नमत = त्रि० नम–अतच्। प्रह्वे १ नम्रे २ नटे च ३ धूमे उणा०। कर्मणि अतच्। ४ प्रभौ उणादिकोषः।

नमयिष्णु = त्रि० नम–स्वार्थे णिच वा० इष्णुच्। नमनशीले “स्थिरा चिन्नमयिष्णवः” ऋ० ८। २०। १ “नमयिष्णवः नमनशीलाः” भा०।

नमस् = अव्य० नम–भावे असुन् स्वरादि०। नमने १ स्वापकर्षबोधकव्यापारे २ त्यागे स्वस्वत्वध्वंसानुकूलव्यापारभेदे। पुष्पं विष्णवे नम इत्यादौ विष्णूद्देश्यकमन्त्रकरणकत्यागविषयः पुष्पमित्येवं बोधः यथाह शब्दशक्तिप्रकाशिकायाम्

“पुष्पमिदं विष्णवे नम इत्यस्य विष्णूद्देश्यक मन्त्रकरणत्यागस्य कर्मेदं पुष्पमित्यर्थस्तथ चतुर्थ्या प्रीत्युद्देश्यकत्वं तदिच्छाधीनत्वरूपं नमःपदार्थे मन्त्रकरणत्यागे बोध्यते प्रकृत्यर्थस्य च विष्ण्वादेः प्रीतौ तदिच्छायां वान्वयः। व्राह्मणाद्युद्देश्यकस्य गवातित्वागस्य मन्त्रकरणत्वे प्रमाणाभावात् गौर्ब्राह्मणाय नम इत्यादिकोन प्रयोगः। व्राह्मणेभ्यो नमोनित्यमित्यादौ तु नमःपदार्थो नतिरेवेति तत्र विषयत्वं चतुर्थ्या बोध्यते। पुष्पमिदं परमात्मने नम इत्यादी परमात्मनः प्रीत्यसत्त्वेऽपि तत्प्रीतित्वप्रकारकेच्छासम्भवान्न तत्प्रीत्युद्देश्यकत्वाप्रसिद्धिः”। नम्यते कर्मणि असुन् ३ अन्ने ४ वज्रे च निघण्टुः नमोवृध्शब्दे दृश्यम्। साक्षादा० उप० स०। नमस्करोति नमस्कृत्य। अत्र कृधातोरेव नमनार्थता नमश्शब्दस्तु तदर्थद्योतकः तेन नारायणं नमस्कृत्येत्यादौ द्वितीया उपपदविभक्तेः कारकविभक्तिर्गरीयसी” इति न्यायात् नमसोवाचकत्वे नमस्कृत्य व्राह्मणेभ्य इत्यादौ नमःशब्दयोगे चतुर्थी। “नमः स्वस्तीत्यादि” पा० सूत्रे त्यागार्थकनमनार्थकयोरुभयोर्ग्रहणम्। ५ यज्ञे च न० “यज्ञो वै नमः” इति श्रुतेः।

नमस = त्रि० नम–असच्। अनुकूले उज्ज्वद०।

नमसान = त्रि० नामधा० नमस्य–बा० आनच् अल्लोपयलोपौ। नमस्करणशीले “यशस्विनं नमसाना विधेम” अथ० ६। ३९। २

नमसि(स्यि)त = नामधा० नमस्य–कर्मणि क वा यलोपः। कृतनमस्कारे अमरः।

नमस्कार = पु० नमस् + कृ–घञ्। १ स्वापकर्षबोधकव्यापारे करशिरःसंयोगादौ २ विषभेदे शब्दच०। नमस्कारे अधिकारिविशेषादिकं नानास्थानात् प्रदर्श्यते। अभिवादयेदित्यनुवृत्तौ शङ्खः “नाप्रयतायाप्रयतश्च” इति शु० त०। “स्त्रियो नमस्या वृद्धाश्च वयसा पत्युरेव ताः” इति स्मृत्यर्थ सारः। “देवं विप्रं गुरुं दृष्ट्वा न नमेद्यस्तु सम्भ्रमात्। स कालसूत्रं व्रजति यावच्चन्द्रदिवाकरौ। ब्राह्मणञ्च गुरुं दृष्ट्वा न नमेद्यो नराधमः। यावज्जीवनपर्य्यन्तमशुचिर्यवनो भवेत्” इति ब्रह्मवै० जन्मस्य० “देवतायतनं दृष्ट्वा दृष्ट्वा तु दण्डिनन्तथा। नमस्कारं न कुर्य्याद्यः प्रायश्चित्ती भवेन्नरः। सभायां यज्ञशालायां देवतायतनेषु च। प्रत्येकन्तु नमस्कारो हन्ति पुण्यं पुराकृतम्। उपविश्य नमेत् शूद्रो दीर्घायुर्ब्राह्मणो वदेत्। स शूद्रो नरकं याति ब्राह्मणो यात्यधोगतिम्। दूरस्थं जलमध्यस्थं धावन्तं मदगर्वितम्। क्रोधवन्तं विजानीयात् नमस्कारञ्च वर्जयेत्। पुष्पहस्तो वारिहस्तस्तैलाभ्यङ्गी जलस्थितः। आशीःकर्त्ता नमस्कर्त्ता उभयोर्नरकं भवेत्” कर्मलोचनम्। “मातुः पितुः कनीयांसं न नमेद्वयसाधिकः। नमस्कुर्य्याद् गुरोः पत्नीं भ्रातृजायां विमातरम्” यमः। “अभिवादयतः पूर्वमाशिषं न प्रयच्छति। यद्दुष्कृतं भवेत्तस्य तस्माद्भागं प्रपद्यते। स्वस्तीति ब्राह्मणे ब्रूयात् आयुष्मानिति राजनि। वर्द्धतामिति वैश्येषु शूद्रे त्वारोग्यमेव च” म० त० “गुरुपत्नी तु युवती नाभिवाद्येह पादयोः। पूर्णषोडशवर्षेण गुणदोषौ विजानता” मनुः। “कुर्वीत बन्दनं भूयो भगोवोहमिति ब्रुवन्। विप्रोष्य पादग्रहणमन्वहञ्चाभिवादनम्। गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन्। अभिवादनशीलः स्यान्नित्यं वृद्धेषु धर्मतः। असावहम्भो नामेति सम्यक् प्रणतिपूर्वकम्। आयुरारोग्यसिद्ध्यर्थं तन्द्रादि परिवर्जितः। आयुष्मान् भव सौम्येति वाच्यो विप्रोऽभिवादने। अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरप्लुतः। यो न वेत्त्यभिवादस्य द्विजः प्रत्यभिवादनम्। नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः। व्यत्यस्तपाणिना कार्यमुप्रसंग्रहणं गुरोः। सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः। लौकिकं वैदिकञ्चापि तथाध्यात्मिकमेव वा। आददीत यतो ज्ञानं तं पूर्वमभिवादयेत्। ब्राह्मणान् कुशलं पृच्छेत् क्षत्रबन्धूननामयम्। वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव तु” मनुः। अभिवादनीयाश्च “उपाध्यायः पिता ज्येष्ठो भ्राता चैव महीपतिः। मातुलः श्वशुरस्त्राता मातामहपितामहौ। बन्धु ज्येष्ठः पितृव्यश्च पुंस्येते गुरवः स्मृताः। माता मातामही गुर्वी पितुर्मातुश्च सोदरा। श्वश्रूः पितामही ज्येष्ठा धात्री च गुरवः स्त्रियाम्। इत्युक्तो गुरुवर्गोऽयं पितृतो मातृतो द्विजाः। अनुवर्त्तनमेतेषां मनोवाक्कायकर्मभिः। गुरून् दृष्ट्वा समुत्तिष्ठेदभिवाद्य कृताञ्जलिः” इति कूर्मपु० ११ अ०। अधिकं नतिशब्दे दृश्यम्। “अयमेव नमस्कारो भूम्यादिप्रतिपत्तिभिः। प्रणाम इति विज्ञेयः स पूर्वं प्रतिपादितः” कालिकापु० ७० अ०। रात्रौतन्निषेधो यथा “रात्रौ नैव नमस्कुर्य्यात्तेनाशीरभिचारिका। अतः प्रातः पदं दत्त्वा प्रयोक्तव्ये च ते उभे” महाभारते।

नमस्कारी = स्त्री नमस्कारः तदङ्गाञ्जलिरिव पत्रम् अस्त्यस्याः अच् गौरा० ङीष्। लज्जालुवृक्षे अमरः। तस्याः नमस्काराङ्गाञ्जलिरूपपत्रकत्वात् तथात्वम्।

नमस्य = नामधा० नमस्करोति “नमस्तपोबरिवः” इत्यादि क्यच् पूजायाम् भ्वा० पर० सक० सेट्। नमस्यति अनमसी(स्यी)त्। कर्मणि नमस्यते “द्विजैः क्वच्चिन्नमस्यसे” “तेऽनमस्य~श्च शङ्करम्” “नो नमस्यन्ति ते बन्धून्” भट्टिः।

नमस्य = त्रि० नामधातुः नमस्य–कर्मणि यत् अल्लोपयल्लोपौ। पूज्ये। “ब्रह्मन्नतिथिर्नमस्यः” कठीप०।

नमस्या = स्त्री नमस्य–भावे अ। पूजायाम्

नमस्यु = त्रि० क्यजन्तनमस्य–“क्याच्छन्दसि” पा० उ। १ नमस्करण शीले “स इद्वने नमस्युभिर्वचस्यते” ऋ० १। ५५। ४। पुरवंश्ये २ नृपभेदे “जनमेजयोऽभूत् पूरीः प्रचिन्वांस्तत्सुतस्ततः। प्रवीरोऽथ” नमस्युर्वै भाग० ९। २०। ३ तत्र नभस्युरिति पाठान्तरं हरिवंशे ३१ अ० “प्रचिन्वतः प्रवी रोऽभून्नभस्युस्तस्य चात्मजः” इत्युक्तेः।

नमित = त्रि० नम–णिच् क्त वा ह्रस्वः। नामिते नतीकृते “सुधीः को वा कौपीरपि नमितमूर्द्ध्वा न पिबति” विदग्धमाधवः।

नमी = पु० नम–बा० ई वातप्रमीवत्। ऋषिभेदे “प्रह्वन्नमीं साय्यं ससन्तम्” ऋ० ६। २० “नमीं तत्संज्ञकमृषिम्” भा० “प्र मे नमीं साय्यम् इषे भुजे” ऋ० १०। ४८। ९ “एतेन वै नमी साय्योबैदेहो राजाञ्जसा स्वर्गं लोकमैत्” पञ्चभी ब्रा० २५। १०। १७

नमुचि = पु० न मुञ्चति मुच–इन् नभ्राडित्या पा० नञः प्रकृति भावः। १ कन्दर्पे दनोः पुत्रे २ असुरभेदे मेदि०। चत्वारिंशद्दनोः पुत्रा इत्युपक्रमे “शंवरी नमुचिश्चैव पुलीमा चेति विश्रुतः” भा० आ० ६० अ०। “कश्यपस्य दनुर्नाम भार्य्यासीद्द्विजसत्तम!। तस्यान्तु द्वौ सुतावास्तां सहस्राक्षाद् बलाधिकौ। ज्येष्ठः शुम्भः इति ख्यातो निशुम्भश्चापरीऽसुरः। तृतीयो नमुचिर्नाम महाबलससन्वितः” वामनपु० ५२ अ०।

नमुचिद्विष् = पु० नमुचिं द्विष्टवान् द्विष–भूते क्विप् ६ त०। इन्द्रे नमुचिसूदनशब्दे दृश्यम्। “विगृह्य चक्रे नमुचिद्विषा बली” माघः।

नमुचिसूदन = पु० नमुचिं सूदयति हिनस्ति सूदि–ल्यु। इन्द्रे अमरः। तेन तस्य सूदनकथा भा० श० ४७ अ०। “नमुचिर्वासवाद्भीतः सूर्यरश्मिं समाविशत्। तेनेन्द्रः सख्यमकरोत् समयञ्चेदमब्रवीत्। न चार्द्रेण च शुष्क्रेण न रात्रौ नापि चाहनि। वधिष्याम्यसुरश्रेष्ठ! सखे! सत्येन ते शपे। एवं म कृत्वा समयं दृष्ट्वा नीहारमोश्वरः। चिच्छेदास्य शिरो राजन्नपां फेनेन वासवः। तच्छिरो नमुचेश्छिन्नं पृष्ठतः शक्रमन्वियात्। भो मित्र हन! पापेति ब्रुवाणं शक्रमन्तिकात्” नमुचिशत्र नमुचिहन् प्रभृतयोऽत्र।

नमुर = पु० नम–बा० उर। नमुचौ असुरे “भूयान्निन्द्रो नमुरात् भूयानिन्द्रासि मृत्युभ्यः” अथ० १३। ४। ४६

नमेरु = पु० नम–बा० एरु। १ सुरपुन्नागे विश्वः २ रुद्राक्षे इति केचित् “गणा नमेरुप्रसवावतंसाः” “प्रान्तेषु संसक्तनमेरुशास्वम्” कुमा० “विशश्रमुर्नमेरूणां छायास्वध्यास्य सैनिकाः” रघुः।

नमोगुरु = पु० नमः नमस्कारविषये गुरुः। ब्राह्मणे शब्दर०। ब्राह्मणानां सर्ववर्णनमस्यतया गुरुत्वात् तथात्वम्।

नमोवाक = पु० वच–भावे घञ् ६ त० नमस्काराय उच्यते कर्मणि घञ् वा। २ नमोवचने नमस्कारार्थं कथनीये त्रि० “इदं कबिभ्यो पूर्वेभ्यो नमोवाकं प्रशास्महे” उत्तरच०। “नमोवाके प्रस्थिते अध्वरे” ऋ० ८। ३५। २३ “नमस्काराय प्रोच्यते स नमोवाकः तस्मिन्नध्वरे” भा०

नमोवृध् = पु० वृध–भावे सम्प० क्विप नमसोऽन्नस्य वृत् वर्द्धनं यस्मात् ५ त०। यज्ञे “अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः” गीतायां यज्ञस्यान्नहेत्वस्योक्तेस्तस्य तथात्वम्। “आनो यज्ञं नमोदृधम्” ऋ० ३। ४३। ३ “नमोवृधस् नमसोऽन्नस्य वर्द्धकं यज्ञम्”

नम्ब = गतौ भ्वा० पर० सक० सेट्। नम्यति अनम्बीत् ननम्ब अणीपदेशत्वात् सति निमित्ते न णत्वम्। प्रनम्यति।

नम्य = त्रि० नम–पवर्गान्तत्वात् कर्मणि यत् न ण्यत्। नमनीये

नम्र = त्रि० नम–र। १ नते निम्रताप्राप्ते २ विनयान्विते च शब्दार्थचि०। “स्तोकनम्रा स्तनाभ्याम्” मेघ०। “अभूच्च नम्रः प्रणिपातशिद्धया” रघुः।

नम्रक = पु० नम्र इव कायति कै–क। १ वेतसवृक्षे भावप्र०। स्वार्थे क। २ नमनकर्त्तरि त्रि० स्त्रियां कापि अत इत्त्वम्

नय = गतौ भ्वा० आत्म० सक० सेट्। नयते अनयिष्ट। नेये

नय = पु० नी–भावे अच्। १ नीतौ अमरः। “विषमोऽपि विगाह्यते नयः कृततीर्थः पयसामिवाशयः” किरा०। २ द्यूतभेदे मेदि०। ३ नैगमादौ हेमच०। नयति संसारपारं भक्तम् नी–कर्त्तरि अच्। ४ विष्णौ “रामोविरामोविरजा मार्गो नेयो नयोऽनयः” विष्णुसं०। नैगमादिश्च सिद्धान्तादिः “एवं न्यायनयज्ञैस्तृतीयमुक्तं निमित्तहेतुत्वम्” “तत्रापि परमाणौ स्यात् पाको वैशेषिचे नये” भाषा०। ५ न्याय्ये ६ नेतरि च त्रि० शब्दच० ततः आकर्षा० कुशलाद्यर्थे वुन्। नयक नीतिकुशले त्रि०।

नयन = न० नीयते बुद्धिवृत्तिः स्वसंयुक्तविषयान् अनेन नी–करणे ल्युट्। १ नेत्रे अमरः। तस्य बुद्धिवृत्तेः स्वसंयोगिविषयप्रापकत्वात् तथात्वम्। “सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः” मेघ०। “अथ नयनससुत्थं ज्योतिरत्रेरिव द्यौः” रघुः अस्य स्वाङ्गत्वेऽपि बह्वच्कत्वात् उपसर्जनत्वे स्त्रियां न ङीष्। “दयिता दयिताननाम्बुजं दरमीलन्नयना निरीक्षते” रसगङ्गा० भावे ल्युत्। २ प्रापणे ३ यापने च “नयनं पारिजातस्य द्वारकां मम रोचते” हरिवं० १२९ “कालस्य नयने युक्ताः सोमपत्न्यः शुचिव्रताः” भा० आ० ६६ अ० “कालस्य नयने युक्ता यमस्य पुरुषाश्च ये” भा० स० ८ अ०।

नयनाभिघात = पु० ६ त०। सुश्रुतोक्ते नयनाभिहननरूपे रोगभेदे यथोक्तम् “अथातो नयनाभिधातप्रतिषेधं व्याख्यास्यामः। अभ्याहते तु नयने बहुधा नराणां संरम्भरागतुमुलासु रुजासु धीमान्। नस्यप्रलेपपरिषेचनतर्पणाद्यमुक्तं पुनः क्षतजपित्तजशूलपथ्यम्। दृष्टिप्रसादजननं विधिमाशु कुर्य्यात्स्निग्धैर्हिमैश्च मधुरैश्च तथा प्रयोगैः। स्वेदाग्निधूमभयशोकरुजाभिघातैरभ्याहतावपि तथैव भिषक् चिकित्सेत्। सद्योहते नयन एष विधिस्तदूर्द्ध्वं स्यन्देरितो भवति दोषमवेक्ष्य कार्यः। अभ्याहतं नयनमीषदथास्य वाष्पसंस्वेदितं भवति तन्नरुजं क्षणेन। साध्यं क्षतं पटलमेकमुभे तु कृच्छ्रे त्रीणि क्षतानि पटलानि विवर्जयेत्तु। स्यात्पिच्चिटञ्च नयनं ह्यति चावसन्नं स्रस्तं च्युतञ्च हतदृक्च भवेत्तु याप्यम्। विस्तीर्णदृष्टितनुरागमसत्प्रदर्शि साध्यं यथास्थितमनाबिलदर्शनञ्च। प्राणोपरोधवननक्षवकण्ठरोधैरुन्नम्यमाशु नयनं यदतिप्रविष्टम्। नेत्रे विलम्बिनि विधिर्विहितः पुरस्तादुच्छिंहनं शिरसि वार्य्यवसेचनञ्च। षट्सप्ततिर्नयनजा य इमे प्रदिष्टा रोगा भवन्त्यमहतां महताञ्च तेभ्यः। स्तन्यप्रकोपकफमारुतपित्तरक्तैर्बालाक्षिवर्त्मभव एव कुकूणकोऽन्यः। मृद्नाति नेत्रमतिकण्डुमथाक्षिकूटनासाललाटमपि तेन शिशुः स नित्यम्। सूर्यप्रभां न सहते स्रवति प्रवृद्धं तस्याहरेद्रुधिरमाशु विनिर्लिखेच्च। क्षौद्रायुतैश्च कटुभिः प्रतिसारयेत्तु नातुः शिशोरभिहितञ्च विधिं विदध्यात्”।

नयनाभिराम = पु० नयनमभिरमयति अभि + रम–णिचण् नयनयोरभिरामो यस्मात् वा। १ चन्द्रे “आयुः क्षयञ्च कुरुते नयनाभिरामः” वैवाहिकलग्नफलोक्तौ ज्योतिर्वसिष्ठः। २ नेत्रानुरागकारके प्रियमात्रे त्रि०।

नयनी = स्त्री नी–करणे ल्युट् ङीप्। नेत्रकनिकायां शब्दचि०

नयनोत्सव = पु० नयनयोरुत्सवो यस्मात्। १ दीपे शब्दर०। तस्यालोकेन हि नेत्रस्य दर्शनयोग्यत्वम् “गृह्णाति चक्षुःसम्बन्धादालोकोद्भूतरूपयोः” भाषा० आलोकसम्बन्धेन नयनस्य विषयग्राहित्वोक्तेः। २ नेत्रोत्सवकारिमात्रे त्रि०।

नयनोपान्त = पु० ६ त०। अपाङ्गे राजनि०।

नयनौषध = न० ६ त०। पुष्पकासीसे हेमच०।

नयपीठी = स्त्री नयस्य पीठीव। (छक्) द्यूताङ्गे अष्टकोष्ठे त्रिका०।

नयवर्त्म = ६ त०। नीतेर्मार्गे षाड्गुण्यप्रयोगे षट् गुणाश्च “सन्धिविग्रहयानानि संस्थाप्यथ दमस्तथा। द्वैधीभावश्च विज्ञेयाः षड्गुणा नीतिवेदिनाम्” नीतिसा०।

नयविशारद = त्रि० ७ त०। नीतिशास्त्रानुसारेण षाड्गुण्यप्रयोगाभिज्ञे “षाड्गुण्यविधितत्त्वज्ञो देशभाषाविशारदः। सान्धिविग्रहिकः कार्य्यो राज्ञा नयविशारदः” मात्स्ये ८९ अ०।

नर = पुंस्त्री० नॄ–नये अच्। १ मनुष्ये जातित्वात् स्त्रियां नारीत्येव “पुत्रे यशसि तोये च नराणां पुण्यलक्षणम्”। “नराणाञ्च नराधिपः” गीता “नरतीति नरः प्रोक्तः परमात्मा सनातनः” व्यासोक्तेः २ परमात्मनि “नराज्जातानि तत्त्वानि नाराणीति विदुर्बुधाः” वेदमन्त्रम् “आपो नारा इति प्रोक्ता आपो वै नरसूनवः” मनुः। “जह्नुर्नारायणो नरः” विष्णुसं०। ३ पुंसि राजनि०। ४ देवभेदे “ततस्तदमृतं देवो विष्णुरादाय वीर्य्यवान्। जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः। एवं सुतुमुले युद्धे वर्त्तमाने महाभये। नरनारायणो देवौ समाजग्मतुराहवम्” भा० आ० १९ अ० स्वारोहिहारके ५ अश्वे निघण्ठुः ६ नरदेवस्यावतारे अर्जुने मिदि०।

“नरनारायणौ यौ तौ पुराणावृषिसत्तमौ। ताविमावनुजानीहि हृषीकेशधनञ्जयौ। विख्यातौ त्रिषु लोकेषु नरनारायणावृषी। कार्य्याथमवतर्णौ तौ पृथ्वीं पुण्यप्रतिश्रयाम्। यन्न शक्यं सुरैर्द्रष्टुमृषिभिर्वा महात्मभिः। तदाश्रमपदं पुण्यं वदरीनाम विश्रुतम्। स निवासोऽभवद्विप्र! बिष्णोर्जिष्णोस्तथैव च। यतः प्रबवृते गङ्गा सिद्धचारणसेविता। तौ मन्नियोगाद्ब्रह्मर्षे! क्षितौ जातौ महाद्युती। भूमेर्भारावतरणं महावीर्य्यौ करिष्यतः” भा० व० ४७ अ० “तेषां मनश्च तेजश्चाप्याददाना विवौजसा। पूर्वदेवौ व्यतिक्रान्तौ नरनारायणावृषी। वृहस्पतिस्तु पप्रच्छ ब्रह्माणं काविमाविति। भवन्तं नीपतिष्ठेते तौ नः शंस पितामह!” ब्रह्मोवाच “यावेतौ पृथिवीं द्याञ्च भासयन्तौ तपस्विनौ। ज्वलन्वौ रोचमानौ च व्याप्यातीतौ महाबलौ। नरनारायणावेतौ लोकाल्लोकं समास्थितौ। ऊर्जितौ स्वेन तपसा महासत्व पराक्रमौ। एतौ हि कर्मणा लोकं नन्दयामासतुर्ध्रुवम्। द्विधा भूतौ महाप्राज्ञौ विद्धि ब्रह्मन् परन्तपौ। असुराणां विनाशाय देवगन्धर्वपूजितौ” वैशम्पायन उवाच “जगाम शक्रस्तच्छ्रुत्वा यत्र तौ तेपतुस्तपः। सार्द्धं देवगणैः सर्वैर्वृहस्पतिपुरोगमैः। तदा देवासुरे युद्धे भये जाते दिवौकसाम्। अयाचत नहात्मानौ नरनारायणौ वरम्। तावब्रूतां वृणीष्वेति तदा भरतसत्तम!। अथ तावब्रवीच्छ्रक्रः सह्यं नः क्रियतामिति। ततस्तौ शक्रमब्रूतां करिष्यावो यदिच्छसि। ताभ्याञ्च सहितः शक्रो विजिग्ये दैत्यदानबान्। नर इन्द्रस्य संग्रामे हत्वा शत्रून् परन्तपः। पौलोमान् कालकञ्जांश्च सहस्राणि शतानि च। एवमेतौ महावीर्य्यौ तौ पश्यत समागतौ। वासुदेवार्जुनौ वीरौ समवेतौ महारथौ। नरनारायणौ देवौ पूर्वदेवाविति श्रुतिः। अजेयौ मानुषे लोके सेन्द्रैरपि सुरासुरैः। एष नारायणः कृष्णः फाल्गुनश्च नरः स्मृतः। नारायणो नरश्चैव सत्वमेकं द्विधा कृतम्। एतौ हि कर्मणा लोकानश्नुतोह्यऽक्षयान् ध्रुवान्” भा० उ० ४८ अ०। ७ धान्यकर्पूरतृणे मेदि०। ८ शङ्कौ छायाव्यवहारोपयोगिकीलकभेदे “छायाहृते तु नरदीपतलान्तरघ्ने शङ्कौ भवेन्नरयुते खलु दीपकोच्च्यम्” लीला०। छायाव्यवहारशब्दे दृश्यम् लीला० उक्ते रत्नमिश्रव्यवहारे ९ रत्नमिश्रणकारिनरसङ्ख्यायाञ्च “नरघ्नदानोनितरत्नशेषैरिष्टे हृते स्युः खलु मौल्यसङ्ख्याः” लीला०। नरत्वस्य दुर्लभता विष्णुपु० उक्ता नरकभोगोत्तरं तत्तद्योनिभ्रमणानन्तरं सप्रपञ्चं पुराणस० दर्शिता यथा “पापेन हि ध्रुवं यान्ति नरकेषु नराः स्वयम्। यः करोति नरः पापं तस्यात्मा ध्रुवमप्रियः। पापस्य हि फलं दुःखं तद्भोक्तव्यमिहात्मना। कर्थं ते पापनिरता नरा रात्रिषु शेरते। मरणान्तरिते येषां नरके तीव्रयातनाः। एवं क्लिष्टा विशुद्धाश्च सावशेषेण कर्मणा। ततः क्षितिं समासाद्य पुनर्जायन्ति देहिनः। स्थावरा विविधाकारास्तृणगुल्मादिभेदतः। तत्रानुभूय दुः- खानि जायन्ते कीटयोनिषु। निष्क्रान्ताः कीटयोनिभ्यस्ततो जायन्ति पक्षिणः। संक्षिप्ता, पक्षिभावेन भवन्ति तृणजातिषु। मार्गदुःखमतिक्रम्य जायन्ते पशुयोनिषु। क्रमाद् गोयोनिमासाद्य पुनर्जायन्ति मानुषाः। एवं योनिषु सर्वासु परिभ्रम्य क्रमेण तु। कालान्तरवशायान्ति मानुष्यमतिदुर्लभम्। व्युत्क्रमेणापि मानुष्यं प्राप्यते पुण्यगौरवात्। विचित्रा गतयः प्रोक्ताः कर्मणां गुरुलाघवात्। मानुष्यं यः समासाद्य स्वर्गमोक्षप्रसाधकम्। द्वयोर्न साधयत्येकं स मृतस्तप्यते चिरम्। देवासुराणां सर्वेषां मानुष्यमतिदुर्लभम्। तत् संप्राप्य तथा कुर्य्यात् न गच्छेन्नरकं यथा। स्वर्गापवर्गलाभाय यदि नास्ति समुद्यमः। सर्वस्य मूलं मानुष्यं तद्यत्नादनुपालय। धर्ममूलेन मानुष्यं लब्ध्वा सर्वार्थसाधकम्। मानुषत्वे च विप्रत्वं यदि प्राप्नोति दुर्लभम्। न करोत्यात्मनः श्रेयः कोऽन्योऽस्मादस्त्यचेतनः”। “नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्लभा” सा० द० अग्निपु०

नरक = पु० नरति नयति पापिलोकं पापानुरूपभोगायात्र नॄ–नये आधारे बा० वुन्। पापभोगस्थाने तस्य तथात्वञ्च विस्तरेण विष्णुपु० शिवधर्मोत्तरे च वर्णितं तदेव पुराणस० प्रदर्शितं तच्च कर्मविपाकशब्दे १७४५ पृष्ठादौ दर्शितम्। पापभेदेन नरकभेदप्राप्तिश्च पाद्मे उत्त० ख० ४८ अ० यथा “कूटसाक्षी तथाऽसम्यक् पक्षपातेन यो वदेत्। यश्चान्यदनृतं वक्ति स नरो याति रौरवम्। भ्रूणहा पुरहर्त्ता च गोघ्नश्च मुनिसत्तमः!। यान्ति ते नरके रोधे यश्चोच्छ्वासनिरोधकः। सुरापो ब्रह्महा हर्त्ता सुवर्णस्य च शूकरे। प्रयाति नरके यश्च तैः संसर्गमुपैति वै। राजन्य वैश्यहा। तात! तथैव गुरुतल्पगः। तप्तकुम्भे स्वसृगामी हन्ति राजमटांश्च यः। माध्वीविक्रयकृद्बध्यपालः केशरिविक्रयी। तप्तलौहे तु पच्यन्ते यश्च भक्तं परित्यजेत्”। (केशरी अश्वः) “स्नुषां सुताञ्चापि गत्वा महाज्वाले निपात्यते। अवमन्ता गुरूणां यो यश्चाक्रोष्टा नराधमः। वेददूषयिता यश्च वेदविक्रायकश्च यः। अगम्यागामी यश्च स्यात्ते यान्त्यसिवनं द्विज। चौरो विमोहे पतति मर्य्यादादूषकस्तथा। देवद्विजपितॄन् द्वेष्टा रत्नदूषयिता च यः। स याति कृमिमक्षे वै कृमीशे च दुरिष्टकृत्। पितृदेवातिथीन् यस्तु पर्य्यश्नाति नराधमः। लालाभक्षे स यात्युग्रे शरकर्त्ता च रोधके। (पर्य्यश्नाति परित्यज्य आदौ भुङ्क्ते) “करोति कर्णिनो यस्तु यस्तु खङ्गादिकृन्नरः। प्रयान्ति ते विशसने नरके भृशदारुणे। असत्प्रतिग्रहीतारो नरके यान्त्यधोमुखे। अयाज्ययाजकस्तत्र तथा नक्षत्रसूचकः। वेगी पूयवहञ्चैकोको याति मिष्टान्नभुङ्नरः। (वेगी साहसकारी) (पुत्रादीन् वर्जयित्वा एक एव मिष्टान्नभुक) “लाक्षामांस रसानाञ्च तिलानां लवणस्य च। विक्रेता व्राह्मणो याति तमेव नरकं द्विज!। मार्जारकुक्कुटच्छागान् श्ववराहविहङ्गमान्। पालयन्नरकं याति तमेव द्विजसत्तम!। रङ्गोएजीवो कैवर्त्तः कुण्डाशी गरदस्तथा। सूची भाहिषिकश्चैव पर्वकारी च यो द्विजः”। (पत्यौ जीवति जाराज्जातः कुण्डः तदन्नभोजी कुण्डाशी माहिषिको महिषोपजीवी “यद्वा महिषीत्युच्यते भार्य्या भगेनीपार्जितं धनम्। उपजीवति यस्तस्याः स वै माहिषिकः स्मृतः” इति स्मृतिः। पर्वकारी धनादिलोभेन पर्वसु अमावस्यादिक्रियाप्रवर्त्तकः) “अगारदाही मित्रघ्नः शाकुनिर्ग्रामयाजकः। रुधिरार्द्रे पतत्येते सोभं विक्रीणते च ये। मधुहा ग्रामहन्ता च याति वैतरणीं नरः। रेतःपानादिकर्त्तारो मर्य्यादाभेदिनश्च ये। ते कृष्णे यान्त्यशौचाश्च कुहकाजीविनश्च ये। असिपत्रवणं याति वनच्छेदी वृथैव यः। औरभ्रिको मृगव्याधो वह्निज्वाले पतन्ति वै। यान्त्येते द्विज! तत्रैव यश्चापाकेषु वह्निदः। व्रतेषु लोपको यश्च स्वाश्रमाद्विच्युतश्च थः। सन्दंशयातनामध्ये पततस्तावुभावपि। दिवास्वप्नुषु स्कन्दन्ति ये नरा ब्रह्मचारिणः। पुत्रैरध्यापिता ये च ते प्रतन्ति श्वभोजने। एते चान्ये च नरकाः शतशोऽथ सहस्रशः। येषु दुष्कृतकर्माणः पच्यन्ते यातनागताः। यथैव पापान्येतानि तथान्यानि सहस्रशः। मुज्यन्ते यानि पुरुषैर्नरकान्तरगोचरैः। वर्णाश्रमविरुद्धञ्च कर्म कुर्वन्ति ये नराः। कर्मणा मनसा बाचा निरयेषु पतन्ति ते। अधःशिरोभिर्दृश्यन्ते नारकैर्दिवि देवताः। देवाश्चाधोमुखान् सर्वानधः पश्यन्ति नारकान्। स्थावराः कृमयोऽब्जाश्च पक्षिणः पशवो नराः। धार्मिकास्त्रिदशास्तद्वन्मोक्षिणश्च यथाक्रमम्। सहस्रभागप्रथमा द्वितीयानुक्रमास्तथा। सर्वे ह्येते महाभाग! यावन्मुक्तिसमाश्रयाः। यावन्तो जन्तवः स्वर्गे तावन्तो नरकौकसः। पापकृद्याति नरकं प्रायश्चित्तपराङ्मुखः” इति विष्णु पु० द्वितीयांशे ६ अ०। तत्रैव “कथयामि विचित्राणां कर्मणां विविधा गतीः। ताः शृणुष्व महाराज! याः श्रुत्वा मोक्षमाप्नुयात्। परवित्तं परापत्यं कलत्रं पारकञ्च यः। हरते बुद्धिमोहेन सोऽन्ते मृत्युवशङ्गतः। कालपाशेन सम्बद्धो यसदूतैर्महाबलैः। तामिस्रे पात्यते तावत् यावत् वर्षसहस्रकम्। तत्र ताडनमुद्वृत्ताः कुर्वन्ति यमकिङ्कराः। पापभोगेन सम्मुक्तस्ततो योनिन्तु शौकरीम्। तत्र भुक्त्वा महादुःखं मानुषत्वं गमिष्यति। रोगादिचिह्नितं तत्र दुर्यशोज्ञापकं स्वकम्। भूतद्रोहं विधायैवं केवलं स्वकुटुम्बकम्। पुष्णाति पापनिरतः सोऽन्धतामिस्रके पतेत्। ये नरा इह जन्तूनां बधं कुर्वन्तिवै मृषा। ते रौरवे निपात्यन्ते खाद्यन्ते रुरुभिर्यतः। यः स्वोदरार्थं भूतानां बधमाचरति स्फुटम्। महारौरवसंज्ञे तु पात्यते स यमाज्ञया। यो वै निजन्तु जनकं ब्राह्मणं द्वेष्टि पापकृत्। कालसूत्रे महादुष्टे योजबायतविस्तृते। यावन्ति पशुरोमाणि गवां द्वेषं करोति यः। तावद्वर्षसहस्राणि पच्यते यमकिङ्करैः। यो भूमौ भूपतिर्भूत्वा दण्डायोग्यन्तु दण्डयेत्। करोति ब्राह्मणस्यापि देहदण्डं विलोलुपः। स शूकरमुखैर्दुष्टैः पीड्यते यमकिङ्करैः। पश्चाद्दुष्टासु योनीषु जायते पापभुक्तये। व्राह्मणानां गवां ये तु द्रव्यं वित्तं तथाल्पकम्। वृत्तिं वा गृह्लते मोहाल्लुम्पन्ति स्ववलान्नराः। ते परत्रान्धकूपे च पात्यन्ते च महार्द्दिताः। योऽर्थं स्वयमुपाहृत्य मधुकञ्चात्ति कीलुपः। न देवाय न सुहृदे ददाति रसनातुरः। स पतत्येव नरके कृमिभोजनसंज्ञके। अनापदि नरो यस्तु हिरण्यादीनपाहरेत्। ब्रह्मस्वं बा महादुष्टः सन्दंशे नरके पचेत्। यः स्वदेहं प्रपुष्णाति नान्यं जानाति मूढधीः। मनसा कल्पितं द्रव्यं विदुषे यो ददाति न। स पुमान्नरकं याति यावदिन्द्राश्चतुर्दश। पश्चाद्दुष्टासु योनीषु जायते बर्णसङ्करः। दानानि बाडवे दत्त्वा पुनः शुद्धो भविष्यति। वचोदत्तं मनोदत्तमिति साहं वदेत् यदि। कल्पन्ते पितरस्तस्य नरकाय समुत्सुकाः। वचोदत्तं मनोदत्तं दत्तं पाणिकुशोदकम्। एतद्दत्तमदत्तं चेत् जिह्वामुत्पाटयेद् यमः। स यात्यते तैलतप्ते कुम्भीपाकेऽतिदारुणे। ये नगम्यां स्त्रियं मोहाद्योषिद्भावाच्च कामयेत्। तं तया किङ्कराः शूर्म्याः परिबद्धञ्च कुर्वते। ये बलाद्वेदमर्य्यादां लुम्पन्ति स्वबलोद्धताः। ते वैतरण्यां पतिता मांसशोणितभक्षकाः। वृषलीं यः स्त्रियं कृत्वा तया गार्हस्थ्यमाचरेत्। पूयोदे निप- तत्येव महादुःखसमन्वितः। ये दम्भानाश्रयन्ते वै धूर्त्ता लोकस्य वञ्चने। वैशसे नरके मूढाः पतन्ति यमताडिताः। ये सवर्णां स्त्रियं मूढाः पाययन्ति स्वरेतसम्। रेतःकुल्यासु ते यात्या रेतःपानेषु तत्पराः। ये चौरा वह्निदा दुष्टा गरदा ग्रामलुण्ठकाः। सारमेयादने ते वै यात्यन्ते पातकान्विताः। कूटसाक्ष्यं वदत्यद्धा पुरुषः पापसम्भृतः। परकीयन्तु द्रव्यं यो हरति प्रसभं बली। सोऽवीचिनरके पापे ह्यवाग्वक्त्रः पतत्यधः। तत्र दुःखं महद्भुक्त्वा पापिष्ठां योनिमाव्रजेत्। यो नरो रसनास्वादात् सुरां पिबति मूढधीः। तम्पाययन्ति लोहस्य रसं धर्मस्य किङ्कराः। यो गुरूनवमन्येत स्वविद्याचारदर्पितः। स मृतः पात्यते क्षार संज्ञकेऽधोमुखः पुमान्। विश्वासघातं कुर्वन्ति ये नरा धर्मनिष्कृताः। शूलप्रोते तु नरके पात्यन्ते बहुयातनाः। यैर्न श्रुता रामकथा न परोपकृतिः कृता। तेषां सर्वाणि दुःखानि भवन्ति नरकान्तरे। अग्रे यस्य सुखं भूयस्तस्य स्वर्ग इतीर्य्यते। ये दुःखिनो रोगयुता नरकादागतास्तु ते” २ असुरभेदे पु० स च वराहेण रजस्वलायां पृथ्व्यामुत्पादितः सएव च वसिष्ठशापेन द्वापरयुगे स्वपित्रंशेनैव कृष्णेन निसूदितः। कालिकापुराणे ३६ अध्यायावधि ४१ अध्याये तत्कथा विस्तरेण दृश्या। कालिकापुराणशब्दे ०२०१५ पृ० संक्षेपतस्तत्कथा दर्शिता।

नरककुण्ड = न० यातनास्थानभेदे “यन उवाच नरकाणाञ्च कुण्डानि सन्ति नानाविधानि च। नानापुराणभेदेन नामभेदानि तानि च। भयङ्कराणि घोराणि हे वत्स! कुत्सितानि च। षडशीतिश्च कुण्डानि संयमन्याञ्च सन्ति च। निबोध तेषां नामानि प्रसिद्धानि श्रुतौ स्मृतौ” इति ब्रह्मवैवर्त्ते प्रकृतिख० २७। २८ अ०।नरकभेदकुण्डानि पापभेदात् तत्र गामिनः१ वह्निकुण्डम्–कटुबाचा बान्धबोत्पीड्कः।२ तप्तकुण्डम्–ब्राह्मणातिथिभोजनाप्रदायी।३ क्षारकुण्डम्–निषिद्धदिने वस्त्रे क्षारसंयोजकः।४ विट्कुण्डम्–ब्रह्मवृत्त्यपहारकः।५ मूत्रकण्डम्–परतडागं स्वनित्वोत्सर्जकः।६ श्लेष्मकुण्डम्–एकाकी मिष्टभोजी।७ गरकुण्डम्–पितृमातृगुरुभार्य्याद्यपोषकः।८ दूषिकाकुण्डम्–अतिथिं दृष्ट्वा वक्रचक्षुःकारी।९ वसाकुण्डम्–विप्राय प्रतिश्रुत्य तद्द्रव्यमन्यस्मै दाता।१० शुक्रकुण्डम्–परस्त्रीगामी ना परपुंगामिनी च स्त्री।११ असृक्कुण्डम्–गुर्वादिताडकस्तद्रक्तस्रावकश्च।१२ अश्रुकुण्डम्–हरिसङ्गीतैरुदद्गायद्गद्गदभक्तोपहासकृत्।१३ गात्रमलकुण्डम्–शश्वदशुद्धचित्तः खलताकारी च।१४ कर्णविट्कुण्डम्–बधिरोपहासकृत्।१५ मज्जकुण्डम्–लोभात् स्वभोजनार्थं जीवहन्ता।१६ मांसकुण्डम्–अर्थलोभात् कन्याविक्रेता।१७ नखकुण्डम्–श्राद्धोपबासादिषु संयमत्यागी।१८ लोमकुण्डम्–श्राद्धोपबासादिषु संयमत्यागी।१९ केशकुण्डम्–सकेशपार्थिवशिवलिङ्गार्चकः।२० अस्थिकुण्डम्–विष्णुपदे पितृपिण्डादायो।२१ ताम्रकुण्डम्–गुर्विणीगामी।२२ लौहकुण्डम्–ऋतुस्नाताऽवीरयोरन्नभोजी।२३ तीक्ष्णकण्टककुण्डम्–कटुवाचा स्वामितर्जिका स्त्री।२४ विषकुण्डम्–विषेण जीवहन्ता।२५ घर्मकुण्डम्–सघर्भहस्तेन देवद्रव्यस्पर्शी।२६ तप्तसुराकुण्डम्–शूद्रानुज्ञातः शूद्रान्नभोजी।२७ प्रतप्ततैलकुण्डम्–दण्डेन वृषताडकः।२८ कुन्तकुण्डम्–कुन्तलौहवडिशैर्जीवहन्ता।२९ कृमिकुण्डम्–वृथामांसमत्स्यभुग्विप्रो हरेरनैवेद्यभुक् च।३० पूयकुण्डम्–शूद्रयाजी तस्य श्राद्धभुक् तच्छवदाही च।३१ सर्पकुण्डम्–श्रीकृष्णपदचिह्नमस्तक्स्य सर्पस्य हन्ता।३२ ग्रशककुण्डम्–विधिं हित्वा क्षुद्रजन्तुहन्ता।३३ दंशकुण्डम्–विधिं हित्वा जीवहन्ता।३४ गरलकुण्डम्–मक्षिकां हत्वा मधुग्राही।३५ वज्रदंष्ट्रकुण्डम्–अदण्ड्यविप्रयोर्दण्डकृत् नृपः।३६ वृश्चिककुण्डम्–अर्थलोभात् प्रजादण्डकृत् नृपः।३७ शरकुण्डम्–शस्त्रधारी धावकः सन्ध्याहरिभक्तिहीनश्च ब्राह्मणः।३८ शूलकुण्डम्–शस्त्रधारी धावकः सन्ध्याहरिभक्तिहीनश्च ब्राह्मणः।३९ खङ्गकुण्डम्–शस्त्रधारी धावकः सन्ध्याहरिभक्तिहीनश्च ब्राह्मणः।४० गोलकुण्डम्–अल्पदोषेण कारायां प्रजाबन्धनकृत् नृपा।४१ नक्रकुण्डम्–जलादुत्थितनक्रादिहन्ता।४२ काककुण्डम्–कामेन परस्त्रीवक्षःश्रोण्यास्यद्रष्टा।४३ सञ्चालकुण्डम्–स्वर्णचौरः।४४ वाजकुण्डम्–ताम्रलौहचौरः।४५ वज्रकुण्डम्–भूदेवदेवद्रव्ययोश्चौरः।४६ तप्तपाषाणकुण्डम्–देवद्विजयोरौप्यगोवस्त्राणां चौरः।४७ तीक्ष्णपाषाणकुण्डम्–देवद्विजयोःपित्तलकांस्यपात्रचौरः।४८ लालाकुण्डम्–वेश्यान्नभुक् तद्वृत्तिजीवी च।४९ मसीकुण्डम्–म्लेच्छसेवी मसीजीवी च व्राह्मणः।५० चूर्णकुण्डम्–देवद्विजयोः शस्यताम्बूलासनचौरः।५१ चक्रकुण्डम्–विप्रद्रव्यं हृत्वा चक्रकारो।५२ वक्रकुण्डम्–विप्रबान्धवयोर्वक्रताचारी।५३ कूर्मकुण्डम्–हरिशयने कूर्ममांसभुक् ब्राह्मणः।५४ ज्वालाकुण्डम्–देवद्विजयोर्घृततैलादिहृत्।५५ भस्मकुण्डम्–देवद्विजयोर्घृततैलादिहृत्।५६ दण्डकुण्डम्–देवद्विजयोर्द्धात्रीगन्धतैलद्रव्याणामपहर्त्ता५७ तप्तशूर्म्मीकुण्डम्–बलखलत्वादिना परभूमिहरः।५८ असिपत्रकुण्डम्–अर्थलोभात् स्वड्गेन नरथाती।५९ क्षुरधारकुण्डम्–ग्रामनगरादिदाहकारी।६० सूचीमुखकुण्डम्–परकर्णे मुखं दत्त्वा परनिन्दकः परदोषोद्द्वोषी वेदब्राह्मणनिन्दकश्च।६१ गोधामुखकुण्डम्–गृहं भित्त्वा वस्तुगोच्छागमेषचौरः।६२ नक्रमुखकुण्डम्–सामान्यद्रव्यचौरः।६३ गजदंशकुण्डम्–गजतुरगनरचौरः।६४ गोमुखकुण्डम्–गोर्जलपानवारकः।कुम्भीपाककुण्डम्–गोस्त्रीभिक्षुभ्रूणब्रह्महाऽगम्यागामी दीक्षासन्ध्याहीनस्तीर्थप्रतिग्राही ग्रामयाजी देवलः शूद्रसूपकारी वृषलीपतिश्च।६६ कालसूत्रकुण्डम्–नेश्यान्नभुक् तत्संसर्गी च।६७ अवटोदकुण्डम्–कुलटादिषड्वेश्यागामी द्विजः।६८ अरुन्तुदकुण्डम्–चन्द्रसूर्यग्रहणे निषिद्धकाले भोजी।६९ पांशुभोजकुण्डम्–एकस्मै वाक्प्रदत्तकन्याया दोषं विना अन्यस्मै दाता।७० पाशवेष्टकुण्डम्–दत्तापहारी।७१ शूलप्रोतकुण्डम्–अभक्त्या शिवलिङ्गपूजकः।७२ प्रकम्पनकुण्डम्–विप्रदण्डकृत् तत्कम्पकृद्भयदायी च।७३ उल्कामुखकुण्डम्–सकोपवदना स्वामिनि कतुवादिनी।७४ अकूपकुण्डम्–शूद्रभोग्या व्राह्मणी।७५ वेदनकुण्डम्–पञ्चषट्पुङ्गमनात् वेश्या।७६ दण्डताडनकुण्डम्–सप्ताष्टपुंगमनात् रण्डा।७७ जालबद्धकुण्डम्–अष्टाधिकपुंगमनात् महावेश्या।७८ देहचूर्णकुण्डम्–पुंद्वयगमनात् कुलटा।७९ दलमकुण्डम्–चतुःपुंगमनात् स्वैरिणी वृषली च।८० शोषणकुण्डम्–त्रिपुंगमनात् धृष्टा पुंश्चली।८१ कषकुण्डम्–सवर्णपरटारगामी।८२ सूर्पकुण्डम्–व्राह्मणीगमनकारको क्षत्रियोवैश्यश्च।८३ ज्वालामुखकुण्डम्–करे तुलसीगङ्गाजलदेवशिलाश्च धृत्वा प्रतिज्ञाकृत्तदपालको मिथ्याशषथी मित्रद्रोही विश्वासघाती मिथ्यासाक्ष्यदश्च।८४ जिक्ष्मंकुण्डम्–नित्यक्रियाहीनो देवयजनेऽनास्थिकोमन्दोपहासी च।८५ धूमान्धकुण्डम्–देवविप्रयोर्धनहारी।८६ नागवेष्टनकुण्डम्–वैद्यदैवज्ञवृत्तिहारी लाक्षालोहव्यापारी रसादिविक्रयी च ब्राह्मणः”।

नरकजित् = पु० नरकम् असुरभेदं जयति स्म जि–भूते क्विप् ६ त०। वासुदेवे श्रीकृष्णे “नैरृतो नरको नाम ब्रह्मणो वरदर्पितः। अदित्याः कुण्डले मोहाज्जहार दितिनन्दनः। देवानां विप्रिये नित्यमृषीणाञ्च स वर्त्तते। तव चैवान्तरप्रेक्षी जहि तं षापपूरुषम्। अयं त्वां गरुडस्तत्र प्रापयिष्यति कामगः। कामवीर्य्योऽतितेजस्वी वैनतेयोऽन्वरीक्षगः। अबध्यः सर्वभूतानां भौमः स नरकोऽसुरः। निसूदयित्वा तं पापं क्षिप्रमागन्तुमर्हसि। इत्युक्तः पुण्डरीकाक्षो देवराजेन केशवः। प्रतिजज्ञे महाबाहुर्नरकस्य निवर्हणम्” इत्युपक्रमे तयोर्युद्धवर्णनानन्तरम् “मुहूर्त्तं योधयामास नरकं मधुसूदनः। अथोग्रचक्रश्चक्रेख प्रदीप्तेनाकरोद्द्विधा। चक्रद्विधाकृतं तस्य शरीरमपतद्भुवि। विभक्तं क्रकचेनेव गिरेः शृङ्गं द्विधाकृतम्। कृष्णमासाद्य देवेशं जगामास्तमिवांशुमान्। चक्रोत्क्षिप्तनिकृत्ताङ्गमुत्तमं पतितं रणे। वज्रेणेव विनिर्भिन्नं यथा गैरिकपर्वतम्। भूमिस्तु पतितं पुत्रं निरीक्ष्यादाय कुण्डले। उपातिष्ठत गोविन्दं वचनञ्चेदमब्रवीत्। दत्तस्त्वयैव गोविन्द! त्वयैव विनिपातितः। यथेच्छसि तथा क्रीड बालक्रीडनकैरिव। इमे ते कुण्डले देव! प्रजां तस्यानुपालय” हरिवं० १२२ अ० तद्बधकथा

नरकदेवता = स्त्री नरकस्याधिष्ठात्री देवता। निरृतौ शब्दर०

नरकपाल = न० ६ त०। मृतनरस्य शीर्षस्थे अस्थिभेदे “नरकपालं शुचि प्राण्यङ्गत्वात् शङ्खवत् तस्य शुचित्वानुमानं बलवदागमविरोधात् अप्रमाणम् इति” मथुरानाथः। स च आगमः “मलमूत्रं पूंरीषास्थि निर्गतं ह्यशुचि स्मृतम्। नारं स्पृष्ट्वा तु सस्नेहं सचेलोजलमाविशेत्” मनुवचनम्

नरकभूमि = स्त्री नरकस्य दुःखभेदस्य भोगयोग्या भूमिः। यमालयस्थायां दुष्कर्मणां दुःखभोगार्थं भूमौ। ताश्च हेमच० अधोधोवर्त्तमानाः दर्शिताः “घनोदधिधनवात तनुवातनभःस्थिताः। रत्नशर्करावालुकापङ्कधूमतमः प्रभाः। महातमःप्रभा वेत्यधोधोनरकभूमयः”।

नरकमुक्त = पु० नरकान्मुक्तः। नरकान्मुक्ते “कपूयचरणाः कपूयां योनिमापद्येरन्” श्रुतिः अनुशयशब्दे १८८ पृ० दृश्यम्। गारुडे २२९ अ० ततो मुक्तानां पापविशेषात् योनिभेदप्राप्तिरुक्ता यथा “नरकात् प्रतिमुक्तस्तु पापयोनिषु जायते। पतितात् प्रतिगृह्याथ खरयोनिं व्रजेद्बुधः। नरकात् प्रतिमुक्तस्तु कृमिर्भवति पातकी। उपाध्याये व्यलीकन्तु कृत्वा श्वा भवति द्विजः। तज्जायां मनसा वाञ्छंस्तद्द्रव्यं वाप्यसंशयम्। गर्दभो जायते जन्तुर्मित्रस्यैबापमानकृत्। शत्रोवितरमाक्रुश्य शारिका संप्रजायते। पितरौ पीडयित्वा तु कच्छपत्वञ्च जायते। भर्त्तुः पिण्डमुपाश्नन् यो हित्वाऽन्यानि च सेवयेत्। सोऽपि मोहसमापन्नो जायते बानरो मृतः। न्यासापहर्त्ता नरकात् विमुक्तो जायते कृमिः। असूयकश्च नरकान्मुक्तो भवति राक्षसः। विश्वासहर्त्ता च नरो मीनयोनौ प्रजायते। यवधान्यानि हृत्वा तु जायते मूषिको मृतः। परदारामिमर्षात्तु वृको षोरोऽभिजायते। भ्रातृभार्य्याप्रसङ्गत्वे कोकिलो जायते नरः। गुर्वादिभार्थ्यागमनाच्छूकरो जायते नरः। यज्ञदानविवाहानां विघ्नकर्त्ता भवेत् कृमिः। देवतापितृविप्राणामदत्त्वा योऽन्नमश्नुते। प्रमुक्तो नरकाद्वापि वायसः स प्रजायते। ज्येष्ठभ्रात्रवमानाच्च क्रौञ्चयोनौ प्रजायते। शूद्रश्च ब्राह्मणीं गत्वा कृभियोनौ प्रजायते। तस्यामपत्यमुत्पाद्य काष्ठान्तः कीटको भवेत्। कृतघ्नः कृमिकः कीटः पतङ्गो वृश्चिकस्तथा। अशस्त्रं पुरुषं हत्वा नरः संजायते खरः। कृमिः स्त्रीषधकर्त्ता च बालहन्ता प्रजायते। भोजनं चोरयित्वा तु मक्षिका जायते नरः। हृत्वान्नञ्चैव मार्ज्जारस्तिलहृच्चैव मूषिकः। घृतं हृत्वा च नकुलः काको मद्गुरमामिषम्। मधु हृत्वा नरो दंशः पूपं हृत्वा पिपीलकः। अपो हृत्वा तु पापात्मा वायसः संप्रजायते। हृते कांस्ये च हारीतः कपोतो वा प्रजायते। हृत्वा तु काञ्चनं भाण्डं हमियोनौ प्रजायते। कार्पासिके हृते क्रौञ्चो वह्निहर्त्ता वकस्तथा। मयूरो वर्णकं हृत्वा शाकं पत्रञ्च जायते। जीवञ्जीवकतां याति रक्तवस्त्रापहृन्नरः। छुच्छुन्दुरिः शुभान् गन्धान् वंशं हृत्वा शशो भवेत्। षण्डः कलापहरणे काष्ठहृत् काष्ठकीटकः। पुष्पाप- हृद्दरिद्रस्तु पङ्गुर्यवापहृन्नरः। शाकहर्त्ता च हारीतस्तोयहर्त्ता च चातकः। गृहह्णत् नरकान् गत्वा रौरवादीन् सुदारुणान्। तृणगुल्मलतावलीत्वकसार तरुतां व्रजेत्। एष एव क्रमो दृष्टो गोसुवर्णादिहारिणाम्। विद्यापहारी मूकश्च गत्वा च नरकान् बहून्। असमिद्धेऽग्नौ च हुते मन्दाग्निः संप्रजायते। परनिन्दाकृतघ्नत्वं परमर्मावघातनम्। नैष्ठुर्य्यं निर्घृणत्वञ्च परदारोपसेवनम्। परस्वहरणाऽशौचं देवतानाञ्च कुत्सनम्। निकृत्या वञ्चनं नॄणां कार्पण्यञ्च नृणां बुधः। उपलक्षणाद्विजानीयात् मुक्तानां नकरादनु” प्रसङ्गात् स्वर्गादागतलक्षणं तत्रैव यथा “दयाभूतेषु संवादः परलोकं प्रति क्रिया। सत्यं भूतहिता चोक्तिर्वेदप्रामाण्य दर्शनम्। गुरुदेवर्षिपूजा च केवलं साधुसङ्गमः। सत्क्रियाभ्यसनं मैत्री स्वर्गिणां लक्षणं विदुः। अष्टाङ्गयोगविज्ञानात् प्राप्नोत्यात्यन्तिकं लयम्”। अधिकं कर्मविपाक शब्दे १७४२ पृ० दृश्यम्।

नरकस्थ = त्रि० नरके तद्भूमौ तिष्ठति स्था–क ७ त०। १ नरकभूमौ स्थिते २ वैतरणीनद्यां स्त्री हेमच०।

नरकान्तक = पु० ६ त०। विष्णौ नरकजिच्छब्दे दृश्यम्।

नरकामय = पु० नरक आमय इव यस्य। १ प्रेते शब्दरत्ना०। नरक आमय इव कर्म०। २ नरकरूपे रोगे च।

नरकीलक = पु० नरेषु कीलक इव गर्हितत्वात्। गुरुघ्ने हेमच०

नरकेशरिन् = पु० नर एव केशरी। १ नरसिंहे नरसिंहशब्दे दृश्यम्। नरः केशरीव शूरत्वात् २ मानवश्रेष्ठे च।

नरगण = पु० १ नक्षत्रभेदे उपयमशब्दे १२५० पृ० दृश्यम्। ६ त० २ नरसमूहे च।

नरङ्ग = पु० नॄ–अङ्गच्। वरण्डे (नारङ्गा) प्रसिद्धे १ ब्रणभेदे २ मेद्रे न० उणादि०।

नरद = न० नलद + लस्यरः। नलदे ततः किशरा० तदस्य पण्यमित्यर्थे ष्ठन्। नरदिक तद्विक्रेतरि त्रि०।

नरदेव = पु० नरो देव इव। नृपे। “ददर्श देवं नरदेव सम्भवः” रघुः। “भूमिदेवनरदेवसङ्गमे” माघः।

नरद्विष् = पु० नरान् द्वेष्टि द्विष्–क्विप्। राक्षसे “व्रह्मास्त्रं तेन मूर्द्धानमदध्वंसन्नरद्विषः” भट्टिः।

नरनगर = न० नरप्रधानं नगरम् पूर्वपदात् संज्ञायां णत्वे प्राप्ते क्षुम्नादि० न णत्वम्। नगरभेदे

नरनारायणौ = द्वि० व०। नरश्च नारायणश्च। ऋषिभेदयोः तयोः सम्भवकथा “तदा दंष्ट्राग्रघातेन नरसिंहं महावलम्। सरभो भगवान् भर्गो द्बिधा मध्ये चकार ह। नरसिंहे द्विधा भूते नरभागेण तस्य तु। नर एव समुत्पन्नो दिव्यरूपी महानृषिः। तस्य पञ्चास्यभागेन नारायण इति श्रुतः। अभवत् स महातेजा मुनिरूपी जनार्दनः। नरो नारायणश्चोभौ सृष्टिहेतू महामती। ययोः प्रभावो दुर्द्धर्षः शास्त्रे वेदतपःसु च” कालिकापु० ३९ अ०। एतच्च वाराहकल्पे। अन्यकल्पे तु तौ घर्मस्य पुत्रौ यथोक्तं भाग० २। ६ अ० “धर्मस्य दक्षदुहितर्य्यजनिष्ट सूत्यां नारायणो नर इति स्वतपःप्रभावौ”। स्वायम्भुवे मन्वन्तरे धर्मस्य चतुर्षु पुत्रेषु तौ च द्वौ यथा “नारायणो हि विश्वात्मा चतुर्मूर्त्तिः सनातनः। धर्मात्मजः सम्बभूव पितैवं मेऽभ्यभाषत। कृते युगे महाराज! पुरा स्वायम्भवेऽन्तरे। नरो १ नारायण २ श्चैव हरिः ३ कृष्णः ४ स्वयम्भुवः। तेषां नारायणनरौ तपस्तेपतुरव्ययौ। वदर्य्याश्रममासाद्य शकटे कनकामये” भा० शा० ३३६ अ०।

नरन्धि = पु० नरो धीयन्ते आरोप्यन्ते अस्मिन् धा–आधारे कि उपस० पृषो० मुम्। संसारे महीधरः नरन्धिषशब्दे दृश्यम्।

नरन्धिष = पु० विष्णौ “विष्णुर्नरन्धिषः प्रोह्यमानः” यजु० ८। ५५ “विष्णुर्नरन्धिषो भवति नरो धीयन्ते आरोप्यन्ते यस्मिन् स नरन्धिः संसारः तं स्यति नाशयति नरन्धिषः संसारसंहर्त्ता विष्णुः यद्वा रघ–हिंसायाम् रध्यति हिनस्ति रन्धिषः हन्ता नरन्धिषो जगत्पालकः” महीधरः। उभयत्र पृषो०।

नरपति = पु० ६ त०। नृपे शब्दर०। “नरपतिकुलभूत्यै गर्भमाधत्त राज्ञी” रघुः। नरेश्वरनरनाथनरनायकनरेशादयोऽप्यत्र। “नरनाथ! न जानीमस्त्वत्प्रिया यद्व्यवस्यति” भाग० ४। २६। १५।

नरपतिजयचर्य्या = स्त्री नरपतीनां राज्ञां जयस्य चर्य्या। स्वरोदयमूलके ग्रन्धभेदे चक्रशब्दे तद्वाक्यं भूरि दर्शितम्।

नरपशु = पु० नरः पशुरिव उपमितस०। १ मानवाधमे २ पुंरूपे पशौ च “विषयदृशोनरपशवोय उपासते विभूतीर्न परं त्वाम्। तेषामाशिष ईश! तदनु विनश्यन्ति यथा राजकुलम्” भाग० ६। १६। ३६ नृपश्वादयोऽप्युभयत्र। “याश्च स्त्रियो नृपशून् खादन्ति” भाग० ५। २६। ३९

नरपाल = पु० नरान् पालयति पालि–ण्वुल्। मानवरक्षके नृपे।

नरपुङ्गव = पु० नरः पुङ्गवो वृष इव शूरत्वात्। नरश्रेष्ठे “शैव्यश्च नरपुङ्गवः” गीता।

नरप्रिय = त्रि० ६ त०। १ मनुष्यहृद्ये वस्तुमात्रे २ नीलवृक्षे पु० राजनि०।

नरभू = स्त्री ६ त०। १ भारतवर्षे २ नराणामुत्पत्तौ च। नरभूमिरप्युभयत्र शब्दर०।

नरमानिनी = स्त्री नरं मन्यते मन–णिनि ङीप्। श्मश्रुयुक्त मुख्यां नार्य्यां त्रिका० ण्वुल्। नरमानिका तत्रार्थे शब्दर०

नरमाला = स्त्री नराणां तन्मुण्डानां माला। नरमुण्डरचित मालायां “विचित्रखष्ट्वाङ्गधरा नरमालाविभूषणा” देवीमा०

नरमालिनी = स्त्री नरस्येव माला केशमाला मुखेऽस्त्यस्याः इनि ङीप्। श्मश्रुयुक्तवदनायां १ नार्य्यात् हेमच०। २ नरमुण्डमालावत्यां स्त्रियां च।

नरमेध = पु० नरा मिध्यन्ते हिंस्यन्ते यत्र मिघ–आधारे घञ् ६ त०। पुरुषमेधाख्ये यज्ञभेदे स च यज्ञः यजु० ३०। ३१ अध्याययोर्दर्शितः तत्राधिकार्यादिकम् ३० अध्याये वेददीपे उक्तं यथा “ब्राह्मणराजन्ययोरतिष्ठाकामयोः पुरुषमेधसंज्ञको यज्ञो भवति। सर्वभूतान्यतिक्रम्यस्थानमतिष्ठा। चैत्रशुक्लदशम्यामारम्भः। अत्र त्रयोविंशतिर्दीक्षा भवन्ति द्वादशोपसुदः पञ्चसुत्या इति चत्वारिंशद्दिनैः सिध्यति। अत्र यूपैकादशिनी भवति एकादशाग्नीषोमीयाः पशवो भवन्ति तेषां च प्रतियूप” मध्यमे वा यूपे यथेच्छं नियोजनम्। आज्येन सकृद्गृहीतेन देव सवितिरिति प्रत्यृचं तिस्र आहुतीराहवनीये जुहोति”। देवताभेदेन तत्रालभ्यपशुभेदास्तत्र “ब्रह्मणे ब्राह्मणमित्यादिना” अध्यायसमाप्तिपर्यन्तेनोक्ताः अष्टाचत्वारिंशत्सङ्ख्यकाश्च ब्राह्मणादयो ब्रह्माद्यष्टाचत्वारिंशद्देवदेवत्याः पशवः “स एतं पुरुषमेघं पञ्चरात्रं यज्ञक्रतुमदृश्यत्तमाहरत्तेनायजत तेनेष्ट्वात्यतिष्ठत् सर्वाणि भूतानीदं सर्वमभवदतितिष्ठति सर्वाणि भूतानीदं सर्वं भवति य एवं विद्वान् पुरुषमेधेन यजते यो वैतदेवं वेद। तस्य त्रयोविंशतिर्दीक्षाः। द्वादशोपसदः पञ्चसुत्याः स एष चत्वारिंशद्रात्रः सदीक्षोपसत्कः” शत० ब्रा० १३। ६। १। २। अत्र पञ्चरात्रत्वोक्तिः पञ्चसुत्याभिप्रायेणेति न विरोधः। “त्रिंशदग्नीनहं ब्रह्मन्नयजं यच्च नित्यदा। अष्टाभिः सर्वमेधैश्च नरमेधैश्चसप्तिभिः” भा० अनु० १०३ अ० “राजसूयाश्वमेधौ च सर्वमेधञ्च भारत!। नरमेधञ्च नृपते! त्वमाहर युधिष्ठिर।” भा० आश्र० ३ अ०। १८०३ पृ० कलिशब्दे दर्शितेन वृहन्नारदीयवचनेन नरमेधस्य कलौ “दीर्घकालं ब्रह्मचर्य्य नरमेघाश्वमेधकावित्यनेन” निषेधेऽपि कलियुगोत्पन्न युधिष्ठिरं प्रति नरमेधाहरणे नियोजनं तु न विरुध्यते हरेःस्वर्गारोहानन्तरमेव कलेः प्रकर्षेण प्रवृत्त्यवगमात् ततः प्राक्काले यथाविधानं सर्वे धर्मा व्यवस्थिता इत्यवगमाच्च तदूर्द्ध्वमेव कलेः प्रबलत्वात् वृहन्नारदीयाद्युक्तकलिवर्ज्यस्यावकाश इत्यवधेयम्। भूमौ श्रीकृष्णस्थितिपर्यन्तं कलेः प्रादुर्भावाभावश्च भागवते उक्तः तच्च वाक्यं कलिशब्दे १७९५ पृ० दर्शितम्। अतो युधिष्ठिरादीनां नरमेधाश्वमेधमहाप्रस्थानादिकं न विरुध्यते

नरम्मन्य = पु० आत्मानं नरं मन्यते नृ + मन–खश् मुम् एकाचोऽमन्तवत् कार्यम्। आत्मानं नृतया मन्यमाने।

नरयन्त्र = न० छायाद्वारा कालसाधके द्वादशाङ्गुलकीलरूप शङ्कुयन्त्रे “नरयन्त्रं तथा साधु दिने च विमले रवौ। छायासंसाधनैः प्रोक्तं कालसाधकमुत्तमम्” सू० सि० “विसले मेघादिव्यबधानरूपमलेन रहिते सूर्ये एतद्रूपे दिने। चकार एवकारार्थस्तेन साभ्रदिनव्यवच्छेदः। नरयन्त्रं द्वादशाङ्गुलशङ्कुयन्त्रं तथा घटीयन्त्रवत् कालसाधकं साधु सूक्ष्मं रात्रौ नेत्यर्थसिद्धम्। ननु शङ्कोश्च्छायासाधकत्वं न कालसाधकत्वं तेन तस्य कथं यन्त्रत्वं कालसाधकवस्तुनो यन्त्रत्वप्रतिपादनादित्यत आह। छायासंसाधनैरिति। इदं शङ्कुरूपनरयन्त्रं छायायाः सम्यक्सूक्ष्मत्वेन साधनैरवगमैः कृत्वा कालसाधनं दिनगतादिकालस्य कारणमुत्तमम्। अन्ययन्त्रेभ्योऽस्मान्निरन्तरतयातिश्रेष्ठम्। तथा च छायासाधकत्वेनैव छायाद्वारा शङ्कोः कालसाधकत्वमिति न यन्त्रत्वव्याघातः। अतएव साभ्रदिने रात्रौ चेदमनुप्रयुक्तम्। नरस्य छायायन्त्रोपलक्षणत्वात् यष्टिधनुश्चक्राण्यपि तथेति बोध्यम्” रङ्ग०। “समतलमस्तकपरिधिर्भ्रमसिद्धोदन्तिदन्तजः शङ्कुः। तच्छायातः प्रोक्तं ज्ञानं दिग्देशकालानाम्” सि० शि०। शङ्कोः कालज्ञानसाधनत्वमुम्।

नरयान = न० नरवाह्यं यानम् (सओयारि) प्रभृतौ यानभेदे “नरयानेन तु ज्येष्ठः पिता पार्थस्य भारत!। अग्रतो धर्मराजस्य गान्धारीसहितो यथौ” भा० शा० ३७ अ०। नरवाहन नररथादयोऽप्यत्र।

नरलोक = पु० नराधिष्ठितो लोकः भुवनम्। १ पृथिवीलोके नर एव लोकः। २ मानवरूपे जने च “आकृष्टलीलान् नरलोकपालान्” रघुः “तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभितो ज्वलन्ति” गीता।

नरवाहन = पु० नरो वाहनं यस्य। १ कुवेरे २ नरयानबाह्ये त्रि० “घनरवा नरवाहनसम्पदः” रघुः “मणिश्यामोत्तम वपुः कुवेरो नरवाहनः” हरिवं० ४५ अ०। ३ नरवाह्ये याने न०।

नरविष्वण = त्रि० नरं विष्वणति हिनस्ति वि + स्वन–अच् षत्वम्। १ नरहिंसके २ राक्षसे पुंस्त्रीत्रिका०। स्त्रियां ङीष्।

नरव्याघ्र = पु० नरो व्याघ्र इव उपमितस०। श्रेष्ठमानवे।

नरशृङ्ग = न० ६ त०। अलीके पदार्थे शशशृङ्गदिवत् शृङ्गे शशीयत्वस्येव नरीयत्वस्याप्यभावादयोग्यत्वेन अस्यालोकार्थत्वम् योग्यताभ्रमादेवात्र शाब्दबोध इति बोध्यम्।

नरसिंह = पु० नरएव सिंहः नरश्च सिंहश्चाकारेऽस्त्यस्य अच् वा। अर्द्धनराकारे अर्द्धसिंहाकारे १ भगवच्छरीरभेदे तादृशशरीरग्रहणे कारणञ्च हरिवं० २३१ अ० उक्तं यथा “हिरण्यकशिपुरुवाच “न देवासुरगन्धर्वा न यक्षोरगराक्षसाः। न मानुषाः पिशाचा वा निहन्युर्मां कथञ्च न। ऋषयोनैव मां क्रुद्धाः सर्वलोकपितामह!। शपेयुस्तपसा युक्ता वर एष वृतो मया। न शस्त्रेण न चास्त्रेण गिरिणा पादपेन वा। न शुष्केण व चार्द्रेण स्यान्न चान्येन मे बधः। न स्वर्गेऽप्यथ पाताले नाकाशे नावनिस्थले। न चाभ्यन्तररात्र्यह्नोर्न चाप्यन्यत्र मे वधः। पाणिप्रहारेणैकेन सुमृत्यबलवाहनम्। यो मां नाशयितुं शक्तः स मे मृत्युर्भविष्यति” तथा वरप्राप्तौ हिरण्यकशिपुना जगतां निष्पीडने कृते तद्बधाय दैवैः प्रार्थितो भगवान् नरसिंहरूपेणावततार यथाह तत्रैवाध्याये

“एवमुक्ता स भगवान् विसृज्य त्रिदिवौकसः। बधं संकल्पयामास हिरण्यकशिपोः प्रभुः। सोऽचिरेणैव कालेन हिमवत्पार्श्वमागतः। किं नु रूपं समास्थाय निहन्म्येनं महासुरम्। यत् सिद्धिकरमाशु स्याद्बधस्य विबुधद्विषः। अनुत्पन्नस्ततश्चक्रे सोत्पन्नो रूपमीवृशम्। नारसिंहमनाधृष्यं दैत्यदानवरक्षसाम्। सहायन्तु महाबाहुर्जग्राहोङ्कारमेव च। अथोङ्कारसहायो वै भगवान् विष्णुरच्युतः। हिरण्यकशिपोः स्थानं जगाम प्रभुरीश्वरः। तेजसा भास्कराकारः कान्त्या चन्द्र इवापरः। नरस्य कृत्वाऽर्द्धननुं सिंहस्यार्द्धतनुं तथा। नारसिंहेन वपुषा पाणिं संस्पृश्य पाणिना। ततोऽपश्यत विस्तीर्णां दिव्यां रम्यां मनोरमाम्”। ततस्तद्बकथा “यदि दास्यस्यभिमतान् वरान् हे वरदोत्तम!। भूतेभ्यस्त्वद्विसृष्टेभ्यो मृत्युर्मा भून्मम प्रभो!। नान्तर्बहिर्दिबा नक्तमन्यस्मादपि चायुधैः। न भूमौ नाम्बरे मृत्युर्न नरैर्न मृगैरपि। व्यसुभिर्वाऽसुमद्भिर्वा सुरासुरमहोरगैः। अप्रतिद्वन्द्वतां युद्धे ऐक्यपत्यञ्च देहिनाम्” भाग० ७। ३। ३४ एवं प्रार्थितवरप्राप्तौ स्वभ्रातृहिरण्याक्षहन्तरि विष्णौ द्वेषात् तद्भक्तेऽपि प्रह्लादेऽतीव द्वेषेण तेन विरुद्धमाचरितम्। अनन्तरं च तेनोक्तः प्रह्लादः सर्वत्र विष्णोः स्थायित्वं प्रतिजज्ञे तेन स्तम्भेऽपि तत्सत्त्वमुक्तवान्। तच्छ्रुत्वा तेन स्तम्भताडने कृते तत्र प्रह्लादकथां सत्यां चिकीर्षुः भगवान् नरसिंहरूपेण प्रादुर्वभूव यथाह

“सत्यं विधातुं निजभृत्यभाषितं व्याप्तिञ्च भूतेष्वखिलेषु चात्मनः। अदृश्यतात्यद्भुतरूपमुद्वहन् स्तम्भे सभायां न मृगं न मानुषम्। स सत्वमेवं परितोविपश्यत् स्तम्भस्य मध्यादनुनिर्जिहासनम्। नायं मृगो नापि नरोविचित्रमहो किमेतन्नृ मृगेन्द्ररूपम्। मीमांसमानस्य समुत्थितोऽग्रतो नृसिंहरूपं तदलं भयानकम्। प्रतप्तचामीकरचण्डलोचनं स्फुरत्सटाकेशरजृम्भिताननम्। करालदंष्ट्रं करबालचञ्चलक्षुरान्त जिह्वं भृकुटीमुखोल्वणम्। स्तब्धोर्द्धकर्णं गिरिकन्दराद्भुतव्यात्तास्यनासं हनुभेदभीषणम्। दिविस्पृशत्कायतदीर्घपीवरग्रीवोरुवक्षःस्थलमल्पमध्यमम्। चन्द्रांशुगोरैम्छुरितं तनुरुहैर्विष्वग्भुजानीकशतं नखायुधम्” तं श्येन येगं शतचन्द्रवर्म्मभिश्चरन्तमच्छिद्रमुपर्य्यधोहरिः। कृत्वाट्टहासं खरमुत्स्वनोल्वणं निमीलिताक्षं जगृहे महाजवः। विष्वक् स्फुरन्तं ग्रहणातुरं हरिर्व्यालो यथाखुं कुलिशक्षतत्वचम्। द्वार्य्यूरुमापात्य ददार लील या नखैर्यथाहिं गरुडो महाविषम्” भाग० ७। ८ अ०। “द्वारि सभायां नान्तर्न बहिः” ऊरुं ऊरौ निपात्य न भूमौ नचाम्बरे। नस्वैर्नच व्यसुभिरसुमद्भिर्वा। एवं दिवानक्तं परिहाराय सायमिति द्रष्टव्यम्” श्रीधरस्वामी। नरसिंहत्वं च तदीयदेहवृत्तिजातिभेदः यथोक्तं सि० मु० “अथवा चेष्टावदन्त्यावयविमात्रवृत्तिद्रव्यत्वव्याप्यव्याप्यजातिमत्त्वं तत् (शरीरत्वम्) मानुषत्वचैत्रत्वजातिमादाय लक्षणसमन्वयः। न च नृसिंहशरीरे कथं लक्षणसमन्वयः तत्र नृसिंहत्वस्यैकव्यक्तिवृत्तितया देवत्वस्वंव जातित्वाभावात् जलीयतैजसशरीरवृत्तितया देवत्वस्य जातित्वाभावादिति वाच्यं कल्पभेदेन नृसिंहशरीरस्य नानात्वेन नृसिंहत्वजात्या लक्षणसमन्वयात्”। नरः सिंह इव। २ मानवश्रेष्ठे नरहरिनृसिंहादयोऽप्यत्र।

नरसिंहपुराणम = न० नरसिंहोप्रवर्णनात्मकं पुराणम्। उपपुराणभेदे “पाद्मे पुराणे यत्प्रोक्तं नरसिंहोपवर्णनम्। तच्चाष्टादशसाहस्रं नारसिंहमिहोच्यते” मत्स्यपु० नरसिंहमधिकृत्य कृतो ग्रन्थः अण् नारसिंहमित्यर्थः। “आद्यं सनत्कुमारोक्तं नारसिंहमतःपरम्” कूर्मपुरा० उपपुराणोक्तौ।

नरसिंहमूर्त्तिदान = न० ६ त०। कालिकापुराणोक्ते स्वर्णादिरचिततन्मूर्त्तिदाने तद्विधानं हेमा० दा० कालिपु० यथा “नृसिंहं चाथ रौक्मन्तु कृत्वा चतुर्भुजं विभुम्। ताम्र पात्रे प्रतिष्ठाप्य रौप्यदंष्ट्रे प्रकल्पयेत्। चक्षुषी पद्मरागेण नखानां विद्रुमास्तथा। पुष्परागं भ्रुवोर्देशे कर्णयोर्हीरकाबुभौ” नृसिंहरूपन्तु विष्णुधर्मोत्तरे “कार्य्यस्तु भगवान् विष्णुर्नरसिंहवपुर्द्धरः। पीनस्कन्ध कटिग्रीवकृशमध्यः कृशोदरः। सिंहासनो (सिंहास्यः) नृदेहश्च नीलवासाः प्रभान्वितः। आलीढस्थानसंस्थानः सर्वाभरणभूषणः। ज्वालमालाकुलमुखोज्वलत्केशरमण्डलः। हिरण्यकशिपोर्वक्षःपाटयन्नखरैः खरैः। देवजानुगतः कार्य्यो हिरण्यकशिपुस्तथा। देवश्च शङ्खचक्राभ्यां भूषितोर्द्ध्वकरद्वयः” इति। “राजवर्त्म च वैदूर्यं इन्द्रनीलं सुमस्तके। कृत्वा रूपमिदं रम्यं तत्पात्रं मधुना बुधः। पूरयेत् खण्डमिश्रेण तत्र देवं पुनर्नमेत्। वस्त्रयुग्मेन संछन्नं आसने विनिवेशयेत्। नैवेद्यं कल्पयेदग्र्यं भक्ष्यैर्नानाविधैर्बुधः। वितानोपरिसंयुक्तं पुष्पदामभिरर्चयेत्। गन्धपुष्पैस्तथा धूपैर्जागरं चार्च्च्य कारयेत्। कृत्वा समस्तमेतत्तु हरये पूर्ववद्ददेत्। यत्किञ्चित् प्राग्विनिर्दष्टं कुर्य्यात् सर्वमिहापि तत्”। प्राग्विनिर्दिष्टमिति वैष्णवमन्त्रेण पूजनं मूलमन्त्रेण अष्टोत्तरशतं तिलाज्यहोमः द्वादशभ्यो ब्राह्मणेभ्यः सदक्षिणमन्नदानमिति। “कार्त्तिक्यां वाथ वैशाख्यामाश्रित्य द्वादशीमथ। कृत्वा विधिमिमं सम्यक् नूनं तत्पदमश्नुते। अरण्ये वाथ संग्रामे तस्करैदंष्ट्रिभिर्वृते। न भयं जायते तस्य सकृद्यस्त्वेतदाचरेत्। विदार्य्य चापदोघोराः धनमायुः प्रयच्छति। सन्ततिं चैव रूपञ्च सौभाग्यञ्च मनोरथान्। एवं भवति यत्पुण्यं नृसिंहाकृतिदानतः। तेन विष्णोः पदं प्राप्य तत्र क्रोडन्ति देहिनः। एतत् श्रुत्वा महत् पुण्यं सर्वपापैः प्रमुच्यते। धनमायुर्विवर्द्धेत श्रावकस्य विशेषतः। श्रावके दक्षिणां दद्याद्भक्त्या चात्मविभूतये”

नरस्कन्ध = पु० नर + समूहे स्कन्ध। नरसमूहे एवं मनुष्यस्कन्धादयोऽप्यत्रार्थे।

नराङ्ग = पु० नरमङ्गयति चु० अङ्ग–अण्। १ मेट्रे २ वरण्डे (नारङ्गा) व्रणभेदे मेदि०।

नराची = स्त्री नरमिवाचिनोति रोमभिरिव कण्टकैः आ + चि–ड गौरा० ङीष्। १ अमूलायां कण्टकिन्यां (फणीमनसा) वृक्षभेदे “यां ते चक्रुरमूलायां वलगं वा नराच्याम्” अथ० ५। ३१। ४। ततः शर्करा० स्वार्थे अण्। नाराच तत्रार्थे। २ शौरेर्भाय्याभेदे च “सुतनूश्च नराची च शौरे रास्तां परिग्रहौ। पौण्ड्रश्च कपिलश्चैव वसुदेवस्य तौ सुतौ। नराच्यां कपिलो जज्ञे पौण्ड्रश्च सुतनूसुतः। तयोर्नृपोऽभवत् पौण्ड्रः कपिलश्च वनं ययौ” हरिवं० १६२ अ०।

नरा(च)ज = पु० षोडशाक्षरपादके वृत्तभेदे “भुजङ्गराजभाषितं प्रकीर्णशास्त्रसागरे लधौ गुरौ निरन्तरे सतीह षोडशाक्षरे। प्रतापतापनिर्जितप्रभाकरप्रकाश! हे प्रवृत्तवृत्तराजकं नराज(च)मेव मन्महे”।

नराधम = पु० नरेषु अधमः। विवेकादिशून्यतयापकृष्टे मानवे “अज्ञानोपहितो बाल्ये यौवने वनिताहतः। शेषे कलत्रचिन्तार्त्तः किं करोति नराधमः”।

नराधिप = पु० ६ त०। नृपे “नराणाञ्च नराधिपः” गीता। नराधिपत्यादयोऽप्यत्र।

नरान्तक = पु० अन्तयन्ति अन्ति–ण्वुल् ६ त०। मानुषनाशके रावणात्मजे १ राक्षसभेदे “रक्षःपतिस्तदवलोक्य निकुम्भकुम्भधूम्राक्षदुर्मुखसुरान्तनरान्तकादीन्” भाग० ९। १०। १८। २ नरनाशकमात्रे त्रि०।

नरायण = पु० नरा अयनमस्य। विष्णौ “नराणामयनं यस्मात् तेन नरायणः स्मृतः” व्रह्मवै० पु०। नरस्य परमात्मनोऽपत्यं नडा० फक् संज्ञापूर्वकविधेरनित्यत्वान्न वृद्धिः। तत्रार्थे

नराश = पु० नरमश्नाति अश–भोजने अण् उप० स०। राक्षसे “यावन्नराशैर्न रिपुः शवाशान्” भट्टिः।

नराशंस = पु० १ यज्ञे २ अग्नौ च। “नराशंस महिमानमित्यृचमधिकृत्य निरु० ८। ३ उक्तं यथा “नरांशसो यज्ञ इति कात्यकः। नरा अस्मिन्नासीनाः शंसन्ति, अग्निरिति शाकपूणिर्नरैः प्रशस्यो भवति”। तेनोभयनिरुक्तेः उभयार्थता “देव इन्द्रो नराशंसस्त्रिवरूथः” यजु० २१। ५५ “नराशंसो देवोऽनुयाजरूपी यज्ञः” वेददी० “नराशंसो अग्ने” यजु० २७। १३ “नराशंसः नरैरृत्विग्भिराशंस्यते स्तूयते नराशंसः अग्निः” वेददी०। आ + शन्स–भावे घञ् ६ त०। ३ नराणाभाशंसने पु० “जुष्टां नराशंसाय प्रजा वै नराः” शत० ब्रा० १। ५। १। २० “यथा सर्वेऽपि नराः शंसन्ति तथाविधशंसनाय प्रियामिति” भाष्यम् अस्य वनस्पत्या० युगपत् उभयपदे प्रकृतिस्वरः।

नरासन = नराकारे आसनभेदे तल्लणभेदादिकं रुद्रयामलोक्तं यथा “अथ नरासनं वक्ष्ये षोडशादिप्रकारकम्। येन साधनमात्रेण योगी भवति साधकः। प्रकाराः षोडश प्रोक्ताः सत्कुलज्ञैर्महीतले। एकमासात् भवेत् कल्पो द्विमासे द्रुतकल्पकम्। त्रिमासे योगकल्पः स्यात् चतुर्मासे स्थिराशयः। पञ्चमासे सूक्ष्मकल्पः षष्ठमासे विवेकधीः। सप्तमासे ज्ञानयुक्तो भावको भवति ध्रुवम्। अष्टमे मन्त्रसंयुक्तो जितेन्द्रियकलेबरः। नवमे सिद्धिमिलनो दशमे चक्रभेदवान्। एकादशे महावीरो द्वादशे खेचरी भवेत्। इति योगासन द्वन्द्वे योगी भवति साधकः। नरासनं यः करोति स सिद्धो नात्र संशयः। अधोमुखं महादेव! नरासनस्य साधने। करणीयं साधकाग्र्यैः योगशास्त्रार्थसम्मतैः” रुद्रजा०।

नरिष्ठा = स्त्री पुरुषमेधे भयङ्करपशूपालम्भनोद्देश्ये देवताभेदे “नरिष्ठायै भीमलम्” यजु० ३०। ६

नरिष्यन्त = पु० वैवस्वतमनोः पुत्रभेदे “वेनं धृष्णुं नरिष्यन्त नाभागेक्ष्वाकुमेव च” भा० आ० ७५ अ०। “इक्ष्वाकुर्नभगश्चैव धृष्णुः शर्य्यातिरेव च। नरिष्यन्तोऽथ नाभागः सप्तमोऽरिष्ट उच्यते” भाग० ८। १३। १

नरी = स्त्री नरस्य पत्नी ङीष्। मानवपत्न्यां जटा०। तज्जाति स्त्रियां तु नारीत्येव।

नरेन्द्र = पु० नर इन्द्र इव। १ नृपे २ विषवैद्ये च मेदि०। “नरेन्द्रकन्यास्तमवाप्य सत्पतिम्” रघुः “सुनिग्रहा नरेन्द्रेण फणीन्द्रा इव शत्रवः” माघः ३ ग्रहादिनिबारकवैद्यभेदे “तेषु कश्चिन्नरेन्द्राभिमानी मां निवर्ण्य मुद्रातन्त्रमन्त्रध्यानादिभिश्चोपक्रम्याकृतार्थः” दशकुमा०। “सा च द्वारिका यक्षेण केनचिदधिष्ठिता न तिष्ठत्यग्रे नरान्तरस्य आयास्यति च नरेन्द्रसार्थसंग्रहणेन तन्निराकरिष्यन्नरेन्द्रो नचास्ति सिद्धिरिति” दशकुमा०। ४ एकविंशत्यक्षरपादके वृत्तभेदे “चामररत्नरज्ज्वुवरपरिगतविप्रगणाहितशोभः पाणिविराजिपुष्पयुगविरचितकङ्कणसङ्गतगन्धः। चारु सुवर्णकुण्डलयुगलकृतिरोचिरलङ्कृतवर्णः पिङ्गलपन्नगेश इति निगदति राजति वृत्तनरेन्द्रः”। नरेशनरेश्वरादयोऽपि नृपे।

नरेन्द्राभ = पु० नरेन्द्र इवाभाति काष्ठेषु आ + भा–क। काष्ठा गुरुणि नैघण्टुप्रकाशिका।

नरोत्तम = पु० नरेषूत्तमः। १ पुरुषोत्तमे नारायणे २ नरश्रेष्ठे च “सभाक्षो भङ्गकारात्तु नागेयश्च नरोत्तमौ। जज्ञाते गुणसम्पन्नौ विश्रुतौ रूपसम्पदा” हरिवं० ३९ अ० २ कृतकृत्ये ज्ञाततत्त्वे पुरुषे यथा “यः स्वकात् परतो वेह जातनिर्वेद आत्मवान्। हृदि कृत्वा हरिं गेहात् प्रव्रजेत् स नरोत्तमः”। स्वकात् स्वतएव, परतः परोपदेशाज्जातवैराग्यः” शब्दार्थचि०।

***