—न—

नकारः = व्यञ्जनवर्णभेदः तवर्गीयपञ्चमवर्णः अस्योच्चारणस्थानं दन्तमूलं नासिका च। “दन्त्याऌतुलसाः स्मृताः” “अमोऽनुनासिका नह्रौ” इति च शिक्षोक्तेः। तस्योच्चारणे आभ्यन्तरप्रयत्नः जिह्वाग्रेण दन्तमूलस्य सम्यक्स्पर्शः। अतएव व्यञ्जनानां स्पर्शवर्णत्वव्यवहारः। बाह्यप्रयत्नाश्च संवार नादघोषा अल्पप्राणश्च “खयां यमाः खयः + क पौ विसर्गः स्वर एव च। एते श्वासानुप्रदाना अघोषाश्च विवृण्वते। कण्ठम्, अन्ये तु घोषाः स्युः संवारा नादभागिनः। अयुग्मा वर्गयमगा यणश्चाल्पासवः स्मृताः” शिक्षा अस्य वाचकशब्दा वर्णामिधनातन्त्रे उक्ता यथा “नो गर्जिनी क्षमा सौरिर्वारुणी विश्वपावनी। मेषश्च सविता नेत्रं दन्तुरो नारदोऽञ्जनः। ऊर्द्ध्वगामी द्विरण्डश्च वामपादाङ्गुलेर्नखः। वैनतेयः स्तुतिर्वत्मभवाऽनर्वा निरागमः। वामनो ज्वालिनी दीर्घो निरीहः सुगतिर्वियत्। शब्दात्मा दीर्घघोणा च हस्तिनापुरमेचकौ। गिरिनायकनीलौ च शिवोऽनादिर्महामतिः”। अस्य ध्यानं यथा “ध्यानमस्य नकारस्य वक्ष्यते शृणु भाविनि!। दलिताञ्जनवर्णाभां ललज्जिह्वां सुलोचनाम्। चतुर्भुजां कोटराक्षीं चारुचन्दनचर्चिताम्। कृष्णाम्बरपरीधानामीषद्धास्यमुखीं सदा। एवं ध्यात्वा नकारन्तु तन्मन्त्र दशधा जपेत्” तत्स्वरूपं यथा “नकारं शृणु चार्वङ्गि। कोटिविद्युल्लताकृतिम्। पञ्चदेवमयं वर्णं स्वयं परमकुण्डली। पञ्चप्राणात्मकं वर्णं हृदि भावय पार्वति!” कामधेनुतन्त्रम्। मातृकावर्णन्यासे अस्य वामपादाङ्गुलिनखे न्यास्यता। काव्यादौ प्रथमप्रयोगे फलं यथा “दोधः सौख्यं मुदं नः” वृ० व० ढीकोक्तम्।

धातुपाठे ये णादितया पठितास्ते प्रयोगकाले नादिपूर्वका भवन्ति, सति निमित्ते पुनर्णत्वमापद्यन्ते। ये च नादितया पठितास्ते न णत्वमापद्यन्ते इति विवेकः।

= अव्य० नह–वन्धने नश नाशे–वा ड। १ निषेधे २ उपमायां च मेदि० ३ नञर्थे च। अस्य समासे नलोपः नुडागमश्च न भवति। “संग्राभे नातिकोविदम्” भा० वि० ४ अ०। नञा समासे तु अनातकोवदमिति स्यात्। एकयोना विंशतिरित्यादिवाक्ये एकाद्नविंशतिः एकान्नविंशतिरित्यादि। नासत्यौ नाकैत्यादौ च नञशब्दसमासेऽपि प्रकृतिवद्भावविधानात् न नलोपादि। नैकधानाराचनान्तरीयकादयस्तु नशब्देन “सह मुपेति” पा० समासात् सिद्धा सि० कौ०। गणरत्ने अयं चादिषु पठितः। “किंस्वित् प्रत्युत यच्चकच्चन न कं सत्रा समंसाकमः” इति तट्टीकायां “नेति निषेधोपमानयोरित्युक्त्वा उदाहृतम् “नैकः सुप्तेषु जागृयात्”। “तिष्ठा देवो न सविता” इति न सविता सवितेवेत्यर्थः” इति। ४ नकारस्वरूपवर्णे पु०। “दोधः सौख्यं मुदं” न इति वृ० र० टीका “नोगर्जिनी क्षमा” इत्यादिवर्णातिधानम्। नञर्थश्च नञ्शब्दे वक्ष्यते। भावे बा० ड। ५ बन्धे पु०। नम–कर्त्तरि कर्मणि वा ड। ६ सुगते ७ हिरण्ये च पु० ८ स्तुते त्रि० मेदि०। ९ रत्ने पु०। एकाक्षरकोषः।

नंशुक = त्रि० “पचिनश्योर्णुकन् कनुमौ च” उणा० णुकन् नुमागमश्च। अणौ उज्वलद०। यावत्पर्यन्तं गत्वाभावो विनश्यति तावत्परिमाणे।

नंष्टृ = त्रि० नश–तृच् नुम् च। नाशप्रतियोगिनि पक्षे नङ्ग्धृ तत्रार्थे स्त्रियां ङीप्।

नःक्षुद्र = त्रि० नसा क्षुद्रः। क्षुद्रनासिके हेम०।

नक् = अव्य० नश–क्विप् बा० कुत्वम्। रात्रौ “अपस्वसुरुषसो नग्जिहीते” ऋ० ७। ७१। १। स्वरादिगणे ज्योक् योक् नक् कमिति क्वचित् पाठी दृश्यते। सि० कौ० गणरत्ने च योक् नक् च न दृश्यते।

नकिञ्चन = त्रि० नास्ति किञ्चन यस्य नञर्थस्य नशब्दस्य “सह सुपेति” प्रा० समासः। अकिञ्चने दरिद्रे “सर्वकामरसैर्हीनाः स्थानभ्रष्टा नकिञ्चनाः” भा० उ० १३२ अ०। नञा मयू० समासे नञो नलोपे अकिञ्चन इत्येव। “स्थाने भवानेकनराधिपः सन्नकिञ्चनत्वं मखजं व्यनक्ति” रघुः। “अकिञ्चने किञ्चन नायिकाङ्गके किमारकूटाभरणेन न श्रियः” नैष०।

नकिम् = अव्य० न किम् च चादिपाठात् अव्ययत्वं नशब्देन समासः। वर्जनार्थे मनोरमा। एवं पृषो० नकिम् न किर् नकीम् एतेऽपि वर्जने मनोरमा

नकुच = पु० न कुचति कुच–सङ्कोचे नशब्देन समासः। (मान्दार) डहुवृक्षे अनरः।

नकुट = न० न कुटति कुट–क नशब्देन समासः। नासिकायां शब्दमा०।

नकुल = पुंस्त्री नास्ति कुलमस्य “नभ्राडनपान्नवेदानासत्य नमुचिनकुलनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या” पा० नञो न नलोपादि। (वेजी) ख्याते १ जन्तुभेदे स्त्रियां ङीष्। “नकुलः पिच्छिलो वातनाशी श्लेष्मकपित्तकृत्” राजनि० तन्मांसगुण उक्तः। २ पाण्डोः क्षेत्रे माद्र्यामश्विनीकुमाराभ्यां जाते पुत्रभेदे “ततो माद्री विचार्यैवं जगाम मनसाऽश्विनौ। तावागम्य सुतौ तस्यां जनयामासतुर्यमौ। नकुलं सहदेवञ्च रूपेणा प्रतिमौ भुवि” “पूर्वजं नकुलेत्येवं सहदेवेति चापरम्। माद्रीपुत्रावकथयंस्ते विप्राः प्रीतमानसाः” भा० आ० १२४ अ०। ३ पुत्रे पु० शब्दमाला। ४ शिवे च “युधिष्ठिरस्य या कन्या नकुलेन विवाहिता” विदग्धमु०। ५ कुलरहितमात्रे त्रि० गौरा० ङीष् नकुली ६ कुक्कुट्यां ७ जटामांस्यां स्त्री मेदि०। ८ शङ्खिन्यां स्त्री ९ कुङ्कुमे हेमच० जातौ ङीष्। १० नकुलजातिस्त्रियाञ्च।

नकुलाढ्या = स्त्री न कुलाढ्या। गन्धनाकुल्यां राजनि०।

नकुलान्धता = स्त्री नकुलस्येवान्धता। सुश्रुतोक्ते नेत्रविकाररूपरोगभेदे “यो ह्रस्वजात्यो नकुलान्धता च गम्भीरसंज्ञा च तथैव दृष्टिः” इत्युदिश्य “विद्योतते या तु नरस्य दृष्टिर्दोषाभिपन्ना नकुलस्य यद्वत्। चित्राणि रूपाणि दिवा स पश्येत् स वै विकारो नकुलान्ध्यसंज्ञः” इति लक्षिता नकुलान्ध्यमप्यत्र।

नकुलीश = पु० कालीपीठस्थे भैरवभेदे “नकुलीशः कालिपीठे दक्षपादाङ्गुली मता” पीठमाला २ हकारे वर्णाभिधानम्। “नकुलीशोऽग्निमारूढो वामनेत्रार्द्धचन्द्रभृत्” तन्त्रसारे (ह्री) वीजोद्धारः। नकुलेश्वरादयोऽप्यत्र।

नकुलेष्टा = स्त्री ६ त०। १ रास्नायां अमरः। २ नकुलस्य प्रिये त्रि०।

नक्क = नाशने चुरा० उभ० सक० सेट्। नक्कयति ते अननक्कत् त। णोपदेशत्वाभावात् प्रनक्कति इत्यादौ न णत्वम्।

नक्त = न० नज–क्त। रात्रौ “रुशद्दृशे ददृशे नक्तया चित्” ऋ० ४। ११। १ “नक्तया चिद् रात्रावपि” भा० सप्तमीस्थाने याच्। तत् अङ्गत्वेनास्त्यस्य अच्। २ व्रतभेदे तद्व्रतकालादि कालमाधवीये निर्णीतं यथा “अथ नक्तं निर्णीयते। तत्र वाराहपुराणे धान्यव्रते पठ्यते “मार्गशीर्षे सिते पक्षे प्रतिपद्या तिथर्भवेत्। तस्यां नक्तं प्रकुर्वीत रात्रौ विष्णुं प्रपूजयेदिति। अत्र नक्तशब्दो भोजनपरः कालपरत्वे प्रकुर्वीतेत्यस्यानन्वयात्। न हि कालः केनचित्कर्तुं शक्यते। तस्य भोजनस्य रात्राविति कालविधिः। अतो दिवाभोजनरहितत्वे सति रात्रिभोजनं व्रतस्य स्वरूपम्। अन्यथा स्वतःप्राप्तस्य रात्रिभोजनस्य विधानवैयर्थ्यात्। तस्य च नक्तमोजनस्य विष्णुपूजनमङ्गम् तत्सन्निधौ पठितत्वात्। तथा होमोऽपि तदङ्गम् “होमं च तत्र कुर्वीत” इत्यभिधानात्। एवं च सति प्रधानाविरोधेन पूजा होमयोरङ्गयोर्दिवानुष्ठानमुक्तं भवति। प्रधानस्य च नक्तस्य कालद्वयं भविष्यत्पुराणे दर्शितम् “मुहूर्त्तोनं दिनं नक्तं प्रवदन्ति मनीषिणः। नक्षत्रदर्शनान्नक्तमहं मन्येगणाधिप!” इति। अस्य च कालद्वयस्याधिकारिभेदेन व्यवस्थामाह देवलः “नक्षत्रदर्शनान्नक्तं गृहस्थस्य बुधैः स्मृतम्। यतेर्दिनाष्टमे भागे तस्य रात्रौ निषिध्यते” इति। स्मृत्यन्तरेऽपि “नक्तं निशायां कुर्वीत गृहस्थो विधिसंयुतः। यतिश्च विधवा चैव कुर्य्यात्तु सदिवाकरम्। सदिवाकरं तु तत्प्रोक्तमन्तिमे घटिकाद्वये। निशानक्तं तु विज्ञेयं यामर्द्धे प्रथमे सदेति” रात्रिनक्तभोजने व्यासः “त्रिमुहूर्त्तः प्रदोषः स्याद्भानावस्तंगते सति। नक्तं तु तत्र कर्त्तव्यमिति शास्त्रविनिश्चयः” इति तदेवं नक्तव्रतकालौ व्यवस्थितौ। तत्र नक्तं प्रदोषव्या पिन्यां तिथौ कार्यम् तदाह वत्सः “प्रदोषव्यापिनी ग्राह्या तिथिर्नक्तव्रते सदा। एकादशीं विना सर्वा शुक्ले कृष्णे तथा स्मृता” इति। एकादश्यां तु यन्नक्तं तत्रोदयव्यापिनी तिथिर्ग्राह्या तदुक्तं स्कन्दपुराणे “प्रदोषव्यापिनी ग्राह्या सदा नक्तव्रते तिथिः। उदयस्था सदा पूज्या हरिनक्तव्रते तिथिः” इति। अत्राप्येकभक्तन्यायेन षोडशविधभेदा उत्प्रेक्षणीयाः। मध्याह्नप्रदोषयोरेव भिन्नत्वात्। पूर्वेद्युरेव प्रदोषव्याप्तौ पूर्वतिथिर्ग्राह्या। परेद्युरेव प्रदोषव्याप्तौ परतिथिः। उभयत्र प्रदोषव्याप्तौ परतिथिरेव तदाह जावालिः “सदैव तिथ्योरुभयोः प्रदोषव्यापिनी तिथिः। तत्रोत्तरत्र नक्तं स्यादुभयत्रापि सायतः” इति। उभयत्रापि दिवारात्रौ च सा तिथिर्विद्यते यत इत्यर्थः। उभयत्र प्रदोष व्याप्त्यभावेऽपि परैव तदाह जावालिः “अतथात्वेपरत्र स्यादस्तादर्वाक यतो हि सेति”। प्रदोषे तदभावेऽप्यस्तमयादर्वाग्यतः सा विद्यते ततः सा ग्राह्येत्यर्थः। अस्य च दिवारात्रव्रतत्वेन प्रदोषध्याप्तिवत्सायङ्कालव्याप्तिरपि निर्णयहेतुर्भवतीत्यनेनाभिप्रायेणार्वागस्त यादित्युक्तम्। दिवारात्रिव्रतत्वं च कूर्मपुराणेऽभिहितम् “प्रदोषव्यापिनी यत्र त्रिमुहूर्त्ता यदा दिवा। तदा नक्तव्रतं कुर्य्यात् स्वाध्यायस्य निषेधवत्” इति। यद्यप्यत्र प्रदोषकालसायङ्कालौ द्वावेष प्रयोजकौ प्रतिभासेते तथापि प्रदोषव्याप्तिर्मुख्यः कल्पः। सायङ्कालव्याप्तिरनुकल्प इति जाबालिवचनादवगम्यते। तत्र ह्यतथात्व इति प्रदोषव्याप्त्यभावमनूद्य तादृश्यास्तिथेर्ग्राह्यत्वे अर्वागस्ताद्यत इति हेतूपन्यासात्। ईदृशे विषये गृहस्थोऽपि यतिवद्दिवा नक्तमाचरेत् तदुक्तं स्कन्दपुराणे “प्रदोषव्यापिनी न स्याद्दिवा नक्तं विधीयते। आत्मनो द्विगुणच्छायामतिक्रामति भास्करे। तन्नक्तं नक्तमित्याहुर्न नक्तं निशि भोजनम्। एवं ज्ञात्वा ततो विद्वान् सायाह्ने तु भुजिक्रियाम्। कुर्य्यान्नक्तव्रती नक्तफलं भवति निश्चितमिति”। यत्तु सप्तमीभानुवासरादौ सौरनक्तं विहितं तत्र पूर्वोक्तविपर्य्यासेन सायङ्कालव्याप्तिर्मुख्यः कल्पः। प्रदोषव्याप्तिरनुकल्पः। एतदेवाभिप्रेत्य सुमन्तुः “त्रिमुहूर्त्तस्पृगेवाह्नि निशि वै तावती तिथिः। तस्यां सौरं भवेन्नक्तमहन्येव तु भोजनमिति” अत्र सायंव्याप्तेर्मुख्यकालत्वात् प्रथमतो निर्देशः। प्रदोषव्याप्तेरनुकल्पत्वात् पश्चान्निर्देशः। इतरनक्तेषु तु प्रदोषव्याप्तेरनुकल्पत्वादुदाहृतकूर्मपुराणवचने सैव प्रथमं निर्दिष्टा सायंकालव्याप्तिः पश्चान्निर्दिष्टेति विवेकः। तेष्वितरनक्तेषु प्रदोषव्यापितिथिग्रहणेऽपि भानुवासरसंक्रान्त्यादिना गृहंस्थस्यापि यदा रात्रिभोजननिषेधः तदा दिवैव नक्तं कुर्य्यात् तथा च भविष्योत्तरपुराणे “ये त्वादित्यदिने ब्रह्मन्नक्तं कुर्वन्ति मानवाः। दिनान्ते तेऽपि भुञ्जीरन् निषेधाद्रात्रिभोजने” इति। तस्मिंश्च दिवाभोजन उत्तमोऽन्तिमो मुहूर्त्तो, मध्यम उपान्त्यः, ततः प्राचीनो जघन्यः। एवं च सत्यन्तिमभागत्रिमुहूर्त्तवचनान्युपपद्यन्ते रात्रिभोजनेऽपि घटिकात्रयमुत्तमः कालः। घटिकाषट्कं मध्यमः कालः एतदेवाभिप्रेत्य वचनं स्मर्य्यते “प्रदोषोऽस्तमयादूर्द्ध्वं घटिकात्रयमिष्यत” इति। “त्रिमुहूर्त्तः प्रदोषः स्याद्रवावस्तं गते सतीति”। निशीधपर्य्यन्तो जघन्यः कालः। “नक्तं प्रकुर्वीत रात्राविति” सानाग्येगाभिधानात्। असौर नक्तेषु साम्येन वैषम्येण वा दिनद्वये प्रदोषैकदेशव्याप्तौ परेद्युरेव नक्तं कार्य्यम् सायंकालस्य गौणस्य तत्तिथिव्याप्तत्वात्। अत्राप्येकभक्तवदन्याङ्गं नक्तोपवास स्थानीयनक्तयोर्निर्णयो द्रष्टव्यः। यथोक्तलक्षणलक्षितयोरेकभक्तनक्तयोरेकस्मिन् दिने यदा प्रसक्तिस्तदा कथं कर्त्तव्यम्। न चैतादृशी प्रसक्तिरेव नास्तीति शङ्कनीयम्। भविष्योत्तरपुराणोक्ते रथसप्तमीव्रते कदा- चित्तत्प्रसक्तेः। तथाहि तत्र तृतीयादिषु सप्तस्यन्तेषु पञ्चसु दिनेषु क्रमेणैकभक्तनक्तायाचितीपवासपारणानि विहितानि। तत्र यदा तृतीया यामत्रयपरिमिता तत ऊर्द्धं चतुर्थी तदा भध्याह्नव्यापित्वात् तृतीयैकभक्तं तत्र प्राप्तं प्रदोषव्यापित्वाच्चतुर्थीनक्तमपि तत्रैव तथा सति परस्परविरोधो दुःपरिहरः। अत्रोच्यते। एकभक्तस्य प्राथम्यात् प्रबलत्वेन तस्मिन्मुख्यकल्प एवानुष्ठेयस्तद्विरोधिनि तु नक्तेऽनुकल्पः। स च द्विविधः दिनान्तरामष्ठानात् कर्त्रन्तरानुष्ठानाम्। सदा चतुर्थी परेद्युर्वृद्धा सायंकालं ध्याप्नोति तदा तस्य गौणकालव्यापित्वादेक एव कर्त्ता दिनभेदेन व्रतद्वयमनुतिष्ठेत्। यदा चतुर्थी सभा क्षीणा च। तदा गौणकालस्याप्त्यसम्भवेन पूर्वेद्युरेव भार्यापुत्रादिना कर्त्रन्तरेण तन्नक्त करणीयम्।” “अहःसु तिथयः पुण्याः कर्म्मामुष्ठानती दिवा। नक्षत्रादिव्रतयोगे तु रात्रियोगो विशिष्यते” ति० त० सामान्योक्तिः उक्तविषयपरिहारेण प्रवर्त्तनीया। अस्य प्रशंसा देवीपु० यथा “उपवासात् परं भैक्ष्यं भिक्षापरमयाचितम्। अयाचितात् परं नक्तं तस्मान्नक्तेन वर्त्तयेत्। देवैस्तु मुक्तं पूर्वाह्णे मध्याह्ने ऋषिभिस्तथा। पराह्णे पितृभिर्भुक्तं सन्ध्यायां गुह्यकादिभिः। सर्ववेलामतिक्रम्य नक्ते भुक्तमभोजनम्। वामाचारे मह देव! नक्तेनैवोद्धरन्नरम्” विभुनृपस्य ३ पुत्रभेदे “विभोरत्याञ्च पृथुषेणः तस्य नक्त आकूत्यां जज्ञे नक्तादृतिपुत्रो गयो राजर्षिप्रवरः” भाग० ५। १५। ४ लज्जिते त्रि०।

नक्तक = पु० नक्त इव कायति चै–क। (नेकडा) कर्पटे अमरटीकायां भरतः

नक्तचारिन् = पु० नक्ते रात्रौ चरति चर–णिनि ७ त०। १ विडाले २ पेचके त्रिका० रात्रिचारिमात्रे त्रि०। नक्तचरादयोऽप्यत्र “जयेन्नक्तचरान् सर्वान् सपुरोहित धूर्गतः” भा० आ० १० अ०।

नक्तञ्चर = पुंस्त्री नक्तं रात्रौ चरति चर-ट ७त०। १राक्षसे हला० स्त्रियां ङीप्। २ गुग्गुलौ जटा०। ३ चौरे ४ पेचके शब्दार्थचि०। ५ रात्रिचरमात्रे त्रि०

नक्तञ्चर्य्या = स्त्री नक्तं चर्य्या चरणम्। रात्रौ चरणादौ “नक्तञ्चर्य्यां दिवास्वप्नमालस्यं पैशुनं मदम्। अतियोगमयोगञ्च श्रेयसोऽर्थी परित्यजेत्” भा० आ० २८९ अ०।

नक्तञ्चारिन् = त्रि० नक्तं चरति चर–णिनि। रात्रिचारिमात्रे “दिवाचरेभ्यो भूतेभ्यो नक्तञ्चारिभ्यएव च” मनुः

नक्तञ्जात = त्रि० नक्तं रात्रौ जातः। १ रात्रिजाते २ ओषधिभेदे स्त्री “नक्तञ्जातया ओषधे! रामे कृष्णे असिक्ने च” अथ० १। २३। ४। नक्तप्रभवादयोऽप्यत्र

नक्तन् = न० नज–बा० तनिन्। रात्रौ “वयो ये भूत्वी पतयन्ति नक्तभिः” ऋ० ७। १०४। १८ “नक्तभिः रात्रिभिः” भा०

नक्तन्तन = त्रि० नक्तम् रात्रौ भवः ट्युल् तुट् च। रात्रिभवे “इदं नक्तन्तनं दाम पौष्पमेतद्दिवातनम्” भट्टिः। स्त्रियां ङीप्।

नक्तन्दिव = न० नक्तं रात्री च दिवा दिने च सप्तम्यर्थवृत्त्योः द्वन्द्वः अचतुरेत्यादिना नि० अच्। रात्रौ दिनेचेत्यर्थे। “विभज्य नक्तन्दिवमस्ततन्द्रिणा” किरा०

नक्तभोजिन् = त्रि० नक्तं रात्रौ भुङ्क्ते भुज–णिनि। व्रतार्थं दिवाऽभोजनेन रात्रिभोजिनि दिवाभोजनाभावविशिष्टरात्रिभोजनकर्त्तरि हविष्यभोजनं स्नानं सत्यमाहारलाथवम्। अग्निकार्यमधः शय्यां नक्तभोजी षडाचरेत्” भविष्यपु०।

नक्तम् = अव्य० नज–व्रीडे वा० तमु। रात्रौ अमरः। “तुषार मूर्त्तेरिव नक्तमंशवः” मावः। “महोषधीर्नक्तमिवात्मभासः” कुमा०।

नक्तमाल = पु० नक्तम् रात्रौ आ अलति अल–अच्। करञ्जवृक्षे अमरः। “मरुद्भिरानर्त्तितनक्तमाले” रघुः।

नक्तमुखा = स्त्री नक्तं नक्तव्रताङ्गं मुखमाद्यभागोऽस्याः। रात्रौ हला० यथा रात्रिप्रथमभागस्य नक्तव्रताङ्गं तथा नक्तशब्दे उक्तं दृश्यम्।

नक्तव्रत = न० “नक्तं निशायां कुर्वीत गृहस्थो विधिसंयुतः। निशि व्रतं तु विज्ञेयं यामार्द्धे प्रथमे सदा” इत्युक्तलक्षणे दिवाभोजनाभावविशिष्टे रात्रौ प्रथमयामार्द्धे भोजनरूपे व्रते नक्तशब्दे दृश्यम्।

नक्ता = स्त्री नज–व्रीडे क्त बा० तस्य नः। (ईशलाङ्गली) कलिकार्य्यां राजनि०।

नक्तान्ध्य = न० नक्ते आन्ध्यम्। भावप्र० उक्ते रात्री दृष्टिराहित्यापादके नेत्ररोगभेदे “सएव श्लेष्मा दृष्टौ पटलत्रयङ्गतो नक्तान्ध्यं करोतीत्याह त्रिषु स्थितोयः पटलेषु दोषो नक्तान्ध्यमापादयति प्रसह्य। दिवा स सूर्यप्रगृहीत दृष्टिः पश्येत् तु रूपाणि कफाल्पभावात्”। दोषोऽत्र कफजः कफस्योपक्रान्तत्वात्। नक्तान्ध्यस्य स्लेष्मविदग्धदृष्टावन्तर्भावात् न पृथग् गणना। “ऐर्म्मं हन्यादर्म्भ नक्तान्ध्यकाचान्नीलीरोगं तैमिरं चाञ्जनेन” सुश्रुतः। तद्युक्तमानवे नक्तान्ध इत्येव “आगस्त्यं नातिशीतोष्णं नक्तान्धानां प्रशस्यते” सुश्रुतः। नेत्ररोगशब्दे दृश्यम्।

नक्र = पुंस्त्री न क्रामति दूरस्थलम् क्रम–ड नभ्राडित्यादिना नञःप्रकृतिभावः। १ कुम्भीरे अमरः स्त्रियां जातित्वात् ङीष्। (झणकाट) २ द्वारशाखाग्रदारुणि ३ नासिकायाञ्च न० मेदि०। “ह्रदा प्रसन्ना इव गूढनक्राः” “आनायिभिस्तामपकृष्टनक्राम्” रघुः। “अण्डजाः पक्षिणः सर्पा नक्राः मत्स्याश्च कच्छपाः” मनुः नामिकायां स्त्री शब्द माला। ४ जलजन्तुभेदे मकरादौ च “तथा चेन्नाश्वरेयं नयेत नक्रकेतनः क्षणेनैकेनाकीर्त्तनीयां दशां जनञ्चैनम्” काद०। “नक्रकेतनः मकरध्वजः” इत्यर्थः।

नक्रराज = पु० ६ त० टच् समा०। जलजन्तुप्रधाने (हाङ्गर) ख्याते जलजन्तुभेदे हारा०।

नक्रहारक = पु० नक्रमपि हरति हृ–ण्वुल् ६ त०। (हाङ्गर) ख्याते जलजन्तुभेदे हारा०।

नक्ष = गतौ भ्वा० पर० सक० सेट् निघण्टुः। नक्षति अनक्षी मनक्ष। “नक्षद्दाभं ततुरिं पर्वतेष्ठा” ऋ० ६। २२। “नि त्वा नक्ष्य! विश्पते! द्युमन्तम्” ७। १५। ७ “हे नक्ष्य उपगम्य नक्षतिर्गतिकर्मा” भा०

नक्षत्र = न० नक्ष–अत्रन् न क्षीयते क्षरते वा–बा० नि० नभ्राडित्यादि० निपा० नञः प्रभृतिभावः। अश्विन्यादिषु सप्तविंशतितारासु नक्षत्राभिमानिदेवताश्च अश्विन्यादयः दक्षसुताः चन्द्रकलत्राणि च तत्कथा कालिकापु० २० अ० कालिकापु० शब्दे २०१४ पृ० दृश्यम्। ताश्च “अश्विनी भरणी चैव कृत्तिका रोहिणी तथा। मृगशीर्षा तथैवाद्रां तथा चैव पुनर्वसुः। पुष्याऽश्लेषामधा पूर्वफल्गुन्युत्तरफल्गुनी। हस्ताचित्रास्वातयश्च विशाखा अनुराधिका। ज्येष्ठा मूला तथा पूर्वोत्तराघाढे ततःपरम्। श्रवणा च धनिष्ठा च तथा शतभिषाह्वया। पूर्वोत्तरे भाद्रपदे रेवती च ससंज्ञकाः” ज्यो० उक्तानि अधिकमृक्षशब्दे पृ० दृश्यम्। २ मुक्तामयहारभेदे स च नक्षत्रसंख्यया सप्तविंशत्यारचितः। “नक्षत्रमालामरणमिव मदनद्विपस्य” कादम्ब०। नक्षत्रं च २१६०० कलात्मकस्य राशिचक्रस्य अष्टशतकलात्मकम् “भभोगोऽष्टशती लिप्ता” सू० सि० उक्तेः युक्तञ्चैतत् २१६०० कलात्मकस्य तस्य २७ विंशत्या भागे ८०० शतान्येन कला लभ्यन्वे। तेषां योगतारास्वरूपादिकमश्लेषाशब्दे ४९७ पृ० उक्तम् विक्षेपादयश्च खगोलशब्दे २४२४। २५ पृ० उक्ताः। तेषां प्रयोगे लिङ्गमेदश्च यथा “हस्तास्वातिश्रवणा अक्लीवे मृगशिरा न पुंसि स्यात्। पुंसि पुनर्वसुपुष्यौ मूलन्त्वस्त्रियां शेषाः स्त्रियां बोध्याः” इदं प्रायिकम्।

नक्षत्रकान्तिविस्तार = पु० नक्षत्रकान्तीना विस्तारो यत्र। धवलयावनाले राजनि०।

नक्षत्रगण = पु० नक्षत्रघटितो गणः समुदायभेदः। दृ० सं उक्ते नक्षत्रविशेषाणां समूहात्मके गणभेदे। तत्र गणभेदस्य संज्ञाभेदाःकार्यविशेषोपयोगिसं च वृ० सं० ९८ अ० उक्तं यथा “त्रीण्युत्तराणि तेषां रोहिण्यश्च ध्रुवाणि १ तैः कुर्यात्। अभिषेकशान्तितरुनगरधर्मवीजध्रुवारम्भान्। मूलशिवशक्रभुजगाधिवानि तीक्ष्णानि २ तेषु सिद्ध्यन्ति। अभिधातमन्त्रवेतालबन्धवधभेदसम्बन्धाः। उग्राणि ३ पूर्वभरणीपित्र्याण्युत्सादनाशशाठ्येषु। योज्यानि बन्धविषदहनशस्त्रघातादिषु च सिद्ध्यै। लघु ४ हस्ताश्विनपुष्याः पण्यरतिज्ञानभूषणकलासु। शिल्पौषधयानादिषु सिद्धिकराणि प्रदिष्टानि। मृदुवर्ग ५ स्त्वनुराधाचित्रापौष्णैन्दवानि मित्रार्थे। सुरतबिधिवस्त्रभूषणमङ्गलगीतेषु च हितानि। हौतभुजं सविशाखं मृदुतीक्ष्णं ६ तद्विमिश्रफलकारि”। ६ त०। २ तारासङ्घे च।

नक्षत्रचक्र = न० नक्षत्राणां चक्रं यत्र। १ राशिचक्रे २ तन्त्रोक्ते दीक्षोपयोगिचक्रभेदे चक्रशब्दे २८०९ पृ० दृश्यम्।

नक्षत्रजात = न० नक्षत्रे तद्विशेषे जातं जन्म। वृ० सं० उक्ते नक्षत्रविशेषे जन्मनि। तत्सूचितफलं तत्रोक्तं यथा “प्रियभूषणः सुरूपः सुमगो दक्षोऽश्विनीषु मतिमांश्च। कृतनिश्चयसत्यारुग् दक्षः सुखितश्च भरणीषु। बहुभुक् परदाररतस्तेजखी कृत्तिकासु विख्यातः। रोहिण्यां सत्यशुचिः प्रियंवदः स्थिरसुरूपश्च। चपलश्चतुरो भीरुः षटुरुत्माही धनी मृगे भोगी। शठगर्वितचण्डकृतघ्नहिंस्रपापश्च रौद्रर्क्षे ६। दान्तः सुखी सुशीलो दुर्मेधा रोगभाक् पिपासुश्च। अल्पेन च सन्तुष्टः पुनर्वसौ जायते मनुजः। शान्तात्मा मुभनः पण्डितो धनी धर्मसंश्रितः पुष्ये। शठसर्वभक्षपापः कृतघ्नधूर्तश्च भौजङ्गे ९। बहुभृत्यधनो भोगी सुरपितृभक्तो महोद्यमः पित्र्ये १०। प्रियवाग्दाता द्युतिमान् अढनो नृपसेवको भाग्ये ११। सभगो विद्याप्नधनो भोगी सुखभाग् द्वितीयफल्गुन्याम्। उत्साही धृष्टः पानपोऽघृणी तस्करो हस्ते। चित्राम्बरमाल्यधरः सुलोचनाङ्गश्च भवति चित्रायाम्। दान्तो बणिक् कृपालुः प्रियवाग् धर्माश्रितः खातौ। ईर्ष्युर्लुब्धो द्युतिमान् वचनपटुः कलह- कृद्विशाखासु। आट्यो विदेशवासी क्षुधालुरटनोऽनुराधासु। ज्येष्ठासु न बहुमित्रः सन्तुष्टो धर्मकृत् प्रचुरकोपः। मूले मानी घनवान् सुखी न हिंस्रः स्थिरो भोगी। इष्टानन्दकलत्रो वीरो दृढसौहृदश्च जलदेवे २०। वैश्वे २१ विनीतधार्मिको बहुमित्रकृतज्ञसुभगश्च। श्रीभाश्छ्रवणे श्रुतवान् उदारदारो धनान्वितः ख्यातः। दाताढ्यशूरगीतप्रियो धनिष्ठासु धनलुब्धः। स्फुटवागव्यसनी रिपुहा साहसिकः शतभिषासु दुर्ग्राह्यः। भद्रपदासूद्विग्नः स्त्रीजितधनपटुर्दाता च। वक्ता सुखी प्रजावान् जितशत्रुर्धार्मिको द्वितीयासु २६। सम्पूर्णाङ्गः सुभगः शूरशुचिरर्थवान् पौष्णे २७”।

नक्षत्रदर्श = त्रि० नक्षत्रं पश्यति दृश–अण् उप० स०। १ नक्षत्रवीक्षके। नक्षत्रं तत्फलं दर्शयति सूचयति दृशणिच्–अण्। २ गणके ज्योतिर्विद्भेदे “प्रज्ञानाय नक्षत्रदर्शम्” यजु० ३०। १० पुरुषमेधे प्रज्ञानोद्देशकमेध्यपशुकथने

नक्षत्रदान = न० नक्षत्रभेदे दानम्। नक्षत्रभेदे द्रव्यभेदस्य दाने तच्च हेमा० दा० उक्तं यथा भारते “नारद उवाच कृत्तिकासु महाभाग! पायसेन समर्पिषा। सन्तर्प्य ब्राह्मणान् साधून् लोकान् प्राप्नोत्यनुत्तमान्। रोहिण्यां पाण्डवश्रेष्ठ! माषैरत्नेन सर्पिषा। पयोनुपानाद्दातव्यमानृण्यार्थं द्विजातये। दोग्ध्रीं सवत्सान्तु नरो नक्षत्रे सोमदैवते ५। दत्त्वादित्यविमानस्थः स्वर्गं प्राप्नोत्यनुत्तमम्” सोमदैवतं नक्षत्रं, मृगशीर्षम्। “आर्द्रायां कृशरं दत्त्वा तिलमिश्रं समाहितः। नरस्तरति दुर्गाणि क्षुरधारांश्च पर्वतान्। पूपं पुनर्वसौ दत्त्वा घृतपूर्णं सुपाचितम्। यशस्वी रूपसम्पन्नो बह्वन्ने जायते कुले। पुष्ये तु काञ्चनं दत्त्वा कृतं चाकृतमेव च। अनालोकेषु लोकेसु सोमवत् स विराजते”। कृतं घटितम् अकृतमघटितम्। “अश्लेषासु तथा रौप्यं वृषभं यः प्रयच्छति। स सर्वमयनिर्मुक्तः शास्त्रवानभिजायते। मघासु तिलपूर्णानि वर्द्धमानानि मानवः। प्रदाय पशुमांश्चैव पुत्रवांश्च प्रजायते। फाल्गुनीपूर्वसमये ब्राह्मणानामुपोषितः। मक्ष्यान् फाणितसंयुक्तान् दत्त्वा सौभाग्यमृच्छति। घृतक्षीरसमायुक्तं विधिवत् षष्टिफौदनम्। उत्तराविषये दत्त्वा स्वर्गलोके महीयते। यद्वा प्रदीयते दानमुत्तराविषये नरैः। सदा फलमनन्तञ्च भवतीह विनिश्चयः”। फाल्गुनीपूर्वसमये, पूर्वफल्गुनीसमय इत्यर्थः। फाणितं गुडविकारः उत्तरा- विषये उत्तरफाल्गुनीसमय इत्यर्थः। “हस्ते हस्तिरधं दत्त्वा चतुर्युक्तसुपोषितः। नरस्तरति दुर्गाणि क्षुरधारांश्च पर्वतान्”। चतुर्युक्तं, चतुर्भिर्हस्तिभिर्युक्तम्। “चित्रायां वृषभं दत्त्वा पुण्याङ्गाङ्गां च भारत!। चरत्यप्चरसां लोके रमते नन्दने वने”। पुण्याङ्गाङ्गामिति शुभलक्षणलक्षितशरीरां धेनुमित्यर्थः। “स्वातीष्यथ धनं दत्त्वा यदिष्टतममात्मनः। प्राप्नोति लोकान् सुशुभानिह चैव महद्यशः। विशाखायामनड्वाहं धेनुं दत्त्वाथ दुग्धदाम्। सप्रासङ्गञ्च शकटं सधान्यं वस्त्रसंयुतम्”। प्रासङ्गो युगान्तरणाष्ठम्। “पितॄन् देवांश्च प्रीणाति प्रेत्य चानन्त्ययक्षुते। न च दुर्गाण्यवाप्नोति स्वर्गलोकं च गच्छति। दत्त्वा यधोक्तं विप्रेभ्यो वृत्तिमिष्टा स विन्दति। नारकीयांश्च स क्लेक्षान्नाप्नोतीति विनिश्चयः। अनुराधासु प्रावारवस्त्रीत्तरमुपोषितः। दत्त्वा युगशतं चापि नरः स्वर्गे महीयते”। प्रावारः प्रवारपटः, वस्त्रोत्तरं परिधानवस्त्रादिकम्। “कालशाकन्तु विप्रेभ्यो दत्त्वा मर्त्त्यः समूलकम्। ज्येष्ठायां मृत्युमुत्साद्य गतिमिष्टाञ्च गच्छति। मूले मूलफलं दत्त्वा ब्राह्मणेभ्यः समाहितः। स्वपितॄन् प्रीणयेदेव गतिमिष्टाञ्च गच्छति। अथ पूर्वास्वाषाढासु दधिपात्राण्युपोषितः। कुलवृत्तोपसम्पन्ने व्राह्मणे वेदपारगे। प्रदाय जायते श्रेष्ठकुले बहुगुणाकुले। पुत्रपौत्रैः परिवृतः पशुमान् धनवांस्तथा। उदमन्यं ससर्पिष्कं प्रभूतमधुफाणितम्। दत्त्वीत्तरास्यापाढासु सर्वलोकानवाप्नुयात्”। उदमन्यः उदकमिश्राः सक्तवः। फाणितं दुग्धखण्डविकारः। “दुग्धन्त्यभिजितो योगे दत्त्वा मधुवृतप्लुतम्। धर्मनिष्ठो मनीषिभ्यः स्वर्गलोके महीयते”। अयमर्थः। उत्तराषाढानक्षत्रचतुर्थपादः श्रवणस्याद्यघटिकाचतुष्टयमभिजिद्योगः। “श्रवणे कम्बलं दत्त्वा वस्त्रान्तरितमेव च। श्वेतेन याति यानेन स्वर्गलोकानसंवृतान्। गोप्रयुक्तं धनिष्ठसु यानं दत्त्वा समाहितः। वस्त्रमस्मिन्नवं दत्त्वा प्रेत्य राज्यं प्रपद्यते। गन्धं शतभिषायोगे दत्त्वा सागुरुचन्दनम्। प्राप्नोत्यप्सरसां लोकं प्रेत्य गन्धांञ्च शाश्वतान्। पूर्वभाष्ट्रपदायोगे राजमाषान् प्रदाय वै। सर्वभक्ष्यफलोपेतः स वै प्रेत्य सुखी भवेत्। औरभ्रमुत्तरायोगे यस्तु मांसं प्रयच्छति। पितॄन् प्रीणाति सकलान् प्रेत्यानन्त्यं रुमश्नुते”। उरभ्रो, मेषस्तस्य मांसमौरभ्रम्। “कांस्योपदोहनीं धेनुं रेवत्यां यः प्रय- च्छति। स प्रैत्य कामानादाय दातारमुपतिष्ठति। रथमश्वसमायुक्तं दत्त्वाश्विन्यां नरोत्तभः। हस्त्यश्वरथसम्पन्ने वर्चखी जायते कुले। भरणीषु द्विजातिभ्यस्तिलधेनुं प्रदाय वै। गाः प्रसूताश्च प्राप्नोति नरः प्रेत्य यशस्तथा। भीष्म उवाच। इत्येष लक्षणोद्देशः प्रोक्तो नक्षत्रयोगतः। देवक्या नारदेनेह स्तुषाभ्यः साऽव्रवीदिदम्”। विष्णुधर्मोत्तरे “कृत्तिकासु सुवर्णस्य दानं बहुफलं स्मृतम्। रक्तवस्त्रस्य रोहिण्यां सौम्ये ५ भे लवणस्य च। कृशरस्य तथार्द्रायामादित्ये ७ रजतस्य च। घृतस्य तु तथा पुष्ये गन्धानामथ सर्पभे ९। तिलानाञ्च तथा पैत्र्ये १० प्रियगोर्भगदैवते ११। आर्यम्णे १२ चाज्यपूपानां सावित्रे १३ पायसस्य तु। चित्रायां चित्रवस्त्राणां सक्तूनां वायुदैवते १५। ऐन्द्राग्न्ये १६ चैव लोहानां मैत्रे १७ माल्यफलस्य च। छत्रस्य च तथा शाक्रे १८ मले मूलफलस्य च। हेम्नश्च मधुयुक्तस्य दानमाप्ये २० महाफलम्। विश्वेश्वरे २२ऽन्नपानस्य श्रवणे वसनस्य च। धान्यस्य वासवे २३ विप्रा बारुणे २४ चौषधस्य च। आजे २५ पुराणवीजानां सस्यानां तदनन्तरे २६। गोरसानां तथा पौष्णे २७ स्रानानामथयाश्विने। तिलानाञ्च सदा दानं भरणीषु महाफलम्”।

नक्षत्रनाथ = पु० ६ त०। १ चन्द्रे “नक्षत्रनाथः समुपाजगाम” हरिवं० ३१७ अ० “नक्षत्रनाथांशुरिवारविन्दे” रघुः। तस्य नक्षत्राधिष्टातृदक्षसुताश्विन्यादि नाथत्वात् तथात्वम्।

नक्षत्रनेमि = पु० नक्षत्रस्य तच्चक्रस्य नेमिरिव। १ ध्रुवतारके २ चन्द्रे ३ रेवत्यां च हेमच०। ४ विष्णौ “नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः” विष्णुस०। “शिशुमारस्य ज्योतिश्चक्रस्य नेमिवत् प्रवर्त्तको हृदयस्थिता” विष्णुरिति कथितो नक्षत्रनेमिः शिशुमारवर्णने “विष्णुर्हृदयामति श्रुतेः” भा०

नक्षत्रपति = पु० नक्षत्रं पाति पा–डति। चन्द्रे शब्दार्थचि०। नक्षत्रपत्यादयोऽप्यत्र।

नक्षत्रपथ = पु० नक्षत्रोपलक्षितः पन्धाः अच् समा०। नक्षत्रचक्रस्य भ्रमणमार्गे। नक्षत्रमार्गादयोऽप्यत्र “अतीतनक्षत्रपथानि यत्र” माघः। खगोलशब्दे दृश्यम्।

नक्षत्रपदयोग = पु० “मेषगे भास्करे षष्ठे शीतगौ स्वोच्चगे यमे। नक्षत्रपदयोगोऽयं शत्रुमेघानिलोयथा” ज्यो० उक्ते राज्ञां युद्धयात्राङ्गयोगभेदे।

नक्षत्रपुरुष = पु० नक्षत्रैरेवाङ्गविशेषैः पुरुष इव। नक्षत्रविशेषैरङ्गविशेषात्मकैः तन्नामघ्रताङ्गे पुरुषे अस्य व्रताङ्गता व्रतनिमित्तकालश्च वृ० स० १०५ अ० उक्तो यथा “पादौ म्लं, जङ्घे च रोहिणी तथाश्विन्यः। ऊरूचाषाढाद्वयमथ गुह्यं फाल्गुनीयुग्मम्। कटिरपि च कृत्तिकाः, पार्श्वयोश्च यमला भवन्ति भाद्रपदाः। कुक्षिस्था रेवत्यो, विज्ञेयमुरोऽनुराधा च। पृष्ठं विद्धि धनिष्ठा, भुजौ विशाखा, स्मृतौ करौ हस्तः। अङ्गुल्यश्च पुनर्वसु, रश्लेषासंज्ञिताश्च नखाः। ग्रीवा ज्येष्ठा, श्रवणौ श्रवणः, पुष्यो मुखं, द्विजाः (दन्ताः) स्वातिः। हसितं शतभिषगथ गासिका मघा, मृगशिरा नेत्रे। चित्रा लघाटसंस्था, शिरो भरण्यः, शिरोरुहाश्चार्द्रा। नक्षत्रपुरुषकोऽयं कर्तव्यो रूपमिच्छद्भिः। चैत्रस्य बहुलपक्षे ह्यष्टम्यां मूलसंयुते चन्द्रे। उपवासः कर्तव्यो विष्णुं सम्पूज्य धिष्ण्यं च। दद्याद्ध्रते समाप्ते वृतपूर्णंभाजनं सुवर्णयुतम्। विप्राय कालविदुषे सरत्नवस्त्रं स्वशक्त्या वा”। वामनपु० ७७ अ० विस्तारो दृश्यः।

नक्षत्रभोग = पु० राशिचक्रस्थनक्षत्राणामेकैकदिने भोगः। २१६०० कलात्मकस्य सप्तविंशत्या समं विभक्तस्य ८०० शतकलारूपे भोगे “भभोगोऽष्टशती लिप्ताः” सू० सि०।

नक्षत्रमान = न० सू० सि० उक्ते दिनादिमानभेदे अहन्शब्दे ५७६ पृ० नाक्षत्रमानशब्दे च दृश्यम्।

नक्षत्रमाला = स्त्री नक्षत्रसंख्यिका माला। १ सप्तविंशतिमौक्तिकादिरचितमालायाम् अमरः। ६ त०। २ नक्षत्रश्रेणौ च “यावन्नक्षत्रमाला विचरति गगने भूषयन्तीव भासा” वृ० सं० १०५ अ०। ३ हस्तिनां मालाभेदे च “निशार्द्धसमयेनेव परिस्फुरत्सार्द्धचन्द्रनक्षत्रमालेन” काद० (गन्धहस्तिना)

नक्षत्रयाजक = पु० नक्षत्रनिमित्तं वृत्त्यर्थं याजयति यज–णिच्–ण्वुल्। नक्षत्रनिमित्तदोषोद्भावनेन शान्तिकारके अपकृष्टब्राह्मणे “आह्वायका देवलका नक्षत्र ग्रामयाजकाः। एते ब्राह्मणचाण्डाला महापलिक पञ्चमाः” भा० शा० ७६ अ० तस्य निन्दोक्ता

नक्षत्रयोग = पु० नक्षत्रभेदे योगः क्रूरग्रहादिभिर्योगः। नक्षत्रव्यूहशब्दे वक्तव्ये नक्षत्रेषु क्रूरादिग्रहयोगे “सांवत्सरा ज्योतिषि चाभियुक्ताः नक्षत्रयोगेषु च निश्च यज्ञाः” भा० उ० ४७ अ०

नक्षत्रयोगिनी = स्त्री नक्षत्रैरभिमानितया युज्यते युजथिनुण्। दाक्षायणीषु अश्विन्यादिषु “तस्मै नक्षत्रयोनिन्धः सप्तविंशतिरुत्तमाः। रोहिणीप्रमुखाः कन्या दक्षः प्राचेतसो ददौ” हरिवं० २२६ अ०। रोहिण्याश्चन्द्रस्यातिप्रियत्वात् तन्मुखत्वमुक्तमिति बोध्यम्।

नक्षत्रयोनि = स्त्री ६ त०। विवाहादौ योनिकुटे उपयमशब्दे १२५० पृ० दृश्यम्।

नक्षत्रराज = पु० ६ त० टच् समा०। चन्द्रे “नक्षत्रराजे वर्षान्ते व्यभ्रे ज्योतिर्गणा इव” भा० शा० २९ अ०

नक्षत्रलोक = पु० ६ त०। नक्षत्राधिष्ठितलोकभेदे “कस्मिन्नु चन्द्रलोका ओताश्च प्रोताश्च नक्षत्रलोकेषु गार्गीति कस्मिन्नु नक्षत्रलोका ओताश्च प्रोताश्च देवलोकेषु” शत० ब्रा० १४। ६। ६। १। तल्लोकस्थानादिकं च काशीख० ल० उक्तं यथा

“दक्षः घ्नजाविनिर्माणे दक्षो जातः प्रजापतिः। षष्टिर्दुहितरस्तस्य रूपलावण्यभूमणाः। सर्वा लावण्यवाहिन्यो रोहिणीप्रमुखाः श्रुताः। ताभिस्तप्त्वा तपस्तीव्रं प्राप्य वैश्चेश्वरीं पुरीम्। आराधितो महादेवः सोमः (उमया सहितः) सोमविभूषणः। भवतोऽपि महादेव! भव! तापहरो हि यः। रूपेण भवता तुल्यः स नोभर्त्ता भवत्विति। लिङ्गं संस्थाप्य सुमहन् नक्षत्रेश्वरसंज्ञितम्। वरणायास्तटे रम्ये सङ्गमेश्वरसन्निधौ। दिव्यं वर्षसहस्रन्तु पुरुषायितसंज्ञितम्। तपस्तप्तं महत्ताभिः पुरुषैरपि दुष्करम्। ततस्तुष्टो हि विश्वेशोव्यतरद्वरमुत्तमम्। सर्वासामेकवृत्तीनामेकार्थस्थिरचेतसाम्। श्रीविश्वेश्वर उवाच। न ख्यातं हि तपोऽत्युग्रमेतदन्याभिरीदृशम्। पुराऽबलाभिस्तस्माद्वोनाम नक्षत्रमत्र वै! पुरुषायितसंज्ञेन तप्तं यत्तपसाऽधुना। भवतीभिस्ततः पुंस्त्वमिच्छया वो भविष्यति। ज्यातिश्चक्रे समस्तेऽस्पिन्नग्रगण्या भविष्यथ। मेषादीनाञ्च राशीनां योनयो यूयमुत्तमाः। ओषधीनां सुधायाश्च ब्राह्मणानाञ्च यः पतिः। पतिमत्यो भवत्योऽपि तेन पत्या शुभाननाः!। भवतीनामिदं लिङ्गं नक्षत्रेश्वरसंज्ञितम्। पूजयित्वा नरो गन्ता नक्षत्रलोकमुत्तमम्। उपरिष्टान्मृगःङ्कस्य लोको वस्तु भविष्यति। सर्वासां तारकाणाञ्च मध्ये मान्या भविष्यथ। नक्षत्रपूजका ये च नक्षत्रव्रतचारिणः। ते वो लोके वसिष्यन्ति नक्षत्रसदृशप्रभाः। नक्षत्रग्रहराशीनां बाधा तेषां कदाचन। न भविष्यति ये काश्यां नक्षत्रेश्वरवीक्षकाः”।

नक्षत्रविद्या = स्त्री नक्षत्राणां तत्रस्थितग्रहादीनां चारज्ञानाय विद्या। ज्योतिषविद्यायाम् “न चेत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया। नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित्” मनुः। “विज्ञानेन वा ऋग्वेदं विजानाति” इत्युपक्रमे “व्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्याम्” छा० उ०।

नक्षत्रवीथि = स्त्री नक्षत्रैस्तद्भेदैः कृता वीथिः शा० त०। गगनस्थाने नक्षत्रविशेषकृतायां वीथौ तद्भेदादिकं वृ० सं० ९ अ० उक्तं यथा “नागगजैरावतवृषगोजरद्गवमृगाजदहनाख्याः। अश्विन्याद्याः कैश्चित् त्रिभाः क्रमाद्वीथयः अथिताः। नागा तु पवनयाम्यानलानि, पैतामहात्त्रिभास्तिस्यः। गोवीथ्यामश्विन्यः पौष्णं द्वे चापि भाद्रपदे। जारद्गव्यां श्रवणात् त्रिभं भृमाख्या त्रिभं च मैत्राद्यम्। हस्तविशाणात्वाष्ट्राण्यजेत्यषाढाद्वयं दहना। तिस्रस्तिसस्तासां क्रमादुदङ्मध्ययाम्यमार्गस्याः। तासामप्युत्तरमध्यदक्षिणस्थितैकैका। वीधीमार्गानपरे कथयन्ति यथा स्थिता भमार्गस्य। नक्षत्राणां तारा याम्योत्तरमध्यमास्तद्वत्। उत्तरमार्गो याम्यादि २ र्निगदितो मध्यमस्तु भाग्याद्यः १०। दक्षिणमार्गोऽषाढादिः कैश्चिदेवं कृता मार्नाः। ज्योतिषमागमशास्त्रं विप्रतिपत्तौ न योग्यमस्याकम्। स्वयमेव विकल्पयितुं किन्तु बहूनां मतं वक्ष्ये। उत्तरवीथिपु शुक्रः सुभिक्षशिवकृद्गतोऽस्तमुदयं वा। मध्यासु मध्यकवदः कष्टफलो दक्षिणस्थासु। अत्युत्तमोत्तमोनं सममध्यस्य नमधमकष्टफलम्। कष्टतमं सौम्याद्यासु वीथिषु प्रधाक्रमं ब्रूयात्”।

नक्षत्रव्यूह = पु० वृ० सं० १५ उक्ते नक्षत्रविशेषस्य क्रूरादिवेधेन पुरुषविशेषाणां द्रव्यभेदानां च शुभाशुभसूचके नक्षत्रसमूहे यथा “आग्नेये ३ सितकुसुमाहिताग्निमन्त्रज्ञसूत्रभाष्यज्ञाः। आकरिकनापितद्विजघटकारपुरोहिताव्दज्ञाः। रोहिण्यां सुव्रतपण्यभूपधनियोगयुक्तशाकदिकाः। गोवृषजलचरकर्षशिलोच्चयैश्वर्यसम्पन्नाः। मृगशिरसि सुरभिवस्त्राऽजकसुमफलरत्नवनचरविहङ्गाः। मृगसोमपीथियान्धर्बकामुका लेखहारश्च। रोद्रे ६ बधबन्धनानृतपरदारस्तेयशावभेदरताः। तुषधान्यतीक्ष्णमन्त्राभिचारबेतालकर्मज्ञाः। आदित्ये ७ सत्यौदार्यशौचकुलरूपधीयशोऽर्थयुताः। उत्तमधान्या वणिजः सेवाभिरताः सशिल्पिजनाः। पुष्यं यबगोधूमा शालीक्षुवनानि मन्त्रिणो भूपाः। मलिकोपलीविनः साधवश्च यज्ञेष्टिसक्तास। अहिदेवे ९ कृत्रिमकन्दमूलफककीटपन्नगविमाणि। परधनहरणाभिरतास्तुषधान्यं सर्वभिषजश्च। षित्र्ये १० धनधान्याद्यं फाष्ठागाराणि पर्वताश्रयिणः। पितृभक्तवणिक्शूराः क्रव्यादाः स्त्राद्विषो मनुजाः। प्राक्फल्गुनीषु नटयुवतिसुभगगान्धर्वशिल्पिपण्यानि। कर्पासलव- णमाक्षिकतैलानि कुमारकाश्चापि। आर्यम्णे १२ नार्दवशौचविनयपाषण्डिदानशास्त्ररताः। शोभनधान्यमहाधनधर्मानुरताः समनुजेन्द्राः। हस्ते तस्करकुञ्जररधिकमहामात्रशिल्पिपण्यानि। तुषधान्यं श्रुतयुक्त्वा बणिजस्तेजोयुताश्चात्र। त्वाष्ट्रे १४ भूषणमणिरागलेख्यगान्धर्वगन्धयुक्तिज्ञाः। गणितपटुतन्तुवायाः पालाक्याराजधान्यानि। स्वातौ खगमृगतुरगा बणिजो धान्यानि वातबहुलानि। अस्थिरसौहृदलघुसत्वतापसाः पण्यकुशलाश्च। इन्द्राग्निदैवते १६ रक्तपुष्पफलशाणिनः सतिलमुद्गाः। कर्पासमाषचणकाः पुरन्दरहुताशमक्ताश्च। मैत्रे १७ शौर्णसमेता मणयायकसाधगोष्ठियानरताः। ये साधवश्च लोके सर्वं च शरप्त्वमुत्पन्नम्। पौरन्दरे १८ऽतिशूराः कुलवित्तयशोऽन्विताः परस्वहृतः। विजिगीषवी नरेन्द्राः सेनानां चापि नेतारः। मूले भेषजभिषजो गणमुख्याः कुसुममूलफलवार्त्ताः। वोजान्यतिधनयुक्ताः फलमूलैर्ये च वर्त्तन्ते। आप्ये २० मृदबो जलमार्गगामिनः सत्यशौचधनयुक्ताः। सेतुकरवारिजीवकफलकुसुमान्यम्बुजातानि। विश्वेश्वरे २१ महामात्रमल्लकरितुरयदेवताभक्ताः। स्यावरयोधा भोगान्विताश्च ये चौजसा युक्ताः। श्रवणे मायापटवो नृत्योद्युक्ताश्च कर्मसु समर्थाः। उत्साहिनः सघर्मा मागवताः सत्यवचनाश्च। वसुभे २३ मानोन्मुक्ताः क्लीवाश्चलसौहृदाः स्त्रियां दूष्याः। दानाभिरता बहुवित्तसंयुताः शमपराश्च नराः। वरुणेशे २४ पाशिकमत्स्यबन्धजलजानि जलचरा जीवाः। सौकरिकरजकशौण्डिकशाकुनिकाश्चापि वर्गेऽस्मिन्। आजे २५ तस्करपशुपालहिंस्रकीनाशनीचशठचेष्ठाः। धर्मव्रतैर्विरहिता नियुद्धकशलाश्च ये मल्लजाः। आहिर्बुध्न्ये २६ विप्राः क्रतुदानतपोयुता महाविभवाः। आश्रमिणः पाषण्डा नरेश्वराः शारदधान्यं च। पौष्णे २७ सलिलजफलकुसुमलवणप्रणिशङ्खमौक्तिकाब्जानि। सुरमिकुसुमानि गन्धा बणिजो नौकर्णधाराश्च। अश्विन्यामश्वहराः सेनापतिवैद्यसेवकास्तुरगाः। तुरगारोहाश्च बणिग्रूपोपेतास्तुरगरक्षाः। याम्ये २ऽसृक्पिशितमुजः क्रूरा बधवन्धताडनासकाः। तुषधान्यं नीचकुलोद्भवा विहीनाश्च सत्वेन। पूर्वात्रयं सानल ३ मग्रजानां राज्ञां तु पुष्येण सहोत्तराणि। सपौष्ण २७ मैत्र १७ पितृदैवतं १० च प्रजापतेर्भं ४ च कृषीवलानाम्। आदित्य ७ हस्ताभिमिदा बणिग्- जनानां प्रवदन्ति भानि। मूलत्रिनेत्रा ६ निल १५ वारुणानि २४ भान्युप्रजातेः प्रभविष्णुतायाम्। सौम्यै ५ न्द्र १८ चित्रावसु २३ दैवतानि सेवाजनस्याभ्यमुपागतानि। सार्पं ९ विशाखा श्रवणो भरण्यश्चण्डान्त्यजातेरिति निर्दिशन्ति। रविरविसुतयोगमागतं क्षितिसुतभेदनवक्रदूषितम्। ग्रहणगतमथोल्कया हतं नियतमुपाकरपीडित च यत्। तदुपहतमिति प्रचक्षते प्रकृतिविर्ण्यययातमेव वा। निगदितपरिवर्गदूषणं कथितविपर्ययगं समृद्धये”।

नक्षत्रव्रत = न० नक्षत्रनिमित्तं व्रतम् शा० त०। नक्षत्रनिमित्रे व्रतभेदे तत्र मामान्यतः कालनिर्णयः ति० त० उक्तो यथा “नक्षत्रद्वेधे तु बौधायनमार्कण्डेयौ “तन्नक्षत्रमहोरात्रं यस्मिन्नस्तं गतोरविः। यस्मिन्नुदेति सविता तन्नक्षत्रं टिनं स्मृतम् पूर्वार्द्धमहोरात्रसाध्योपवासनक्तैकभक्तेषु “तत्रैवोपबसदृक्षं यन्निशीथादधोभवेत्। उपवासे यदृक्षं स्यात् तद्धि नक्तैकभक्तयोः” इति स्कन्दपुराणात् निशीथादध इत्यनेन अर्द्धरामपूर्वकालत्वेन सूर्य्यास्तमयकालस्यापि लाभात्। “उपोषितष्यं नक्षत्रं येनास्तं याति सास्करः। यत्र वा युज्यते राम! निशीथे शशिना सह” हति विष्णुधर्मोत्तराच्च उपवासवन्नक्तव्रतादीनामहोरात्रसाध्यता अहोरात्रसाध्यभोजनद्वयस्यैकतरपरित्यागसहितकालविशेषनियामकत्वात्। यस्मिन्नुदेतीति तु दिवसकर्त्तव्यस्नानदानादाविति बोध्यं, पितृकार्येऽपि शुक्लकृष्णपक्षाभ्यां व्यवस्थामाह बौधायनः “सा तिथिस्तच्च नक्षत्रं यस्मिन्नभ्युदितो रविः। वर्द्धमानस्य पक्षस्य हीनेत्वस्तमयं प्रति” हीने चन्द्रस्य हीनत्वात् कृष्णपक्षे बर्द्धमानस्य चन्द्रस्य बर्द्धमानत्वेन शुक्लपक्षस्य। जालमाधवीयोऽप्येवम्” ति० त० रघु०। तदुव्रतानि च हेमा० व्र० भविष्यपु० उक्तानि यथा “इत्येते कथिताः कृष्ण! तिथियोगा मया तव। नक्षत्रदेवताः सर्वाः नक्षत्रेषु व्यवस्थिताः। इष्टान् कामान् प्रयच्छन्ति यथास्थानं सुरेश्वर!। चन्द्रमा यत्र नक्षत्रे यदा समधितिष्ठति। उक्तस्तु देवयज्ञस्तु तदा स सफली भवेत्। देवताश्च प्रवक्ष्यामि नक्षत्राणां यथातथम्। नक्षत्राणि च सर्वाणि यज्ञञ्चैव पृथक् पृथक्। अश्चिन्यामश्विनाविष्ट्वा दीर्घायुर्जायते वरः। व्याधिभिर्मुच्यते क्षिपं योऽत्यर्थं व्याधिपीडितः। भरण्यां यमराडिष्टः कृतमैरसितैः शुभैः। तथा गन्धादिभिः शुभ्रैरपमृत्युं विमोचयेत्। अनलः कृत्तिकायान्तु ऋद्धिं संपूजितः पराम्। रक्तमाल्यादिभिर्दद्याद्घृतहोमेन च ध्रुवम्। प्रजाः प्रजापतिः प्रीत इष्टो दद्यात्पशूंस्तथा। रोहिण्यां देवशार्दूल! गोजन्महा जगत्पते!। मृगशीर्षे तथा सोमं जातिमारोग्यमेव च। आर्द्रायान्तु शिवं पूज्य पशून् विजयमेव च। सितैः पद्मादिभिर्दिव्यैर्देवत्वं पयसा च वै। पुत्रान् पुनर्वसौ दद्याच्चरुणा तर्प्यिताऽदितिः। तिष्ये वृहस्पतिर्बुद्धिं विपुलं सुखमेव तु। भोगान् गन्धादिभिर्नागा अश्लेषायां प्रपूजिताः। तर्पिताश्च प्रयच्छन्ति भक्षाद्यैर्मधुरैः शुभैः। मधासु पितरः पुष्टिं वृतपायसतर्पिताः। पूर्वायां ११ विजय दद्याद्भगो देवः सुतर्पितः। भक्त्या प्रपूजितो दद्यादुत्तरायां १२ तथार्य्यषा। भर्त्तारमीप्सितं नार्य्याः पुंसश्च प्ररयोषितम्। नीरोगत्वं तथायुष्यं सम्पद चारुरूपताम्। पुष्पवस्त्रार्चितो हस्ते दद्यात्तेजोनिधिस्तथा। चित्रासु पूजितन्त्वष्टा दद्यादारोग्यमेव च। स्वात्यां संपूजितो वायुः पुत्रानिष्टान् प्रयच्छति। इन्द्राग्नी तु विशाखायां पीतरक्तैः प्रपूज्य च। धनं राज्यञ्च लज्ज्वेह तेजखी निवसेत्सदा। रत्नैर्मित्रमनूराधास्वेवं संपूज्य भक्तितः। प्रियो जनानां सर्वेषां चिरञ्जीवति सर्वदा। ज्येष्ठाया पूर्ववत्त्विन्द्रमिष्ट्वा पुष्टिमवाप्नुयात्। गुणैः सर्वैस्तु संपूर्णः कर्मणा वचनेन च। मूले निरृतिमिष्ट्वा च भक्ष्यैस्तु पललादिभिः। पूर्ववत् फलमाप्नोति स्वस्थाने च ध्रुवो भवेत्। अथ इष्ट्वा जले २० चैतैर्हुत्वा तत्रैव पूर्ववत्। सन्तापान्मुच्यते क्षिप्रं शारीरान्मानसात्तथा। आषाडासु तथा विश्वं विरिञ्च्युत्तरयोगनः। संपूज्य श्रियमाप्नोति परं विजयमेव तु। श्रवणे पूजितो विष्णुः सर्वात् कामान् प्रयच्छति। धनिष्ठासु वसूनिष्ट्वा न मयं प्राप्नुयात् कचित्। महतोऽपि भयात्तीर्णो गन्धपुष्पादिभिः शुभैः। वरुणं शतभिषास्वर्च्य व्याधिभिर्मुच्यते नरः। अजं भाद्रपदायान्तु २५ शुबस्फटिकसन्निभम्। संपूज्य मुक्तिमाप्नोति भात्र कार्य्या विचारणा। उत्तराया २६ महिर्ब्रध्नं परां शान्तिमवाप्नुयात्। रेवत्यां पूजितः पूषा ददाति विविधान् पशून्। सितैः पुष्यैस्तथा दीपैर्धूपैर्विजयबर्द्धनैः। य एते वै समाख्याता यज्ञाः संक्षेपतो मया। नक्षत्रदेवतानां हि साधकानां हिताय वं। तस्माहित्तानुसारेण भवन्ति फलदायकाः। गन्तुमिच्छेद्यदान्यत्र क्रियापारस्य एव च। नक्षत्रदेवतायज्ञं कृत्वादौ सर्वमाचरेत्। एवं कृते हि तत्सर्वं यात्राफलमवाप्नुयात्। क्रियाफलन्तु संपूर्णमित्युक्तं भानुना स्वयम्।”

नक्षत्रशूल = पु० “ज्येष्ठा पूर्वां भाद्रपदा रोहिण्युत्तरफाल्गुनी। पूर्वादिषु क्रमाच्छूलाः यात्रायां मरणप्रदाः” ज्योति० उक्ते यात्रायां निषिद्धे पूर्वादिदिक्षु नक्षत्रभेदे तस्य शूलतुल्यमरणप्रदत्वात् शूलत्वम्।

नक्षत्रसत्र = न० नक्षत्रनिमित्तं सत्रम्। नक्षत्रनिमित्ते सत्रभेदे। तत्र नाक्षत्रमासग्रहणम् विष्णुध० उक्तं यथा “नक्षत्रसत्राण्ययनादि चेन्दोर्मासेन कुर्य्याद्भगणात्मकेन” “नक्षत्रसत्राणि नाक्षत्रमाससाध्ययागभेदाः याज्ञिकप्रसिद्धाः” समयप्रदीपः।

नक्षत्रसन्धि = पु० नक्षत्रयोः सन्धिः। पूर्वनक्षत्रादुत्तरनक्षत्रे चन्द्रादेर्ग्रहाणां वा गतिरूपसंक्रान्तौ। तिथिसन्धिशब्दे दृश्यम्।

नक्षत्रसाधन = न० नक्षत्रं साध्यते ज्ञायतेऽनेन साधि–करणे ल्युट्। सि० शि० उक्ते ग्रहाणां नक्षत्रमानसाधने गणन भेदे तच्च वाक्यं तिथिशब्दे ३२९७ पृ० दर्शितम्।

नक्षत्रसूचक = पु० नक्षत्राणि शुभाशुभतया सूचयति ण्वुल् ६ त०। “अविदित्वैव यः शास्त्रं दैवज्ञत्वं प्रपद्यते। स पङ्क्तिदूषकः पापी ज्ञेयो नक्षत्रसूचकः” इति वृ० सं० १ अ० “तिथ्युत्पत्तिं न जानन्ति ग्रहाणां नैव साधनम्। परवाक्येन वर्त्तन्ते ते वै नक्षत्रसूचकाः” इत्युक्ते च सिद्धान्ताममिज्ञे ज्योतिर्विदि। णिनि नक्षत्रसूचीत्यप्यत्र।

नक्षत्रामृत = न० वारभेदे नक्षत्रयोगकृते अमृतयोगे अमृतशब्दे ३२४ पृ० दृश्यम्।

नक्षत्रिन् = पु० नक्षत्रमस्त्यस्य स्याम्येन नियम्यतया वा इनि। १ चन्द्रे २ विष्णौ च “नक्षत्रेमिर्नक्षत्री क्षमः क्षामः समीहनः” विष्णु स०। “नक्षत्राणामहं शशीति” गीतोक्ते र्नक्षत्रेशरूपेण स्थितत्वात् तस्य तथात्वम्।

नक्षत्रिय = पु० नक्षत्राय हितः च। नक्षत्राधिष्टावृदेबभेदे। “नक्षत्रेभ्यः स्वाहा नक्षत्रियेभ्यः स्वाहा” यजु० २२। २८। नशब्देन “सह सुपा” पा० स०। २ क्षत्रियभिन्ने च।

नक्षत्रेश = पु० ६ त०। चन्द्रे अमरः। “नक्षत्रेशकृतेक्षणो गिरिगुरौ ग दां रुचिं धारयन्” (उमावल्लभः) सा० द०।

नक्षत्रेश्वर = पु० ६ त०। १ चन्द्रे नक्षत्राधिष्ठावृदेवताभिः काश्यांस्थापिते २ शिवलिङ्गभेदे न० नक्षत्रलोकशब्दे दृश्यम्।

नक्षत्रेष्टि = स्त्री नक्षत्रनिमित्ता इष्टिः शा० त०। नक्षत्रनिमित्तके इष्टिभेदे

नक्षत्रेष्टका = स्त्री इष्टकाभेदे तैत्तिरीयसंहिता ५। ४। १। २

नख = सर्पणे भ्वा० पर० सक० सेट्। नखति अनखीत् अनाखीत् ननाख नेखतुः। अणोपदेशत्वात् न णत्वं प्रनखति।

नख = पु० न० न खं “छिद्रमत्र नभ्राडित्यादि” पा० नञो न नलोपः नखन्यते खन–ड वा नह बन्धने “नहेर्लोपश्च” ख वा उणा०। १ करजे कराङ्गुल्यग्रस्ये कण्टके अमरः। “कामिनामनिभृतान्यपि रम्भास्तम्भकोमलतलेषु नखानि” माघः “न च्छिन्द्यान्नखलोमानि दन्तैर्नोत्पाटयेन्नखान्” मनुः “नखक्षतानीव वनस्थलीनाम्” कुमा० “ऐन्द्रिः किन्त नखैस्तस्या विददार स्तनौ द्विजः” रघुः “न नखैर्विलिखेद्भूमिम्” कूर्मपु०। खाङ्गत्वेऽपि उपसमर्जने क्रोडा० स्त्रियां ङीषोनिषेधे संज्ञायां “नखमुखात् संज्ञायाम्” नियमात् ङीष्। शूर्पणखा गौरमुखा असंज्ञायान्तु ताम्रानखी कन्या सि० कौ०। नखस्य मूलं कर्णा० जाहच्। नखजाह तन्मूले न० “लोष्ट्रमर्द्दी तृणच्छेदी नखस्वादी च यो नरः” मनुना तस्य दन्तेन खादनं निषिद्धम्। २ खण्डे पु० हेम० ३ शुक्तिकायां गन्धद्रव्यभेदे न० स्त्री० स्त्रियां बह्वा० ङीप्। “द्विधा शङ्खनखाख्यान्या शुक्त्याख्या वदरीच्छदा” रत्नमा० “खल्पपत्रस्त्वसौ शुक्तिर्नखरी वदरच्छदा। महांस्त्वसौ शङ्खनखः शङ्खाख्यो गन्धसारणः” शब्दार्थचि० “नखद्वयं ग्रहश्लेष्मवातास्रज्वरकुष्ठहृत्। लघूष्णं शुक्रलं वर्ण्यं स्वादु व्रणविषापहम्। अलक्ष्मीमुखदौर्गन्ध्यहृत् पाकरसयोः कदु” भाव० तद्गुणा उक्ताः।

नखकुट्ट = पु० नखं कुट्टति कुट्ट–छेदे अण् उप० स०। नापिते त्रिका०।

नखगुच्छफला = स्त्री नख इव गुच्छः फलं च यस्याः। निष्पावभेदे राजनि०।

नखदारण = न० नखं दार्य्यतेऽनेन दारि–करणे ल्युण्। नखनिकृन्तने नापितास्त्रभेदे (नरहुन)।

नखनिकृन्तन = न० निकृत्यतेऽनेन कृत–ल्युट् बा० मुम् ६ त०। नखच्छेदनार्थे नापितास्त्रभेदे (नरहुन) तत्साधनत्वात् २ लोहमात्रेऽपि “यथा सोम्यैकेन नखनिकृन्तनेन विज्ञातेन सर्वं कार्ष्णायसं विज्ञातं स्यात् वाचाऽऽरम्भणं विकारो नामधेयं कार्ष्णायसमित्येव सत्यम्” छा० उ०

नखनिष्पाव = पु० नखं तत्तुल्यफलतया निष्पुनाति निष्पणाति निस् + पु–अण्। नखफलिन्याम् राजनि०।

नखपर्णी = स्त्री नख इव पर्णमस्या ङीप् वृश्चिकालिक्षुपभेदे राजनि०।

नखपुष्पी = स्त्री नख इव पुष्पमस्या ङीप्। पृक्कायां राजनि०

नखप्रच = न० नखश्च प्रचितञ्च मयू० नि०। नखप्रचितयोः।

नखफलिनी = स्त्री नख इव फलमस्त्यस्य बाहुल्येन मूम्नि इनि ङीप्। नखनिष्पाववृक्षे राजनि०।

नखमुच = त्रि० नख मुञ्चति मुच–मूलविभु० क। नखमोचके धनुषि संक्षिप्तसार०।

नखम्पच = त्रि० नखं पचति तापयति नख + पच–खश् मुम् च। १ नखतापके “कथमप्यभवत् स्मरानलोष्णः स्तनभारो न नखम्पचः प्रियस्य” माथः। २ यवाग्वां स्त्री शब्दार्थचि०।

नखर = पु० न० नखं राति रा–क नख–बा० उणा० अर वा १ नखे अर्द्धर्चा०। “सकम्पनर्ष्टिनखरा मूसलानि परश्वधाः” भा० द्रो० १३१८ श्लो० “किं पुनरलङ्कृतस्त्वं सम्प्रति नखरक्षतैस्तस्याः” सा० द०। नशब्देन “सह सुपा” पा० स०। २ खरभिन्ने त्रि०।

नखरजनी = स्त्री नखो रज्यतेऽनया रन्ज–करणे ल्युट् नलोपः ङीप्। (मेइ~दी) प्रसिद्धे वृक्षे तस्याः फलम् अण् हरीतक्या० अणो लुप् प्रकृतिलिङ्गत्वात् तत्फलेऽपि स्त्री

नखरञ्जनी = स्त्री नखं रञ्जयति रन्ज–णिच्–ल्यु गौरा० ङीष्। नखनिकृन्तने नापितास्त्रभेदे (नरुहुन) “अनन्तचरणोपान्तचारिणी मलहारिणी। पुनर्भवच्छेदकरी गङ्गेव नखरञ्जनी” उद्भट्टः।

नखरायुध = पुंस्त्री नखर एवायुधं यस्य। १ सिंहे २ व्याघ्रे ३ कुक्कुरे च राजनि०। स्त्रियां जातित्वात् ङीष्।

नखराह्व = पु० नखरमाह्वयते स्पर्द्धते आकारेण आ + ह्वे–क। करवीरे राजनि०।

नखरी = स्त्री नखरः पुष्पाकारेणास्त्यस्य अच् गौरा० ङीष्। १ नखीनामगन्धद्रव्ये शब्दमाला। २ क्षुद्रनख्यां रत्नमा०।

नखलेखक = त्रि० नखं लिखति जीविकार्थं “शिल्पिसंज्ञयोरपूर्वस्यापि” उणा० लिख–क्वुन् नित्यक०। जीविकार्थदन्तलेखनशिल्पकारके। अस्य “नित्यं क्रीडाजीविकयोः” पा० समासे “अके जीविकार्थे” पा० आद्युदात्तता

नखविष = पुंस्त्री नखे विषमस्य। नरादौ हेमच० “नागाः स्युर्दृग्विषा लूनविषास्तु वृश्चिकादयः। व्याघ्रादयो सोमविषा नखविषा नरादयः। लालाविषास्तु लूताद्याः कालान्तरविषाः पुनः। मूषिकाद्याः” हेमच०। जङ्गमविषशब्दे ३०१२ पृ० आदिपदग्राह्यं दृश्यम्।

नखविष्किर = पुंस्त्री० नखैर्विकिरति वि + कॄ–क “बिष्किरः शकुनिर्विकिरो वा” पा० सुट् षत्वञ्च। नखैर्विकीर्य्य- भक्षके श्येनादौ “प्रतुदान् जालपादांश्च कोयष्टिनखविष्किरान्” अभक्ष्यमांसोक्तौ मनुः “नखविष्किरान् नखैर्विकीर्य्य ये भक्षयन्ति तानभ्यनुज्ञातारण्यकुक्कुटादिव्यतिरिक्तान् श्येनादीन्” कूल्लू०।

नखवृक्ष = पु० नखति नख–सर्पणे अच् नित्यक०। नीलवृक्षे राजनि०।

नखशङ्ख = पु० नख इव शङ्खः। क्षुद्रशङ्खे शब्दर०।

नखाघात = पु० नखैराघातः। नर्म्मार्थं सुरते नायकेन नायिकाङ्गे तद्विपर्येण वा नखैराघाते तत्स्थानानि कामशास्त्रे उक्तानि यथा “नखाधातः प्रदातव्यो यथा स्थानानि नर्मसु। पार्श्वयोः स्तनयोश्चैव ऊरौ चैव नितम्बके। कक्षस्थले च कक्षान्ते कपाले बाहुमूलके। ग्रीवायां कण्ठदेशे च नखाघातं समाचरेत्। तथा सर्वशरीरेषु नखं दद्याच्छनैः शनैः” इति। नखपदनखक्षतादयोऽप्यत्र “नवनखपदमङ्गं गोपयस्यंशुकेन” सा० द० “नखक्षतानीव वनस्थलीनाम्” कुमा० २ युद्धार्थं नस्यैराथाते च।

नखाङ्क = पु० नखमङ्क इव यस्य। १ व्याघ्रनख्याम् शब्दर० नखस्याङ्कः। २ नखाधातचिह्ने च पु०।

नखाङ्ग = न० नख इवाङ्गमस्य। नख्यां रत्नमाला।

नखानखि = अष्य० नखैश्च नखैश्च प्रहृत्य वृत्तं युद्धम् “इच् कर्मव्यतिहारे” पा० इच् समा०। परस्परनखाथातेन प्रवृत्ते युद्धे “कचाकचि युद्धमासीत् दन्तादन्ति नखानखि” भा० क० ४९ अ०।

नखायुध = पुंस्त्री नख आयुधमिव यस्य। १ व्याघ्रे २ सिंहे ३ कुक्कुरे च राजनि०।

नखालि = पु० नखानामालिरत्र। १ क्षुद्रशङ्ख्ये शब्दच० ६ त०। २ नखपङ्क्तौ च।

नखालु = पु० नख इव आलुः नख–सर्पणे बा० आलुच् वा। नीलवृक्षे राजनि०।

नखाशिन् = पु० नखमश्नाति अश–णिनि ६ त०। १ पेचके त्रिका०। २ नखखादिनि त्रि०।

नखि = पु० नखति सर्पति नख–इन्। १ सर्पके। उज्ज्वकत्तदस्तु नखेनातिक्रामति नख + णि–नखयति “अच इः” उणा० इ। २ नखेनातिक्रामके इत्याह स्म। इदं चिन्त्यं हस्तिनातिक्रामतीत्यादौ अतिहस्तयतीतिवत् नखेनातिक्रामतीति वाक्ये अतिनखयतीत्येव स्यात् न नखयतीति

नखिन् = पु० नखः अस्त्यस्य, प्राशस्त्येन बा इनि। १ सिंहे राजनि०। २ व्याघ्रे ३ महानखयुक्तमात्रे त्रि०। “नखिनाञ्च नदीनाञ्च शृङ्गिणां शस्त्रपाणिनाम्। विश्वासो नैव कर्त्तव्यः स्त्रीषु राजकुलेषु च” चाणक्यः। “भूत्या केशरिणां सिंहा व्याघ्राश्च नखिनां वराः” हरिवं० ७३ अ०।

नखी = स्त्री नख आकारत्वेनास्त्यस्य अच् गौरा० ङीष् नख + बह्वा० ङीप् वा। स्वनामख्याते गन्धद्रव्ये अमरः धूपशब्दे उदा० दृश्यम्।

नग = पु० न गच्छति गम–ड “नगोऽप्राणिषु” पा० नञो न नलोपः। १ पर्वते २ वृक्षे च अमरः। “नगजा नगजा दयिता दयिताः” भट्टिः “नगाह्वयो नाम नगारिसूनुः” भा० वि० ३९ अ०। अप्राणिष्वित्युक्तेः अगो वृश्चिकः शीतेनेत्यादौ नलोपः इति बोध्यम्।

नगज = त्रि० नगाज्जायते जन–ड् ५ त०। १ पर्वतजातमात्रे “नगजा नगजाः” भट्टिः २ हस्तिनि च। हिमाद्रिकन्याय ३ पार्वत्यां ४ क्षुद्रपाषाणभेदालतायां स्त्री राजनि०।

नगनदी = स्त्री नगजाता नदी शा० त०। पर्वतनिःसृतनद्याम्। “विश्रान्तः सन् व्रज नगनदीतीरजातानि सिञ्चन्” मेघ०

नगनन्दिनी = स्त्री ६ त०। हिनालयजातायां दुर्गायां शब्द०।

नगपति = पु० ६ त०। १ हिमालये त्रिका० यथोक्तं ब्रह्माण्डपु० “शैलानाम् हिमवन्तञ्च नदीनाञ्चैव सागरम्। गन्धर्वाणामधिपतिञ्चक्रे चित्ररथम् विधिः” नगानां वृक्षाणां पत्यौ २ चन्द्रे च तस्य वनस्पतीशत्वम् औषधीशशब्दे दृश्यम्।

नगभिद् = पु० नगं भिनत्ति भिद–क्विप् ६ त०। १ पाषाणभेदनास्त्रभेदे राजनि०। २ इन्द्रे च तस्य तथात्वं गोत्रभिद्शब्दे २६९८ पृ० दृश्यम्।

नगभू = पु० नगे भवति भू–क्विप् ७ त०। १ क्षुद्रपाषाणभेदायां राजनि०। २ पर्वतजातमात्रे त्रि० ६ त०। ३ पर्वतभूमौ स्त्री

नगर = न० नगा इव प्रासादाः सन्त्यत्र बा० र। “पण्यक्रियादिनिपुणैश्चातुर्वर्ण्यजनैर्युतम्। अनेकजातिसम्बद्भं नैकशिल्पिसमाकुलम्! सर्वदैवतसंबद्धं नगरं त्वभिधीयते” इत्युक्तलक्षणे १ पुरभेदे। गौरा० ङीष्। नगरीत्यप्यत्र अमरः। तस्य लक्षणं भविष्योत्तरे “दीर्घं वा चतुरखं वा नगरं कारयेन्नृपः। तत्त्र्यस्रं वर्त्तुलं वापि कदाचिदपि कारयेत्। दीर्थं पादैकप्रसरञ्चतुरस्रं समोचितम्। त्रिभिः पादैः समं त्र्यस्रं वर्त्तुलं वलयाकृति। दीर्थं स्याद्दीर्थकुशलसुखसम्पत्तिहेतवे। चतुरस्रं चतुर्वर्गफलाय पृथिवीभुजः। त्र्यस्रं त्रिशक्तिगाशाय वर्त्तुलं बहुरोगकृत्। राज्ञः स्वहस्तैर्दशभी राजहस्त उदाहृतः। राजहस्तैश्च दशभी राजदण्ड उदाहृतः। राजदण्डैश्च दशभी राजच्छत्रमुदाहृतम्। राजच्छत्रैश्च दशमी राजकाण्ड उदाहृतः। राज काण्डैश्च दशभी राजपुरुष उच्यते। राजधानी तु कथि- ता दशभी राक्षपुरुषैः। राजधानी दशगुणा राजक्षेत्रसुदाहृतम्। सप्तैव परिमाणानि प्रोक्तानि पुरपत्तने। भयस्त्रीभोगसम्पत्तिमर्त्यकीर्त्तिसुखार्थिनाम्। राजक्षेत्रे नरपतिः पुरपत्तनमारभेत्। लक्ष्मीर्जयः क्षमा सौख्यं पञ्चत्वं भङ्ग एकता। समृद्धिवित्तं नाशश्च मङ्गलञ्च बलं क्षयम्। साम्राज्यं भोगसम्पत्तिरिति भोडश कीर्त्तिताः। यथार्थसंज्ञा नगरे मुनिना तत्त्ववेदिना” इति युक्तिकल्पतरुः। “नृपवासपुरी प्रोक्ता विशाम्पुरमपीष्यते। एकतो यत्र तु ग्रामो नगरञ्चैकतः स्थितम्। मिश्रन्तु खर्वटं नाम नदीगिरिसमाश्रयम्। विप्राश्च विप्रभृत्याश्च यत्र चैव वसन्ति हि। स तु ग्राम इति प्रोक्तः शूद्राणां वास एव च। पण्यक्रियादिनिपुणैश्चातुर्वर्ण्यजनैर्युतम्। अनेकजातिसम्बद्धं नैकशिल्पिसमाकुलम्। सर्वदैवतसम्बद्धं नगरन्त्वभिधीयते” इति विष्णु० पु० टीकायां श्रीघरस्वामिधृतभृगुवचनम्। “नगरं सर्व्रयो भद्रं कर्त्तव्यं रोधकं हि वा। स्वस्तिकं मध्यगं कार्य्यं कुमारीपुरमेव वा। चतुस्पथचतुर्युक्तं सर्वकाममुखावहम्। छिन्नकर्णं द्विमुखञ्च दुःस्थितं कृशदुर्बलम्। नगरं न प्रशंसन्ति गर्तबिद्धं विभेदितम्। अग्रतः स्वल्पप्रासादं छिन्नकर्णं विदुर्बुधाः। द्विमुखं कर्णहीनन्तु कृशमध्यं कृशं विदुः। दुःस्थितं निम्नयाम्यन्तु नैरृतं धनदुर्बलम्। सौम्यं सर्वसुखाह्लादपूरितं वारुणं बलम्। याम्यमायुःप्रदं पूर्णनगरं प्रीतिवर्द्धनम्। ईशवासवसंपूर्णं सर्वारोम्यसुखप्रदम्। मध्यञ्चतुष्पथीपेतं नच तत् पीडवेत् क्वचित्। व्रह्मस्थानं हितं विप्र! शिवस्तत्र सदा स्थितः। चतुर्विंशतिनाद्ध्यस्तु हस्तास्ल्यष्टशतं एरम्। अत्र मध्यं प्रशंसन्ति ह्रस्वोत्कृष्टविवर्ज्जितम्। अथ किष्कुशतान्यष्टौ प्राहुर्मुख्यं निवेशनम्। नगरार्द्धञ्च विष्कम्भं स्वेष्टं ग्रामं ततोऽर्द्धतः। नगरार्द्धमितं खेष्टं खेटाद् ग्रामोऽर्द्धयोजनः। द्विक्रोशं परमा मीमा क्षेत्रमीमा चतुर्धनुः। त्रिंशद्धनूंषि विस्तीर्णो देशमार्गस्तु तैः कृतः। विंशद्धनुर्ग्राममार्गः सीमामार्गा दशैव तु। धनूंचि दूश विस्तीर्णः श्रीमान्राजपथः कृतः। नृवाजिरथतागानामसम्बाथं सुसञ्चरः। धनूंषि चैव चत्वारि शाखा रथ्यास्तु निर्मिताः। त्रिकराश्चोपरथ्यास्तु द्विकराप्युपरथ्यिका। जङ्घापथाश्चतुष्पादास्त्रिपादस्य गृहान्तरम्। वृतीपादस्त्वर्द्धपादः प्राग्वंशपादकः स्मृतः” देवी पु०। नगरसन्निवेशशब्दे दृश्यम्। नगरनिर्माणकालश्च “स्थिरराशिगते भानौ चन्द्रे च स्थिरभोदये। शुद्धे काले दिने चैव नगरं कारयेन्नृपः” ज्यो० “सनगरं नगरन्ध्रकरौजसः रघुः। नगरे काकः पात्रे समि० ७ त० स०। नगरकाक नगर स्थिते काकतुल्याचारवति एवं ७ त०। नगरवायस तत्रार्थे बुक्तरोह्या० तयोराद्युदात्तता।

नगरकीर्त्तन = न० नगरे हरेर्नामकीर्त्तनम्। नगरे भ्रमणेन हरिनामकीर्त्तने “नाचारो नाधिकारो वा न स्थान नियमस्तथा। ग्रामे वा नगरे साधुर्वने वा कीर्त्तयेद्धरिम्” हरिनाममाहात्म्ये।

नगरघात = पु० नगरं हन्ति अमनुष्यकर्त्तृकत्वेन टकं बाधिन्वा अण् उपस०। १ हस्तिनि गजे सि० कौ०। हन–भावे घञ् ६ त०। २ नगरस्थलोकस्य हनने च।

नगरमर्दिन् = त्रि० नगरं मृद्नाति मृद–णिनि ३ त०। १ नगरावमर्दके २ मत्तगजे पु०। ततः बाह्वा० अपत्यादौ इञ्। नागरमर्दिनि तदपत्यादौ।

नगरमार्ग = पु० ६ त०। राजमार्गे तत्करणप्रकारादि औशनसनीति परिशिष्टे उक्तं यथा “राजमार्गास्तु कर्त्तव्याचतुर्दिक्षु नृपालयात्। उत्तमो राजमार्गस्तु त्रिंशद्धस्तमिता भवेत्। मध्यमो षिंशतिकरो दशपञ्चकरोऽधमः। पण्यमार्गास्तथा चैत्ये पुरग्रामादिषु स्थिताः। करत्रयात्मिका पद्या वीथिः पञ्चकरात्मिका। मार्गो दशकरः प्रोक्तो ग्रामेषु नगरेषु च। प्राक्पश्चाद्दक्षिणोदक्स्थान् ग्राममध्यात् प्रकल्पयेत्। पुरं दृष्ट्वा राजमार्गान् सुबहून् कल्पयेन्नृपः। न वीधिं न च पद्यां हि राजधान्यां प्रकल्पयेत्। षड्योजनान्तरेऽरण्ये राजमार्गन्तथोत्तमम्। कल्पयेद् मध्यमं मध्ये तयोर्मध्ये तथाऽधमम् दशहस्तीत्मकं नित्यं ग्रामे ग्रामे नियोजयेद्। कूर्मपृष्ठा मार्गभूमिः कार्य्या ग्राम्यैः सुपेतुका। कुर्य्यान्मार्गान् पार्श्वखातान् निर्गमार्थं जलस्य च। राजमार्गमुखानि स्युर्गृहाणि सकलान्यपि। गृहपूर्वे सदा वीथिं मलनिर्हरणस्थलम्। पङ्क्तिद्वयगतानोह गृहाणि कारयेत् तथा। भार्गान् सुधाकर्करैर्वा घटितान् प्रतिवत्सरम्। अभियुक्तनिरुद्धैर्वा कुर्य्याद्ग्रामजनैर्नृपः। ग्रामद्वयान्तरे चैव पान्त्रशालां प्रकल्पयेत्। नित्यं सम्मार्जितां चैव ग्रामपैश्च सुगोपिताम्। तत्रागतं तु संपृच्छेत् पान्यं शालाधिपः सदा। प्रयातोऽसि कुतः स्यानात् क्व गमित्यसि तत् वद। ससहायोऽसहायो वा सशस्त्रः किमबाहनः। का जातिः किं कुलं नाम स्थितिः कुत्रास्ति ते चिरम्। इति पृष्ट्वा लिखेत् सायं शस्त्रं तस्य प्रगृह्य च। सावधानमना भूत्वा स्वापं कुर्वीत स्वापयेत्। तत्रस्थान् गणयित्वा तु शालाद्वारं पिधाय च। संरक्षयेद् यामिकैस्तु प्रभाते तान् प्रबोधयेत्। अजानरवृषाश्वोष्ट्रगजेभ्यः क्रमतो हरेत्। भृतिं पणार्द्धवृद्ध्या तु रक्षार्थं मार्गशालयोः। शस्त्रं दद्याच्च गणयेत् द्वारमुद्द्वाट्य मोचयेत्। कुर्य्यात् सहायं सीमान्तं तेषां ग्रामजनं सदा”।

नगरन्ध्रकर = पु० नगरस्य क्रौञ्चस्य रन्ध्रं करोति कृ–ट ६ त०। कार्त्तिकेये क्रौञ्चदारणशब्दे दृश्यम्। “सनगरं नगरन्ध्रकरौजसः” रघुः।<

नगरादिसन्निवेश = पु० १०६ अ० अग्निपु० उक्तप्रकारे नगरादिस्थापने यथा “ईश्वर उवाच नगरादिकवास्तुञ्च राज्यादिकविवृद्धये। योजनं योजनार्द्धं वा तदर्द्धं स्थानमाश्रयेत्। अभ्यर्च्य वास्तुनगरं प्राकाराद्यन्तु कारयेत्। ईशादित्रिंशत्पदके पूर्वद्वारं च सूर्यके। गन्धर्वाभ्यां दक्षिणे स्याद्वारुणे पश्चिमे तथा। सौम्यद्वारं सौम्यपदे कार्या हट्टाः सुविस्तराः। येनेभादि सुखं गच्छेत् कुर्याद्द्वारं तु षट्करम्। छिन्नकर्णं विभिन्नञ्च चन्द्रार्द्ध्वाभं पुरं न हि। वज्रसूचीमुखं नेष्टं सकृद् द्वित्रिसमागमम्। चापाभं वज्रनागाभं पुरारम्भे हि शान्तिकृत्। प्रार्च्य विष्णुहरार्कादीन्नत्वा दद्याद् बलिं बली। आग्नेये स्वर्णकर्मारान् पुरख विनिवेशयेत्। दक्षिणे नृत्यवृत्तीनां वेश्यास्त्रीणां गृहाणि च। नटानाञ्चक्रिकादीनां कैवर्त्ता देश्च नैरृते। रथानामायुधानाञ्च कृपणानाञ्च वारुणे। शौण्डिकाः कर्माधिकृता वायव्ये परिकर्मिणः। ब्राह्मणा यतयः सिद्धाः पुण्यवन्तश्च चोत्तरे। फलान्नादिविक्रयिण ईशाने च वणिग्जनाः। पूर्वतश्च बलाध्यक्षा आग्नेये विविधं बलम्। स्त्रीणामादेशिनो दक्षे काण्डीरान्नैरृते न्यसेत्। पश्चिमे च महामात्यान् कोषपालांश्च कारुकान्। उत्तरे दण्डनाथांश्च नायकद्विजसङ्कुलान्। पूर्वतः क्षत्रियान् दक्षे वैश्यान् शूद्रांश्च षश्चिमे। दिक्षुवैद्यान् वाजिनश्च बलानि च चतुर्दिशम्। पूर्वेण सुरलिङ्गादीन् श्मशानादीनि दक्षिणे। पश्चिमे गोधनाद्यञ्च कषिकर्तॄंस्तथोत्तरे। न्यसेत् म्लेच्छांश्च कोणेषु ग्रामादिषु तथा स्थितिम्। श्रियं वैश्रवणं द्वारि पूर्वे तौ पश्यतां श्रियम्। देवादीनां पश्चिमतः पूर्वा- स्यानि नृहाणि हि। पूर्वतः पश्चिमास्यानि दक्षिणे चोत्तराननान्। नाकेशविष्ण्वादिधाम रक्षार्थं नगरस्य च। निर्द्दैवतन्तु नगरग्रामदुर्गगृहादिकम्। भुज्यते तत् पिशाचाद्यैरोगाद्यैः परिभूयते। नगरादि सदैवं हि जयदं भुक्तिमुक्तिदम्। पूर्वायां श्रीगृहं प्रोक्तमाग्नेय्यां वै महानसम्। शयनं दक्षिणस्यान्तु नैरृत्यामायुधाश्रयम्। भोजनं पश्चिमायान्तु वायव्यां धान्यसङ्गहः। उत्तरे द्रव्यसंस्थानमैशान्यां देवतागृहम्। चतुःशालं त्रिशालं वा द्विशालं चैकशालकम्। चतुःशालगृहाणान्तु शालालिन्दकभेदतः। शतद्वयन्तु जायन्ते पञ्चाशत् पञ्च तेष्वपि। त्रिशालानि तु चत्वारि द्विशालानि तु पञ्चधा। एकशालानि चत्वारि एकालिन्दानि वच्मि च। अष्टाविंशदलिन्दानि गृहाणि नगराणि च। चतुर्भिः सप्तभिश्चैव पञ्चपञ्चाशदेव तु। षडलिन्दानि विंशच्च अष्टाभिर्विंशदेव हि। अष्टालिन्दं भवेदेवं नगरादौ गृहादिषु” गृहशब्दे दृश्यम्।

नगराध्यक्ष = पु० नगरे राज्ञा बियोजितः अध्यक्षः। राज्ञा नियोजिते नगररक्षार्थम् अधिकारिभेदे “नगरे नगरे वा स्यादेकः सर्वार्थचिन्तकः। उच्चैः स्थाने घोररूपो नक्षत्राणामिव ग्रहः। भवेत्, स तान् परिक्रामेत् सर्वानेव सभासदः” भा० शा० ८७ अ०। २ नगररक्षके च “उग्रसेनो नरपतिर्वसुदेवश्च भारत!। निक्षिप्तौ नगराध्यक्षौ शेषाः सर्वे विनिर्गताः” हरिवं० १४७ अ०।

नगरीकाक = पुंस्त्री नगर्य्याः काक इव। वके त्रिका० स्त्रियां जातित्वात् ङीष्।

नगरोत्थ = त्रि० नगरादुत्तिष्ठति उद् + स्था–क ५ त०। १ नगरोत्पन्ने २ नागरमुस्तकवृक्षे स्त्री राजनि०।

नगरौषधि(धी) = स्त्री नगरजाता औषधिः। कदल्यां शब्दच० वा ङीप्।

नगाटन = पुंस्त्री नगे वृक्षे अटनमस्य। १ वानरे त्रिका० स्त्रियां जातित्वात् ङीष्। ७ त०। २ पर्वतवृक्षयोरटने गतौ च

नगाधिप = पु० नगानामधिपः। १ हिमालयपर्वते जटाधरः। तस्य तथात्वम् नगपतिशब्दे दृश्यम्। २ सुमेरौ च नगाधिराजादयोऽप्यत्र। “हिमालयो नाम नगाधिराजः” कुमा०।

नगानिका = स्त्री “द्वितूर्य्यके गुरुर्यदा नगानिका भवेत्तदा” इत्युक्तलक्षणे चतुरक्षरपादके छन्दोभेदे।

नगारि = पु० ६ त०। पर्वतपक्षभेदकत्वात् तदरौ इन्द्रे “नगाद्वयो नाम नगारिसूनुः” भा० वि० ३९ अ०।

नगाश्रय = पु० नगः पर्वतः आश्रयोऽस्य। १ हस्तिकन्दवृक्षे राजनि०। २ पर्ववृक्षयोर्वासिनि त्रि०।

नगेन्द्र = पु० नग इन्द्र इव श्रेष्ठत्वात्। १ हिमालये ३ पगतश्रेष्ठे च “रश्मिष्विवादाय नगेन्द्रसक्ताम्” रघुः “नानाचेष्टैर्जलदललितैनिर्विशेस्त्वं नगेन्द्रम्” (कैलासम्) मेघ०

नगौकस् = पु० नगो वृक्षः पर्वतो वा ओकः निवासस्थानमस्य। १ खगमात्रे अमरः। २ सरभे ३ सिंहे च मेदि०। ४ काके शब्दच०। ५ वृक्षपर्वतयोर्वासिनि ति०।

नग्न = त्रि० ओनजी व्रीडे कर्त्तरि क्त तस्य नः। १ विवस्त्रे २ कषायवस्त्र धारिणि कौपीनावृते मुक्तकच्छे दिगम्बरे जैनभेदे पु० नग्नभेदमाह भृगुः “विकच्छोऽनुत्तरीयश्च नग्नश्चावस्त्र एव वा। श्रौतं स्मार्त्तं तथा कर्म न नग्नश्चिन्तयेदपि”। “विकच्छः परिधानासंवृतकच्छः” तथा च योगियाज्ञ वल्क्यः “परिधानाद्बहिः कच्छा निबद्धा ह्यासुरी भवेत्” स्मृतिः “वामे पृष्ठे तथा नाभौ कच्छत्रयमुदाहृतम्। एभिः कच्छैः परीधत्ते यो विप्रः स शुचिः स्मतः” बौधायनः “नाभौ धृतञ्च यद्वस्त्रमाच्छादयति जानुनी। अन्तरीयं प्रशस्तं तदाच्छन्नमुभयोस्तयोः” आचारचन्द्रिकायाम्। “द्विकच्छः कच्छशेषश्च मुक्तकच्छस्तथैव च। एकवासा अवासाश्च नग्नः पञ्चविधः स्मृतः” आह्निकत० “न नग्नां स्त्रियमीक्षेत पुरुषं वा कदाचन। न च मूत्रं पुरीषं वा न वै संस्पृष्टमैथुनम्। नोच्छिष्टं सविशेत् गित्यं न नग्नः स्नानमाचरेत्। न गच्छेन्न्न पठेद्वापि न चैव स्वशिरः स्पृशेत्” इति कूर्मपु० १५ अ०। ३ पारिभाषिकनग्ने च “येषां कुले न वेदोऽस्ति न शास्त्रं नैव च श्रुतम्। ते नग्नाः कीर्त्तिताः सद्भिस्तेषामन्नं विगर्हितम्” इति मार्कण्डपु० सदाचाराध्यायः “ऋज्यजुः सामसंज्ञेयं त्रयी वर्णावृतिर्द्विजः। एतामुज्झति यो मोहात् स नग्नः पातकी स्मृतः। यस्तु संत्यज्य गार्हस्थ्यं वानप्रस्थो न जायते। परिव्राडपि मैत्रेय! स नग्नः पापकृन्नरः” इति विष्णुपु० १८ अ० इत्यादिना परिभाषिताः “नग्नो मुण्डः कपालेन भिक्षार्थं क्षुत्पिपासितः। अन्धः शत्रुकुलं गच्छेत् यः साक्ष्यमनृतं वदेत्” मनुना अनृतसाक्ष्योक्तेः फलं नग्नतादिकमुक्तम्।

नग्नङ्करण = न० अनग्नः नग्नः क्रियतेऽनेन कृ–ख्युन् मुम् च। अनग्नस्य नग्नतया करणसाधने।

नग्नजित् = पु० राजभेदे “नग्नजिन्नाम कौशल्य आसीद्राजाति धार्मिकः। तस्य सत्याऽभवत् कन्या नाम्ना नाग्नजिती नृप!” भाग १०। ५८। २३ श्लो० “प्रीतिमनुभवसि नग्नजितः” माघः २ वास्तुग्रन्थकारके विद्वद्भेदे च “नग्नजिता तु चतुर्दशदैर्घ्येण द्राविडं कथितम्” “आस्यं सकेशनिचयं षोडशदैर्घ्येण नग्नजित् प्रोक्तम्” वृ० सं० ५८ अ०। नग्नजितोऽपि राजभेदे “वैदेहाम्बष्ठकम्बोजास्तथा नग्नजितास्तु ये” भा० क० ७९ अ०। तदपत्ये ब० व०। पुंयोगे केकयीतिवत् तदपत्येऽपि स्त्रियां ङीष्। ३ सत्यभामायां कृष्णकलत्रभेदे स्त्री “कालिन्दीं मित्रविन्दाञ्च सत्यां नग्नजितीं तथा” हरिवं० १४८ अ०। अपत्ये अण् ङीप्। नाग्नजितीत्यपि सत्यभामायां दर्शितभागवतश्लोके उदा०।

नग्नमुषित = त्रि० मुषितो नग्नः राजद०। धनाद्यपहरणेन नग्नतापन्ने “को नग्नमुषितप्रथ्यं बहु मन्येत राघवम्” भट्टिः।

नग्नम्भविष्णु = पु० अनग्नोनग्नो भवति भू–च्व्यर्थे खिष्णुच् मुम् च। अनग्ने नग्ने भविष्णौ। तत्रार्थे स्वुकञ् नग्नम्भावुक तत्रार्थे त्रि०।

नग्नहु(हू) = पु० नग्नं ह्वयति करोत्यनेन सेवनात् ह्वे–बा० कु कू वा। षड्विंशतिद्रव्यकृते सुरावीजे किण्वे अमरमाला “आतिथ्यरूपं मासरं महावीरस्य नग्नहुः” यजु० १९। १४ “सर्जत्वगादिषड्विंशतिवस्तून्येकीकृतालि नग्नहुः” कर्कः सर्जादीनि च “सर्ज १ त्वक् २ त्रिफला ५ शुण्ठी ६ पुनर्नवा ७ चतुर्जातक ११ पिप्पली १२ गजपिप्पली १३ वंशाऽ १४ पका १५ वृहच्छत्रा १६ चित्रके १७ न्द्रवारुण्य १८ श्वगन्धा १९ धान्यक २० यवानी २१ जीरकद्वय २३ हरिद्राद्वय २५ विरूढयवव्रीहय २६ एकीकृता नग्नहुः” “शष्पतोक्मलाजनग्नहूं दक्षिणद्वारेणाग्निगृहं नीत्वा” यजु० १९। १ मन्त्रे वेददी०।

नग्नाट = पु० नग्न एवाटति अट–अच् “सह सुपा” स०। दिगम्बरे मुक्तकच्छे जैनभेदे हलायुधः। स्वार्थे क अटण्वुल् वा। नग्नाटक तत्रार्थे हारा०।

नग्निका = स्त्री नग्ना + संज्ञायां कन्। अनागतार्त्तवायाम् अजातरजस्कायां स्त्रियाम् अमरः “त्रिंशद्वर्षो दशवर्षां भार्य्यां विन्देत नग्निकाम्” भा० अनु० ४५ अ०।

नघमार = पु० नह–क बा० हस्य घः नघं मारयति मृणिच–अण्। कुष्ठरोगे “त्रीणि ते कुष्ठ! नामानि नघमारो नघारिषो नघायं पुरुषः” अथ० १९। ३९। २। एवं नघारिष नघाय इत्यपि तत्रार्थे

नघुष = पु० नहुष + पृषो०। नहुषनृपे मैत्रोप०।

नङ्ग = पु० नं बन्धं गच्छति गम–ड बा० मुम् च। जारे उपपतौ जटा०

***