वाचस्पत्यम्
नच to नड
links:
Menu अ–ह
Prev न–नङ
Next नत–नभ
नच
नञ्
नट
UpasanaYoga
.org

नचिकेतस् = पु० वाजश्रवसः पुत्रे १ ऋषिमेदे २ अग्नौ च। “उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ तस्य ह नचिकेतानाम पुत्र आस” कठोप० “सर्वे सान्ता अदन्ताः स्युः” इत्युक्तेर्नचितोऽप्यत्रार्थे “मृत्युप्रोक्तां नचितोऽथ लब्ध्वा विद्यांमेतां योगविधिञ्च कृत्स्नम्” कठोप० उपसंहारे। “तवैव नाम्ना प्रथितोऽयमग्निं सृङ्काञ्चेमामनेकरूपां गृहाण”। “एतमग्निं तवैव नाम्ना प्रवक्ष्यन्ति जनासः” इति च कठोप० तस्मै मृत्युदत्तद्वितीयवरकथने। “यएवं विद्वांश्चिनुते नचिकेतस्” कठोप०। स्वार्थे अण् नाचिकेतोऽप्युक्तार्थे “त्रिणाचिकेतस्त्रयमेतद् विदित्वा” कठीप० “त्रिणाचिकेतस्त्रिभिरेत्य सन्धिम्” कठोप० “छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः” शा० भा० धृतिश्रुतिः। सर्वत्र “पूर्वपदात् संज्ञायामिति” पा० णत्वम्। नाचिकेतश्च उद्दालकर्षेः पुत्रः स च पित्रा कारणान्तरात् शप्तो यमलोकं गत्वा पुनरागतः इत्यादिः तत्कथा भा० आ० ७१ अ० नाचिकेतोपाख्याने दृश्या। तेन वाजश्रवसोनामान्तरमुद्दालक इति गम्यते।

नचिर = न० नशब्देन “सह सुपा” पा० स०। शीघ्रकाले “यथा नचिरकालं नो निष्कृतिः स्यात्त्रिलोकगे” भा० आ० ९६ अ० “योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति”। “भवानि नचिरात् पार्थ! मय्यावेशितचेतसाम्” गीता। नञा समासे अचिरैत्येव स्यात्। अचिरशब्दे ८३ पृ० दृश्यम्।

नच्युत = त्रि० नशब्देन “सह सुपा” पा० स०। च्युतभिन्ने मुग्धबोधकारस्तु “रात्रेः कृति विभाषा” पा० ६। ३। ७२ सूत्रात् विभाषानुवृत्तिं मन्यमानः “नञी नलोपः” ७२ तस्मात् नुडचि” ७४ इत्यादि सूत्राण्यपि विभाषापराणीति अभिसन्धाय “नञोऽनौ वाज्झसौ” सूत्रेण विभाषया अचि अनादेशं झसि च ऐत्यादेशं विदधौ नभ्राडित्यादि पा० ७५ सूत्रञ्च नञः प्रकृतिवद्भावविधायकं ननलोपादिनियमपरमिति तस्याशयः। पाणिनीयास्तु न विभाषामनुवर्त्तयन्ति नान्तरीयकादौ तु नशब्देनैव समास इति प्रतिपेदिरे।

नज = ब्रीडायां भ्वा० आ० अक० सेट्। नजते अनजिष्ट। ननाज नेजतुः। ईदित् ओदिच्च नग्नः। अणोपदेशत्वात् निमित्ते सति न णत्वं प्रनजति।

नञ् = अंव्य० न + वा० अञ् न ञित् ञिदनुबन्धो नञो नलोपनुडर्थः अञितस्तु ननलोपादि नान्तरीयकनैकधेत्यादि” सि० कौ० “नञभावे १ निषेथेन स्वरूपार्थे २ऽप्यतिक्रमे ३। ईषदर्थे ४ च सादृश्ये ५ तद्विरुद्धतदन्ययोः”। ६। ७ इति मेदिनी निषेधेन काक्वा निषेधेन स्वरूपार्थे प्रकृतार्थे इत्येकम् तेनाभावेन न पौनरुक्त्यम्। “मथ्नामि कौरवशतं समरे न कोपात्” वेणी०। “द्वौ नञौ प्रकृतमर्थं गमयतः” यथा “नाविष्णुः कीर्त्तयेद्विष्णुं नाविष्णुर्विष्णुमर्चयेत्। नाविष्णुः संस्मरेद्विष्णुं नाविष्णुर्विष्णुमाप्नुयात्” इति महाभारतम्। असन्देहार्थं “नञ्” पा० “तत्पुरुषोनञ्कर्मधारयः” पा० निर्देशाद्वा पदत्वेऽपि न कुत्वम्। “तिङि क्षेपे” पा० अ पचसि जाल्म इत्यादौ असमासेऽपि नञो नलोपः। मसस्तादिनञर्थनिर्णयादिकं वैयाकरणभूषणसारे यथा “नञ्समासे चापरस्य प्राधान्यात्सर्वनामता। आरोपितत्वं नञ्द्योत्यं नद्व्यसोऽप्यतिसर्ववत्”। नञ्समासे अपरस्य उत्तरपदार्थस्य प्रधान्यात्सर्वनामता सिध्यतीति शेषः। अत एव आरीपितत्वमेव नञ्द्योत्यमित्यभ्युपेयमिति शेषः। असर्वैत्यादावारोपितः सर्वैत्यर्थे सर्वशब्दस्य प्रधान्याऽबाधात्सर्वनामता सिद्ध्यति। अन्यथा अतिसर्वैत्यत्रेव सा न स्यात्। घटोनास्तीत्यादावभावविषयकबोधे तस्य विशेष्यतायाएव दर्शनात्। अस्मद्रीत्या च स आर्थोबोधो मानसः। तथा चान्यथाऽसर्वस्मै इत्याद्यसिद्धिप्रसङ्गैति। अत्रचारोपितत्वमारोपविषयत्वम् आरोपमात्रं वार्थो विषयत्वं संसर्गैति निष्कर्षः। द्योत्यत्वोक्तिर्निपातानां द्योतकत्वमभिप्रेत्य। घटोनास्ति अब्राह्मण इत्यादावारोपबोधस्य सर्वानुभवविरुद्ध्वत्वात्पक्षान्तरमाह। “अभावो वा तदर्थोऽस्तु भाष्यस्य हि तदाशयात्। विशेषणं विशेष्योबा न्यायतस्त्ववधार्य्यताम्”। तदर्थोनञर्थः अर्थपदं द्योत्यवाच्यत्वपक्षयोः साधारण्येन कीर्त्तनाय। भाष्यस्येति। तथाच नञ्सूत्रे महाभाष्यम्। “निवृत्तपदार्थकः” इति। निवृत्तं पदार्थो यस्य “नपुंसके भावे क्तः” पा० इति क्त अभावार्थकैत्यर्थः। यत्तु निवृत्तः पदार्थोयस्मिन्नित्यर्थः सादृश्यादिनाध्यारोपितब्राह्मण्याः क्षत्रियादयोऽर्था यस्येत्यर्थःइति कैयटः तन्न आरोपितब्राह्मण्यस्य क्षत्रियादेरनञ्वाच्यत्वात्। अन्यथा सादृश्यादेरपि वाच्यतापत्तेः। यत्तूक्तं “तत्सादृश्यममाभावश्च तदन्यत्वं तदल्पता। अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्त्तिताः” इति पठित्वा अब्राह्मणः अपापम् अनश्वः अनुदरा कन्या अपशवोवा अन्येगोऽश्वेभ्यः अधर्म्म इत्युदाहरन्ति तत्त्वार्थिकार्थमभिप्रेत्येति स्पष्टमन्यत्र। विशेषणमिति प्रतियोगिनीति शेषः। तथा च सर्वपदे सर्वनामसंज्ञा। “अनेकमन्यदार्थे” पा० “सेव्यतेऽनेकया सन्नतापाडया” इत्यादावेकशब्दार्थप्राधान्यादेकवचननियमः। अव्राह्मण इत्यादावुत्तरपदार्थप्राधान्यात्तत्पुरुषत्वम्, अत्वं भवसि अनहं भवामीत्यादौ पुरुषवचना दिव्यवस्था चोपपद्यते अन्यथा त्वदभावोमदभावैतिवदभावांशे युष्मदस्मदोरन्वयेन युष्मत्सामानाविकरण्यस्य तिङ्क्ष्वसत्त्वात्पुरुषव्यवस्था न स्यात्। अस्मन्मते च भेदप्रतियोगित्वदभिन्नाश्रयिका भवनक्रियेत्यन्वयात्सामानाधिकरण्यं नानुपपन्नमिति भावः। विशेष्योवेति प्रतियोगिन इति शेषः। अयं भावः। गौणत्वेऽपि नञ्समासे “एतत्तदोः सुलोपोऽकोरनञ्समासे हलीति” पा० ज्ञापकात्सर्वतामसंज्ञा नानुपपन्ना। असः शिव इत्यत्र सुलोपवारणायानञ्समास इति हि विशेषणम्। नच तत्र तच्छब्दस्य सर्वनासतास्ति गौणत्वात्। अकीरित्यकज्व्यावृत्त्या सर्वनाम्नोरेव तत्र ग्रहणलाभात्तथाचानञ्समास इति ज्ञापकं सुवचम्। “अनेकमन्यपदार्थे” पा० इत्यादावेकवचनं विशेष्यानुरोधात्। “सुबामन्त्रिते पराङ्गवत् स्वरे” पा० इत्यतोऽनुवर्त्तमानसुव्ग्रहणात् विशेष्यमेकवचनान्तमेव। किञ्चानेकशब्दात् द्विषचनोपादाने बहूनां, बहुवचनोपादाने द्वयोः बहुव्रीहिर्न सिध्येदित्युभयसंग्रहायैकवचनं जात्यभिप्रायमौत्सर्गिकं वा। सेव्यतेऽनेकयेत्यत्रापि योषयेति विशेष्यानुरोधात्प्रत्येकं सेवनान्वयबोधनाय चैकवचनं न तूत्तरपदार्थप्राधान्यप्रयुक्तम्। अतएव “पतन्त्यनेके जलधेरिवीर्मय” इत्यादिकमपि सूपपादम्। अत्वं भवसीत्यादौ युष्मदस्मद्भिन्ने लक्षणा नञ् द्योतकः तथा च भिन्नेन युष्मदर्थेन तिङः सामानाधिकरण्यात्पुरुषव्यवस्था। त्वद्भिन्नाभिन्नश्रयिका भवनक्रियेति शार्ब्दबोधः। एवं न त्वं पचसि इत्यत्र त्वदभिन्नाश्रयकपाकानुकूलभावनाभावः घटोनास्तीत्यत्र घटाभिन्नाश्रयकास्तित्वाभाव इति रीत्या बोधः असमस्तनञः क्रियायामेवान्वयात्। सचाभावोऽत्यन्ताभावत्वान्योग्याभाबत्वरूपेण शक्यः तत्तद्रूपेण बोधादित्याद्यन्यत्र बिस्तरः”।

शब्दचिन्तासणौ तु अभावएव नञी मुख्यार्थ इति समर्थितम् यथा “नञ्समासेऽब्राह्मणमानयेत्यत्र पर्य्युदासे पूर्वपदे नञ्युत्तरपदार्थसम्बन्धिनि क्षत्रिये लक्षणा अघटः पट इत्यादौ प्रसज्यप्रतिषेषार्थे नञि सामानाधिकरण्यादभाबवल्लक्षणा व्यासेऽपि न घटः पटैत्यादौ यथा शुक्लपटः इत्यत्र शुक्लवल्लक्षणा। न पचतीत्यादौ क्रियासम्बन्धे, भूतले न घटैत्यादौ प्रसज्यप्रतिषेधे नञो मुख्यार्थता, सुवन्तसम्बन्धेऽपि न समासः विभाभाधिकाराद्विकल्पेन समासानुशासनात्। यजतिषु येयजामहं करोति नानुयाजेष्वित्यत्र पर्य्युदासे नञ्, तेनायमर्थः यजतिषु नानुयाजेषु अनुयाजव्यतिरिक्तेषु येजामहे इति मन्त्रं करोति। अथ नानुयाजेष्वित्यत्र न पर्युदासे नञ् तदा हि पदद्वयस्यान्यपरत्वं स्यात् समासापत्तिश्च तस्मादनुषङ्गात् करोतिना नञोऽन्वयात् प्रसज्यप्रतिषेधः तेनानुयाजेषु ये यजामहे इति मन्त्रं न करोतीत्यर्थः एवञ्च नानुयाजेष्विति पदद्वयस्य नान्यपरता न वा नञो मुख्यार्थत्यागः। समासाभावे न साधुता चेति चेत् न समासस्यानित्यत्वात् मानुयाजेष्विति वाक्ये पर्युदासे नञ्। न चैवं वाक्यवृत्तिपदस्थनञोऽन्यपरत्वाभावः गौर्वाहिक इत्यादौ वाक्येऽपि गवादिपदस्यान्यपरत्वात्। यदि न प्रसज्यप्रतिषेधे नञ् तदा मन्त्रविधायकतन्निषेधयोर्विरुद्धार्थत्वेन वाक्यमेदापत्तिः तस्मात् प्रतीतैकवाक्यत्वबलात् एकवाक्यत्वे सम्भवति वाक्यभेदस्यान्यय्यत्वात् नञ्पदे लक्षणा कल्प्यते न तु नञ्पदमुख्यर्थानुरोधादेकवाक्यत्वत्यागः न हि पदार्थाऽनुरोधेन वाक्यार्थकल्पना किन्तु वाक्यार्थाऽनुरोधात् पदार्थकल्पना नपदञ्च केवलं नास्त्येव नञ्पदादेव सर्वत्र समासानित्यत्वेन प्रयोगोपपत्तेः अन्यथा प्रसज्यप्रतिषेधे नञ् न स्यादेव नपदेनैव चरितार्थत्वात् अमानीना इत्यपदमेव निषेधवाचकं समासवाक्यभेदेन नञो द्वैविध्याद्वा तथाभिधानम्”। अभावमात्रं नञोर्थः इति नञ्वादे शिरोमणिनोक्तं यथा(१) “संसर्गाभावोऽन्योऽन्याभावश्च नञोऽर्थः।(२) तत्रचान्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वं व्युत्पत्तिबलसिद्धम्(३) नीलघटवति घटो नास्तीति नीलो घटो न घट इत्याद्यव्यवहारात् इह पीतघटवति न नीलः घटः, पीतो घटो न नीलघट इत्यादि व्यवहाराच्च।(४) प्रतियोग्यमावान्वयौ च तुल्ययोगक्षेमौ तेन यत्पदोपस्थापितस्य प्रतियोगिनोऽनुयोगिन्याधाराधेयसम्बन्धे नैवान्वथबोधः तत्र तत्ससर्गाभावस्यापि। यथा पचति चैत्रो न पत्रति चैत्रः। चैत्रस्येदं नेदं चैत्रस्य इत्यादि।(५) तिङाद्यर्थस्य कृत्यादेः प्रथमान्तपदोपस्थापिते एव तत्र यथैव, तदभावस्यापि तथा।(६) षष्ठ्यादेव चैत्रादिनिरूपितं खत्वादिकगर्थो न तश्चिष्ठं स्वामित्वादि तस्य धनाद्यवृत्तित्वेन चैत्रीयेऽपि धने नेदं चैत्रस्येति प्रसङ्गात् निरूपकत्वादेः सम्बन्धस्य प्रतियोगितानवच्छेदकत्वादेषा दिक्।(७) यत्र चाधारधेयभावो न सम्बन्धमर्य्यादालभ्यस्तत्रानुयोगिनि सप्तम्यपेक्षा। यथा भूतले घटो न भूतले घट इत्यादि तत्र च तात्पर्य्यवशात् क्वचित् भूतलादौ घटाभावः क्वचिच्च घटादौ भूतलवृत्तित्वाभावः प्रतीयते।(८) अतएव पृथिव्यां गन्धो न जले इत्यादौ प्रतीतेरेकविशेष्यकत्वानुभवः।(९) केचित्तु सर्वत्र विशेष्ये विशेषणस्याभावो नञा प्रत्याय्यते अतएव भूतले घटो नास्तीत्यादौ वचनैक्यनियमः इति प्राहुः।(१०) तैर्न जातौ सत्तेत्यत्र गतिश्चिन्तनीया जातिसमबेतत्वस्याप्रसिद्धत्वात् सम्बन्धान्तरेण जातिवृत्तित्वस्य सत्तायामपि सत्त्वात्।(११) सप्तम्यर्थान्विताभावस्य विशेषणतया प्रतियोगिन्यन्वयः इत्यपि कश्चित्। यत्र विशेषणविशेष्ययोरभेदेनान्वयो व्युत्षन्नस्तत्रान्योन्यभावो नञा बोध्यते। यथायं घटो नीलो नायं घटो नील इति। तत्र च विशेषणविशेष्ययोः समानविभक्तिकत्वं निरुद्धविभक्तिकत्वविरहो वा तन्त्रम्।(१२) अतएव यजतिषु ये यजामहं कुर्य्यान्नानुयाजेष्वित्यादौ एकवाक्यत्वानुरोधात्(१३) ये यजामहमित्यादेरनुषङ्गगौरवाच्च यजतिष्वनुयाजभेदो बोध्यते।(१४) विशेषणविभक्तिस्तु प्रयोगसाधुत्वार्था।(१५) नामार्थयोर्भेदेनान्वयबोघ एव प्रकारीभूतविभक्त्यार्घोपस्थितेस्तन्त्रत्वात् लाघवेन तयोरन्वयमात्र एव तथात्वम्।(१६) विशेषणविभक्तिस्त्वभेदार्थिका।(१७) नीलोत्पलं चित्रगुरित्यादौ लुप्ताया विभक्तेरनुसन्धानमिति मते–(१८) न राज्ञ इत्यत्र षष्ठ्यर्थस्य स्वत्वस्येवात्रापि सप्तम्यर्थस्य तयोरभेदस्याभावो बोध्यताम्।(१९) यत्तु करणनिषेधेविकल्पापत्तेः मेदपरतेति तदसत्(२०) विशेषनिषेधे सामान्यविधेस्तदितरपरतायाः ब्राह्मणेभ्यो दधि दातव्यं न कौण्डिन्याय दातव्यमित्यादौ व्युत्पत्तिसिद्धत्वेन विकल्पानवकाशात्।(२१) न च तत्रापि कौण्डिन्यभेदो बोध्यः कौण्डिन्यपदस्य विरुद्धैकवचनावरुद्धत्वात्।(२२) न खलु महतो राज्ञो न महतो राज्ञ इत्यत्रेव महतां राज्ञी न महतां राज्ञ इत्यत्रापि राजनि महद- भेदाभेदौ प्रतीयेते एकोनद्भावित्यादिवत् कथञ्चित् तत्समर्थनेऽपि द्वितीयस्य दातव्यमित्यस्यानन्वयप्रसङ्गात्।(२३) अतएव रात्रौ श्राद्धं न कुर्वीतेत्यादौ करणनिषेधेऽपि न विकल्पावकाशः।(२४) न हि तत्रापि रात्रीतरपरता,(२५) रात्रिभिन्ने श्राद्धविधावपि अमावस्यायां पितृभ्योदद्यादित्यादौ रात्रौ श्राद्धप्रसक्तेर्दुर्वारत्वात्।(२६) न खलु क्रियारहितमपि श्राद्धविधायकं वाक्यान्तरमपि येनेदं तेन सममेकवाक्यतामासादयेत्।(२७) नापीदं नानुयाजेष्वितिवत् पृथक् क्रियारहितम्।(२८) अथ रात्रौ श्राद्धस्य प्रसक्तौ विकल्पापत्तिः अप्रसक्तौ कथं निषेधः प्रसक्तं हि प्रतिसिध्यते इति चेत् साधीयानयं मन्त्रपाठः हृदे दहनो नास्तीत्यादौ शाब्दबोधेऽपि परप्रयत्नेन तत्र दहनप्रसक्तिरुपादीयेत्।(२९) निषेधविधेर्वैयर्थ्यमिति चेत् तात्पर्य्यानवबोधात् रात्रिश्राद्धकरणवारणस्य तदर्थत्वात्।(३०) एकविषयतया पुनरनन्यगत्या षोडशिग्रहणाग्रहणयोर्विकल्पः।(३१) तत्र च षोडशिग्रहणं नेष्टसाधनमित्यादिकं नार्थः ग्रहणविधिविरोधात् अपि तु षोडशिग्रहणाभाव इष्टसाधनमित्यादि।(३२) व्युत्पन्नश्च नञ् समभिव्याहृतधात्यर्थस्याभावेऽपि विभक्त्यर्थान्वयः।(३३) अतएव प्राभाकराः न कलञ्जं भक्षयेदिति श्रुतेः कलञ्जभक्षणाभावविषयकं कार्यमर्थमाहुः।(३४) नियमस्तु तात्पर्य्यवशात्।(३५) मुख्यफलाजनकत्वेऽपि चाङ्गस्य परमापूर्वरूपेष्टसाधनत्वमविरुद्धम्।(३६) ग्रहणविध्यन्यथानुपपत्त्या च षोडशिग्रहणादतिशयितं परमापूर्वं तस्माच्चातिशयितं मुख्यं फलं कल्प्यते इति सर्वसमञ्जसम्।(३७) प्रतियोग्यनुयोगिभावः प्रतियोग्यनुयोगिरूपाभावाधिकरणयो राधाराधेयभावश्च सम्बन्धविधया भासते।(३८) निपातातिरिक्तस्थल एव प्रातिपदिकार्थयोर्भेदेनान्वये प्रकारीभूतविभक्त्यर्थोपस्थितेस्तन्त्रत्वात्।(३९) अतएव इवाद्यर्थान्वये न षष्ठ्याद्यपेक्षा(४०) अघटं मूतलम् असमोदेश इत्यादौ समासे सामानाधिकरण्याद्यनुरोधात् नञोऽभाववत्परता।(४१) केचित्तु प्रतियोगिपदोत्तरस्य सुपः प्रतियोगित्वम्(४२) अनुयोगित्वं वा नञुत्तरस्य चाधिकरत्वं वार्थः(४३) नञो वाऽभाववति लक्षणा।(४४) विभक्त्यर्थानुयोगिसमानविभक्तिकार्थयोरन्योन्याभावसंसर्गाभावबोधने नञोऽसामर्थ्यम्।(४५) तेन न पचति न राज्ञ इत्यादौ कृत्यादेरन्योऽन्याभावो भूललं न घट इत्यादौ घटादेः संसर्गाभावो न प्रतीयते इत्याहुः”। अस्य गदाधरादिव्याख्यातृसम्मतोऽयमर्थः। अभावत्वम् अन्योन्याभावत्वञ्च नञ्पदशक्यतावच्छेदकम्। अभावत्वं च ध्वंसादिसाधारणमखण्डोपाधिः एवमन्योन्याभावत्वमपि तदेतत् गदाधरादिभिः समर्थितं यथा(१) अथ घटो नास्तीत्यादिवाक्याद् घटत्वादिरूपसामान्यधर्मावच्छिन्नप्रतियोगिताकत्वबोधने तच्छून्ययोर्ध्वंसप्रागभावयोरन्वयितावच्छेदकावच्छिन्नप्रतियोनिताकत्वविरहेणाप्रत्ययाद् ध्वंसप्रागभावसाधारण्यं नञपदशक्तेर्न सम्भवतीति चेत् न ध्वंसप्रागभावयोरत्यन्ताभावविरोधितामते अन्तरा श्यामे रक्तं रूपं नास्तीत्यादिव्यवहारानुरोधेन ध्वंस प्रागभावयोरपि समयविशेषावच्छेदेन सामान्यावच्छिन्नप्रतियोनिकत्वोपगमस्याबश्यकत्वात् तयोरपि नञा प्रतिपादनात् व्युत्पत्तिविरोधेन तयोस्तेनाप्रतिपादनेऽपि सदा तनत्वघटितात्यन्ताभावत्वापेक्षया ध्वंसादिसाधारणाभावत्वस्य लाघवेन सदातनभावरूपाभावाभावसाधारण्यामुरोधेन प्रवृत्तिनिमित्ततया तयोरपि नञ्पदवाच्यत्वा नपायात्। न चात्यन्ताभावत्वमखण्डधर्मान्तरं अनुयोगिता विशेषरूपं वा न सदातनत्वघटितमिति न गौरवादिकमिति वाच्यं तादृशधर्मान्तरे मानाभावात् तद्व्यक्तिर्नास्तीत्यादि वाक्यात्तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकयोर्ध्वंसप्रागभावयोर्बोधनाच्च ध्वंसप्रागभावसाधारणशक्तेरावश्यकत्वात्। न च ध्वंसप्रागभावयोरत्यन्ताभावविरोधस्याप्रामाणिकतया तद्व्यक्तित्वावच्छिन्नध्वंसस्याद्यधिकरणे तादृशात्यन्ताभावसत्त्वात् स एव उक्तबाक्यात् प्रतीयत इति वाच्यं ध्वंसाद्यधिकरणे तादृशात्यन्तामावस्याप्रामणिकत्वात्” गदाधरः। “एवम् अन्योन्याभावत्वमप्यखण्डोपाधिः। न तु तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभाववत्वम्। तत्तत्संयोगितादात्म्यस्य संयोगरूपतया संयोगिनोऽत्यन्ताभावेऽतिव्याप्तेः। सम्बन्धविधया तादात्म्यनिष्ठावच्छेदकतायानिवेशेऽपि संयोगसम्बन्धावच्छिन्नसंयोगावच्छिन्नप्रतियोगिताकाभावेऽतिव्याप्तेर्दुष्परिहरणादिति वस्तुतस्तु अन्योन्यामावस्य प्रतियोगितावच्छेदकसम्बन्धे मानाभावे- न तादात्म्यस्य तत्प्रतियोगितावच्छेदकसम्बन्धत्वाभावात्तादृशलक्षणमसम्भवदुक्तिकमेव। न चैवमभावमात्रस्यैव प्रतियोगितावच्छेदकसम्बन्धसद्भावे प्रमाणाभाव इति वाच्यम्। अत्यन्ताभावस्य प्रतियोगितावच्छेदकसम्बन्धानङ्गरीकारे बाधबुद्धिप्रतिबध्यतावच्छेदकनिर्वचनानुपपत्तेः। तथाहि घटाभावप्रकारकज्ञानस्य प्रतिबध्यतावच्छेदकं हि न घटप्रकारकज्ञानत्वम्। घटाभाववत्ताज्ञानकाले कदाचित् केन चित् सम्बन्धेन धटप्रकारकज्ञानमुत्पद्यते केनचित् सम्बन्धेन तन्नेति नियमानुपपत्तेस्तथाच तादृशनियमानुरोधेन तेन सम्बन्धेन तत्प्रकारकबुद्धिं प्रति तत्सम्बन्धावच्छिन्नतन्निष्ठप्रतियोगिताकाभाववत्तानिर्णयस्य प्रतिबन्धकताया अवश्यवक्तव्यत्वेनात्यन्ताभावप्रतियोगितावच्छेदकसम्बन्धसिद्धिः। न चैवमन्योन्याभावस्यापि तत्सिद्धौ युक्तिस्तुल्येति वाच्यम्। घटत्वप्रकारकबुद्धिं प्रति घटान्योन्याभावत्तानिर्णयस्यैव विरोधित्वकल्पनेन सामञ्जस्ये विनान्योन्याभावप्रतियोगितावच्छेदकसम्बन्धं प्रतिबध्यप्रतिबन्धकभावानुपपत्तिरूपबाधकाभावेन युक्तेरतौल्यात्। ननूभयधर्मस्य नञ्शक्यतावच्छेदकत्वे गौरवेण लाघवादभावत्वरूपैकधर्मस्यैव तदवच्छेदकत्वस्वीकार उचित इति अन्योन्याभावश्चे त्यादि ग्रन्थोऽलग्नक इति चेन्न। घटो नास्तीत्यादौ संसर्गाभावत्वप्रकारकबोधानुभवानुरोधेन घटः पटो नेत्यादौ त्वन्योन्याभावत्वप्रकारकबोधानुभवानुरोधेन च तथोक्तत्वात्” रघुदेवः।(२) तत्र चेति तत्र नञर्थे संसर्गाभावे भेदे च अन्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वमिति येन रूपेण प्रतियोगिनोऽभावांशे विशेषेणता तद्धर्मपर्य्याप्तप्रयोगितावच्छेदकताकत्वम्। व्युत्पत्तिबलतभ्यमिति अपदार्थोऽपि तद्रूपावच्छिन्नोपस्थापकशब्दविशेषसमभिघ्याहाररूपाकाङ्क्षाबलात् प्रतियोगिसंसर्गविधया लभ्यमित्यर्थः। थटत्वाद्यवच्छिन्नप्रतियोगिताकत्वञ्च घटत्वाद्यवच्छिन्नप्रतियोगिता निरूपितत्वविशेषिता अनुयोगिता सा च घटादिरूपविशेषणप्रतियोगिकेति तत्सम्बन्धतया भासते नञ्पदार्थतावच्छेदकानुयोनिताया घटादेरन्वयोपगमे तु तत्र तादृशप्रतियोगितानिरूपितत्वमेव सम्बन्धः घटादिनिष्ठप्रतियोगिताप्रतियोगिकनिरूप्यत्वं घटादिरूपप्रतियोगि प्रतियोगिकमपि इति तस्य घटादिसम्बन्धता” गदाधरः।(३) “अन्वयितावच्छेदकावच्छिन्नत्वाविशेषितायाः प्रतियोगि- तायाः नञ्पदार्थे संसर्गाभावे प्रतियोगिसम्बन्धत्वोपगमे बाधकं दर्शयति नीलघटवतीति न घट इति इत्याद्य व्यवहारात् इत्यनेन सम्बध्यते। तादृश्याः प्रतियोगिताया नञर्थे भेदे प्रतियोगिसम्बन्धत्वे बाधकमाह नीलो घट इति अव्यवहारादिति व्यवहारस्य प्रमाणत्वाभावादित्यर्थः शुद्धप्रतियोगितायाश्च सम्बन्धत्वे अबाधितविशेषान्तराभावबोधकतया तत्तद्वाक्यानां प्रामाण्यस्य दुर्वारतया व्युत्पन्नैरपि तथा प्रयुज्येतेति भावः। तद्रूपविशिष्टप्रतियोगिविशेषिते धर्मिणि शुद्धतद्रूपविशिष्टप्रतियोगिविशेषितधर्मिणि शुद्ध्वतद्रूपविविष्टप्रतियोगिविशेषितसंसर्गाभावस्य तद्रूपविशिष्टे प्रतियोगिनि शुद्धतद्रूपावच्छिन्नप्रतियोगिविशेषितभेदस्य च बोधने नञोऽसामर्थ्योपगमेन दर्शितप्रयोगवारणसम्भवेऽपि वस्तुगत्या नीलघटवति नीलघटादौ “अत्र न घटः इत्यादिप्रयोगस्य प्रामाण्यप्रसङ्गो दुर्वार इति बोध्यम्” गदाधरः।(४) “एवं भूतले न घट इत्यादौ भूतलादौ घटसंसर्नाभावाधिकरणतावद् घटभेदाधिकरणता कुतो न प्रतीयते इत्यत आह प्रतियोग्थभावान्वयौ चेति अधिकरणे इत्यादिः अभावपदं संसर्गाभावपरं तथा चाधिकरणे यादृशपदोपस्थाप्यस्य प्रतियोगिनः प्रतियोगितावच्छेदकसम्बन्धस्य भानं यादृशञ्च अधिकरणबोधकं यादृशपदसमभिव्याहारसापेक्षं च तादृशपदोपस्थाप्यप्रतियोग्यन्विताभावस्यापि अधाराधेयभावरूपसम्बन्धस्य भानं तादृशम् अधिकरणबोधकं तादृशबोधकपदसापेक्षञ्चेत्यर्थः। अनुयोगिनि यादृशपदोपस्थाप्ये इत्यादिः आधाराधेयभावसम्बन्धेनान्वय इति आधाराधेयभावनियामकप्रतियोगितावच्छेदकसम्बन्धस्य संयोगादेः संसर्गमर्य्यादया भानमित्यर्थः तत्संसर्गाभावस्यापि तथेति। तत्पदोपस्थाप्यप्रतियोगिविशेषिततत्सम्बन्धावच्छिन्नाभावस्यापि अधारतासम्बन्धोऽपि तादृशपदोपस्थाप्ये अनुयोगिनि सम्बन्धमर्य्यादया भासते इत्यर्थः” गदाधरः।(५) “तिङाद्यर्थस्येति नञोऽसत्त्व इत्यादिः आदिपदात् सुप्परिग्रहः कृत्यादेरित्यादिना तिङ्र्थाश्रयत्वादेः सुवर्थस्वत्वादेश्च परिग्रहः। प्रथमान्तपदोपस्थाप्यस्य विशेष्यतानियामकत्वाभिधानं तिङ्प्रत्यये चैत्रस्य धनं पश्यतीत्यादौ द्वितीयाद्यन्तपदोपस्थाप्येनापि धनादिना षष्ठ्याद्यर्थस्वत्वान्वयात् सुवर्थविशेष्यतयाऽन्वये प्रथमान्तपदोपस्थाप्यत्वस्यानियामकत्वात् सुपश्च कारकपदोत्तरस्य योऽर्थस्तद्विशे- ष्यत्वे धातूपस्थाप्यत्वं नियामकं शेषषष्ठ्यर्थस्य विशेष्यत्वे च प्रातिपदिकोपस्थाप्यत्वं प्रत्ययान्योपस्थाप्यत्वं वा, “गुरु विप्रतपस्विद्वर्गतानां प्रतिकुर्वीत” इत्यादौ प्रतीकारादिक्रियायामपि तदन्वयात्। उपपदविभक्तयश्च यद्यत्पदयोगे याया विहितास्तत्तदर्थविशेष्यत्वे तत्तत्पदोपस्थाप्यत्वं, यथा चैत्रादन्य इत्यादावन्यादिपदप्रयोगेऽनुशिष्टानां पञ्चम्यादीनामर्थस्य प्रतियोगित्वादेर्विशेष्यत्वे अन्यत्वादिनिष्ठे अन्यादिपदोपस्थाप्यत्वं, (तन्त्रम्) तत्रेत्यनुयोगिनीत्यर्थः तथा आधाराधेयतासम्बन्धेनान्वयः इत्यर्थः। तदभावस्यापि तिङाद्युपस्थापितकृत्याद्यभावस्यापि तत्र तथा प्रधमाद्यन्तपदोपस्थाप्ये आधाराधेयभावसम्बन्धेनान्वय इत्यर्थः। न पचति चैत्रेणेत्यादितश्चैत्रादौ नञर्थस्याभावस्य विशेषणत्वेनानन्वयात् चैत्रेण पाककृतिरि त्यत्रेव चैत्रेण पचतीत्यादितश्चैत्रादिवृत्तित्वप्रकारेण पाककृत्याद्यभावस्याबोधाच्चेति भावः” गदाधरः।(६) “चैत्रस्य धनमित्यादौ षष्ठ्याद्यर्थः स्वामित्वादिकं तच्च प्रकृत्यर्थचैत्रादिविशेषणतया भासते स्वामित्वप्रकारेण चैत्रादेरेव धनादौ स्वत्वादिसम्बन्धेनान्वयः विभक्त्यर्थविशेष्यतापन्नप्रातिपदिकार्थस्य प्रातिपदिकार्थे साक्षादपि भेदान्वयबोघोपगमात् नामार्थयोर्भेदेनान्वये प्रकारीभूतविभक्त्यर्थोपस्थितेस्तन्त्रत्वात्। अथ वा षष्ठ्याद्यर्थः स्वामित्वादिकं प्रकृत्यर्थविशेष्यतयैव भासते धनादेस्तदनाश्रयत्वेऽपि तन्निरूपकतया निरूपकतासम्बन्धेन तत्र तदन्वय इति प्राचाम्मतं दूषयति षष्ठ्यादेश्चेति आदिपदात् द्वितीयातृतीयापरिग्रहः। चैत्रादिनिरूपितमिति। स्वामित्वादिकमित्यादिना कर्मवत्त्वक्रियाजन्यत्वादिपरिग्रहः निरूपितत्वसम्बन्धेन चैत्रादिरूपप्रकृत्यर्थान्वयीत्यर्थः। तन्निष्ठमिति आश्रयतासम्बन्धेन विशेषणतया चैत्राद्यन्वयि आधेयतासम्बन्धेन चैत्रादिरूपविशेषणेनान्वयि वेत्यर्थः। स्वामित्वमित्यादिना कर्तृत्वकर्मत्वादिपरिग्रहः। तस्येति चैत्रस्य चैत्रनिष्ठस्वामित्वादेश्चेत्यर्थः। धनाद्यवृत्तित्वेनेति। वृत्त्यनियामकस्वत्वनिरूपकत्वादिसम्बन्धेन धनादिसम्बन्धत्वेऽपि धनाद्यवृत्तितयेत्यर्थः। धनादौ आश्रयतासम्बन्धेन चैत्रादेस्तन्निष्ठस्वामित्वादेश्चाभावसत्त्वेनेति शेषः इति प्रसङ्गात् भवन्मते अवाधिततादृशचैत्राद्यभावबोधकस्य इत्यादिप्रयोगस्य प्रामाण्यप्रसङ्गात्। ननु स्वामित्वादेः प्रकृत्यर्थविशेष्यतापक्षे स्तामित्वादेर्निरूपकतासम्बन्धावच्छिन्नाभावस्येव प्रकृत्यर्थ- विशेषणतापक्षे तद्विशिष्टप्रकृत्यर्थचैत्रादेः स्वत्वादिसम्बन्धावच्छिन्नाभावस्य नञा प्रत्यायनोपगमान्न तत्रातिप्रसङ्गावकाशः तादृशाभावस्य धनादौ बाधात् इत्यत आह निरूपकत्वादेरिति आदिपदात् स्वत्वादिपरिग्रहः। प्रतियोगितानवच्छेदकत्वादिति वृत्त्यनियामकतयेत्यादिः। वृत्त्यनियामकसम्बन्धावच्छिन्नसंसर्गाभावस्याप्रामाणिकत्वात् येन सम्बन्धेनायमिह इतिप्रत्ययस्तत्सम्बन्धमादायैव नाय मिति प्रत्ययः, निरूपकतासम्बन्धेनात्र स्वामित्वमिति प्रत्ययाभावात् तेन सम्बन्धेन नात्र स्वामित्वमितिप्रत्ययस्या भावः। अतएव धनमात्रे स्वामित्वमात्रस्याश्रयतासम्बन्धावच्छिन्नाभावसत्त्वेन चैत्रीयधने चैत्रनिष्ठस्वामित्वमिति धनेषु चैत्रीयत्वस्य स्वामित्वे च चैत्रनिष्ठत्वस्या व्यावर्त्तकतया न व्यवह्रियते अपि तु धने न स्वामित्वमित्येवम् अन्यथा निरूपकतासम्बन्थावच्छिन्नस्वामित्वाभावतात्पर्य्येण तथा व्यवहारस्य दुर्वारतापत्तेः। अतएव कृतिमत्त्वरूपकर्तृत्वसम्बन्धस्य वृत्त्यनियामकतया न पचतीत्यत्र तत्सम्बावच्छिन्नक्रियाभाववोधासम्भवेन पचतीत्यादौ कृतिमत्त्वसम्बन्धेन पाकादेः कर्त्तर्य्यन्वयबोधं नोपजगाम। उपजगाम तु जानातीत्यादावाश्रयतासम्बन्धेन ज्ञानादेरिति भावः” गदाधरः।(७) “यत्र चेति ययोरित्यर्थः। न संसर्गमर्य्यादया लभा इति भेदान्वये निराङ्क्षतयेत्यादिः तादृशौ च प्रातिपदिकाद्यर्थौ तत्रेति तत्पदार्थे तत्पदार्थसंसर्गाभावबोधे अनुयोगिनि अनुयोगिवाचकपदोत्तरं सप्तम्यपेक्षेति। तत्राभावसम्बन्धस्याधारतारूपस्य संसर्गत्वासम्भवेन तदर्थकविभक्तिं विना तद्भानासम्भवादिति भावः। ननु सप्तम्यन्तभूतलादिपदेन नञर्थाभावे आश्रयतासम्बन्धेन भूतलादिवृत्तित्वबोधवत् तादृशपदेनेदं चैत्रस्येत्यादौ षष्ठ्याद्यन्तपदेनेव प्रथमान्तार्थविशेषणक नञर्थाभावेऽपि कदाचित् प्रतियोगितया स्वार्थान्वयबोधस्य जननात् घटाद्यभावो भूतले, भूतलवृत्तित्वाभाववान् घट इति द्विविध एव भूतले न घटैत्यादिवाक्यजन्यबोधः। एवञ्च तादृशवाक्यात् कदाचित् प्रथमबोधः कदाचिच्च द्वितीय इत्यत्र किं नियामकमित्याकाङ्क्षायां तात्पर्य्यभेदस्य तन्नियमकत्वमित्याह तत्र चेति तत्र भूतले न घट इत्यादिस्थले” गदा(८) “ननु सर्वत्र सप्तम्यन्तार्थस्याभावनिष्ठतयैवान्वयोऽस्तु न तु कदाचिदपि तत्प्रतियोगितया विनिगमकञ्चाग्रे व्यक्तीभविष्यतीत्यत आह अतएवेति कदाचित् सप्त- भ्यन्तार्थप्रतियोगिकाभावस्यापि नञा बोधनादेवेत्यर्थः। पृथिव्यां गन्धे न जले इत्यादौ इत्यादिद्विविधवाक्ये प्रतीतेरेकविशेष्यकत्वानुभवः गन्धाद्येकविशेष्यकप्रतीतिजनकत्वानुभवः न जले इत्यतो गन्धाभावस्यैव जलवृत्तित्वबोधोपगमे तत्प्रतीतावभावस्यैव विशेष्यतया पृथिव्यां गन्ध इत्यतश्च तद्विशेष्यकबोधानुत्पत्त्या तयोरेक विशेष्यक बोधजनकत्वानुभवो विरुध्यतेति भावः” गदा०।(९) “नञर्थाभावनिष्ठाधेयताबोधकत्वं सप्तम्याः खण्डयतां मतमुपन्यस्यति केचित्त्विति विशेष्ये विशेषणस्याभाव इति नञोऽसत्त्वे यत्पदार्थे यत्पदार्थो विशेषणतया यत्र भासते तत्र नञा तत्पदार्थे तत्पदार्थाभावो विशेषणतया प्रताय्यते इत्यर्थः। तथा च भूतले घट इत्यतो घटे भूतलवृत्तित्वस्य विशेषणतया बोधात् भूतले न घट इत्यतोऽपि घटे भूतलवृत्तित्वाभाव एव विशेषणतया प्रतीयते न तु घटाभावे भूतलवृत्तित्वम् एकाकारवाक्यस्य द्विविध बोधजनकत्वोपगमे नञ्पदे सप्तम्यन्तभूतलादिपदसमभिव्याहारज्ञानस्य द्विविधकारणत्वकल्पनापत्तेः। उभयसाधारणतत्कार्यतावच्छेदकैकस्य सम्भवेऽपि तादृशवाक्य धर्मिकद्विविधवाक्यार्थतात्पर्यज्ञानस्य पृथक्कारणतया तत्कारणताधिक्यस्य दुर्वारत्वादिति भावः। एतन्मते युक्त्यन्तरमाह अतएवेति घटो नास्तीत्यादाविवेत्यादिना घटौ न स्तः घटा न सन्तीत्यादिपरिग्रहः वचनैक्यनियम इति विशेष्यविशेषणपदयोः समानवचनत्वनियमेन सुप्तिङोर्वचनसाम्ये नियम इत्यर्थः भूतले घटोऽस्तीत्यादौ भूतलाद्यस्तित्वविशेष्यत्वे तदैक्येन तद्घटोऽस्तोत्यादौ भावस्य भूतलाद्यस्तित्वविशेष्यत्वे घटौ न स्तैत्यादौ द्विवचनाद्यनुपपत्तेरिति भावः” गदाधरः।(१०) “गतिश्चिन्तनीया सत्ताशब्दस्य सत्तासमवाये सत्ताप्रतियोगिकत्वविशिष्टसमवायानुयोगित्वे वा लक्षणया उपपत्तिप्रकारश्चिन्तनीयः। यथाश्रुतार्थेऽनुपपत्तिं दर्शयति जातीति अप्रसिद्धेरिति तदभावस्य सत्तायां नञा बोधयितुमशक्यत्वादिति शेषः। इदञ्चात्र समवायेन वृत्तेः सप्तम्यन्तार्थत्वे बोध्यम्। वृत्तिसामान्यस्य सप्तम्यर्थतोपगमेऽप्रसिद्धिविरहेण तत्पक्षे बाधमाह सम्बन्धान्तरेणेति एकार्थसमवायेनेत्यर्थः” गदाधरः।(११) “मतान्तरमाह सप्तम्यर्थेति भूतले घटो नास्ति, जातौ न सत्तास्तीत्यादौ भूतलजात्याद्यस्तित्वरूपसप्तमीसमभिव्याहृतक्रियापदपर्यन्तार्थस्याश्रयतयान्वयी योऽभावः प्रतियोगितासम्बन्धेन प्रकारीभवतस्तस्य विशेष्यतया प्रतियोगी भासत इत्यर्थः एवञ्च परम्परया क्रियाविशेष्य प्रतियोगिवाचकघटादिसमानवचनत्वं क्रियापदस्य निर्वहतीति द्रष्टव्यम्। येन रूपेण प्रतियोगिनो विशेषणत्वं तद्रूपावच्छिन्नविशेषितैव प्रतियोगिता सम्बन्धतया भासते अतो घटादिमति विशेषाभावमादायात्र घटो नास्तीत्यादयो व्यवहाराः” गदाधरः।(१२) “यजति ये यजामहं नानुयाजेष्वित्यादौ अनुयाजाख्ययागविशेषभिन्नयागेषु ये यजामहे पदवन्तं मन्त्रं करोति उच्चारयतीत्याकारकबोध उत्पद्यत इत्यर्थः कारणसत्त्वे कार्य्योत्पादस्यावश्यं भावादिति भावः। अत्र नञा निषेधबोधने बाधकमाह एकवाक्यत्वेति एकविधेयार्थकत्वानुरोधादित्यर्थः। अत्र नञाऽन्योन्याभावबोधनेऽनुयाजभिन्नेषु यागेषु ये यजामहेपदवन्मन्त्रकरणरूपैकार्थविधानसम्भवेनैकविधेयार्थकत्वरूपैकवाक्यत्वं सम्भवति तत्र नञा निषेधवोधने च नैवं यागेषु ये यजामहेपदवन्मन्त्रविधानं अनुयाजेषु तन्निषेधविधानमिति विधेयीभूतार्थद्वैविध्यात् एकविधेयीभूतैकार्थत्वस्य सम्भवे नानाविधेयार्थकत्वरूपविभिन्नवाक्यत्वकल्पनाया अन्याय्यत्वेन तत्रेष्टापत्तिकरस्याशक्यत्वादिति भावः” रघुदेवः।(१३) “तत्र च नञा निषेधबोधने दूषणान्तरमाह ये यजामहमित्यादेरित्यादि। तत्रादिना करोतेः क्रियात्वेन कारकबोधानुरोधात् करोतिपदस्य ये यजामहमिति पदस्य चानुषङ्गकल्पने गौरवाच्चेति। तथा चात्र नञा निषेधवोधने यागेषु ये यजामहं करोति, नानुयाजेषु येयजामहं करोतीत्यर्थः। अनुषङ्गकल्पनं विना तु तादृशबोधो न सम्भवति। सकृदुच्चरितेत्यादि व्युत्पत्तिभङ्गप्रसङ्गादिति भावः” रघुदेवः।(१४) “नन्वत्र नञा निषेधबोधने नानुयाजेष्वित्यत्र सप्तम्यर्थान्वयो भवति अनुयाजाधिकरणतादृशनिषेधस्य बोधात्। अन्योन्याभावबोधने च न तथेति सप्तम्यर्थानन्वयभयेन पूर्वोक्तदोषद्वयमभ्युपेत्यात्र नञा निषेधबोधकत्वमवश्यमभ्युपेयमित्यत आह विशेषणबिभक्तिस्त्विति तथा चात्र नञान्योन्यमावबोधनेऽपि विशेषणविभक्तेः प्रयोगसाधुत्वरूपप्रयोजनसम्भवेन न नैरर्थक्यमिति भावः” रघुदेवः।(१५) “ननु सर्वत्र विशेषणविभक्तेः प्रयोगसाधुत्वे नीलो घट इत्यादावभेदसम्बन्धेनैव घटे नीलस्यान्वयबोधः स च न सम्भवति नामार्थयोः साक्षादन्वयस्याव्युत्पन्नत्वादित्यत आह नामार्थयोरित्यादि भेदेन अभेदादितिरिक्त सम्बन्धेन तन्त्रत्वात् हेतुत्वात् तथा चाभेदातिरिक्तसम्बन्धावच्छिन्ननामार्थनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धिं प्रति विषयतासम्बन्धेन विभक्तिपदज्ञानजन्योपस्थितेर्हेतुत्वस्य कल्पनान्नोक्तानुपपत्तिः। तत्राभेदसम्बन्धेनैकनामार्थोपर्य्यपरनामार्थस्य प्रकारतया तादृशशाब्दबोधस्योक्तकार्यतावच्छेदकसम्बन्धेन तत्रोत्पत्त्यभावात्। मतान्तरमाह लाघवेनेत्यादि लाघवञ्च तत्र जनकतावच्छेदककोटावमेदातिरिक्तसम्बन्धावच्छिन्नत्वानिवेशेन तयोः नामार्थयोः तथात्वम् विभक्तिजन्योपस्थितेस्तन्त्रत्वम्” रघुदेवः।(१६) “नन्वेवं सति नीलो घट इत्यादौ कथं विशेषणविभक्तिजन्योपस्थितिं विनाप्यभेदान्वयबोधस्तत्राह विशेषणविभक्तिस्त्विति अभेदार्थिका सर्वत्राभेदार्थिका तथा च तत्र विभक्तिजन्याभेदोपस्थितिं विनाऽभेदानङ्गीकार इति भावः” रघुदेवः।(१७) “ननु यत्र विशेषणविभक्तेरभावस्तत्रका गतिरित्यत आह नीलोत्पलमित्यादि तथा च तत्रापि यावत् लुप्तविभक्ते रनुसन्धानं नास्ति तत्र तावत् नाङ्गीक्रियत एव शाब्द बोध इति भावः। मतेत्वित्यनेनास्वरसः सूचितः स च तन्मतेऽपि नीलोत्पलमित्यादौ लुप्तविभक्तेरनुसन्धानं विनाप्यनुभवसिद्धस्य शाब्दबोधस्यापलापो द्रष्टव्यः” रघुदेवः(१८) “न राज्ञ इत्यादि। न राज्ञः पुरुष इत्यादौ यथा पुरुषे षष्ठ्यर्थस्वत्वस्याभावः प्रतीयते तथात्रापि (नानुयाजेष्वित्यत्र) प्रयोगे सप्तम्यार्थस्याभेदाभावः प्रतीयत इत्यर्थः। न चैवं सति एतन्मते नञोऽन्योन्याभावत्वेन शक्तिकल्पनमनर्थकम् सर्वत्र संसगांभावशक्तित एव नञ्जन्यशाब्दबोधनिर्वाहात् भूतलं न घट इत्यादौ विशेषणविभक्त्यर्थाभेदस्य संसर्गाभाव एव नञा प्रत्याय्यत इत्यभ्युपगमादिति वाच्यम्। तत्र भेदत्वप्रकारकशाब्दबोधस्यानुभवसिद्धतयाऽपलापमात्रेण निराकरणासम्भवेन तेन रूपेणापि नञः शक्तिकल्पनस्यावश्यकत्वादिति” रघुदेवः।(१९) “केचित्तु यजतिषु ये यजामहं करोति नानुयजेष्वित्यादौ नञो निषेधबोधकत्वेऽनुयाजेषु येयजामहेवन्मन्त्र विकल्पापत्तिः यजतिषु येयजामह करोतीत्यनेन यागसामान्ये तत्प्राप्त्या, तदन्तर्गतानुयाजेष्वपि प्राप्तत्वात् नानुयाजेष्वित्यनेन तत्र तस्य प्रतिषिद्धत्वाच्चेति, तत्र नञ न प्रतिषेधबोधकत्वं किन्तु भेदबोधकत्वमिति नानुयाजेष्वित्यादौ नजो भेदबोधकत्वे युक्तिमाहुः तन्मतं दूषयितुमुपन्यस्यति यत्त्विति करणनिषेध इति। नानुयाजेष्वित्यादौ नञा येयजामहेपदवन्मन्त्रकरणनिषेधबोधने इत्यर्थः विकल्पापत्तेरिति अनुयाजेषु तादृशमन्त्रकरणाकरणापत्तेरित्यर्थः उपदर्शितरीत्या तादृशमन्त्रकरणस्य विहितनिषिद्धत्वादिति भावः” रघुदेवः।(२०) “विशेषनिषेध इत्यादि व्राह्मणेभ्यो दधि दातव्यं न कौण्डिन्याय दातव्यमित्यादौ विशेषनिषेधस्थलीयस्य ब्राह्मणेभ्यो दधि दातव्यभितिसामान्यविधेः कौण्डिन्यातिरिक्तव्राह्मणसम्प्रदानकदघिदानबोधकत्वव्यवस्थावत् प्रकृतेऽपि यजतिषु येयजामहं करोतीति सामान्यविधेरप्यनुयागातिरिक्तयागे ये यजामहेपदवन्मन्त्रकरणप्रतिपादकत्वंनानुयाजे तथाविधमन्त्रकरणस्याप्राप्त्या पिकल्पासम्भवादिति भावः” रघुदेवः।(२१) “ननु ब्राह्मणेभ्यो दधि दातव्यं न कौण्डिन्याय दातव्यमित्यादावपि सामान्यविधेर्न विशेषेतरपरत्वम्। न च तथा सति कौण्डिन्यस्य दधिदानप्रसक्त्या विकल्पापत्तिरिति वाच्यं तत्र नञोभेदबोधकत्वमभ्युपेत्य वाक्यैकवाक्यतया कौण्डिन्यान्यब्राह्मणसंप्रदानकदधिदानप्रतिपादनाभ्युपगमेन कौण्डिन्थस्य तदप्राप्त्या तन्निषेधाप्राप्त्या च विकल्पानवकाशात् तत्र सामान्यविधेर्विशेषेतरपरत्वकल्पनस्य निर्युक्तिकत्वात् प्रकृतस्थले नञोनिषेधबोधकत्वेन विकल्पापत्तिर्दुर्द्धरैवेत्यत आह न चेति। विरुद्धैकवचनत्वादिति। यथैकनामार्थेऽपरनामार्थान्योन्यभावबोधकनञ्स्थले विशेषणविशेष्यवाचकपदयोः समान विभक्तिकत्वं तन्त्रम्। तथा समानबचनत्वस्यापि तन्त्रत्वेन प्रकृते तदभावात्तथा बोधासम्भवादिति भावः” रघुदेवः।(२२) “नन्वेकनामार्थेऽपरुनामार्थस्यान्योन्याभावबोधे विशेषणवाचकपदविशेष्यवात्वकपदयोः समानवचनस्य तन्त्रत्वे प्रमाणाभाव इत्यत आह न हि खल्वित्यादि। नामार्थयोरभेदान्वयबोधे विशेषणबोधकपदविशेष्यबोधकपदयोः समानधचनत्वस्य तन्त्रत्व एव नञ्जन्यान्योन्याभावबोधे तयोस्तदायाति नञ्जन्यान्योन्याभावविषयक शाब्दबोधं प्रत्येकपदार्थेऽपरपदार्थस्याभेदान्वयबोधकैकपदसमभिव्याहृतापरपदे नञ्समभिव्याहारज्ञानस्य हेतुत्वादित्यतस्तत्प्रदर्शितं महतो राज्ञ इत्यनेन। नन्वेकपदार्थेऽपरपदार्थान्योन्याभावविषयकशाब्दबुद्धिं प्रवि वि- शेषणबोधकपदविशेष्यबोधकपदयोः समानवचनत्वनियामकत्वकल्पने एकोनद्वावित्यादौ नञोऽन्योन्याभावविषयकशाब्दबोधानुदयप्रसङ्ग इति तत्र तदनभ्युपगम आवश्यकस्तथा च ब्राह्मणेभ्यो दधि दातघ्यं न कौण्डिन्याय दातघ्यमित्यादौ नञान्योन्याभाववोधने बाधकाभाव इत्यतः पूर्वोक्तदोषोद्धारपुरःसरं दोषान्तरमाह एको न द्वावित्यादिवदित्यादिना। अत्र च नित्यद्विवचनाद्यन्तशब्दातिरिक्तस्थले तथाविधनियमस्वीकारे तु पूर्वोक्तदोषस्यैव दुरुद्धरतेति सूचनार्थमुक्तं कथञ्चिदिति। ब्राह्मणेभ्यो दधि दातव्यं न कौण्डिन्यायेत्यादिनैव कौण्डिन्य भिन्नब्राह्मणसम्प्रदानकदधिदानबोधसम्भवात् द्वितीयदातव्यपदं निरर्थकमिति भावः” रघुदेवः।(२३) “अतएवेति। यतएव विशेषनिषेधस्थले सामान्यविधेर्विशेषेतरपरत्वम् अतएवेत्यर्थः। अन्यथाऽमावास्यायां पितृभ्यो दद्यादित्यनेन रात्रौ श्राद्धकरणप्राप्त्या रात्रौ श्राद्धं न कुर्वीतेत्यनेन तत्र श्राद्धकरणनिषेधस्य च प्राप्त्या तत्र तत्करणस्य विहितप्रतिषिद्धत्वाभ्यां विकल्पापत्ते र्दुवारत्वादिति भावः” रघुदेवः।(२४) “ननु अत्राप्यन्योन्याभावार्थकतया रात्रीतरकाले श्राद्धकरणस्य विधानसम्भवेन सर्वसामञ्जस्ये व्यर्थं तत्र नञो निषेधार्थकत्वकल्पनमित्यत आह न हीति तत्रापि रात्रौ श्राद्धं न कुर्वीतेत्यत्रापि रात्रीतरपरता नञोन्यान्याभावा र्थकतया रात्रीतरकाले श्राद्धकरणस्य बोधकतेत्यर्थः। तथा च व्यर्थं प्रतिषेधार्थकत्वकल्पनमिति भावः” रघुदेवः।(२५) “रात्रिभिन्न इत्यादि। रात्रौ श्राद्धं न कुर्वीतेत्यादौ नञो न्योन्याभावार्थकतया रात्रीतरकाले श्राद्धकरणविधानाभ्युपगमेऽमावास्यायां पितृभ्यो दद्यादित्यनेन रात्रौ श्राद्धप्रसक्तेस्तत्करणापत्तेर्दुरवारत्वादित्यर्थः” रघुदेवः।(२६) “ननु तथाविधिवाक्ययोर्वाक्यैकवाक्यतया रात्रीतरामावास्यायां कुर्वीतेत्यर्थकत्वाभ्युपगमे न पूर्वोक्तकल्पोक्तदोष इत्यत आह न खल्वित्यादि। रात्रौ श्राद्धं न कुर्वीतेत्यतो भिन्नं वाक्यान्तरमस्ति। तेन क्रियारहितश्राद्धविघायकवाक्येन” रघुदेवः।(२७) “नापीदम्। इदं रात्रौ श्राद्धं न कुर्वीतेति वाक्यम्। पृथक्क्रियारहितम्। अनुषङ्गिकक्रियातिरिक्तक्रियारहितम्। केवलं क्रियारहितमित्युक्तौ नानुयाजेष्विति वाक्यमपि तथा, तत्रानुषङ्गिककरोतिक्रियासत्त्वादतः पृथगित्युक्तम्। तथा च तयोरेवैकवाक्यतासम्भवे रात्रीतरवाक्यं क्रियारहितं भवति अन्यथा तयोरेकतरवाक्ये क्रियापदस्य वैयर्थ्यापत्तेः। श्राद्धकरणप्रापकवाक्यान्तरस्याभावेन प्रकृतवाक्यद्वयस्यैव क्रियापदवत्तयैकवाक्यत्वाभावेन पूर्वोक्तदोषो दुर्द्धर एवेति भावः रघुदेवः।(२८) ननु रात्रौ श्राद्धं न कुर्वीतेत्यादौ नञोनिषेधबोधकत्वं न सम्मवति त्वन्मते विशेषनिषेधस्थले सामान्यविधेर्विशेषेतरपरत्वनियमेनामावास्याया पितृभ्यो दद्यादित्यादि सामान्यविधेः रात्रीतरामावास्वाकाले श्राद्धकरणस्य विधायकत्वेन तत्र श्राद्धकरणप्रापकवाक्यान्तरस्य चाभावेन तत्र तस्याप्रसक्तत्वाद्दर्शितसामान्यविधेर्विशेषान्तरपरत्वं नाभ्युपगम्यते चेत्तदा तत्र तत्पाप्तौ तु विकल्पापत्तिरित्याशङ्कते अथ रात्रावित्यादिना। उपहासपूर्वकं समाधान माह साधीयानिति। तथा च प्रसक्तं हि प्रतिषिध्यत इति नियमे प्रमाणाभावेनाप्रसक्तस्यापि निषेधे बाधका भावेन रात्रौ श्राद्धं न कुर्वीतेत्यादौ नञोनिषेधबोधकत्वाभ्युपगमे क्षतिविरह इति भावः” रघुदेवः।(२९) “निषेधविधेरिति। तादृशनियममस्वीकृत्याप्रसक्तस्यापि निषेधाभ्युपगमे इत्यादि पूरणीयम्। वैयर्थ्यमिति प्रसक्तस्यैव प्रतिषिद्धत्वमिति नियमे तु तत्र तदकरणस्यैव निषेधविधेः प्रयोजनत्वसम्भव इति तादृशनियमाभ्युपगमोऽत्यावश्यकस्तस्य च विशेषविशेषनियन्त्रितत्वान्न दोष इति भावः। तात्पर्य्यानवबोधादिति। रात्रीतरामावास्याकालाधिकरणश्राद्धकरणबोधतात्पर्य्याऽनिर्णयपसक्तं यद् रात्रिश्राद्धकरणं तद्वारणस्य तत्प्रयोजनत्वादित्यर्थः। रात्रौ श्राद्धकरणनिषेधबोधकवाक्याभावेऽमावास्यायां पितृभ्यो दद्यादित्यादिवाक्यतो रात्रीतरामावास्याकाले श्राद्धकरणस्य बोधासम्भवः तथाविधतात्पर्यनिर्णवाभावात् तथा च रात्रावपि श्राद्धकरणं प्रसज्येत रात्रौ श्राद्धकरणस्य निषेधविधौ तु तथाविधवाक्यार्थपर्य्यालोचनक्रमेण तथाविधविधेरुपदर्शितार्थे तात्पर्यनिर्णयसम्भवेन तस्मात् तादृशबोधसम्भवेन रात्रौ तदप्राप्तौ तत्र तत्करणाप्रसक्ति रिति भावः” रघुदेवः।(३०) “एवं सति विकल्पस्थलस्य दुर्लभत्वापत्तिरित्यत आह एकविषयतयेत्यादि। अनन्यगतिकतया विकल्पं विना गत्यन्तराभावतया तथा च तत्र विकल्पं विना प्रकारान्तरासम्भवेनावश्यं तत्र विकल्पस्वीकारेण न विकल्पस्थलदुर्लभत्वापत्तिरिति भावः” रघुदेवः।(३१) “ननु नातिरात्रे षोडशिनं गृह्णातीत्यत्र नञा इष्टसाधनत्वस्यैवाभावः प्रतीयते प्रकारान्तरस्याभावात् तच्च न सम्भवति षोडशिग्रहणबिधिविरोधादित्याशङ्क्य उपपादयति अत्र चेति न षोडशिनं गृह्णातीत्यत्र चेत्यर्थः” रघुदेवः।(३२) “ननु धात्वर्थान्विते एव विभक्त्यर्थे नञर्थाभावस्यैवान्वयो व्युत्पन्न इत्यतआह व्युत्पन्नश्चेति तथा च तादृशव्युत्पत्तिकल्पने प्रमाणाभाव इति भावः” रघुदेवः।(३३) “अतएव तादृशव्युत्पत्तेरभावादेव” रघुरदेवः।(३४) “ननु क्वचिद्धात्वर्थेऽपि विभक्त्यर्थप्रतियोगिकस्याभावस्य क्वचिच्च धात्वर्थाभावे विभक्त्यर्थान्वये नियामकाभाव इत्यत आह नियमस्त्वित्यादि तथा च यत्र धात्वर्थे विभक्त्यर्थाभावबोधे तात्पर्य्यं तिष्ठति विरोधेऽपि नास्ति तत्र तथा बोधः। यत्र तु धात्वर्थाभावे विभक्त्यर्थान्वय बोधे तात्पर्य्यं तत्र तथैवान्वयबोध इति नियम इति भावः” रघुदेवः।(३५) “ननु षोडशिग्रहणस्याङ्गत्वेन इष्टसाधनत्वाभावात् नातिरात्रे षोडशिनं गृह्णातीत्यादौ षोडशिग्रहणे इष्टसाधनत्वाभावबोधनेऽपि न ग्रहणविरोधः किन्तु बाधेन तत्रेष्टसाधनत्वस्यान्वयबोधासम्भवः तथा च कथं तत्र ग्रहणविधिविरोधेन धात्वर्थाभावे इष्टसाधनत्वान्वयबोधाङ्गीकार इत्यत आह मुख्यफलाजनकत्वेऽपि चेत्यादि तथा च तत्रेष्टसाधनत्वाभावान्वयबोधस्य स्वीकारे ग्रहणनिषेधविरोधोदुरपह्नव इति भावः” रघुदेवः।(३६) “ननु ग्रहणाग्रहणयोस्तुल्यफलजनकत्वे कथं बहुदुःखसाध्ये षोडशिग्रहणे प्रवृत्तिरित्यत आह ग्रहणविध्यन्यथानुपपत्त्या चेति। तथा च तयोस्तुल्यफलाभावेन नोक्ताशङ्काया अवकाश इति भावः” रघुदेवः।(३७) “प्रतियोग्यनुयोगिभावः प्रतियोगित्वमनुयोगित्वम् आधाराधेयभावः आधारत्वमाधेयत्वम् उभयत्रोभयोत्कीर्त्तनं तुल्यवित्तिवेद्यत्वाभिप्रायेण” रघुदेवः।(३८) “ननु नञोऽभावार्थकत्वे कथं भूतले न घटः भूतलं न घट इत्यादौ भूतलेऽधिकरणतासम्बन्धेन नञर्थाभावस्यान्वयोऽन्योन्याभावे च पतियोगितासम्बन्धेन घटादेर्वान्वयो नामार्थयोर्भेदेनान्वयबोधानङ्गीकारादित्यत आह निपातेति। अव्ययनिपातातिरिक्तेत्यर्थः। तथा च फलबलान्निपाता व्ययजन्यशाब्दबोधं प्रति प्रकारीभूतविभक्त्यर्थोपस्थितेर्हेतुत्वस्याकल्पनेनानुपपत्त्यभाव इति भावः” रघुदेवः।(३९) “अतएवेति यतएव फलबलान्निपाताव्ययजन्यशाब्दबोधं प्रति प्रकारीभूतविभक्त्यर्थोपस्थितेर्न हेतुत्वमतएवेत्यर्थः। इवाद्यर्थान्वयबोधे चन्द्र इव मुखमित्यादाविवाद्यर्थान्वयबोधे आदिना नञतिरिक्तनिपातमात्रपरिग्रहः” रघुदेवः।(४०) “ननु नञोऽभावार्थकत्वेऽघट भूतलमित्यादौ कथं नानाधर्माभ्यामेकधर्मिबोधकत्वरूपसामानाधिकरण्योपपत्तिरित्यत आह अघटं भूतलमित्यादि। संसर्गाभावाऽन्योन्याभावार्थकनञ्भेदेनोदाहरणद्वयम्। अघटमित्यत्र नपुंसकलिङ्गनिर्देशस्तु न विद्यते घटो यतेति बहुव्रीहि समासस्पष्टीकरणाय अन्यथाऽघट इत्युक्ते न घटोऽघट इति नञ्तत्पुरुषेऽपि तथा प्रयोगसम्भवे तत्र च नञोऽन्योन्याभाववत्परतया घटसंसर्गाभाववल्लाक्षणिकनञ उदाहरणासम्भव इति ध्येयम्। तत्र अभाववत्परता भाववद्बोधकता” रघुदेवः।(४१) “यैस्तु निपातजन्यशाब्दबुद्धिं प्रत्यपि प्रकारीभूतविभक्त्यर्थोपस्थितेर्हेतुत्वमुपेयते तन्मतमाह केचित्त्विति प्रतियोगिपदोत्तरस्य सुप इति भूतले न घट इत्यादौ घटादिबोधकपदोत्तरसुप इत्यर्थः” रघुदेवः।(४२) “ननु सर्वत्रप्रतियोगित्वस्य नञ्समभिव्याहृतप्रतियोगि बोधकपदोत्तरसुबर्थत्वे घटीयोऽभावो न घटस्येति प्रयोगापत्तिः तत्रापि घटनिष्ठप्रतियोगित्वस्य स्वरूपसम्बन्धेनाभावस्य घटाभावेश बिद्यमानत्वात् न च न घटस्येत्यत्र निरूपकत्वसम्बन्धोवच्छिन्नघटनिष्ठप्रतियोगितानिष्ठप्रतियोगिताकाभावबोधाभ्युपगमान्न तथा प्रयोगः घटनिष्ठप्रतियोगिताया निरूपकतासम्बन्धेन घटाभावे विद्यमानत्वादिति वाच्यम्। वृत्त्यनियामकसंसर्गस्याभावप्रतियोगितावच्छेदकत्वाभावेन तथोक्तेरशक्यत्वादित्यत आह अनुयोगित्वं वेति वाकारो व्यवस्थित विकल्पसम्पादकः तथा च क्वचित् प्रतियोगित्वं तथाविधसुबर्थः क्वचिदनुयोगित्वं वेति लब्धम्। अतएव पटो न घटाभावस्येत्यादौ पटे घटाभावप्रतियोगित्वाभावबोधस्यानुभवोऽपि सूपपाद इति ध्येयम्” रघुदेवः।(४३) “नञुत्तरसुपोऽधिकरणात्वर्थकत्वे सर्वत्र नञुत्तरसुपोऽनुसन्धानकल्पनं तत्र लक्षणाकल्पनं चेत्युभयकल्पने गौरवम् तदपेक्षया नञ एवाभाववति लक्षणाकरणकल्पनमुचित मित्याशयेनाह नञो वेति” रघुदेवः।(४४) “ननु नञोऽन्योन्याभावबोधने विशेषणवाचकपदविशेष्य- वाचकपदयोर्विरुद्धविभक्तिराहित्यं तन्त्रमिति पूर्वमुक्तम् तत्र च विरुद्धविभक्तिकत्वं विरुद्धार्थप्रतिपादकविभक्तिकत्वम् अन्यथा व्यत्ययानुशासनस्थले कर्मत्वाद्यर्थकप्रथमान्तपदार्थसाम्याभावेऽपि एकत्वाद्यर्थप्रथमान्तत्वसाम्येनान्वयबोधापत्तेः। तथा च प्रतियोगिवाचकपदोत्तरसुपः प्रतियोगित्वाद्यर्थकत्वे न न घट इत्यादौ नञोऽन्योन्याभावबोधकत्वासम्भवः तस्य विशेष्यवाचकपदात् भिन्नत्वेन तत्प्रतिपादकविभक्तेर्विशेषणवाचकपदोत्तरविभक्त्यर्थप्रतियोगित्वादिति भवतास्वीकारात् एवं नञर्थसंसर्गाभावे भेदेनेतरपदार्थान्वयानुभवेऽनुयोगिवाचकपदोत्तरं सप्तम्यपेक्षेति यत्पूर्वमुक्तं तदपि न नञुत्तरसुपोऽधिकरणत्वे लक्षणयां भवति। एवं नञोऽभाववल्लाक्षणिकत्वे त्वत्कल्पे तथाविधभेदान्वयबोधाप्रसक्तौ तथाविधाभेदान्वयबोधे तु तादृशसप्तम्यन्तापेक्षा न सम्भवति अघटं भूतलमित्यादौ तदभावात् एवञ्च क्वचिन्नञान्योन्याभावः प्रतिपाद्यते क्वचित् संसर्गाभावः प्रतिपाद्यते इत्यत्र नियामकाभावः सर्वत्र तदुभयबोधप्रसङ्गात् इत्यत आह विभक्त्यर्थेति विभक्त्यर्थस्यान्योन्याभावबोधने अनुयोगिवाचकपदसमानविभक्तिकपदार्थस्य, संसर्गाभावबोधने च नञोऽसामार्थ्यमित्यर्थः तथा च फलानुरोधेन तत्र तत्तदानुपूर्वीज्ञानस्य हेतुत्वकल्पगान्नानियमप्रसङ्ग इति भावः” रघुदेवः।(४५) “तथाविधकार्य्यकारणभावकल्पनं पूर्वमतेऽप्यावश्यकमित्याह तेनेति। तथाविधासामर्थ्यकल्पनेनेत्यर्थः। संसर्गाभावः संसर्गाभाववदभेदो न प्रतीयते। तथा च तादृशकार्य्यकारणभावाकल्पने पूर्वमतेऽप्येतेषु स्थलेषु तत्तदन्वयबोधस्यापत्तिर्दुर्वारेति तादृशकार्यकारणभावकल्पनावश्यकत्वमिति भावः” रघुदेवः। इदमत्रावधेयम् प्राप्तिपूर्वकत्वान्निषेधस्येति मीमांसकैर्मन्यते तेषामाशयः हृदे दहनो नास्तीत्यादौ प्रत्यक्षे अभावज्ञानस्य प्रतियोगिज्ञानसापेक्षतया प्रतियोगिनश्च ज्ञानलक्षणादिना पूर्वं ज्ञायमानत्वेन तस्याभावो ह्रदे बोधनेऽपि प्राप्तस्य ज्ञातस्य दहनस्य अन्यत्र प्रसक्तावपि हृदे वायौरूपवत् निषेधो न विरुध्यते। शास्त्रीये तु निषेधे विधीयमानो निषेधः प्राप्तिमुपजीवति प्राप्तिश्च रागतोऽतिदेशशास्त्रतो वा। तत्र न कलञ्जं भक्षयेदित्यादौ रागप्राप्तस्य विषेधः। अतिदेशश्चतः प्राप्तयोः “न तौ पशौ करोति” इत्यादौ अघाराज्यभागयोः पशुयागे निषेघः। अतिदेशशास्त्रस्यान्यत्र चरितार्थत्वेन अतुल्यबलत्वात् नात्र विकल्पः। किन्तु एकविषयतयाऽगत्या षोडशिग्रहणाग्रहणयोर्विकल्पः इति भेदः। अप्राप्तस्य विधीयमाननिषेधस्य प्राप्तिश्च प्रतियोगिप्राप्तेरित्येव तत्र प्राप्तिपूर्वकत्वम्। तत्र च पर्युदासः यथा “न तौ पशौ करोति” इत्यादौ करोतीत्यादेरनुवादत्वेन नानर्थक्यम् “सम्मेदे नान्यतरवैयर्थ्यमिति” न्यायात् तेन आधाराज्यभागकरणानुवादेन पशुयागभिन्नत्वमात्रं विधेयम् एवं रात्रौ श्राद्धं न कुर्वीतेति वाक्येऽपि क्रियापदस्यानुवादत्वेन तस्य वैयर्थ्याभावात् तत्र श्राद्धकरणानुवादेन रात्रिभिन्नकालत्वं विधेयम्। यथा वा दध्ना जुहोत्यादौ होममनूद्य दधिद्रव्यकरणकत्वमात्रं विधीयते एवं श्राद्धकरणमनूद्य रात्रीतरकालरूपद्रव्यविधाने क्षत्यभावः। अन्यथा कुत्र रात्रीतरकालो बिधीयेत। अतः न रात्रौ श्राद्धं कुर्वीतेत्यादि वाक्यस्य श्राद्धकरणनिषेधपरताव्यवस्थापनं न युक्तिसहं “न कलञ्जं भक्षयेदित्यादाविव पण्डापूर्वकल्पनाया तदतिक्रमे दुरदृष्टसाधनत्वकल्पनायाश्चापत्तेर्दुवारत्वात् सकलशिष्टाचारसम्मततस्य रात्रौ श्राद्धकरणेऽनिष्टाभावस्य विरोधापत्तेश्च। किञ्च इदं वाक्यं न केवलश्राद्धानुवादेन रात्रीतरकालविधानं किन्तु यावच्छ्राद्धानुवादेन रात्रीतरकालविधानपरमित्यपि गन्तव्यम्। यद्यपि अष्टकासु मघासु चेति मनुवचने अष्टकादिपदस्य बहुवचनान्ततया निर्देशेन तद्विरुद्धैकवचनावरुद्धत्वात् भेदपरता सम्भवति पूर्वोक्तव्युत्पत्तिविरोधात् तथापि सामान्ये न औत्सर्गिकमेकवचनं जात्मभिप्रायमिति न विरोध इत्यवधेयम्।

क्रियायामिव विभक्त्यर्थेऽपि नञर्थाभावान्वय इति यदुक्तं तत्र न कलञ्जं भक्षयेदित्यादौ धात्वर्थे बलवदनिष्टाननुन्धित्वरूपविध्यर्थस्य” एकादश्यां न भुञ्जीत्यादौ भोजनाभाव एव विध्यर्थेष्टसाधनत्वस्य च बोध इति विषयभेदेन व्यवस्था। अतएव न कलञ्जं भक्षयेदित्यादि निषेधवाक्यम् एकादश्यां न भुञ्जीतेत्यादि निषेधविधिवाक्यमिति भेदः। तदेतत् शब्दशक्तिकाशिकायां समर्थितम्। “पङ्गुः समुद्रं न तरेदित्यादौ नञादिना समुद्रतरणादेः, पङ्गुप्रभृतिकृतिसाध्यत्वनिषेधबोधानुरोधादवश्यं कृतिसाध्यत्वं लिङर्थः तथा तृप्तिकामोजलं न ताडयेदित्यादौ तृप्तिकामेष्टसाधनत्वस्य, न कलञ्जं भुञ्जीतेत्यादौ च कलञ्जभक्षणादेः बलवदनिष्टाजनकत्वेऽपीष्टसाधनत्वस्य निषेधा- नुपपत्त्या इष्टसाधनत्वादिकमपि (यथायथम्)। न चाहो रात्रावच्छेद्यभोजननिवृत्तिरूपस्योपवासस्य कृत्यसाध्यत्वादष्टम्यामुपवसेदिति विधेर्बाधः कृत्यधीनसमयसम्बन्धरूपस्य क्षैमिककृतिसाध्यत्वस्य नित्येऽप्यनपायात्, तादृशप्रयोगे भोजनादिप्रतिकूलव्यापारस्यैव वा धात्वर्थत्वात्” इति। मीमांसकमतानुसारेण कलञ्जाधिकरणशब्दे १७७७ पृ० नञर्थादिको दर्शितः। आग्नायस्य क्रियार्थत्वमित्येकान्ताश्रयणे दोषकथनावसरे शा० भा० रत्नप्रभयोश्च अत्यन्ताभाव एव नञः शक्तिर्भेदादौ लक्षणेत्युक्तं यथा “अपि च ब्राह्मणो न हन्तव्यः इति चैवमाद्या निवृत्तिरुपदिश्यते। न च सा क्रिया नापि क्रियासाधनम् इत्यतो निवृत्त्युपदेशानामानर्थक्यं प्राप्तं तच्चानिष्टम्। न च स्वभावप्राप्तहन्त्यर्थानुरागेण नञः शक्यमप्राप्तक्रियार्थत्वं कल्पयितुं हननक्रियानिवृत्त्यौदासीन्यव्यतिरेकेण। नञश्चैष स्वभावो यत् स्वसम्बन्धिनोऽभावं बोधयति अभावश्चौ दासीन्यकारणं सा च दग्धेन्धनाग्निवत् स्वयमेवोपशाम्यति तस्मात् प्रसक्तक्रियानिवृत्त्यौदासीन्यमेव ब्राह्मणो न हन्तव्य इत्यादिषु प्रतिषेधार्थं मन्यामहे अन्यत्र प्रजाषतिव्रतादिभ्यः” शा० भा०।

“नञः प्रकृत्यर्थेन सम्बन्धात् हननाभावो नञर्थः इष्टसाधनत्वं तव्यादिप्रत्ययार्थः इष्टश्चात्र नरकदुःखाभावः तत्परिपालको हननाभाव इति निषेघवाक्यार्थः। हननाभावो दुःखाभावहेतुरित्युक्तावर्थाद्धननस्य दुःखसाधनत्वधिया पुरुषो निवर्त्तते। नात्र नियोगः कश्चिदस्ति तस्य (नियोगस्य) क्रियातत्साधनदध्यादिविषयत्वात्। न च हननाभावरूपा नञ्वाच्या निवृत्तिः क्रिया अभावत्वान्नापि क्रियासाधनम् अभावस्य भावाहेतुत्वाद्तस्य सत्त्वरूपत्वाभावाच्चेत्यर्थः। अतो निषेधशास्त्रस्य सिद्धार्थे प्रामाण्यमिति भावः। विपक्षे दण्डमाह न च सा क्रियेति। ननु स्वभावतो रागतः प्राप्तेन हन्त्यर्थेनानुरागेण नञ्सम्बन्धेन हेतुना हननविरोधिनी सङ्कल्पक्रिया वोध्यते। सा च नञर्थरूपा तत्राप्राप्तत्वाद्विधीयते अहननं कुर्य्यात् इति। तथाच कार्य्यार्थमिदं वाक्यमित्याशङ्क्य निषेधति न चेति औदासीन्यं हननाभाव इति यावत् तद्व्यतिरेकेण नञः क्रियार्थत्वं कल्पयितुं न च शक्यमिति योजना मुख्यार्थस्या भावस्य नञर्थत्वसम्भवे तद्विरोधक्रियालक्षणाया अन्याय्यत्वात् निषेधवाक्यस्यापि कार्य्यार्थत्वे विधिनिषेधभेद्र विप्लवापत्तेश्चेति भावः। ननु तदभाववत्तदन्यतद्विरुद्धयोरपि नञः शक्तिः किं न स्यात् अब्राह्मणः अधर्म इति प्रयोगदर्शनादिति चेत् न अनेकार्थत्वस्यान्याय्यत्वादित्याह नञश्चेति गवादिशब्दानान्तु अगत्या नानार्थत्वं स्वर्गेषुवाग्वज्रादीनां शक्यपशुसम्बन्धाभावेन लक्षणानवतारात्। अन्यविरुद्धयोस्तु लक्ष्यत्वं युक्तं शक्यसमन्धात् ब्राह्मणादन्यस्मिन् क्षत्रियादौ धर्मविरुद्धे वा पापे ब्राह्मणाद्यभावस्य नञ् शक्यस्य सम्बन्धात् प्रकृते च आख्यातयोगात् नञ्प्रसज्यप्रतिषेध एव न पर्य्युदासलक्षकमिति मन्तव्यम्। यद्धा नञः प्रकृत्या न सम्बन्धः प्रकृतेः प्रत्ययार्थोपसर्जनत्वात् प्रधानसम्बन्धाच्चाप्रधानानां, किन्तु प्रकृत्यर्थनिष्ठेन प्रत्ययार्थेनेष्टसाधनत्वेन सम्बन्धोनञः। इष्टञ्च स्वापेक्षया बलवदनिष्टाननुबन्धि यत्तदेव न तात्कालिकसुखमात्रं विषयप्रयुक्तं निषिद्धान्नभोगस्यापि इष्टत्वापत्तेः तथाच न हन्तव्यः हननं बलवदनिष्टासाधनत्वे सति इष्टसाधनं न भवतीत्यर्थः। अत्र हन्तव्यः इति हनने विशेष्टेष्टसाधनत्वं भ्रान्तिप्राप्तमनूद्य नेत्यभावबोधने बलबदनिष्टसाधनं हननमिति बुद्धिर्भवति हनने तात्कालिकेष्ट साधनत्वरूपविशेष्यसत्त्वेऽपि विशिष्टाभावबुद्धेर्विशेषणाभावपर्य्यवसानात् विशेषणं बलवदनिष्टासाधनत्वमिति तदभावोबलवदनिष्टसाधनत्वं नञर्थ इति पर्य्यवसन्नम्। तद्वुद्धिरौदासीन्यपरिपालिकेत्याह। अभावेति। चोऽप्यर्थ्यः पक्षान्तरद्योती प्रकृत्यर्थाभावबुद्धिवत् प्रत्ययार्थाभाववुद्धिरपीत्यर्थः बुद्धेः क्षणिकत्वात्तदभावे सत्यौदासीन्यात् प्रच्युतिरूपा हनादौ प्रवृत्तिः स्याद् इति तत्राह सा चेति। यथाग्निरिन्धनं दग्ध्वा शाम्यति एवं सा नञर्थाभावबुद्धिः हननादाबिष्टसाधनत्वभ्रान्तिमूलं रागेन्धनं दग्ध्वैव शाम्यतीत्यक्षरार्थः। रागनाशे कृते प्रच्युतिरिति भावः। यद्वा रागतः प्राप्ता सा क्रिया रागनाशे स्वयमेव शाम्यतीत्यर्थः। परपक्षे तु हननविरोधिक्रिया कार्य्येत्युक्तेऽपि, हननस्येष्टसाधनत्वभ्रान्त्र्यनिरासात् प्रच्युतिर्दुर्वारा। तस्मात्तदभाव एव नञर्थ इत्युपसंहरति तस्मादिति। भावार्घाभावेन तद्विषयककृत्यभावात् कार्य्याभावस्तच्छब्दार्थः। यद्वेत्युक्तपक्षे निवृत्त्युपलक्षितमौदासीन्यं यत्तद्विशिष्टभावापन्नमेवेतिव्याख्येयं स्वतः सिद्धस्यौदासीन्यस्य नञर्थसाध्यत्वोपपादानार्थं निवृत्त्युपलक्षितत्वमिति ध्येयम्।” तस्य वटोर्ब्रतमित्यनुष्ठेयक्रियावाचिना व्रतशब्देन कार्य्यमुपक्रम्य “नेक्षेतोद्यन्तमादित्यम्” इति प्रजापतिव्रतमुक्तम् अत उपक्रमवलात्तत्र नञईक्षणविरोधिसङ्कल्पक्रियालक्षणाऽङ्गीकृता। एवमगौरसुरा अधर्म इत्यादीनामधात्वर्थयुक्तस्य नञः प्रतिषेधवाचित्वायोगात् अन्यविरुद्धलक्षकत्वम्। एतेभ्यः प्रजापतिव्रतादिभ्योऽन्यत्राभावस्यैव नञर्थता इत्यर्थः” रत्नप्रभा०। नञः प्रसज्यप्रतिषेधाद्यर्थाभिधाने नियमविशेषस्मरणपूर्वकं सा० द० नञर्थो निर्णीतो यथा “अमुक्ता भवता नाथ! मुहूर्त्तमपि सा पुरा”। अत्रामुक्तेत्यत्र नञः प्रसज्यप्रतिषेधार्थत्वमिति विधेयत्वमेवोथितम्। यदाहुः “अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता। प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ्”। तथा “नवजलधरः सन्नद्धोऽयं नदृप्तनिशाचरः”। अत्रोदाहरणे तत्पुरुषसमासे गुणीभावे नञः पर्य्युदासतया निषेधस्य विधेयतानवगमः। यदाहुः। “प्रधानत्वं विधेर्यत्र प्रतिषेधेऽप्रधानता। पर्य्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ्”। तेन “जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः। अगृध्नुराददे सोऽर्थानसक्तः सुखमन्वभूत्”। अत्रात्रस्तादितामनूद्यात्मगोप्रनाद्येव विधेयमिति नञः पर्युदासतया गुणभावो युक्तः। नन्वश्राद्वभोजी ब्राह्मणः, असूर्य्यम्पश्या राजदारा इत्यादिवत् कमुक्तेत्यत्रापि प्रसज्यप्रतिषेधो भविष्यतीति चेन्न अत्रापि यदि भोजनादिरूपक्रियांशेन नञः सम्बन्धः स्यात्तदैव तत्र प्रसज्यप्रतिषेधत्वं वक्तुं शक्यं न च तथा, विशेष्यतया प्रधानेन तद्भोजिनार्थेन कर्त्रंशेनैव नञः सम्बन्धात्। यदाहुः “श्राद्धभोजनशीलो हि यतः कर्त्ता प्रतीयते। न तद्भोजनमात्रं तु कर्त्तरीनेर्विधानतः” इति। अमुक्तेत्यत्र तु क्रिययैव सह सम्बन्ध इति दोष एव”। अश्राद्धभोजीत्यादौ असमर्थसमासं वैयाकरणा मन्यन्ते “सुडनपुंसकस्य” पा० सूत्रे नपुंसकस्य नेत्यर्थस्य भाष्यादावुक्तत्वात् सामर्थ्याभावेऽपि समास इति हि तेषां राद्वान्तः

लाक्षणिकनञर्थनिर्णयः शब्दशक्तिप्रकाशिकायां यथा “अतएवाघटः पट इत्यादावन्यस्य, असुरोदैत्य इत्यादौ विरोधिनः, अनिक्षुः शरः इत्यादौ सदृशस्य, अब्राह्मणो वार्द्धुषिक इत्यादावपकृष्टस्य, अनुदरमुदरन्तरुण्या इत्यादौ स्वल्पस्य बोधकेन नञ्निपातेन स्वार्थे प्रतियोगित्वादि सम्बन्धेनैव घटादेरनुभावनेऽपि तत्रत्यतत्पुरुषे नाव्याप्तिः। पटस्याभाव इत्यर्थे प्रसज्यनञा अव्ययीभाव एव समासः प्रमाणं, तेनापटं वर्त्तते इत्याद्येव तत्र प्रयोगस्तत्पुरुषस्योत्तरपदलिङ्गकत्वनियमात् इति वृद्धाः। प्रसज्यनञाप्यपट इत्यादिस्तत्पुरुष एव साधुर्नाव्ययी भावः नञ्तत्पुरुषविधेस्तदपवादकत्वात् अतएव वादिनामविवाद इत्यादिकः किरणावल्यादौ पुंसि प्रयोग इति तु पक्षधरमिश्राः”।

अत्रायं विशेषः प्रसज्यनञव तत्पुरुषः भावकृदन्तपदयोग एव न घटादिपदयोगे वादिनामविवाद इत्याद्युदाहरणेषु भावकृदन्तस्यैवोत्तरपदत्वादिति सम्प्रदायविदः।

नञर्थे तिङर्थान्वयश्च शब्दश० प्र० दर्शितो यथा “न च पचत्यपि चैत्रे नायं पूचतीति प्रयोगः स्याद्वर्त्तमानायाः पाककृतेरभावस्य समयान्तरावच्छेदेन चैत्रे सत्त्वादिति वाच्यं तत्र नञर्थ एव लडर्थवर्त्तमानत्वस्यान्वयेन वर्त्तमानकालावच्छेद्यस्य पाककृत्यभाववत्त्वस्य चैत्रे षाधेन तदसम्भवात् गुरुमते न कलञ्जं भक्षयेदित्यादौ, अस्मन्मतेऽप्यतिरात्रे षोडशिनं न गृह्णाति इत्यादौ नञ्र्थेऽपि तिङर्थान्वयस्य व्युत्पन्नत्वात्। एतेन भावि दिने चैत्रो नापाक्षीदतीतदिने चैत्रो न पक्ष्यतीत्यपि स्याद्भाविदिनादौ चैत्रेऽतीतपाककृत्यादेरभावसत्त्वादित्यपि समाहितं तत्राप्यतीतादिकालस्य नञर्थ एवान्वयेनातीतादिकालावच्छेद्यत्वविशिष्टस्य पापकृत्यभावस्य भाव्यादिदिनावच्छेदेन चैत्रादावसत्त्वादेव तादृशाप्रयोगात्। अतएव च निष्पन्नान्नं न पक्ष्यतीत्यादौ निष्पन्नान्नकर्मकभाविकृतेरप्रसिद्धावपि न क्षतिः भविष्यत्कालावच्छेदेन तादृशान्नकर्मकपाककृतेरभावस्य तत्र बोध्यत्वादिति युक्तमुत्पश्यामः”। किलशब्दोत्तरत्वेऽस्यानुपृष्टार्थता किलशब्दमुपक्रम्य “न ननु इत्येताभ्यां संप्रयुज्यतेऽनुपृष्टे न किलैवं ननुकिलैवमिति” निरुक्तकारोक्तेः

नट = णट धातुवत् सर्वं विशेषस्तु णटधातौ ३१९ पृ० दृश्यः। नट अवस्कन्दने (नटकृत्ये) णिचि नाटयति अनुकरोतीत्यर्थः “नवनगवनलेखाश्याममध्याभिराभिः स्फटिककटकभूमीर्नाटयत्येष शैलः” माघः।

नट = भ्रंशे त्विषि चु० उभ० अक० सेट्। नाटयति ते अनीननटत् त न णत्वम्।

नट = पुंस्त्री नम–उणा० डट–नट–अच् वा। १ शैलूषे स्त्रियां गौरा० ङीष्। “नटी विदूषको वापि पारिपार्श्विक एव वा” सा० द०। २ नलीनामगन्धद्रव्ये स्त्री ङीष्। ३ वेश्यायां च शब्दर०। ४ दृश्यकाव्यार्थाभिनयकर्त्तरि नर्त्तके त्रि० “प्रकृतेर्विभुत्वयोगान्नटवद् व्यवतिष्ठते लिङ्गम्” सा० का० “यथा नटस्तां तां भूमिकां विधाय रामो वा अजातशबुर्वा वत्सराजो वा भवति एवं तत्तत्स्थूलशरीरग्रहणात् देवो वा मनुष्यो पशुर्वा वनस्पतिर्वा भवति सूक्ष्मशरीरम्” तत्त्वकौ०। ५ शोनाकवृक्षे पु० अमरः। “शौचिक्यां शौण्डिकाज्जातो नटो द्रविड एव च” पराशरपद्धत्युक्ते ६ वर्णसङ्करजातिभेदे पुंस्त्री स्त्रियां जातित्वात् ङीष्। “नटी कपिलिनी वेश्या कुलटा नापिताङ्गना” तन्त्रसा०। “झल्लो मल्लश्च राजन्यात् व्रात्यात् निच्छिविरेव च। नटश्च करणश्चैव खसो द्रविड एव च” मनूक्ते व्रात्यक्षत्रियजाते ७ व्रात्यक्षत्रियभेदे पुंस्त्री०। ८ अशोकवृक्षे पु० मेदि०। ९ किष्कुपर्वणि नलाख्ये तृणेपु० जटा०। दीपकरागस्य १० रागिणीभेदे स्त्री।

नटकमेलक = न० हास्यरसप्रधाने दृश्यकाव्यभेदे तच्च सङ्कीर्णाख्यम् “वृत्तं बहूनां भ्राष्टानां सङ्कीर्णं केचिदूचिरे। तत्पुनर्भवति द्व्यङ्कमथ वैकाङ्कनिर्मितम्” तल्लक्षणम्। “तच्च नटकमेलकादि” सा० द०।

नटचर्य्या = स्त्री ६ त०। नटस्य कृत्ये वाक्यार्थाभिनये अभिनेयपदार्थानुकारे “नामानि रूपाणि मनोवचोभिः संतन्वतो नटचर्यामिवास्य” भाग० १। ३। ३८

नटन = न० नट–भावे ल्युट्। अङ्गविक्षेपरूपे नृत्ये अमरः।

नटनारायण = पु० रागभेदे सङ्गीतशास्त्रम्।

नटभूषण = पु० नटान् भूषयति भूषि–ल्यु। हरिताले रत्नमा०।

नटमण्डन = पु० नटं मण्डयति मण्डि–ल्यु। हरिताले अमरः

नटसज्ञक = न० नटस्य नंज्ञा सम्यक् ज्ञानं यस्मात् कप् “केऽणः” पा० ह्रस्वः। १ गोदन्ताख्यहरिताले त्रिका०। नटेतिशब्दः संज्ञा यस्य कप्। २ नटे।

नटसूत्र = न० नटस्य तत्कृत्यस्य ज्ञापकं सूत्रम् शा० त०। शिलालिना रचिते नटकृत्यज्ञापके ग्रन्यभेदे “पाराशर्य्यशिलालिभ्यां भिक्षुनटसूत्रयोः” पा०।

नटान्तिका = स्त्री नटस्य नटकृत्यस्यान्वोयस्याः कप् कापि अत इत्त्वम्। लज्जायां मेदि०। लज्जायां सत्यां नटकृत्यस्यासम्भवात् तन्नाशएव च तत्सम्भवात् तस्यास्तथात्वम्।

नटेश्वर = पु० ६ त०। शिवे हेमच० तस्य नृत्यप्रियत्वात् तत्क्रियायां तस्य निपुणत्वाच्च तथात्वम्।

नट्या = स्त्री नटानां समूहः पाशा० य। नटसमूहे।

नड = भ्रंशे चुरा० उभ० अक० सेट्। नाडयति ते अनीनडत् त। अणोपदेशत्वात् सति निमित्ते न णत्वम् प्रनाडयति।

नड(ल) = पु० नल–बन्धे अच् वा डस्य लः। १ गोत्रप्रवर्त्तकर्षिभेदे पु० तस्य गोत्रापत्यम् नडादि० फक्। नाडायन तद्गोत्रापत्ये पुंस्त्री०। २ नलतृणे च।

नडक = न० नल बन्धे अच् संज्ञायां कन्। अंसयोर्मध्ये वत्तमाने नलाकारे अस्थिभेदे “हृदयं जिह्वा क्रौडं सव्य सक्थि पूर्वनडकम्” “दक्षिणसक्थि पूर्वनडकम्” कात्या० श्रौ० ६। ७। ३। ४।

नडकीय = त्रि० नडाः लन्त्यत्र “नडादीनां कुक्च” पा० छ कुक् च। बहुलनडयुक्ते।

नडप्राय = पु० नडः प्रायेण यत्र। नडबहुले देशे अमरः।

नडभक्त = न० नडस्य विषयो देशः ऐषुका० भक्तल्। नडविषये

नड(ल)मीन = पु० नड(ल) स्थितो मीनः। नलमध्यस्थिते (चिङिडी) मत्स्ये अमरः।

नडश = त्रि० नड + अस्त्यर्थे तृणा० श। नडयुक्ते

नडागिरि = पु० नडप्रधानो गिरिः किंशुका० संज्ञायां पूर्वस्य दीर्घः। नडप्रधाने गिरिभेदे असंज्ञायां तु नडगिरिरित्येव

नडादि = पु० “नडादिभ्यः फक्” पा० गोत्रे फक्प्रत्ययनिमित्ते पा० ग० उक्ते १ शब्दसमूहे स च गणः नड चर वक मुञ्ज इतिक इतिश उपक एक लमक शलङ्क शलङ्कञ्च सप्तल वाजप्य तिक अग्निशर्मन् वृष(गणे) ताण नर सायक दास मित्र द्वीप पिङ्गर पिङ्गल किङ्कर किङ्कल कातर कातल काश्यप काश्य काव्य अज अमुष्य कृष्णरणौ (व्राह्मण वाशिष्ठे) अमित्र लिगु चित्र कुमार क्रोष्टु क्रोष्टञ्च लोह दुर्ग स्तम्भ शिंशपा अग्र तृण शकट सुमनस् सुमत मिमत ऋच् जलब्धर अध्वर युगन्धर हंसक दण्डिन् हस्तिन् पिण्ड पञ्चाल चमसिन् सुकृत्य स्थिरक ब्राह्मण चटक वदर अश्वल खरप लङ्क इन्ध अस्र कामुक ब्रह्मदत्त उदुम्बर शोण अलोत्त दण्डप”। नाडायनः चारायणः इत्यादि। “नडादीनां कुकच्” पा० उक्ते छप्रत्ययकुगागमनिमित्ते २ शब्दगणे च। स च गणः पा० ग० सू० उक्तो यथा नडप्लक्ष विल्व वेणु वेत्र वेतस इक्षु काष्ठ कपोत तृण क्रुञ्चा (ह्रस्वत्वञ्च) तक्षन्” नडकीयः।

नडिनी = स्त्री नडाः गन्त्यस्यां “पुष्कारिभ्यो देशे” पा० इनि नडयुक्तनद्याम् देशश्चात्र “देशो नदीमूधरकन्दरादिः” इत्युक्तः तेन भूधरे नडिन् पु० देशभिन्ने तु नड्वान् भूमिभागः इत्यादि।

नडिल = त्रि० नड्स्याद्वरदेशादि काश्या० इल। लडससीपस्थादौ।

नड्या = स्त्री नडानां समूहः पाशा० य। नडसमूहे अमरः। तत्र गणे नटेत्यत्र नडेति पाठान्तरम्।

नड्वत् = त्रि० नडाः सन्ति प्रायेणात्र “कुमुदनडवेतसेभ्यो ड्वतुप्” पा० ड्वतुप्। बहुलनडयुक्ते

नड्वल = त्रि० नडाः प्रायेण सन्त्यत्र “नडशादाड् ड्वलच्” पा० ड्वलच्। बहुलनडयुते देशे “यो नड्वलानीव बलानि गजः परेषाम्” रघुः। वैराजस्य मनोः २ पत्नीभेदे स्त्री “मनोरजायन्त दश नड्वलायां महौजसः। कन्यायां भरतश्रेष्ठ! वैराजस्य प्रजापतेः” हरिवं० २ अ०। नड्वलः स्थानत्वेन अभिमतत्वेनास्त्यस्या अच्। ३ नड्बलस्थे ४ तदभिमानिनि च देवताभेदे स्त्री “नड्बलाभ्यः शौष्कलम् पाराय मार्गारम्” यजु० ३०। १६ पुरुषमेधीयपशूक्तौ

***