धर = त्रि० धृ–अच्। १ धारके “रथचरणधराङ्गनाकराब्जैः” माघः गदाधरः चक्रधरः। २ पर्वते ३ कर्पासतूलके ४ कूर्मराजे ५ वसुभेदे च मेदि०। “उत्कं धरं द्रष्टुमवेक्ष्य शौरिम्” माघः। कूर्मराजस्य भूमिधारकत्वात् तथात्वम्। “धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः। प्रत्यूषश्च प्रभाषश्च वसवोऽष्टाविति स्मृताः” भा० आ० ६६ अ०।

धरण = त्रि० धृ–युच्। १ धारके २ अद्रिपतौ ३ लोके ४ स्थले ४ धान्ये ५ सूर्य्ये च पु० हेमच०। ७ अर्कवृक्षे ८ सेतौ त्रिका०। “तुल्या यवाभ्यां कथिताऽत्र गुञ्जा वल्लस्त्रिगुञ्जो धरणं च तेऽष्टौ” लीला० उक्ते ९ चतुर्विंशतिरत्तिकामिते मानभेदे न०। “पलं सुवर्णाश्चत्वारः पलानि धरणं दशेति” मनूक्ते १० दशपलमितते ११ पलस्य दशमांशे वैद्यकपरिभाषा “माषैश्चतुर्भिः शाणः स्यात् धरणः स निगद्यते। सुश्रुतोक्ते १२ चतुर्माषकपरिमाणे पु०। भावे ल्युट्। १३ धारणे न०। “सारं धरित्रीधरणक्षमञ्च” कुमा०।

धरणप्रिया = स्त्री जिनानां शासनदेवताभेदे हेमच०।

धरणि(णी) = स्त्री धृ–अनि। १ पृथिव्यां अमरः वा ङीप्। ङीबन्तः २ शालमलिवृक्षे शब्दच०। ३ कन्दभेदे राजनि०।

धरणि(णी)ज = धरणितो जायते जन–ड। १ मङ्गले २ नरकासुरे च ३ धरणिजातमात्रे त्रि० “धरणिजे चतुर्थगे ज्वरजठराशृगुद्भवः” वृ० स० १०४ अ०। ४ सीतायां स्त्री।

धरणि(णी)धर = पु० धरणिं(णीं) धरति धृ–अच् ६ त०। १ पर्वते २ कच्छपे च राजनि०। ३ विष्णौ हला० गोवर्द्धनधारित्वात्तस्य तथात्वं “स हि संवर्त्तको वह्निरनिलो धरणीधरः” विष्णुस०। “शेषदिग्गजादिरूपेण धरणीं धरतीति” भा०। “परमर्षिजनभुवनपतिः धरणिधरः श्रुतिविनयविधिः” भा० शा० ३४८ अ०। पर्वते “धरणीधरदुहि- तुर्भयादकौ” माघः। ६ शिवे “प्रभवं सर्वभूतानां धारणं धरणीधरम्” भा० आश्व० ८ अ० शिवस्तवे

धरणि(णी)रुह = पु० धरण्यां रोहति रुह–क ७ त०। वृक्षे “धरणिरुहाधिरुहो बधूर्लतायाः” माघः।

धरणीकन्द = पु० धरणीनामकः कन्दः। १ कन्दभेदे कन्दालौ धाराकन्दे राजनि०।

धरणीकीलक = पु० धरण्याः कीलक इव। पर्वते शब्दर०।

धरणि(णी)धृत् = पु० धरणिं(णीं) धरति धृ–क्विप् तुक्। १ पर्वते २ अनन्ते देवे च “माहात्म्यं श्रोतुमिच्छामि। शेषस्य धरणीधृतः” हरिवं० १२० अ०।

धरणीपुर = पु० धरण्याकारं पुरम्। धराकारे चतुरस्रे मण्डले न०। धरणीसदनादयोऽप्यत्र।

धरणीप्लव = पु० धरण्याः प्लवो यस्मात्। समुद्रे त्रि०।

धरणीभृत् = पु० धरणीं बिभर्त्ति भृ–क्विप् तुक् च। १ पर्वते २ विष्णौ ३ अनन्ते च। “प्रावृषीवातिवृष्टानि शृङ्गाणि धरणीभृताम्” हरिवं० २४९ अ०।

धरणीश्वर = पु० ६ त०। १ शिवे शब्दरत्ना० २ भूमिपतौ ३ विष्णौ च

धरणीसुत = पु० ६ त०। १ मङ्गले अवानेयशब्दे दृश्यम्। २ नरकासुरे कुजशब्दे दृश्यम्। ३ सीतायां स्त्री कालिकापु० ३७ अ० तत्कथा दृश्या।

धरा = स्त्री धरति विश्वं धृ–अच्। १ पृथिव्याम् अमरः २ गर्भाशये ३ मेदसि च मेदि० ३ नाड्यां राजनि०। “धरायां तस्य संरम्भं सीताप्रत्यर्पणैषिणः” रघुः। दानार्थकल्पितायां सुवर्णमयधरायां तद्विधानादि मत्स्यपुराणोक्तं हेमाद्रिदानखण्डे दर्शितं यथा। “मत्स्य उवाच। अथातः सम्प्रवक्ष्यामि घरादानमनुत्तमम्। पापक्षयकरं नॄणाममङ्गल्यविनाशनम्। कारयेत् पृथिवीं हैमीं जम्बुद्वीपानुकारिणीम्। मर्यादापर्वतवतीं मध्ये मेरुसमन्विताम्। लोकपालाष्टकोपेतां नववर्षसमन्विताम्। नदीनदशतोपेतामन्ते सागरवेष्टिताम्” “अनुकारिणीम् सदृशीमित्यर्थः। इह हि जम्बुद्वीपसदृशीं कुर्य्यादित्युक्तेः निखिलनगनगरसरोवरवनाद्यन्वितमहीसादृश्यप्राप्तौ मर्यादापर्वतवतीमित्यादिना तावन्मात्रान्वितधरण्यनुकार इति गम्यते। इतरथा सामान्येनैव तदवगतेर्विशेषानर्थक्यप्रसङ्गात्, तदयमर्थः हैमीं पृथ्वीं कुर्य्यादित्युक्ते सप्तद्वीपवत्याः प्रसङ्गे जम्बुद्वीपानुकारिणीमित्युच्यते तत्रापि नानापर्वतानुकारप्रसङ्गे मर्य्यादापर्वतवतीमिति” तथा सति मेरोरनुकरणप्राप्तौ मध्ये मेरुसमन्वितामिति नानादेवगणव्यावृत्त्यर्थं लोकपालाष्टकोपेतामिति। एवं च असंख्येयपक्षाश्रयणे पुराणान्तरोपदर्शितवर्षचतुष्टयादिपक्षपरिग्रहशङ्कानिवृत्त्यर्थंनववर्षसमन्वितामित्युच्यते। तत्र जम्बुद्वीपमुपवर्णितं विष्णुपुराणे” हेमा० दा०। “नववर्षन्तु मैत्रेय! जम्बुद्वीपमिदं मया। लक्षय जन स्तारं सक्षपात् कथितं तव। जम्बुद्वीपं समावृत्य लक्षलोजनविस्तरः। मैत्रेय! बलयाकारः स्थितः क्षारोदधिर्बहिः। जम्बुद्वीपः समस्तानां द्वीपानां मध्यतः स्थितः। तस्यापि मेरुर्मैत्रेय! मध्ये कनकपर्वतः। चतुरशीतिसाहस्रयोजनैरस्य चोच्छ्रयः। प्रतिष्ठा षोडशाद्धस्ताद्वात्रिंशन्मूर्ध्नि विस्तृतः। मूले षोडशसाहस्रो विस्तारस्तस्य सर्वतः” पुराणान्तरे तु, अष्टसष्टियोजनोच्छ्रय इत्युक्तम्। तथा “मेरोश्चतुर्दिशं तत्र नवसाहस्रविस्त तम्। इलावृतं महाभाग! चत्वारश्चानुपर्वताः विष्कम्भा रचिता मेरोर्यो जनायुतमुच्छ्रिताः। पूर्वेण मन्दरोनाम दक्षिणे गन्धमादनः। वैभ्राजः पश्चिमे पार्श्वे सुपार्श्वमोत्तरे स्मृतः” मर्य्यादापर्वतास्तु, ब्रह्माण्डपुराणे दर्शिताः” “जादरोदेवकूटश्च पूर्वस्यान्दिशि पर्वतौ। तौ दक्षिणोत्तरातामावानीलनिषधायतौ। कैलासोहिमवांश्चैव दक्षिणे वर्षपर्वतौ। पूर्वपश्चायतावेतावर्णवान्तव्यवस्थितौ। त्रिशृङ्गोजारुधिश्चैव उत्तरौ वर्षपर्वतौ। पूर्वपश्चायतावेतावर्णवन्तव्यवस्थितौ। निषधः पारिया(पा)त्रश्च पश्चिमौ वर्षपर्वतौ। तौ दक्षिणोत्तरायायामावानोलनिषधायतौ”। नीलनिषधपर्वतौ तु, अग्ने वक्ष्येते। “लोकपालाष्टकोपेतामिति, लोकपाला इन्द्रादयोऽष्टौ, तेषां लक्षणं पूर्वमुक्तं ब्रह्माण्डदाने” तत्सन्निवेशाश्च मेरोरुपरि पद्रक्षिणक्रमेण पूर्वादिदिक्षु कर्त्तव्याः। नववर्षसमन्वितामिति। वर्षोपवर्णनञ्च, ब्रह्माण्डपुराणे “उत्तरं तत्समु हिमाद्रेश्चैव दक्षिणम्। एतद्वै भारतं नाम भारती यत्र न्ततिः। भारतं प्रथमं वर्षं ततः किंपुरुषं स्मृतम्। हरिवर्षं तथैवान्यं मेरोर्दक्षिणतो द्विज!। रम्यकं चोत्तरे वर्षं तस्यैवानु हिरण्मयम्। उत्तराः करवश्चैव यथा वै मारतं तथा। मेरोः पूर्वण भद्राश्च कतुमालं च पश्चिमे। वर्षे द्वे तु समाख्याते तयोर्मध्यनिलावृतम्। नवसाहस्रमेतेषामेकैकं द्विजसत्तम!” तथा। “हिनवान् हमकूटश्च निषघश्चव दक्षिणे। नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्वताः। सहस्राद्वितयोच्छायास्तावाद्वस्तारिणश्च ते। लक्षप्रमाणौ द्वौ मध्ये दशहीनास्तयापरे” “लक्षप्रमाणावित्यादि इलावृतस्योभयपार्श्ववर्तिनौ नीलनिषधौ द्वौ पर्वतौ दैर्घ्येण लक्षगुणौ विज्ञेयौ, तद्बाह्यवर्त्तिनौ श्वेतहेमकूटौ नवतिसहम्रयोलना प्रणौ विज्ञेयौ, तथा तद्बाह्यस्थितौ शृङ्गीहिमवन्तौ अशीतिसहस्रयोजनप्रमाणावित्यर्थः। अत्र युक्तिरुक्ता मत्स्यपुराणे, “द्वीपस्य मण्डलीभावात् ह्रासवृद्धिः प्रकार्त्तितेति”। ब्रह्माण्डपुराणे “मेरोस्तु पश्चिमे भागे नवसाहस्रसम्मित। चतुस्त्रिंशत्सहस्राणि गन्धमादनपर्वतः। वत्वारिंशत्सहस्राणि परिवृद्धो महीतलात्। सहस्रमवगाहे तु सति द्विगुणविस्तरः। पूर्वोण माल्यबान् शैलस्तत्प्रमाणः प्रकीर्त्तितः” “अत्र शतसहस्रादियाजनपरिमाणानां पृथिव्यादीनां कर्तुमशक्यत्वात् योजनसहस्रस्थाने अर्द्धाङ्गुलादिमानं परिकल्प्य यथोक्तसंख्यातारतम्यमनुष्ठेयम्। नदीनदशतोपेतमिति, नद्यो भासीरथीप्रभृतिकाः, नदाः शोणादयः, तेषां साकल्येन विधातुमशक्यत्वात् यावच्छक्यमनुकारः कर्त्तव्यः। अन्ते सागरवेष्टितामिति, यद्यपि यावत्परिमाणा पृथ्वी तावानेव सागरः तथाप्यनुकारमात्रोपदेशात् शक्यानुकारमात्रमाचरणीयम्” हेमा० “महारत्नसमाकीर्णां वसुरुद्रार्कसंयुताम्। हेम्नः पलसहस्रेण तदर्द्धं वाथ शाक्तितः। शतत्रयेण वा कुर्यात् द्विशतेन शतेन वा। कुर्यातञ्चपलादूर्द्धमशक्तोऽपि विचक्षणः। तुलापुरुषवत् कुर्यात् लोकेशावाहनम्बुधः। ऋत्विङ्मण्डपसम्भारभूबणाच्छादनादिकम्। वेद्यां कृष्णाजिनं कृत्वा तिलानामुपरि न्यसेत्। तथाष्टादश धान्यानि रसांश्च लवणादिकान्। तथाष्टौ पूर्णकलशान् समन्तात् परिकल्पयेत्। वितानकञ्च कौशेयं फलानि विविधानि च। तथांशुकानि रम्याणि श्रीखण्डशकलानि च। इत्येवं रचयित्वा तामधिवासनपूर्वकम्। शुक्लमाल्पाम्बरधरः शुक्लाभरणभूषितः। प्रदक्षिणं ततः कृत्वागृहीतकुसुमाञ्जलिः” मत्स्यपु० “महारत्नेत्यादि, महारत्नानि, माणिक्यप्रभृतीनि परिभाषायां, दर्शितानि, वसुरुद्रार्करूपमुक्तं ब्रह्माण्डदाने, आच्छादनादिकमित्यादिशब्देन देशकालवृद्धिश्राद्धदेवादिपूजाव्राह्मणवाचनाधिवासनादिसर्वं तुलापुरुषोक्तमनुष्ठेयं पूर्णकलशान् स्रग्गनपञ्चरत्नदूर्वाङ्कुरचूतपल्लवान्वितानित्यवधेयं वितानं पञ्चवर्णमिति। प्रदक्षिणं कृत्वेति, त्रिःप्रदक्षिणमावृत्येत्यर्थः, प्रदक्षिणादिकं च द्वितीयदिवसे पूणाहुत्यन्तकर्म- शेषसमाप्तौ सर्वौषधिस्नानानन्तरमनुष्ठोयम्” हेमा “नमस्ते सर्वदेवानां त्वमेक भवनं यतः। धात्री च सर्वभूतानामतः पाहि वसुन्धरे!। वसून् धारयसे यस्मात् बसु चातीव निर्मलम्। वसुन्धरा ततोजाता तस्मात्पाहि भयादलम्। चतुर्मुखोऽपि नोपच्छेद्यस्यादन्तं तवाचले। अनन्तायै नमस्तस्मात् पाहि संसारकर्दमात्। त्वमेव लक्ष्मीर्गोविन्दे शिव गौरीति संस्थिता। गायत्री ब्रह्मणः पार्श्वे ज्योत्स्ना चन्द्रे रवौ प्रभा। बुद्धिर्वृहस्पतौ ख्याता मेधा मुनिषु सास्थता। विश्वं व्याप्य स्थिता यस्मात्ततोविश्वम्भरा मता। धृतिः क्षितिः क्षमा क्षौणी पृथ्वी वसुमती रसा। एताभिर्मूर्त्तिभिः पाहि देवि! ससारसागरात्। एवमुच्चार्य्य तां देवीं ब्राह्मणेभ्यो निवेदयेत्। धरार्द्ध वा चतुर्भागं गुरवे प्रतिपादयेत्। शेषञ्चैवाथ ऋत्विगभ्यः प्रणिपत्य विसर्जयेत्” मतुस्यपु० पत्रापि पूर्ववद्दानवाक्यमुच्चार्य्य जलपूर्वं दानमाचार्य्यानुज्ञया अन्येभ्योपि दानं दीनानाथादिभ्यः। स्वल्पे त्वेकाग्निविधानं, भूमिपतिकर्त्तव्ये कर्मणि ग्रामादिदक्षिणादानम् अशक्तकर्तृके यथाशक्ति सुवर्णदक्षिणादानमित्यनुसन्धैयम्। अथ ब्राह्मणवाचनानन्तरं देवतापूजनविसर्जनानि कुर्य्यात्”। हेमा० आर्थर्वणगोपथब्राह्मणे, “अथ रोहिण्यां संकल्प्योषितो ब्रह्मा यथावीजरसरत्नगन्धावकीर्णतीर्थोदकपूर्णकलशमभिमृष्टाभिषेकर्मन्त्रैर्यथोक्तैर्दातारमभिषिञ्चति। “व्रतेन त्वं व्रतपते” इति व्रतमुपैत्यायाचिताशनावधःशायिनां भवती, व्रतोपचरं यथाशक्त्येकरात्रं पञ्चरात्रं वा द्वादशरात्रं व्रतञ्चरित्वा श्चोभूते तन्त्रमाज्यभागान्तं कृत्वान्वारभ्याथाज्य जुहुयात् कामसूक्तं कालसूक्तं पुरुष सूक्तमित्रथ सुवर्णमयीं भूमिं भूमेः प्रकृतिं गोचर्मभात्रां कृत्वानीय बेद्युत्तस्यां वेदिमित्युपस्थाप्य “गिरयस्ने पर्वता” इति पर्वतानवस्थाप्य हिरण्यरजतमणिहक्ताप्रवालकादिभिरुप्रशोभयेद्यदहः संप्रयतीरिति (सामछन्दसा नेति नदीः कल्पयित्वा रसैश्च परिपूरयेत् “अपरमग्रमसि समुद्रन्त्वाभ्यंवसृजामीति समुद्रान्) वनस्पतिः सह देवैर्नश्रापयन्निति “वृहस्पतिर्नेति” वनस्पतीनन्यांश्च यज्ञे त्वा मनमा सङ्कल्पयेन्मनसा सङ्कल्पवतीह भवात वियीन् बिभ्रतीति नमस्कारयित्वा सत्यं वृहस्पत्यनुवाकीये देवासोदिव्येकादशस्थेति, पुण्याहं वाचयेत् संस्थापयेन्न च दिवो देवज्ञातेनेत्यभिमन्त्र्य ब्राह्मणेभ्यो दद्याद्दातुरेषास्मैरोहिणीकामं निकामं वा दुःखं इति। “यथा रोहन्ति वीजानि हलाकृष्टे महीतले। एवं कामाः प्ररोहन्ति प्रेत्येह मनसा सदा। सर्वेषामेव दानानां यत्फलं समुदाहृतम्। तत् प्राप्नोति च विप्रेभ्यो दत्त्वा भूमिं यथाविधि”। मत्स्यपुराणे “अनेन विधिना यस्तु दद्याद्धेमधरां शुभाम्। पुण्यकालेऽभिसंप्राप्ते स पदं याति वैष्णवम्। विमानेनार्कवर्णेन किङ्किणीजालमालिना। नारायणपुरङ्गत्वा कल्पत्रयमथो वसेत्। पुत्रपौत्रप्रपौत्रांश्च तारयेदेकविंशतिम्। इति पठति य इत्थं यः शृणोति प्रसङ्गादपि कलुषवितानैर्मुक्तदेहः समन्तात्। दिवममरवधूमिर्याति संप्रार्थ्यमानः पदममरसहस्रैः सेवितं चन्द्रमौलेः” लिङ्गपु० उक्तविधिस्तु तत्र खण्डे दृश्यः।

धराकदम्ब = पु० धराजातः कदम्बः। धाराकदम्बे हारा०।

धराङ्गुर = पु० धराया अङ्कुर इव। वायुफले शोकरे हारा०।

धरात्मज = पु० ६ त०। १ मङ्गलग्रहे २ नरकासुरे च ३ सीतायां स्त्री तत्कथा कालिकापु० ३७ अ० दृश्या। धरापुत्रादयोऽप्यत्र।

धराधर = पु० धरां धरति धृ–अच्। १ पर्वते २ अनन्ते ३ विष्णौ च। “सत्यमेधा। धराधरः” विष्णुस०। “अ शैरशेषैः शेषाद्यैर शषां धारयन् धराम्” भाष्यकृतवाक्ये तन्निरुक्तिः।

धराधिप = पु० ६ त०। नृपे “माहेश्वरींमथ सभां समासाद्य धराधिपः” भा० व० ४८ अ०। धराधिनाथधराधीशादयोऽत्र

धरामर = पु० धरायामभर इव। १ भूदेवे ब्राह्मणे धरासुरादयोऽप्यत्र।

धरित्री = स्त्री धृ–इत्र गौरा० ङीष्। भूमौ अमरः “सारं धरित्रीधरणक्षमञ्च” कुमा०। “गुरुर्धरित्री क्रियतेतरां त्वया” माघः।

धरिमन् = पु० धृ–इमनिच्। तुलापरिमाणे निरु०। “तथाधरिममेयानां शतादभ्यधिके बवः” मनुः।

धरीमन् = पु० धरिमन् + छान्दसो दीवः। १ सारभूते वेदिरूपे स्थाने। “अयं जातो मनुषो धरीमणि” ऋ० १। १२८। १ “धरीमणि सारनूते वेदिरूपे स्थाने” भा० २ धारके त्रि०। “अमचन् पयसा धरीमणि” ऋ० ९। ८६। ४ “धरीमणि धारके” भा०।

धरुण = त्रि० धृ–उनन्। धारके “धरुणोऽस्य पानाय” ताण्ड्य बा० ९। १। ६। “धरुणोऽसि सर्वधारकोऽसि अपानेन प्राणवायोः शरीरे धारणात् धारयिता अपानः” भा०। स्त्रियां गौरा० ङीष् वा। “धरुण्यसि शाले! वृहच्छन्दापूतिधारणः” अथ० ३। १२। ३ पक्षे टाप च। “धद्यसि धरुण्क स्तृता विश्वकर्मणी” यजु० १३। १६२ उदके निघण्टुः ३ वह्नौ च “उपसृजन् धरुणं मात्रे धरुणो मातरं धयन्” यजु०८। ५१ “धारयतीति धरुणोऽग्निः” वेददी० ४ धारायाञ्च “अपामतिष्ठद्धरुणह्वरम्” ऋ० १। ५४। १० धरुणशब्दो धारावचनः धरुणह्वरम् धारानिधकम्” भा० ५ एकविंशतौ ६ आदित्ये च तयोस्तथात्वं च शतब्रा० ८। ४। १। १२ उक्तं यथा “धरुण एकविंशतिः” इति। य एवैकविंशस्तोमस्तं तदुपदधाति। तद्यत्तमाह धरुण इति प्रतिष्ठा वै धरुणः प्रतिष्ठैकविंशोऽथो असौ वा आदित्यो धरुण एकविंशस्तस्य द्वादश मासाः पञ्चऽर्तवस्त्रय इमे लोका असावेवादित्यो धरुण एकविंशस्तद्यत्तमाह धरुण इति यदाह्येवैषोऽस्तमेत्यथेदं सर्वं ध्रियते आदित्योहर्भूत्वा पश्चात्तस्थौ तदेव तद्रूपमुपदधात्यथ संवत्सररूपाण्युपदधाति” “धरुणमधिरुह” यजु०। १। १८ ७ ब्रह्मणि ८ स्वर्गे पु० ९ नीरे १० सम्मते त्रि० मेदि०।

धर्णसि = पु० धृ–वा० नसि। १ बले निघण्टुः। २ धर्त्तव्ये वज्रादौ च “नि शुष्ण इन्द्र धर्णसिं वज्रम्” ऋ० ८। ६। १४। “धर्णसिं धर्त्तव्यम्” ३ धारके च “पृचादि धर्णसिम्” ऋ० १। ११। ११

धर्णि = त्रि० धृ–नि। “धारके “अग्निरीशे वसूनां शुचिंधर्णिरेषाम्” १। १२७। ७ “धर्णिः धारणकुशलः” भा०।

धर्त्तूर = पु० धुस्तुर + पृषो०। धुस्तुरे पारस्करनि०।

धर्त्र = न० धृ–त्र। १ गृहे २ यज्ञे ३ धर्मे च उणादिको० ४ धारके त्रि० “पञ्चानां त्वां वातानां यन्त्राय धर्त्राय गृह्णामि” तैत्ति० सं० १६। १। २ “धर्त्रमसि दिवं दृंह ब्रह्मवनि बधाय” यजु० १। १८। धर्त्रं धारकम्” वेददी०।

धर्म्म = पु० न० अर्द्धर्च्चा० ध्रियते लोकोऽनेन धरति लोक वा धृ–मन्। “चोदनालक्षणोऽर्थोधर्मः” जै० सूत्रलक्षिते पदार्थे तत्र धर्मशब्दस्य यागादिपरत्वम् भाष्यसम्मतमन्यमते स्वर्गसाधनादृष्टभेदपरत्वं तथाहि “अथातो धर्मजिज्ञासेति” सूत्रमाष्ये “धर्माय जिज्ञासा धर्मजिज्ञासा, सा हि तस्य ज्ञातुमिच्छा। स कथं जिज्ञासितव्यः? को धर्मः, कथंलक्षणः, कान्यस्य साधनानि कानि साधनाभासानि, किंपरश्चेति। तत्र को धर्मः, कथंलक्षणः–इति एकेनैव सूत्रेण व्याख्यातं–‘चोदनालक्षणोऽर्थो धर्मः’– इति। कानि अस्य साधनानि, कानि साधनाभासानि, किंपरश्चेति शेषलक्षणेन व्याख्यातं, क्व पुरुषपरत्वं क्व वा पुरुषो गुणभूतः?–इत्येतासां प्रतिज्ञानां पिण्डस्यैतत् सूत्रम् ‘अथातोधर्मजिज्ञासा’–इति। धर्मः प्रसिद्धो वा स्यात्, अप्रसिद्धो वा? स चेत् प्रसिद्धः, न जिज्ञासितव्यः; अथाप्रसिद्धः, नतरां; तदेतदनर्थकं घर्मजिज्ञासाप्रकरणं, अथवाऽर्थवत्?”। धर्मं प्रति हि विप्रतिपन्ना बहुविदः,–केचिदन्यं धर्ममाहुः, केचिदन्यं, सोऽयमविचार्य्यप्रवर्त्तमानः कञ्चिदेवोपाददानो विहन्येतार्थात् अनर्थं च ऋच्छेत्, तस्माद्धर्मो जिज्ञासितव्य इति, स हि निःश्रेयसेन पुरुषं संयुनक्तीति प्रतिजानीमहे” भा० “तदभिधीयते चोदनालक्षणोऽर्थो धर्म। २ सू० “चोदनां–इति क्रियायाः प्रवर्त्तकं वचनमाहुः, आचार्य्यचोदितः करोतीति हि दृश्यते। लक्ष्यते येन तल्लक्षणं धूमो लक्षणमग्नेरिति हि वदन्ति। तया यो लक्ष्यते, सोऽर्थः पुरुषं निःश्रेयसेन संयुनक्तीति प्रतिजानीमहे। चोदना हि भूतं, भवन्त, भावष्यन्तं, सूक्ष्म, व्यवहितं, विप्रकृष्टमित्येवंजातीयकमर्थं शक्नोत्यवगमयितुं, नान्यत् किञ्चनेन्द्रियम्,” य एव श्रेयस्करः, स एव धर्मशब्देनोच्यते। कथमवगम्यतां?। यो हि यागमनुतिष्ठति, तं ‘धार्मिकः’ –इति समाचक्षते, यश्च यस्य कर्त्ता स तेन व्यपदिश्यते, यथा पाचकः, लावक इति। तेन यः पुरुषं निःश्रेयसेन संयुनक्ति, स धर्मशब्दनोच्यते। न केवलं लोके, वेदेऽपि ‘यज्ञेन यज्ञमयजन्त देबाः, तानि धर्माणि प्रथमान्यासन्’–इति यजतिशब्दवाच्यमेव धर्मं समामनन्ति। उभयमिह चोदनया लक्ष्यते, अर्थोऽनर्थश्च इति, कोऽर्थः? यो निःश्रेयसाय, ज्योतिष्टमादिः। कोऽनर्थः? यः प्रत्यवायाय, श्येनो, वज्रः, इषुरित्येवमादिः। कथं पुनरसावनर्थ?। हिसा हि सा, सा मा भूत् इति अर्थग्रहणम्।” शावरभाष्यम् एतन्मतानुसारेण लौगाक्षिभास्करेणोक्तं यथा “अथ को धर्मः किं तस्य लक्षणमिति चेदुच्यते। यागादिरेव धर्मः। तल्लक्षणस्तु वेदप्रतिपाद्यप्रयोजनवदर्थो धर्मः। प्रयोजनेऽतिव्याप्तिवारणाय प्रयोजनवदिति। भोजनादावतिव्याप्तिवारणाय वेदप्रतिपाद्येति। अनर्थफलकत्वादनर्थभूते श्येनयागादावतिव्याप्तिवारणायार्थ इति न च चोदनालक्षणोर्थो धर्म इति सौत्रधर्मलक्षणविरोधः चोदनाशब्दस्य तत्र विधिरूपवेदैकदेशपरत्वादिति वाच्यम्। सर्ववेदस्य तात्पर्य्येन धर्मप्रतिपादकत्वात्। स च यागादिः। “यजेत स्वर्गकामः” इत्यादि वाक्येन स्वर्गमुद्दिश्य पुरुषं प्रति विधीयते”। अन्यमते तु अदृष्टविशेषस्यैव धर्मत्वं तत्त्वबोधिन्यां तदुभयमतं संक्षिप्य दर्शितं यथा “चोदनालक्षणोऽर्थो धर्मः” इति। चोदनैव लक्षणं प्रमाणं यस्य तादृशो योऽर्थः स धर्मः चोदना प्रवर्त्तको वेदो विधिरूपः। चुद प्रेरणे इत्यस्माच्चौरादिकधातोः वेदमात्रस्यैवेयं परिमाषेत्यपरे। तथा च बेदैकप्रमाणगम्योऽर्थः पुण्यनामाऽदृष्टविशेषः धर्मः कार्य्यापूर्वापरनामा तथा च तार्किकाः विहितक्रियया साध्यो धर्मः पुंसो गुणो मतः। प्रतिषिद्धक्रियासाध्यः स गुणोऽधर्म उच्यते”। भविष्ये “धर्मः श्रेयः समुद्दिष्टं श्रेयोऽभ्युदयसाधनम्”। तैत्तिरीयश्रुतिरपि “धर्मो विश्वस्य जगतः प्रतिष्ठा लोके धर्मिष्ठं प्रजा उपसर्पन्ति धर्मेण पापमपनुदतीति” प्रशंसाममिदधती अभ्युदयसाधनं धर्म इति प्रतिपादयति। भाष्यमपि “कोऽर्थो योऽभ्युदयाय”। गुरुमते विधेरपूर्वे शक्त्याऽपूर्वस्य बिधिवाच्यत्वात वेदगम्यत्वं सूपपन्नमेव। अगृहीतग्राहित्वस्य प्रामाण्यरूपत्वाद्वेदमात्रलभ्यत्वमपूर्वस्य। अन्येषां मते तु यागादेरिष्टसाधनत्वान्यथानुपपत्त्या कल्प्यत्वेऽप्यपूर्वस्य, वेदस्य प्रवर्त्तकत्वान्यथानुपपत्त्या कल्पनीयत्वेन वेदमूलकत्वात् वेदप्रमाणकत्वम्। भट्टमते तु चोदना प्रेरणा फलभावना लिङाद्यर्थाभिधारूपा तया च केन कथमित्याकाङ्क्षामुत्थाप्य लक्ष्यते आश्रीयते कर्त्तव्यत्वेन बोध्यते यः करणीभूतो धात्वर्थयागादिः स धर्म इत्यर्थः तथाच विश्वामित्रः “यमार्य्याः क्रियमाणं हि शंसन्त्यागमवेदिनः। स धर्मोयं विगर्हन्ति तमधर्मं प्रचक्षते” इति। अतएव “चोदनागम्योग्निहोत्रादिर्धर्मो नातल्लक्षणचैत्यवन्दनादिरिति” शास्त्रदीपिका। तत्र चोदनागम्यो वेदबोधितकर्त्तव्यताक इत्यर्थः। अत्र मते धर्मशब्दो निरूढलाक्षणिकः अदृष्ट एव तस्य शक्तेः “स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः” इत्युक्त्वा “शस्तञ्चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च” इत्यमरोक्तेः द्रव्ये तज्जनके घर्मिणि त्रिषु बाच्यलिङ्गमित्यर्थः। अतएव भट्टवार्त्तिकं “द्रव्यक्रियागुणादीनां धर्मत्वं स्थापयिष्यते। तेषामैन्द्रियकत्वेऽपि न ताद्रूप्येण धर्मता श्रेयःसाधनता ह्येषां नित्यं वेदात् प्रतीयते। ताद्रूप्येण च धर्मत्वं तस्मान्नेन्द्रियगोचाः” इति। यद्यपि पुण्यनामादृष्टविशेष एव धर्मस्तदर्थस्तथापि द्रव्यक्रियादीनामपि धर्मत्वं व्यवस्यापयिष्यते तेषां धर्मजनकतया कारणे कार्य्यत्वो पचारात् तेषु धर्मव्यपदेश इति भावः। न ताद्रूप्येण न स्वरूपतः, अपि तु धर्मजनकतयेति शेषः। धर्मजनकत्वे मानमाह श्रेय इति “श्रेयोऽभ्युदयसाधनम्” उक्तभविष्यवचनात् तत्र साक्षात् स्वर्गादिसाधनमदृष्टं तत्साधनता यागादेरित्यर्थः ताद्रूप्येण स्वरूपतः। अत्र च वेदमात्रप्रमाणलब्धसत्ताकार्थत्वं लक्षणं गुणविशेषश्च स्वरूपं, द्वितीयमते वेदैकप्रमितकर्त्तव्यताकार्थत्वं लक्षणं द्रव्यक्रियागुणादयः स्वरूपम् उभयत्र वेदप्रामाण्यादेवप्रामाण्यम्”। तद्भेदादिकं हेमाद्रिव्रतखण्डे उक्तं यथा भविष्यपु० “वर्णधर्मः स्मृतस्त्वेक आश्रमाणामतः परम्। वर्णाश्रमस्तृतीयस्तु गौणोनैमित्तिकस्तथा। वर्णत्वमेकमाश्रित्य यो धर्मः सम्प्रवर्त्तते। वर्णधर्मः १ स उक्तस्तु यथोपनयनं नृप। आश्रमञ्च समाश्रित्य यो धर्मः सम्प्रवर्त्तते। स खल्वाश्रमधर्मस्तु २ भिक्षादण्डादिको यथा। वर्णत्वमाश्रमत्वञ्च योऽधिकृत्य प्रवर्त्तते। स वर्णाश्रमधर्मस्तु ३ स्यान्मौञ्ची मेखला यथा। यो गुणेन प्रवर्त्तेत गुणधर्मः ४ स उच्यते। यथा मूर्द्धाभिषिक्तस्य प्रजानां परिपालनम्। निमित्तमेकमाश्रित्य यो धर्मः सम्प्रवर्तते। नैमित्तिकः ५ स विज्ञेयः प्रायश्चित्तविधिर्यथा” “वर्णत्वमेकमाश्रित्येति एकशब्दो वक्ष्यमाणोभयनिमित्तव्यावृत्तिपरः, वक्ष्यमाणधर्मभिन्नत्वात् अयं त्वाश्रमत्वमनपेक्ष्य वर्णत्वनिमित्तकोऽतः सत्यामप्युपनयनस्याष्टवर्षत्वाद्यपेक्षायां नैकशब्दविरोध इति। अयवा वीप्सायामेकशब्दः ततश्चैकैकं वर्णत्वमुद्दिश्य यो विधीयते स वर्णधर्म इति अतएवाष्टवर्षादिवाक्यैरनेकवर्णत्वोद्देशेन विधीयमानमुपनयनं दृष्टान्तीकृतम्। निमित्तमेकमाश्रित्येत्यत्र प्रायश्चित्तस्य नित्यकाम्यवैधर्म्यमात्रेण नैमित्तिकत्वं न तु राहुदर्शननिमित्तस्नानादिवदकरणजनितदोषपरिहारार्थ तया, निषिद्धकर्मकृताधर्मपरिहारार्थतयैव तद्विधानोपपत्तेः। न च जातेष्टिवदुभयार्थत्वं, तत्र फलनिमित्तयो रुभयोरुपात्तत्वान्न त्विह तथेति। साधारणधर्मस्तु महाभारते। “श्राद्धकर्म तपश्चैव सत्यमक्रोध एव च। स्वेषु दारेषु सन्तोषः शौचं विद्यानसूयिता। आत्मज्ञानं तितिक्षा च धर्मः साधारणी ६ नृप!” चातुर्वण्यस्येति शेषः। “तपश्चान्द्रायणादि। यदाह देवलः “व्रतोपवासनियमैः शरीरोत्तापनं तपः”। व्रतशब्दोऽत्र स्नान दानजपहोमपूजादिपरः। एतेन व्रतखण्डप्रतिपाद्यानां धर्माणामपि साधारणत्व सूचितम्। आत्म- ज्ञानमित्यनेन मोक्षखण्डप्रतिपाद्यानामपि धर्माणां साधारणत्वम्। न च शूद्राधिकरणन्यायेन शूद्राणां विद्यायामनधिकार इति कथं मोक्षधर्माणां साधारणत्वमिति वाच्यम् तेषामुपनयनाभावेनाध्ययनासम्भवाद्वेदवाक्यविचार एवानधिकारः न पुनरवैदिके “श्रावयेच्चतुरोवर्णानिति” शूद्राणामपि पञ्चयज्ञादिवत् पुराणस्मृतिप्रतिपाद्यविद्योपदेशदर्शनात्। ननु तथापि कथं वेदान्तवाक्यविचारजनितज्ञानाभावे शूद्राणां मोक्षधर्माधिकार इति चेत् मैवम् मोक्षसाधनस्य ज्ञानस्य तदेकसाध्यत्वसिद्धेः, तथा च श्रुतिः “तरति शोकमात्मवित् ब्रह्म वेद ब्रह्मैव भवति ब्रह्मविदाप्नोति परं विद्ययामृतत्वमश्नुते” इति, मोक्षस्यात्मज्ञानसाध्यतां वदति। आत्मज्ञानस्य च पुराणादिवचननिचयविचारपरिचयादप्युपपत्तेः श्रोतव्य इत्यादिवाक्यानां तु विचारनियमविधित्वानङ्गीकारात् अङ्गीकारे वा तस्य द्विजातिनियततया “श्रावयेच्चतुरोवर्णानित्यादिपुराणवचनविषयविधेरप्यध्ययनविधिवद्विचारपर्य्यन्ततास्तु ततश्च यथा द्रव्यसाध्यत्वाविशेषेऽपि क्रतूनान्तत्तद्वर्णबिहितोपायनियमार्जितद्रव्यसाध्यत्वम् एवमात्मज्ञानसाध्यत्वाविशेषेऽपि मोक्षस्य तदुपायविशेषजनितज्ञानसाध्यत्वमिति सर्वमनवद्यम्” तथा चोक्तं भागवते “स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरः। इति भारतमाख्यानं मुनिना कृपया कृतम्”। महाभारतेऽपि “मामुपाश्रित्य तु कौन्तेय! येऽपि स्युः पापयोनयः। स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्”। विष्णुः। “क्षमा सत्य दमः शौच दानमिन्द्रियसंयमः। अहिंसा गुरुशुश्रूषा तीर्थानुसरणं दया। आर्जवं लोभशून्यत्वं देव, ब्राह्मणपूजनम्। अनभ्यसूया च तथा घर्मः सामान्य उच्यते इति”। ब्रह्मवैवर्त्ते “विद्या, दया, दमः, शौचं, सत्यमस्तेयता तपः। जितेन्द्रियत्वमक्रोधो लज्जा धर्मः इति स्मृतिः”। विष्णुधर्मोत्तरे “तस्य द्वाराणि यजनं तपोदानं दया क्षमा। ब्रह्मचर्य्यं तथा सत्यं तीर्थानुसरणं शुभम्। स्वाध्यायसेबा साधूनां सहवासः सुरार्च्चनम्। गुरूणां चैव शुश्रूषा ब्राह्मणानाञ्च पूजनम्। इन्द्रियाणां यमश्चैव ब्रह्मचर्य्यममत्सरम्। गङ्गास्रानं शिबो देवो विप्रपूजात्मचिन्तवम्। ध्यानं नारायणस्यैतत् संक्षेपाद्धर्मलक्षणम्” “दानमित्यनेन दानखण्डप्रतिपाद्यानाम्, तीर्थानुसरणमि- त्यनेनापि तीर्थखण्डप्रतिपाद्यानाम् देवब्राह्मणपूजन मित्यनेनापि परिशेषखण्डप्रतिपाद्यानाम् देवतापूजनादिधर्माणां साधारणत्वम्”। वृहस्पतिः “दया, क्षमाऽनसूया, च शौचानायासमङ्गलम्। अकार्पण्य, मस्पृहत्व सर्वसाधारणानि च। परे वा बन्धुवर्गे वा मित्रे द्वेष्टरि वा सदा। आपन्ने रक्षितव्यं तु दयैषा परिकीर्त्तिता। बाह्ये वाऽऽध्यात्मिके चैव दुःखे चौत्पातिके क्वचित्। न कुप्यति न वा हन्ति सा क्षमा परिकीर्त्तिता। न गुणान् गुणिनो हन्ति स्तौति मन्दगुणानपि। नान्यदोषेषु रमते साऽनसूया प्रकीर्त्तिता। अभक्ष्यपरिहारश्च संसर्गश्चाप्यनिन्दितैः। स्वधर्मे च व्यवस्थानं शौचमेतत् प्रकीर्त्तितम्। शरीरं पीद्ध्यते येन सुशुभेनापि कर्मणा। अत्यन्तं तन्न कुर्वीत अनायासः स उच्यते। प्रशस्ताचरणं नित्यमप्रशस्तविवर्जनम्। एतद्धि मङ्गलं प्रोक्तमृषिभिस्तत्त्वदर्शिभिः। स्तोकादप्युपकर्त्तव्यमदीनेनान्तरात्मना। अहन्यहनि यत्किञ्चित् अकार्पण्यं हि तत् स्मृतम्। यथोपपन्ने सन्तोषः कर्त्तव्योऽत्यल्पवस्तुनि। परस्य चिन्तयन्नर्थं साऽस्पृहा परिकीर्त्तिता”। तदेवं निरूपिताः षट्प्रकारा धर्माः। अन्यथाऽपि तद्भेदस्तत्रैवोक्तो यथा विश्वामित्रः “यमार्य्याः क्रियमाणं हि शंसन्त्यागमवेदिनः। स धर्मो यं विगर्हन्ति तमधर्मं प्रचक्षते”। भृनुः “प्रवृत्तञ्च निवृत्तञ्च द्विविधं कर्म वैदिकम्। सर्गादौ सृजता सृष्टं ब्रह्मणा वेदरूपिणा। प्रवृत्तसंज्ञको धर्मो गुणतस्त्रिविधोमयेत्। सात्विको राजसश्चैव तामसश्चेति भेदतः। काम्यबुद्ध्या च यत् कर्म मोक्षेऽबि फलवर्जितम्। क्रियते द्विज! कर्मेह तत् सात्विकमुदाहृतम्। मोक्षायेदं करोमोति सङ्कल्प्य क्रियते तु यत्। तत् कर्म राजसं ज्ञेयं न साक्षान्मोक्षकृद्भवेत्। कार्य्यबुद्ध्यानपेक्षं यत् कर्मविध्यनपेक्षया। क्रियते द्विजवर्य्येह तत्तामसमुदाहृतम्”। धर्म्माधिष्ठातृदेवस्योत्पत्तिः तत्र खण्डे वराहपु० दर्शिता यथा “अथोत्पत्ति प्रवक्ष्यामि धर्मस्य महतीं नृप!। माहात्म्येन समायुक्त विस्तरेण नराधिप!। पू ब्रह्माव्ययः शुद्धः परादपरसंज्ञितः। स सिसृक्षुः प्रजास्त्वादौ पालनं तास्वचिन्तयत्। तस्य चिन्तयतस्त्वङ्गाद्दक्षिणाख्यात् सकुण्डलः। प्रादुर्बभूव पुरुषः श्वेतमाल्यानुलेपनः। तं दृदोवाच भगर्वांश्चतुष्पादं वृषाक- तिम्। पालयेमाः प्रजाः पुत्र! त्वं ज्येष्ठो जगतो भव। इत्युक्तः स समुत्तस्थौ चतुष्पादः कृते युगे। त्रेतायां स त्रिभिः पादैर्द्वाभ्यां वै द्वापरेऽभवत्। कलायेकेन पादेन प्रजाः पालयते विभुः। षड्भेदो ब्राह्मणानां स त्रेधा क्षत्रे व्यवस्थितः। द्वेधा वैश्येषु शूद्रेषु त्वेकधा जगतः प्रभुः। रसातलेषु सर्वेषु द्वापरेषु स्वयम्भुवः। चतुःशृङ्गस्त्रिपाच्चैव द्विशिराः सप्तहस्तवान्। त्रिधैव बद्धो विप्राणां मुखगः पालयन् प्रजाः”। भाग० ४। १। अ०। तत्पत्नीपुत्रादिभेदा दर्शिता यथा “त्रयोदशाऽदाद्धर्माय तथैकामग्नये विभुः। पितृभ्य एकां युक्तेभ्यो भवायैकां भवच्छिदे। श्रद्धा मैत्री दया शान्तिस्तुष्टिः पुष्टिः क्रियोन्नतिः। बुद्धिर्मेधा तितिक्षा ह्रीर्मूर्त्तिर्धर्मस्य पत्नयः। श्रद्धाऽसूत धृतिम् मैत्री प्रसादमभयं दया। शान्तिः सुखं मुदं तुष्टिः णयं पुष्टिरसूयत। योगं क्रियोन्नतिर्दर्पमर्थं बुद्धिरसूयत। मेघा स्मृतिं तितिक्षा तु क्षेमं ह्रीः प्रश्रयं सुतम्। मूर्त्तिः सर्वगुणोपेतौ नरनारायणावृषी। ययोर्जन्मन्यदोविश्वमभ्यनन्दत् सुनिर्वृतम्”। वामनपुरा० अन्येऽपि तस्य भार्य्यापुत्रा उक्ता यथा “धर्मस्य भार्य्याऽहिंसाख्या तस्यां पुत्रचतुष्टयम। सम्प्राप्तं मुनिशार्दूल! योगशास्त्रविचारकम। ज्येष्ठः सनत्कुमारोऽभूत् द्वितीयश्च सनातनः। तृतीयः सनको नाम चतुर्थश्च सनन्दनः। साङ्ख्यवेत्तारमपरं कपिलं वोढुमासुरिम्। दृष्ट्वा पञ्चशिखं श्रेष्ठं योनयुक्तं तपो निधिम्। ज्ञानयोगं न ते दद्युर्जायां सोऽपि कनीयसाम्”। देवादिभेदेन धर्ममेदा वामनपु० ११ अ० उक्ता यथा “किंलक्षणो भवेद्धर्मः किमाचरणसत्क्रियः। यमाश्रित्य न सीदन्ति देवाद्यास्तु तदुच्यताम् ऋषय उचुः। देवानां परमो धर्मः सदा यज्ञादिकाः क्रियाः। स्वाध्यायवेदवेत्तृत्वं विष्णुपूजारतिः स्मृतिः १। दैत्यानां वाहुशालित्वं मात्सर्य्यं युद्धसत्क्रिया। विन्दनं नीतिशास्त्राणां हरभक्तिरुदाहृता २। सिद्धानामुदितो धर्मो योगयुक्तिरनुत्तमा। स्वाध्यायो ब्रह्मविज्ञानं भक्तिर्द्वाभ्यामपि स्थिरा ३। उत्कृष्टोपासनं ज्ञेयं नृत्यवाद्येषु वादिता। सरस्वत्यां स्थिरा मक्तिर्गान्धर्वो धर्म उच्यते ४। विद्याधरत्वमतुलं विज्ञानं पौरुषे मतिः। विद्याधराणां धर्मोऽयं भवान्यां भक्तिरेव च ५ गान्ध विद्यावेदित्वं भक्तिः स्थाणौ तुक्का स्थिरा। कौशल्यं सर्वशिल्पेषु र्मः कैम्पुरुषः स्मृतः ६। ब्रह्मचर्य्यममानित्वं योगार सरतिर्दृढा। सर्वत्र कामचारित्वं धर्मोऽयं पैतृकः स्मृतः ७। ब्रह्मचर्य्यं यताशित्वं जप्यज्ञानञ्च राक्षस! नियमोधर्मवेदित्वमार्षं धर्मं प्रचक्षते ८। स्वाध्याया व्रह्मचर्य्यञ्च दानं यजनमेव च। अकार्पण्यमनायासं दयाहिंसाक्षमादयः। जितन्द्रियत्वं शौचञ्च माङ्गल्यं भक्तिरुच्यते। शङ्करे भास्करे देव्यां धर्मोऽयं मानव० स्मृतः ९। धनाधिपत्यं भोगाश्च स्वाध्यायः शङ्कराच्चनम्। अहङ्कारमशौचञ्च धर्मोऽयं गुह्यकेष्विति १०। परदाराभिमर्षित्वं परार्थेऽपि च लोलुपा। स्वाध्यायस्त्र्यम्बके भक्तिर्धर्मोऽयं राक्षसः स्मृतः ११। अविवेकताथाऽज्ञानं शौचहानिरमत्यता। पिशाचानामयं धर्मः सदा चामिपगृध्नुता १२। योनयस्तु द्वादशैताः सहधर्माश्च राक्षस!। ब्रह्मणा कथिताः पुण्या द्वादशैव गतिप्रदाः”। २ धनुषि ३ यमे ४ सोमपे च पु० मेदि०। ५ सत्सङ्गे ६ अर्हति जिने च पु० हेमच०। ७ न्याये ८ स्वभावे ९ आचारे १० उपमायां ११ क्रतौ १२ अहिंसायाम्। १३ उपनिषदि मेदि० पु० न०। १४ आत्मनि तस्य सर्वस्य स्वस्मिन् धारणात् १५ जीवे देहप्राणादेर्धारणात् १६ षट्कलप्रस्तावे प्रथमगुरुकेऽन्त्यलघुचतुष्टयके द्वादशभेदे। १७ भाग्याख्ये लग्नेन्दुभ्यां नवमस्थाने तद्भावानयनं द्वादशभावशब्दोक्तदिशा बोध्यम्। तत्र चिन्त्यपदार्था जन्मकाले तद्भावस्थग्रहयोगादिकफलं जातकपद्धतावुक्तं यथा “विहाय भावान् सकलान् प्रयत्नाद्भाग्याभिध दैवविदा विचिन्त्यम्। भाग्यान्वितो ना यदि शीलविद्याः कुलं तदायुश्च भवेत् सुधन्यम्। लग्नाच्चन्द्रात् यद्भवेदङ्कसंख्यं भाग्यस्थानं प्राक्तनैः कीर्त्तितं तत्। चिन्त्यो वीर्य्याढ्यात्तयोस्तत्पतिः कः कस्मिन् भावे कीदृशः कारको वा। भाग्यालयं स्वामियुतेक्षितं चेत् स्वदेशतो भाग्यविवृद्धिदं तत्। अन्येन दृष्टं त्वथ वा युतं चेदन्वल देशे फलदानदक्षम्। भाम्यभे शुभखगा मिलिताः स्युराज्यदा न रिपुनीचगृहे चेत्। धर्मधान्यसुखवृद्धिकराश्च स्वायुषः स्थिरधनस्य च वृद्ध्यै। नीचारिसंस्थाश्च न सौम्यदृष्टाः पापाश्च भाग्येन शुभप्रदाः स्युः। क्रूरा अपि स्वे भवने शुभाः स्युर्विशेषतः सद्ग्रह वीक्षिताश्चेत्। पूर्णचन्द्रसहितं शुभ ९ भं चेत् स्यात् प्रधानपुरुषः पुरुषोऽसौ। स्वेचरेक्षणसमागमयुक्तं सद्गुरोस्तु युतितोऽतिविशेषात्। स्वोच्चस्थिताः सर्वनभश्च रेन्द्राः शुभाः शुभस्थानगता विदध्युः। नरं समृद्धं शुभदृष्टदेहा भूपं हतारिं सुशरीरकीर्त्तिम्। त्र्यादि खेचरयुतिश्च भाग्यभे भूपतिं हि जनयेत् बुधोनिता। शौरिभूसुतगुरूनिता नरं कामकीर्त्तिधनसौख्यवर्जितम्। धर्मे तु तीर्थं दिनकृन्नवाब्दे चन्द्रो नखे १० वातमसृक् च शक्रे १४। मातुर्मृतिर्ज्ञोऽङ्गयुगे २६ कविर्मां तिथ्यव्दके १५ तातमृतिं गुरुश्च”। वर्षलग्नात् धर्मभावफलं नी० ता० उक्तं यथा “भौमेऽव दपे त्रिनवगे क्रूरायुक्ते बलान्विते। गुणावहस्तदा मार्गश्चिरं कार्य्यं स्थिरं तनु। त्रिधर्मस्थोऽव्दपः सूर्य्यः कन्दलीमार्गसौख्यदः। अन्यप्रेषणयानं स्यात् सं चेन्नाधिकृतो भवेत्। शुक्रेऽव्पे त्रिनवगे मार्गसौख्यं विलोमगे। अस्ते वा कुगतिः सौम्ये देवयात्रा तथाविधे। क्रूरार्दिते कुयानं स्यात् गुरावेवं विचिन्तयेत्। इत्थशाले लग्नधर्मपत्योर्यात्राऽस्त्यचिन्तिता। लग्नेशो धर्मपे यच्छन् स्वं महश्चिन्तिताध्वगः। एवं लग्नावदयोर्योगे मुथहाङ्गपयोरपि। गुरुस्थाने कुजे धर्मे सद्यात्रा भृत्यवित्तदा। ज्ञस्थाने लग्नपो भौभो दृष्टः सद्यानसौख्यदः। स्वस्थानगो हि बलवान् लग्नदर्शी सुयानदः। जन्माधिकारी ज्ञो मन्दस्थाने क्रूरयुतो यदा। पन्था रिपोः स्वकटकाद्गुरुशुक्रेन्दुजीवयोः। धर्मे शनिर्नाधिकारी पन्थानमशुभं वदेत्। इत्थं गुरौ दूरयात्रा नृपसङ्गस्ततो गुणः। कुजेऽव्दपे नष्टवले स्वजनाद्दूरतो गतिः। द्यूनेन्थिशा धर्म इन्द्रौ सबलेऽध्वा विदेशजः। वर्षेशो बलवान् पापायुतः केन्द्रेऽधिकारवान्। अधिकारे गतिः सङ्ख्ये मेनापत्येऽपि वा वदेत्। एवंविधे कुजे जीवे युतेऽर्कान्निर्गते पुनः। परसैन्योपरिगतिजयख्यातिसुखावहा। जीवान्नवमगे भौमे शुभां यात्रां नृणां वदेत्”। १८ आधेये स्ववृत्तिपदार्थे “धर्मादनिच् केवलात्” पा० बहु० अनिच्। विधर्मा सुधर्मा केवलादित्युक्तेः परमः स्वीघर्मो यस्येति बहुब्रीहौ न। सन्दिग्धसाध्यघर्मा इत्यादौ तु कर्मधारयपूर्वपदो बहुव्रीहिः समानविभक्तिकपदपूर्वकेतरत्वस्यैव केवलशब्दार्थत्वात् निवृत्तिधर्मा अनुच्छित्तिधर्मा इत्यादौ अनिच्।

धर्म्मकर्म्मन् = न० धर्मस्य धर्मार्थं कर्म। धर्मप्रतिपादककर्मभेदे “वेदप्रणिहितं धर्मकर्म तन्मङ्गलं परम्” ब्रह्मवै० पु०। धर्मकार्य्यधर्मक्रियादयोऽप्यत्र।

धर्म्मकथादरिद्र = पु० धर्मार्थकथायां दरिद्रः। कलिकाले जातमानवे कलौ नॄणां धर्मकथाशून्यत्वात् तथात्वम्।

धर्म्मकाम = पु० धर्मं कामयते फलानमिसन्धानेन कम–अण् उप० स०। कर्त्तव्यबुद्ध्या धर्मकारके “अथ ते (तव) यदि धर्मविचिकित्सा वृत्तिविचिकित्सा वा स्यात्। ते तत्र ब्राह्मणा सम्यग्दर्शनयुक्ता आयुक्ता अरूक्षा धर्मकामाः स्युः” एका० धृता तैत्तिरीयश्रुतिः। “धर्मकामाः जीवन्मुक्तवत् कर्मण्योदासीन्यमकुर्वाणाः” एका० रघु०।

धर्म्मकाय = पु० धर्मस्य धर्मार्थं कायोऽस्य। बुद्धे त्रिका०।

धर्म्मकील = पु० धर्मस्य कील इव। राजशासने त्रिका०। संज्ञायां कन्। धर्मकीलक ब्रह्मशासने शब्दरत्न०।

धर्म्मकृत् = त्रि० धर्मं धर्मसाधनं कर्म करोति कृ–क्विप् तुक्। १ धर्मसाधनकर्मकरे। “ज्येष्ठासु च न बहुमित्रः सन्तुष्टो धर्मकृत् प्रचुरकोपः” वृ० सं०। २ विष्णौ पु० धर्मगुप् “धर्मकृद्धर्मी” विष्णुस०। “धर्माधर्मविहीनोऽपि धर्ममर्य्यादास्थापनार्थं धर्ममेव करोतीति धर्मकृत्” भा०।

धर्मकेतु = पु० धर्मः अहिंसारूपकर्म केतुर्यस्य। १ बुद्धे शब्दा० तस्याहिंसारूपपरमधर्मकृत्त्वात् तथात्वम्। काश्यपवंश्ये २ सुकेतुनृपपुत्रभेदे। “सुकेतुतनयश्चापि धर्मकेतुरिति श्रुतः” हरिवं० २९ अ०। “अलर्कात् सन्ततिस्तस्मात् सुनीतोऽथ निकेतनः। धर्मकेतुःसुतस्तस्मात् सत्यकेतुरजायत” भाग० ९। १७। ६ ३ निकेतनपुत्रे नृपभेदे च। धर्मः केतुरिवास्य। ४ धर्मध्वजे त्रि०।

धर्मकोष = पु० धर्मः कोष इव धर्मस्य कोषः समूहो वा। धर्मरूपे रक्षणीये १ वस्तुनि २ धर्मसमूहे च “ब्राह्मणो जायमानो हि पृथिव्यामघिजायते। ईश्वरः सर्वभूतानां धर्मकोषस्य गुप्तये” मनुः।

धर्मक्षेत्र = न० त ६०। धर्म्मार्जनार्थक्षेत्रे कर्मभूमौ भारतवर्षे। धर्मस्य पूर्वमविद्यमानस्योत्पत्तेः विद्यमानस्य च वृद्धेर्निमित्ते शस्यस्येव २ स्थानभेदे च “धर्मक्षेत्ने कुरुक्षेत्रे समवेता युयुत्सवः” गीता। कुरुक्षेत्रञ्च श्रुतिस्मृतिप्रसिद्धं देवयजनस्थानमविमुक्तं वा कुरुक्षेत्रशब्दे दर्शितं तद्व्यावृत्तये धर्मक्षेत्रमिति विशेषणम्। “तस्मिन् याताः पाण्डवाः पूर्वावधिधार्मिका यदि पक्षद्वयहिंसानिमित्ता दधर्म्माद्भीता निवर्त्तेरन् ततः प्राप्तराज्या एव मम सुत अथ वा धर्मक्षेत्रमाहात्म्येन पापिनामपि मत्पुत्राणां कदाचित् चित्तप्रसादः स्यात्तदा च तेऽनुतप्ताः कपटोपात्तं राज्यं पाण्डवेभ्यो यदि दद्युस्तर्हि विनापि युद्धं हता एवेति स्वपुत्रराज्यालाभे पाण्डवराज्यलाभे च दृढतरमुपायमपश्यतो महानुद्वेग एव प्रश्नवीजम्” भधुसू०

धर्मगुप् = त्रि० धर्मं गोपायति गुप–आयाभावपक्षे क्विप् ६ त०। १ धर्मरक्षके २ विष्णौ पु० “धर्मगुष् धर्मकृत् धमी” विष्णुस०। “धर्मसंरक्षणार्थाय सम्भवामि युगे युगे” गीतायां स्वस्य धर्मरक्षार्थमाविर्भावस्योक्तेस्तस्य तथात्वम्।

धर्मघट = पू० धर्मार्थं देयो घटः। सौरवैशाखे प्रत्यहं धर्मार्थं दीयमाने गन्धोदकभोज्यादिसहिते घटे। तद्विधानादि भविष्यषु० उक्तं यथा “विनिष्क्रान्ते ततश्चैत्रे यदा मेषगतो रविः। दोषादिरहिते काले चतुर्वर्षं समाचरेत्। तत्र नित्यं घटं दद्यात् मासमेकं सभोज्यकम्। चन्दनेन समालिप्तं दक्षिणादिमिरन्वितम्। व्रतमेतत् समाकुर्य्यात् यावत् वर्षचतुष्टयम्”। इदन्तु व्रतरूपं दानम्। हेमाद्रिदानखण्डे तु अन्यविधं धर्माख्यघटस्य दानमुक्तं यथा “अथ धर्मघटदान माह विष्णुः “शीतलेन सुगन्धेन वारिणा पूरितं घटम्। शुक्लचन्दनदिग्धाङ्गं पुष्पदामोपशोभितम्। दध्योदनयुतं कुर्य्याच्छरावं तस्य चोपरि। उपानच्छत्रसंयुक्तं धर्माख्यं कल्पयेद्घटम्। पुष्पाक्षतं गृहीत्वा तु इमं मन्त्रमुदीरयेत्। ओं नमो विष्णुरूपाय नमः सागरसम्भव!। अपांपूर्णोद्धरास्मांस्त्वं दुःखसंसारसागरात्। उदकुम्भो मया दत्तो ग्रीष्मे काले दिने दिने। उदकुम्भप्रदानेन प्रीयतां मधुसूदनः”। भविष्योत्तरे “प्रत्यहं धर्मघटको वस्त्रसंवेष्टिताननः। ब्राह्मणस्य गृहे नेयः शीतामलजलः शुचिः। वसन्तग्रीष्मयोर्मध्ये यः पानीयं प्रयच्छति। पले पले सुवर्णस्य फलमाप्नोति गानवः। मार्गशीर्षात् समारभ्य उदकुम्भन्तु यः क्षिपेत्। दिने दिने सहस्रस्य गवां पुण्यफलं लभेत्। तस्यैवोद्यापनं कार्य्यं मासि मासि नरोत्तम। मण्डकावेष्टकाभिश्च पक्वान्नैः सार्वकामिकैः। उद्दिश्य शङ्करं विष्णुं ब्रह्माणमथ वा पितॄन्। सतिलं प्रोक्षयित्वा तु मन्त्रेणानेन मानवः। एष धर्मघटो दत्तो ब्रह्मविष्णुशिवात्मकः। अस्य प्रदानात् सततं मम सन्तु मनोरथाः। अनेन विधिना यस्तु धर्मकुम्भं प्रयच्छति। वसन्ते ग्रीष्मसमये प्रपादानफलं लभेत्। प्रपादानफलं सोऽपि प्राप्नोतीह न संशयः”। एतत् परमेव “दद्युर्धर्मघटांश्चापि सुगन्धोदकपूरितान्” काशीख० १२ अ० वचनम्। धर्मकुम्भादयोऽप्यत्र।

धर्मचक्र = न० ६ त०। धर्मसमूहे। “भीष्मेण विहितं राष्ट्रे धर्मचक्रमवर्त्तत” भा० आ० १०९ अ०। “यत्र पूर्वाभि- सर्गे वै धर्मचक्रं प्रवर्त्तितम्” भा० शा० १५७ अ०। धर्मस्य चक्रं यत्र। २ बुद्धे पु० त्रिका०।

धर्मचक्रभृत् = पु० धर्मचक्रं विभर्त्ति भृ–क्विप् तुक्। १ जिन धरणिः २ धर्मसमूहधारके त्रि०।

धर्मचारिन् = त्रि० धर्मं तत्साधनकर्म चरति चर–णिनि ६ त०। १ धर्मसाधनकर्मकारके। “स चेत् स्वयं कर्मसु धर्मचारिणां त्वमन्तरायो भवसि च्युतो विधिः” रघुः। स्त्रियां ङीप्। सा च २ सहधर्गकारिण्यां जायायां शब्दरत्ना०। “ज्येष्ठायां धर्मचारिण्यां महिष्यां गर्भमादधे” भा० व० २९ अ०।

धर्मचिन्तन = न० चिन्ति–भावे ल्युट् ६ त०। धर्मस्य चिन्तायां हेमच०।

धर्मचिन्ता = स्त्री चिन्ति–भावे अ ६ त०। धर्म्मस्य चिन्तने उपाधौ अमरः।

धर्मज = पु० धर्मार्थं जायते जन–ड। १ औरसे प्रथमे पुर्त्रौ “यस्मिन्नृणं सन्नयति येन चानन्त्यमश्रुते। स एव धर्मजः पुत्रः कामजानितरान् विदुः” मनुः। धर्मात् जायते जन–ड। २ धर्मपुत्रे युधिष्ठिरे। “एवं सञ्चिन्त्य भगवान् स्यराज्ये स्थाप्य धर्मजम्। नन्दयामास सुहृदः साधूनां वर्म दर्शयन्” भाग० ३। ३। १७। युधिधिरस्य धर्मतो जन्मकथा भा० आ० १२३ अ०। “संवत्सरधुते गर्मे गान्धार्य्या जनमेजय!। आह्वयामास वै कुन्ती गर्मार्ये धर्ममच्युतम्। सा वलिं त्वरिता देवी धर्मायोपजहार ह। जजाप विधिवज्जप्यं दत्तं दुर्वाससा पुरा। आजगाम ततो देवो धर्मो मन्त्रबलात्ततः। विमाने सूर्य्यसङ्काशे कुन्ती यत्र जपस्थिता। विहस्य तां ततो ब्रूयाः कुन्ति! किन्ते ददाम्यहम्। सा तं विहस्यमानाऽपि पुत्रं देह्यब्रवीदिदम्। संयुक्ता सा हि धर्मेण योगमूर्त्तिधरेण ह। लेभे पुत्रं वरारोहा सर्वप्राणमृतां हितम्। ऐन्द्रे १८ चन्द्रसमायुक्ते मुहूर्त्तेऽभिजितेऽष्टमे। दिवामध्यगते सूर्य्ये तिथौ पूर्णेऽतिपूजिते। समृद्धयशसं कुन्ती सुषाव प्रवरं सुतम्। जातमात्रे सुते तस्मिनु वागुवाचा शरीरिणी। एष धर्मभृतां श्रेष्ठी भविष्यति नरोत्तमः। विक्रान्तः सत्यवाक् चैव राजा पृथ्व्यां भविष्यति। युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजः सुतः”। ३ बुद्धभेदे ४ दिव्यभेदे न० धटशब्दे दृश्यम्। ५ धर्मतो जातमात्रे त्रि०। ६ नरनारायणयोः पु० द्वि० व०। धर्मशब्दे तयोर्मूर्त्तिरूपधर्म्मपत्नीजन्मकथा दृश्या।

धर्मजन्मन् = पु० धर्मतो जन्म यस्य। युधिष्ठिरे “वीक्ष्य धर्ममथ धर्मजन्मना” माघः।

धर्मजन्य = त्रि० धर्मेण जन्यः। धर्मतो जाते सुखे “सुखं तु जगतामेव काम्यं धर्मेण जन्यते” भाषायां तस्य तथीक्तेस्तथात्वम्।

धर्मजिज्ञासा = स्त्री धर्मार्थं धर्माचरणाय जिज्ञासा। वेदवाक्यविचारे धर्मसन्देहे वेदवाक्यानां विषयेत्यादाङ्गपञ्चकयुक्ते विचारभेदे धर्ममीमांसायाम् “अथातोधर्मजिज्ञासा” जै० सू० धर्ममीमांसाकर्मसीमांसाशब्दयोश्च समानार्थतया धर्मस्योपक्रमे तल्लक्षणनिर्देशाय प्रवृत्ते “चोदनालक्षणोऽर्थो धर्म” इति जै०२२ सूत्रे धर्मशब्दस्य कर्मपरत्वं भाष्यसम्मतं युक्तम् न तु पुण्यपरत्वमिति।

धर्मजीवन = पु० याजनप्रतिग्रहादिना परस्य धर्ममुत्पाद्य जीपति जीव–ल्यु। याजनादिना परस्य धर्मोत् पादनेन जीवनोपाययुते ब्राह्मणभेदे “यश्चापि धर्मसमयात् प्रच्युता धर्मजीवनः” मनुव्याख्याने कुल्लू०।

धर्मज्ञ = त्रि० धर्मं जानाति ज्ञा–क। अयं धर्मं इति ज्ञानयुते। “धर्मज्ञः सत्यवादी च” “अमात्यमुख्यं धर्मज्ञं प्राज्ञं दक्षं कुलोद्गतम्” मनुः।

धर्मण = पु० धर्माय नम्यते नम–बा० कर्मणि ड। (धामनि) ख्याते १ वृक्षभेदे। (ढेमना) ख्याते ४ सर्पभेदे च मेदि०।

धर्मतीर्थ = न० धर्मकृतं तीर्थम्। तीर्थभेदे “ततो गच्छेन्महाराज! धर्मतीर्थमनुत्तमम्। यत्र धर्मो महाभागस्तप्तवानुत्तमं तपः। तेन तीर्थं कृतं पुण्यं स्वेन नाम्ना च विश्रुतम्। तत्र स्नात्वा नरो राचन्। धर्मशीलः प्रजायते। आसप्तमं कुलञ्चैव पुनीते नात्र संशयः” भा० व० ८४ अ०।

धर्मद = पु० धर्मं स्वधर्मफलं ददाति अन्यस्मै संक्रामयति दा–क। १ स्वधर्मफलस्य अत्यस्मिन् संक्रामके २ धर्मोत्पादके च “एतदेव भगाधानं धर्मिष्टे धर्मदं तथा” हरिवं० १२४ अ०। ३ कुमारानुचरभेदे पु०। “धर्मदोमन्प्रथभवः सूचीवक्त्रश्च वीर्य्यवान्” भा० शा० ४६ अ० तदनुचरोक्तौ।

धर्मदान = न० “पात्रेभ्यो दीयते नित्यमनपेक्ष्य प्रयोजनम्। केवलं धर्मबुद्ध्या यत् धर्मदानं प्रचक्षते” देवलोक्ते प्रयोजनान्तरानुद्देशेन दाने

धर्मदार = पु० ब० व० धर्मार्थमग्न्याधानाद्यर्थम् दाराः। धर्मार्थदारेषु “धर्मदारान् वने त्यक्त्वा परकर्माकरोत् प्रभुः” कामन्दकीय नीतिशास्त्रम्।

धर्मदीपिका = स्त्री तौडप्रमिद्वे मीमांमाग्रन्थभेदे।

धर्मदुघा = स्त्री धर्मान् दोग्घि आधारस्य कर्त्तुत्वविवक्षया कर्त्तरि दुह–क धश्चान्तादेशः। धर्मदानस्थाने बहिर्वेद्याम् शब्दार्थचि०।

धर्मदेश = पु० धर्मसाधन देशः। “स्वभावात् यत्र चरति कृष्णसारः सदा मृगः। धर्मदेश स विज्ञेयो द्विजानां धर्मसाधनम्” संवर्त्तोक्तं देशभेदे। हेमाद्रिव्र० विस्तारः।

धर्मद्रवी = स्त्री धर्मजनको द्रवो यस्याः गौरा० ङीष्। “विष्णुपादाग्रसम्भूते! गङ्गे त्रिपथगामिनि!। धर्मद्रवीति विख्याते! पापं मे हर जाह्नवि!। इत्युक्तायां गङ्गायाम् प्रा० त० दृश्यम्।

धर्मद्रोहिन् = पु० धर्माय परस्य धर्माचरणाय द्रुह्यति द्रुहणिनि ४ त०। राक्षसे।

धर्मधातु = पु० धर्ममहिंसारूपं परमं धर्मं दधाति धा–तुन्। बुद्धे हेमच०।

धर्म्मध्वजिन् = पु० धर्मो ध्वजं चिह्नमिवास्त्यस्य इनि। लोके निजधार्मिकत्वख्यापनार्थं धर्मकारके धर्मचारिणि लिङ्गवृत्तौ “धर्मध्वजी लिङ्गवृत्तिः” अमरः। “धर्मध्वजी सदालुब्धश्छाद्मिको लोकदम्भकः” मनुः।

धर्म्मन् = पु० धृ–मनिन्। १ धर्मे पुण्ये शुभादृष्टभेदे “प्रेतिरसिधर्मणे त्वा धर्मं जिन्व” ताण्ड्यब्रा० १। ९। २। “धर्मणे धर्माय” भा०। “निर्गुणत्वान्न चिद्धर्मा” सां० सू०। आत्मनो निर्गुणत्वान्न तस्य चित् धर्मा धर्म इत्यर्थः। “ज्ञानं नैवात्मनो धर्मः” इति सां० प्र० धृतवाक्यात् तथात्वम्। धर्मन्शब्दे दृश्यम्। २ धारके त्रि०। “पितुं नु स्तोषं महो धर्माणं तविषीम्” ऋ० १। १८७। १ “महो महान्तं धर्माणं सर्वस्य धारकम्” भा०। अनेनैवोपपत्तौ वहुब्रीहौ “धर्मादनिच केवलात्” पा० अनिच्करणं चित्स्वरार्थं धर्मशब्दान्ततया प्रयोगनिरासार्थञ्च।

धर्म्मनन्दन = पु० ६ त०। युधिष्ठिरे धर्मजशब्दे दृश्यम्। धर्मसुतादयोऽप्यत्र।

धर्म्मनाभ = पु० धर्मः नाभिरिवास्य अच् समा०। विष्णौ हेमच०

धर्मनेत्र = पु० १ यदुवंश्ये हैहयस्य पुत्रे। यदुवंशोपक्रमे “हैहयस्याभवत् पुत्रो धर्मनेत्र इति श्रुतः” हरिवं० ३३ अ०। २ पुरुवंश्य नृपभेदे। “धार्त्तराष्ट्रसुतान् आहुस्त्रीनेतान् प्रसृतान् भुवि। प्रतीपं धर्मनेत्रं च सुनेत्रं चापि भारत!” भा० आ० ९४ अ०। अयञ्च प्रसिद्धात् धृतराष्ट्राद् भिन्नः धृतराष्ट्रस्य पितुः शान्तनोः प्रतोपपुत्र तया तत्र कीर्तनात्। “प्रतीपस्य त्रयः पुत्रा जज्ञिरे भरतर्षभ। देवापिः शान्तमुश्चैव वाह्णीकश्च महारथ”। ३ पौरवंश्यतंसुनृपपुत्रभेदे च “तंसोः सुबोधो राजर्षिर्धर्मनेत्रः प्रतापवान् हरिव० १ अ०

धर्मनैपुण्यकाम = पु० धर्मस्य नैपुण्यमतिशयं कामयते कमअण्। पूर्वं गृहीतवेदप्राये पश्चाद् अध्ययनजन्यादृष्टविशेषेच्छौ। “नित्यानध्याय एव स्याद् ग्रामेषु नगरेषु च। धर्मनैपुण्यकामानां पूतिगन्धे च सर्वदा” मनुः। “नैपुण्यमतिशयः धर्मातिशयार्थिनो ग्रामनगरयोः सर्वदानध्यायः स्यात्। कुत्सितगन्धे च सर्वस्मिन्नपि गम्यमाने। धर्मनैपुण्यकामं प्रत्ययं नित्यानध्यायोपदेशो, विद्यानैपुण्यकामस्य कदाचिदध्ययनमनुजानाति। ये शिष्याः केचिद् गृहीतवेदप्राया अध्ययननियमजन्या दृष्टेच्छवस्ते धर्मनैपुण्यकामाः। केचित् प्रथमाध्येतारो विद्यातिशयमात्रार्थिनस्ते विद्यानैपुण्यकामाः” कुल्लू०।

धर्मप(ट्ट)त्तन = न० वृ० सं० १४ अ० कूर्मविभागे दक्षिणस्यासुक्ते देशभेदे “वैदूर्य्यशङ्खमुक्तात्रिवारिचरधर्मपट्टनद्वीपाः” २ श्रावन्त्यां धर्मपुर्य्याम्। त्रिका०। तत् कारणतयाऽस्त्यस्य अच्। ३ मरिचे न० अमरः।

धर्मपति = पु० धर्मस्य चतिर्यस्मात्। १ धर्माधिपत्यसाधने वरुणे “अथ वरुणाय धर्मपतये। वारुणं यवमयं चरुं निर्वपति तदेनं वरुण एव धर्मपतिर्धर्मस्य पतिं करोति परमता वै सा यो धर्मस्य पतिरसद्यो हि परमतां नच्छति तं हि धर्म उपयन्ति तस्माद् वरुणाय धर्मपतये” शतब्रा० ५। ३। ३। ९। धर्मः पतिरिव यस्य। २ धर्मशीले च “वरुणो धर्मपतीनाम्” यजु० ९। ३९। “वरुणो धर्मपतीनां धर्मेश्वराणां धर्मशीलानामाधिपत्ये त्वां सुवताम्” वेददी०।

धर्मपत्नी = स्त्री धर्मार्थं पत्नी। निर्दोषायां पत्याम्। “प्रथमा धर्मपत्नी च द्वितीया रतिवर्द्धिनी। दृष्टमेव फलं तत्र नादृष्टमुपजायते। धर्मपत्नी समाख्याता निर्दोषा यदि सा भवेत्” दक्षसं०। “पतिब्रता धर्मपत्री पितृपूजन तत्परा। मध्यमन्तु ततः पिण्डमद्यात् सम्यक् सुतार्थिनी” मनुः। “औरसो धर्मपत्नीजस्तत्समः पुत्रिकासुतः” याज्ञ०। १ धर्मदेवस्य पत्नीषु दक्षकन्यारूपासु। “नामतो धर्मपत्न्यस्ताः कीर्त्त्यमाना निबोध मे। कीर्त्तिर्लक्ष्मीर्वृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा। बुद्धिर्लज्जा मतिश्चैव पत्न्यो धर्मस्य ता दश” भा० आ० ६६ अ०।

धर्मपत्र = न० धर्मसाधनं पत्रमस्य। यज्ञोदुम्बरे शब्दच०।

धर्मपर = त्रि० धर्मः परो यस्य। धर्मप्रधानके धर्मासक्ते “जितेन्द्रियो धर्मपरः” भा० व० २०५ अ०। धर्मपराअणोऽप्यत्र।

धर्मपरिणाम = पु० धर्मरूपः परिणामः। पातञ्जलोक्ते चित्तस्य धर्मिणः व्युत्थाननिरे र्धर्मयोरभिभवप्रादुर्भावरूपे परिणामभेदे यथाह तत्र

“एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः” पात० सू०।

“एतेन पूर्वोक्तेन चित्तपरिणामेन धर्मलक्षणावस्थारूपेण भूतेन्द्रियेषु धर्मपरिणामो लक्षणपरिणामश्चाऽवस्थापरिणामश्चोक्तोवेदितव्यः तत्र व्युत्थाननिरोधयोर्धर्मयोरभिभवप्रादुर्भावौ धर्मिणि धर्मपरिणामः। लक्षणपरिणामश्च निरोधस्त्रिलक्षणः त्रिभिरध्वमिर्युक्तः स खल्वनागतलक्षणमध्वानं प्रथमं हित्वा धर्मत्वमनतिक्रान्तो वर्त्तमानं लक्षणं प्रतिपन्नः। यत्रास्य स्वरूपेणाभिव्यक्तिरेषोऽस्य द्वितीयोऽध्वा न चातीतानागताभ्यां वियुक्तः। तथा व्युत्थानं त्रिलक्षणं त्रिभिरध्वभिर्युक्तं वर्त्तमानं लक्षणं हित्वा धर्मत्वमनतिक्रान्तमतीतलक्षणं प्रतिपन्नमेषोऽस्य तृतीयोऽध्वा नचानागतवर्त्तमानाभ्यां लक्षणाभ्यां वियुक्तः। एवं पुनर्व्युत्थानमुपसम्पद्यमानमनागतलक्षणं हित्वा धर्मत्वमनतिक्रान्तं वर्त्तमानं लक्षणं प्रतिपन्नं यत्रास्य स्वरूपाभिव्यक्तौ सत्यां व्यापार एषोऽस्य द्वितीयोऽध्वा न चातीतानागताभ्यां लक्षणाभ्यां विमुक्तमित्येवं पुनर्निरोध एवं पुनर्व्युत्यानभिति। तथाऽवस्थापरिणामो निरोधलक्षणेषु निरोधसंस्कारा बलवन्तो भवन्ति दुर्बला व्युत्थानसंस्कारा इत्येषु धर्माणामवस्थापरिणामः तत्र धर्मिणोधर्मैः परिणामो धर्माणाम् अध्वनां लक्षणैः परिणामो लक्षणानामप्यवस्थाभिः परिणाम इत्येवं धर्मलक्षणावस्थापरिणामैः शून्यं न क्षणमपि गुणवृत्तमवतिष्ठते। चलञ्च गुणवृत्तं गुणस्वाभाव्यन्तु प्रवृत्तिकारणमुक्तं गुणानामिति। एतेन भूतेन्द्रियेषु धर्मधर्मिभेदात् त्रिविधपरिणामो वेदितव्यः। परमार्थतस्त्वेक एव परिणामौ धर्मिस्वरूपमात्रो हि धर्मोधर्मिविक्रियैवैष धर्मद्वारा प्रपञ्च्यते इति तत्र धर्मस्य धर्मिणि वर्त्तमानस्यैवाध्वस्वतीतानागतवर्त्तमानेषु भावान्यथात्वं भवति न द्रव्यान्यथात्वं यथा सुवर्णभाजनस्य भित्त्वाऽन्यथा क्रियमाणस्य भावान्यथात्वमिति।” भा०

“ननु चित्तपरिणतिमात्रमुक्तं न तु तत्प्रकारा धर्मलक्षणावस्थापरिणामास्तत् कथं तेषामतिदेश इत्यत आह। तत्र व्युत्थाननिरुद्धयोरिति। धर्मलक्षणावस्थाशब्दाः परं नोच्चारिताः न तु धर्मलक्षणावस्था वरिणामा नोक्ता इति संक्षेपार्थः। तथा हि व्युत्थान निरोधसंस्कारयोरित्यत्रैव सूत्रे धर्मपरिणाम उक्तः इमञ्च धर्मपरिणामं दर्शयता तेनैव धर्माधिकारिणो लक्षणपरिणामोऽपि तेन सूत्रित एवेत्याह लक्षणपरिणाम इति लक्ष्यते अनेनेति लक्षणं कालभेदः लक्षितवस्तु वस्त्वन्तरेभ्यः कालान्तरयुक्तेभ्योव्यवच्छिद्यत इति। निरोधस्त्रिलक्षणः अस्यैव व्याख्यानं त्रिभिरध्वमिर्युक्तः अध्वशब्दः कालवचनः स खल्वनागतलक्षणमध्वानं हित्वा तत् किमध्ववत् धर्मनिरोधत्वमप्यतिपतति नेत्याह धर्मत्वमनतिक्रान्तो वर्त्तमानं लक्षणं प्रतिपन्नं यत्र निरोधोऽनागत आसीत् स एव सम्प्रति वर्त्तमानो नतु निरोधोऽनिरोध इत्यर्थः। वर्त्तमानतास्वरूपव्याख्यानं यत्रास्य स्वरूपेण स्वोचितार्थक्रियाकारिणाऽभिव्यक्तिः समुदाचारः एषोऽस्य प्रथममनागतमध्वानमपेक्ष्य द्वितीयोऽद्धा। स्यादेतत् अनागतमध्वानं हित्वा चेद्वर्त्तमानतामापन्नस्ताञ्च हित्वा अतीततामापत्स्यते हन्त भोः अध्वनामुत्पादविनाशौ स्यातां न चेष्यते नह्यसत उत्पादो नापि सतोविनाश इत्यत आह नचातीतानागताभ्यां सामान्यात्मनावस्थिताभ्यां वियुक्तैति। अनागतस्य निरोधस्य वर्त्तमानतालक्षणं दर्शयित्वा वर्त्तमानव्युत्थानस्यातीततां तृतीयमध्वानमाह तथा व्युत्थानमिति तत् किं निरोध एवानागतो न व्युत्थानं नेत्याह। एवं पुनर्व्युत्त्ःआनमिति व्युत्थान जात्यपेक्षया पुनर्भावः न व्यक्त्यपेक्षया न ह्यतीतं पुनर्भवतीति। स्वरूपाभित्यक्तिरर्थक्रियाक्षमस्याविर्भावः सचैवं लक्षणपरिणाम उक्तः तज्जातीयेषु पौनःपुन्येन वर्त्तत इत्याह। एवं पुनरिति धर्मपरिणामसूचितमेवावस्थापरिणाममाह तथेति धर्माणां वर्त्तमानाध्वनां बलवत्त्वाबलवत्वाऽवस्था तस्याः प्रतिक्षणं तारतम्येन परिणामः। उपसंहरति एष इति परिणामभेदानां सम्बन्धिमेदान्निर्धारयति तन्त्रानुभवानुसारात् धर्मिण इति। तत् किमेष परिणामो गुणानां कादाचित्की नेत्याह। एवमिति कस्मात्? पुनरयं परिणामः सदातन इत्यत आह। चलञ्चेति चोहेत्वर्थः वृत्तं प्रचारः एतदेव कुत इत्यत आह। गुणस्वाभाव्यमिति उक्तमत्रैव पुरस्तात्। सोऽयं त्रिविधोऽपि चित्तपरिणामः भूतेन्द्रियेषु सूत्रकारेण निर्दिष्ट इत्याह एतेनेति। एष धर्मधर्मिभेदो धर्मधर्मिणोर्भेदमालक्ष्य तत्र भूतानां पृथि- व्यादीनां धर्मिणां नवादिर्घटादि र्वा धर्मपरिणामः। धर्माणां चातीतानागतवर्तमानरूपतालक्षणपरिणामः वर्तमानलक्षणापन्नस्य गवादेर्बाल्यकौमार यौवनवार्द्धक्यमवस्थापरिणामः। घटादीनामपि नवपुरातनतावस्थापरिणाम एवमिन्द्रियाणामपि धर्मिणां तत्तन्नीलाद्यालोचनं धर्मपरिणामो धर्मस्य वर्त्तमानादि लक्षणपरिणामो वर्त्तमानलक्षणस्य रक्ताद्यालोचनस्फुटत्वास्फुटत्वादिरवस्थापरिणामः। स चायमेवंविधो भूतेन्द्रियपरिणामो धर्मिणो धर्मलक्षणावस्थानां मेदमाश्रित्य वेदितव्यः। अभेदमाश्रित्याह परमार्थतस्त्विति तुशन्दोभेदपक्षाद्विशिनष्टि पारमार्थिकत्वमस्य ज्ञाप्यते नत्वन्यस्य परिणामस्य निषिध्यते। कस्मात्? धर्मिस्वरूपमात्रोहीति ननु यदि धर्मिविक्रियैव धर्मः कथमसङ्करप्रत्ययो लोके परिणामेष्वित्यत आद्व। धर्मद्वारेति धर्मशब्देन धर्मलक्षणावस्थाः परिगृह्यन्ते तद्द्वारेण धर्मिण एव विक्रियेत्येका चासङ्कीर्णा च द्वाराणामभेदोऽपि धर्मिणः परस्परासङ्करात्। ननु धर्माणामभिन्नत्वे धर्मिणोऽध्वनाञ्च भेदे धर्मिणोऽनन्यत्वेन धर्मेणापि इह धर्मिवद्भवितव्यमित्यत आह तत्र धर्मस्येति भावः संस्थानभेदः सुवर्णादेर्यथा भाजनस्य रुचकस्वस्तिक व्यपदेशभेदो भवति तन्मात्रमन्यथा भवति। न तु द्रव्यं सुवर्णभेदमुपैति अत्यन्तमेदाभावादिति वक्ष्यमाणोऽभिसन्धिः।” विवृतिः

धर्मपाठक = पु० धर्मं धर्मशास्त्रं पठति पठ–ण्वुल्। मन्वादिधर्मशास्त्राध्येतरि। “त्रैविद्यो हेतुकस्तर्की नैरुक्तो धर्मपाठकः” मनुः।

धर्मपाल = त्रि० धर्मं पालयति पालि–अण् उप० स०। वर्ण्णाश्रमधर्मरक्षके २ दण्डे पु० तद्भीत्या लोकैर्धर्मस्य चरणात् तस्य तथात्वम्। “दण्ड एव च सर्वात्मा लोके चरति मूर्त्तिमान्। भिन्दन् छिन्दन् रुजन् कृन्तन् दारयन् पाटयंस्तथा। घातयन्नभिधावंश्च दण्ड एव चरत्युत। असिर्विशसनो धर्मस्तीक्ष्णधर्मा दुराधरः। श्रीगर्भो विजयः शास्ता व्यवहारः सनातनः। शास्त्रं ब्राह्मणमन्त्राश्च शास्ता प्राग्वदतां वर!। धर्मपालोऽक्षरो देवः सत्यगो नित्यगोऽग्रजः। असङ्गो रुद्रतनयो मनुर्ज्येष्ठः शिवङ्करः। नामान्येतानि दण्डस्य कीर्त्तितानि युधिष्ठिर!” भा० शा० १२१ अ०।

धर्मपुत्र = पु० ६ त०। युधिष्ठिरे हेमच०। १ नरनारायणयो- रृष्योश्च द्वि० व० धर्मशब्दे दृश्यम्। धर्मतः कृतः पुत्रः। २ धर्मतः कृते पुत्रे। “यावद्धुर्जटिधर्मपुत्र (परशुराम) परशुक्षुण्णाखिक्षत्रियश्रेणीशोणितपिच्छिला वसुमती कोऽस्यामधास्यत् पदम्” महाना०। धर्मसुतादयोऽप्यत्र। धर्मजः पुत्रः। ३ ज्येष्ठे औरसे धर्मपत्नीजे पुत्रे च। धर्मजशब्दे मनुवाक्यं दृश्यम्।

धर्मप्रतिरूपक = पु० धर्मस्य प्रतिरूपमिव कायति कै–क। “शक्तः परजने दाता स्वजने दुःखदायिनि। मध्वापातो विषास्वादः स धर्मप्रतिरूपकः” मनूक्तलक्षणयुक्ते धर्माभासे “यो बहुधनत्वाद्दानशक्तः सन् अवश्यभरणीये पितृमात्रादिज्ञातिजमे दौर्गत्यात् दुःखोपेते सति यशोऽर्थमन्येम्यो ददाति स तस्य दानविशेषो धर्मप्रतिरूपको न तु धर्म एव मध्वापातो मधुरोपक्रमः प्रथमं यशस्करत्वात् विषास्वादश्चान्ते नरकफलत्वात् तस्मादेतन्न कार्य्यम्” कुल्लू०।

धर्मप्रवक्तृ = पु० धर्मं सन्दिग्धार्थे अयं धर्म इति प्रवक्ति प्र + वच–तृच्। धर्मनिर्णायके राज्ञां व्यवहारस्थानस्थे सभ्यभेदे। स च ब्राह्मण एव तदभावे क्षत्रियवैश्यौ न शूद्रः यथाह मनुः “जातिमात्रोपजीवी वा कामं स्याद्ब्राह्मणब्रुवः। धर्मप्रवक्ता नृपतेर्न्न तु शूद्रः कथञ्चन। यस्य शूद्ररा कुरुते राज्ञो धर्मविवेचनम्। तस्य सीदति तद्राष्ट्रं पङ्के गौरिव पश्यतः” “ब्राह्मणो धर्मप्रवक्तेति विधानादेव शूद्रनिवृत्तिः सिद्धा पुननै तु शूद्र इति शूद्रनिषेधो योग्यब्राह्मणामावे क्षत्रियवैश्ययोरम्यमुज्ञानार्थः। अतएव कात्यायनः “यत्र विप्रो न विद्वान् स्यात् क्षत्रियं तत्र योजयेत्। वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत्” कुल्लू०।

धर्मप्रवचन = पु० धर्मं प्रवक्ति प्र + वच–ल्यु। शाक्यमुनौ शब्दार्थचि०।

धर्मप्रस्थ = पु० तीर्थभेदे “ततो गच्छेत राजेन्द्र! धर्मप्रस्थं समाहितः। तत्र धर्मो महाराज! नित्यमास्ते युधिष्ठिर!। तत्र कूपोदकं कृत्वा ततः स्नातः शुचिस्तथा। पितॄन् देवांस्तु सन्तर्प्यमुक्तपापोदिवं व्रजेत्” भा० व० ८४ अ०।

धर्मबाणिजिक = त्रि० धर्मे बाणिजिक इव। फलकामनया कर्मकरे तस्य फलकामनया कृतत्वेन धर्मं दत्त्वा फलस्य ग्रहणात् बाणिजिकतुल्यत्वम् “धर्मबाणिजिकामूढाः फलकामाः नराधमाः। अर्च्चयन्ति जगन्नार्थ ते कामान्नाप्नुवन्त्युत” मल० त० विष्णुधर्मोत्तरपु०।

धर्मभगिनी = स्त्री धर्मतः कृता भगिनी। १ धर्मतः कृतायां भगिन्यां २ गुरुकन्यायाञ्च।

धर्मभाणक = पु० धर्मं धर्मार्थं भणति पठति। भारतादिपाठके शब्दच०।

धर्मभिक्षुक = पु० धर्मार्थं भिक्षते भिक्ष–उक। मनूक्ते नवविधे धर्मार्थभिक्षाशीले। “सान्तानिकं यक्ष्यमाणमध्वगं सर्ववेदसम्। गुर्वर्थपितृमात्रर्थं स्वाध्यायार्थ्युपतापिनः। नवैतान् स्नातकान् विद्याद्ब्राह्मणान् धर्मभिक्षुकान् निःस्वेभ्यो देयमेतेभ्यो दानं विद्याविशेषतः” मनुः। “सन्तानप्रयोजनत्वाद्विवाहस्य, सान्तनिको विवाहार्थी यक्ष्यमाणो अवश्यकर्त्तव्यज्योतिष्टोमादियागं चिकीर्षुः अध्वगः पान्थः सर्ववेदसः कृतसर्वस्वदक्षिणविश्वजिद्यागः, विद्यागुरोर्ग्रासाच्छादनादिरर्थः प्रयोजनं यस्य स गुर्वर्थः एवं पितृमात्रर्थावपि स्वाध्यायार्थी स्वाध्यायाध्ययनकालीनाच्छादनाद्यर्थी ब्रह्मचारी, उपतापी रोगी एतान्नव ब्राह्मणान् धर्मभिक्षाशीलान् स्नातकान् जानीयात्। एतेभ्यो निर्द्धनेभ्यो गोहिरण्यदि दीयत इति दानविद्याविशेषान्तुरूपेण दद्यात्” कुल्लू०।

धर्मभृत् = त्रि० धर्मं बिभर्त्ति भृ–क्विप् तुक्। धर्मधारके “एष धर्मभृतां श्रेष्ठो भविष्यति नरोत्तमः” भा० व० १२३ अ०।

धर्मभृत = त्रि० धर्मो भृतो येन। १ रक्षितधर्मके २ त्रयोदशस्य मनोः पुत्रभेदे पु०। “त्रयोदशस्य पुत्रास्ते विज्ञेयास्तु रुचेः सुताः। चित्रसेनो विचित्रश्च नयो धर्मभृतो धृतः” हरिवं० ७ अ०।

धर्मभ्रातृ = पु० धर्मतः कृतो भ्राता। १ गुरुपुत्रादौ २ भ्रातृत्वेन प्रतिपन्ने एकाश्रमिणि च “वानप्रस्ययतिब्रह्मचारिणामृक्थभागिनः। क्रमेणाचार्य्यसच्छिष्यधर्मभ्रात्रेकतीर्थिनः” याज्ञ०। “धर्मभ्राता प्रतिपन्नो भ्राता तीर्थशब्दस्याश्रम वाचित्वादेकतीर्थ्येकाश्रमी। धर्मभ्राता चासावेकतीर्थी चेत्यर्थः” वीर० मि०।

धर्म्ममूल = न० त ६०। धर्मस्य प्रमाणे, तानि च मन्वादिभिर्दर्शितानि। तत्र मनुः “वेदोऽखिली धर्ममूलं स्मृतिशीले च तद्विदाम्। आचारश्चैव साधूनामात्मनस्तुष्टिरेव च”। विधिर्बिधेय स्तर्कश्च वेदाङ्गानि षडेव चेति” विधिरज्ञातज्ञापको वेदभागः विधेयोमन्त्रः तर्कोमीमांसा। अङ्गान्याह देवलः “शिक्षाव्याकरणनिरुक्तच्छन्दःकल्पज्योतीषीति वेदाङ्गानि” “शुचो तु चरिते शीलनित्यायारणैन शीलत्वाभिधानात् क्वथं पृथगुपादनम्। न आचर्य्यानुष्ठनिलक्षणक्रियारूपत्वादाचारस्य स्वरूपविशेषत्वाच्छीलस्य व्यक्त एव भेदः। “शुचौ तु चरिते शीलमिति” शीलस्य चरितविशेषहेतुत्वादुपचारेण चरितत्वाभिधानम्। अथ शीलं कस्य धर्मतां प्रमापयति। आत्मन एव पुरुषविशेषस्वभावोऽन्यथानुपपद्यमानः स्वस्य श्रेयः साधनतां बाधयति। तथा च ब्राह्मण्यतेत्यादिहारीतवचने भावप्रत्ययान्ततयाभिधानं शीलस्य क्रियाव्यतिरोकतां बोधयत् स्वभावतामेव ज्ञापयति यदाह हारीतः “ब्राह्मण्यता १ देवपितृभक्तता २ सौम्यता ३ अपरोप तापिता ४ अनश्लीलता ५ मृदुता ६ अपारुष्यं ७ मित्रता ८ प्रियवादित्वम् ९ कारुण्यं १० कृतज्ञता ११ शरण्यता १२ प्रशान्ति १३ श्चेति त्रयोदशविधं शीलम्”। आचारो विवाहादौ कङ्कणबन्धनाद्यनुष्ठानम्। आत्मतुष्टिरत्र धर्मसन्देहे वैदिकसंस्कारवासितान्तःकरणानां साधूनामेकत्र पक्षे मनः परितोषः। याज्ञवल्क्यः “श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः। सम्यक् सङ्कल्पजः कामो धर्ममूलमिदं स्मृतम्। पुराणन्यायमीमांसा धर्मशस्त्राङ्गमित्रिताः। वेदाः स्थानानि विद्यानाम् धर्मस्य च चतुर्दश”।

धर्ममेघ = पु० धर्मात् मेहति वर्षति मिह–अच् धश्चान्तादेशः ६ त०। पातञ्जलोक्ते असंप्रज्ञातसमाधौ। तल्लक्षणादि पात०

सूत्रभाष्यविवृतिषूक्तं यथा “प्रसङ्ख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः” सू०।“यदायं ब्राह्मणः प्रसङ्ख्यानेऽप्यकुसीदस्ततोऽपि न किञ्चित प्रार्थयते तत्रापि विरक्तस्य सर्वथा विवेकख्यातिरेव भवतीति पुंस्कारवीजक्षयान्नास्य प्रत्ययान्तराण्युत्पद्यन्ते तदास्य धर्ममेधोनाम समाधिर्मवति” भा०

“ततः पसङ्ख्यानान्नकिञ्चित् सर्वभावाधिष्ठातृत्वादि प्रार्थयते प्रत्युत तत्राप्रि क्लिश्नाति परिणामित्वदोषदर्शनेन विरक्तः सर्वथा विवेकख्यातेरेव भवति एतदेव विवृणोति तत्रापीति यदा व्युत्थानप्रत्यया भवेयुः तदा नायं ब्राह्मणः सर्वथा विवेकख्यातिः यतस्तस्य प्रत्ययान्तराणि न भवन्ति ततः सर्वथा यदा विवेकख्यातिरिति तदास्य धर्ममेघःसमाधिर्भवति। एतदुक्तं भवति प्रसङ्ख्याने विरक्तस्तन्निरोधमिच्छन् धर्ममेघं समाधिमुपासीत तदुपासने च सर्वथा विवेकख्यातिर्भवति” विवृतिः। “ततः क्लेशकर्मनिवृत्तिः” सू०। “तल्लाभादविद्यादवः क्लेशाः समूलकाषं कषिता भवन्ति कुशलाकुशलाश्च कर्माशयाः समूलघातं हता भवन्ति क्लेशकर्मनिवृत्तौ जीवन्नेव विद्वान् विमुक्ती भवति कस्मात् यस्माद्विपर्ययो भवस्य कारणं, न हि क्षीणविपर्ययः कश्चित् केनचित् क्वचिज्जातो दृश्यते इति” भा०।

“तन्निरोद्धुं पारयतीति तस्य च प्रयोजनमाह। ततः। कस्मात् पुनर्जीवन्नेव विद्वान् विमुक्तोभवति उत्तरं यस्मादिति क्लेशकर्मवासनेद्धः किल कर्माशयो जात्यादिनिदानं, न चासति निदाने निदानी भवितुमर्हति यथाहात्र भगवानक्षपादः “वीतसागजन्मादर्शनादिति” विवृतिः।

“तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्यात् ज्ञेयमल्पम्।” सू०

“सर्वैः क्लेशकर्मावरणेर्विमुक्तस्य ज्ञानस्यानन्त्यं भवति तमसामिभूतमावृतं ज्ञानसत्वं क्वचिदेव रजसा प्रवर्त्तितम् उद्घाटितं ग्रहणसमर्थैं भवति तत्र यदा सर्वैरावरणमलैरपगतमलं भवति तदा भवत्यस्यानन्त्यं ज्ञानस्यानन्त्यात् ज्ञेयमल्पं सम्पद्यते यथाकाशे खद्योतः, यत्रेदमुक्तम् “अत्नोमणिमविध्यत्तमनङ्गुलिरथावयत्। अग्रीवस्तं प्रत्यसुञ्चत्तमजिह्वोभ्यपूजयदिति” भा०।

“अथैवं धर्ममेघे सति कीदृशं चित्तमित्याह। तदेति आव्रियते चित्तसत्वमेभिरिति आवरणानिमलाः क्लेशकर्माणि सर्वे च ते आवरणमलाश्चेति सर्ववरणमलाः तेभ्योऽपेतस्य ज्ञानस्य चित्तसत्वस्य ज्ञायतेऽनेनेति अनया व्युत्पत्त्या, आनन्त्यादपरिमेयत्वात् ज्ञेयमल्वम्। यथा हि शरदि घनपटलमुक्तस्य चन्द्रार्च्चिषः परितः प्रद्योतमानस्य प्रकाशानन्त्यात् प्रकाश्याः घटादयोऽल्पाः प्रकाशन्ते एवमपगतरजस्तमसश्चित्तसत्वस्य प्रकाशानन्त्यादल्पं प्रकाश्यमिति तदेतदाह सर्वैरिति एतदेव व्यतिरेकमुखेन स्फोरयति आवरकेण तमसाभिभूतमिति क्रियाशीलेन रजसा प्रवर्त्तितमतएवोद्वाटितं तम इत्यथः। अतएव सर्वान् धर्मान् ज्ञेयान् मेहति वर्षति प्रकाशनेनेति धममेघ इत्युच्यते। नन्वयमस्तु धर्ममेघः समाधिः। सवासनक्लेशकर्माशयप्रशमहेतुः अथ सत्यप्यस्मिन कस्मात् न जायते पूनर्जन्तुः इत्यत आह यत्रेदमुक्तमिति कारणसमुच्छेदेऽपि चेत् कार्यं क्रियते हन्त भोः मणिवेधाटयोऽन्धादिभ्यो भवेयुः प्रत्यक्षाः, तथाचानुपपन्नार्थतायामाभाणको लौकिक उपपन्नार्थः स्यात्। अविध्यदब्धोमणिमिति आवयत् ग्रथितवान्, प्रत्य- मुञ्चत् पिनद्धवान्, अभ्यपूजयत् स्तुतवानिति” विवृतिः। “ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम्।” सू०

“तस्य धर्ममेघस्योदयात् कृतार्थानां गुणानां परिणामक्रमः परिसमाप्यते नहि कृतभोगापवर्गाः परिसमाप्तक्रमाः क्षणमध्यवस्थातुमुत्सहन्ते।” भा०

“ननु धर्ममेघस्य परा काष्ठा तानप्रसादमात्रं परं वैराग्यं समूलघातमपहन्तु व्युत्थानसमाधिः संस्कारान् सक्लेशकर्माशयान, गुणास्तु स्वतएव विकारकरणशीलाः कस्मात्तादृशमपि पुरुषं प्रति देहेन्द्रियादि नारभन्ते इत्यत आह। ततो–गुणानाम्। शीलमिदं गुणानां यं प्रति कृतार्थास्तं प्रति न प्रवर्त्तन्ते इति भावः” विवृतिः।

धर्म्मयु = त्रि० धर्म + अस्त्यर्थे बा० यु। धर्मविशिष्टे धार्मिके शब्दच०।

धर्म्मयुग = न० धर्मप्रधानं युगं शाक० त०। सत्ययुगे “नात्यर्थं धामिकस्तस्य स हि धर्मयुगेऽभवत्” हरिवं० १३ अ०। (सः कृकपुत्रो बाहुः)।

धर्म्मयुज् = त्रि० धर्मेण युज्यते युज–कर्मणि क्विप्। १ धर्मयुक्ते २ न्यायार्जितद्रव्ये न०। “दाता प्रतिग्रहीता च श्रद्धा देयञ्च धर्मयुक्। देशकालौ च दानानामङ्गान्येतानि षड्विदुः” देवलः। “धर्मयुक् न्यायार्जितद्रव्यम्” शुद्धित० रघु० तथाच विष्णुध० “देश काले तथा पात्रे धनं न्यायागतं तथा। यद्दत्तं ब्राह्मणश्रेष्ठास्त्वनन्तं तत् प्रकीर्त्तितम्”

धर्म्मयूप = पु० धर्मस्य यूप इव। विष्णौ। “धर्मयूपो महामखः” विष्णुस०। “यूपे पशुवत् भगवत्समाराधनात्मका धर्मास्तत्र बध्यन्तेऽतो धर्माणां यूपः” भा० यथा यूपः पशूनां नियोजनस्थानमेवं विष्णुः स्वससाराधनात्मकानां धर्माणां स्थानमित्यर्थः।

***