत्युन्नतविलाग्रे तु गोधनानां क्षयो भवेत्”। हेमाद्रिधृतम् “तीक्ष्णाग्रं वक्रशीर्षञ्च त्र्यस्रलिङ्गं विवर्जयेत्। अतिस्थूलं चातिकृशं स्वल्पं वा भूषणान्वितम्। गृही विवर्जयेत्तादृक् तद्धि मोक्षार्थमीहितम्” वीरमित्रोदये “अर्थदं कपिलं लिङ्गं घनाभं मोक्षकाङ्क्षिणाम्। मधुवत् कपिलं स्थूलं गृही नैवार्चयेत् क्वचित्। पूजितव्यं गृहस्थेन वर्णेन भ्रमरोपमम्। तत्सपीठमपीठं वा मन्त्रसंस्कारवर्जितम्। सिद्धिमुक्तिप्रदं लिङ्गं सर्वप्रसादपीठगम्” सूतसंहितायां भैरववाक्यम् “वाणासुरः पुरा भद्रे! शिवस्यातीव वल्लभः। जितक्रोधोऽनुरक्तश्च शिवपूजाविधौ रतः। विधिज्ञो निपुणश्चैव शिल्पज्ञो लक्षणान्वितः। दिने दिने स्वयं कृत्वा लिङ्गं स्थाप्याप्यपूजयत्। एवं वर्षशतं देवि! दिव्यमानेनापूजयत्। तदा तद्भक्तिसुलभः प्रत्यक्षः शङ्करोऽभवत्” शङ्कर उवाच तुष्टोऽहं तव हे वाण! वरं व्रूहि किमिच्छसि। शङ्करस्य वचः श्रुत्वा वाणोवचनमब्रवीत्। यदि तुष्टोऽसि हे नाथ! मह्यं त्वं मन्दभागिने। क्लिष्टोऽहं तव देवेश! लिङ्गं कृत्वा दिने दिने। तत्तल्लक्षणसंसिद्धलक्षणं शास्त्रनिर्मितम्। शास्त्रार्थो दुर्लभो देव! सिद्धश्चार्थश्च दुर्लभः। तस्मात्त्वं यदि मे तुष्टो लिङ्गं देहि सुलक्षणम्। सर्वकामकृतार्थञ्च सर्वसत्वानुकम्पनम्। सर्वेषाञ्च हितार्थाय प्रसादं कुरु शङ्कर!। इत्येवं वचनं तस्य शिवः परमकारणम्। श्रुत्वा कैलासमूर्द्धभ्यः शङ्करेण विनिर्निताः। लिङ्गानां कोटिसंख्याश्च तथा चैव चतुर्दश। सिद्धलिङ्गं तदा तत्तत्सर्वं सदोदयं स्वयम्। आयोज्यैवं सुसम्पूर्णं वाणस्य च सपर्पितम्। अक्षयफलदं बाणः स्थाप्यमानञ्च नित्यशः। संपूज्य बाणः सद्भावं कृत्वा प्रणयनन्तदा। तद्भावं सपुरं नीत्वा नूनं चिन्तयते शुतिः। अक्षयां यदि संसिद्धिं स्थाप्यमानं दिने दिने। सत्वानां सिद्विहेत्वर्थं वाणस्थाने सुसंस्तवे। लिङ्गानां कालिकागर्त्ते सञ्चितास्तु त्रिकोटयः। श्रीशैले कोटयस्तिस्रः कीट्येका कन्थकाश्रमे। माहेश्वरे च कोटिस्तु कन्दातीर्थे तु को- टिका। माहेन्द्रे चैव नेपाले एकैका कीटिरेव च। वाणाच्चार्थं कृतं लिङ्गं वाणलिङ्गमतः स्मृतम्। वाणो वा शिव इत्युक्तस्तत्कृतं वाणमुच्यते। तस्मात्तेषु प्रदेशेषु पुण्यस्थानेषु तेषु वा। स्थितं तच्छिवसद्भावं शिवस्याकृति विग्रहे”। हेमाद्रौ तदाकृतिलक्षणसमुच्चयेऽपि “स्ययम्भुलिङ्गवत् बाणलिङ्गं भुक्त्यैस्वमुक्तये “सहस्रफलमन्यस्माद् यथास्थापनपूजने। श्रीशैले कालिकागर्त्ते लिङ्गाद्रौ कन्यकाश्रमे। कन्यातीर्थे वने शैले माहेन्द्रे वा सुरेश्वरे। स्थितानि वाणलिङ्गानि शिवेनैव कृतानि तु” सिद्धान्तशेखरे वाणलिङ्गान्यधिकृत्य “तदानेकप्रकारं स्यादभ्यवर्णमपीठकम्। लक्ष्ममूर्त्तिविहीनञ्च वाणं तत् पृथुलाग्रकम्” वाणलिङ्गेष्वावाहनादि न कर्त्तव्यं तदुक्तं भविष्ये “वाणलिङ्गानि राजेन्द्र! स्थितानि भुवनत्रये। न प्रतिष्ठा न संस्कारस्तेषाभावाहनं न चेति”। रौद्रलिङ्गलक्षणं वीरमित्रोदयधृते “नदीसमुद्भवं रौद्रमन्योन्यस्य विघर्षणात्। नदीवेगात् समं स्निग्धं सञ्जातं रौद्रमुच्यते” लक्षणसमुच्चयेऽपि “सरित्प्रवाहसंस्थानं वाणलिङ्ग समाकृति। तदन्यदपि बोद्धव्यं रौद्रलिङ्गं सुखावहम्। नदीसारनर्मदाया वाणलिङ्गसमाकृति। तदन्यदपि बोद्धव्यं लिङ्गं रौद्रं भविष्यति”। रौद्रलिङ्गं तथा ख्यातं वाणलिङ्गसमाकृति। श्वेतं रक्तं तथा पीतं कृष्णं विप्रादिपूजितम्। स्वभावात् कृष्णवर्णं वा सर्वजातिषु सिद्धिदम्। नर्मदासम्भवं रौद्रं वाणलिङ्गवदीरितमिति”। अधिकं नर्मदेशशब्दे दृश्यम्।

नर्मदेश = न० नर्मदया स्थापित इशो यत्र। काशीस्थे शिवलिङ्गभेदे तदाविर्भवकथा काशीख० ९२ अ० यथा “निशम्येति विधेर्वाक्यं नर्मदा सरिदुत्तमा। धातुर्वरं परित्यज्य प्राप्ता वाराणसीं पुरीम्। सर्वेभ्योऽपि हि पुण्येभ्यः काश्यां लिङ्गे प्रतिष्ठिते। अपरा न तृनुद्दिष्टा कैश्चित् श्रेयस्करी क्रिया। अथ सा नर्मदा पुण्या विधिपूर्वं प्रतिष्ठितिम्। व्यधात् पिलिम्पिलातीर्थे त्रिपिष्टपसमीपतः। ततः शम्भुः प्रसन्नोऽभूत् तस्यै नद्यै शुभात्मने। वरं वृणीष्व सुभगे! यत्तुभ्यं रोचतेऽनघे!। सरिद्वरा निशम्येति रेवा प्राह महेश्वरम्। किं वरेणेह देवेश! भृशं तुच्छेन धूर्जटे!। निर्द्वन्द्वा त्वत्पदद्वन्द्वे भक्तिरस्तु ममेश्वर!। श्रुत्वेति नितरान्तुष्टो रेवागिरसनुत्तमाम्। प्रोवाच च सरित्श्रेष्ठे! त्वयोक्तं यत्तथास्तु तत्। गृहाण पुण्यनिलये वितरामि वरान्तरम्। या- वत्योदृशदः सन्ति तव रोधसि नर्मदे। तावत्यो लिङ्गरूपिण्यो भविष्यन्ति वरान्मम। अन्यञ्च ते वरं दद्यां तमप्याकर्णयोत्तमम्। दुष्प्राप्यं यच्च तपसां राशिभिः परमार्थतः। सद्यः पापहरा गङ्गा सप्ताहेन कलिन्दजा। त्र्यह्वा सरस्वती रेवे! त्वन्तु दर्शनमात्रतः। अपरं च वरं दद्यां नर्मदे! दर्शनाघहे। भवत्या स्थापितं लिङ्गं नर्मदेश्वरसंज्ञितम्। एतल्लिङ्गं महापुण्यं मुक्तिं दास्यति शाश्वतीम्। अस्य लिङ्गस्य ये भक्तास्तान् दृष्ट्वा सूर्यनन्दनः। प्रणमिष्यति यत्नेन महाश्रेयोभिवृद्धये। सन्ति लिङ्गान्यनेकानि काश्यां देवि! पदेपदे। परं हि नर्मदेशस्य महिमा कोऽपि चाद्भुतः। इत्युक्त्वा देवदेवेश स्तस्मिन् लिङ्गे लयं ययौ। नर्मदापि प्रहृष्टाऽऽसीत् पावित्र्यं प्राप्य चाद्भुतम्। स्वदेशं च परिप्राप्ता दृष्टिमात्राथहारिणी”।

नर्मन् = न० नॄ–मनिन्। परिहासे अमरः। “न नर्मयुक्तं वचनं हिनस्ति” भा० आ० १८२ अ० “नर्मपूर्वमनुपृष्ठ संस्थितः” रघुः। “सुहृत्प्रयुक्ता इव नर्मवादाः” काम० “त्रिदिनमिह न भिन्द्याद्ब्रह्मचर्यं न चास्या। हृदयमननुरुध्य स्वेच्छया नर्म कुर्य्यात्” मल्लिनाथधृतकामशास्त्रम् “माधुर्यं नर्मविज्ञानं वाग्मिता चेति तद्गुणाः” द्वतीलक्षणे सा० द०।

नर्मरा = स्त्री नर्मन् + अस्त्यर्थे रः। १ दर्य्यां २ भस्त्रायां ३ सरलायां ४ निष्कलाख्यायाञ्च मेदि०।

नर्मवत् = त्रि० नर्म अस्त्यस्य मतुप् मस्य वः। नर्मयुक्ते स्त्रियां ङीप्। सा च १ नायिकाभेदे तदाख्यायिकारूपे ३ रासक नाटकभेदे सा० द० “तत्र सन्धिद्वयवती यथा नर्मवती”।

नर्मसचिव = पु० नर्मसु सचिवः। परीहाससहाये “न नर्मसचिवैः सार्द्धं किञ्चिदप्यप्रियं वदेत्” कामन्दक० “न नर्मसाचिव्यमकारि नेन्दुना” माघः।

नर्य्य = त्रि० नृभ्योहितं यत्। १ मनुष्यहिते “नॄणां नर्य्यो नृतमः क्षपावान्” ऋ० १०। २९। १ “नर्य्यो नृभ्यो हितः” भा० “चतुष्पदे नर्य्याय द्विपदे” ऋ० १। १२१। ३ नरस्यापत्यम् वा० यत्। २ मनुष्यमात्रे च “अपो नर्य्यः सुजातः” निरु० ११। ३६ धृतामृचमधित्योक्तं “मनुष्यः नृभ्योहितो नर्य्यः” “होतौ यक्षत् सुरेतसमृषभं नर्य्यापसम्” यजु० २१। ३८ “नर्य्यं नरहितमपः कर्म यस्येति” वेददी०।

नल = पु० नल–बन्धे अच्। १ तृणभेदे पोटगले अमरः। “नलस्तु मधुरस्तिक्तः कषायः कफरक्तजित्। उष्णो हृद्वस्तियोन्यर्त्तिदाहपित्तविसर्पजित्” भावप्र० तद्गुणाः। “जरठच्छेदा नलग्रन्थयः” सा० द०। २ सूर्यवंश्ये नृपभेदे “रामस्य तनयो जज्ञे कुश इत्यभिविश्रुतः” इत्युपक्रमे “निषध्रस्य नलः पुत्रो नभः पुत्रो नलस्य तु” इति “सुधन्वनः सुतश्चैव ततो जज्ञे नलो नृपः। उक्थो नाम स धर्मात्मा नलपुत्रो बभूव तु”। “नलौ द्वावेव विख्यातौ पुराणे भरतर्षभ!। वीरसेनात्मजश्चैकः यश्चेक्ष्वाकुकुलोद्भवः” हरिवं० १५ अ० “नलौ द्वावेव विख्यातौ वंशे कश्यपसम्मवे। वीरसेन सुतस्तद्वन्नैषधश्च नराधिपः। एते वैवस्वते वंशे राजानी भूरिदक्षिणाः” मत्स्यपु० १२ अ०। एवं वीरसेनस्य सूर्यवंश्यत्वे स्थितेऽपि नैषधचरिते “हिंमाशुवंशस्य करीरमेव मामिति” उक्तेः चन्द्रवंश्यत्वम् तेन “आसीद्राजा नलोनाम वीरसेनसुतो नृप!” इति भा० व० ५२ अ० उक्तो वीरसेनः सूर्यवंश्यात् भिन्नएव भा० व० ६० अ० तत्पुत्र नलस्य इन्द्रसेनाख्य पुत्र इत्युक्तं सूर्यवंश्ययोर्नलयोस्तु पुत्रनामनी भिन्ने हरिवं० १५ अ० इति नास्य सूर्यवंश्यता

भा० व० ५२ अध्यावधि ७९ अ० पर्यन्ते नलोपाख्यानं दृश्यम्। तत० संक्षिप्य दिङ्मात्रमत्र तच्चरितं प्रदर्श्यते। पुरा किल वीरसेनसुतः निषधदेशाधिपो नलनामा आसीत्। स च कुण्डिनेश्वरभीमनृपसुतां दमयन्तीं स्वयंवरविधिना उब्धामुपयेमे तस्य इन्द्रसेनः पुत्रो बभूव। स च कलिप्रवेशात् पाशाक्षदुर्व्यसनितया पुष्करेण भ्रात्रा सह द्यूतदेवनात् सर्वस्वमहारयत्। अथ स हृतराज्यो दमयन्त्या सह वनं जगाम। तत्र महाकष्टमनुभवन् दयमन्तीं व्यसनासहिष्णुं मन्यमानश्च रात्रौ सुप्तां तां व्यरित्यज्य पलायाञ्चक्रे। दमयन्ती तु प्रबुध्य बहु विलप्य पथिकसार्थेन सह मातृस्वसृगृहं गताऽपि लुप्तचिह्नतया मातृस्वस्राऽप्रत्यभिज्ञातेव तत्सदनमुवास। अथ भीमादेशेन तदन्वेषणाय प्रेरिता द्वताश्चिह्नभेदेन तां दमयन्तीं ज्ञात्वा भीमाय न्यवेदयन्। ततस्तां ततः स्वगृहमानाथ्य भीमो नलान्वेषणाय द्वतान् प्रजिघाय। नलोऽपि तत्समये अरण्ये सङ्कटापन्नं कर्कोटनागं सङ्कटादुज्जहार। अथ प्रत्युपकाराशया नागस्तद्देहस्थं कलिं तापयितुं तस्य पदे ददंश तेन तस्य विषज्वालया तद्देहस्थः कसिरेव नितान्तमुत्तापितः। नलस्तुं तेन रूपान्तरमात्रमाप। स्वेच्छया पुनः स्वदेहप्राप्तिर्भविष्यतीति नागेन तस्यै वरे दत्ते तदुपदेशेन ऋतुपर्णस्य नृपस्य बाहुकतया प्रसिद्ध आश्वसारथ्यं चकार। अथ भैमीद्वतेन तस्य वचनविशेषेण नलत्वं सम्भाष्य दमयन्तीं प्रति निवेदिते सा तेन स्वस्य पुनः स्वयंवरमिषेण दूतेन ऋतुपर्णमाजुवाव। तस्याश्वचालननैपुण्यं पथि दृष्ट्वा तन्नैपुण्यं शिक्षितुमिच्छुः तस्मै स्वकीयाक्षहृदयज्ञानदानविनिमयं चक्रे। अथ नमस्य तस्मादक्षज्ञानमात्रादेव देहात् कर्कोटकविषदग्धः कलिनिर्जगाम। अथ कुण्डिनपुरे आगते दमयन्ती परिवर्त्तितरूपमपि नलं पाकादिकौशलेन तं नलं निश्चिकाय। अथ तेन रूपान्तरपरिवर्त्तनेन स्वरूपे गृहीते भैम्याः सह मेलने जाते नितान्तं भीमस्तुतोष नलं च प्रेषयामास निषधदेशम्। स च स्वदेशमागत्य स्वभ्रातारं पुष्करं देवनायाजुहाव। विदिताक्षज्ञानतया तं जिगाय च। इत्थं द्यूतहारितराज्योऽपि पुनर्लब्धराज्योऽभूदिति। “नलः सितच्छत्त्रितकीर्त्तिमण्डलः” “तृणेऽपि तन्व्या नलनामनि श्रुते” नैष० “कर्कोटस्य नागस्य दमयन्त्या नलस्य च। ऋतुपर्णस्य राज्ञश्च कीर्त्तनं कलिनाशनम्” भा० व० नलोपाख्याने। “पुण्यश्लोको नलोराजा पुण्यश्लोको युधिष्ठिरः” प्रातःस्परणीयकीर्त्तने। ३ पितृदेवभेदे कव्यवालशब्दे १८३४ पृ० दृश्यम्। विश्वकर्मणः पुत्रे रामायणप्रसिद्धे ४ वानरभेदे

“रामस्य वरदानाच्च शिवः पन्था बभूव ह। तस्मिन् दत्ते तदा कुक्षौ समुद्रः सरितां पतिः। राथवं सर्वशास्त्रज्ञमिदं वचनमब्रवीत्। अयं सोम्य! नलोनाम तनयो विश्वकर्मणः। पित्रा दत्तवरः श्रीमान् प्रीतिमान् विश्वकर्मणः। एष सेतुं महोत्साही करोतु मयि वानरः। तमहं धारयिष्यामि यथा ह्येष पिता तथा। एवमुक्त्वो दधिर्नष्टः समुत्थाय नलस्ततः। अब्रवीद्वानरश्रेष्ठो वाक्यं रामो महाबलम्। अहं सेतुं करिष्यामि विस्तीर्णं मकरालये। पितुः सामर्थ्यमासाद्य तत्त्वमाह महोदधिः”। “मम मातुर्वरो दत्तो मन्दरे विश्वकर्मणा। मया तु सदृशः पुत्रस्तव देवि! भविष्यति। औरसस्तस्य पुत्रोऽहं सदृशो विश्वकर्मणा। न चाप्यहमनुक्तोवः प्रव्रूयामात्मनो गुणान्। समर्थश्चाप्यहं सेतुं कर्त्तुं वै बरुणालये। तस्मादद्यैव बध्नन्तु सेतुं वानरपुङ्गवाः” रामा० लङ्का० २२ अ०। नलसेतुशब्देऽधिकं दृश्यम्। ५ पद्मे न० राजनि०।

नलक = न० नल इव कायति कै–क। शाखास्थ्नि नडकशब्दार्थे हेमच०।

नलकानन = पु० नडप्रधानं काननमत्र। १ देशभेदे “झि- ल्लिकाः कुन्तलाश्चैव सौहदाः नलकाननाः” मा० भी० ९ अ० जनपदोक्तौ। ६ त०। नलानां २ वने च न०।

नलकिनी = स्त्री नलकं नलाकारमस्थि विद्यतेऽत्र इनि ङीप्। जङ्घायां हेमच०।

नलकील = पु० नल एव कीलोऽत्र। जानुनि हेमच०।

नलकूवर = पु० कुवेरपुत्रे “यक्षराज्ञा कुवेरेण वरा लब्धाश्च पुष्कलाः। धनाधिपत्यं सख्यञ्च रुद्रेणामिततेजसा। सुरत्वं लोकपालत्वं पुत्रञ्च नलकूवरम्” भा० श० ४८ अ०। स च नारदशापेन व्रजे स्थावरतां प्राप्तः कृष्णेन पुनर्देवत्वमासादितः। तत्कथा भाग० १० स्कन्धे यथा “कृष्णस्तु गृहकृत्येषु व्यग्रायां मातरि प्रभुः। अद्राक्षीदर्जुनौ पूर्वं गुह्यकौ धनदात्मजौ”। “पुरानारदशापेन वृक्षतां प्रापितौ मदात्। नलकूवरमणिग्रीवाविति ख्यातौ श्रियान्वितौ” ९ अ० “रुद्रस्यानुचरौ भूत्वा सुदृप्तौ धनदात्मजौ। कैलासोपवने रम्ये मन्दाकिन्यां मदोत्कटौ। वारुणीं मदिरां पीत्वा मदाघूर्णितलोचनौ। स्त्रीजनैरनुगायद्भिश्चेरतुः पुष्पिते वने। अन्तः प्रविश्य गङ्गायामम्भोजवनराजिषु। चिक्रीडतुर्युवतिभिर्गजाविव करेणुभिः। यदृच्छया च देवर्षिर्भगवांस्तत्र कौरव!। अपश्यन्नारदो देवौ क्षीवाणौ समबुद्ध्यत। तं दृष्ट्वा व्रीडिता देव्यो विवस्त्रा शापशङ्किताः। वासांसि पर्य्यधुः शीघ्रं विवस्त्रौ नैव गुह्यकौ” “यदिमौ लोकपालस्य सुतौ भूत्वा तमःप्लुतौ। न विवाससमात्मानं विजानीतः सुदुर्मदौ। अत इतः स्थावरतां स्यातां नैवं यथा पुनः। स्मृतिः स्यात् मत्प्रसादेन तत्रापि मदनुग्रहात्। वासुदेवस्य सान्निध्यं लब्ध्वा दिव्यशरच्छते। वृत्ते स्वर्ल्लोकतां भूयो लब्धभक्ती भविष्यतः” १० अ०

नलद = न० नलं तृषाबन्धं द्यति दो–खण्डने क। १ उशीरे (वेणारमूल) उशीरशब्दे १३७६ पृ० तद्गुणा दृश्याः २ पुष्परसे ३ जटामांस्याञ्च मेदि० “करिणां मुदे सनलदाऽनलदा” किरा० “नलदेनानुलिम्पन्ति” “नलदमालां प्रतिमुञ्चन्ति” आश्व० श्रौ० ६। १०। ३। ४। तत्पण्यमस्य किशरा० ष्ठन्। ४ नलदिक तद्विक्रेतरि त्रि० स्त्रियां ङीष्। नलं ददाति दा–क। ५ नलदातरि त्रि० “स्यादस्या नलदं विना न दलने तापस्य कोऽपि क्षमः” नैषध०। रुद्राश्वनृपस्य घृताच्यां जाते ६ कन्याभेदे स्त्री “खलदा चैव राजेन्द्र! नलदा सुरसाऽपि च” हरिवं० ३१ अ० तत्वन्योक्तौ।

नलपट्टिका = स्त्री नलनिर्मिता पट्टिकेव। (दरमा) ख्याते पदार्थे हारा०।

नलमीन = पु० नलः नलाश्रयः मीनः। (चिङ्गुडी) मत्स्यभेदे अमरः।

नलसेतु = पु० नलवानरकृतः सेतुः शा० त०। समुद्रोपरि नलवानरकृते सेतौ “अस्ति तत्र नलोनाम वानरः शिल्पिसम्मतः। त्वष्टुर्देवस्य तनयो बलवान् विश्वकर्मणः। स यत् काष्ठं तृणं वापि शिलां वा क्षेप्स्यते मयि। सर्वं तद्धारयिष्यामि स ते सेतुर्भविष्यति। इत्युक्त्वान्तर्हिते तस्मिन् रामो नलमुवाच ह। कुरु सेतुं समुद्रे त्वं शक्तोह्यसि मतो मम। तेनोपायेन काकुत्स्थः सेतुबन्धमकारयत्। दशयोजनविस्तारमायतं शतयोजनम्। नलसेतुरिति ख्यातो योऽद्यापि प्रथितो भुबि” भा० व० ३८३ अ०।

नलिका = स्त्री नलः तद्रूपाकारोऽस्त्यस्याः ठन्। १ नाड्यां (नली) इति ख्याते सुगन्धिद्रव्यभेदे उत्तरपथप्रसिद्धे (प~ठारी) प्रसिद्धे प्रबालाकृतौ २ वृक्षभेदे च “नलिका विद्रुमलताकपोतचरणा नटी। धमन्यङ्गतकेशी च निर्मध्या शुषिरा नली। नलिका शीतला लघ्वी चक्षुष्या कफपित्तहृत्। कृच्छ्राश्मरीवाततृष्णास्रकुष्ठकण्डुज्वरापहा” भावप्र०। “काशाः कुशा वा नलिका नलो वा” वृ० सं० ५४ अ०। दकार्गलशब्दे दृश्यम्। तन्तवायानां वयनसाधने ३ द्रव्यभेदे (नली) ४ तदाकारे अस्त्रे च।

नलित = पु० नल–क्त। (नालता) शाकभेदे द्रव्यगुणाभिधानम्। “मधुरो नलितः पित्तनाशकः शुक्रवर्द्धकः” तद्गुणोक्तिः

नलिन = न० नल–बन्धे इनन्। १ पद्मे २ जले ३ नीलिकायां हेमच० ४ सारसखगे पुंस्त्री० अमरः। ४ कृष्णपाकफले प्राचीनामलके (पानि आमला) पु० शब्दच० “नलिनं मलिनं विवृण्वती स्पृशतीमस्पृशती तदीक्षणे” नैष० “नलिनाभवक्त्रः” रघुः।

नलिनी = स्त्री नडाः (नालाः) सन्त्यत्र पुष्करा० इनि ङीप् डस्य लः। १ पद्मिन्यां “व्याकोशकोकणदतां दधते नलिन्यः” माघः। २ पद्मयुक्तदेशे ३ कमलाकरे ४ नदीमात्रे मेदि०। नलानां नलयुक्तानां समूहः खला० इनि। पद्मसमूहे ५ नलिकायां राजनि० ६ नारिकेले त्रिका० “नलिनीवाम्बुसम्पत्त्या बुद्ध्या श्रीः परिपाल्यते” कामन्द० “ततोऽविदूरे नलिनीं प्रभूतकमलोत्पलाम्। सीताहरणद्युखार्त्तः पामां रामः समासदत्” भा० व० २७९ अ०। “एषा सा दृश्यते पष्मा नलिनी चित्रकानना” रामा० ६। १०८ अ० “प्रयाता नन्दनस्येव नलिनी सरितां वरा” हरिवं० ६५ अ० “नलिनी क्षतसेतुबन्धना” कुमा०। ७ व्योमनद्याम् सा च “ब्रह्मलोकादपक्रान्ता सप्तधा प्रतिपद्यते। वस्वोकसारा नलिनी पावनी च सरस्वती। जम्बूनदी च सीता च गङ्गा सिन्धुश्च सप्तमी” भा० भी० ६ अ० उक्ता पञ्चदशाक्षरपादके ८ छन्दोभेदे “सगणैः शिववक्त्र ५ मितैर्गदिता नलिनी” वृ० र० टी० तल्लक्षणमुक्तम्।

नलिनीखण्ड = न० नलिनीनां समूहः कमला० समूहे खण्डच। पद्मिनीसमूहे।

नलिनीनन्दन = न० नलिन्या नन्दयति नन्दि–ल्यु ३ त०। देवोद्यानभेदे “वनं चैत्ररथं दिव्यं नलिनीनन्दनं वनम्। यो विनाशितवान् क्रोधात् देवोद्यानानि वीर्यवान्” रामा० आरण्य० ३६

नलिनीरुह = न० नलिन्यां रोहति रुह–क। मृणाले राजनि०

नलिनेशय = पु० नलिने व्रह्मनाभिकमले शेते–शी–अच् अलुक्स०। विष्णौ।

नली = स्त्री नल–अच् गौरा० ङीष्। १ मनःशिलायां विश्वः २ नलिकायां भावप्र०।

नलेश्वर = पु० न० नलेन स्थापित ईश्वरो यत्र। नलनृपस्यापिते शिवलिङ्गभेदे शिवपु०।

नलोत्तम = पु० नलेषु उत्तमः। देवनले राजनि०।

नलोदय = पु० कालिदासकृते काव्यभेदे

नलोपाख्यान = न० नलस्योपाख्यानं यत्र। भारतवनपर्वान्तर्गते अवान्तरपर्वभेदे “नलोपाख्यानमत्रैव” भा० आ० १ अ०। तच्च नलशब्दे दृश्यम्।

नल्य = त्रि० नलस्यादूरदेशादि० बला० य। नलस्यादूरदेशादौ

नल्व = पु० नल–बा० व। चतुःशतहस्तसिते अमरः शतहस्तमिते कात्यः “रावणस्य शरीरन्तु पञ्चनल्वानुविस्तृतम्” रामा० लङ्का० ९२। ६२ श्लो० “नल्वमात्रपरीणाहो घनच्छायो वनस्पतिः” भा० शा० १६४ अ०।

नल्ववर्त्मगा = स्त्री नल्वमितं वर्त्म गच्छति गम–ड। १ काकाक्षीलतायां शब्दच० २ तन्मितपथगामिनि त्रि०।

नव = पु० नु–स्तवे भावे अप। १ स्तवे मेदि० कर्मणि अप्। २ नूतने त्रि० अमरः ३ रक्तपुनर्नवायाम् पु० राजनि० “नवाम्बुभिर्भूरिविलम्बिभिर्घनाः” शकु० “नवं नवं प्रीतिरहो क्लरोति” “नवानघोधोवृहतः पयोधरान्” माघः ४ उशीनरनृपस्य पुत्रभेदे पु० ५ तत्पत्न्यां स्त्री “उशीनरस्य पत्न्यस्तु पञ्च राजर्षिवंशजाः। नृगा कृमिर्नवा दर्वा पञ्चमी च दृशद्वती। उशीनरस्य पुत्रास्तु पञ्च तासु कुलो- द्वहाः। तपसा चैव महता जाता वृद्धस्य चात्मजाः। नृगायास्तु नृगः पुत्रः कृम्या कृमिरजायत। नवायास्तु नवः पुत्री दर्वायाः सुव्रतोऽभवत्। दृशद्वृत्यास्तु संजज्ञे शिविरौशीनरो नृपः” हरिवं० ३१ अ०।

नवक = न० नवानामवयवः सङ्ख्यायाः कन्। १ नवसंख्यायाम् नवपरिमाणमस्य। २ नवसंख्यान्विते त्रि० नवनवकशब्दे वक्ष्यमाणदक्षोक्तानीव नवनवकान्युक्त्वा काशी० ख० ४० अ० दशमं नवकमुक्तं यथा “एतन्नवानान्नवकं ज्ञात्वा श्रियमवाप्नुयात्। अन्यच्च नवकं वचिम सर्वेषां स्वर्गमार्गदम्। सत्यं शौचमहिंसा च क्षान्तिर्ज्ञानं दया दमः। अस्तेय इन्द्रियाक्षोभः सर्वेषां धर्मसाधनम्। अभ्यस्य नवतिं ह्येतां स्वर्गमार्गप्रदीपिकाम्। सतामभिमतां पुण्यां गृहस्थो नावसीदति”। “इति वीराष्टकः प्रोक्तः खन्धमातृगणोद्भवः। छागवक्त्रेण सहितो नवकः परिकीर्त्त्यते” भा० व० २२७ अ० कानिचित् नवकानि सा० ति० उक्तानि यथा “गुणिता नवधा नित्या सूते मन्त्रं नवार्णकम्। नवकं शक्तितत्त्वानां तत्त्वरूपा महेश्वरी। नवकं पीठशक्तीनां शृङ्गारादीन् रसानपि। माणिक्यादीनि रत्नानि नववर्गयुतानि च। नवकं प्राणदूतीनां मण्डलं नवकं शुभम्। यद्यन्नवात्मकं लोके सर्वमस्या उदञ्चति”। तत्र शक्तितत्त्वनवकं तत्रैव प्रथमपटले “सच्चिदानन्दविभवात् सकलात् परमेश्वरात्। आसीच्छक्तिस्ततो नादी नादाद्विन्दुसमुद्भवः। परशक्तिमयः साक्षात् त्रिधासौ भिद्यते पुनः” नादविन्दूनां प्रत्येकं त्रिधाभेदात् नवसंख्या। तेषां भेदाश्च तत्रैवोक्ता यथा “विन्दुर्नादो वीजमिति तस्य भेदाः समीरिताः। विन्दुः शिवात्मको वीजं शक्तिर्नादस्तयोर्मिथः। समवायः समाख्यातः सर्वागमविशारदैः। रौद्रो विन्दोस्तती नादात् ज्येष्ठा वीजादजायत। वामा ताभ्यः समुत्पन्ना रुद्रब्रह्मरमाधिपाः। विज्ञानेच्छाक्रियात्मानो वह्नीन्द्वर्कस्वरूपिणः। भिद्यमानात् पराद्विन्दोरव्यक्तात्मा रवोऽभवत्”। पीठशक्तीनां नवकं तत्तन्मन्त्रभेदे तत्तत्प्रकरणे तत्रोक्तम्। शृङ्गारादिरस नवकमलङ्कारे प्रसिद्धं नवरसशब्दे दृश्यम्। रत्ननवकं नवरत्नशब्दे दृश्यम् तच्च ६ पटले तत्रैवोक्तम्। वर्गाणां नवकम् अकचट तप यशहानां नवकं ७ पटले तत्रोक्तम्। मण्डलनवकं तत्रैव ८ पटले “चतुरस्नां भुवं भित्त्वा कोष्ठानां नवकं लिखेत्। पूर्वकोष्ठादिषु लिखेत् सप्तवर्गा ननुक्रमात्। लक्षमीशे मध्यकोष्ठे स्वरयुम्मक्रमाल्लिखेत्” इत्युक्तम्। प्राणदूतीनां नवकं २३ पटले तत्रोक्तं दृश्यम्।

नवकारिका = स्त्री नवं करोति कृ–ण्वुल्। १ नवोढायां स्त्रियां शब्दमा० कर्म०। २ नूतनायां कारिकायां च। कारिका क्रिया कर्म०। ३ नूतनत्वे च।

नवकालिका = स्त्री नवकं नूतनमलति अल–भूषणे ण्वुल्। नवीने हारा० अभिधानात् स्त्रीत्वम्।

नवग्रह = पु० कर्म० संज्ञात्वात् न द्विगुः। “सूर्यचन्द्रौ मङ्गलश्च बुधश्चापि वृहस्पतिः। शुक्रः शनैश्चरो राहुः केतवश्च नव ग्रहा” इत्युक्तेषु नवसु १ ग्रहेषु खगोलशब्दे तत्कक्षादिमानमुक्तं तद्रथादिमानमत्रोच्यते।रवेः “योजनानां सहस्राणि भास्करस्य रयो नव। ईषादण्डस्तथैवास्य द्विगुणो मुनिसत्तम!। सार्द्धकोटिस्तथा सप्त नियुतान्यधिकानि वै। योजनानान्तु तस्याक्षश्चक्रं यत्र प्रतिष्ठितम्। चत्वारिंशत् सहस्राणि द्वितीयोऽक्षो व्यवस्थितः। पञ्चान्यानि तु सार्द्धानि स्यन्दनस्य महामते!। अक्षप्रमाणमुभयोः प्रमाणं तद्युगार्द्धयोः। ह्रस्वोऽक्षस्तद्युगार्द्धेन ध्रुवाधारो रथस्य वै। द्वितीयेऽक्षे तु तच्चक्रं संस्थितं मानसाचले। हयाश्च सप्त छन्दांसि तेषां नामानि मे शृणु। गायत्री च वृहत्युष्णिग्जगती त्रिष्टुबेव च। अनुष्टुप् पङ्क्तिरित्युक्ताश्छन्दांसि हरयो रवेः। स रथोऽधिष्ठितो देवैरादित्यैरृषिभिस्तथा। गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः। स्तुवन्ति मुनयः सूर्य्यं गन्धर्वैर्गीयते पुरः। नृत्यन्त्योऽप्सरसो यान्ति सूर्य्यस्यानु निशाचराः। वहन्ति पन्नगाः यक्षैः क्रियतेऽभीषुसंग्रहः। वालखिल्यास्तथैवैनं परिवार्य्य समासते। सोऽयं सप्तगणः सूर्य्यमण्डले मुनिसत्तम। हिमोष्णवारिवृष्टीनां हेतुत्वं समुपागतः”।इन्दीः “रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः। वामदक्षिणतो युक्ताः दश तेन चरत्यसौ”।बुधस्य “वाय्वग्निद्रव्यसम्भूती रथश्चन्द्रसुतस्य च। पिशङ्गैस्तुरगैर्युक्तः सोऽष्टाभिर्वायुवेगिभिः। सत्ररूथः सानुकर्षो युक्तोऽभूसम्भवैर्हयैः”।शुक्रस्य “सोपासङ्गपताकस्तु शुक्रस्यापि रथो महान्। अष्टाश्वः काञ्चनः श्रीमान्”।कुजस्य “भौमस्यापि रथो महान्। पद्मरागारुणैरश्वैः संयुक्तो वह्निसम्भवैः”।गुरोः “अष्टाभिः काञ्चननिभैर्वाजिभिः काञ्चने रथे। तिष्ठंश्चरति वै वर्षं राशौ राशौ वृहस्पतिः”।शनेः “आकाशसम्भवैरश्वैः शवलैः स्यन्दनं युतम्। समारुह्य शनैर्याति मन्दगामी शनैश्चरः”।राहोः “स्वर्मानोस्तुरगाह्यष्टौ भृङ्गाभा धूसरं रथम्। सकृद्युक्तास्तु मैत्रेय! वहन्त्यविरतं सदा। आदित्यान्निःसृतो राहुः सोमं गच्छति पर्वसु। आदित्यमेति सोमाच्च पुनः सौरेषु पर्वसु”।केतोः “तथा केतुरथस्याश्वा अष्टौ ते वातरंहसः। पलालधूमवर्णाभा लाक्षारसनिभारुणाः। एते मया ग्रहाणां वै तवाख्याता रथा नव” विष्णुपु०। सुश्रुतोक्ते नवविधे स्कन्धाद्यभिधे २ नवग्रहभेदे ग्रहशब्दे २७४५ पृ० दृश्यम्। तेषामुत्पत्यादिकं उत्तरतन्त्रे तत्रोक्तं यथा

“अथातो ग्रहोत्पत्तिमध्यायं व्याख्यास्यामः। नव स्कन्दादयः प्रोक्ता बालानां य इमे ग्रहाः। श्रीमन्तो दिव्यवपुषो नारीपुरुषविग्रहाः। एते गुहस्य रक्षार्थां कृत्तिकोमाग्निशूलिभिः। सृष्टाः शरवणस्थस्य रक्षितस्यात्मतेजसा। स्त्रीविग्रहा ग्रहा ये तु नानारूपा मयेरिताः। गङ्गोमाकृत्तिकानाञ्च ते भागा राजसा मताः। नैगमेयस्तु पार्वत्या सृष्टो मेषाननो ग्रहः। कुमारधारी देवस्य गुहस्यात्मसमः सखा। स्कन्दापस्मारसंज्ञो यः सोऽग्निनाग्निसमद्युतिः। स च स्कन्दसखो नाम विशाख इति चोच्यते। स्कन्दः सृष्टो भगवता देवेन त्रिपुरारिणा। बिभर्त्ति चापरां संज्ञां कुमार इति स ग्रहः। बाललीलाधरो योऽयं देवो रुद्राग्निसम्भवः। मिथ्याचारेषु भगवान् स्वयं मैत्र प्रवर्त्तते। कुमारः स्कन्दसामान्यादत्र केचिदपण्डिताः। गृह्णन्तीत्यल्पविज्ञाना ब्रुवते देहचिन्तकाः। ततो भगवति स्कन्दे सुरसेनापतौ कृते। उपतस्थुर्ग्रहाः सर्वे दीप्तशक्तिधरं गुहम्। ऊचुः प्राञ्जलयश्चैनं वृत्तिं नः संविधत्स्व वै। तेषामर्थे ततः स्कन्दः शिवं देवमचोदयत्। ततो ग्रहांस्तानुवाच भगवान् भगनेत्रहृत्। तिर्य्यग्योनिं मानुषञ्च दैवञ्च त्रितयं जगत्। परस्परोपकारेण वर्त्तते धार्य्यतेऽपि च। देवा मनुष्यान् प्रीणन्ति तैर्य्यग्योनींस्तथैव च। वर्त्तमानैर्यथाकालं शीतवर्षोष्णमारुतैः। इज्याञ्जलिनमस्कारजपहोमव्रतादिभिः। नराः सम्यक् प्रयुक्तैश्च प्रीणन्ति त्रिदिवेश्वरान्। भागधेयं विभक्तञ्च शेषं किञ्चिन्न विद्यते। तद्युष्मार्कं शुभा वृत्तिर्बालेष्वेव भविष्यति। कुलेषु येषु नेज्यन्तो देवाः पितर एव च। ब्राह्मणाः साधवश्चैव गुरवोऽतिथयस्तथा। निवृत्ताचारशौचेषु परपाकोपभोजिषु। उच्छन्नबलिभिक्षेषु भिन्नकांस्योपभोजिषु। गृहेषु तेषु ये बालास्तान् गृह्णीध्वमशङ्किताः। तत्र वो विपुला वृत्तिः पूजा चैव भविष्यति। एवं ग्रहाः समुत्पन्ना बालान् गृह्णन्ति चाप्यतः। ग्रहोपसृष्टा बालास्तु दुश्चिकित्स्यतमा मताः। वैकल्यं मरणं चाशु ध्रुवं स्कन्दग्रहे मतम्। स्कन्दग्रहोऽत्युग्रतमः सर्वेष्वेव यतः स्मृतः। अन्यो वा सर्वरूपस्तु न साध्यो ग्रह उच्यते”। अथ सूर्य्यादिग्रहाणां स्वरूपादि वृहज्जातकोक्तं प्रदर्श्यते

“कालात्मा दिनकृन्मनस्तुहिनगुः सत्वं कुजौ ज्ञो वचो जीवो ज्ञानसुखे सितश्च मदनो दुःखं दिनेशात्मजः। राजानौ रविशीतगू क्षितिसुतो नेता कुमारो बुधः सूरिर्दानवपूजितश्च सचियी प्रेष्यः सहस्रांशुजः” वृहज्जा०। “कालस्यात्मा कालात्मा दिनकृत् सूर्यः। अस्यैव तुहिनगुश्चन्द्रोमनः तुहिनेन हिमेन सदृशाः शीतलागावोरश्मयो यस्य स तुहिनगुः। सत्वं कुजो भौमः सत्वस्य लक्षणं “अधिकारकरं सत्वं व्यसनाभ्युदयागमे” सत्वशब्दोऽत्र शौर्यपर्य्यायः तच्च सिंहादीनामस्ति तथा च एकाकिनि बनवासिन्यराजलक्ष्मण्यतीतशास्त्रज्ञे। सत्वस्थिते मृगपतौ राजेति गिरः परिणमन्ति। उत्कृष्टतरस्वभाव इत्यर्थः ज्ञो बुधो वचो गीः जीवो वृहस्पतिः ज्ञानसुखे ज्ञानञ्च सुखञ्च ज्ञानसुखे। सितः शुक्रो मदनः कामः। दिनस्येशो दिनेशः सूर्यः तस्यात्मजः पुत्रः शनैश्चरो दुःखम्। अत्र कालग्रहणं कालस्य सर्वगतस्य प्रदर्शनार्थम्। अत्र न केवलं कालपुरुषस्य मेषाद्याराशयः शिरः प्रमृत्यङ्गविभागेन स्थिताः यावदादित्यादयश्चास्य विभागेन सर्वस्य त्नगतः स्थिताः। प्रयोजनम् पीडितैर्ग्रहैर्देहवतोऽपि तदङ्गभवात्मगुणपीडनं कर्तव्यम् पुष्टैः पुष्टिरिति। न केवलं यावत् जन्मनि बलवद्भिर्ग्रहैरेत एव भावा आत्मादयः शुमा भवन्ति दुर्बलैर्दुर्बलाः किन्तु सौरस्य विपरीतम् तथा च सारावल्पाम “आत्मादयो गगनगैर्बलिभिर्बलवत्तराः। दुर्बलैर्दुर्बला ज्ञेया विपरीतं शनेः स्मृतमिति” राजानातित्यादि रविरादित्यः शीतगुश्चन्द्रः एतौ राजानौ नृपौ। क्षितिर्भूमिरस्याः सुतः पुत्रोऽङ्गारकः स नेता सेनापतिः। बुधः कुमारो युबराजः राजपुत्र इति केचित्। स्ररिर्वृहस्पतिः दानवपूजितः शुक्रः च एती सचिवौ मन्त्रिणौ। सहस्रांशुः सूर्यस्त- स्माज्जातः शनैश्चरः स प्रेष्यो दासः। ननु जगत्पालनकरणे शनैश्चरः प्रेष्यः किमत्रोच्यते प्रेष्योऽपि स्वकर्मणां पालक एव। प्रयोजनम् जन्मनि प्रश्नकाले बलवानुपचयस्थो ग्रहो भवति तदुक्तो राजादिकस्तस्य कार्यसाधनको भवति अन्यथा हानिकरः” “रक्तश्यामो भास्करो गौर इन्दुर्नात्युच्चाङ्गोरक्तगौरश्च वक्रः। दूर्वाश्यामोज्ञो गुरुर्गौरगात्रः श्यामः शुक्रो भास्करिः कृष्णदेहः। वर्णास्ताम्रसिताऽतिरक्तहरीतव्यापीतचित्रासितावह्न्यम्बुग्निजकेशवेन्द्रशचिकाः सूर्यादिनाथाः क्रमात्। प्रागाद्यारविशुक्रलोहिततमः सौरेन्दुवित्सूरयः क्षीणेन्द्वर्कमहीसुतार्कतनयाःपापा बुधस्तैर्युतः। बुधसूर्यसुतौ नपुंसकाख्यौ शशिशुक्रौ युवती नराश्च शेषाः” शिखिमूखपयोमरुद्गणानां वशिनो मूमिसुतादयः क्रमेणः”

नवग्व = त्रि० नवभिर्मासैगच्छति गम–उणा० ड्व। नवभिर्मासैरवाप्तफलतया उत्थिते। “सेनामयातयन्त क्षितयो नवग्वाः” ऋ० १। ३३। ६ “सत्रमासीनानां मध्ये ये नवभिर्मासैरवाप्तफला उत्थितास्तेषां नवग्वां इति संज्ञा” भा० २ नवीनगतियुते च “अङ्गिरसो न पितरो नबन्धाः” इमामृचमधिकृत्य निरु० ११। १९। उक्तं “नवग्वा नवीन गतयः”।

नवचत्वारिंशत् = स्त्री नवाधिका चत्वारिंशत्। १ ऊनपञ्चाशत्संख्यायां २ तदन्विते च। ततःपूरणे डट्। नवचत्वारिंश तत्पूरणे त्रि०। स्त्रियां ङीप्। तदर्थे तमप। नवचत्वारिंशत्तम तत्पूरणे त्रि०।

नवच्छात्र = पु० कर्म०। प्रथमाध्ययनप्रवृत्ते त्रिका०।

नवच्छिद्र = न० नव छिद्राणि यत्र। देहे देहस्य नवद्वारवत्त्वात् तथात्वम्। नवद्वारशब्दे दृश्यम्।

नवज्वर = पु० कर्म०। तरुणज्वरे “तरुणं तु ज्वरं पूर्वं लङ्घनेन क्षयं नयेत्। आमदोषमलिङ्गाद्वा लङ्घयेत्तु यथा विधि” भावप्र०।

नवत = पु० नू–अतच्। १ कुथे करिभूषणार्थे कम्बले हेमच०। २ नवतिसङ्ख्यापूरणे त्रि० नवतिशब्दे दृश्यम्

नवतन्तु = पु० कर्म०। १ नवीने तन्तौ। बहु०। २ तद्युक्ते पटे च ३ विश्वामित्रपुत्रभेदे “नवतन्तुर्वकनकः समनोयतिरेव च” मा० आनु० ४ अ० तत्पुत्रोक्तौ।

नवति(ती) = स्त्री नव दशतः परिमाणमस्य “पङ्क्तिविंशतीत्यादिना” पा० नि० वा ङीप्। (नव्वुइ) १ संख्यायां २ तत्सङ्ख्यान्विते च “इत्यं क्षितीशो नवतिं नवाधिकाम्” रघुः “वीक्ष्यान्धो नवतेः काणः षष्टेः श्चित्री शतस्य तु” मनुः। ततः पूरणे डट्। नवत तत्ङ्ख्यापूरणे त्रि० स्त्रियां ङीप्। पूरणे तमप्। नवतितम तत्सङ्ख्यापूरणे त्रि०।

नवतिका = स्त्री नवाय नूतनत्वाय तेकति तिक–गतौ क। १ तूलिकायां हारा०। स्वार्थे क। २ नवतिसंख्यायाञ्च।

नवदण्डक = न० नवो दण्डोऽत्र कप्। राज्ञां छत्रभेदे “मनोहरं च कनकदण्डं च नवदण्डकम्। छत्रं तु त्रिविधं ज्ञेयं त्रिविधानां महीभुजाम्” युक्तिकल्पतरुः।

नवदश = पु० नव च दश च संख्याऽस्य डट्। उनविंशतिसंख्यायुक्ते “प्रतूर्तिरष्टादशस्तषो नवदशः” यजु० १४। २३ “तपोरूपो नवदशः स्तीमः यद्वा संवत्सरस्तपः शीतोष्णवर्षैस्तपतीति स नवदशः द्वादश मासाः षडृतवः संवत्सर इति तद्रूपोऽसि” वेददी०। “य एव नवदशस्तोमस्तं तदुपदधात्यथो संवत्सरोवाव तपो नवदशस्तस्य द्वादश मासाःषडृतवः संवत्सर एव तपो नवदशस्तद्यत्तमाह तपति तदेव तद्रूपम्” शत० ब्रा० ८। ४। १। १४

नवदशन् = त्रि० नवाधिका दश। (उनिश) १ संख्यायां २ तत्संख्यायुक्ते च।

नवदल = न० कर्म०। १ नवीने पत्रे पद्मकेशरान्तिकस्थे २ पत्रे च अमरः।

नवदीधिति = पु० नव दीधितयोऽस्य। मङ्गलग्रहे जटा०।

नवदुर्गा = स्त्री नवगुणिता दुर्गा कर्म० संज्ञात्वात् न द्विगुः। देवीनवके “प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी। तृतीयं चन्द्रघण्टेति कुष्माण्डीति चतुर्थकम्। पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च। सप्तमं कालरात्रिश्च महागौरीति चाष्टमम्। नवमं सिद्धिदा प्रोक्ता नव दुर्गाः प्रकीर्त्तिताः। उक्तान्येताति नामानि ब्रह्मणैव महात्मना” व्रह्मवै० पु०। “नवदुर्गे सुरार्च्चिते” दुर्गोत्सवपद्धतिः। “पत्रिके नवदुर्गे त्वं महादेवि! मनोरमे!” नन्दिकेश्वरपुरा०।

नवदोला = स्त्री कर्म०। नवीनदोलायाम्। प्रथमं तदारोहण दिनादि समयप्रदीपे उक्तं यथा “उग्रेन्दुमूलाहिशिवाग्निवजं शस्तेन्दुतारातिथिलग्नयोगे। विष्टिक्षमापुत्र यमाहवर्जं दोलादिकारोहणमाद्यमिष्टम्”।

नवद्वार = न० नव द्वाराणीव चित्तवृत्त्यादेर्बहिर्गमनसाधनत्वात् यत्र। देहे तत्र नवभिर्द्वारैश्चित्तादेर्बहिर्गमनात्तस्य तथात्वम्। तथा हि द्वे श्रोत्रे द्वे चक्षुषी द्वे नासिके च मुखमेकमिति शीर्षस्थानि सप्त, द्वे पायूपस्थे अथःस्थे इति नवच्छिद्ररूपाणि द्वाराणि देहे सन्ति। “तवद्वारे पुरे देही हंसी लेलायते बहिः” श्वेताश्वो० ३। १८। “नवद्वारे शिरसि सप्त द्वाराणि द्वे अवाची यत्र तत्र पुरे देही विज्ञानात्मा भूत्वा कार्यकारणोपाधिः सन् हंसः परमात्मा हन्त्यविद्यात्मकं कार्यमिति। लेलायते चलति बहिर्विषयग्रहणाय” भा०। देहरन्ध्राणां बवसंख्यकत्वात् रन्ध्रशब्दस्य लक्षितलक्षणया नवसंख्याबोधकत्वम्।

नवधा = अव्य० नवन् + प्रकारे धाच्। नवप्रकारे “तुष्टिर्नवधाऽष्टधा सिद्धिः” सा० का०। “नवधा गुणिता नित्या” शा० त्रि०

नवधातु = पु० नवगुणिता धातवः। नवप्रकारे धातुभेदे “हेमतारारनागाश्च ताम्ररङ्गे च तीक्ष्णकम्। कांस्यकं कान्तलोहञ्च धातवो नव कीर्त्तिताः” शब्दार्थचि०।

नवन् = त्रि० ब० व०। नृ–कनिन् बा० गुणः। १ संख्याभेदे (नय) संख्यायां २ तद्युक्ते च।

नवनवक = न० नवगुणितं नवकम्। दक्षसंहितोक्ते ज्ञातव्ये एकाशीतिपदार्थे “सुधा नव गृहस्थस्येषद्देयानि नवैव तु। तथैव नवकर्माणि विकर्माणि तथा नव। प्रच्छन्नानि नवान्यानि प्रकाश्यानि तथा नव। सफलानि नवान्यानि निष्फलानि नवैव तु। अदेयानि नवान्यानि वस्तुजातानि सर्वदा। नवका नव निर्दिष्टा गृहस्थोन्नतिकारकाः। सुधा वस्तूनि वक्ष्यामि विशिष्टे गृहमागते। मनश्चक्षुर्मुखं वाचं सौम्यं दद्याच्चतुष्टयम्। अभ्युत्थानमिहागच्छ पृच्छालापप्रियान्वितः। उपासनमनुव्रज्या कार्य्याण्येतानि यत्नतः। ईषद्दानानि चान्यानि भूमिरापस्तृणानि च। पादशौचं तथाभ्यङ्ग आश्रयः शयनन्वथा। किञ्चिच्चान्नं यथाशक्ति नास्यानश्नन् गृहे वसेत्। मृज्जलं चार्थिने देयमेतान्यपि सदा गृहे। सन्ध्या स्नानं जपो होमः स्वाध्यायो देवतार्चनम्। वैश्वदेवं तथातिथ्यमुद्धृतञ्चापि शक्तितः। पितृदेवमनुष्याणां दीनानाथतपस्विनाम्। मातापितृगुरूणाञ्च संविभागो यथार्हतः। एतानि नव कर्माणि विकर्माणि तथा पुनः। अनृतं पारदार्य्यञ्च तथाऽभक्ष्यस्य भक्षणम्। अगम्यागमनापेयपानं स्तेयञ्च हिंसनम्। अश्रौतकर्माचरणं स्मार्त्तधर्मबहिष्कृतम्। नवैतानि विकर्माणि तानि सर्वाणि वर्जयेत्। आयुर्वित्तं गृहच्छिद्रं मन्त्रमैथुनभेषजम्। तपोदानावमानौ च नव गोप्यानि यत्नतः। प्रायोग्यमृणशुद्धिश्च दानाध्ययनविक्रयाः। कन्यादानं वृषोत्सर्गोरहःपापमकुत्सनम्। प्रकाश्यानि नवैतानि गृहस्थाश्रमिणस्तधा। माता- पित्रोर्गुरौ मित्रे विनीते चोपकारिणि। दीनानार्थविशिष्टेभ्यो दत्तन्तु सफलं भवेत्। धूर्त्ते वन्दिनि मन्दे च कुवैद्ये कितवे शठे। चाटुचारणचौरेभ्यो दत्तं भवति निष्फलम्। सामान्यं याचितं न्यास आधिर्दाराश्च तद्धनम्। क्रमायातञ्च निक्षेपः सर्वस्वञ्चान्वये सति। आपत्स्वपि न देयानि नव वस्तूनि सर्वदा। यो ददाति स मूढात्मा प्रायश्चित्तीयते नरः। नवनवकयेत्तारमनुष्ठानपरं नरम्। इह लोके परे च श्रीः स्वर्गस्थञ्च न मुञ्चति”।

नवनवति = स्त्री नवाधिका नवतिः। १ एकोनशतसंख्यायां ३ तद्युते च।

नवनाडीचक्र = न० २८१६ पृ० चक्रशब्दोक्ते चक्रभेदे।

नवनी = स्त्री नवं नीयते नी–ड गौरा० ङीष्। नवनीते “हैयङ्गयीनानां नवनीनां परतरं मुदा। लड्डुकानां शर्कराणां स्वस्तिकानाञ्च यत्नतः” ब्रह्मवै० जन्मख० ६५ अ०।

नवनीत = न० नवं नीयते स्म नी–क्त। (माखन) पयःसार भेदे तद्भेदगुणादि सुश्रुते “नवनीतं पुनः सद्यस्कं लघु सुकुमारं मधुरं कषायमीषदम्लं शीतलं मेध्यं दीपनं हृद्यं संग्राहि पित्तानिलहरं वृष्यमविदाहि क्षयकासश्वासव्रणार्शोऽर्दितापहं गुरुकफमेदीविवर्द्धनं वलकरं वृंहणं शीषघ्रं विशेषतो बालानां प्रशस्यते। क्षीरोत्थं पुनर्नवनीतमुत्कृष्टस्नेहं माधुर्ययुक्तमतिशीतं सौकुमार्यकरं चक्षुष्यं संग्राहि रक्तपित्तनेत्ररोगहरं प्रसादनञ्च”।

तत्र नवनीतस्य नामानि गुणाश्च भावप्र० उक्ता यथा “म्रक्षणं सरजं हैयङ्गवीनं नवनीतकम्। नवनीतं हितं गव्यं वृष्पं वर्णवलाग्निकृत्। संग्राहि वातपित्तासृक्क्षयार्शोऽर्दितकासहृत्। तद्धितं बालके वृद्धे विशेषादमृतं शिशोः। माहिषस्य मुणाः “नबनीतं महिष्यास्तु वातश्लेष्मकरं गुरु। दाहपित्तश्रसहरं मेदःशुक्रविवर्द्धनम्”। पयसो नवनीतस्य गुणाः “दुग्धोत्थं नवनीतं तु चक्षुष्यं रक्तपित्तनुत्। वृष्यं बल्यमतिस्निग्धं मधुरं ग्राहि शीतलम्”। सद्यः समुद्धृतनबनीतगुणाः “नवनीतन्तु सद्यस्कं स्वाटु ग्राहि हिमं लघु। मेध्यं किञ्चित् कषायाम्लमीषत्तक्रांशसंक्रमात्”। चिरन्तननवनीतगुणाः “सक्षारकटुकाम्लत्वाच्छर्द्यर्शःकुष्ठकारकम्। श्लेष्मलं गुरुमेदस्यं नवनीत चिरन्तनम्”। राजनि० छाग्यादिनवनीतगुणा उक्ता यथा “छागन्तु नव्रनीतं स्यात् क्षयकासाक्षिरोगहृत्। कफ- नाशि च बल्यञ्च दीपनं परिकीर्त्तितम्। आविकं नवनीतन्तु हिमं लघु समीरितम्। योनिशूले कफे वाते गुदशूले हितञ्च तत्। ऐडकं नवनीतन्तु क्लिष्टगन्धं सुशीतलम्। पुष्टिस्थौल्यकरं मेधाविनाशि गुरु सम्मतम्। सन्दाग्भिदीपनं तत्तु भिषग्भिः परिकीर्त्तितम्”। हस्तिनीनवनीतन्तु कषायं शीतलं लघु। तिक्तं विष्टम्भि तत् हन्ति जन्तुपित्तकफकृमीन्। घोटकीनवनीतन्तु कषायं कफवातहृत्। चक्षुष्यमुष्णकटुकमीषद्वातापहारकर्म्। गर्दभीनवनीतञ्च कषायं कफवातहृत्। पाके लघु दीपनञ्च वल्यं मूत्रस्य दोषहृत्। औष्ट्रं तु नवनीतं च पाके शीतं प्रकीर्त्तितम्। व्रणकृमिकफार्त्तीनां वातस्य च विनाशनम्। मानबीनवनीतञ्च पाके लघुरुचिप्रदम्। चक्षुष्यं दीपनं ज्ञेयं सर्वरोगविनाशनम्”। “शीतं रुच्य नवोद्धृतं सुमधुरं कृष्णञ्च वातापहं कासघ्नं कृमिनाशन” कफहरं संग्राहि शूलापहम्। बल्यं पुष्टिकरं तृषार्त्तिशमनं सन्तापविच्छेदनम् चक्षुष्यं श्रमहारितर्पणकरं दध्युद्भवं पित्तजित्”।

नवनीतक = न० नवनीतात् जायते बा० वुन्। १ घृते राजनि० स्वार्थे क। २ नवनीते नवनीतशब्दे उदा० दृश्यम्।

नवनीतधेनु = स्त्री दानार्थकल्पितायां नवनीतमय्यां धेन्वां तद्दानविधिः वराहपु० उक्तो यथा “नवनीतमयीं धेनुं शृणु राजन् प्रयत्नतः। यां श्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः। गोमयेनानुलिप्तायां भूमौ गोचर्ममात्रतः। कृष्णचर्म मृगस्यैव तस्योपरि च धारयेत्। कुम्भन्तु नवनीतस्य प्रस्थमात्रस्य धारयेत्। वत्सं चतुर्थमागस्य तस्या उत्तरतो न्यसेत्। कृत्वा विधा नेन च राजसिंह! सुवर्णशृङ्गी सुसुखी च कार्य्या। नेत्रे च तस्या मणिमौक्तिकैस्तु कृत्वा तथान्थच्च गुडेन जिह्वाम्। ओष्ठौ च पुष्पैश्च फलैश्च दन्ताः प्रकल्प्य सास्नाञ्च सितैश्च सूत्रैः। नवनीतस्तनीं राजन्निक्षुपादां प्रकल्पयेत्। ताम्रपृष्ठीं कांस्यदोहां दर्भरोमकृतच्छवीम्। स्वर्णशृङ्गीं रौप्यखुरां पञ्चरत्नसमन्विताम्। चतुर्भिस्तिलपात्रैस्तु संयुतां सर्वतोदिशम्। आच्छाद्य वस्त्रयुग्मेन गन्धपुष्पैरलंकृताम्। दिक्षु दीपांश्च प्रज्वाल्य व्राह्मणाय निवेदयेत्। वेदवेदाङ्गविदुषे आहिताग्निजितात्मने। मन्त्रास्त एव जप्तव्याः सर्वधेनुषु ये स्मृताः। पुरा देवासुरैः सर्वैः सागरस्य तु मन्थने। उत्पन्नं दिव्यमगृतं नवनीतमिदं शुभम्। आप्यायनञ्च मूतानां नवनीत! नमोस्तु ते। एवमुच्चार्य्य तां दद्याद्ब्राह्मणाय स्मुटुम्बिने। धेनुञ्च दत्त्वा सुमुदा सोपधानां नयेद्गृहम् विप्रवर्य्यस्य भूयः। हविष्यमेवं सरसञ्चोषभुक्त्वा तिष्ठेत्त्र्यहं धेनुदस्तत्र विप्रः। यः प्रपश्यति तां धेनुं दीयमानां नरोत्तम!। सर्वपापविनिर्मुक्तः शिवसायुज्यतां व्रजेत्। पितृभिः पूर्वजैः सार्द्धं भविष्यद्भिश्च मानवः। विष्णुलोकं व्रजत्याशु यावदाहूतसंप्लवम्। य इदं शृणु याद्भक्त्या श्रावयेद्वापि मानवः। सर्वपापविशुद्धात्मा विष्णुलोके महीयते”।

नवपञ्चम = पु० नव च नवमं च पञ्चमञ्च यत्र योगे। वरकन्ययोः विवाहाङ्गे राशिकूटभेदे। वरराशेः कन्याराश्यपेक्षया कन्याराशेश्च वरराश्यपेक्षया नवमत्वे पञ्चमत्वेवाऽयं योगः। उपयमशब्दे १२५१ पृ० दृश्यम्। “पाणिग्रहोयदि भवेन्नवपञ्चमर्क्षे सन्तानहानिमतुलां मुनयो वदन्ति” ज्योति० त०।

नवपत्रिका = स्त्री नवमिता पत्रिका। नवसु कदल्यादिषु “कदली दाडिमी धान्यं हरिद्रा मानकं कचुः। विल्वाशोकौ जयन्ती च विज्ञेया नवपत्रिकाः” दुर्गोत्सवपूजापद्धतिः। तत्प्रवेशः ति० त० निर्णीतो यथा ज्योतिषे “पूर्वाह्णे नवपत्रिका शुभकरी सर्वार्थसिद्धिप्रदा आरोग्यं धनदा करोति विजयं चण्डी प्रवेशे शुभा। मध्याह्ने जनपीडनक्षयकरी संग्रामघोरावहा सायाह्ने बधबन्धनादिकलहं सर्पक्षतं सर्वदा। सप्तम्यामस्तगायां यदि विशति गृहं पत्रिका श्रीफलाढ्या राज्ञः सप्ताङ्गराज्यं जनसुखमखिलं हन्ति मूलानुरोधात्। तस्मात् सूर्य्योदयस्थां नरपतिशुभदां सप्तमीं प्राप्य देवीम् भूपालो वेशयेत्तां सकलजनहितां राक्षसर्क्षं विहाय”। राक्षसर्क्षं मूला। “पत्रीप्रवेशनं रात्रौ विसर्गं वा करोति यः। तस्य राज्यविनाशः स्याद्राजाऽयविकलो भवेत्”।

नवपद = न० मात्रावृत्तवृत्तभेदे “प्रथममुपनयरामकलत्रितय महिगणेन सह दण्डमिति पदानि विषमाणि सञ्चिनु। समपदे च षट्पञ्चसप्तषष्टिकलमेतदातनु एवं पञ्चपदानि कुरुदोहामग्रे देहि। भुजगराजपिङ्गलभणित नवपदमेतदवेहि”।

नवपाठक = पु० पूर्वकालैकेति पा० कर्म० उभयोरपि विशेषणत्वेऽपि एकस्य विशेष्यत्वे प्राप्ते पाठकस्यैव विशेष्यत्वनियमेन परनिपातः। नवीनाध्यापके सि० कौ०।

नवप्राशन = न० नवस्य नवान्नस्य प्राशनम्। नवान्नभोजने पारस्करगृह्यम् नवान्नशब्दे दृश्यम्।

नवफलिका = स्त्री नबं फलं यस्याः कप् कापि अत इत्त्वम्। १ दृष्टरजस्कायां नार्य्यां २ नव्यमात्रे च मेदि०।

नवव(ब)धू = स्त्री कर्म०। नूतनपरिणीतायां स्त्रियां तस्याः पितृगृहात् भर्त्तृगृहगमनं नघवध्वागमनं तत्र विहित नक्षत्रादि ज्यो० त० उक्तं यथा

दीपिकायां “स्त्रीशुद्ध्यालिघटाजसंयुगरवौ काले विशुद्धे भृगुं संत्यज्य प्रतिलोमगं शुभदिने यात्राप्रवेशोचिते। त्यक्त्वाहस्तु निरंशकं नववधूयात्राप्रवेशौ पतिः कुर्य्यादेकपुरादिषु प्रतिभृगोर्नेच्छन्ति दोषं बुधाः। पैत्रागारे कुचकुसुमयोः सम्भवो वा यदि स्यात् कालः शुद्धो न भवति यदा सम्मुखो बापि शुक्रः। मेषे कुम्भेऽलिनि च न भवेत् भास्करश्चेत्तथापि स्वामी भद्रेऽहनि नववधूं वेशयेन्मन्दिरं स्वम्। भर्त्तुर्गोचरशोभने दिनपतौ नास्तंगते भार्गवे सूर्ये कीटघटाजगे शुभदिने पक्षे च कृष्णेतरे। हित्वा च प्रतिलोमगौ बुधसितौ जीवस्य शुद्धौ तथा चानीता गुणशालिनी नववधूर्नित्योत्सवा मोदते। एकग्रामे चतुःशाले दुर्भिक्षे राष्ट्रविप्लवे। पतिना नीयमानायाः पुरः शुक्रो न दुष्यति”। तथा “काश्यपेषु वशिष्ठेषु भृग्वादित्याङ्गिरःसुच। भरद्वाजेषु वात्स्येषु प्रतिशुक्रो न दोष माक्”। द्विरागमनशब्देऽधिकं दृश्यम्। अत्र विशेषः मुहू० पी० धा० उक्तो यथा “समाद्रिपञ्चाङ्कदिने विवाहाद्वधूप्रवेशोऽष्टिदिनान्तराले। शुमः परस्ताद्विषमाब्दमासदिनेऽक्ष ५ वर्षात्परतो यथेष्टम्”। “ध्रुवक्षिप्रमृदुश्रोत्रवसुमूलमघानिले। वधूपवेशः सन्नेष्टो रिक्तारार्के बुधे परैः” मु० चि०। “तत्र बधूप्रवेशोनाम नूतनपरिणीतायाः कन्यायाः प्रथमतः करिप्यमाणो भर्तृगृहप्रवेशो वधूप्रवेशशब्दवाच्यः। समाद्रीति विवाहाद्विवाहदिवसादारभ्याष्टिदिनानि षोडशदिनानि तेषामन्तराले समाद्रिपञ्चाङ्कदिने समदिनानि द्वितीयचतुर्थषष्ठाष्टमदशमद्वादशचतुर्दशषोडशसंख्यकानि विषममध्ये सप्तमपञ्चमनवमदिनानि तेषु वधूप्रवेशः बध्वा नूतनपरिणीतायाः कन्याया भर्तृगृहप्रवेशः शुभः शुभफलप्रदः। यदाह नारदः “आरभ्योद्वाहदिवगात् षष्ठे वाप्यष्टमे दिने। वधूप्रवेशः सम्पत्त्यै दशमेऽथ समे दिने”। षष्ठादीनां समत्वादेव ग्रहणे पुनस्तदुक्तिरतिप्राशस्त्यसूचनार्थम्। ज्योतिर्निबन्धे तु विशेषः “वधूप्रवेशनं कार्म्यं पञ्चमे सप्तमे दिने। नवमे च शुभे वारे सुलग्ने शशिनोवले” इति। परस्तात् प्रतिबन्धकवशात् षोडशदिनाभ्यन्तरे यदि वधूप्रवेशी न जातस्तदा तदनन्तरं विषमाव्दमासदिने विषमवर्षे प्रथमतृतीयपञ्चमवर्षे विषममासे विवाहमासात् प्रथमतृतीयपञ्चमसप्तमनवमैकादशमासेषु विषमदिनानि सप्तदशादीनि तेषु वधूप्रवेशः शुभः। तत्रापि यदि प्रतिबन्धकवशात्कालातिक्रमः पञ्चवर्षात्मको जातस्तदा पञ्चवर्षादनन्तरं यथेष्टं वर्षादिनियमो नास्ति किन्तु दोषरहिते काले वधूप्रवेशो विधेयः। तदुक्तं संग्रहे “विवाहमारभ्य वधूप्रवेशो युग्मे दिने षोडशवासरान्तः। ऊर्द्ध्वं ततोऽवदेऽयुजि पञ्चमान्तं पुनः परस्तान्नियमो न चास्ति”। अत्राव्देऽयुजीति पदच्छेदो द्रष्टव्यः। तदुक्तं विवाहपटले “वधूप्रवेशः प्रथमेऽत्र वर्षे तथा तृतीयेऽप्यथ पञ्चमे वा। सूर्य्येन्दुदेवेज्यबलेन कुर्य्यात् पुंसो मुनिर्गौतम आह सत्यमिति”। समवर्षे दोषस्मरणाच्च यदाह धर्मशास्त्रे नारदः “समे वर्षे समे मासे यदि नारीगृहं व्रजेत्। आयुष्यं हरते भर्तुः सा नारी मरणं व्रजेदिति”। युग्मवत्सरनिषेधः पञ्चवर्षात् प्राग्ज्ञेयो न पश्चात्तद्वाक्यस्य प्रागभिधानात्। अथ वधूप्रवेशे नक्षत्रादि ध्रुवेति। ध्रुवाणि रोहिण्युत्तरात्रयं च क्षिप्राणि अश्विनीपुष्यहस्ताः मृदूनि चित्रानुराधारेवती मृगः। श्रोत्रं श्रवणः वसुर्धनिष्ठा मूलं प्रसिद्धम्। अनिलः स्वाती एषु भेषु वधूप्रवेशः सन् शुभफलदः। रिक्तादिषु नेष्टः न शुभः अर्थात् रिक्तान्यासु तिथिषु अर्काराभ्यामन्यवारेषु च वधूप्रवेशः प्रशस्त इत्यर्थः। उक्तञ्च त्यवहारतत्त्वे “पौष्णात् कभाच्च श्रवणाच्च युग्मे हस्तत्रये मूलमघोत्तरासु। पुष्ये च मैत्रे च वधूप्रवेशो रिक्तेतरे व्यर्ककुजे च शस्तः” इति। कभं रोहिणी। बुधे परैरिति अन्यैः शिष्टैर्बुधवारे वधूप्रवेशो नेष्यते। कस्मिंश्चिद्देशे शिष्टाचारो यद्बुधवारे वधूप्रवेशो न विथीयते इति। केचिदत्र हेतुमपि वर्णयन्ति यद्बुधो नपुंसक इति तच्चिन्त्यं शनेरषि नपुंसकत्वात्तस्यापि निषेधो वाच्यः स्यात्” पी० धा०। विवाहानन्तरं केषु चिन्मासेषु प्रथमं भर्त्त्रादिगृहे निवासे फलम् तत्रैवोक्तं यथा “ज्यैष्ठे पतिज्येष्ठमथाधिके पतिं हन्त्यादिमे भर्तृगृहे बधूः शुचौ। श्वश्रूं सहस्ये श्वशुरं क्षये तनुं तातं मधौतातगृहे विवाहतः” मु० चि०। “विवाहतो विवाहादनन्तरं भर्तृगृहे स्थिता आदिमे प्रथमे ज्यैष्ठे मासि तिष्ठन्ती बधूः पतिज्येष्ठं भर्तृज्येष्ठभ्रातरं हन्ति। एवमादिमेऽधिके मासि स्थिता वधूः पतिं भर्त्तारं हन्ति। आदिमे शुचावाषाढे श्वश्रू भर्तुः जननीं हन्ति। आदिमे पौषे श्वशुरं भर्तृः पितरं हन्ति आदिमे क्षये क्षयमासे भर्तृगृहे तिष्ठन्ती तनुं निजशरीरं हन्ति म्रियग इत्यर्थः। तथादिमे मधौ चैत्रे तातगृहे पितृगृहे तिष्ठन्ती तातं पितरं हन्ती त्यर्थः। यदि कन्यायाः पित्राद्यभावस्तदा तत्तन्मासे तत्तद्गेहावस्थितौ सत्यामपि न कोपि दोष इत्यर्थः। उक्तञ्च मुहूर्त्तमार्त्तण्डे “उद्वाहात् प्रथमे शुचौ यदि वसेत् भर्तुर्गृहे कन्थका हन्यात्तज्जननीं क्षये निजतनुं ज्यैष्ठे पतिज्येष्ठकम्। पौषे च श्वशुरं पतिं च मलिभे चैत्रे स्वपित्रालये तिष्ठन्ती पितरं निहन्ति न भयं तेषानभावे भवेदिति”। भलिनेऽधिकमासे तस्मान्नवबध्या विवाहानन्तरं ज्यैष्ठाषाढपौषाधिकमासक्षयमासेषु भर्त्तृगृहे न स्थातव्यम्। चैत्रे मासि पितुगृहे न स्थातव्यं किन्तु भर्तृगृहे एव स्थातव्यमिति फलितोऽर्थः। तदुक्तं ज्योतिर्निबन्धे “विवाहात् प्रथमे पौषे आषाढे नाधिमासके। न सा भर्तृगृहे तिष्ठेच्चैत्रे पितृगृहे तथा”। आषाढो ज्यैष्ठोपलक्षकः। अधिमासः क्षयमासोपलक्षकः अत्र प्रमाणं प्रागुक्तमिति” पी० धा०।

नवभाग = पु० राशेर्नवमो भागः। १ त्रिशांशकात्मकस्य राशो नवमे भागे ३। २० विंशतिकलाधिकभागत्रयरूपे भागे नवांशशब्दे विवृतिः। २ वनमे भागमात्रे च।

नवम = त्रि० नवानां पूरणः नान्तत्वात् डटि मः। नवसङ्ख्यापूरणे। १ लग्नावधिनवमराशौ २ तद्भावे च तड्वावश्च तन्वादिद्वादशभावोक्तदिशावसेयः। स्त्रियां ङीष्। “नवमी तुहिनप्रभा” पताकासन्निवेशे कुण्डोद्यातः। “अर्यम्णो नवमी” “पुष्णो नवमी” यजु० २५। ४। ५ नवमी पक्षतिरर्यमदेवत्या पूषदेवत्या च तदर्थः। चन्द्रस्य स्वस्मिन् सूर्यकिरणप्रवेशयोग्यायां नवमकलाक्रियारूपायां तदुपलक्षितकालरूपायां वा ४ तिधौ। उभयदिने तत्प्राप्तौ कस्याः कर्मयोग्यतेति सन्देहे तन्निर्णय उक्तः कालमा० यथा “अथ नवमी निर्णीयते। सा च विधिनिषेधरूपाभ्यामन्वयव्यतिरेकाभ्यां पूर्वविद्धैव ग्राह्या। तत्र विधिश्च युग्मादिशास्त्रे “वसुरन्ध्रयोरिति” पव्यते। पद्मपुराणेऽपि “अष्टम्या नवमी विद्धा नवम्या चाष्टमी युता। अर्द्ध- नारीश्वरप्राया उमामाहेश्वरी तिथिः”। भविष्यत्पुराणे द्वादशीकल्पेऽपि “नवम्या सह कार्य्या स्यादष्टमी नवमी तयेति”। निषेधस्तु पद्मपुराणेऽभिहितः “न कार्य्या नवमी तात! दशम्या तु कदाचनेति”। सेयं नवमी भविष्यत्पुराणोक्तव्रतादौ द्रष्टव्या। “ननु कृष्णनवम्याः पूर्वविद्धत्वऽपि शुक्लनवमी परविद्धाऽस्तु। “शुक्लपक्षे तिथिर्ग्राह्या यस्यामभ्युदितो रविरिति” वचनात् मैवम् पूर्वोक्तेषु वचनेषु दशमीविद्धायाः साक्षान्निषेधात्। ननु तस्य निषेधस्य सामान्यरूपत्वात् कृष्णपक्षे सङ्कोचोऽस्त्विति चेत् न सङ्कोचहेतोर्भवतोदाहृतस्थापि समान्यरूपत्वात्। पक्षयोरुभयोरपि पूर्वविद्वैव ग्राह्या। रामनवमी तु “चैत्रशुद्धा तु नवमी पुनर्वसुयुता यदि। सैव मध्याह्नयोगेन महापुण्यतमा भवेत्। नवमी चाष्टमीविद्धा त्याज्या विष्णुपरायणैः। उपोषणं नवम्यां वै दशम्यां पारणं भवेदिति” वचनादष्टमीविद्धा सनक्षत्रापि नोपोष्या” इति भेदः। “सा आष्टमीयुता ग्राह्या युस्मात्। भविष्ये “मासैश्चतुर्भिर्यत् पुण्यं विथिनाऽऽपूज्य चण्डिकाम्। तत्फलं लभते वीर! नवम्यां कार्त्तिकस्य च। तथा “नवम्यां नव वर्षाणि राजन् पिष्टाशनो भवेत्। तस्य तुष्टा भवेद्गौरी सर्वकामप्रदा शुभा” “भावे भासि तु या शुक्ला नवमी लोकपूजिता। महानन्देति सा प्रोक्ता सदानन्दकरी नृणाम्। स्नानं दानं तपो होमो देवार्चनमुपोषणम्। सर्वं तदक्षयं याति यदस्यां क्रियते नरैः” ति० त०।

नवमल्लिका = स्त्री नवा स्तत्या मल्लिका कर्म०। नवमालिकायाम् पुष्पप्रधाने वृक्षभेदे (नोआलि) शब्दरत्ना० तस्याः पुष्पेऽपि “पुष्पे जातिप्रभृतयः स्वलिङ्गाः” इत्युक्तेः स्त्रीत्वम्। “उपययौ विदघन्नवमल्लिकाः” माघः नवमल्लीत्यप्यत्र

नवमालिका = स्त्री नवा स्तुत्या मालिका। (नोयालि) ख्याते १ नवमल्लिकावृक्षे अमरः। “वासन्ती” नेवारी इति लोके तन्नाम। तद्गुणाः “नेपाली कथिता तज्ज्ञैः सप्तला नवमालिका। वासन्ती शीतला लघ्वी तिक्ता दोषत्रयास्रजित्” मावप्र०। २ द्वादशाक्षरपादके छन्दोभेदे च “इह नवमालिका नजमयैः स्यात्” वृ० र०।

नवयज्ञ = पु० नवधान्यनिमित्तो यज्ञः। नवान्ननिमित्ते यज्ञे आग्रायणशब्दे ६२२ पृ० दृश्यम् “शरद्वसन्तयोः केचिन्नवयज्ञं प्रचक्षते। धान्यपाकवशादन्ये श्यामाको वनिनः स्मृतः” कर्मप्रदीपे काव्या०। वनिचः वानप्रस्यस्य।

नवयोनिन्यास = पु० तन्त्रसारे निबन्धोक्ते न्यासभेदे “नवयोन्यात्मक न्यासं कुर्य्याद्वीजैस्त्रिभिः क्रमात्। कर्णयोश्चिवुके भूयो गण्डयोर्वदने पुनः। नेत्रयोर्नसि विनस्येदंसयोकठरे पुनः। ततः कूर्परयोः कुक्षौ जानुनोर्द्ध्वजमूर्द्धनि। पादयोर्गुह्यदेशे च पार्श्वयोर्हृदयाम्बुजे। स्तनयोः कण्ठदेशे च त्रीणि वीजानि विन्यसेत्”।

नवयौवन = न० नवं यौवनम्। २ अभिनवे यौवने “नवयौवनसम्प्रन्नां सर्वामरणभूषिताम्” दुर्गाध्यानम्। नवं यौवनंयस्याः। २ अभिनवयौवनवत्यां स्त्रियां स्त्री हारा०

नवरत्न = न० नवगुणितं रत्नम्। नवविधे माणिक्यादिरत्ने तानि च कर्मभेदे भिन्नानि यथा “मुक्तामाणिक्यवैदूर्य्यगोमेदान् वज्रविद्रुमौ। पद्मरागं मरकतं नीलञ्चेति यथाक्रमम्” इति तन्त्रसारः। नवग्रहदोषशान्त्यै धार्य्याणि नव रत्नानि यथा “वैदुर्यं चारयेत् सूर्ये स्फटिकं मृगलाञ्छने। आवनेयेऽपि माणिक्यं पद्मरागं शशाङ्कजे। गुरौ मुक्तां भृगौ वज्रं शनौ नीलं विदुर्बुधाः। राहौ गोमेदकं धार्यं केतौ मरकतन्तधा।” दीपिका। २ विक्रमादित्यराजसभाक्य्हनवसंख्यकपण्डिते च यथा “धन्वन्तरिक्षपणकामरसिंहशङ्कु वेतालभट्टघटकर्परकालिदासाः। ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नव विक्रमस्य” ज्योतिर्विदा०

नवरस = पु० नवगुणितो रसः। अलङ्कारोक्ते शृङ्गारादिके रत्यादिस्थायिनवभावके नवविधे रसे “रतिर्हासश्च शीकश्च क्रोषोत्साहौ भयं तथा। जुगुप्सा विस्वयश्चैवमष्टौ प्रोक्ताः शकोऽपि च” स्थायिभावानुक्त्वा

“शृङ्गारहास्यकरुणरौद्रवीरमयानकाः। बीभत्सोऽद्भुत इत्यष्टौ रसाः शान्तस्तथा मतः” सा० द०। पृथक्करणम् “अष्टौ नाट्ये रसाः स्मृताः” इत्युक्तेः नाट्ये अष्टविधत्वम् “निर्वेदस्थायिभावोऽपि शान्तोऽपि नवमोरसः” इत्युक्तेः काव्ये नवविधत्वमिति सूचनाय। प्रबोधचन्द्रोदयनाटके शान्तरसवर्णनं भारतादिशास्त्रविरुद्धम्। “नवरसरुचिरा भारती कवेर्जयति” काद्यप०।

नवरात्र = त्रि० नवभिः रात्रिभिर्निर्वृत्तं तद्धितार्थे द्विगुः “द्विगोर्लुगनपत्ये” तद्धितस्य ठको लुक् अच्समा०। नवमी रात्रिभिस्तदुपलक्षितैर्दिनैर्वा निर्वृत्ते यागादौ “नवरात्राश्चत्वारः” कात्या० श्रौ० ४। ३। १४ “नवरात्रे त्रिक्कुत्काः” कात्या० श्रौ० ३५। १३। नवरात्रसाध्ये २ व्रतभेदे तद्विधानकालनिर्णयादि नि० सि० उक्त यथा “अथाश्विनशुक्लप्रतिपदि नवरात्रारम्भः। तन्निर्णयः भार्गवार्चनदीपिकायां देवीपुराणे सुमेधा उवाच “शृणु राजन्! प्रवक्ष्यामि चण्डिकापूजनक्रमम्। आश्विनस्य सिते पक्षे प्रतिपत्सुशुभे दिने” इत्युपक्रम्योक्तम्। “शुद्धे तिथौ प्रकर्त्तव्यं प्रतिपच्चोर्ध्वगामिनी। आद्यास्तु नाडिकास्त्यक्त्वा षोडश द्वादशापि वा। अपराह्णे च कर्त्तव्यं शुद्धसन्ततिकाङ्क्षिभिः”। इदं चापराह्णयोगिन्याः प्राशख्यं द्वितीयदिने प्रतिपदोऽभावे ज्ञेयम्। तथा च तत्रैव देवीपुराणे डामरतन्त्रे च देवी वचः “अमायुक्ता न कर्त्तव्या प्रतिपत् पूजने मम। मुहूर्तमात्रा कर्तव्या द्वितीयादिगुणान्विता। आद्याः षोडश नाङीस्तु लब्ध्वा यः कुरुते नरः। कलशस्थापने तत्र ह्यरिष्टं जायते ध्रुवम्”। मार्कण्डेय देवीपुराणयोः “पूर्वविद्धा तु या शुक्ला भवेत् प्रतिपदाश्विनी। नवरात्रव्रतं तस्यां न कार्यं शुभमिच्छता। देशभङ्गो भवेत्तत्र दुर्भिक्षं चोपजायते। नन्दायां दर्शयुक्तायां यत्र स्यान्मम पूजनमिति”। स्कान्देऽपि “प्रतिपद्याश्विमे मासि सा शुद्धा शुभदा भवेत्। भाद्रपञ्चदशीकृष्णा तया युक्ता न शस्यते। विरुद्धफलदा सा हि पुत्रदारभयावहेति”। तथा “वर्जनीया प्रयत्नेन अमायुक्ता तु पार्थिव!। द्वितीयादिगुणैर्युक्ता प्रतिपत् सर्वकामदा”। तथा देवीपुराणे “यो मां पूजयते नित्यं द्वितीयादिगुणान्विताम्। प्रतिपच्छारदीं ज्ञात्वा सोऽश्नुते सुखमव्ययम्। क्रियते चेदमायुक्ता प्रतिपत् स्थापने मम। तस्य शापायुतं दत्त्वा भस्मशेषं करोम्यहम्। अग्रहात् कुरुते यस्तु कलशख्यापनं मम। तस्य सम्पद्विनाशः स्याज्ज्येष्ठः पुत्रो विनश्यति। अमायुक्ता न कर्त्तव्या प्रतिपच्चण्डिकार्चने। धनार्थिभिर्विशेषेण वंशहानिश्च जायते। न दर्शवलया युक्ता प्रतिपच्चण्डिर्चने। उदये द्विमुहूर्त्तापि ग्राह्या सोदयगामिनी” इति देवीपुराणे “या चाश्वयुजि मासे स्यात् प्रपितद्भद्रयान्विता। शुद्धा ममार्चनं तस्यां शतयज्ञफलप्रदम्”। रुद्रयामले “अमायुक्ता सदा चैव प्रतिपन्निन्दिता मता। तत्र चेत् स्थापयेत्कुम्भं दुर्भिक्षं जायते ध्रुवम्। प्रतिपत् सद्वितीया तु कुम्मारोपणकर्मणि” इति। यद्यपि रुद्रयामलं डामरं च निर्मूलं तथाप्यविरोधात् प्रचाराच्च तद्वचनानि लिख्यन्ते। तिथितत्त्वे देवीपुराणेऽपि “प्रातरावाहवेद्देवीं प्रातरेव प्रवेशयेत्। प्रातःप्रातश्च संपूज्य प्रातरेब विसर्जयेत्”। तत्रैव “शरत्काले महापूजा क्रियते या च वार्षिकी। सा कार्य्योदयनामिन्यां न तत्र तिथियुग्मता”। तथा “कुहूकाष्ठोपसंयुक्तां वर्जयेत् प्रतिपत्तिथिम्। राज्यनाशाय सा प्रोक्ता निन्दिता चाश्वपूजन” इति। एषु वचनेषु कलशस्थापनग्रहणात् तदेव प्रथमदिने निषिद्धं न तूपवासादि तस्य “प्रतिपदाप्यभावास्येति युग्मवाक्यात्। “शुक्ला स्यात् प्रतिपत्तिथिः प्रथमतः” इति दीपिकोक्तेः “शुक्लपक्षे दर्शविद्धेति” माधवोक्तेश्च पूर्वदिने प्राप्तस्य बाधे मानाभावादिति केचित्। वस्तुतस्तु पूर्वोक्तवाक्येषु चण्डिकार्चनपूजाग्रहणादुपवासादेश्चाङ्गत्वात् प्रधानदेवीपूजादावपि परेति युक्तम्। कलशस्थापनग्रहणं तूपलक्षणम्। अतएव देवलः “व्रतोपवासनियमे घटिकैकापि या भवेत्। सा तिथिस्तद्दिने पूज्या विपरीता तु पैतृक” इति। अत्र घटिका मुहूर्त्त इति गौडाः। यदा तु पूर्वदिभे सम्भूर्णा शुद्धा च भूत्वा परदिने वर्द्धते तदा सम्पूर्णत्वादमायोगाभावाच्च पूर्वैव यानि च द्वितीयायोगनिषेधकानि वचनानि केचित् पठन्ति तान्यपि शुद्धाधिकनिषेधपराणि परदिने प्रतिपदोऽत्यन्तासत्त्वे तु दर्शयुतापि पूर्बैव ग्राह्या तदाह लल्लः “तिथिः शरीरं तिथिरेव कारणं तिथिः प्रमाणं तिथिरेव साधनमिति” यानि त्वमायुक्ता प्रकर्त्तव्येत्यादीनि नृसिंहप्रसादे वचनानि तानि समूलत्वे सत्येतद्विषयाणि। अत्रेदं तत्त्वम्। पूर्वोक्तवाक्यानां सर्वेषां हेमाद्र्याद्यलिखितत्वेन निर्मूलत्वात्तैश्चान्यनिर्णयस्यानुक्तेः सामान्यनिर्णयात् पूर्ववत्प्राप्तावपि गौडनिबन्धेषु विशेषेण निर्णयादौदयिकी ग्राह्या तत्रापि घटिकैकेत्यस्य द्विमुहूर्त्तस्तुतित्वोक्तेर्द्विमुहूर्त्ता ग्राह्या “उदिते दैवतं भाना” वित्यत्र “द्विमुहूर्त्ता त्रिरह्नश्चेति” औदयिक्या द्विमुहूर्त्तत्वनियमात् तेन उदये द्विमुहूर्त्तापीत्याद्यनुसारोऽपि “मुहूर्त्तमात्रा कर्त्तव्येति” द्विमुहूर्त्तस्तुतिः। अन्यथा द्विमुहूर्त्तविधिवैयर्थ्यात्। केचित्तु मुहूर्त्तमात्रेति वचनात्ततो न्यूनत्वे परा नेत्याहुः गौडा अप्येवम्। अत्र देवीपूजैव प्रधानम् उपबासादि त्वङ्गम् “अष्टम्यां च नवम्यां च जगन्मातरमम्यिकाम्। पूजयित्वाश्विने मासि विशोको जायते नरः” इति हेमाद्रौ भविष्ये तस्या एव फलसम्बन्धात् “नवमीतिथिपर्य्यन्तं वृद्ध्या पूजाजपादिकमिति” तत्रैव देवीपुराणात्। “शरत्काले महापूजा क्रियते या च वार्षिकी” इति मार्कण्डेयपुरा- णाञ्च पूर्ववचनादष्टमीपूजैव प्रधानमन्यत् सर्वमङ्गमिति गौडाः। एकाहपक्षोऽपि कालिकापुराणे “यस्त्वेकस्यामथाष्टम्यां नवम्यामथ साधकः। पूजयेद्वरदां देवीं महाविभवविस्तरैः" इति। तत्त्वं तु राजसूवेऽन्ययागैः सभप्रधानायाः सहिताया अप्येवेष्टेरेतयान्नाद्यकामं याजयेदित्येकत्वान्मध्ये विधानाच्च यथा फलार्थोबर्हिः प्रयोगस्तथा नवरात्रमध्यस्याया अष्टम्या नवम्या वा फलार्थः पृथक्प्रयोगः। रूपनारायणधृतदेवीपुराणे “महानवम्यां पूजेयं सर्वकामप्रदायिका। सर्वेषु सर्ववर्णेषु तव भक्त्या प्रकीर्त्तिता। कृत्वाप्नोति यशो राज्य पुत्रायुर्द्ध नसम्पदः” सा च काम्या नित्या च “एवमन्यैरपि तथा देब्धाः कार्यं पपूजनम्। विभूतिमतुलां लब्धुं चतुर्वर्गप्रदायकम्” इति “यो मोहादय वाऽऽलस्याद्देवीं दुर्गां महीत्सवैः। न पूजयति दम्भाद्वा द्वेमाद्वाप्यत्र भैरव!। क्रुद्धा भगवती तस्य काभानिष्टान्निहन्ति वै” इति कालिकापुराणेऽकरणे निन्दाश्रुतेः “वर्षे वर्षे विधातव्यं स्यापनञ्च विसर्जनम्” इति तिथितत्त्वे देवीपुराणाच्च। अत्रोपवासादिकमुक्तं हेमाद्रौ मविष्ये “एवं च विन्ध्यवासिन्या नवरात्रोपवामतः। एकभक्तेन नक्तेन तथैवाया चितेन च। पूजनीया जनैर्देवी स्थाने स्थाने पुरे पुरे। गृहे गृहे शक्तिपरैर्ग्रामेग्रामे नवे नवे। स्नातैः प्रमुदितैर्हृष्टैर्ब्राह्मणैःक्षत्रियैर्नृपैः। वैश्यैः शूद्रैर्भक्तियुक्तैर्म्लेच्छैरन्यैश्च मानवैः” इति यत्तु रूपनारायणीये भविष्ये “एवं नानाम्लेच्छगणैः पूज्यते सर्वदस्युभिरिति” तत्तामसपूजापरम्। “विना मन्त्रैस्तामसी स्यात् किरातानान्तु सम्मतेति” तत्रैवोक्तेः। मदनरत्ने देवीपुराणेऽपि “कन्यासंस्थे रवौ शक्र! शुक्लामारभ्य नन्दिकाम्। अयाची द्व्यथ वैकाशी नक्ताशी वाथ वायुभुक्। भूमौ शयीत चामन्त्र्य कुमारी र्भोजयेन्मुदा। वस्त्रालङ्कारदानैश्च सन्तोष्याः प्रतिवासरम्। यलिञ्च प्रत्यहं दद्यादोदनं मांसमाषवत्। त्रिकालं पूजयेद्देवीं जपस्तोत्रपरायणः” इति नन्दिका प्रतिपत्तिथिरिति मैथिलाः। षष्ठीति गौडाः। तच्च पूजनं रात्रौ कार्य्यम् “आश्विने मासि मेघान्ते महिषासुरमर्दिनीम्। निशासु पूजयेद्भक्त्या सोपवासादिकः क्रमात्” इति देवीपुराणात् संग्रहेऽपि “आश्विने मासि मेषान्ते प्रतिपद्या तिथिर्भवेत्। तस्यां नक्तं प्रकुर्वीत रात्री देवीं च पूजयेत्। रात्रिरूपा यतो देवी दिवारूपो महेश्वरः। रात्रिव्रतमिदं देवि! सर्वपापप्रणाशनम्। सर्वकामप्रदं नॄणां सर्वशत्रुनिवर्हणम्। रात्रिव्रतमिदं तस्य रात्रौ कर्त्तव्यतेष्यते। नक्तव्रतमिदं यस्मादन्यथा नरके गतिः” इत्यादिवचनाच्च रात्रिव्रतत्वमेवाभिप्रेत्य माधवेनोक्तम् तस्य नक्तव्रतत्वादिति। न तु रात्रिभोजनात्। “ननु मासि चाश्वयुजे शुक्ले नवरात्रे विशेषवत्। संपूज्य नवदुर्गाञ्च नक्तं कुर्य्यात् समाहितः। नवरात्राभिधं कर्म नक्तव्रतमिदं स्मृतम्”। आरम्भे नवरात्रस्येत्यादि स्कान्दात् माधवोक्तेश्च नक्तमेव प्रधानमिति चेत् नवरात्रोपवासत इत्यादेरनुपपत्तेः तेन पाक्षिकनक्तानुवादोऽयं नित्यानित्यसंयोगविरोधात् नह्यग्निहोत्रे दध्नं पक्षे प्राप्तस्य दध्नाजुहोतीत्यस्येन्द्रियकामहोमेऽनुवादो घटते नित्यवदनुवादायोगादित्युक्तं वार्त्तिके, तथात्राऽपि। तेनात्र तद्वदेव गुणात् फलमिति ज्ञेयम्। ननु रात्रेः कर्मकालत्वे तद्व्यापिनी पूर्वैव प्रतिपत् प्राप्नुयात् मैवम् न्यायतः प्राप्तावपि पूर्वोक्तवचनैर्वाधात् यथा पूर्वेद्युः कमेकालव्यापिनीमपि त्यक्त्वा स्वल्पापि परैव रामनवमीति प्रागुक्तम् यथा वा निशीथे सतीमपि पूर्वां जन्माष्टमीं त्यक्त्वा रोहिणीयुक्ता परैवेति माधवेनोक्तम् तथात्रापि। वस्तुतस्तु रात्रेः कर्मकालत्ववचसां हेमाद्र्याद्यलिखनात् समूलत्वं विमृश्यमेव त्रिकालं पूजयेदित्यादिपूर्वविरोधाच्च। माधवोक्तिस्तु पाक्षिकनक्तानुवाद इत्युक्तम्। तस्मात् सर्वपक्षेषु परैव प्रतिपदिति सिद्धम्। अत्र केचिन्नवरात्रशब्दो नवाहोरात्रपरः “वृद्धौ समाप्तिरष्टम्याम्” ह्रासेन प्रतिपन्निशि। प्रारम्भो नवचण्ड्यास्तु नवरात्रमतोऽर्थवत्” इति देवीपुराणादित्याहुः। तन्न ह्रासवृद्ध्योर्न्यूनाधिकत्वापत्तेः अत्र मूलाभावाच्च तेन तिथिवाच्येवायं तदुक्तम् “तिथिवृद्धौ तिथिह्रासे नवरात्रमपार्थकम्। अष्टरात्रे न दोषोऽयं नवरात्रं तिथिक्षये” इति। स च नवरात्रशब्दः क्वचिल्लक्षणया कर्मवाची यथा। प्रारम्भो नवरात्रस्येत्यत्रेति दिक्”

नवराष्ट्र = न० औशीनरनृपस्य देशभेदे “नवस्य नवराष्ट्रन्तु कृमेस्तु कृमिला पुरी” हरिवं० ३१ अ०। तच्च दक्षिणदिक्स्थं “नवराष्ट्रञ्च निर्जित्य कुन्तिभोजमुपाद्रवत्” भा० स० ३० अ० सहदेवदक्षिणदिग्विजये।

नवर्च = न० नव + ऋचो यत्र अच् समा०। नवभिरृग्भिर्युते सूक्तभेदे। नव च ता ऋचश्चेति अच् समा०। नवसु ऋग्भेदेषु “नवर्चेभ्यः स्वाहा” अथ० १९। २३६

नवलक्षण = न० नवमितं लक्षणम्। विश्वसर्गस्थितिप्रलया णामन्यतमस्य तत्तदुपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वानामन्यतमरूपेषु नवसु पारमेश्वरेषु लक्षणेषु तदेतत् वेदा० प० समर्थितं यथा “प्रकृते च जगज्जन्मादिकारणत्वम् (तटस्य लक्षणम्) अत्र जगत्पदेन कार्यजातं विवक्षितम्। कारणत्वञ्च कर्तृत्वम् अतोऽविद्यादौ नातिव्याप्तिः। कर्त्तृत्वञ्च तत्तदुपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वम्। ईश्वरस्य तावदुपादानगोचरापरोक्षज्ञानसद्भावे च “यः सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः। तस्मादेतद् ब्रह्म नाम रूपमन्नञ्च जायते” इत्यादि श्रुतिर्मानम्। तादृशचिकीर्षा सद्भावे च “सोऽकामयत बहु स्यां प्रजायेति” श्रुतिर्मानम्। तादृशकृतौ च “तन्मनोऽकुरुतेत्यादि” वाक्यम्। ज्ञानेच्छाकृतीनामन्यतमगर्भं लक्षणत्रितयं विवक्षितम् अन्यथा व्यर्थविशेषणापत्तेः। अतएव जन्मस्थितिध्वंसानामन्यतमस्यैव लक्षणे प्रवेशः। एवञ्च लक्षणानि नव सम्पद्यन्ते ब्रह्मणो जगज्जन्मादिकारणत्वे च “यतोवा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्तीत्यादि” श्रुतिर्म्मानम्। “जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञः स्वराट् तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत् सूरयः” भाग०। १। १। १ श्लोकस्य प्रतिपाद्यार्थसंग्राहकः श्रीधरस्वामिकृतः श्लोको यथा “विश्वसर्गविसर्गादिनवलक्षणलक्षितम्। श्रीकृष्णाख्यं परं धाम जगद्धाम नमामि तत्”।

नववरिका = स्त्री नवो वरोऽस्त्यस्याः ठन्। नवीढायां हारा०

नववर्ष = पु० न० नवमितं वर्षम्। १ भारतादिषु नवसु वर्षेषु। वृष–भावे घञ् कर्म०। २ नूतनवर्षणे पु०।

नववल्लभ = न० नवानां नवीनानां वल्लभम्। १ दाहागुरुणि शब्दार्थचि०। २ नव्यजनप्रिये त्रि०

नववस्त्र = न० कर्म०। अनाहते नूतने वसने

नववास्तु = पु० नवं वास्तु यस्य। राजर्षिभेद “अग्निर्नय नवास्त्व वृहद्रथं तुर्वीतिम्” ऋ० १। ३६। १८ “नव वास्तु यस्यासौ नववाराः” वा छन्दसीत्यनुवृत्तेः अमि पूर्वरूपत्वाभावे यण्। नववास्तुनामकं वृहद्रथनामकं तुर्वीतिनामकं च राज० र्षीन् नय इहानय” भा०।

नवविंशति = स्त्री नवाधिका विंशतिः। १ नवाधिकविंशतिसख्यायां २ तद्यते च “नवविंशत्याऽस्तुवत” यजु० १४। ३१ “करपादाङ्गुलयोविंशतिः नव च्छिद्ररूपाः प्राणास्तैरस्तुवत” वेददी० “दश हस्त्याङ्गुलयो दश पाद्या नव प्राणाः” शत० ब्रा० ८। ४। ३। १७। ततः पूरणे डट्। नवविंश तत्संख्यापूरणे त्रि० स्त्रियां ङीप्।

नवविध = त्रि० नव विधायस्य। नवप्रकारे नवविधपापानि च विष्णुना दर्शितानि यथा “अतिपातक १ महापातका २ऽनुपातको ३ पपातकेषु ४ प्रवर्त्तते। जातिभ्रंशकरेषु ५ सङ्करीकरणेषु ६ अपात्रीकरणेषु ७ मलाबहेषु ८ प्रकीर्णकेषु” ९। प्राय० वि० तद्विवरणं दृश्यम्।

नवव्यूह = पु० नव व्यूहा अस्य। विष्णौ तस्य अष्टसु पद्मदलेषु प्रद्युम्नादिरूपतया केसरस्थाने मध्ये वासुदेवरूपतया च नवव्यूहवत्त्वात् तथात्वम्। तदर्चनप्रकारः वह्निपु० उक्तो यथा “नवव्यूहार्चनं वक्ष्ये नारदाय हरीरितम्। मण्डलेऽब्जेऽर्चयेन्मध्ये अं वीजं वासुदेवकम्। आं सङ्कर्षणं तथा वह्नौ आं प्रद्युम्नं च दक्षिणे। अनिरुद्धं नैरृते तु नारायणन्तु पश्चिमे। तद्वद्ब्रह्माणमनिले हुं विष्णुं क्षौं नृसिंहकम्। उत्तरे तु वराहञ्च ईशे वामनमेव च”

नवशक्ति = स्त्री नवगुणिता शक्तिः। सा० ति० उक्ते शक्तिनवके नवकशब्दे दृश्यम् काश्चित् नवविधा शक्तिः तन्त्रसारे उक्ता यथा “प्रभा माया जया सूक्ष्मा विशुद्धानन्दिनी पुनः। सुप्रभा विजया सर्वसिद्धिदा नव शक्तयः”।

नवशस्य = न० कर्म०। नूतने शस्ये।

नवशस्येष्टि = स्त्री नवशस्यनिमित्ता इष्टिः। साग्निककर्त्तव्ये नवशस्यनिमित्तके इष्टिभेदे “शस्यान्ते नवशस्येष्ठ्या”। “नानिष्ट्वा नवशस्येष्ट्या पशुना चाग्निमान् द्विजः” मनुः

नवशायक = पु० नवविधः शायक इव। पराशरसंहितोक्ते नवविधे (नवशाक) ख्याते सङ्कीर्णजातिभेदे “गोपोमाली तथा तली तन्त्री मोदकवारुजी। कुलालः कर्मकारश्च नापितो नवशायकः”।

नवश्राद्ध = न० प्रेतोद्देश्यके मरणाहाद्विषमदिवसे कर्त्तव्ये श्राद्धभेदे तद्विधानादि निर्णयसिन्धौ यथा

“अथ नवश्राद्धं पृथ्वीचन्द्रोदयेऽङिराः “प्रथमेऽह्नि तृतीये च पञ्चमे सप्तमे तथा। नवमैकादशे चैव तन्नवश्राद्धमुच्यते” शिवस्वामी “नव श्राद्धानि पञ्चाहुराश्वलायनशाखिनः। आपस्तम्बाः षडित्याहुर्विभाषा त्वितरेषु हि” पञ्च ऐकादशाहिकं विना “मरणाहाद्विषमेषु दिनेष्वेकैकं नवश्राद्धं कुर्य्यादानवमाद्यदि नवमे विच्छिद्येतैकादशे तत्कुर्य्यादिति” मदनरत्ने बौधायनोक्तेः। भविष्ये “नवसप्त विशां राज्ञां नवश्राद्धान्यनुक्रमात्। आद्यन्तयोर्वर्ण योस्तु षडित्याहुर्महर्षयः” हेमाद्रौ वृद्धवसिष्ठः “अलब्धा द्वादशाहस्य लब्ध्वा तरति दुष्कृतम्” अतः षडेव। एतान्येव विषमश्राद्धानीत्युच्यते नागरखण्डे तु “पञ्चमे सप्तमे तद्वदष्टमे नवमे तथा। दशमैकादशे चैव नवश्राद्धानि तानि च” इत्युक्तं कात्यायनस्तु “चतुर्थे पञ्चमे चैव नवमैकादशे तथा। यदत्र दीयते जन्तोस्तन्नवश्राद्धमुच्यते”। प्रथमे सप्तमे चैवेत्याद्यपादे व्यासे पाठः। बह्वृचानान्तु “नवश्राद्धं दशाहानि नवमिश्रन्तु षडृतून्” इत्युक्तं नारायणवृत्तौ दीपिकायां “अथ तनुयादाद्ये चतुर्थे दिने श्राद्धं पञ्चमसप्तमाष्टनवदिग्रुदेषु। युग्मे द्विजः प्रथमेऽह्नि तृतीयेऽह्नि पञ्चसप्तनवस्वपि द्वौ द्वौ पिण्डौ प्रदातव्यौ शेषेष्वेकैकन्तु विन्यमेत्। एको विषमश्राद्धेऽवयवपिण्डस्यैक इनि तौ द्वावित्यर्थः। अत्र शास्वाभेदात् व्यवस्था। अपरार्के भविष्ये “नवश्राद्धं त्रिपक्षञ्च षण्मासं मासिकानि च। न करोति सुतोयस्तु तस्याघः पितरोगताः” “नवश्राद्धं सपिण्डत्वं श्राद्धान्यपि च षोडश। पृथक् नैव तु कार्य्याणि संविभक्तधनेष्वपि” इति मिताक्षराधृत दक्षः। व्यासः “जातकर्मान्त्यकर्माणि नवश्राद्धं तथैव च” इत्युपक्रमे। “मलमासेऽपि कार्य्याणि नित्यं नैमित्तिकं तथा” “नवश्राद्धे यदुच्छिष्टं गृहे पर्य्युषितञ्च यत्। दम्पत्योर्भुक्तशिष्टं च न भुञ्जीत कदाचन” मिताक्षराधृतव्यासः। नवश्राद्धञ्च आहिताग्निविषयं यहाह यमः “चतुर्थे पञ्चमे चैव नवमैकादशे तथा। यदत्र दीयते जन्तोस्तन्नवश्राद्धमिष्यते। अस्थिसञ्चयनादर्वागाहिताग्नेर्द्विजन्मनः। अयुग्सान् भोजयेद्विप्रांस्तन्नवश्राद्धमिष्यते। नवमे पञ्चमे श्राद्धं प्रेतोपकारार्थं नावश्यकम् नवश्राद्धसंज्ञा एतद्द्रव्यग्रहणे प्रायश्चित्तविशेषविधानार्थम् आहिताग्नेरस्थिसञ्चयनादर्वाक् श्राद्धान्तरमस्तीति च दर्शितम्” प्रा० वि०।

नवषष्टि = स्त्री नवाधिका षष्टिः शा० त०। १ ऊनसप्ततिसंख्यायां २ तत्संख्यान्विते च ततः पूरणे डट् नवध्रष्ट तत्पूरणे त्रि०। एवं स्त्रियां ङीप्। तत्पूरणे तमप् नवषष्टितम त्रि०। नवसप्तति नवाशीतिप्रभृतयो नवाधिकतत्तत्संख्यायां तत्पूरणे तद्युते च। तत्पूरणे डट् तमप् च नवाधिकतत्तत्संख्या पूरणे त्रि०।

नवसप्तदश = पु० नव च सप्तदश चस्तोमायस्य ड समा०। अतिरात्रयागभेदे “अभिप्लवं सर्वस्तोमनवसप्तदशावतिरात्रौ” कात्या० श्रौ० २४। ३९ “प्रजातिकामस्य नवसप्तेदशः” तत्रैव २३। ३। १४ नवसप्तदशः प्रजातिकामस्य” आश्व० श्रौ० १०। १। २ “नवसप्तदशोनाम एकाहः तेन प्रजातिकामो प्रजातिः प्रजासम्पत्तिस्तां कामयमानः यजेत” नारा० वृ०।

नवसार = पु० “नवसारो भवेच्छुद्धश्चूर्णतोयैर्विपाचितः। दोलायन्त्रेण यत्रेन भिषग्भिर्योगसिद्धये” इति वैद्यचन्द्विकोक्ते चूर्णतोयाभ्यां दोलायन्त्रेण पाचिते क्राथभेदे नवसादरमप्यत्र। “प्रतिश्यायेषु क्षिरसः षीडने नवसादरम्” वैद्यचन्द्रिका।

नवसू = स्त्री नवं सूते सू–क्विप्। अभिनवप्रसवायां स्त्रियां गोप्रभृतौ “अस्तं नवस्य इव ग्मन्” ऋ० ४। ३४। ५ “नवस्वः नवप्रसवा गाव इव” भा०

नवसूति(का) = स्त्री नवा सूतिः प्रसवो यस्या वा क्वप्। १ धेन्वाम् अमरः २ नवप्रसवायां स्थियाञ्च। नवप्रसूतिरप्यत्र “नवप्रसूतिर्वरटा तपस्विनी” नैष०।

नवांश = पु० नवमोऽंशः। त्रिंशांशकरूपराशेर्नवमे भागे स च एकैकराशे ३। ३० विंशतिकलाधिकांशत्रयरूपः। राशिभेदे राशिभेदस्यैकैकांशादिकं ज्यो० उक्तं यथा “मेषाद्यामकराद्याश्च तुलाद्याः कर्कटादयः। एषान्नवांशा राशीनां खांशाः वर्गोत्तमा स्मृताः” यष्या मेघे प्रथमनवांशो मेषस्य, द्वितीयांशो वृषस्य, तृतीयांशो मिथुनस्य, चतुर्थाशः कर्कटस्य, पञ्चमांशः सिंहस्य, षष्ठांशः कन्यायाः सप्तमांशस्तुलायाः, अष्टमांशो वृश्चिकस्य, नवमांशो धनुषः। एवं वृषे प्रथमांशो मकरस्य १ कुम्भस्य २ मीनस्य ३ मेषस्य ४ वृषस्य ५ सिथुनस्य ६ कर्कटस्य ७ सिंहस्य ८ कन्यायाः ९। तथा मिथुने तुलायाः १ वृश्चिकस्य २ धनुषः ३ मकरस्य ४ कुम्भस्य ५ मीनस्य ६ मेषस्य ७ वृषस्य ८ मिथुनस्य ९। एवं कर्के कर्कस्य १ सिंहस्य २ सन्यायाः ३ तुलायाः ४ वृश्चिकस्य ५ धनुषः ६ मकरस्य ७ कुम्भस्य ८ मीनस्य ९। एवं सिंहे मेषाद्याः ९। कन्यायां मकराद्याः ९। तुलायां तुलाद्याः ९। वृश्चिके कर्कटाद्याः ९। एवमेव धनुषि मेषाद्याः ९। मकरे मकराद्याः ९। कुम्भे तुलाद्याः ९। मीने कर्काद्याः ९। क्रमान्नवांशा ज्ञेयाः उक्तञ्च “मेघे नवांशा मेषाद्याः वृषे च मकरादिकाः। मिथुने च तुलाद्याःस्युः कर्कटे कर्कटादिकाः” इति।

नवाङ्ग = त्रि० नवबिधमङ्गं यस्य। नवविधाङ्गयुक्ते चक्रदत्तोक्ते कषायभेदे पु० “संसृष्टदोषेषु हितं संसृष्टमथ पाचनम्। विश्वामृताव्दभूनिम्बैः पञ्चमूलीसमन्वितैः। कृतःकषायो हन्त्याशु वातपित्तोद्भवं ज्वरम्”। २ कर्कटशृङ्ग्यां स्त्री टाप् राजनि०। ३ युवत्यां स्त्री ङीष्। “नवाङ्गी कुरङ्गीदृगङ्गी करोतु” जगन्नाथपण्डितः

नवान्न = न० कर्म०। १ नूतनान्ने तत् प्राप्यतयाऽत्रास्ति अच्। बवान्नागमकाले तन्निमित्तकश्राद्धादिकं श्राद्धविवेके उक्तं यथा विष्णुधर्मोत्तरे “व्रीहिपाके च कर्त्तव्यं यवपाके च पार्थिव!। नतावाद्यौ महाराज! विनाश्राद्धं कथञ्चन। पोर्णमासी तथा माघी श्रावणी च नरोत्तम!। प्रौष्ठपद्यामतीतायां तथा कृष्णा त्रयोदशी। एतांस्तु श्राद्धकालान् वै नित्यानाह प्रजापतिः”। व्रीहिः शरत्पक्वधान्यं तत्रैव व्रीहिशब्दस्य मुख्यत्वात्। अन्यथा व्रीह्यपचारे शालिप्रतिनिधिविधानदर्शनं पृथगुपादानञ्च नोपपद्येत यथा छन्दोगपरिशिष्टे कात्यायनः “यथोक्तवस्त्वसम्पत्तौ ग्राह्यं तदनुकारि यत्। यवानामिव गोधूमा व्रीहीणामिव शालयः”। “व्रीहयः शालयोमुद्गा गोधूमाः सर्षपास्तिलाः”। यवाश्चौषधयः सप्त्व विपदोघ्नन्ति धारिताः”। वामनपुराणे “हविषा संस्कृता ये तु यवगोधूमशाद्ययः। तिलमुद्गादयोमाषा व्रीहयश्च प्रिया हरेः” अतएव कामधेनुकृता आश्विनमासीयतिथिकृत्ये नवान्नश्राद्धविषयं ब्रह्मपुराणवचनं लिखितं यथा “शुक्लपक्षे नवं धान्यं पक्वं ज्ञात्वा सुशोभनम्। गच्छेत् क्षेत्री विधानेन गीतवाद्यपुरःसरम्” इत्यमिधाय “तेन देवान् पितॄंश्चैव तर्पयेदर्चयेत्तथा” इत्यस्मादेव वचनात् शुक्लपक्ष एवैतत् श्राद्धम्। वृश्चिके ब्रीहिपाकनिमित्तं श्राद्धं न स्यादिति चेन्न स्यादेव नवान्नागमनिमित्तन्तु तत् स्यादेवेति ब्रूमः” श्रा० त० रघुं उक्तं यथा अथ नवान्नश्राद्धम्। शातातपः “नवीदके नवान्ने च गृहप्रच्छादने तथा। पितरः स्पृहयन्त्यन्नमष्टकासु मघासु च”। नवोदके वर्षोपक्रमे। आर्द्रास्थरवाविति यावत् “आर्द्रादितो विशाखान्तं रविचारेण वर्षति” इति ज्योतिर्वचनात् रविचारेण रविगत्या। “प्रावृष्टकाले समायाते रौद्र ऋक्षगते रवौ। नाडीवेधसमायोगे जलयोगं वदाम्यहम्” इति रुद्रयामलाच्च। रौद्रमार्द्रा। नवान्ने नवान्नागमे अत्र “नक्षत्रग्रहपीडासु दुष्टस्वप्नावलोकने। इच्छाश्राद्धानि कुर्वीत नवशस्यागमे तथा” इति विष्णुपुराणाद्वक्ष्यमाणबहुतरबचनेषु नवान्नश्रुतेर्नवान्नागमत्वेनैव निमित्तत्वं लाघवात्। अमावास्यास्तिस्रोऽष्टका माघी प्रौष्ठपद्यूर्द्ध्वं कृष्णत्रयोदशी व्रीहियवपाकौ च “एतांस्त श्राद्धकालान् वै नित्यानाह व्रजापतिः। श्राद्धमेतेष्वकुर्वाणो नरकं प्रतिपद्यते” इति विष्णुवचनं नवान्नागमश्राद्धस्यैव व्रीहियवोभयप्राप्तिविषयकत्वेन विघायकं ग्रैष्मादिधान्यव्युदासाय। शालिधान्यस्य तु प्राप्तिः। “शरद्वसन्वयोः केचिन्नवयज्ञं प्रचक्षते। धान्यपाकवशादन्ये श्यामाको वनिनः स्मृतः” इति छन्दोगपरिशिष्टे व्रीह्यप्राप्त्या नवशस्येष्टौ शालिविधानाद्यज्ञतुल्यन्यायात् श्राद्धेऽपि तथा कल्पनात्। “वृश्चिके शुक्लपक्षे तु नवान्नं शस्यते बुधैः। अपरे क्रियमाणं हि धनुष्येव कृतं भवेत्। धनुषि यत् कृतं श्राद्धं मृगनेत्रासु रात्रिषु। पितरस्तन्न गृह्णन्ति नवान्नामिषकाङ्क्षिणः” इति वराहवचनाच्च। श्यामाको व्रीहिविशेषः। वनी वानप्रस्थः। अपरे कृष्णपक्षे धनुषि धनुःस्थार्के। “पौषे चैत्रे कृष्णपक्षे नवान्नं नाचरेद्बुधः। भवेज्जन्मान्तरे रोगी पितॄणां नोपतिष्ठते” इति भोजराजवचनैकवाक्यत्वात्। एवञ्च सौरपौषवत् चैत्रोऽपि सौर एव साहचर्य्यात्। अत्र धनुर्मीनपर्य्युदासात् यबश्राद्धमुख्यकालपर्य्यन्तं माघफाल्गुनवैशाखेष्वपि नवान्नश्राद्धं कार्यम् “एवमागामियागीयमुख्यकालादधस्तनः। स्वकालादुत्तरो गौणः कालः पूर्वस्य कर्मणः। यद्वागामिक्रियामुख्यकालस्याप्यन्तरालवत्। गौणकालत्वमिच्छन्ति केचित् प्राक्तनकर्मणि” हरिहरपद्धतौ तथादर्शनात्। अधस्तनः वृक्षवच्छास्त्रे व्यवहारः। अन्तरालवत् मध्यकालस्येब। वस्तुतस्तु उत्तरक्रियामुख्यकालं विना उत्तरक्रियाकरणपूर्वकाल एव पूर्बक्रिया कर्त्तव्या। “संस्कारा अतिपत्येरन् स्वकालाचेत् कथञ्चन। हुत्वैतदेव कुर्व्वीत ये तूपनयनादधः” इति छन्दोगपरिशिष्टात् संस्कारातिपाते तथा व्यवहारात्। अतएव श्राद्धविवेकेऽपि धनुषः पर्युदासान्माघादिरिति सामान्यत उक्तम्। एवं यवश्राद्धमपि हरिशयनात् पूर्वं कर्त्तव्यम् “नवान्नं नै नन्दायां न च सुप्ते जनार्दने। न कृष्णपक्षे धनुषि तुलायां नैब कारयेत्” इति ज्योतिर्वचनात् “न च सुप्ते जनार्दने” इति आश्विनशुक्लपक्षेतपरम् आश्विनाधिकारे “शुक्लपक्षे नबं धान्यं पक्वं ज्ञात्वा सुशोमनम्। गच्छेत् क्षेत्री विधानेन गीतवाद्यपुरःसरम्” इत्यभिधाय “तेन देबान् पितॄंश्चैव तर्पयेदर्च्चयेत्तथा” इति ब्रह्मपुराणात्। मृगोनेता प्रापकोयासां रात्रीणामिति व्युत्पत्त्या नक्षत्रान्नेतुरित्यनेनाजबिधानात तत्पदं सिद्धम्। ततश्च मृगशिरः- पूर्व्वार्द्धेन वृश्चिकशेषे रात्र्यारम्भात् चत्वारिंशद्दण्डाधिकावशिष्टषड्रारात्रयो मृगनेत्रा इति। यथोक्तं ज्योतिषे “ज्येष्ठाशेषार्द्धगे सूर्ये मृगनेत्रानिशात्मके। नवान्नैर्भोजनं श्राद्धं जन्मचन्द्रे तिथौ न च” अत्र जन्मतिथिनिषेधात् तथा “जन्मर्क्षतारं सितवासरञ्च” इति जन्मर्क्षनिषेधाच्च “नन्दायां भार्गवदिने त्रयोदश्यां त्रिजन्मनि” इत्यत्र त्रिजन्मपदं जन्मचन्द्रतिथिनक्षत्रत्रिकपरं परवचने त्रिजन्मान्वित इत्यत्रापि तथा “सूर्ये चैव विशाखगे स्मरतिथौ पापे त्रिजन्मान्विते। नन्दामन्दमहीजकाव्यदिवसे पौषे मधौ कार्त्तिके। भेषूग्राहिशिवेषु विष्णुशयने कृष्णे शशिन्यष्टमे श्राद्धं भोजनकं “नवान्नविहितं पुत्रार्थनाशप्रदम्”। सूर्ये चैव विशाखगे मार्गशीर्षस्य विंशतिदण्डाधिकप्रथमदिनत्रयावस्थिते सूर्ये। स्मरतिथौ त्रयोदश्यां पापे पञ्चमतारात्रये नन्दा प्रतिपत् षष्ठी एकादशी मन्दः शनिः महीजी मङ्गलः काव्यः शुक्रः। उग्रगणः पूर्वात्रयमघाभरण्यः अहिरश्लेषा शिव आर्द्रा। भोजराजः “ब्राह्मे विष्णुवृहस्पतौ शशधरे मार्त्तण्डपौष्णादितौ मैत्रे चित्रविशाखवायुधनभे मूलाश्विवह्नौ तथा। शक्रे वारुण ऋक्षके शुभदिने श्राद्धं नवं शस्यते नन्दाभार्गवभूमिजेषु न भवेत् श्राद्धं नवान्नोद्भवम्”। ब्राह्मादयः रोहिणीश्रवण पुष्य मृगशिरो हस्त रेवती पुनर्वसु अनुराधा चित्रा विशाखा स्वाती धनिष्ठा मूलाश्विनी कृत्तिका ज्येष्ठा शतभिषाः। नवान्नश्राद्धे मूलाकृत्तिकाज्येष्ठाविधानात्तच्छेषभक्षणप्राप्ते “अश्लेषा कृत्तिका ज्येष्ठा मूलाजपदकेषु च। भृगुभौमदिने रिक्ततिथौ नाद्यान्नवौदनम्” इति श्राद्धशेषाभोजिमात्रपरम् अजपदः पूर्वभाद्रपदः। चन्द्रताराद्यशुद्धौ प्रतीकारमाह देवलः “कर्म कुर्य्यात् फलावाप्त्यै चन्द्रादिशोभने बुधः। सुस्थकाले त्विदं सर्वं नार्त्तः कालमपेक्षते। चन्द्रे च शङ्गं लवणञ्च तारे तिथावभद्रे सिततण्डुलांश्च। धान्यञ्च दद्यात् करणर्क्षवारे योगे तिलान् हेममणिञ्च लग्ने”। ऋक्षमविहितमक्षत्रं राजमार्त्तण्डे ताराभेदात् लवणपरिमाणमाह “एकत्रिपञ्चसप्त द्विजाय दद्यात् पलानि लवणस्य क्रमशो जन्मनि विपदिप्रत्यरिमरणाख्यतारकासु”। पलन्तु लौ किर्कर्मानैः साष्टरत्तिद्विमासकम्। तोलकत्रितयं ज्ञेयं ज्योतिर्ज्ञैः स्मृतिसम्मतम्” वामनपुराणाच्च “विष्टयो व्यतिपाताश्च येऽन्येदुर्नीतसम्भवाः। ते नामस्मरणा- द्विष्णोर्नाशं यान्ति महात्मनः” विष्णुधर्मोत्तरे “सर्वाशुभानां परिमोक्षकारि संपूजनं देववरस्य विष्णोः” इति ब्रह्मपुराणे “प्राश्नीयात् दधिसंयुक्तं नवं विप्राभिमन्त्रितम्” अभिमन्त्रितम् “मन्त्रानादेशे गायत्री” इति वचनाद्गायत्र्या। स्मृतिः “गृहीत्वा ब्राह्मणानुज्ञां सदधिप्राशयेन्नवम्” अत्र व्रीह्यभावे शालिना, नूतनाभावे पुरातनेनापि श्राद्धादिकमाह भट्टभाष्ये स्मृतिः “गृहमेधी व्रीहियवाभ्यां शरद्वशन्तयोर्यजेत। श्यामाकैर्वनी वर्षासु आपत्कल्पे अन्येन पुरातनैर्वेति”। गृहंमेधीति मेधृमेधाहिंसयोः मेधृ सङ्गमे चेत्यत्र चकारेण पूर्वगणस्थ मेधाहिंसयोरनुवृत्तेः तेन मेधृ हिंसार्थः तेन गृहनिमित्तेन जातायाः “पञ्चसूनागृहस्थस्य चुल्लीपेषण्युपस्करः। कण्डनी चोदकुम्भश्च बध्यते याश्च वाहयन्” इति मनूक्तायाः पञ्चसूनारूपहिंसायाः कारी गृहमेधी गृहस्थ इत्यर्थः। सूदयन्ति प्राणैर्वियोजमन्तीति सूना प्राणिबधस्थानानि चुल्लीपाकस्थानं पेषणी दृशदुपलादिः उपस्करः मृहसम्मार्जन्यादि कण्डनी मूषलोदूखलादि याश्च एताः सूना वाहयन् स्वस्वकार्ये योजयन् वध्यते पापेन सम्बध्यते इत्यर्थः। श्राद्धचिन्तामणावप्येवम्। प्रेतमातापितृकस्य पुरातनधान्यालाभे नवेनैव वैश्वदेवं कृत्वा नवञ्च ब्राह्मणेभ्यो दत्त्वा ब्राह्मणानुज्ञां गृहीत्वा भोजनादिकं कर्त्तव्यमाह रेणुकाचार्य्यनव्यवर्द्धमानधृता स्मृतिः “दत्त्वैवं ब्राह्मणेभ्यश्च हुत्वा वा वैश्वदेविकम्। अन्योनवान्नमश्नीयादिति वौधायनोऽब्रवीत्”। अन्यः श्राद्धकरणासमर्थः श्राद्धानधिकारी च। अतएव विधवया नवमेकोद्दिष्टें दीयते भुज्यते चेति”।

नवायस = न० नवभागा आयसा यत्र। सुश्रुतोक्ते लोहचूर्णभेदे “त्रिफला चित्रकत्रिकटुविडङ्गमुस्तानां नवभागस्तावन्तएव च कृष्णायश्चूर्णस्य तत्सर्वमैकध्यं कृत्वा यथायोगं मात्रां सर्पिर्मधुभ्यां संयुज्योपयुञ्जीत। एतन्नवायसमेतेन जाठर्य्यं न भवति सन्नोऽग्निराप्यायते दुर्नामशोफपाण्डुकुष्ठरोगाविपाककासश्वासप्रमेहाश्च न भवन्ति”

नवार्चिस् = पु० नव अर्च्चीषि यस्य। मङ्गले हारा० कर्म०। नवायां शेखायाञ्च।

नवासिका = स्त्री मात्रावृत्तभेदे “जोल्नावथाम्बुधेर्विश्लोकः” “तद्युगलाद्वा नवासिका स्यात्” वृ० र० “तद्युगलात् अम्बुधिद्वयात् अष्टमात्रात उपरीत्यर्थः। यदि जगणो मध्य गुरुः नगणलघू स्यातां तदा नवासिका स्यात्” तदर्थः।

नवाह = पु० कर्म० टच् समा०। १ अभिनवे दिने प्रतिपत्तिथौ। नवभिरहोभिर्निर्वृत्तः ठञ् तस्य लुक् अच् समा०। नवदिनसाध्ये २ यागादौ। ३ गवामयनाङ्गे नवरात्रसाध्य यागभेदे च पु०। “अभिजित् १ त्रयः स्वरसामानः ४ दिवाकीर्त्त्यमहः ५ (विषुवान्) त्रयः स्वरसामानो ८ विश्वजित् ९ इति नवरात्रः इति नवरात्रो विधातव्यः। षष्ठेमासितानभिप्लवान् एकं पृष्ठं च कृत्वा अभिचिदनुष्ठेयः ततस्त्रयः स्वरसामानः ततो विषुवानिति” ताण्ड्य० ४। ५१ भाष्ये स्थितम्।

नविष्टि = स्त्री त्रि० नवा इष्टिः वेदे शक०। अभिनवे इष्टिभेदे यागे “वज्रिन्नपसो नविष्टौ” ऋ० ८। २। १७ “नविष्टौ अभिनवये यागे” भा०।

नविष्ठ = त्रि० अतिशयेन नविता स्तोता इष्ठन् तृणोलोपः। १ अतिशयस्तोतृतमे “विप्रा नविष्ठया” ऋ० १। ८२। २ “नवि ष्ठया नवितृतमया मती मत्या स्तुत्या” भा० करणभूताया अपि स्तुत्याः कर्त्तृत्वविवक्षया कर्त्तरि तृन्। अतिशयेन नवः नूतनः इष्ठन्। २ नव्यतमे त्रि०।

नवीन = त्रि० नव + स्यार्थे स्व नवस्य नूः ओर्गुणः। नव्ये “गदाधरविनिर्मिता विविधदुर्गतर्काटवीनवीनपदवी सुदं वितनुतां सतां धीमताम्” बाधे गदाधरः।

नवीयस् = त्रि० नव + अतिशये–ईयसुन्। नवतमे “प्रतरं नवीयः” ऋ० १०। ८९। १ “नवीयो नवतरम्” भा० स्त्रियां ङीप् नवशब्दस्य स्तुत्याद्यर्थत्वे २ अतिशयेन स्तुत्ये च “नू नव्यसे नवीयसे सूक्ताय” ऋ० ९। ९। ८ “नवीयसेऽतिस्तुत्याय” भा०।

नवेदस् = त्रि० न विपरीतं वेत्ति विद–असुन् नभ्राडित्यादिना नञः प्रकृतिमावः। विपरोतज्ञानशून्ये मेघाविनि यथा श्रुतं तथैव ज्ञानवति “नवेदसा विमुर्वाम्” ऋ० १। ३४। १

नवोढा = स्त्री नवमूढा। १ नूतनपरिणीतायां स्त्रियां २ नायिकाभेदे “लज्जामरपराधीनरतिर्नवोढा” इति लक्षयित्वा “बलान्नीता पार्श्वं सुखमनुमुखं नैव कुरुते धुनाना मूर्द्धानं क्षिपति वदनं चुम्बनविधौ। हृदि न्यस्तं हस्तं क्षिपति गमनारोपितमना नवोढा वोढारं रमयति च सन्तापयति च” रसमञ्जर्खामुदाहृतम्।

नवोदक = न० नवं पतितमुत्यितं वा उदकम्। १ नवखाते उत्थिते उदके २ गगनादभिनवपतिते जले च तस्यापेयत्वादिकं प्रा० त० निरूपितं यथा

हारीतः “मत्स्यकण्टकशम्भूकशङ्खशुक्तिकपर्दकान्। पीत्वा नवोदकञ्चैव पञ्चगव्येन शुध्यति”। नवोदकं नवस्वातजलं वर्षोदकञ्च तथा ब्रह्मपुराणम् “नवस्वातजलं गावो महिष्यश्छागयोनयः। शुध्यन्ति दिवसैरेव दशभिर्नात्र संशयः” मिताक्षराधृता स्मृतिः “काले नवोदकं शुद्धं न पातव्यन्तु तत् त्र्यहम्। अकाले तु दशाहं स्यात् पीत्वा नाद्यादहर्निशम्” काले वर्षाकाले। शङ्खः “स्नानमाचमनं दानं देवतापितृतर्पणम्। शूद्रोदकैर्न कुर्वीत तथा मेघाद्विनिःसृतैः”। पानादीतरत्र स्पर्शादौ च हविवंशः। “अमौममम्भोविसृजन्ति मेघाः पूतं पवित्रं पवनैः सुनन्धि”। नबोदकनिमित्तं च पार्वणं श्राद्धं नित्यं, तद्विधानादि ति० त० उक्तं यथा शातातपः “नबोदके नवान्ने च गृहप्रच्छादने सदा। पितरः स्पृहयन्त्यन्नमष्टकासु मघासु च। तस्माद्दद्यात् सदोद्युक्तो विद्वत्सु ब्राह्मणेषु च” अत्र सदेति श्रवणात् अस्य नित्यत्वम्। नवोदके वर्षोपक्रमे आर्द्रागते रबाविति यावत्। “आर्द्रादिती बिशाखान्तं रविचारेण वर्षति” इति नव्यवर्द्धमानधृतात् “प्रावृट्काले समायाते रौद्र ऋक्षगते रवौ। नाडीवेधसमायोगे जलयोगं बदाम्यहम्” इति रुद्रजामलाच्च। रौद्रमार्द्रा नवोदकश्राद्धस्य सावकाशत्वात् त्रयोदश्यादिषु निषेधमाह दीपिकायाम् “त्रयोदशीं जन्मदिनञ्च नन्दां जन्मर्क्षतारां सितवासरञ्च। त्यक्त्वा हरीज्येन्दुकरान्त्यमैत्र ध्रुवेषु च श्राद्धविधानमिष्टम्”। सितबासरं शुक्रवारं ऋक्षं राशिः हर्य्यादयः श्रवणपुष्यमृगशिरोहस्तारेबत्यनुराधा उत्तरात्रितयरोहिण्यः। कृष्णपक्षे चेन्नबोदकश्राद्धकालस्तदोमयोः श्राद्धयोस्तन्त्रात् सिद्धिः”।

नवोद्धृत = न० नवमुद्धृतम्। १ नवनीते अमरः। २ भूतलोद्धृतमात्रे त्रि०

नव्य = त्रि० नु–स्तुतौ यत्। १ स्तुत्ये नव + स्वार्थे यत् नूरादेश ओर्गुणः २ नवीने अमरः। ३ रक्तपुनर्णबायां पु० राजनि०। भावे यत्। ४ स्तुतौ न०।

नव्यवर्द्धमान = पु० स्मृतिनिबन्धकारकभेदे वर्द्ध मानश्च पुराणः गङ्गेशोपाध्यायसुतः।

***