धर्म्मरत्न = न० जीमूतवाहनकृते स्मृतिनिबन्धभेदे।

धर्म्मरथ = पु० सगरनृपपुत्रभेदे स च कपिलमुनिनेत्राग्निदग्धावशेषितानां वंशकराणां चतुर्ण्णा मध्ये एकतमः। यथाह हरिवं० १४ अ०। “स धर्मविजयी राजा विजित्येमां वसुन्धराम। अश्वं प्रचारयामास वाजिमेधाय दीक्षितः। तस्य चारयतः सोऽश्वः समुद्रे पूर्वदक्षिणे। वेलासर्मापेऽप्रहृतो भूमिञ्चैव प्रवेशितः। तं तं देशं तदा तत्रैः खानयामार वार्थिवः। आसेदुस्ते तदा तत्र खन्यमाने महार्णवे। तमादिदेवं पुरुषं हरिं कृष्णं प्रजापितिम्। विष्णुं कपिलरूपेण खप्रन्तं पुरुषोत्तमम्। तस्य चक्षुः समु- त्थेन तेजसा प्रतिबुध्यतः। दग्धास्ते वै महाराज चत्वारस्त्ववशेषिताः। वर्हकेतुः सुकेतुश्च तथा धर्मरथो नृपः। शूरः पञ्चजनो नाम तस्य वंशकरा नृप। प्रादाच्च तस्मै भगवान् हरिर्नारायणो वरम्। अक्षयं वंशमिक्ष्वाको! कीर्त्तिञ्चाप्यनिवर्त्तिनीम्। पुत्रं समुद्रञ्च विभुः स्वर्गे वासन्तथाऽक्षयम्। पुत्राणां चाक्षयान् लोकान् तस्य ये चक्षुषा हताः। समुद्रश्चार्घमादाय ववन्दे तं महीपतिम्। सागरत्वञ्च लेभे स कर्मणा तेन तस्य वै। तञ्चाश्वमेधिकं सोऽश्वं समुद्रादुपलब्धान्। आजहाराश्वमेधानां शतं स सुमहायशाः। पुत्राणाञ्च सहस्राणि षष्टिस्तस्येति नः श्रुतम्।” २ अनुवंश्यस्य दिविरथस्य पुत्रभेदे च। “खनमानोऽङ्गदो जचे तस्माद्दिविरथस्ततः। सुतो धर्मरथो यस्य जज्ञे चित्ररथोऽप्रजः” रोमपाद इति ख्यातः भाग० ९। २३। ३

धर्म्मराज् = पु० धर्मेण राजते राज–क्विप्। १ यमे “सोऽग्निर्भवति वायुश्च सोऽर्कः सोमश्च धर्मराट्” मनुः। २ धर्मेण राजमाने धार्मिके त्रि०। “अथोपविष्टं शयने गौतमं धर्मराट तदा” भा० शा० १७० अ०। धर्मराट् इति नाडीजङ्घस्य विशेषणम।

धर्म्मराज = पु० धर्मेण राजते राज–अच् ३ त०। धर्माणां राजा ईश्वरो वा टच्समा०। १ जिने २ यमे च अमरः। ३ नृपे ४ युधिष्ठिर च शब्दरत्ना०। तत्र जिनस्य अहिंसारूपपरमधर्मेण राजनात् तथात्वं यमस्य च तथात्वमुक्तम् भा० व० २९६ अ०। “विवस्वतस्त्वं तनयः प्रतापवांस्ततो हि वैवस्वत उच्यते बुधैः। समेन धर्मेण चरन्ति ता० प्रजास्ततस्तबेहेश्वर धर्मराजता” “तथेत्युक्त्वा तु त पाशं मुक्त्वा वैवस्वतो यमः। धर्मराजः प्रहृष्टात्मा सावित्रीमिदमव्रवीत्” नृपाणां तथात्वञ्च “इन्द्रानलयमार्काणामग्नेश्च वरुणस्य च। चन्द्रवित्तेशयोश्चैव मात्रा सिहत्य शाश्वतीः। यस्मादेषां सुरेन्द्राणां मात्राभ्यो निर्मिता नृपाः मनुना यममात्रातोनिर्माणस्योक्तेः धर्मराजवद् अधर्मरतानां नराणां नियमनाद्वा तथात्वम् बोध्यम्। युधिष्ठिरस्य धर्मप्रधानत्वात् तथात्वम्। “सहायमध्वर घुरां धर्मराजो विवक्षते” माघः समासान्तविधेरनित्यत्वात् क्वचिदार्षे न टच्समा०। “जयाशीर्मिश्च तं विप्रो धर्मराजानमार्चयत” भा० स० ५ अ०।

धर्म्मरातृ = त्रि० धर्मं राति ददाति रा–तृच्। १ धर्मदातरि स्त्रियां ङीप् सा च २ चप्सु “आपो देव्य ऋषीणां विश्वरात्र्यो दिव्यामदन्त्योयाः शङ्कराः धर्मरात्र्यः” हरिवं० १३८ अ०

धर्म्मलक्षण = न० धर्मो लक्ष्यते ज्ञायतेऽनेन लक्ष–करणे ल्युट्। १ धर्मप्रमापके वेदादौ। धर्ममूलशब्दे दृश्यम्। २ मीमांसायां स्त्री ङीप्। भावे ल्युट् ६ त०। चोदनालक्षणोऽर्थो धर्मः” जै० सूत्रोक्ते ३ धर्मस्य लक्षणे इतरभेदानुमापके धर्मस्वरूपादौ च धर्मशब्दे दृश्यम्। “धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः। धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम्” इति मनूक्ते। “पात्रे दानं मतिः कृष्णे मातापित्रोश्च पूजनम्। श्रद्धा वलिर्गवां ग्रासः षड्विधं धर्मलक्षणम्” इत्युक्ते च ४ धर्मस्य साधने च।

धर्म्मवत् = त्रि० धर्म्म + अस्त्यर्थे मतुप् मस्य वः। धर्मयुक्ते धार्मिके। “मित्रावरुणवन्त उत धर्मवन्तः” ऋ० ८। ३५। १३

धर्म्मवर्म्मन् = त्रि० धर्म्म वर्म्म इव यस्य। १ धर्ममात्रस्यैव आवरकत्वेन धारके २ धर्मं कवचत्वेनामिमन्यमाने। धर्मस्य वर्मेव। ३ धर्मरक्षके न०। “ब्रूहि योगेश्वरे कृष्णे ब्रह्मण्ये धर्मवर्मणि” माग० १। १। ३

धर्म्मवासर = पु० धर्मस्य तत्साधनस्य वासरः। पौर्णमास्यां त्रिका०।

धर्म्मवाहन = पु० धर्मं बाहयति प्रापयति नरान् वाहि–ल्यु। १ शिवे त्रिका०। भावे ल्युट्। धर्मस्य २ प्रापणे न०। ६ त०। धर्मस्य धर्मराजस्य याने ३ महिषे।

धर्म्मविद् = त्रि० धर्मं वेत्ति विद–क्विप्। धर्मज्ञे। “अद्भिस्तीर्थेन धर्मवित्” मनुः।

धर्म्मविदुत्तम = पु० ६ त०। विष्णौ “धर्मो धर्मविद्युत्तमः” विष्णुस०।

धर्म्मविद्या = स्त्री ६ त०। १ मीमांसादिविद्यायां २ तदुपलक्षित शास्त्वे च। ततः क्रत्वा० ठक्। धार्मविद्यिक तद्वेत्तरि तद्ग्रन्थाध्येतरि च।

धर्म्मविप्लव = पु० ६ त०। धर्मस्य व्यतिक्रमे।

धर्म्मविवेक = धर्मस्य विवेकोऽत्र। हलायुधकृते धर्मनिवन्धभेदे

धर्म्मवीर = पु० वीरभेदे “स च दानधर्मयुद्धैर्दयया च समन्वित श्चतुर्द्धा स्यात्” सा० द० उक्ते १ वीररसभेदे २ तद्युक्ते च “धर्मवीरो युधिष्ठिरादिः” सा० द०।

धर्म्मवृद्ध = त्रि० धर्मेण वृद्धः। धर्मेण वृद्धे श्रेष्ठे अतिशयधर्मयुक्ते “न धर्मवृद्धेषु वयः समीक्ष्यते” कुमा०। २ यादवे अक्रूरभ्रातृभेदे पु०। “शफल्कश्चित्रकश्चैव गान्धिन्यान्तु शफल्कतः। अक्रूरप्रमुखा आसन् पुत्रा द्वादश विश्रुताः। धर्मवृद्धः सुकर्मा च क्षेत्रोऽपक्षोऽरिमर्दनः” भाग० ९। २४। ९।

धर्मवैतंसिक = पु० धर्मे वैतांसिक इव आत्मनो धार्मिकत्व त्वख्यापनाय दातरि। “धर्मवैतंसिको यस्तु पापात्मां पुरुषस्तथा। ददाति दानं विप्रेभ्यो लोकविश्वासकारणम्। पापेन कर्मणा विप्रो धनं लब्ध्वा निरङ्कुशः। रागमोहान्वितोऽशान्तः कलुषीं योनिमाप्नुयात्” वह्निपु०।

धर्मव्याध = पु० धर्मप्रधानो व्याधः शाक०। धार्मिके व्याधभेदे तत्कथा भा० व० २१४ अध्यायादौ दृश्या। तस्य व्याधस्य व्राह्मणं प्रति स्वकर्मविपाकस्तत्रोक्तो यथा “शृणु सर्वमिदं वृत्तं पूर्वदेहे ममानघ!। अहं हि ब्राह्मणः पूर्वमासं द्विजवरात्मजः। बेदाध्यायी सुकुशलो वेदाङ्गानाञ्च पारगः। आत्मदोषकृतैर्ब्रह्मन्नवस्थामाप्तवानिमाम्। कश्चिद्राजा मम सखा धनुर्वेदपरायणः। संसर्गाद्धनुषि श्रेष्ठस्ततोऽहमभवं द्विज!। एतस्मिन्नेव काले तु मृगयानिर्गतो नृपः। सहितो योधमुख्यैश्च मन्त्रिभिश्च स संवृतः। ततोऽव्यहन्मृगांस्तत्र सुबहूनाश्रमं प्रति। अथ क्षिप्तः शरो षोरो मयाऽपि द्विजसत्तम!। ताडितश्च ऋषिस्तेन शरेणा नतपर्वणा। भूमौ निपतितो ब्रह्मन्नुवाच प्रतिनादयन्। नापराध्याम्यहं किञ्चित् केन पापमिदं कृतम्। मन्वानस्तं मृगञ्चाहं सम्प्राप्तः सहसा विभो!। अपश्यं तमृषिं विद्धं शरेणानतपर्वणा। अकार्यकरणाच्चापि भृशं मे व्यथितं मनः। तमुग्रतपसं बिप्रं निष्टनन्तं सहीतले। अजानता कृतसिदं मयेत्यहमथाव्रुवम्। क्षन्तुमर्हसि मे सर्वमिति प्रोक्तो मया मुनिः। ततः प्रत्यब्रवीद्वाक्यमृषिर्भां क्रोधमूर्च्छितः। व्याधस्त्वं भविता क्रूरः शूदूयोनाविति द्विज!। २१४ अ०। व्याध उवाच। एवं शप्तोऽहमृषिणा तदा द्विजवरोत्तम। अभिप्रासादयमृषिं गिरा त्राहीति मां तदा। अजानता मयाऽकार्यमिदमद्य कृतं मुने!। क्षन्तुमर्हसि तत्सर्वं प्रसीद भववन्निति। ऋषिरुवाच। नान्यथा भविता शाप एवमेतदसंशयम्। आनृशंस्यात्त्वहं किञ्चित्कर्त्ताऽनुग्रहमद्य ते। शूद्रयोन्यां वर्त्तमानो धर्मज्ञो हि भविष्यसि। मातापित्रोश्च शुश्रूषां करिष्यसि न संशयः। तया शुश्रूषया सिद्धिं महत्त्वं समवाप्स्यसि। जातिस्मरश्च भविता स्वर्गञ्चैव गमिष्यमि। शापक्षये निवृत्ते तु भविताऽसि पुनर्द्विजः। एवं शप्तः पुरा तेन ऋमिणाऽस्म्युग्रतेजसा। प्रसादश्च कृतस्तेन ममैव द्विपदांवर!। २१५ अ०।”

धर्मव्रत = त्रि० धर्मे व्रतं संकल्पविशेषीयस्य। १ धर्मरते। २ धर्मस्य विश्वरूपाख्यपत्न्यां जातायां कन्यायां मरीचिकलत्रे स्त्री तत्कथा वायुपु० “आसीद्धर्मो महातेजाः सर्वविज्ञानपारगः। विश्वरूपा च तत्पत्नी भर्त्तृव्रतपरायणा। तस्यां धर्मात् समुत्पन्ना कन्या धर्मव्रता सती। सर्वलक्षणसम्पन्ना लक्ष्मीरिव कुलाधिका” इत्युपक्रमे “मरीचेर्वचनं श्रुत्वा कन्या प्रोवाच तं मुनिम्। अहं धर्मव्रतानाम धर्मपुत्री तपोन्विला। पतिव्रतार्थं विप्रेन्द्र! चरामि परमं तपः। धर्मव्रतां मरीचिस्तामुवाच प्रीतिपूर्वकम्। पतिव्रता दर्शनान्मे भविष्यसि शुभव्रते!। पतिव्रतेच्छया पृथ्वी विचरामि ह्यऽहर्निशम्। त्वञ्चेत् पतिव्रता जाता भजे त्वां भज मां वरम्। लोके न त्वादृशी कन्या मम तुल्यो न ते वरः। धर्मव्रते! धर्मपुत्नि! तस्मात् त्वं भज माधुना। धर्मव्रता मुनिं प्राह धर्मं याचय सुव्रत! तत् श्रुत्वा धर्ममगमन्मुनिं धर्मोददर्श ह। तेजः पुञ्जवरं नत्वा ह्यासनार्घ्यादिनार्च्चयत्। किमर्थमागतः पृष्टो मरीचिर्धर्ममव्रवीत्। कन्यार्थं भ्रमता पृथ्वीं दृष्टा ते कन्यका वरा। मह्यं कन्याञ्च तां देहि श्रेयस्तव भविष्यति। अर्घ्यादिना समभ्यर्च्च्य धर्मः प्राचेतसेरितम्। धर्मव्रतां समानीय दत्तवांस्तां मरीचये”। धर्मस्यव्रतम्। हेमाद्रिव्र० उक्ते ३ व्रतभेदे न० व्रतशब्दे दृश्यम्।

धर्म्मशाला = स्त्री धर्मार्थं शाला। धर्मार्थमन्नादिदानाधिकरणशालायाम्। धर्मसत्रादयोऽप्यत्र।

धर्म्मशासन = न० शास–भावे ल्युट् ६ त०। १ धर्मस्यानुशासने। करणे ल्युट्। २ धर्मशास्त्रे च “शरीरकृत् प्राणदाता यस्य चान्नानि भुञ्जते। क्रमेणैते त्रयोऽप्युक्ताः पितरो धर्मशासने” भा० आ० ७२ अ०।

धर्म्मशास्त्र = न० शिष्यतेऽनेन शास–करणे ष्ट्रन् ६ त०। धर्मशासने मन्वादिप्रणीते धर्मप्रतिपादके ग्रन्थभेदे स्मृतिशास्त्रे तस्य कर्त्तारश्च हेमाद्रिव्रतखण्डे दर्शिता यथा “शाङ्खलिखितौ स्मृतयो धर्मशास्त्राणि तेषां प्रणेतारोमनुविष्णुयमदक्षाङ्गिरोऽत्रिवृहस्पत्युशनआपस्तम्बवशिष्ठकात्यायगपराशरव्यासशङ्खलिखितसवर्त्तगौतमशातातपहारीतयाज्ञवल्क्यप्राचेतसादयः”। यमः “मनुर्यमोवसिष्ठोऽत्रिः दक्षो विष्णुस्तथाङ्गिराः। उशना वाक्पतिर्व्यास आपस्तम्बोऽथ गौतमः। कात्यायनो नारदश्च याज्ञवल्क्यः पराशरः। संवर्त्तश्चैव शङ्खश्च हारीतो लिखितस्तथा। एतैर्यानि प्रणीतानि धर्मशा- स्त्राणि वै पुरा। तान्येवाति प्रमाणानि न हन्तव्यानि हेतुभिः” “आदिशब्दाच्च वृद्धदेवलसोमजमदग्निप्रजापतिविश्वामित्रवृद्धशातातपपैठीनसिपितामहबौधायनच्छागलेयजाबालिच्यवनमरीचिकश्यपाः” तथा हि भविष्यपुराणे “अष्टादशपुराणेषु यानि वाक्यानि पुत्रक!। तान्यालोच्य महाबाहो! तथा स्मृत्यन्तरेषु च। मन्वादिस्मृतयो याश्च षड्विंशत् परिकीर्त्तिताः। तासां वाक्यानि क्रमशः समालोक्य व्रवीमि ते” इति। मन्वादिस्मृतीनां षड्त्रिंशत्त्वमुक्तम्, तच्चानन्तरोक्ताभिरेव पूर्य्यते। यानि पुनर्महाभारतरामायणविष्णुधर्मशिवधर्मप्रभृतीनि गृह्यपरिशिष्टानि च तानि च स्मृत्यन्तरेषु चेत्यनेनैवोक्तानि तथा चोक्तं भविष्यपुराणे “अष्टादश पुराणानि रामस्य चरितं तथा। विष्णुधर्माणि शास्त्राणि शिवधर्माश्च भारत!। कार्ष्णञ्च पञ्चमोदेवो यन्महामारतं स्मृतम्। सौराश्च धर्मा राजेन्द्र! मानवोक्ता महीपते!। जयेति नाम चैतेषां प्रवदन्ति मनीषिण इति” “तदपि स्मृत्यन्तरेषुचैवेत्यनेनैव परिगृहीतं वेदितव्यम्” हेमाद्रि० व्र०।

धर्मशील = त्रि० धर्मः धर्मसाधनं शीलमस्य धर्मं शीलयति शील–अण् वा। १ धर्मस्वभावे २ धर्मतत्परे। “तत्र स्नात्वा नरो राजन्! धर्मशीलः समाहितः” भा० व० ८४ अ०।

धर्मसंहिता = स्त्री धर्मज्ञापिका संहिता, धर्मः संहितो निरूपितो यत्र वा। धर्मशास्त्रे अमरः।

धर्मसहाय = पु० धर्मे सहायः। सहाया इत्युपक्रमे “ऋत्विक्पुरोधसः स्युर्धर्मविद् द्विजतापसास्तथा धर्मे” सा० द० उक्ते ऋत्विगादौ।

धर्मसार = पु० धर्मेषु सारः। १ श्रेष्ठपुण्यकर्मणि २ तत्साधने च स च गरुडपु० २२५ अ० विस्तरेणोक्तः।

धर्मसारथि = पु० धर्मः सारथिरिवास्य। धर्मसंघसहायके “शुद्धस्ततः शुचिस्तस्मात् चित्रकुर्धर्मसारथिः! भाग० ९। १७८

धर्मसावर्णि = पु० एकादशे मनुभेदे। “मनुर्वै धर्मसावर्णिरेकादशम आढावान्। अनागतस्तत्सुताश्च सत्यधर्मादयोदश” भा० ८। १३। १२

धर्मसू = स्त्री धर्मं सुनोति सू–क्विप्। १ धूम्याटखगे शब्दरत्ना०। २ धर्मप्रेरके त्रि० “सोमो राजा वरुणः देवा धर्मसुवः” तैत्ति० व्रा० १। ७। ८। ३।

धर्म्मसूत्र = न० धर्मः सूत्र्यतेऽनेन करणे अच् ६ त०। धर्म- निर्णयार्थं जैमिनीप्रणीते धर्ममीमांसारूपे ग्रन्थभेदे।

धर्मसेतु = पु० धर्मस्य सेतुरिव धारकत्वात्। धर्मरक्षके “राजा दशरथो नाम धर्मसेतुरिवाचलः” रामा० आर० ६२ अ०। एकादशमन्वन्तरे आर्य्यकस्य सुते २ हरेरंशभेदे च। तदुपक्रमे “आर्य्यकस्य सुतस्तत्र धर्मसेतुरिति स्मृतः। विधृ तायां हरेरंशस्त्रिलोकीं धारयिष्यति” भाग० ८। १३। १२

धर्मस्कन्ध = पु० आर्हतमतसिद्धे धर्मास्तिकायपदार्थे अर्हत् शब्दे दृश्यम्।

धर्माङ्ग = पुंस्त्री धर्म इव शुद्धमङ्गमस्य। वके निघण्टुः स्त्रियां ङीष्।

धर्माचार्य्य = पु० धर्मे आचार्य्यः। १ धर्मशिक्षके गुरुभेदे ऋग्वेदिनां तर्पणीये २ ऋषिभेदे च “सुमन्तुजैमिनि वैशम्पायनपैलसूत्रभाष्यभारतमहाभारतधर्माचार्य्या इत्युपक्रमे ये चान्ये आचार्य्यास्ते सर्व तृप्यन्त्विति” आश्व० गृ० ३। ४। ४। धर्माचार्य्याश्च नैमित्तिकादिप्रलयोत्तरं वैदिकधर्माचारयोः शिक्षार्थं वीजीभूता धर्मप्रवर्त्तका ऋषिभेदाः यहाह मिता० प्रा० अध्याये “ननु नैमित्तिकादिप्रतिसञ्चरेऽखिलाध्यापकप्रलयादविदितवेदास्तस्योपरितनाजनाः कथमग्निहोत्रादिकं कर्म करिष्यन्ति। कथन्तराञ्चाकृतकर्माणः स्वर्गमार्गमधिरोक्ष्यन्तीत्यत आह “तत्राष्टाशीतिसाहस्रा मुनयो गृहमेधिनः। पुनरावर्त्तिनो वीजभूता धर्मप्रवर्त्तकाः” याज्ञ०। तत्र पितृयाने अष्टाशीतिसहस्रसंख्या मुनयो गृहस्थाश्रमिणः पुनरावृत्तिधर्माणः सर्गादौ वेदस्योपदेशकतया धर्मतरुप्रादुर्भावे वीजभूताः सन्तोऽग्निहोत्रादिधर्मप्रवर्त्तका अतो न प्रागुदितदोषसमागमः। किञ्च। सिप्तर्षिनागवीथ्यन्तर्देवलोकं समाश्रिताः। तावन्त एव मुनयः सर्वारम्भविवर्जिताः। तपसा ब्रह्मचर्येण सङ्गत्यागेन मेधया। तत्र गत्वावतिष्ठन्ते यावदाहूतसंप्लवम्” याज्ञ०। सप्तर्षयः प्रसिद्धा नागवीथ्यैरावतपथः तदन्तराले तावन्त एवाष्टाशीतिसहस्रसंख्या मुनयः सर्वारम्भविवर्जिताः केवलज्ञाननिष्ठास्तपोब्रह्मचर्ययुक्तास्तथासङ्गत्यातिनो देवलोकं समाश्रिताः। आहूतसंप्लवम्प्राकृतप्रलयपर्य्यन्तमवतिष्ठन्ते। तत्र च स्थिताः सृष्ट्यादावाध्यात्मिकधर्माणां प्रवर्त्तकाः। कथम्भूतास्ते मुनय इत्यत आह “यतो वेदाः पुराणानि विद्योपनिषदस्तथा। श्लोकाः सूत्राणि भात्याणि यच्च किञ्चन वाङ्मयम्” याज्ञ०। यतो द्विविधादपि मुनिसमूहाच्चत्वारो वेदाः पुराणाङ्गविद्यौपनिषद्रश्च नित्यभता एवाध्येतृपरम्परायाताः प्रवृत्तास्तथा श्लोका इतिहासात्मकाः सूत्राणि च शब्दानुशासनमीमांसागोचराणि। भाष्याणि च सूत्रव्याख्यारूपाणि यदन्यदायुर्विद्यादिकं वाङमयं तदपि यत् सकाशात्प्रवृत्तं तथाविधास्ते मुनयो धर्मप्रवर्त्तकाः। एवं सति वेदस्यापि नानित्यतादोषप्रसङ्गः”।

धर्मात्मन् = पु० धर्म आत्मा स्वभावो यस्य। धर्मशीले “स तानुवाच धर्मात्मा महर्षीन् मानवो भृगुः” मनुः।

धर्माधर्म = पु० द्वि० व० धर्मश्चाधर्मश्च द्व०। १ पुण्यपापयोः “धर्माधर्मौ गुणा एते आत्मनः स्युश्चतुर्दश” भाषा०। धर्माधर्मौ परीक्षणीयतयाऽत्र स्तः अच्। धर्मजरूपे दिव्यभेदे तद्विधानं वीरमित्रोदये यथा “तत्र पितामहः “अधुना सम्प्रवक्ष्यामिं धर्माधर्मपरीक्षणम्। हन्तॄणां याचमानानां प्रायश्चित्तार्थिनां नृणामिति”। हन्तृणां साहसाभियोगेषु, याचमानानामित्यर्थाभियोगेषु, प्रायश्चित्तार्थिनां नृणामिति पातकाभि योगेषु एतद्दिव्यं भवतीति सूचितम्। धर्माधर्मदिव्यप्रकारमाह स एव “राजतङ्कारयेद्धर्ममधर्मं सीसकायसम्। लिखेद्भूर्जे पटे वापि धर्माधर्मौ सितासितौ। अभ्युक्ष्य पञ्चगव्येन गन्धमाल्यैः समर्चयेत्। सितपुष्पस्तु धर्मः स्यादधर्मोऽसितपुष्पधृक्। एवंविधायोपलिप्य पिण्डयोस्तौ निधापयेत्। गोमयेन मृदा वापि पिण्डौ कार्य्यौ समन्ततः। मृद्भाण्डके उपहृते स्थाप्यौ चानुपलक्षितौ। उपलिप्ते शुचौ देशे देवब्राह्मणसन्निधौ। आवाहयेत्ततो देवान् लोकपालांश्च पूर्ववत्। धर्मावाहनपूर्वन्तु प्रतिज्ञापत्रकं लिखेत्। यदि पापविमुक्तोऽहं धर्मस्त्वायातु मे करे” इति मन्त्रं विशोध्योब्रूयात्। अहमिति मन्त्रलिङ्गात्। वृहस्पतिरपि “पत्रद्वये लेखनोयौ धर्माधर्मौ सितासितौ। जीवदानादिकैर्मन्त्रैर्गायत्र्याद्यैश्च सामभिः। आमन्त्र्यं पूजयेद्गन्धैः कुसुमैश्च सितासितैः। अभ्युक्ष्य पञ्चगव्येन मृत्पिण्डान्तरितौ ततः। समौ कृत्वा नवे कुम्भे स्थाप्यौ चानुपलक्षितौ। ततः कुम्भात्पिण्डमेकं प्रगृह्णीतानुयाचितः। धर्मे गृहीते शुद्धः स्यात् सम्पूज्यश्च परीक्षकैरिति” जीवदानादिकैर्मन्त्रैः, मा प्र गामपथोवयमित्यादि” ऋ० १०। ५७। १ सूक्तपठितऋङ्मन्त्रैः अन्यैर्वा आगमोक्तैः प्राणप्रतिष्ठामन्त्रैरित्यर्थः। ते च शारदातिलके उक्ताः”।

धर्माधर्मविद् = पु० धर्माधर्मौः वेत्ति विद–क्विप् त ६०। १ मीमांसके स हि विधिनिषेधगम्यौ धर्माधर्मौ तत्त्वतो जानातीति तस्य तथात्वम्। २ तद्धेतुभूतविहितकर्माग्निष्टोमादिनिषिद्धकर्महिंसादिवेत्तरि च।

धर्माधिकरण = न० धर्मोऽधिक्रियतेऽत्र अधि + कृ–आधारे ल्युट्। नृपाणां तन्नियुक्तानाञ्च व्यवहारदर्शनयोग्ये १ स्थानभेदे। तत्स्वरूपभेदादिकं वीरमि० उक्तं यथा वृहस्पतिः “दुर्गमध्ये गृहं कुर्य्याज्जलवृक्षान्वितं पृथक्। प्राग्दिशि प्राङ्मुखीन्तस्य लक्षण्याङ्कल्पयेत्सभाम्। माल्यभूपासनोपेतां वीजरत्नसमन्विताम्”। लक्षण्यां वास्तुशास्त्रोक्तलक्षणेन तु लक्षिताम्। समायां धर्माधिकरणत्वं च “धर्मशास्त्रानुसारेण अर्थशास्त्रविवेचनम्। यत्राधिक्रियते स्थाने धर्माधिकरणं हि तदिति” उक्तेः। तत्र सभ्योपवेशनमाह मनुः” “यस्मिन्देशेनिषीदन्ति विप्रा वेदविदस्त्रयः। राज्ञश्चाधिकृतोविद्वान् ब्राह्मणस्तां सभां विदुरिति” त्रय इत्युपलक्षणम् “अधिकानामपि स्मृतत्वात्। तच्च वक्ष्यते। अधिकृतो विद्वान् प्राङ्विवेकः। अत्र “सभामेव प्रविशेत्” इत्यादिवचनात् सभा मुख्यं व्यवहारदर्शनस्थानम्। अन्यान्यमुख्यानि नानावचनादवगन्तव्यानि “देशस्थानानि वादानां पञ्च चैवाब्रवीद्भृगुः। निर्णयं येन गच्छन्ति विवादं प्राप्य वादिनः। आरण्यास्तु स्वकैः कुर्य्युः सार्थिकाः सार्थिकैस्तथा। सैनिकाः सैनिकैरेव ग्रामेऽप्युभयवासिभिः। उभयानुमतञ्चैव गृह्यते स्थानमीप्सितम्। कुलिकाः सार्थमुख्याश्च पुरग्रामनिवासिनः। ग्रामपौरगणश्रेण्यश्चातुर्विद्यश्च वर्गिणः। कुलानि कुलिकाश्चैव नियुक्ता नृपतिस्तथेति” स्वकैरारण्यकैः ग्रामेऽपीत्यपिशब्दाद्ये ग्रामेऽरण्यादौ च निवसन्ति ते उभयवोसिभिर्निर्णयं कुर्य्युरुभयव्यवहाराभिज्ञत्वात्तेषाम्। कुलिकाः कुलश्रेष्ठाः। सार्थो ग्रामदेवयात्रादौ मिलिती जनसङ्घः तन्मुख्याः सार्थवाहादयः। पुरं मुख्यनगरम्। तस्मादर्वाचीनो ग्राम इति पुरग्रामनिवासिनोर्भेदः। कुलिकादीनि पञ्च स्थानानि तानि चारण्यकादीनामेव ग्रामादीनि दश स्थानानि साधारणानि। ग्रामो ग्रामाकारेणावस्थितोजनः। पौरः पुरवासिनां समूहः। श्रेण्यो रजकाद्या हीनजातयः। चातुर्विद्यः आन्वीक्षिक्यादिविद्याचतुष्टयोपेतः। वर्गिणो गणप्रभृतयः”। तत् अर्हत्वेनास्त्यस्य अच्। २ तत्र नियुक्ते प्राड्विवेकादी पु०। “समः शत्रौ च मित्रे च सर्वशास्त्रविशारदः। विप्रमुख्यः कुलीनश्च धर्माधिकरणो भवेत्” मत्स्यपु० “पुरुषा- न्तरतत्त्वज्ञाः प्रांशवश्चाप्यलोलुपाः। धर्माधिकरणे कार्य्या जनाह्वानकरानराः इति मत्स्यपु०।

धर्माधिकरणिन् = पु० धर्माधिकरणं नियोगस्थानतयाऽस्त्यस्य इनि। विचारके प्राड्विवेकादौ धर्माध्यक्षे हेमच०।

धर्माधिकारिन् = पु० धर्मं व्यवहारे तन्निर्णयमधिकरोति अधि + कृ–णिनि ६ त०। प्राङिविवेकादौ।

धर्माध्यक्ष = पु० धर्मे व्यवहारे धर्मनिर्णये अध्यक्षः। १ प्राड्विवेकादौ। “कुलशीलगुणोपेतः सर्वकर्मपरायणः। प्रवीणः प्रेषणाध्यक्षो धर्माध्यक्षोऽभिधीयते” चाणक्यः। २ विष्णौ च “लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः” विष्णुस०। “धर्माधर्म्मौ साक्षादीक्षते तदनुरूपं फलं दातुं तस्माद्धर्माध्यक्षः” भा०। अत्र धर्मपदं लक्षणया धर्माधर्मपदं तदभिप्रायेण धर्माधमौ इत्युक्तम्

धर्मान्धु = पु० धर्मकृतोऽन्धु कूपः। तीर्थभेदे स्कन्दपु०।

धर्माभास = पु० धर्म इवाभासति आ + भास–अच्। श्रुतिस्मृतीतरशास्त्रोक्ते असद्धर्मे। “श्रुतिस्मृतिभ्यामुदितोयः स धर्मः प्रकीर्त्तितः। अन्यशास्त्रेषु यः प्रोक्तो धर्माभासः स उच्यते” देवीभागवतम्।

धर्मारण्य = न० तीर्थभेदे तदाविर्भवकथा वराहपु० यथा “सधर्मः षीडितः सर्वः सोमेनाद्भुतकर्मणा। तारां जिघृक्षता पत्नीं भ्रातुराङ्गिरसस्य च। सोऽप्ययाद्भीषितस्तेन बलिना क्रूरकर्मणा। अरण्यं गहनं घोरं प्रविवेश तदा प्रभुः” ब्रह्मोवाच। “यच्चारण्यमिदं धर्म! त्वयाव्याप्तं चिरं विभो!। नाम्ना भविष्यति ह्येतद्धर्मारण्यमिति प्रभो!” गयास्थे २ तीर्थभेदे “प्रथमेऽह्नि बिधिःप्रोक्तो द्वितीयदिवसे व्रजेत्। धर्मारण्यं तत्र धर्मो यस्मात् यज्ञमकारयत्” वायुपु० गयामाहात्म्ये “गया च फल्गुतीर्थञ्च धर्मारण्यं सुरैर्वृतम्। तथा देवनदीपुण्या सरश्च ब्रह्म निर्मितम्” भा० आनु० १६५ अ०। ३ धर्मसाधने अरण्यमात्रे च “तैरुक्तो यज्ञियान् देशान् धर्मारण्यं तथैवच” भा० आश्व० ९२ अ०। वृ० स० १४ अ० कूर्मविभागोक्ते मध्यभागस्थेदेशभेदे न० ४ माथुरकोषज्योतियधर्मारण्यानि शूरसेनाश्च” इत्युपक्रमे मध्यमिदमित्युक्तम्।

धर्मासन = न० धमार्थं धर्मविचारार्थमासनम्। विचारनिर्णयार्थे आसनभेदे। “धर्मासनमधिष्ठाय संवीताङ्गः समाहितः” मनुः।

धर्मास्तिकाय = पु० आर्हतमतसिद्धे जीवाजीवधर्माधर्म- पुद्गलास्तिकायमध्ये पदार्थभेदे अर्हत्शब्दे दृश्यम्।

धर्मिक = त्रि० धर्मोऽस्त्यस्य ठन्। धर्मयुक्ते। ततः पुरोहिता० तस्य कर्मभावादौ यक्। धार्मिक्य तद्भावे न०।

धर्मिन् = त्रि० धर्मोऽस्त्यस्य इनि। १ धर्मविशिष्टे स्त्रियां ङीप्। सा च २ जायायाम्। “त्रिगुणमचेतनं प्रसवधर्भि” सा० का०। ३ आधारे च सुखदुःखमोहधर्मिणी बुद्धिः सुखदुःखमोहधर्मकद्रव्यजन्या” सां० प्र० भा०। “नित्यत्वान्न चित्धर्मा” सा० सू० भाष्ये पुरुषस्य प्रकाशरूपत्वे सिद्धे तत्सम्बन्धमात्रेणान्यव्यवहारोपपत्तौ प्रकाशात्मकधर्मकल्वना गौरवमित्यपि बोध्यम्। तेजसश्च प्रकाशाख्यरूपविशेषाग्रहेऽपि स्पर्शपुरस्कारेण ग्रहात् प्रकाशतेजसोर्भेदः सिद्ध्यति। आत्मनस्तु ज्ञानाख्यप्रकाशाग्रहकाले ग्रहणं नास्तीत्यतो लाघवात् धर्मधर्मिभावशून्यं प्रकाशरूपमेवात्मद्रव्यं कल्प्यते” “धर्म्यंशे सर्वमभ्रान्तं प्रकारे च विपर्य्ययः” न्यायका०। धर्माः श्रौतस्मार्त्ता कर्त्तव्यत्वेन सन्त्यस्य। ४ धार्मिके त्रि० स्त्रियां ङीप्। धर्मः पाल्यत्वेनास्त्यस्य इनि ५ विष्णौ पु०। “धर्मगुप् धर्मकृत् धर्मी” विष्णुस०।

धर्म्मिष्ठ = त्रि० अतिशयेन धर्मवान् इष्ठन् मतुपो लोपः। १ अतिशयेन धार्मिके। २ विष्णौ पु०।

धर्मेन्द्र = पु० धर्मे इन्द्र इव रक्षकत्वात्। धर्मराजे यमे “पितॄणामिव धर्मेन्द्रो यादसामिव चाम्बुराट्” भा० द्रो० ६ अ०। धर्मेशधर्मेश्वरादयोऽप्यत्र।

धर्मेयु = पु० पौरववंश्यस्य रौद्राश्वस्य पुत्रभेदे। “धर्मेयुः सन्नतेयुश्च दशमो देवविक्रमः” भा० आ० ९४ अ०। तत्पुत्रोक्तौ

धर्मोत्तर = त्रि० धर्म उत्तरः प्रधानमस्य। धर्मप्रधाने।

धर्मोपदेश = पु० धर्म उपदिश्यतेऽनेन उप + दिश–करणे घञ् ६ त०। १ धर्मशास्त्रे मन्वादिशास्त्रे “आर्षं धर्मोपदेशञ्च वेदशास्त्राविरोधिना। यस्त्रर्केणानुसन्धत्ते स धर्मं वेद नेतरः” मनुः। भावे घञ्। २ धर्मस्य उपदेशे “धर्मोपदेशं दर्पेण विप्राणामस्य कुर्वतः। तप्तमासेचयेत् तैलं वक्त्रे श्रोत्रे च पार्थिवः” मनुः।

धर्मोपदेशक = त्रि० धर्ममुपदिशति उप–दिश ण्वुल् ६ त०। १ धर्मस्योपदेशकर्त्तरि २ गुरौ पु०।

धर्म्य = त्रि० धर्मादनपेतः “धर्मपथ्यर्थष्यायादनपेते” पा० यत्। धर्मेण प्राप्यः “नौवयोधर्मेत्यादिना” पा० यत् वा। १ धर्मयुक्ते धर्मादबर्हिमूते २ धर्मेण प्राप्ये च “न द्रव्याणामविज्ञाय विधिं धर्म्यं प्रतिग्रहे” मनुः। ब्राह्माद्यष्टविवाहो० पक्रमे “यो यस्य धर्म्यो वर्णस्य गुणदोषौ च यस्य यौ। तद्वः सर्वं प्रवक्ष्यामि प्रसवे च गुणागुणान्। षडानुपूर्व्या विप्रस्य क्षत्रस्य चतुरोऽवरान्। विट्शूद्रयोस्तु तानेव विद्याद्धर्म्यान्न राक्षसान्। चतुरो ब्राह्मणस्याद्यान् प्रशस्तान् कवयो विदुः। राक्षसं क्षत्रियस्यैकमासुरं वैश्यशूद्रयोः। पञ्चानान्तु त्रयोधर्म्या द्वावधर्म्यौ स्मृताविह। पैशाचश्चासुरश्चैव न कर्त्तव्यौ कदाचन। पृथक् पृथग्वा मिश्रौ वा विवाहौ पूर्वचोदितौ। गन्धर्वा राक्षसश्चैव धर्म्यौ क्षत्रस्य तौ स्मृतौ”।

धर्ष = पु० धृष–भावे घञ्। १ प्रागल्भ्ये २ अमर्षे ३ शक्तिबन्धने ४ संहतौ ५ हिंसायाञ्च शब्दच०।

धर्षक = त्रि० भृष–ण्वुल्। १ परिभवकारके २ प्रगल्भे ३ असहने च ४ नटे पु० शब्दरत्ना०।

धर्षकारिन् = त्रि० धर्षं करोति कृ–णिनि ६ त०। १ परिभवकर्त्तरि २ प्रागल्भ्यकारके च ३ दूषितायाम् असत्यां स्त्री स्त्रयां ङीप् शब्दर०।

धर्षण = न० धृष–भावे ल्युट्। १ परिभवे २ असहने ३ धर्षशब्दार्थे च। कर्मणि ल्युट्। ४ अभिसारिकायां स्त्रियाम् स्त्री ङीप्। मेदि०। कर्त्तरि ल्यु। ५ धर्षकारके त्रि०। ६ शिवे पु०। “अधर्षणो धर्षणात्मा यज्ञहा कामनाशकः” भा० अनु० १७ अ० शिवसहस्रनामोक्तौ चु० धृष–भावे युच्। ७ धर्षणे स्त्री “श्रुत्वेमां धर्षणां तात! तव तेन दुरात्मना” भा० आ० ४१ अ०।

धर्षणि(णी) = स्त्री धृष्यतेऽसौ धृष–कर्मणि अनि। असत्यां वन्धक्याम् उणादिवृत्तिः वा ङीप् तत्रार्थे भरतः।

धर्षित = त्रि० धृष–कर्मणि क्त इट् गुणश्च। १ परिभूते असत्यां २ कुलटायां स्त्री शब्दरत्न०। भावे क्त। ३ असहने ४ मैथुने च न० त्रिका०। ५ परिभवे च।

धलण्ड = पु० दधाति धा–ड तं लण्डयति उत्क्षिपति लडि–उत्क्षेपे अण्। (धला आकड) वृक्षेशब्दच०। ण्वुल्। धलण्डक तत्रार्थे तस्य कण्टकावृतत्वेन धारकस्योत्क्षेपणात्तथात्वम्।

धव = गतौ भ्वा० प० सक० सेट् इदित्। धन्वति अधन्वीत्। इदित्त्वात् कर्मणिधन्व्यते धन्वधातोस्तु धव्यते इति भेदः।

धव = त्रि० धवति धुवति धुनोति धूनाति वा कर्त्तरि अच्। १ कम्पनकारके २ पत्यौ स्वामिनि ३ नरे पु० अमरः ५ धूर्त्ते त्रि० मेदि०। (धला आकुडा) ख्याते वृक्षे पु० रत्नमा०। “धवः शीतः प्रमेहार्शःपाण्डुपित्तकफापहा। मधुरस्तु- वरस्तस्य फलञ्च मधुरं मनाक्” भावप्र०। “विल्वार्कखदिराकीर्णं कपित्थधवसङ्कुलम्” भा० आ० ६९ अ०। “मा विद्या च हरेः प्रोक्ता तस्या ईशो यतो भवान्। तस्मान्माधबनामासि धवः स्वामीति शब्दितः” हरिवं० २७९ अ०। भावे अप्। ६ कम्बने ७ विधूनने च पु०।

धवनि = स्त्री धू–करणे अनि। अनले पारस्करनि०।

धवल = पु० धाव–वृषा० कल बा० ह्रस्वः धवं कम्पं लाति लाक वा। “धवलः १ सिन्दूरे २ सिते। ३ महोक्षे चाथ धवली ४ सौरभ्यां समुदाहृता” विश्वः। सौरभ्यामेव गौरा० ङीष्। श्वेतबर्ण्णयुक्ते त्रि० अमरः अत्रार्थे स्त्रियां टाप्। “नीता येन निशा शशाङ्कधवला” उज्जलद०। ५ निर्मले त्रि० त्रिका०। “क्रियते धवलः खलूच्चकैर्धवलैरेव सितेतरैरधः” माघः। ६ चववृक्षे ७ चीनकर्पूरे स्त्री। ८ श्वेतमरिचे न० राजनि०। ९ रागभेदे स च भरतमते हिन्दोलरागस्य अष्टमः पुत्रः सङ्गीतशास्त्रण्। १० स्वगभेदे “धवलः पाण्डुरुद्दिष्टो रक्तपित्तहरो हिमः। रसे पाके च मधुरः संग्राही वातशान्तिकृत्” भावप्र०। ११ छन्दोभेदे तल्लक्षणं यथा “द्विजवर! गणयुगसनगणन गणयुगलकं विमलबलयमपि च कलय सकलजनसुखम्। फणिपतिवरमणितममलसिंह हितं विमलकविसुहृदिव ललितमिति भुवि विदितम्”।

धवलगिरि = पु० कर्म०। स्वनामख्याते पर्वतभेदे।

धवलपक्ष = पुंस्त्री धवलौ पक्षौ यस्य। हंसे राजनि० स्त्रियां जातित्वात् ङीष्। “धवलपक्षबिहङ्गमकूजितैः” माघः। कर्मधा०। १ चान्द्रमासघटकेंपञ्चदशतिथ्यात्मके २ शुक्ले पक्षेपु०

धवलपट्टिनी = स्त्री कर्म०। श्वेतपाटलिकायाम् राजनि०।

धवलमृत्तिका = स्त्री कर्म०। (खडि) खटिन्यां राजनि०।

धवलयावानल = पु० कर्म०। श्वेतयावानले यावनालवेदे राजनि०।

धवला = स्त्री अनुदात्तत्वान्न ङीष्। शुभ्रवर्णायां स्त्रियाम्। अमरः।

धवलिमन् = पु० धवलस्य भावः इमनिच्। श्वेतत्वे “अधिगवधवलि{??} शूलपाणेरभिख्याम्” माघः।

धवलोत्पल = न० कर्म्म०। कुमुदे राजनि०।

धवाणक = पु० धुनोति वृक्षादीन् धू–आणक। वायौ उज्ज्वल०

धवित्र = न० धू–करणे इत्र। गृनचर्ममयज्वजने अमरः। “मुञ्जवेदं धवित्राणि परिर्बौश्च” कात्या० श्रौ० २६। २। १०। “धुनोत्येभिरिति धवित्राणि कृष्णाजिनखण्डनिर्मितासूयो व्यजनाः” देवलनाथः।

धस् = त्रि० धा–कसुन्। १ थारके रेतोधाः पुरोधाः। २ ब्रह्मणि पु० मेदि०। ३ वृहस्पतौ उणा०।

धा = धारणे पोषणे दाने च जुहो० उभ० सक० अनिट्। दधाति धत्ते धत्से दध्यात् दधातु धेहि अदधात् अथश्च। अधात् अधित। दधौ दधे। दथिथ दधाथ। दधिव धाता धास्यति। धीयते अधायि अधायिषाताम् अधिषाताम्। हितः हित्वा हितिः। “त्वं मुग्धाक्षि! विनैच कञ्चुलिकया धत्से मनोहारिणीम्” सा० द०। “इमं नो यज्ञममृतेषु धेहि” ऋ० ३। २१। १ “तत्र त्वा देवा सविता दधातु” ऋ० १०। १७। ४ “धर्मे दध्यात् सदा मनः” मनुः। “निवेशाय मनो दधुः” भा० ब० ६५ अ०। “न नाशमधिगच्छेयुरिति मे धीयते मतिः” भा० विरा० २८ अ०। “हिंस्वाहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते। यद् यस्य सोऽदधात् सर्गे तत्तस्य स्वयमाविशत्” मनुः। “यश्चापमाश्मनप्रख्यं सेषुं धक्षेऽन्यदुर्वहम्” भट्टिः। “गामधास्यत् कथं नागो मृणालमृदुभिः फणैः” कुमा० धापयति धित्सति। “स्वं वव्रिं कुह धित्सथः” ऋ० १। ४६। ९अति + अतिक्रम्य धारणे अतिशयधारणे च “आयुर्यत्ते अतिहितं पराचैः” अथ० ७। ५३। ३।अधि + आधिक्येन धारणे “यन्नार्षदाय श्रवो अध्यधत्तम्” ऋ० १। ११७। ८।अनु + पश्चाद्धारणे। “अथान्यान् (तण्डुलान) हुताखाश्वत्थीषु समित्सु अनुदधीरन्” लाट्या० ४। ९। १४।अन्तर् + आच्छादने वस्त्वन्तरेण व्यवधाने। “उदुम्बरशाखामन्तर्धायाभिषिञ्चति” ऐ० व्रा० ८। ७। तिरोधाने “ते चान्तर्दधिरे नागाः” भा० आ० १२९ अ०।अपि + तिरोधाने आच्छादने। “धनेनाधर्म्मलब्धेन यच्छिद्रमपिधीयते” भा० उ० ३४ अ०। वा अतो लोपः “पिधानमपिधानम्” अमरः।अभि + कथने “साक्षात् सङ्केतितं योऽर्थमभिधत्ते स वाचकः” का० प्र०। “गणनव्यवहारे तु हेतुः संख्याभिधीयते” नाषा०।प्रति + अभि + प्रत्युत्तरकथने। “मया च प्रत्यभिहितं देवकार्य्यार्थदर्शनात्” भा० उ० १९ अ०।अव + मनःसंयोगविशेषे अभिनियेशे “अवधानपरे चकार सा” कुमा०। अधःस्थापने पातने च “यां ते कृत्यां कूपे अवदधुः” अथ० ५। ६१। ७। “त्रितः कूपेऽवहितः” ऋ० १। १०५। १७वि + अव + आच्छादने (ढाकौ) अपवारणे। “प्रेक्ष्य स्थितां सहचरीं व्यावधाय देहम्” रघुः। “व्यवदधाति दर्भपिञ्जूलानि” सांख्यब्रा० १८। ८। “अन्तर्द्धा व्यवधा पुंसि अन्तर्द्धिरपवारणम्” अमरः। “उदयाचलव्यवहितेन्दु वपुः” माघः।आ + आरोहे आरोपणे स्थापने च। स्वद्रव्यस्य ऋणशोधन कालपर्य्यन्तं धनिकसमीपे स्थापने आधिः आहितः। अग्न्यादेः संस्कारभेदे अग्न्याधानम्। “जनपदे न गदः पदमादधौ” रघुः। “आदध्यात् संभारान् दर्भान् दीर्घान् गर्भाश्च” वृ० स० ४८। “गर्भमाधत्त राज्ञी” रघुः। “ज्येष्ठायां धर्मचारिण्यां महिष्यां गर्ममादधे” भा० व० २९२ अ०।अति + आ + मर्य्यादातिक्रमेण धारणे। “कार्य्यमत्याहितं भविष्यति” प्रबोधच०। “यदि स्यादिह गोविन्दो नैतदत्याहितं भवेत्” हरिवं० १७१ अ०।अनु + आ + पश्चादाधाने। यदेकस्य निहितं द्रव्यं तेनापि अनु पश्चादन्यस्य हस्ते स्वामिने देहीति समयेन समर्पणे च। अन्वाहितशब्दे दृश्यम्।अभि + आ + साम्मुख्येन स्थापने “अभ्यादध्युश्च काष्ठानि तत्र दह्येत पापकृत्” मनुः।उप + आ + धर्मचिन्तायाम् “उपाधिर्ना धर्मचिन्ता” काम०। सामीप्येनाधाने अग्न्युत्पाते मेदि०। “अग्न्युत्पात उपाहितः” अमरः। संयोजने च अमरः। “तस्य निष्क उपाहित आस” शत० ब्रा० ११। ४। १। १निर् + आ + निराकरणे “यः क्रव्यादं निरादधत्” अथ० १२। २। ३९।परि + आ० परितः स्थापने। “ऋचा कुम्भीमध्यग्नौ श्रयाम्या सिञ्चोदकमवधेह्येनम्। पर्य्याधत्ताग्निना” अथ० ९। ५। ५वि + आ + विशेषेनाधौ पीडायाम्। व्याधिः “यद्यात्मना प्रजया वा व्याधीयेत” श्रुतिः “एतद्वै परमं तपो यद्व्याहितस्तप्यते” शत० व्रा० १४। ८। ११। १सम् + आ + पूर्वमाक्षिप्तस्य दोषस्य निराकरणे “समाहितः समाधिस्थेऽप्युक्तसिद्धान्त आहित” मेदि० उक्तेः च सिद्धान्तोक्त्या दोषसमाधाने। सम्यक्चित्तस्य ईश्वरादौ संस्थापने समाधिः। “अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम्” गीता। सम्यगारोपणे “सोऽहं भारं समाधास्ये त्वयि त्वं बोदुमर्हसि” मा० द्रो० ११ अ०। “तदात्मसम्भवं राज्ये मन्त्रिवृद्धाः समादधुः” रघुः।आविस् + आविर्भवने प्रकाशने “आविर्हितस्त्वनुयुगं स हि सत्यवत्याम्” भाग० २। ७। ३।उप + सामीप्येन स्थापने उपलक्षणतया स्थापने च। “क्रिया हि वस्तूपहिता प्रसीदति” रघुः। “एतदुपहितचैतन्यम्” येदा० सा०। “यदिन्द्रियैस्तूपहितं पुरस्तात् प्राप्तान् गुणान् न स्वरते चिराय” भा० शा० ७४१७ श्लो०। छलने स्वरूपप्रच्छादने उपधयश्छद्मकैतवमित्यमरीक्तेः।तिरस् + अन्तर्द्धाने प्रच्छादने। “इति वाहृत्य विबुधान् विश्वयोनिस्तिरोदधे” कुमा०।नि + स्थापने अज्ञातस्वामिकतया द्रव्यस्य स्थितौ स्थापने च “अनिधायैव तद्द्रव्यमाचन्तः शुचितामियात्” मनुः। “शिरसि निदधानोऽञ्जलिपुटम्” सा० द०। “अलं प्रयत्नेन वा तत्र मा निधाः पदं पदव्यां सगरस्य सन्ततेः” रघुः। “यस्तु पश्येन्निधिं राजा पुराणं निहितं क्षितौ” मनुः।प्र + नि + ऐकाग्र्येण मनसः स्थापने। “ईश्वरप्रणिधानाद्वा” पात० सू०। “प्रणिधानं भक्तिविशेषः” भा०। प्रेरणे च “नीधिं प्रति प्रणिहिते तु करे प्रिथेण” सा० द०। मनोऽभिवेशने च “किष्किन्ध्याद्रिगुहां गन्तुं मनः प्रणिदधे द्रुतम्” भट्टिः।प्रति + नि + तुल्यरूपतया करणादौ प्रतिनिधिः। “द्रव्येऽविद्यमाने यत् सामात्यतमं मन्येत तत्प्रतिनिदध्यात्” सा० श्रौ० ३। २०। ९ प्रतिनिधिशब्दे दृश्यम्।सम् + नि + सम्यग्निधाने। “मेघेषूर्द्ध्वं सन्निधत्ते प्राणानां पवनः पतिः। तच्च मेघगतं वारि शक्रो वर्षति भारत।” भा० अमु० ६ त०। “दूरादाहृत्य समिधः संनिदध्याद्विहायसि” मनुः। नैकट्येन सम्बन्धे “समवेशं न कुर्वीत नोच्चैः सन्निहितो हसेत्” भा० वि० ४ अ०। “गुरो र्गुरौ सन्निहिते गुरुवद्वृत्तिमाचरेत्” मनुः। “अस्मिन् लतामण्डपे सन्निहितया त्वया भाव्यम्” शकु०। “भगवान् हरिरद्यापि तत्रत्यानां निजजननां वात्सल्येन सन्निधाप्यत इच्छारूपेण” भाग० ५। ७। ८। नैकट्येन स्थापने तु सक०। “स चाहं सहसख्या धनमित्रेण तत्र संन्यधिषि” दशकुमा०।परि + वेष्टने आच्छादने। “यं परिधिं पर्य्यधात्” यज० २। १७। “येनेन्द्रस्य वृहस्पतिर्वासः पर्य्यधात्” पञ्चभी० २। २ “वासश्च परिधावैकम्” भा० वि० ९ अ०। “परिहिते प्रातरनुवाके” आ० श्रौ० ६। ९। १। “दृष्टिं परिदधे कृष्णे रौहिणेये च दारुणाम्” हरिवं० ७। अ०।वि + परि + परिवर्त्तनेन आच्छादने। “आचान्तः पुनराचामेत् वासो विपरिधाय च” याज्ञ०।पुरस् + अग्रतः स्थापने। पुरोहितः। “तुरासाहं पुरोधाय धाम स्वायम्भुवं ययुः” कुमा०।प्र + प्रकर्षेण धारणे। “दिशश्चतस्रः सहसा प्रधापिताः” भाग० २० अ०। प्रधानम्।प्रति + प्रक्षेपे “तदग्ने चक्षुः प्रतिधेहि रेभे” ऋ० १०। ८७। १२। प्रतीकारार्थे विधाने “दुष्टदैवतनाशाय वज्रो ध्यान समाधिना। सर्वत्राक्षतविक्षेपात् शान्तिकं प्रतिधास्यति” शतरुद्र० प्रतिविधाने।वि + करणे “तस्य तस्याचलां श्रद्धां तामेब विदधाम्यहम्” गीता। “विदधाति विभज्येह फलं पूर्वकृतं नृणाम्” भा० व० यच्चान्यदपि कर्त्तव्यं तद्विधत्स्व महामते” स० ७६ अ०। कर्त्तव्यतयोपदेशे “यज्ञशिष्टाशनं ह्येतत् मतामन्नं विधीयते” मनुः। “चिकीर्षाकृतिसाध्यत्वहेतुधीविषयो विधिः” शब्द० श० विधिशब्दे दृश्यम्। “न पैतृयाज्ञियो होमो लौकिकेऽग्नौ विधीयते” मनुः।अनु + वि + तुल्यरूपावरणे पश्चात्करणे च। “आनुपूर्व्येण ह विषां दैवत उच्चैरुपांशुतायां चाध्वर्युमनुविदधीत” सांख्य० श्रौ० १३१। ३ “वृत्तिं च तेभ्योऽनुविधाय काञ्चित्” भा० उ० ३६ अ०। “उपतिष्ठति तिष्ठन्तं गच्छन्तमनुगच्छति। करोति कुर्वतः कर्म छायेवानुविधीयते” भा० शा० १८१। “इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते” गीता।प्रति + वि + प्रतिरूपाचरणे “क्षिप्रमस्मिन्नरव्याघ्र चारः प्रतिविधीयताम्” रामा० सुन्द० प्रतीकारे च “क्षिप्रमेव कस्मान्न प्रतिविहितमार्य्येण” मुद्रारा० चन्द्रगुप्तोक्तिः “न पारितं प्रतिविधा तुम्” तत्रैव चाणक्योक्तिः।त्रद् + आदरे विश्वासे च। “श्रद्दधाति क इवेह न साक्षात्” नैष०।सम् + सम्यग्विधाने योजने श्लेषणे अभिसन्धौ। “मनस्येतानि सन्घाय मनसा सम्प्रधारयेत्” भा० आश्व० ४२ अ०। “यथा सूच्या वासः संदध्यात्” ऐ० व्रा० ८३। ४८। “धनुष्यमोधं समधत्त सायकम्” कुमा०। “संदधे धनुषि वायुदैवतम्” रघुः। “भवति कृतसन्धानमिव तत्” शकु०। मेलने “सकृद्दुष्टं यो हि मित्रं पुनः सन्धातुमिच्छति” चाणक्यः।ग्रति + सम् + अतिशयेन शक्त्यादिना व्यथने संयोजने। “त्वया चन्द्रमसा च विश्वसनीयाभ्यामतिसन्धीयते कामिजनसार्थः” शकु०।अनु + सम् + अनुसन्धाने विचारजन्यज्ञानभेदे अनुचिन्तने “आर्षं धर्मोपदेशञ्च वेदशास्त्राविरोधिना। यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः” मनुः। अन्वेषणे च “दुर्गमनुसन्धेहि” हितो०।अभि + सम् + तात्पर्य्ये अभिलाषभेदे। “अभिसन्धाय तु फलं दम्मार्थमपि चैव यत्” गीता। “भवन्तमभिसन्धाय जिघांसन्ति भवत् प्रियम्” भा० शा० ३१०५ श्लो०। “श्राद्धानि चैव कुर्वन्ति फलकामाः सदा नराः। अभिसन्धाय पितरं पितुश्च पितरं तथा” हरिवं० १६ अ० “गूढाभिसन्धिः शङ्कते” जगदीशः। “अभिसन्ध्यादिषु चैवम्” शा० सू०।प्रति + सम् + प्रतिरूपसन्धाने। “प्रतिसन्धाय चास्त्राणि तेऽन्योन्यस्य विशाभ्पते!। मुमुचुः पाण्डवाश्चैव कौरवाश्च महामृधे” भा० भी० ७५ अ०। “पश्यतः प्रतिसन्धाय विध्यतः सव्यसाचिनः” भा० वि० ६१ अ०।

धाक = त्रि० धा–उणा० क तस्य नेत्त्वम्। १ धारके २ ब्रह्मणि पु० मेदि०। ३ वृषे ४ आहारे च ५ अन्ने ६ स्तम्भे च संक्षिप्त सा० उणादिवृत्तिः।

धा(घा)टी = स्त्री धट्यते हिंस्यतेऽत्र धट–हिंसायां आधारे अव् गौरा० ङीष् पृषो० धस्य धः घाटी वा तत्र पाठः। अभ्यवस्कन्दने शत्रुसम्मुखगमने हेमच०।

धाणक = पु० धा–आणक। दीनारभागे परिमाणभेदे। उज्जलद०।

धातक = पु० धातुं करोति णिच् टिलोपः ण्वुल्। पुष्करद्वीपस्यापतेः वीतहोत्रस्य १ पुत्रभेदे “तद्द्वीपस्याधिपतिः। प्रैयब्रतो वीतिहोत्री नाम तस्यात्मजौ रमणधातकनामानौ वर्षपती नियुज्य” भाग० ५। २०। २२। गौरा० ङीष्। (धाइफुल) २ धातुपुष्प्याम् राजनि०। “धातकी कटुका शीता मदकृत् तुवरा लघुः। तृष्णातीसारपित्तास्य विषक्रमिविसर्यजित्” भावप्र० तद्गुणाः। ३ तीर्थभेदे शिवपु०।

धातक्यादिलेह = चक्रदत्तोक्ते लेहभेदे “धातकीबिल्वधन्याकलोध्रेन्द्रयवबालकैः। लेहः क्षौद्रेण बालानां ज्वरातीसारवान्तिजित्” चक्र०।

धातु = पु० धीयते सर्वं निःक्षिप्यते सुषुप्त्यादावस्मिन् धा–आधारे तुन्। १ परमात्मनि। “स एष चिद्धातुः” श्रुतिः। दधाति शब्दान्। २ सर्वेषां नाम्नां प्रकृतिभूते भूप्रभृतौ तस्य लक्षणविभागादिकं शवलर्थरत्नेऽस्माभिर्दर्शितं यथा

“धातुर्नान क्रियावाचकोगणादिपठितः शब्दविशेषः क्रिया च पूर्वोक्तफलानुकूलो व्यापार एव सर्वेषाञ्च कार- काणामन्वयोपपत्तये कालान्वयोपपत्तये च धातूनां क्रियावाचकत्वाङ्गीकारात्। तथाहि। “क्रियाभेदाय कालस्तु संख्या सर्वस्य भेदिकेति” वाक्यपदीये कालानां क्रियाभेदकत्वमुक्तमुक्तञ्च तेनैव “क्रिया नियतसाधना” इत्यादिना साधनानां क्रियाकाङ्क्षित्वं तत्र यदि धातुभिः क्रिया न बोध्येत क्व तदा तेषामन्वयो विशेषणत्वं वा भवेदतीऽवश्यं सर्वेषां क्रियावाचकत्वं स्वीकार्यं धातूनां फलमात्रवाचकत्वे आख्यातानां व्यापारार्थकत्वे कृदादिस्थले आख्याताभावेन कारकाद्यन्वयानुपपत्तेः नापि क्रियामात्रवाचकत्वं त्यजिगम्योः पर्य्यायतापत्तेः। तथाच फलवाचकत्वस्य तेषां प्रायशोगणपाठे एव उक्तत्वात् न तदंशे विवादः। किञ्च फलावच्छिन्नक्रियायाः पृथक्शक्त्या विशिष्टशक्त्या वा धात्वर्थत्वाभावे सकर्मकाकर्मकविभागोच्छेदः स्यात् स्याच्च फलमात्रधात्वर्थत्वे सर्वेषां कारकाणां तत्रानन्वयः तत्रैव कालान्वयोपगमे च व्यापारविगमकालेऽपि फलसत्त्वेन वर्त्तमानत्वादिप्रयोगापत्तिः। अतोऽवश्यं क्रियावाचकत्वं स्वीकार्यमतएव “धातोरर्थः क्रियोच्यते” इत्यनेन धात्वर्थत्वेनैव क्रियात्वस्वीकारः। अतएव च “भूवादयोधातवः” इतिषाणिनीयसूत्रमपि क्रियावाचकत्वं धातुमात्राणां प्रतिपाद यति। तथाहि मूश्च वा च भूवौ आदिश्चादिश्चादी भूवौ आदी येषां ते धातवैति तथा चात्र प्रथम आदि शब्दोव्यवस्थावाची भुवा सह तदन्वयात् भूप्रभृतयैत्यर्थलाभः द्वितीयआदिशब्दः सादृश्यवाची वाधातुना तदन्वयस्तेन वासदृशा इत्यर्थलाभः तत्सादृश्यञ्च क्रियावाचित्वेन बाधातीर्गथर्थतया क्रियावाचित्वप्रसिद्धेस्तथा च मूप्रभूतयः क्रियावाचित्वेन वासदृशा धातव इत्येव फलितम्। भुवश्चादित्वं गणपाठापेक्षया तस्य च क्रियावाचकत्वं पूर्वोक्तयुक्तेरिति संक्षेपः। अत्र क्रियावाचित्वानुक्तौ गणपठितत्वेन सर्वनामाव्ययादीनामपि धातुत्वापत्तिः तन्मात्रोक्तौ च हिरुगाद्यव्ययानां क्रियावाचित्वेन धातुत्वापत्तिरत उभयमुक्तम्। उक्तञ्च “किञ्च क्रियावाचकतां विना धातुत्वमेव नो। सर्वनामाव्ययादीनां यावादीनां प्रसङ्गतः। न हि तत्पाठमात्रेण युक्तमित्याकरे स्फुटमिति”। तत्पाठः गणपाठः। विदि अवयवे गडि वदनैकदेशे इत्यादिद्रव्यवाचिनामपि तत्साधनक्रियावाचित्वमस्त्येव कालकारकाद्यन्वयानुरोधात् तत्फलस्य द्रव्यरूपत्वेऽपि न क्षतिः। गणादीत्या- दिपदेन सूत्रसंज्ञासूत्रग्रहणं तेन स्मैत्राणां स्कत्भुप्रमृतीनां सनादयोधातव इत्यादीनाञ्च प्रत्ययान्तानां धातुत्वमव्याहतमेव दर्शितयुक्तेः तत्रापि क्रियावाचित्वादेरवश्यं स्वीकाराच्च नाप्रसङ्गैति दिक्।

ते च सर्वेऽपि धातवः सकर्मकाकर्मकभेदेन द्विविधाः। तत्र व्यापाराधिकरणमात्रावृत्तिफलवाचकः सकर्मकः पच्यादेः व्यापाराधिकरणावृत्तिविक्लित्तिरूपफलस्य बोधकतया सकर्मकत्वं कर्त्तृकर्मोभयनिष्ठफलवीधकस्यापि गम्यादेः व्यापाराधिकरणम्भत्रावृत्तिफलवोधकतया सकर्मकत्वम्। भूप्रमृतीनां तु व्यापाराधिकरणमात्रवृत्तिफलबोधकतया न सकर्मकत्वं फलस्य सक्षायास्तत्सम्बन्धरूपव्यापारस्यैकस्मिन्नेव धर्मिणि बटादौ सत्त्वात्। उक्तञ्च वाक्यपदीये “आत्मानमात्मना बिभ्रदस्तीति व्यपदिश्यते। अन्धर्भावाच्च तेनासौ कर्मणा न सकर्मकः” इति। अस्यायमर्थः आत्मानं स्वरूपं विभ्रत् आत्मधारणानुकूलव्यापाराश्रयः अस्तीतिपदेन समानाधिकरणतया व्यपदिश्यते तदभेदबोधनाय तिङादिकं प्रयुज्यते इति यावत् तेनात्मनात्मरूपेण कर्मणा धारणकर्मणा धातुः न सकर्मकः। अत्र हेतुरन्तर्भावात् धात्वर्थ एव तस्य कर्मणः प्रवेशात् आत्मधारणानुकूलव्यापाररूपधात्वर्थेनात्मनौपसंग्रहादित्यर्थः। अथ वा अन्यरेव व्यापाराधिकरण एव भावात् फलस्य सत्त्वात् व्यापारसामानाधिकरण्यादित्यर्थः तेन भुवादेरुत्पत्त्यनुकूवव्यापारवाचितया धात्वर्थोपसंगृहीतकर्मकत्वाभावेऽपि फलसमानाधिकरणव्यापारवाचित्वादकर्मकत्वम्। अतएव “फलव्यापारयोरेकनिष्ठतायामकर्मकः। धातु स्तयोर्धर्मिभेदे सकर्मकौदाहृत” इति फलसामानाधिकरण्यादिकृताकर्मकसकर्मकविभागोऽभिहितः। एकनिष्ठतायामेकमात्रवृत्तितायामित्यर्थः तेन गम्यादेर्व्यापाराधिकरणवृत्तिफलवाचित्वेऽपि नाकर्मकत्वमिति धर्मिभेदेऽधिकरणान्यत्वे इत्यर्थः। एवमेव शब्दकौस्तुभ कारादयः। एतन्मते सकर्मकाकर्मकशब्दौ पारिभाषिकाविति द्रअव्यम्। मञ्जूषाकृतस्तु “कर्मणा सहेति नास्ति कर्म यस्मेति व्युत्पक्ष्या सकर्मकाकर्मकशब्दौ योगिकौ तत्र साहित्यं तदन्वितस्वार्थबोधकत्वम् अन्वयश्र पृथक्पदोपस्थाप्ययोः सम्बन्धरूपोग्राह्यस्तेन जीवत्यादीनां प्राणधारणानुकूनव्यापारार्थकतया तत्कर्मणः प्राणादेर्धात्वर्थमध्यपातात् न सकर्मकत्वं धात्वर्थोपगृहीतकर्मकत्वेनाकर्मकत्वात्। कर्म च व्याकरणशा- स्त्रीयपारिभाषासिद्धकर्मसंज्ञाविशिष्टमुच्यते तेनाधिशय्यते प्रासादैत्यादौ कर्मणि लकारोपपत्तिः अधिशेतेः कर्म संज्ञाविशिष्टान्वितस्वार्थबोधकत्वात् अन्यथा पूर्वमते तस्य फलसमानाधिकरणव्यापारवोधकतयाऽकर्मकत्वेन “माने चाकर्मकेभ्यः” इति भाव एव लकारापत्तेः। भवति च ग्रामं गच्छतीत्यादौ गम्यादिः ईप्सिततमत्वेन कर्म संख्याविशिष्टेन पृथग्भूतेन ग्रामेणान्वितं स्वार्थं बोधयन् सकर्नकः, अधिवसतिस्तु अधिकरणत्वेन कर्मसंज्ञा विशिष्टेनेति विवेकः” इति प्राहुः। युक्तञ्चैतत् धात्वर्थोपगृहोतकर्मकाणां व्यापारव्यधिकरणफलवाचितया पूर्वकल्पे सकर्मकत्वापत्तेः तत्तद्भिन्नत्वेन निवेशे नौरचं तथा कर्मणोऽविवक्षायां गम्यादेरपि अकर्मकत्वस्वीकारेघ अविवक्षाविशिष्टत्वेन निवेशे गौरवञ्च। एतन्मते तु कर्माभावादेव तदन्वितस्वार्थबोधकत्वाभावान्नाकर्मकत्वहानिरिति सूक्ष्ममीक्षणीयम्। अत्र पक्षे अकर्मकस्तु तदनन्विवस्वार्थवोधक इति वोध्यम्। सकर्मकाश्च द्विविधाः एककर्मका द्विकर्मकाश्च। एककर्मान्वितस्वार्थबोधकाः गम्यादयः एककर्मकाः। द्विकर्म काअपि द्विविधाः द्विकर्मान्वितैकव्यापारर्थकाः द्विकर्मान्वितद्विव्यापारार्थकाश्च। तत्राद्या दुह्यादयः। न च ते सिद्धान्ते द्विव्यापारार्थकाः तथात्वे ईप्सिततमाभ्यामेव कर्मभ्यां व्यापारद्वयेऽन्वयसम्भवेन द्वितीयाद्युत्पत्तौ “अकथितञ्चेति” सूत्रेण दुह्यादीनां कारकान्तरसंज्ञानापन्नस्याकथितस्य कर्मसंज्ञाविधानानौचित्यात्। दर्शयिव्यते च दुह्यादीनामेकव्यापारार्थकता। यदा पुन स्तेषां द्विव्यापारार्थकता विवक्षिता तदा ईप्सिततमसूत्रेणैव कर्मसंज्ञायां जातायां द्विकर्सान्वितद्विव्यापारार्थका एव ते णिजन्तादिबदिति बोध्यम्। द्विकर्मान्वितद्विव्यापारार्थकाश्च भिजन्ताः तत्र च धातुना एकत्यापारोऽभिधीयते द्वितोयखु णिचा, तद्व्यापारद्वये च ईप्सितकर्मणः प्रयोज्यकर्तृरूपकर्मणश्च यथाक्रममन्वतः। तथात्वञ्च गम्यादीनामिति बोध्यम्। पाच्यादीनां तु नैवं, तद्योगे प्रयोज्यकर्त्तुः कर्मसंज्ञाभावेन व्यापारद्वये कर्मद्वयान्वयाभावात्। नाव पाच्यादेः क्रियाफसाश्रयत्वेनोद्देश्यतया प्रयोज्यकर्त्तुः कर्मसंज्ञा भवितुचर्हति गन्तादिशाप्तुयोगेएव तन्नियमात्। उक्तञ्च हरिका “सुखक्रियायां स्वातन्त्र्यं प्रधाने कर्मतां गतम्। नियमात् कर्मसंज्ञायाः स्वधर्मेणाभिधीयते” इति सिवमात् ततिबुद्ध्या- दिसूत्रेण तदितरेषां निषेधात् स्वातन्त्र्यं कर्तृत्वमेव स्वधर्मेण तृतीययाऽभिधीयते इति तदर्थः। वस्तुतस्तु प्रयोज्यकर्त्तुरीप्सिततमत्वेऽपि परत्वात् कर्तृसंज्ञया तस्य वाधात् कर्मत्वाप्रसक्तौ गत्यादिसूत्रेण अप्राप्तप्रापकत्परूपविधित्वाश्रयेण गम्यादेः कर्मत्वं विहितं न षाच्यादेरिति द्रष्टव्यम्। उक्तञ्च हरिणा “परत्वादन्तरङ्गत्वादुपजीव्यतथाऽपि च। प्रयोज्यस्यास्तु कर्तृत्वं गत्यादेर्विधितोचितेति”। परत्वात् “विप्रतिषेधे परं कार्यम्” इत्युक्तेः “अपादानसम्प्रदानकरणाधारकर्मणाम्। कर्त्तुश्चोभयसम्राप्तौ परमेव प्रवर्त्तते” इति चोक्तेः “अन्तरङ्गत्वात् पच्यादिरूपप्रकृत्याकाङ्क्षितकर्तृसंज्ञारूपकार्यम् “अन्तरङ्गं बलोय” इति न्यायात् पाच्याद्याकाङ्क्षितकर्मसंज्ञायाः प्रत्ययाश्रितत्वेन दुर्वलत्वादिति भावः। उपजीव्यतया उपजौव्यजातीयतया सर्वेषामेव कारकाणां कर्तृप्रयोज्यत्वेन कर्क्षुरुपजीव्यजातीयत्वादिति फलितोऽर्थः तेन पाच्याद्यापेक्षया तस्योपजीव्यत्वाभावेऽपि न क्षतिः। एवं पाच्यादियोगे प्रयोज्यस्य कर्मसंज्ञायाएवाप्रवृत्तेः न द्विकर्मकत्वं तेष्ममित्यन्यत्र विस्तरः। अकर्मका अपि धातवः हेतुचतुष्टयाधीनाकर्मकक्रियार्थत्वात् चतुर्विधाः। अकर्मकक्रियात्वे हेतवश्च चत्वारी हरिणा प्रदर्शिता यथा “धात्रोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात्। प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रियेति”। धातोः स्ववीधकधातोरर्थान्तरे स्वसजातीयभिन्ने वृत्तेः सामर्थ्यात् स्वविजातीयार्थबोधकत्वादित्येकः। यथा जानातिः ज्ञानं वदन् सकर्मकः प्रवृत्त्यादिकं बोधयन्नकर्मकः नतु गतिवाची गम्यादिः ज्ञानाद्यर्थेऽप्यकर्मकः तयोर्द्वयोरप्यर्थयोः सकर्मकत्वेन स्वसजातीयत्वात्। धात्वर्थेनोपसंग्रहादिति द्वितीयः। कर्मणो धात्वर्थेन उपसंग्रहात् स्वशरीरे प्रवेशनात् यथा जीवत्यादीनां प्राणधारणानुकूलव्यापाररूपक्रियार्थतया तत्कर्मणः प्राणादेर्धात्वर्थेएव प्रवेशः। प्रसिद्धेः सत्तालज्जादिरूपाणामकर्मकत्वेन प्रसिद्धेः। सक्षादिकञ्चानुपदं प्रदर्श्यते तेषां फलसमानाधिकरणव्यापारबोधकत्वादित्यथः। इति तृतोयो हेतुः। कर्मणोऽविवक्षातः अकर्मकः ४। अत्र च कर्मपदं व्यपदेशिवद्भावेन फलस्याप्युपलक्षणं तेन फलस्वाविवश्चायामेत्व गन्यादेरकर्मकत्वमिति कौस्तुभानुसारिणः तेषाञ्च व्यापारपात्रबोधकतया फलावाचित्वान्न लकर्मकत्वमिति द्रष्टव्यम्। अत्र चाविवक्षा नाम येन रूपेणान्वयविवक्षया यस्य कर्मसंज्ञा तेन रूपेणान्वयविवक्षाभावः। तत्र क्वचित् कर्मणोऽविबक्षया यथा पच्यते इत्यादौ, क्वचिच्च कर्मत्वाविवक्षया यथा मातुः स्मर्यते इत्यादौ। अत्र मातुः कर्मत्वेनैव स्मरणान्वये कर्मसंज्ञा न पुनः सम्बन्धत्वेन, तथा विवक्षायामेव कर्मणि षष्ठीविधानात् स्मरणादेः कर्मान्वयसत्त्वेऽपि कर्मत्वेन तदन्वयाभावादकर्मकत्वं तेन भावे लकारादय इति बोध्यम्। क्वचित्तु कार्यप्रवृत्तिवेलायामविवक्षा पश्चाद्विवक्षा। यथा कृतपूर्वी कटम् मुक्तपूर्वी ओदनमित्यादौ। तथाहि कृतं पूर्वमनेनेति विग्रहे तत्कृतमनेनेति पूर्वसूत्रादिनिमबनुर्त्त्य सपूर्वाच्चेति सूत्रेण विद्यमान पूर्वात् पूर्वशब्दादपि इनिर्विहितः तत्र यदि कृतमिति कर्मणि क्तः स्यात्तदा तस्य कटादिरूपकर्मविशेषणतया सापेक्षत्वेन समासादिवृत्तिर्न्न स्यात् एकत्र विशेषणत्वेनोपस्थितस्यान्यत्र विशेषणतयान्वयायोगात् वृत्तिश्चात्र जायते भाष्यादिषु तथाप्रयोगादतोऽवश्यं प्रथमं कर्माविवक्षयाऽकर्मकत्वेन भावे क्तप्रत्यये विहिते तदन्तेन पूर्वादिभिः सुप्सुपेति समासे च कृते तत्पूर्वकात् पूर्वशब्दात् कर्त्तरि इनिप्रत्ययोभवति। पश्चाच्च कर्त्तृकृतक्रियायाः कर्मविशेषाकाङ्क्षायां कटादिकर्मणोऽन्वयः। उक्तञ्च हरिणा “अकर्मत्वे सत्येव क्तान्ते भावाभिधायिनि। पश्चात् क्रियावता कर्त्रा योगो भवति कर्मणाम्। अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः। क्रिया सम्बध्यते तद्वत् कृतपूर्व्यादिषु स्थितेति”। क्रियावतेत्यनेन क्रियाद्वारैव कर्मणीऽन्वय इति द्योतितम् क्रियायाश्च वृत्तिशब्दैकदेशतयाऽनन्वयशङ्कायामाहाविग्रहेति। नास्ति विशेषेण ग्रहोज्ञानं यस्याः सा पृथगुपस्थित्यभावेन ज्ञातुमशक्येत्यर्थः गतादिस्था कर्त्तृबोधकनिष्ठान्तगतपदोप्स्थाप्यगमनकर्त्तृरूपार्थप्रविष्टापि यथा ग्रामं गतैत्यादौ विभिन्नपदोपात्तैरपि ग्रामादिकर्मभिः क्रिया सम्बध्यते तथेत्यर्थः समुदायशक्तिस्वीकारे एक देशान्वयाभ्युपगमादवयवशक्तिस्वीकारे तु तदनुपगमे क्षत्यभाबादिति भावः। कृतपूर्व्यादिष्वित्यादिपदेनाध्वरेष्विष्टीत्यादयोगृह्यन्ते तत्रापि इष्टादिभ्यश्चेत्यनेन कर्त्तरि इनिविधानात्। अत्रेदं बोध्यं “निष्पत्तिमात्रे कर्त्तृत्वं सर्वत्रैवास्ति कारके” इत्युक्तेः कर्मणोऽपि स्वव्यापारद्वारा क्रियानिष्पत्तिहेतुत्वेन कर्तृत्वे स्थिते तद्व्यापारस्य धात्वर्थत्वविवक्षायां धात्वर्थक्रियाश्रयत्वेन तस्य कर्तृत्वं समानानुपूर्वीकमुख्यार्थवोधकधातूपात्तफलाश्रयत्वेन च कर्मत्वमित्येकस्यैव कर्मकर्तृता एवञ्च तत्र धातोरर्थान्तरे वृत्तेरेवाकर्मकत्वम्। तथाहि अन्नं पच्यते स्वयमेवेत्यादौ विक्लित्तिस्तदनुकूलोऽन्नस्थाल्यादिसंयोगरूपो व्यापारश्च तद्विशिष्टो वा पच्यर्थः तयोः फलव्यापारयोरेकनिष्ठतया तद्वोधकधातोरकर्मकत्वं तेन अन्नेन पच्यते खयमेवेत्यादी भावे लकारोपपत्तिः। द्विकर्मकाणान्तु एककर्मणः कर्तृत्वविवक्षयाऽपरस्याविवक्षयैवाकर्मकत्वं पचिदुह्योस्तु कर्मान्तरसत्त्वेऽपि कर्मवद्भावविधानात् सकर्मकत्वं तेन तयोर्न भावे लकारादयः किन्तु कर्मण्येव तेन दुह्यते गवा दुग्धं स्वयमेवेत्यादि। एवञ्च सर्वेषामेव धातूनां कर्मणः कर्तृत्वविवक्षायां कर्मवद्भावे प्राप्ते धातुविशेषयोग एव कर्मवत्कार्य्यातिदेशपे न सर्व धातुयोगे तेन गम्यादियोगे कर्त्तरि वाच्ये न कर्मवद्भावः किन्तु कर्तृवत्कार्थं, भावे तु इष्यते एव कर्मवत्कार्यम्। पच्यादियोगे तु कर्त्तरि भावे च वाच्ये कर्मवद्भाव इति विवेकः। उक्तञ्च “कर्मस्थेऽपि च धात्वर्थे कर्मकर्त्ता च कर्मवत्। कर्तृस्थेऽपि च धात्वर्थे कर्म कर्त्ता च कर्तृवदिति”। कर्मवत् कर्मवत्कार्यवानित्यर्थः अतएव “कर्मवत् कर्मणा तुल्यक्रिये” इति सूत्रे कर्मपदेन कर्मस्थक्रिया लक्षिता शास्त्रकारैस्तेन कर्मस्थक्रियातुल्यक्रियावति कर्त्तरि कर्मवत् कार्यमित्यर्थः क्रिययोस्तुल्यत्वञ्च एकाधिकरणमात्रवृत्तित्वेन तथाच कर्मस्थक्रियया फलेन व्यापारस्य सामानाधिकरण्ये एव कर्मवद्भावविधानात् पच्यादेस्तथाभूतार्थकतया तत्कर्त्तरि कर्मवत्कार्यं, गम्यादेस्तु व्यापारस्योक्तफलसामानाधिकरण्याभावात् कर्त्तृस्थगावकत्वमिति विवेकः। तथा तुल्यक्रिये कर्तरीत्यमिधानेन गम्यादीनामपि भावे कर्मवत्कार्यं यागादि भवत्योव। यद्यपि सर्वेषामेवाकर्म काणां फलव्यापारयोः सामानाधिकरण्यबोधकतया कर्मवद्भावापक्षिस्तथापि सूत्रे कर्मणा तुल्येति निर्देशात् येषां धातूनां मुख्यार्यवाचिनां सकर्मकत्वं तेषामेव कर्मवद्भाव इति गम्यते अस्त्यादेः सत्तादिरूपमुख्यार्थ सकर्मकत्व। भावात् न तत्प्रसङ्गः। भवतेस्बु लाक्षणिकानुभवार्थे वर्त्तमानस्य सकर्मकत्वेऽपि सत्तारूपमुख्यार्थे तथात्वाभावान्न प्रसङ्गः। एवञ्च सर्वेषामेव सकर्मकाणां कर्त्तृकर्मोभयस्थभाचकावेनाव्यवस्थायां हरिणा क्रियाकृतविशेषेण व्यवस्था दर्शिता यथा “विशेष- दर्शनं यत्र क्रिया तत्र व्यवस्थिता। शब्दप्रवृत्तिरन्येषां शब्दैरेव प्रकल्पितेति”। यत्र कर्मणि कर्त्तरि वा विशेषः क्रियाकृतोऽसाधारणधर्मो दृश्यते तत्रैव क्रिया व्यबस्थितेत्यर्थः धात्वर्थयोः फलव्यापाररूपयोः क्रिययोरुभयनिष्ठत्वेऽपि तत्कृतविशेषादेव तन्निष्ठत्वव्यवहार इति भावः। विशेषश्च द्विविधः धातूपस्थाप्यः तदनुपस्थाय्यश्च तत्राभ्यर्हितत्वेन उपस्थितत्वेन च धातूपात्तविशेषस्यैव प्रथमं ग्रहणं तदप्राप्तौ तु अपरस्येति बिवेकः। तेन पच्यादयः स्वोपस्थाप्यस्य कर्त्त्रपेक्षयाऽसाधारणधर्मस्य व्यापाररूपक्रियाकृतस्य विक्लित्तिरूषफलस्य बोधकाः कर्मस्थभावकाएव गम्यादयस्तु नैवं तदुपस्थाप्यफलस्य संयोगादेरुतयनिष्ठतया साधारण्यात् धातूपस्थाप्यविशेषासत्त्वात् धात्वनुपस्थाप्यस्य क्रियाकृतस्य श्रमादिरूपासाधारणधर्मस्य ग्रहणं तस्य च कर्त्तरि दर्शनात् कर्त्तृस्थत्वम्। एवञ्च कर्त्तृस्थादिविभाग एतम्भते न्यायमूल एव। अन्येषां मते पुनः शब्दप्रवृत्तिः कर्मवनुकार्य्यप्रवृत्तिः शब्दैरेव निथामकशास्त्रैरेव प्रकल्पितेति द्रष्टव्यम्। तच्च शास्त्रं यथा “कर्मस्थः पचतेर्भावः कर्मस्थाश्च भिदादयः। कर्त्तृस्थो बुद्ध्यतेर्भावः कर्तृस्थाश्च गमादयः” इति कर्मस्थाः कर्मस्थक्रियार्थका इत्यर्थः एवमग्रेऽपि। सम्प्रदायविदस्तु एतच्छास्त्रमपि न्यायमूलकं पूर्वोक्तरीत्या एतेषां कर्मस्थत्वादिव्यवस्थापनात् अन्यथा प्रातखिकरूपेण तद्गणनस्य कर्तुमशक्यतयाऽव्यवस्थापत्तेरित्याहुः। एवञ्च क्रियाकृतविशेषेणैव क्रियाव्यवस्थेति पक्षमलम्ब्य “निर्वर्त्त्ये च विकार्य्ये च कर्मवद्भाव इष्यते। नतु प्राप्ये कर्मणि तु सिद्धान्तोऽयं व्यवस्थितः” इत्यभियुक्तैर्व्यवस्था भङ्ग्यन्तरेण दर्शिता। तथा च निवर्त्त्यविकार्य्ययोरेव क्रियाकृतस्य उत्प्रत्त्यादिरूपस्य विशेषस्य सत्त्वात्, प्राप्ये तदसत्त्वाच्च तेषु कर्मवद्भावाभावौ बोध्यौ। “क्रियाकृतविशेषाणां सिद्धिर्यत्र ब तिष्ठति” इत्यग्रिमप्राप्यकर्मलक्षणे प्राप्यस्य क्रियाकृतविशेषाभावकथनात् व्यतिरेकेण निर्वर्त्त्यविकार्ययोस्तत्सत्त्वमर्थायातमित्यलं विस्तरेण। सनन्तधातूनां धात्वर्थेच्छार्थकत्वेन कर्तृस्थत्वेऽपि तत्प्रकृतीभूतधातोरेव कर्मस्थकर्तृस्थभावकतया व्यवस्था तत्प्रकृतेरात्मनेपदादिना तदन्तस्यात्मनेपदादिवदिति द्रष्टव्यम्’ बोघस्तु कर्मकर्तरि कर्तरीव यथा ओदनः पच्यते स्वयमेवेत्यादौ ओदनाभिन्नैकाश्रयकबिक्लित्त्यनुकूलस्थाल्यादिसंयोगरूपोव्यापारः। अपरे तु कर्तुराश्रयांशे विशेषणत्ववत् व्युत्पत्तिवैचित्र्येण फलेऽपि विशेषणत्वमङ्गीचक्रुरङ्गीचक्रुश्चात्र नामार्थधात्वर्थयोरपि साक्षादन्वयम्। वस्तुतस्तु तिङर्थाश्रयस्यैव व्युत्पत्तिवैचित्र्येणोभयत्रान्वय इति द्रष्टव्यम्, अकर्मकत्वेन प्रसिद्धाः सत्ताद्यर्थका अभियुक्तैरन्यत्र संगृहीता यथा

“सत्ताजीवनदर्पभीतिशयनक्रीडानिवासक्षयाव्यक्तध्वाननभोगतिस्थितिजरालज्जाप्रमादोदये। मोहे खेटनवेगयुद्धदहनख्यातिक्षरोन्मादके शुद्धिस्वेदपलायनभ्रमणकेशान्तौ प्लुतौ मज्जने। दृप्तौ जागरशोषवक्रगमनोत्साहे मृतौ गंशये म्लानौ मन्दगतौ च नृत्यपतने चेष्टाक्रुधौ रोदने। वृद्धौ हावकृतौ च सिद्धिविरतौ हर्षोपवेशे बले कम्पोद्वेगनिमेषभङ्गयतनार्थे धातवोऽकर्मकाः। दौर्बल्यादिषु चार्थेषु वर्त्तमानास्तु धातवः। वाचका भावमात्रस्य यतस्तस्मादकर्मकाः। कौटिल्यादिषु चार्थेषु प्रोक्ता ये ते तु धातवः। तद्वद्भावेऽकर्मकाः स्युस्तद्वत्कृत्यां सकर्मकाः। क्रियावाचित्वमाख्यातुं प्रसिद्धोऽर्थः प्रदर्शितः। प्रयोगतोऽन्ये मन्तव्या अनेकार्था हि धातवः” इति। ३ आकाशादिमहाभूतेषु। ४ इन्द्रियेषु ५ शब्दाद्याकाशादि गुणेषु। देहस्थेषु “रसासृङ्मांसमेदोऽस्थिमज्जाशुक्राणिं धातव इत्युक्तेषु ६ रसादिषु। ७ मनःशिलाद्यश्मविकारे। ८ कफादौ अमरः। अत्राह सुश्रुतः। “ते धातबोऽपि विद्वद्भिर्गदिता देहधारणात्। विसर्गादानविक्षेपैः सोमसूर्य्यानिला यथा। धारयन्ति जगद् देहं कफपित्तानिलास्तथेति”। ९ अस्थ्नि। १० स्वर्णादौ तत्राष्टघातवो यथा “हिरण्यं रजतं कांस्यं ताम्रं सीसकमेव च। रङ्गमायसरैत्यञ्च धातवोऽष्टौ प्रकीर्त्तिता” इति दानसागरः। “सुवर्णं रजतं ताम्रं लौहं कुप्यञ्च पारदम्। रङ्गञ्च सीसकञ्चैव इत्यष्टौ देवसम्भवाः” इति वैद्यकम्। सप्त धातवो यथा। “स्वर्णं रूप्यञ्च ताम्रञ्च रङ्गं यसदमेव च। सीसं लोहञ्च सप्तैते धातवो गिरिसम्भवाः” इति भावप्र०। “बलीपलितखालित्यकार्श्यावल्यजरामयान्। निवार्य देहं दधति नृणां तद्धातवो यथा। “सुवर्णरूप्य ताम्राणि हरितालमनःशिला। गैरिकाञ्जनकासीससीसलोहाः सहिङ्गुलाः। गन्धकोऽभ्रकमित्याद्या धानवो गिरिसम्भवाः”। नव धातवो यथा “हेमतारारनागाश्च ताम्ररङ्गे च तीक्ष्णकम्। कांस्यकं कान्तलौहश्च धातबो नव कीर्त्तिताः”। माक्षिकं तुत्थिकाभ्रे च नीलाञ्जनशिलाऽलकाः। रसकश्चेति विज्ञेया एते सप्तोपधातवः। शरीरस्थसप्तधातुभवसप्तोपधातवो यथा। “स्तन्यं रजश्च नारीणां काले भवति गच्छति। शुद्धमांसभवस्नेहो यः सा सङ्कीर्त्यते वसा। स्वेदोदन्तास्तथा केशास्तथैवौजश्च सप्तमम्। इति धातुभवाज्ञेया एते सप्तोपधातवः” इति सुखबोधः। ११ लोकेषु १२ वस्तुनि शब्दार्थचि०। रसादेर्धातुवाच्यतायां निरुक्तिस्तत्कर्माणि च भावप्र० उक्तानि यथा “एते सप्तखयं स्थित्वा देहं दधति यन्नृणाम्। रसासृङ्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः। प्रीणनं जीवनं लेपः स्नेहो धारणपूरणे। गर्भोत्पादश्च कर्माणि धातूनां कथितानि च। रसादीनां धातूनां क्रमेण प्रीणनादिकर्माणीति बोध्यम्। एतेषाञ्च पूर्वपूर्बस्योत्तरोत्तरहेतुत्वं तच्च कायशब्दे १९०८ पृ० दर्शितम्। उपधातवः तद्गुणाश्च भावप्र० अन्यथोक्ताः यथा “सप्तोपधातवः स्वर्णमाक्षिकं तारमाक्षिकम्। तुत्थं कांस्यञ्च रीतिश्च सिन्दूरं च शिलाजतु। उपधातुषु सर्वेषु तत्तद्धातुगुणा अपि। सन्ति किन्त्वेषु तेऽत्रोनास्तत्तदंशाल्पभावतः”। तत्र स्वर्णादिधातौ “दह्यन्तेध्मायमानानां धातूनां हि यया मलाः” मनुः। उपधातवश्च गौणधातवस्तेन तत्रापि धातुशब्दप्रवृत्तिः। अतएव उपधात्वभिप्रायेण गैरिकादीनां धातुशब्दवाच्यता दृश्यते यथा “न्यस्ताक्षरा धातुरसेन यत्र” “अकालसन्ध्यामिव धातुमत्ताम्” कुमा०। “वर्द्धयन्निव तत् कूटान् उद्धूतैर्धातुरेणुभिः” रघुः। “त्वामालिख्य प्रणथकुपितां धातुरागैः शिलायाम्” मेघ०। “अद्रीणामिव कूटानि धातुरक्तानि शेरते” मा० आ० १९ अ०। १३ देहादिधारके आत्मनि “स्त्रीपुंसयोस्तु संयोगे विशुद्धे शुक्रशोणिते। पञ्च धातून् स्वयं षष्ठः आदत्ते युगपत् प्रमुः” याज्ञ०। “पञ्च धातून् पृथिव्यादिपञ्चभूतानि शरीरारम्भकतया षष्ठश्चिद्धातुरात्मा प्रभुः शरीरारम्भकादृष्टकर्मयोगितया समर्थः युगपदादत्ते भोगायतनत्वेन स्वीकरोति” मिता० आकाशादौ “तदव्ययमनुद्रिक्तं सर्वव्यापि ध्रुवं स्थिरम्। नवद्वारं पुरं विद्यात् त्रिगुणं पञ्चधातुकम्” भा० आश्व० ३६ अ०। “भूतेषु धातवः पञ्च ब्रह्मा तानसृजत् पुरा। आवृता यैरिमे लोकाः महाभूताभिसंज्ञिताः” भा० शा० १८४ अ०। “अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्टो धातुस्तत् पुरीषम्” छा० उप०। प्रभृतौ “धातोः स्थाने इवादेशं सुग्रीवं संन्यवेशयत्”। “अवेक्ष्य धातोर्गमनार्थमर्थवित्” रघुः। रसादौ “शरीरधातवो ह्यस्य मांसं रुधिरमेव च। नेशुर्ब्रह्मास्त्रनिर्दग्धाः न च भस्माप्यदृश्यत” भा० व० २८९ अ०। परमेश्वरे “अनादिनिधनो धाता विधाता धातुरुत्तमः” विष्णुस०। धातुर्विरिञ्चेरुत्कृष्टः इति वा नामद्वयं कार्य्यकरणात् प्रपञ्चधारणात् वा चिद्धातुः” भा०। “वायुं पूर्वमथो सृष्ट्वा यो धातुर्धातुसत्तमः। धारणाद्धातुशब्दञ्च लभते लोकसंज्ञितम्” हरिवं० २० अ०। केशाद्युषधातौ “काकपदमक्षिका केशधातुयुक्तानि शर्कराबिद्धम्” वृ० सं० ८० अ०। १४ धारके। “अत्यं हविः सचते सच्च धातु चारिष्टगातुः” ऋ० ५। ४४। ३। “धातु सर्वधारकम्” भा०। १५ प्रकारे “त्रिधातवः परमा अस्य गावः” ऋ० ५। ५०। ४ “त्रिधातुः प्रथयद्विभूम” त्रिधातुः त्रिप्रकारः” भा०

धातुकासीस = न० धातुरूपं कासीसम्। कासीसे उपधातुभेदे हेमच०।

धातुकुशल = त्रि० धातुषु कुशलः। १ धातुक्रियायां कुशले। २ देशभेदे च। ३ कूर्म्मविभागशब्दे दृश्यम्।

धातुक्षय = पु० धातूनां क्षयो यत्र। कासरोगभेदे।

धातुघ्न = त्रि० धातुं स्वर्णादि हन्ति हन–टक्। १ धातुनाशन शीले २ काञ्चिके न० हेमच०। तस्य पारदादिधातुमारकत्वात् तथात्वम्।

धातुद्रावक = पु० धातुं द्रावयति द्रु–णिच्–ण्वुल्। धातुद्रुतिकारके (सोहागा) ख्याते पदार्थे पारस्करनि०।

धातुनाशन = त्रि० धातुं नाशयति नश–णिच् ल्यु। स्वर्ण्णादि धातुमारके २ काञ्चिके न० त्रिका०।

धातुप = पु० धातुं पाति रक्षति पा–क। रसरूपे प्रथमधातौ शब्दच०। “आरुह्य धमनीर्गत्वा धातून् सर्वानयं रसः। पुष्णाति, तदनु स्वीयैर्व्याप्नोति च तनुं गुणैः” भावप्र० तस्य सर्वधातुपोषकत्वोक्तेस्तथात्वम्। “रसस्तु हृदयं याति समानमरुतेरितः। स तु व्यानेन विक्षिप्तः सर्वान् धातून् विवर्द्धयेत्। केदारेषु यथा कुल्याः पुष्णन्ति विविधौषधीः। तथा कलेवरे धातून् सर्वान् बर्द्धयते रसः” भावप्र०।

धातुपाठ = पु० धातूनां पाठो यत्र धातवः पठ्यन्तेऽत्र आधारे घञ् वा। पाणिन्यादिप्रणीते धातूनामर्थावबोधकग्रन्थभेदे। “धातुपाठः स्वदाद्यक्रमादन्तादिमक्रमः “धातवः पठिताः पाठसूत्रलोकागभस्थिताः” इति च कविकल्पद्रुमः। एवं पाणिनीयः भूसत्तायामित्यादिधातुपाठोज्ञेयः।

धातुपारायण = पु० धातूनां पारायणं यत्र। धातुप्रतिपादकग्रन्थभेदे।

धातुपुष्पी = स्त्री धातुरिव पुष्पं यस्या जातित्वात् ङीष्। (धाइफुल) ख्याते धातुपुष्प्यां भावप्र०। बहु० वा कप् अत इत्त्वम्। धातुपुष्पिकाऽप्यत्र शब्दरत्ना०। धातकीशब्दे तद्गुणा दृश्याः।

धातुभृत् = पु० धातुं गैरिकादिकमुपधातुं बिभर्त्ति भृ–क्विप् तुक् ६ त०। पर्वते त्रिका०।

धातुमल = पु० ६ त०। धातूनां रसादीनां पाकतो जायमाने केशादौ कफपित्तमलाः केशः प्रस्वेदो नखरोम च। नेत्रविट् चक्षुषः स्नेहो धातूनां क्रमशोमलाः” सुश्रुतः। शुक्रस्य तु मलोनास्ति यथाह भावप्र०। “स्वाग्निभिः पच्यमानेषु मलः षट्सु रसादिषु। षट्सु धातुषु जायन्ते मलानि मुनयो जगुः। यथा सहस्रधा ध्माते न मलं किल काञ्चने। तथा रसे मुहुः पक्वे न मलं शुक्रताङ्गते”। “आहार्य्यस्य रसः सारः सारहीनो मलद्रवः। सिराभिस्तज्जलं नीतं वस्तौ मूत्रत्वमाप्नुयात्” भावप्र०। असृक्करशब्दे ५५९ पृ० तत्पाकप्रकारो दृश्यः।

धातुमाक्षिक = न० धातुरुपधातुरूपं माक्षिकम्। माक्षिके उषधातुभेदे राजनि०।

धातुमारिणी = धातुं मारयति मृ–णिच्–णिनि ६ न० ङीप्। (सोहागा) सर्जिकायां शब्दच०।

धातुराजक = न० धातुषु राजते राज–ण्वुल् धातूनां राजा टच्समा० स्वार्थे क वा। शुक्रे तस्य च सर्वधातूनां चरमत्वात् तथात्वम्।

धातुवल्लभ = न० ६ त०। टङ्गणे राजवल्लभः।

धातुवादिन् = धातुं वदति उपायान्तरेण कर्त्तुम्। कारन्धमे कौशलभेदात् रसायनादिना स्वर्णरौप्यादिकरे हारा०

धातुवैरिन् = पु० ६ त०। गन्धके शब्दच०।

धातुशेखर = न० धातूनामुपधातूनां शेखरमिव। कासीसे उपधातुभेदे हेमच०।

धातूपल = पु० धातुरुपधातुरूप उपलः। कठिनिकायां (खडि) हारा०

धातृ = त्रि० धा–तृच्। १ धारके २ पोषके ३ ब्रह्मणि पु० अमरः “सूर्य्याचन्द्रमसौ धाता यथापूर्वमकल्ययत्” सन्ध्यामन्त्रः ४ विष्णौ। “अनादिनिधनी धाता” विष्णुस०। धातुशब्दे उदा० दृश्यम्। ५ आत्मनि ६ वायुभेदेऽनिसशब्दे १६६ पृ० दृश्यम्। ७ आदित्यभेदे आदित्यशब्दे ६९५ पृ० दृश्यम्। तत्रादित्यभेदे “कौशल्या सुषुवे रामं धातारतदितिर्यथा” रामा० वाल० ९३ अ०। ८ ब्रह्मणः पुत्रभेदे “द्वौ पुत्रौ व्रह्मणस्त्वग्र्यौ ययोस्तिष्ठति लक्षणम्। लोके धाता विधाता च यौ स्थितौ मनुना सह” भा० आ० ६६ अ०। ९ भृगुसुतभेदे “भृगुः ख्यात्यां महभागः पत्न्यां पुत्रानजीजनत्। धातारञ्च विधातारं श्रियञ्च भगवत्पराम्” भाग० ४। १। ३५ १० प्रजासर्गकारकेषु सप्तर्षिषु “सर्गशेषप्रणयनाद्विश्वयोनेरनन्तरम्। पुरातनाः पुराविद्भिः धातार इति कीर्त्तिताः” कुमा०।

धातृपुत्र = पु० ६ त०। ब्रह्मणः पुत्रे सनत्कुमारे शब्दर०।

धातृपुष्पी = स्त्री धातृ पुष्टिकर्त्तृ पुष्पमस्याः ङीप्। (धाइफुल) धातक्याम् अमरः। वा कप् अत इत्त्वम्। धातृपुष्पिका तत्रार्थे अमरः।

धात्र = न० धीयतेऽन्नादिकमत्र धा–आधारे ष्ट्रल्। १ भाजने उणादिवृत्तिः। धाता ब्रह्मा आदित्यो वा देवताऽस्य अण् २ आदित्यदेवताके ३ ब्रह्मदेवताके च द्वादशकपालसंस्कृते पुरोडाशादौ त्रि०। “स यः स धातासौ स आदित्यः। अथ यत्तद्दिशां परमं क्रान्तमेतत्तद्यस्मिन्नेष एतत् प्रतिष्ठित स्तपति। स यः स धातायमेव स धात्रः द्वादशकपालः पुरोडाशो द्वादशकपालो द्वादश मासाः संवत्सरः संवत्सरः प्रजापतिः प्रजापतिर्धाता” शतब्र० ९। ५। १। ३८। “अनुमतिराकासिनीवालीकुहूभ्यश्चरवो धात्रो द्वादशकपालः सर्वहुतः” कात्या० श्रौ० १८। ६। २१।

धात्री = स्त्री धीयते पीयते धेट–कर्मणि ष्ट्रन् धीयन्ते पुरुषार्था अनया वा धा–करणे ष्ट्रन्, विश्वं वा दधाति ष्ट्रन् षित्त्वात् ङीष् तृच् ङीप् वा। १ उपमातरि (धाइमा)। भावप्र० धात्रीलक्षणादि “पीताय (पानाय) यदि बालस्य विदध्यादुपमातरम्। सुविचार्य्यगुणान् दोषान् कुर्य्याद्धात्रीं ततेदृशीम्। सवर्णां मध्यवयसां सच्छीलां मुदितां सदा। शुद्धदुग्धाम्बहुक्षीरां सवत्सामतिवत्सलाम्। स्वाधीनामल्पसन्तुष्टां कुलीनां सज्जनात्मजाम्। कैतवेनापरित्यक्तां निजपुत्रदृशं शिशौ। अथ निषिद्धां धात्रीमाह। शोकाकुला क्षुधार्त्ता च श्रान्ता ध्याधिमती सदा। अत्युच्चानितरां नीचा स्थूलातीव भृशंकृशा। गर्भिणी ज्वरिणी चापि लम्बोन्नतपयोधरा। अजीर्णभोजिनी चापि तथा पथ्यविवर्जिता। आसक्ता क्षुद्रकार्य्ये तु दुःस्वार्त्ता चञ्चलापि च। एतासां स्तन्यपानेन शिशुर्भवति सामयः। अथ बालस्य स्तन्यपानविधिः। तत्र माता प्रशस्ताङ्गी चारुवस्त्रा पुरोमुखी। उपविश्या- सने सम्यग्दक्षिणं स्तनमम्बुना। प्रक्षाल्येषत् परिस्राव्य मन्त्राभ्यामभिमन्त्रितम्। उदङ्मुखं शिशुं क्रोडे शनैः सन्धार्य्य पाययेत्। मातेत्युपलक्षणं धात्री च ईषत्परिस्राव्य। अन्यथा वैगुण्यमाह सुश्रुतः। अस्रावितं स्तनं बालः पिबन् स्तन्येन भूयसा। पूर्णस्रोता वमीकासश्वासैर्भवति पीडितः। अभिमन्त्रणमाह। क्षीरनोरनिधिस्तेऽस्तु स्तनयोः क्षीरपूरकः। सदैव सुभगो बालो भवत्येष महाबलः। पयोऽमृतसमं पीत्वा कुमारस्ते शुभानने। दीर्घमायुरवाप्नोतु देवाः प्राप्यामृतं यथा। मन्त्रौ च पितृस्थानेन व्राह्मणेन पठनीयौ। यावत् मन्त्र पाठस्ताबन्मात्रा धात्र्या वा दक्षिणहस्तेन स्पर्शः कार्य्यः” “उवाच धात्र्या प्रथमोदितं वचः” रघुः। “धात्र्यङ्गुलीभिः प्रतिसार्य्यमाणः” कुमा०। २ क्षितौ च तस्या विश्वधारणात्। “मेखलेव स्थिता धात्र्या देवासुरविभागकृत्” सू० सि०। ३ धारणकत्त्र्यां स्त्रियां। ३ आमलक्यां च मेदि०। तस्याः धारणादेः पुरुषार्थसाधनत्वात् तथात्वम्। आमलकीशब्दे ७६४ पृ० तद्गुणा उक्ताः। तस्या उत्पत्तिर्माहात्म्यञ्च पाद्मोत्तरख० १२७ अ० उक्तं यथा “अथ क्षिप्तेभ्यो वीजेभ्यो वनस्पत्यः स्त्रियोऽभवन्। धात्री च मालती चैव तुलसी च नृपोत्तम!। स्वधामवा स्मृता धात्री माभवा मालती तथा। गौरीभवा च तुलसी तमःसत्त्वरजोगुणा” स्थानान्तरे तत्रैवतन्माहात्म्यं यथा

“शृणुष्व धात्रीमाहात्म्यं सर्वपापहरं शुभम्। यत् पुरा हरिणा प्रोक्तं वशिष्ठं प्रति नारद!। धात्री वत्स! नृणां धात्री मातृवत् कुरुते कृपाम्। दद्यादायुः पयः पानात् स्नानाद्वै धर्मसञ्चयम्। अलक्ष्मीनाशनं सद्योऽप्यन्ते निर्वाणमेव च। विघ्नानि नैव जायन्ते धात्रीस्नानेन वै नृणाम्। तस्मात् त्वं कुरु विप्रेन्द्र! धात्रीस्नानं हि यत्नतः। प्रयास्यसि हरेर्धाम देवत्वं प्राप्यनारद!। यत्र यत्र मुनिश्रेष्ठ! धात्रीस्नानं समाचरेत्। तीर्थे वापि गृहे वापि तत्र तत्र श्रियः स्थिताः। धात्रीस्नातानि दिवसे यस्यास्थीनि कलेवरे। प्रक्षालितानि विप्रेन्द्र! न स स्याद्गर्भसम्भवः। धात्रीफलेन विप्रेन्द्र! येषां केशाश्च रञ्जिताः। ते नराः केशवं यान्ति नाशयित्वा कलेर्मलम्। धात्रीफलं महापुण्यं स्नाने पुण्यतरं स्मृतम्। पुण्यात् पुण्यतरं वत्स! भक्षणे मुनिपुङ्गव!। न गङ्गा न गया पुण्या न काशी न च पुष्करम्। एकैव च यथा पुण्या धात्री माधववासरे। कार्त्तिके मासि विप्रेन्द्र! धात्रीस्नानं समाचरेत्। यश्च तज्जलमश्नीयात् सोऽश्वमेधमवाप्नुयात्। धात्रीफलं स्मरेद्यस्तु सदैव मुनिसत्तम!। प्राग्जन्मनि कृतात् पापात् मुच्यते नात्र संशयः। संस्मरेद्यस्तु धात्रीं तामहन्यहनि मानवः। मुच्यते पातकैः सर्वैर्मनोवाक्वायसम्भवैः। धात्रीफलान्यमावास्यामष्टमीनबमौषु च। रविवारे च संक्रान्तौ संस्मरेन् मुनिपुङ्गव!। यस्य गेहे मुनिश्रेष्ठ! धात्री तिष्ठति सर्वदा। तस्य गेहं न गच्छन्ति प्रेतकुष्माण्डराक्षसाः। धात्रीस्नाने हरेर्नाम्नि जागरे हरिवासरे। जन्मबन्धो विनश्येत हयमेधायुतं फलम्। स्नायादामलकैर्यस्तु कार्त्तिके हरिवत्सल!। परितोषं समायाति तस्य वै माधवः स्वयम्। धात्रीच्छायां समासाद्य कुर्य्यात् श्राद्धन्तु यो मुने!। मुक्तिं प्रयान्ति पितरः प्रसादात्तस्य वै हरेः। मूर्ध्नि पाणौ मुखे कण्ठे देहे च मुनिसत्तम!। धत्ते धात्रीफलं यस्तु स महात्मा स पुण्यभाक्। धात्रीफलविलिप्ताङ्गो धात्रीफलविभूषितः। धात्रीफलकृताहारो नरो नारायणो भवेत्। यः कश्चिद्वैष्णवो लोके धत्ते धात्रीफलं मुने!। प्रियो भवति विष्णोः स मनुष्याणाञ्च का कथा। धात्रीफलानि यो नित्यं वहते करसंपुटे। तस्य नारायणो देवो वरमेकं प्रयच्छति। धात्रीफलं न मोक्तव्यं कदाचित् करसंपुटात्। य इच्छेद्विपुलान् भोगानन्ते यो मुक्तिमिच्छति। धात्रीफलकृतां मालां कण्ठस्थां यो वहेन्न हि। स वैष्णवो न विज्ञेयो विष्णुभक्ति परोऽपि च। न त्याज्या तुलसीमाला धात्रीमाला विशेषतः। तथा रुद्राक्षमालापि धर्मकामार्थमिच्छता। यावल्लुठति कण्ठस्था धात्रीमाला नरस्य हि। तावन्मनसि हृत्स्थोऽपि सदा लुठति केशवः। यावद्दिनानि वहते घात्रीमालां करे नरः। तावद्युगसहस्राणि वैकुण्ठे वसतिर्भवेत्। सर्वदेवमयी धात्री वासुदेवमनःप्रिया। आरोपणीया सेव्या च सेचनीया सदा बुधैः। एतत्ते सर्वमाख्यातं धात्र्या महात्म्यमुत्तमम्। श्रोतव्यञ्च सदा सद्भिश्चतुर्वर्गफलदम्” अधिकमामलकीशब्दे दृश्यम्। २ जनन्यां विश्वः। “पुनर्धात्रीं पुनर्गर्भमोजस्तस्य प्रधायति” याज्ञ०।

धात्रीपत्र = न० धात्र्या इव पत्रमस्य। तालीशपत्रे राजनि० ६ त०। आमलक्याः पत्रे।

धात्रीपुत्र = पु० ६ त०। उपमातुः सुते हेमच०।

धात्रीफल = न० ६ त०। आमलकीफले तस्य पाकविशेषगुणाः। “अङ्गारपाकमृदुयत्नसुपाचितानि सिन्धूत्थहिङ्गुमरिचादिसमन्वितानि। तप्ते घृते पुनरपि प्रतिभर्जितानि धात्रीफलानि जनयन्ति हि जाठराग्निम्” वैद्यके उक्ताः।

धात्रेयी = स्त्री धात्र्या अपत्यम् स्त्री स्वार्थे वा ढक् ङीप्। १ धात्र्याः स्त्र्यपत्ये २ धात्र्याञ्च। “दूत्यः सखी नटी दासी धात्रेयी प्रतिवेशनी” सा० द०। स्वार्थे क तत्रार्थे। “अतश्चतुर्थ्यां चन्द्रन्तु प्रमादाद्वीक्षते यदि। पठेद्धात्रेयिकावाक्यं प्राङमुखो वाप्युदङ्मुखः” ति० त०। धात्रेयिकावाक्यञ्च “सिंहः प्रसेनमबधीत् सिंहो जाम्बुवता हतः। सुकुमारक! मा रोदीस्तव ह्येषस्यमन्तकः विष्णुपु० “अन्धं वृद्धं च तं मत्वा न सा देवी जगाम ह। स्वान्तु धात्रेयिकां तस्मै वृद्धाय प्राहिणोत् तथा”। “अवमत्य ददौ मूढा शूद्रां धात्रेयिकां मम” भा० आ० १०५ अ०।

धात्र्यरिष्ट = पु० “धात्रीफलसहस्रे द्वे पीडयित्वा रसं भिषक्। क्षौद्राष्टभागं पिप्पल्याश्चूर्णार्द्धकुडवान्वितम्। शर्करार्द्धतुलोन्मिश्रं पक्वं स्निग्धपटे स्थितम्। प्रपिबेत् पाण्डुरोगार्त्तो जीर्णे हितमिताशनः। कामलापाण्डुहृद्रोगवातासृग्विषमज्वरान्। कासहिक्काऽरुचिश्वासानेषोऽरिष्टः प्रणाशयेत्” चक्रदत्तोक्ते थात्र्यारसपक्वे रिष्टनाशके पदार्थे।

***