दो = छेदे दिवा० पर० सक० अनिट्। द्यति अदात् दितः दितिः।

दोःशिखर = न० ६ त० स्कन्धे राजनि०।

दोःसहस्रभृत् = पु० दोःसहस्रं बाहुसहस्रं बिभर्त्ति भृ–क्विप्। १ कार्त्तवीर्य्यार्जुने २ बाणासुरे च “सहस्रभुजभृत् श्रीमान् कार्त्तवीर्य्योऽभवत् प्रभुः” भा० अनु० १५२ अ० कार्त्तवीर्यस्य तथात्वमुक्तम् “अथ वीर्यमदोत्सिक्तो बाणो बाहुसहस्रवान्” हरिवं० १७५ अ० बाणस्य सहस्रबाहुतोक्ता।

दोग्धृ = त्रि० दुह–तृच्। १ दोहनकर्त्तरि २ गोपाले ३ वत्से ४ अर्थोपजीविनि ५ अर्के ६ दोहनशीले च मेदि० “मेरौ स्थिते दोग्धरि दोहदक्षे” कुमा० स्त्रियां ङीप्। सा च ७ धेन्वाम्। “दोहावसाने पुनरेव दोग्ध्रीम्” रघुः “अचला ह्यक्षया भूमिर्दोग्ध्री कामानिवोत्तमान्। दोग्ध्री वासांसि रत्नानि पशून् ब्रीहीन् यवांस्तथा” भा० अनु० ६२ अ०। शीलार्थतृणन्तत्वान्नात्र कर्मणि षष्ठी।

दोघ = पु० दुह–अच् वेदे नि० हस्य घः। दोग्धरि “उरुं दीघं धरुणं देवरायः” ऋ० ५। १५। ५। “दोघं कामानां दोग्धारम्” भा०।

दोडी = स्त्री दोल–अच् गौरा० ङीष् लस्य डः। (दाली) फलप्रधाने वृक्षभेदे तस्याः फलम् अण्। हरीतक्या० लुक्। दोडी तत् फलेऽपि स्त्री।

दोध = पु० दुह–घञ् बा० हस्य धः। गोवत्से “देव! सदोध कदम्बतलस्थ! श्रीधर! तावकनामपदं मे” छन्दोम०।

दोधक = न० एकादशाक्षरपादके वर्णवृत्तभेदे “दोधकवृत्तमिदं भभभाद् गौ” वृत्तर०।

दोर = पु० डोर + डस्य रः। (डोर) इति ख्यातायां रज्ज्वाम्।

दोरक = न० डोरक + डस्य रः। वाणावन्धनतन्तौ “ततस्तदुद्धृतं हिरण्यं सूत्रं दोरकेण वध्नाति”

दोर्गन्तु = पु० दोषा बाहुना गन्तुः कुण्ठितः। कुण्ठितहस्ते कात्या० श्रौ० ७। ६। ११ कार्यासमर्थवाहौ त्रिका०।

दोर्ग्रह = पु० ६ त०। १ बाहुस्तम्भे रोगभेदे। दोर्गृह्णात्यऽनेन करणे घञ्। २ बलवति हारा०।

दोर्ज्या = स्त्री सू० सि० उक्तायां भुजकारज्यायाम् “दोर्ज्यान्तरगुणाभुक्तिस्तत्त्वनेत्रोद्धृता पुनः” मू० “दोर्ज्यान्तरगुणा भुजज्यानयनावसरे यत् ज्यापिण्डान्तरं तेन गुणिता” रङ्गना०।

दोर्मूल = न० ६ त०। भुजमूले कक्षे हेम०।

दोल = पु० दुल–घञ्। दोलने श्रीकृष्णस्य स्वनामख्याते उत्सवभेदे स च फाल्गुनपौर्णमास्यां कर्तव्यः खण्डतिथौ तस्य कुत्र खण्डे कर्तव्यता तच्च दोलोत्सवतत्त्वे उक्तं यथा

“यदा अरुणोदयकाले पौर्णमासीलाभस्तदा तत्रैव दाल यात्रा। उभयदिने अरुणोदयकाले पौर्णमासीलाभे पूर्वदिने सङ्गवमध्याह्नकालव्यापित्वात् त्रिसन्ध्यव्यापित्वेन तिथेर्बलवत्त्वाच्च। यदा तिथिक्षयवशादरुणोदयकाले न पौर्णमासीलाभस्तदाः कदाचित् सहायभावेन चतुर्दश्यादरः। एतेन पूर्वदिने अरुणोदयं विना पूर्वाह्णे पौर्णमासीलाभः परदिने मुहूर्त्तान्यूनतिथिलाभस्तदा फल्गूत्सवः पूर्वदिने युग्मवचनानुरोधादिति निरस्तम् उभयदिने कर्मयोग्यप्रशस्तकालप्राप्ततिथिसन्देह एव युग्मवचनप्रवृत्तेः। एवं पञ्चमीपर्यन्तासु तिथिषु तत्करणे अनयैव दिशा व्यवस्थोन्नेयेति” दोलयात्रातत्त्वम् “विशेषतः कलियुगे दोलोत्सवो विधीयते। फाल्गुने च चतुर्दश्या अष्टमे यामसंज्ञके। अथ वा पौर्णमास्यान्तु प्रतिपत्सन्धिसम्मितौ। पूजयेद्विधिवत् भक्त्या फल्गुचूर्णेश्चतुर्विधैः। सितरक्तैर्गौरपीतैः कर्पूरादिविमिश्रितैः। हरिद्राक्षारयोगाच्च रङ्गरम्यैर्मनोहरैः। अन्यैर्वा रङ्गरम्यैश्च प्रीणयेत् परमेश्वरम्। एकादश्यां समारभ्य पञ्चम्यन्तं समापयेत्। पञ्चाहानि त्र्यहाणि स्युर्दोलोत्सवो विधीयते। दक्षिणाभिमुखं कृष्णं दोलयानं सकृन्नराः। दृष्ट्वापराधनिचयैर्मुक्तास्ते नात्र संशयः” पाद्मे पातालखण्डे। “जैमिनिरुवाच फाल्गुने मासि कुर्वीत दोलारोहणमुत्तमम्। यत्र क्रीडति गोविन्दो लोकानुग्रहणाय वै। प्रत्यर्च्चां देवदेवस्य गोविन्दाख्यान्तु कारयेत्। प्रासादं पुरतः कुर्य्यात् षोढशस्तम्भमुच्छ्रितम्। चतुरस्रं चतुर्द्वारं मण्डपं वेदिकान्वितम्। चारुचन्द्रातप माल्यचामरध्वजशोभितम्। भद्रासनं वेदिकायां श्रीपर्णीकाष्ठनिर्मितम्। फल्गूत्सवं प्रकुर्वीत पञ्चाहानि त्र्यहाणि वै। फाल्गुन्याः पूर्वतो विप्राश्चतुर्दश्यां निशामुखे। वह्न्युत्सवं प्रकुर्वीत दोलमण्डपपूर्वतः। गोविन्दानुगृहीतन्तु यात्राङ्गं तत् प्रकीर्तितम्। आचार्यवरणं कृत्वा वह्निं निर्मथनोद्भवम्। भूमिं संस्कृत्य विधिवत् तृणराशिं महोच्छ्रितम्। सपशुं कारयित्वा तु वह्निं तत्र विनिःक्षिपेत्। पूजयित्वा विधानेन कुष्माण्डविधिनाहुनेत्। गोविन्दं पूजयित्वा तु भ्रामयेत् सप्तधा विभुम्। तस्मिन् काले हरिं दृष्ट्वा सर्वपापैः प्रमुच्यते। यत्नात्तं रक्षयेद्वह्निं यावद् यात्रा समाष्वते। प्रान्तयासे चतुदश्यां गोविन्दप्र- तिमां शुभाम्। वासयित्वा हरेरग्रे पूजयेत् पुरुषोत्तमम्। उपचारविशिष्टैस्तु प्रत्यर्चामपि पूजयेत्। ततो वरञ्च वसनं मालाञ्च द्विजसत्तमाः। अर्चायां विन्यसेन् मन्त्रं परं ज्योतिर्विभावयन्। ततश्च प्रतिमा साक्षात् जायते पुरुषोत्तमः। रत्नान्दोलिकया तां वै नयेत् स्नानस्य मण्डपम्। नानातूर्य्यनिनादैश्च शङ्खध्वनिपुरः सरम्। जयशब्दैस्तथा स्तोत्रैः पुष्पवृष्टिभिरेव च। छत्रध्वजपताकाभिश्चामरव्यजनैस्तथा। निरन्तरं दीपिकाभिस्तथा कुर्य्यान्महोत्सवम्। आगच्छन्ति तदा देवाः पितामहपुरोगमाः। द्रष्टुमृषिगणैः सार्द्धं गोविन्दस्य महोत्सवम्। भद्रासनेऽधिवास्यैनं पूजयेदुपचारकैः। महा स्नानस्य विधिना स्नपनं तस्य कारयेत्। पञ्चामृतैश्च वै सर्वैः तेषामन्यतमेन वा। स्नानान्ते गन्धतोयेन श्रीसूक्तेनाभिषेचयेत्। संप्रोक्ष्य भूषयेद्देवं वस्त्रालङ्कारमाल्यकैः। नीराजयित्वा संपूज्य प्रासादं परिवेष्टयेत्। सप्तकृत्वस्ततो देवं दोलमण्डपमानयेत्। सुसंस्कृतायां रथ्यायां पताकातोरणादिभिः। अधोदेशे मण्डपं तं सप्तशोभ्रामयेत्ततः। ऊर्द्ध्वदेशे पुनस्तद्वत् स्तम्भवेद्यान्तु सप्त वै। यात्रावसाने च पुनर्भ्रामयेदेकविंशतिम्। इयं लीला भगवतः पितामहमुखेरिता” स्कान्दे उत्कलखण्डे। गारुडे “चैत्रे मासि सिते पक्षे दक्षिणाभिमुखं हरिम्। दोलारूढं समभ्यर्च्य मासमान्दोलयेत् कलौ” तन्नित्यता च पद्मपुराणे “ऊर्जे रथं मधौ दोलां श्रावणे तन्तुपर्व च। चैत्रे मदनकारोपमकुर्बाणो व्रजत्यधः। विष्णुं दोलास्थितं दृष्ट्वा त्रैलोक्यस्योत्सवो भवेत्। तस्मात् कार्यशतं त्यक्त्वा दोलाहे उत्सवं कुरु”। दोलोत्सवविधिः “चैत्रस्य शुक्लद्वादश्यां प्रातःकृत्यं समाप्य च। नित्यपूजां विधायाथ कुर्य्याद्दोलोत्सवं व्रती। तदर्थञ्च विशेषेण नैविद्यादिकमर्पयेत्। संमान्य वैष्णवांस्तैश्च गीतनृत्यादि कारयेत्। महानीराजनं कृत्वा प्रक्षिपेदच्युतीपरि। गन्धानुलेपचूर्णानि विचित्राणि विभागशः। सन्तोष्य वैष्णवांस्तैश्च गतिनृत्यादिभिः प्रभुः। नत्वाभ्यर्थ्याऽप्रमत्तः सन् दोलामारोहयेच्छुभाम्। नीत्वा बहिर्वेदिकायामुत्तुङ्गाया यथाविधि। अभ्यर्च्यान्दोलयेत् कृष्णं सर्वलोकावलोकितम्। एवमभ्यर्चयन यामे यामे त्वान्दोलयन् प्रभुम्। महोत्सवेन गमयेद्दिनं रात्रिञ्च यत्नतः। एवं जागरणं कृत्वा वैष्णवैः सह वैष्णवः। प्रणम्य प्रार्थ्य निर्मञ्छ्य कृष्ण स्वालयमानयेत्। चैत्रे मासि सिते पक्षे तृतीयाया रमापतिम्। दोलारूढं समभ्यर्च्य मासमान्दोलयेत् कलौ। यत् फाल्गुनस्य राकादावुत्तरा फल्गुनी यदा। तदा दोलोत्सवः कार्यस्तच्च श्रीपुरुषोत्तमे” इति हरिभक्तिविलासः।

दोला = स्त्री दुल–अच् अ वा टाप्। (डोली) १ यानभेदे, २ उद्यानादौ क्रीडार्थं दोलनयन्त्रे च। स्वार्थे क। दोलिका तत्रार्थे अमरः। ३ स्वेदनार्थे यन्त्रभेदे शब्दार्थचि०। दोलां करोति क्यङ् दोलायते अदोलायिष्ट “मतिर्दोलायते न्यूनं सतामपि खलोक्तिभिः” हितो० “दोलायमानं गोविन्दं मञ्चस्थं मधुसूदनम्। रथस्थं वामनं दृष्ट्वा पुनर्जन्म न विद्यते” स्क० पु० उत्क०।

दोलायुद्ध = न० दोलेव युद्धम्। अनियतजयपराजययुतयुद्धे। दोलाया यथा दोलनेनान्यतरपार्श्वे स्थितिरनियता एवं जयपराजययोरेकतरपक्षे अनियततया स्थितिर्यत्र तादृशं युद्धं दोलायुद्धमिति व्यवह्रियते। “दोलायुद्धं कृतगुरुतरध्वानमौद्धत्यभ्राजाम्” माघः।

दोली = स्त्री दोल्यतेऽनया दुल–बा० करणे इन् वा ङीप्। (डुली) ख्याते यानभेदे बाह्यखट्वायाम् हारा०।

दोष = पु० दुष–भावे करणे वा घञ्। १ अपकर्षप्रयोजके वस्तुनिष्ठे धर्मभेदे। यथा काव्यदोषा श्रुतिकट्वादयः हेतु दोषाः व्यभिचारादयः भ्रमदोषाः पित्तादयः। २ दूषणे “दोषो विचारसुलभो यदि दुष्यते तत् व्याख्या मम प्रथममेव न दूषणीया” महेश्वरः। “एको हि दोषोगुणसन्निपाते निमज्जतीन्दाः किरणेष्विवाङ्कः” कुमा० “अदाता वंशदोषेण कर्मदोषात् दरिद्रता। उन्मादो मातृदोषेण पितृदोषेण मूर्खता”। काव्यदोषास्तु काव्य० प्र० उक्ता यथा “मुख्यार्थहतिर्दोषो रसश्च मुख्यस्तदाश्रयाद्वाच्यः। उभयोपयोगिनः स्युः शब्दाद्यास्तेन तेष्वपि सः” हतिरककर्षः। “दुष्टं पदं श्रुतिकटु च्युतसंस्कृत्यप्रयुक्तमसमर्थम्। निहतार्थमनुचितार्थं निरर्थकमवाचकं त्रिधाऽश्लीलम्। सन्दिग्धमप्रतीतम् ग्राम्यं नेयार्थमथ भवेत् क्लिष्टम्। अविमृष्टविधेयांशं बिरुद्धमतिकृत् समासगतमेव”। तत्र श्रुतिकटु परुषवर्णरूपम् १ दुष्टम्। २ च्युतसंस्कृति व्याकरणलक्षणहीनम्। ३ अप्रयुक्त” तथाम्नातमपि कविभिर्नादृतम्। यथा दैवतशब्दः पुंस्याम्नातोऽपि न केनचित् प्रयुज्यते। ४ असमर्थं यत्तदर्थं पठ्यते न च तत्राऽस्य शक्तिः यथा हन्तीति गमनार्थम्। ५ निहतार्थं यदुभयाथनप्रसिद्धेऽर्थे प्रयुक्तम्। यथा लोहितशब्द उज्वलार्थे। ६ अनुचितार्थं यथा, पशुपदं कातरतामभिव्यनक्तीत्यनुचितार्थम्। ७ निरर्थकं पादपूरणमात्रप्रयोजनं चादिपदम्। ८ अवाचकं यथा जन्तुपदतदातर्य्यर्थे प्रयुक्तं न च तस्याभिधायकम्। यच्चोपसर्गसंसर्गादर्थान्तरगतम्। यथा दधात्यर्थे विदधातीति पदम्। ९ त्रिधेति व्रीडाजुगुप्सामङ्गलव्यञ्जकत्वात् अश्ली लम्। यथा साधनवायुविनाशशब्दा व्रीडादिव्यञ्जकाः। १२ सन्दिग्धं यथा बन्द्यामिति किं हठहृतमहिलायां, किं वा नमस्यामिति सन्देहः। १३ अप्रतीतं यत् केवले शास्त्रे प्रसिद्धम्। यथा आशयशब्दः योगशास्त्रादावेव वासनार्थो नान्यत्र। १४ ग्राम्यं यत् केवले लोके स्थितम्। यथा कट्यादिशब्दाः। १५ नेयार्थम् “निरूढा लक्षणाः काश्चित् सामर्थ्यादभिधानवत्। क्रियन्ते साम्प्रतं काश्चित् काश्चिन्नैव त्वशक्तितः” इति यन्निषिद्धं लाक्षणिकम् यथा चपेटापाटतेन निर्जितत्वं लक्ष्यते। १६ क्लिष्टं यत्रार्थप्रतिपत्तिर्व्यवहिता यथा अत्रिनेत्रजज्योतिरुद्गमभासिशब्दस्य कुमुदार्थपरत्वे क्लिष्टत्वम्। १७ अविमृष्टः प्राधान्येनानिर्दिष्टो विधेयांशो यत्र तत्। यत्र अनुवाद्यमनुक्त्वा प्रथमं विधेयनिर्देशः यथा न्यक्कारोह्ययमेवेत्यत्र अनुवाद्यविधेययोरक्रमेण निर्देशो यत्र। समासान्तर्गतत्वेन विधेयांशस्य झटित्यबोधोऽपि यत्र। यथा तत्रैव पद्ये वृथोच्छूनैरित्यत्र वृथात्वमुच्छूनत्वे विधेयं तच्च समासान्तर्गततया नाशु वोध्यते। १८ विरुद्धमतिकृत्। यथा भवानीपतिशब्दस्य भवान्याःपत्यन्तरप्रतीतिकारित्वम्। “अपास्य च्युतसंस्कारमसमर्थं निरर्थकम्। वाक्येऽपि दोषाः सन्त्येते पदस्यांशेऽपि केचन”। वाक्यमात्रगतादोषास्तु।

“प्रतिकूलवर्णमुपहतलुप्तविसर्गं विसन्धि हतवृत्तम्। न्यूनाधिककथितपदम् अभवन्मतयोगमनभिहितवाच्यम्। अपदस्थपदसभासं सङ्कीर्णं गर्भितं प्रसिद्धिहतमृ। भग्नप्रक्रममक्रमम् अमतपरार्थं च वाक्यमेव तथा” रसानुगुणत्वं वर्णानां वक्ष्यते तद्विपरीतं १ पतिकूलवर्णम् यथा शृङ्गारे टवर्गादि रौद्रे मधुरवर्णादि। २ उपहत उत्वं प्राप्तो लुप्तो वा विसर्गो यत्र तत् एतच्च असकृत्प्रयोगे एव दोषो न सकृत्प्रयोगे। ३ विसन्धिः सन्धेर्वैरूप्यं विश्लेषोऽश्लीलत्वं कष्टत्वञ्च। संहितां न करीमीति स्वेच्छया सकृदपि दोषः प्रगृह्यादिहेतुकत्वे तु असकृत्। तत्र चलण्डामरचेष्टितमित्यादौ अश्लीलता तर्वालीत्यादौ कष्टतेति बोध्यम्। ४ हतं लक्षणानुसरणेऽप्यश्रव्यं अप्राप्तगुरुभावान्तलघु रसाननुगुणञ्च वृत्तं यत्र तत् हतवृत्तम्। ५ न्यूनपदं यथा “सुचिरमुषितं वल्कलधरैरिति” वेणीसंहारपद्ये अस्माभिरिति विशेष्यं पदं न्यूनम्। तथा तत्रैव पद्ये “गुरुः खेदं खिन्ने मयीत्यत्र” खिन्ने इत्यस्यात् पूर्वं इत्थमिति पदं च न्यूनम्। ६ अधिकं यथा स्फटिकाकृतिनिर्मल इत्यत्राकृतिपदमधिकम्। ७ कथितपदं यथा एकत्र पद्ये एकस्यैव लीलादिशब्दस्य द्विधा प्रयोगे। ८ पतत्प्रकर्षम्। यत्रादौ गाढबन्धनरूपप्रकर्षः अन्ते तु तद्धीनता तत्। ९ समाप्तपुनरात्तम्। क्रिययैव वाक्यसमाप्तेर्नियमात् क्रियाप्रयोगादनन्तरं यत्र तत्क्रियासापेक्षकारकान्तरादिप्रयोगः तत्र समाप्त पुनरात्तत्वम्। १० द्वितीयार्द्धगतैकवाचकशेषप्रथमार्द्धम्। द्वितीयार्द्धगतमेकं पदं प्रथमार्द्धस्य समापकं यत्र तथाभूतं वाक्यं दुष्टमित्यर्थः। ११ न भवन् मतः इष्टः योगः सम्बन्धः यत्र तत्। १२ अवश्यं वक्तव्यमनुक्तम्। १३ अस्थानस्थपदम्। १४ अस्थानस्थसमासञ्च। १५ संकीर्णं यत्र वाक्यान्तरस्य पदानि वाक्यान्तरमनुप्रविशन्ति। १६ गर्भितं यत्र वाक्यस्य मध्ये वाक्यान्तरमनुप्रविशति। १७ प्रसिद्धिमतिक्रान्तं यथा रवो मण्डूकादिषु प्रसिद्धो, न तु सिंहादिनादे। १८ भग्नः प्रक्रमः प्रस्तावो यत्र तत्। १९ अविद्यमानः क्रमो यत्र तदक्रमम्। २० अमतः प्रकृतविरुद्धः परार्थो यत्र। अर्थदोषास्तु। अर्थोऽपुष्टः कष्टोव्याहतपुनरुक्तदुष्क्रम ग्राम्याः। सन्दिग्धो निर्हेतुः प्रसिद्धिविद्याविरुद्धश्च। अनवीकृतः सनियमाऽनियमविशेषाविशेषपरिवृत्ताः। साकाङ्क्षोऽपदयुक्तः महचरभिन्नः प्रकाशित विरुद्धः। विध्यनुवादायुक्तस्त्यक्त पुनः स्वीकृतोऽश्लीलः”। यत्रातिविततत्वादयोऽनुपादानेऽपि प्रतिपाद्यमानमर्थं न वाधन्त इत्यपुष्टास्तत्र, न त्वसङ्गताः पुनरुक्ता वा। रसदोषास्तु “व्यभिचारिरसस्थायिभावानां शब्दवाच्यता। कष्टकल्पनया व्यक्तिरनुभावविभावयोः। प्रतिकूलविभावादिग्रहो दीप्तिः पुनःपुनः। अकाण्डे प्रथनच्छेदौ अङ्गस्याप्यतिविस्तृतिः। अङ्गिनोऽननुसन्धानं प्रकृतीनां विपर्ययः। अनङ्गस्याभिधानञ्च रमे दोषाः स्युरीदृशाः”।

चन्द्रालोके तु दोषसामान्यविशेषलक्षणान्युक्त्वा दिङ्मात्रमुदाहृतं यथा “स्याच्चेतोविशता येन सक्षता रमणीयता। शब्देऽर्थे च कृतोन्मेषं दोषमुद्धापयन्ति तम्। भवच्छ्रुतिकटुर्वर्णः श्रव- णोद्वेजने पटुः। विख्यायते व्याकरणविरुद्धं च्युतसंस्कृतिः। अप्रयुक्तं दैवतादौ शब्दे पुंलिङ्गतादिकम्। असमर्थन्तु हन्त्यादेः प्रयोगो गमनादिषु। स हन्ति हन्त कान्तारे कान्तः कुटिलकुन्तलः। निहतार्थं लोहितादौ शोणितादिप्रयोगतः। एकाक्षरं विना भूभ्रूक्ष्मादिकं खलतादिवत्। व्यनक्त्यनुचितार्थं यत्पदमाहुस्तदेव तत्। इयमुद्धतशाखाग्रकेलिकौतुकवानरी। निरर्थकं तुहीत्यादि पूरणैकप्रयोजनम्। अर्थे विदधदित्यादौ दधदाद्यमवाचकम्। धत्ते नभस्तलं भास्वानरुणं तरुणैः करैः। अश्लीलं त्रिविधं व्रीडाजुगुप्साऽमङ्गलात्मना। आह्लादसाधनं वायुः कान्तालाशे भवेत् कथम्। स्याद्द्व्यर्थमिह सन्दिग्धं न द्यां यान्ति पतत्त्रिणः। स्यादप्रतीतं शास्त्रैकगम्यं वीताऽनुमादिवत्। शिथिलं, शयने लिल्ये मच्चित्तं ते शशिश्रियि। मस्तपृष्ठकटीलोष्ठगल्लादि ग्राम्यमुच्यते। नेयार्थं लक्षणात्यत्तप्रसरादमनोहरम्। हिमांशोर्हारधिक्कारजागरे यामिकाः कराः। क्लिष्टमर्थो यदीयोऽर्थश्रेणितः श्रेणिमृच्छति। हरिप्रियापितृवारप्रवाहप्रतिमं वचः। अविकृष्टविधेयांशः समासपिहिते बिधौ। विशन्ति विशिखप्रायाः कटाक्षाः कामिनां हृदि। अपराधीन इत्यादिविरुद्धमतिकृन्मतम्। अन्यसङ्गतमुत्तुङ्गहारशोभिपयोधरा। रसाद्यनुचिते वर्णे प्रतिकूलाक्षरं विदुः। न मामङ्गद! जानासि रावणं रणदारुणम्। यस्मिन्नुपहतो लुप्ती विसर्ग इह तत्तथा। कुसन्धिः वटवागच्छ विसन्धिः नृपती इमौ। हतवृत्तमनुक्तोऽपि छन्दीदोषश्चकास्ति चेत्। विशाललोचने! पश्याऽम्बरं तारातरङ्गितम्। न्यूनं त्वत्खङ्गसम्भूतयशः पुष्पं नभस्तलम्। अधिकं भवतः शत्रून् दशत्त्यसिलताफणी। कथितं पुनरुक्ता वाक् श्यामाब्जश्यामलोचना। विकृतं दरविकृतैरैयरुः कुञ्जराः पुरम्। पतत्प्रकर्षहीनाऽनुप्रासादित्वे यथोत्तरम्। गम्भोरारम्भदम्भोलिपाणिरेष समागतः। समाप्तपुनरात्तं स्यादेष पीयूषभाजनम्। नेत्रानन्दी तुषारांशुरेत्यम्बुनिधिवान्धवः। अर्द्धान्तरपदापेक्षि क्रीडानृत्येषु सस्मितम्। मेघारम्भं स्तुमः शम्भुमर्द्धरम्भोरुविग्रहम्। अभवन्मतयोगः स्यान्न चेदभिमतोऽन्वयः। येन वद्धोऽम्बु धिर्य्यस्य रामस्यानुचरा वयम्। स एष लङ्कालङ्कारं रावणं हन्तुसुद्यतः। द्विषां सम्पदमाच्छिद्य यः शत्रून् समपूरयत्। अस्थानस्थसमासं नविद्वज्जनमनोरमम्। मिथः पृथग्वाक्यपदैः सङ्कीर्णं यत्तदेव तत्। वक्त्रेण भ्राजते रात्रिः कान्ता चन्द्रेण राजते। ब्रह्माण्डं त्वद्यशः पूरगर्भितं भूमिभूषणम्। आकर्णय पयः पूर्णसुवर्णकलशायते। भग्नप्रक्रममारब्धशब्दनिर्वाहहीनता। अक्रमः कृष्ण! पूज्यन्ते त्वामनाराध्य देवताः। अमतार्थान्तरं मुख्येऽमुख्ये वार्थे विरोधकृत्। त्यक्तहारमुरः कृत्वा शोकेनालिङ्गिताऽङ्गना। अपुष्टार्थो विशेष्ये चेन्न विशेषोविशेषणात्। विशन्ति हृदयं कान्ताकटाक्षाः खञ्जनत्विषः। कष्टः स्पष्टावबोधार्थमक्षमो वाच्यसन्निभः। व्याहतश्चेद्विरोधः स्यान्मिथः पूर्वापरार्थयोः। सहस्रपत्रमित्रं ते वक्त्रं केनोपमीयते। कुतस्तत्रोपमा यत्र पुनरुक्तः सुधाकरः। दुःक्रमग्राम्यसन्दिग्धास्त्रयो दोषाः क्रमादमी। त्वद्भक्तः कृष्ण! गच्छेयं नरकं स्वर्गमेव वा। एकं मे चुम्बनं देहि तव दास्यामि कञ्चुकम्। ब्रूत किं मेव्यतां चन्द्रमुखीचन्द्रकिरीटयोः। अनौचित्यं कीर्त्तिलतां तरङ्गयति यः सदा। प्रसिद्ध्या विद्यया वापि विरुद्धं द्विविधं मतम्। न्यस्तेयं पश्य कन्दर्पप्रतापधवलद्युतिः। केतकी शेखरे शम्भोर्धत्ते चन्द्रकलातुलाम्। सामान्यपरिवृत्तिः स्यात् कुण्डलच्छविविग्रहा। विशेषपरिवृत्तिः स्याद्दयिता मम चेतसि। द्वे स्तः सहचराऽचारुविरुद्धान्योन्यसङ्गती। ध्वाङ्क्षाः सन्तश्च तनयं स्वं परञ्च न जानते। सरोजनेत्र! पुत्रस्य मुखेन्दुमवलोकय। पालयिष्यति ते गोत्रमसौ नरपुरन्दरः। पदे तदंशे वाक्यांशे वाक्ये वाक्यकदम्बके। यथानुसारमभ्यूहेद्दोषान् शब्दार्थसम्भवान्”। ३ व्यावृत्तिव्यवहारान्यतरप्रयोजनविघटके धर्मभेदे स च दोषस्त्रिविधः। अव्याप्तिः अतिव्याप्तिः असम्भवः। ४ विध्यतिक्रमजनितेऽदृष्टभेदे मीमांसकाः। ५ गुरुतल्पगमनाभक्ष्यभक्षणादिजनिते पापे मेदि०। दुष–वैकृत्ये करणे घञ्। ६ वातपित्तकफेषु यथाह भाव० प्र० अथ दोषाः प्रवक्ष्यन्ते इत्युपक्रमे दोषस्वरूपमाह वाग्भटः “वायुः पित्तं कफश्चेति त्रयो दोषाः समासतः। विकृताऽविकृता देहं घ्नन्ति ते वर्द्धयन्ति च। ते व्यापिनोऽपि हृन्नाभ्योरधोमध्योर्द्धसंश्रयाः। वयोऽहोरात्रभुक्तानामन्तमध्यादिगाः क्रमात्” दोषशब्दस्य निरुक्तिमाह “धातवश्च मलाश्चापि दुष्यन्येभिर्यतस्ततः। वातपित्तकफा एते त्रयो दोषा इति स्मृताः” दोषा इत्यत्र दुष वैकृत्ये इति दुषधातोः दुष्यन्त्ये भिरिति वाक्ये अकर्त्तरि च कारके संज्ञाया मित्यनेन सूत्रेण करणेऽर्थे घञ् प्रत्ययः। ७ तेषां विकारे च। गौ० उक्ते प्रवृत्तिप्रयोजके रागद्वेषमोहात्मके ८ धर्मभेदे तल्लक्षणादिकं सू० भा० उक्तं यथा “प्रवर्त्तनालक्षणा दोषाः” सू० “प्रवर्त्तना प्रवृत्तिहेतुत्वम् ज्ञातारं हि रागादयः प्रवर्त्तयन्ति पुण्ये पाप्रे वा। यत्र मिथ्याज्ञानं तत्र रागद्वेषाविति प्रत्यात्मवेदनीया ही मे दोषाः कस्मात्? लक्षणतो निर्दिश्यन्त इति कर्मलक्षणाः खलु रक्तद्विष्टमूढाः रक्तो हि तत्कर्म कुरुते येन कर्मणा सुखं दुःखं वा भजते, तथा द्विष्टस्तथा मूढ इति दोषा रागद्वेषमोहा इत्युच्यमाने बहुनोक्तं भवतीति” भा० विवृतमेतत् तद्वृत्तौ यथा “दोषं लक्षयति। दोषा इति बहुवचनं रागद्वेषमोहात्मकलक्ष्यत्रयज्ञापनाय प्रवर्त्तना प्रवृत्तिजनकत्वं तदेव लक्षणं येषाम् यद्यपीदं शरीरादृष्टेश्वरेच्छादावतिव्याप्तं तथापि लौकिकप्रत्यक्षसविषयत्वे सतीति विशेषणीयं यागादिगोचरप्रमावारणाय प्रमान्यत्वे सतोति विशेषयन्ति”। तद्भेदाश्च सू० भा० ४ अ० १ आह्निके उक्ता यथा “तथा दोषाः” सू० “परीक्षिता इति बुद्धिसमानाश्रयत्वादात्मगुणाः, प्रवृत्तिहेतुत्वात् पुनर्भवप्रतिसन्धानसामर्थ्याच्च संसारहेतवः, संसारस्यानादित्वादनादिना प्रबन्धेन प्रवर्त्तन्ते, मिथ्याज्ञाननिवृत्तिस्तत्त्वज्ञानात् तन्निवृत्तौ रागद्वेषप्रबन्धोच्छेदेऽपवर्ग इति प्रादुर्भावनिरोधधर्मका इत्येवमाद्युक्तं दोषाणामिति प्रवर्त्तनालक्षणा दोषा इत्युक्तं तथा चेमे मानेर्ष्यासूयाविचिकित्सामत्सरादयः ते कस्मान्नोपसङ्ख्यायन्ते इत्यत आह” भा०। “तत्त्रैराश्यं रागद्वेषमोहार्थान्तरभावात्” सू० “तेषां दोषाणां त्रयोराशयस्त्रयः पक्षाः। रागपक्षाः–कामो मत्सरः स्पृहा तृष्णा लोभ इति। द्वेषपक्षाः–क्रोधः ईर्ष्याऽसूया द्रोहोऽमर्ष इति। मोहपक्षाः–मिथ्याज्ञानं विचिकित्सा मानः प्रमादः इति। त्रैराश्यान्नोपसङ्ख्यायन्ते इति, लक्षणस्य तर्ह्यभेदात् त्रित्वमनुपपन्नम्, नानुपपन्नं रागद्वेषमोहार्थान्तरभावात् आसक्तिलक्षणो रागः, अमर्षलक्षणो द्वेषः, मिथ्याप्रतिपत्तिलक्षणो मोह इति। एतत् प्रत्यात्मवेदनीयं सर्वशरीरिणाम्, विजानात्ययं शंरीरी रागमुत्पन्नम्, अस्ति मेऽध्यात्मं रागधर्म इति। विरागञ्च विजानाति नास्ति मेऽध्यात्मं रागधर्म इति। एवमितरयोरपीति। मानेर्ष्याऽसूयाप्रभृतयस्तु त्रैराश्यमनुपतिता इति नोपसङ्ख्यायन्ते” भा०। विवृतमेतत् वृत्तौ “तेषां दोषाणां त्रयो राशयः त्रयः पक्षा न तु रागद्वेषमोहानामेकैकत्वं तेषामर्थान्तरभावात् अवान्तरभेदवत्त्वात् तथा च भयशोकमानादीनामेष्वेवान्तर्भावान्न विभागन्यूनत्वं इच्छात्वद्वेषत्वमिथ्याज्ञानत्वरूपविरुद्धधर्मवत्त्वान्न विभागाधिक्यम् इच्छात्वादिकन्तु रागादावनुभवसिद्धं तत्र रागपक्षः कामो मत्सरः स्पृहा तृष्णा लोभो माया दम्भ इति कामो रिरंसा। रतिश्च विजातीयस्त्रीसंयोगः। नारीगताभिलाष इति तु न युक्तं स्त्रियाः कामेऽव्याप्तेः। मत्सरः स्वप्रयोजनप्रतिसन्धानं विना पराभिमतनिवारणेच्छा यथा राजकीयादुदपानान्नोदकं पेयम् इत्यादि। एवं परगुणनिवारणेच्छाऽपि। स्पृहाधर्माविरोधेन प्राप्तीच्छा। तृष्णा इदं मे न क्षीयतामितीच्छा उचितव्ययाकरणेनापि धनरक्षणेच्छारूपं कार्पण्यमपि तृष्णाभेद एव। धर्मविरोधेन परद्रव्येच्छा लोभः। परबञ्चनेच्छा माया कपटेन धार्मिकत्वादिना स्वोत्कर्षख्यापनेच्छा दम्भः। द्वेषपक्षाः क्रोध ईर्ष्याऽसूया द्रोहोऽमर्षोऽभिमान इति क्रोधो नेत्रलौहित्यादिहेतुर्दोषविशेषः। ईर्ष्या साधारणे वस्तुनि परस्वत्वात्तद्ग्रहीतरि द्वेषः यथा दुरन्तदायादानाम्। असूया परगुणादौ द्वेषः द्रोहो नाशाय द्वेषः हिंसा तु दोषजन्या। परे तु तान्द्रोहं मन्यते। अमर्षः कृतापराधे असमर्थस्य द्वेषः अभिमानोऽपकारिण्यकिञ्चि करस्यात्मनि द्वेषः। मोहपक्षा विपर्य्ययसंशयतर्कमानप्रमादभयशोकाः। विपर्य्ययो मिथ्याज्ञानापरपर्य्यायोऽयथार्थनिश्चयः एकधर्मिकविरुद्धभावाभावज्ञानं संशयः स एव विचिकित्सेत्युच्यते व्याप्यारोपाद्व्यापकप्रसञ्जनं तर्कः आत्मन्यविद्यमानगुणारोपेणोत्कर्षधीर्मानः गुणवति निर्गुणत्वधीरूपस्मयोऽपि मानेऽन्तर्भवति। प्रमादः पूर्वकर्त्तव्यतया निश्चितेऽप्यकर्त्तव्यताधीः एवं वैपरीत्येऽपि भयमनिष्टहेतूपनिपाते तत्परित्यागानर्हता ज्ञानं शोक इष्टवियोगे तल्लाभानर्हताज्ञानम्” ९ मिथ्याज्ञानजन्यवासनायां दुःखजन्यप्रवृत्तिदोषा मिथ्याज्ञानानामिति सूत्रवृत्तौ चरमे दोषशब्दस्य तथार्थत्वाभिधानात्। १० वसुपुत्रभेदे द्रोणशब्दे दृश्यम् भ्रमजनकादोषास्तु पित्तादयः भाषापरिच्छेदे उक्ता यथा “दोषोऽप्रमाया जनकः प्रमायास्तु गुणो भवेत्। पित्तदूरत्वादिरूपो दोषो नानाविधः स्मृतः।” “अप्रमां प्रति दोषः जनकः कारणम्। प्रमां प्रति गुणः कारणम्। तत्रापि पित्तादिरूपा दोषा अननुगताः। तेषां कारणत्वम् अन्वयव्यतिरेकाभ्यामेव सिद्धम्। गुणस्य प्रमा- जनकत्वन्तु अनुमानात् सिद्धम्। यथा प्रमा ज्ञानसाधारणकारणभिन्नकारणजन्या जन्यज्ञानत्वात् अप्रमावत्। न च दोषाभाव एव कारणमस्त्विति वाच्यम् पीतः शङ्ख इति ज्ञानस्थले पित्तदोषसत्त्वाच्छङ्खत्वप्रमानुत्पत्तिप्रसङ्गात्। विनिगमनाविरहात् अनन्तदोषाभावस्य कारणत्वमपेक्ष्य गुणकारणताया न्याय्यत्वात्। न च गुणसत्त्वेऽपि पित्तप्रतिबन्धाच्छङ्खे न सैत्यज्ञानम्। अतः पित्तादिदोषाभावानां कारणत्वमवश्यं वाच्यं तथा च किं गुणस्य हेतुत्वकल्पनयेति वाच्यम् तथाप्यन्वयव्यतिरेकाभ्यां गुणस्यापि हेतुत्वसिद्धेः। एवं भ्रमं प्रति गुणाभावः कारणमित्यस्यापि सुवचत्वाच्च। तत्र दोषाः के इत्याकाङ्क्षायामाह। पित्तेति। क्वचित् पीतादिभ्रमे पित्तं दोषः। क्वचिच्चन्द्रादेः स्वल्पपरिमाणभ्रमे दूरत्वं दोषः। क्वचिच्च वंशोरगभ्रमे मण्डूकवसाञ्जनमित्येवं दोषा भ्रान्तिजनका इत्यर्थः। ११ गोवत्से। स्वार्थे क। दोषक तत्रार्थे। “वातपित्तकफा दोषाः दुष्याः स्युः सप्त धातवः” शा० ति० दोषक्षयवृद्धिज्ञानादिकं सुश्रुते सूत्रस्थाने १६ अ० उक्तं तत्रैव दृश्यम्। न्यायमतसिद्धहेत्वाभासाख्याः हेतुदोषाश्च हेत्वाभासशब्दे वक्ष्यन्ते तत्सामान्यलक्षणं च यादृशविशिष्टविषयकत्वेन ज्ञानस्यानुमितितत्कारणीभूतज्ञानप्रतिबन्धकत्वं तत्त्वम्। तत्पक्षकतत्साध्यकानुमितौ यावन्तोदोषाः सम्भवन्ति तावदन्यतमत्वम् वा “दुषधातोरिवास्माकं दोषसम्पत्तये गुणः” उद्भ०

दोषग्राहिन् = त्रि० दोषं गृह्णाति ग्रह–णिनि। खले हला०। “विसृज्य सूर्पपवद्दोषान् गुणान् गृह्णन्ति साधवः। दोषग्राही गुणत्यागी चालनीव हि दुर्जनः” उद्भट्टः।

दोषघ्न = त्रि० दोषं वातादिविकारं हन्ति हन–टक्। धातुवैषम्यरूपदोषनाशके औषधादौ “दोषघ्ना ग्रहणी पाण्डुरोगार्शः कुष्ठनाशनाः” सुश्रुतः।

दोषज्ञ = त्रि० दोषं कर्त्तव्याकरणे दोषं जानाति ज्ञा–क। १ पण्डिते अमरः। “अथ प्रदोषे दोषज्ञः संवेशाय विशां पतिम्” रघुः। २ परकीयदोषज्ञातृमात्रे त्रि०। “अज्ञातदोषैर्दोषज्ञैः” माघः।

दोषण्य = त्रि० दोष्णि भवः दोष + यत् दोषन्नादेशः “ये चाभावककर्मणीः” प्रकृतिवद्भावः। बाहुभवे “यक्ष्मं दोषण्यमंसाभ्याम्” ऋ० १०। १६३। २

दोषत्रय = न० ६ त०। वातपित्तकफानां त्रिके राजनि०।

दोषभेद = पु० ६ त०। द्विषष्टिप्रकारे दोषभेदे स च सुश्रुते उक्तो यथा अथातो दोषभेदविकल्पनामाध्यायं व्याख्यास्यामः।

“द्विषष्टिर्दोषभेदा ये पुरस्तात्परिकीर्तिताः। कति तत्रैकशो ज्ञेया द्विशो वाप्यथ वा त्रिशः। तस्य तद्वचनं श्रुत्वा संशयच्छिन्महातपाः। प्रीतात्मा नृपशार्दूलः सुश्रुतायाह तत्त्वतः। त्रयो दोषा धातवश्च पुरीषं मूत्रमेव च। देहं सन्धारयन्त्येते ह्यव्यापन्ना रसैर्हितैः। पुरुषः षोडशकलः प्राणश्चैकादशैव ये। रोगाणान्तु सहस्रं यच्छतं विंशतिरेव च। शयञ्च पञ्च द्रव्याणां त्रिसप्तत्यधिकोत्तरम्। व्यासतः कीर्त्तितं तद्धि भिन्नदोषास्त्रयोगुणाः। द्विषष्टिधा वदन्त्येते भूयिष्ठमिति निश्चयः। त्रयएव पृथक् दोषा द्विशो नव समाधिकैः। त्रयोदशाधिकैकद्विसममध्योल्वणैस्त्रिशः। पञ्चाशदेवन्तु सह भवन्ति क्षयमागतैः। क्षीणमध्याधिकक्षीणक्षीणवृद्धैस्तथापरैः। द्वादशैवं समाख्यातास्त्रयो दोषा द्विषष्टिधा। मिश्रधातुमलैर्दोषा यान्त्यसंख्येयतां पुनः। तस्मात्प्रसङ्गं संयम्य दोषभेदविकल्पनैः। रोगं विदित्वोपचरेद्रसभेदैर्यथेरितैः। भिषक् कर्त्ताथ करणं रसा दोषास्तु कारणम्। कार्यमारोग्यमेवैकमनारोग्यमतोऽन्यथा”।

दोषल = त्रि० दोष + मत्वर्थे लच्। दोषयुक्ते “केदारं म धुरं प्रोक्तं विपाके गुरु दोषलम्। तद्वत् पाल्वलमुद्दिष्टं विशेषाद्दोषलन्तु तत्” सुश्रुतः।

दोषस् = स्त्री दुष–असुन्। रात्रौ “स्वस्त्यथोषसो दोषसश्च” अथ० १६। ४ ६

दोषा = अव्य० दुष्यत्यत्र दुष–बा० आधारे आ स्वरा०। १ रात्रावित्यर्थे “दोषाऽपि नूनमहिमांशुरसौ किलेति” माघः दोषापि रात्रावपीत्यर्थः। दिवाभूता रात्रिः दोषाभूतमहः इति भाष्यप्रयोगात् असप्तम्यर्थेऽपि तस्य वृत्तिता। ततः ष्ठ्यल् तुट् च। दोषातन रात्रिभवे त्रि० “दोषातनं बुधवृहस्पतियोगदृश्यः” रघुः। (अभ्रवृन्दम्) अस्य टाबन्तस्त्रीत्वमपि “घर्मकालदिवस इव क्षयितदोषः” काद०। दोषाशब्दस्य टाबन्तत्वे एव गौणे ह्रस्वसम्भवः अव्ययत्वे न तत्सम्भवः इति बोध्यम्। दोस् + भागुरिमते स्त्रियां टाप्। २ बाहौ स्त्री शब्दार्थचि०।

दोषाकर = पु० दोषा रात्रौ करोऽस्य। १ चन्द्रे “यामित्रवेध विहितानपहत्य दोषान् दोषाकरः सुखमनेकविधं विधत्ते” ज्यो० त०। ६ त०। २ द्रोषाणामाकरे च।

दोषाक्लेशी = स्त्री दोषां बाहुं क्लिश्नाति क्लिश–अण् गौरा० ङीष्। वनवर्वुरिकायां राजनि०।

दोषाङ्कुश = पु० दोषाणां काव्यदोषाणामङ्कुश इव निरासकत्वात्। चन्द्रालोकोक्ते काव्यदोषनिवारके काव्यधर्मभेदे तल्लक्षणादि तत्रोक्तं यथा “दोषमापतितं स्वान्ते प्रसरन्तं विशृङ्खलम्। निवारयति यस्त्रेधा दोषाङ्कुशमुशन्ति तम्। दोषो गुणत्वं तनुते दोषत्वं वा निरस्यति। भवन्तमथ वा दोषं नयत्यत्याज्यतामसौ। मुखं चन्द्रश्रियं धत्ते श्वेतश्मश्रुकराङ्कुरैः। अत्र हास्यरसोद्देशे ग्राम्यत्वं गुणतां गतम्। तव दुग्धाब्धिसम्भूतेः कथं जाता कलङ्किता। कवीनां समयाद्विद्याविरुद्धोऽदोषतां गतः। दधार गौरी हृदये देवं हि मकराङ्कितम्। अत्र श्लेषोदयान्नैव त्थाज्यं हीति निरर्थकम्”।

दोषातिलक = पु० दोषा रात्रेस्तिलक इव। प्रदीपे त्रिका०

दोषास्य = पु० दोषा आस्यमिव प्रकृष्टदीप्तिसाधनं वा यस्य। प्रदीपे शब्दच०।

दोषिक = त्रि० दोषः वातादिविकारः कारणतयास्त्यस्य ठन्। रोगे शब्दच०।

दोषिन् = त्रि० दुष–णिनि। दोषयुक्ते शब्दल्पद्रुमे दोषशब्दात् अस्त्यर्थे इनिकल्पनं “नैकाक्षरात् कृतो जातेः सप्तम्याश्च न तौ स्मृतौ” इत्यनुशासनविरुद्धम् (तौ। इनि ठनौ)। सति च गत्यन्तरे अभियुक्तप्रयोगे तस्य सङ्कोचकल्पनस्य क्वाचित्कत्वम् भाष्यकृता व्यवस्थापितम् यथा रसिक इत्यादिप्रयोगदर्शनात् न सर्वत्र।

दोषैकदृश् = त्रि० दोषमेवैकं पश्यति दोषैकशब्दयोः कर्मधारये एकशब्दस्य पूर्वकालैकेत्यादि पा० परनिपाते तत्पूर्वकात् दृशः क्विप्। खले अमरः। दोषे एकस्मिन् दृग्ज्ञानं यस्येति विग्रहं वदन् भरतः भ्रान्तएव सति गत्यन्तरे व्यधिकरणबहुव्रीहेरसाधुत्वनियमात्।

दोस् = पु० न० दम्यतेऽनेन दम–डोसि अर्द्धर्चा०। बाहौ “नूनमस्मद्विनाशाय विधिना दोः प्रसारितः” रामा० लङ्का० १२३ “दोषं तस्य तथा इधस्य भजते” मल्लिनाथधृतवाक्यम् “ककुद्दोषणी” इति सहाभाष्यप्रयोगे अस्य क्लीवता “तमुपाद्रवदुद्यम्य दक्षिणं दोर्निशाचरः” रघुः। “दीर्दण्डेन शराःशरैररिशिरस्तेनापि भूमण्डलम्” सुबन्धुः। “दुहितरमनुकम्प्यामद्रिरादाय दोर्भ्याम्” कुभा०। अस्य भत्वे याजादौ तद्धिते च वा दोषन्नादेशः। पुंसि दोः दोषौ दोषः क्लीवे दोः दोषणी दोष्णी दोंषि शसादौ तु दोंषि दोषाणि दोष्णा दोषा दोषभ्यां दोर्भ्यामित्यादि।

दोस्थ = पु० दोषि दोर्व्यापारे तिष्ठति स्था–क वा रोर्लोपः। १ सेवके २ क्रीडके च त्रिका० उपचारात् ३ क्रीडायाम् ४ सेवायाञ्च त्रिका० ५ बाहुस्थिते त्रि०।

दोह = पु० दुह–भावे घञ्। १ दोहने “दुग्धेऽस्मै सर्वान् कामान् यो वाचोदोहः” छा० उ० “मेरौ स्थिते दोग्धरि दोहदक्षे” कुमा० “दोहावसाने पुनरेव दोग्ध्रीम्” रघुः। आधारे घञ्। २ दोहनपात्रे शब्दच०। कर्मणि घञ्। ३ दुग्धे शब्दार्थचि०।

दोहज = त्रि० दोहात् दोहनाज्जायते जन–ड। १ दोहनजाते २ दुग्धे न० शब्दार्थकल्प०।

दोहडिका = स्त्री मात्रावृत्तभेदे (दोहा) तल्लक्षणादि छन्दोम० उक्तं यथा “मात्रात्रयोदशकं यदि पूर्वं लघुकविरामि। पठ पुनरेदादशकं दोहडिका द्विगुणेन”

दोहद = पु० न० दोहमाकर्षं ददाति दा–क। १ गर्भे २ लालसामात्रे ३ गर्भिण्या अभिलाषे च मे०। सुश्रुते तु दौह(हृ)दमिति पठित्वा तदुपहत्यां दोषादिकमुक्तं यथा “द्विहृदयाञ्च नारीं दौहृ(ह)दिनीमाचक्षते। दौहृ(ह)दविमाननात् कुब्जं कुणिं खञ्जं जडं वामनं विकृताक्षनासं वा नारी सुतं जनयति। तस्मात् सा यद्यदिच्छेत्तत्तस्यै दापयेत्। लब्धदौ(ह)हृदा हि वीर्यवन्तं चिरायुषञ्च पुत्रं जनयति”। भवन्ति चात्र “इन्द्रियार्थांन्तु यान् यान् सा भोक्तुमिच्छति गर्भिणी। गर्भाबाधभयात्तांस्तान् भिषगाहृत्य दापयेत्। सा प्राप्तदौ(ह)हृदा पुत्त्रं जनयेत गुणान्वितम्। अलब्धदौ(ह)हृदा गर्भे लभेदात्मनि वा भयम्। येषु येष्विन्द्रियार्थेषु दौहृ(ह)दे वै विमानना। प्रजायेत सुतस्यार्त्तिस्तस्मिंस्तस्मिंस्तथेन्द्रिये। राजसन्दर्शने यस्या दौहृ(ह)दं जायते स्त्रियाः। अर्थवन्तं महाभागं कुमारं सा प्रसूयते। दुकूलपट्टकौशेयभूषणादिषु दौ(ह)हृदात्। अलङ्कारैषिणं पुत्रं ललितं सा प्रसूयते। आश्रमे संयतात्मानं धर्मशीलं प्रसूयते। देवताप्रतिमायान्तु प्रसूते पार्षदोपमम्। दर्शने व्यालजातीनां हिसाशीलं प्रसूयते। गोधामांसाऽशने पुत्रं सुषुप्सुर्धारणात्मकम्। गवां मांसे च बलिनं सर्वक्लेशसहन्तथा। माहिषे दौ(ह)हृदाच्छूरं रक्ताक्षं लोमसंयुतम्। वराहमांसात् स्वप्नालुं शूरं सञ्जनयेत् सुतम्। मार्गाद्विक्रान्तजङ्घालं सदा वनचरं सुतम्। सृमराद्विम्नमनसं नित्यभीतं च तैत्तिरात्। अतोऽनुक्तेषु या नारी त्वमभिध्याति दौ(ह)हृदम्। शरीराचारशीतैः सा समानं जनयिष्यति। कर्मणा चोदितं जन्तोर्भवितव्य पुनर्भवेत्। यथा तथा दैवयोगाद्दौ(ह)हृदं जनयेद्धृदि”। यात्रायां दिग्भेदे दोषशान्त्यर्थे ४ सेव्यपदार्थे यथाह मु० चि० “आज्यं तिलौदनं मत्स्यं पयश्चापि यथाक्रमम्। भक्षयेद्दोहदं दिश्यमाशां पूर्वादिकां व्रजेत्। रसालां पायसं काञ्जीं शृतं दुग्धं तथा दधि। पयोऽशृतं तिलान्नं च भक्षयेद्वारदोहदम्। पक्षादितोऽर्कदलतण्डुलवारिसर्पिः श्राणाहविष्यमपि हेमजलं त्वपूपम्। भुक्त्वा व्रजेद्रुचकमम्बु च धेनुमूत्रं यावान्नपायसगुडानसृगन्नमुद्गान्” मु० चि० अथ दिग्दोहदमनुष्टुभाह आज्यमिति। आज्यं घृतं पूर्वस्याम्। तिलौदनं तिलमिश्रौदनं दक्षिणस्याम्। मत्स्यं प्रसिद्धं पश्चिमायाम्, पयोदुग्धमुत्तरस्याम्। एतद्यथाक्रमं दिश्यमभीष्टदिग्भवं दोहदं भक्षयेत्ततः पूर्वादिकाभाशां जिगमिषितां दिशां व्रजेत्। यदाह श्रीपतिः “आज्यं तिलौदनं मत्स्यं पयः प्राक्प्रभृतिक्रमात्। भुक्त्वेति शेषः नारदेन त्वन्यथोक्तं “घृतान्नं तिलपिष्टान्नं मत्स्यान्नं घृतपायसम्। प्रागादिक्रमशो भुक्त्वा याति राजा जयत्यरीन्”। वसिष्ठेनापि “घृतान्नं कृसरान्नं च मत्स्यान्नं घृतपायसम्। पूर्वादिषु क्रमाद्भुक्त्वा याता सिद्धिमवाप्नुयात्” इति। अत्रैवं विरोधे विकल्पो यथादेशाचारं वा व्यवस्था। अथ वारदोहदमनुष्टुभाह रसालामिति। रसाला शर्करादधिमरीचकर्पूरैला संसृष्टा लोके शिखरिणीति प्रसिद्धा तां रविवारे। पायसकाञ्ज्यौ प्रसिद्धे सोममङ्गलवारयोः। शृतं पक्वं दुग्धं बुधे, शृतं पाक इति साधु। तत्रापि क्षीरहविषोरेवेति वार्तिकात् प्रस्तुते क्षीरे साधुत्वम्। दधि प्रसिद्धं गुरुवारे। अशृतमपक्वं दुग्धं शुक्रे, तिलान्नं तिलमिश्रसोदनं शनौ। एतद्वारदोहदं रविबारादौ क्रमेण भक्षयेत्। यदाह श्रीपतिः “मज्जिकां सघृतपायसं तथा काञ्जिकं शृतपयोऽदधि क्रमात्। क्षीरमाममथ तत् कथितं तिलौदगं वारदोहदविधिर्बुधैः स्मृतः “इति वसिष्ठनारदाभ्यां दुग्धस्य पक्वापक्वविशेषो नाभ्यधायि “मज्जिकां परमान्नं च काञ्जिकं च पयोदधि। क्षीरं तिलौदनं भुक्त्वा भानुवारादिषु क्रमादिति”। मज्जिका रसाला। “स्याद्रसाला तु मज्जिका” इत्यभिधानात्। गुरुस्तु विशेषनाह “सूर्यवारे घृतं पाश्यं चन्द्रवारे पयस्तथा। गुडमङ्गारके वारे बुधवारे तिलानपि। गुरुवारे दषिप्राश्य शुक्रवारे यवानपि। माषान् भुक्त्वा शनेर्वारे शूले गच्छन्नदोषभागिति”। अथ तिथिदोहदं वसन्ततिलकाच्छन्दसाह पक्षादित इति। पक्षादिः प्रतिपत्तस्याः ल्यप्लोपे पञ्चमी। प्रतिपदादिपञ्चदशतिथिषु क्रमेण तिथिदोहदं भुक्त्वा व्रजेत्। यथा प्रतिपदि अर्कस्य वृक्षविशेषस्य दलानि पर्णानि। द्वितीयायां तण्डुलवारिक्षालिततण्डुलजलम्। तृतीयायां सर्पिर्घृतम्। चतुर्थ्यां श्राणा यवागूः। पञ्चम्यां हविष्यं मुद्गादि। षष्ठ्यां हेमजलं प्रक्षालितसुवर्णजलम्। सप्तम्यामपूपम्। अष्टम्यां रुचकं वीजपूरफलम्। “फलपूरी वीजपूरो रुचको मातुलिङ्गके” इत्यमरः। नवम्यामम्बु जलम्। दशम्यां धेनुमूत्रं स्त्रीगवीमूत्रं न तु वृषमूत्रं धेनुशब्दग्रहणात्। एकादश्यां यावान्नं यवविकारम्। द्वादश्यां पायसम्। त्रयोदश्यां गुडमिक्षुविकारं, चतुर्दश्यामसृक् रुधिरम्। पञ्चदश्यामन्नमुद्गानोदनमिश्रितमुद्गान्। यदाह वृहस्पतिः “अर्कपत्रं भवेद्यातुः प्रथमायान्तु भक्षणम्। द्वितीयायां भवेद्यातुर्भक्ष्यं सत्तण्डुलोदकम्। तृतीयायां तथा सर्पिर्यवागूः स्यात्ततः परम्। पञ्चम्यां तद्धविष्यं स्यात् षष्ठ्यां वा काञ्चनोदकम्। अपूपभुक्तिः सप्तम्यामष्टम्यां वीजपूरकम्। नवम्यां तोयपानं स्याद्गोमूत्रन्तु ततःपरम्। एकादश्यां यवानद्यात् द्वादश्यां पायसं पिबेत्। त्रयोदश्यां गुडं लेह्यं रुधिरं स्याच्चतुर्दशे। मुद्गौदनं भवेद्धोज्यं पञ्चदश्यां यियासतः। पक्षयोरुभयोरेवं यात्रा योगे विधिः स्मृतः” इति। दैवज्ञमनोहरेऽपि क्वचिद्भेदः। यथा “अर्कदलतण्डुलोदकसर्पीषि हविष्यदधिसुवर्णपयः। तिलवारिवीजपूरकमध्वाज्यकमूत्रषिष्टिकाश्चापि। तिलपिष्टकदम्बमूलानि शाकमथ शस्तवृक्षपर्णानि प्रतिपत्प्रभृतिषु भुक्त्वा प्रस्थाता सिद्धिमाप्नोतीति”। ननु “आलभ्यालभ्य भक्ष्यान् वा स्मृत्वा दृष्ट्वाथ तान् व्रजेत्। दत्त्वा वा सिद्धिमाप्नोति दुष्टभादिषु भूपतिरिति” गुरूक्तेः दुष्टवारादिषु दोहदाभिधानं सार्थकम्। विहितेषु पुनर्नक्षत्रतिथिवारादिषु दोहदाभिधानं व्यर्थम्। दोषनिवारणफलको हि दोहदस्तदभावे वैयर्थ्यप्रसङ्गात्। उच्यते। दुष्टभादिषु भूपतिरित्यत्र दुष्टत्वं किन्नैसर्गिकमुतान्यत् अहितनक्षत्रेष्वपि क्रूरग्रहसाहित्यादिर्महान् दोषः सम्भावितोऽस्ति तदपाकरणाय दोहदाभिधानं सार्थकम् एवं सर्ववर्णानामपि पारिघदण्डे विरुद्धताराक्रूरग्रहमाहित्यादिमहादोषनिवारणाय दोहदोक्ते पार्थ- क्याच्च। एवं विहिततिथिदोहदाभिधानं योगिन्यादिदोषनाशार्थम्। “सक्रूररांशेरशुभा तिथिः स्यात्” इत्येतद्दोषनिवारणार्थं च। तद्दोषाभिधानं च रत्नमालायाम्। “आद्याश्चतस्रः क्रियपूर्वकाणां मेषाच्चतुर्णामिह पञ्चमी स्यात्। पराः परेषां परतस्तथैव सक्रूरराशेरशुभा तिथिः स्यात्” इति। एवं वारदोहदोक्तिरपि वक्रिग्रहवारशूलादिदोषहान्या सार्थिका दिग्दोहोक्तिरपि त्रिविधप्रतिबुधप्रतिशुक्रप्रतिभौमादिदोषहान्या सार्थिका” पी० धा० तत्र गर्भे “सुदक्षिणा दोहदलक्षणं दधौ” रघुः। अभिलाषे “उदकक्रीडादोहदागतानाञ्च” काद० गर्भिण्यभिलाषे “प्रजावती दोहदशंसिनी ते” रघुः ५ पुष्पोद्गमौषधे च “कुसुमं कृतदोहदस्त्वया यदशोकोऽयमुदीरयिष्यति” रघुः “काङ्क्षत्यन्योवदनमदिरादोहदच्छद्मनास्याः” मेघः अशोकबकुलयोः स्त्रीपदताडनगण्डूषमदिरे दोहदमिति प्रसिद्धिः। “स्त्रीणां स्पर्शात् प्रियङ्गुर्विकसति बकुलः शीधुगण्डूषसेकात् पादाघातादशोकस्तिलककुरुवकौ वीक्षणालिङ्गनाभ्याम्। मन्दारो नर्मवाक्यात् पटुमृदुहसनात् चम्पको वक्त्रवातात् चूतो गीतान्नमेरुर्विकसति च पुरोनर्तनात् कर्णिकारः” मल्लि० धृतवाक्यम्

दोहदलक्षण = न० दोहदस्य गर्भस्य लक्षणं यत्र। १ वयः सन्धौ ६ त०। २ गर्भलक्षणे च।

दोहदवती = स्त्री दोहद + अस्त्यर्थे मतुप् मस्य वः। द्रव्यविशेषाभिलाषवत्यां गर्भिण्याम् अमरः। दोहदान्विताप्यत्र हेमच०।

दोहन = न० दुह–भावे ल्युट्। १ अन्तःस्थितद्रवद्रव्यस्य बहिर्निःसारणरूपे व्यापारे (दोओया) करणे ल्युट् ङीप्। २ दोहनसाधनपात्र्याम् शब्दरत्ना०।

दोहल = पु० दोहमाकर्षं लाति गृह्लाति ला–क। १ इच्छायां २ दोहदशब्दार्थे च शब्दार्थकल्प०। “अशोक! यदि सद्यएव मुकुलैर्न सम्पत्स्यसे सुधा वहसि दोहलं ललितकामिसाधारणम्” मालविका० ततः अस्त्यर्थे मतुप् मस्य वः। ङीप् दोहलवती १ दोहदवत्यां स्त्रियां शब्दार्थचि०। २ अशोकवृक्षे स्त्री राजनि० गौरा० ङीष् दोहली।

दोहस् = पु० दुह–भावे असुन्। दोदने प्रक्षारणे “वृषा कृष्णे समूहे दोहसा दिवः” ऋ० १०११। १ “दोहसा दोहनेन” भा०

दोहसे = अव्य० दुह–तुमर्थे “सेसेनऽसेन” इत्यादि पा० ३। ४। ९ सू० तमर्थे असेत्। दोग्धुमित्यर्थे “मर्त्तेष्वन्यद्दोहसे” ऋ० ६। ६६। १ “मक्षुन येषु दोहसे” ऋ० ६। ६६। ५ “दोहसे कामान् दोग्धुम्” भाष्यम्।

दोहा = स्त्री मात्रावृत्तभेदे “षट्कलतुरगौ त्रिकलमपि विषमपदे विनिधेहि। समपादान्ते चैकलमिति दोहामव” धेहि” तल्लक्षणम्।

दोहापनय = पु० दोहमपनयति स्वनिःसरणेन अप + नी–अच्। दुग्धे त्रिका०।

दोहित = त्रि० दोह + तार० इतच्। सञ्जातदोहे

दोहिन् = त्रि० दुह–शीलार्थे घिनुण्। दोहनशीले स्त्रियां ङीप्।

दोहीयस् = त्रि० दोग्धृ + अतिशायने “तुश्छन्दसि” इयसुन् तृणोलोपः। अतिशयेन दोग्धरि। स्त्रियां ङीप् दोहीयसी एवं इष्ठन् दोहिष्ठ तत्रार्थे त्रि० स्त्रियां टाप्। शब्दकल्पद्रुमे अस्य दोहिन्शब्दप्रकृतिकत्वकल्पनं प्रामादिकमेव।

दोह्य = त्रि० दुह–कर्मणि वा ण्यत्। १ दोहनीये २ दुग्धे ३ धेन्वादौ स्त्री। “ईडबन्धशंसदुहां ण्यतः” पा० अस्याद्युदात्तता। “वीजायोबाह्यरत्न स्त्री दोह्य पुंसां परीक्षणम्” याज्ञ०।

दौःसाधिक = पु० दुष्टः साधः तत्र नियुक्तः ठक्। द्वारपाले त्रि०।

दौकूल = पु० दुकूलेन परिवृथो रथः अण्। दुकूलेन परिवृते रथे अमरः पृषो० दौगूल तत्रार्थे हेमच०।

दौगर्ह = पु० अश्वे निरु०।

दौत्य = न० दूतस्य भावः कर्म वा ष्यञ्। १ दूतकर्मणि २ तद्भावे च “हनूमदाद्यैर्यशसा मया पुनर्द्विषां हसैर्दौत्यपथः सितीकृतः” नैष० “दौत्यं तत्कृतं घोरे विग्रहे जनमेजय!” हरिवं० १७४ अ० “भगवन् श्रूयतां वाक्यं दौत्येनाहमिहागता” हरिवं० १७७ अ०।

दौरात्म्य = न० दुष्ट आत्मा यत्नः धृतिः बुद्धिः स्वभावः शरीरं वा यस्य तस्य भावः ष्यञ्। निन्दितयत्नादौ “दौरात्म्याद्राक्षसस्तां तु नात्रत्याः श्रद्दधुः प्रजाः” रघुः।

दौर्ग = न० दुर्गस्य दुर्गाया वा इदम् अण्। १ दुर्गसम्बन्धिनि २ दुर्गासम्बन्धिनि च “श्रावणी दौर्गनवमी दूर्वा चैव हुताशनी। पूर्वविद्धैव कर्तव्या शिवरात्रिर्बलेर्दिनम्” कालमा० धृतवाक्यम्।

दौर्गत्य = न० दुर्गतस्य भावः ष्यञ्। १ दारिद्र्ये २ दुःखित्वे च “दौर्गत्याद्यैरनौजस्यं दैन्यं मलिनतादिकृत्” सा० द० “भर्त्तुः कुर्वन्ति दौर्गत्यात् सोऽनर्थः सुमहान् स्मृतः” भा० स० ५ अ०।

दौर्गन्ध्य = न० दुष्टो गन्धोऽस्य ततो भावे ष्यञ्। दुष्टगन्ध- योगे। “लघु तृष्णाहरं वक्त्रक्लेददौर्गन्थ्यनाशनम्” सुश्रुतः। गात्रे दौर्गन्ध्यकारणञ्च भृगुभारते उक्तं तक १७६३ पृ० दर्शितम्।

दौर्गह = पु० दुर्गहस्यापत्यम् शिवा० अण्। १ दुर्गहस्यर्षेरपत्ये पुरुकुत्से ऋषौ “सप्त ऋषयो दौर्गहे वध्यमाने” ऋ० ४। ४२ ८। “पुरुकुत्सस्य महिषी दौर्गहे बन्धने स्थिते। पत्यावराजकं दृष्ट्वा राष्ट्रं पुत्रस्य लिप्सया” भा० धृतवाक्यम् २ अश्वे निरु० दौगर्ह इत्यत्र पाठान्तरम्।

दौर्ग्रह = पु० दुःखेन ग्रहो ग्रहणमस्य अश्वस्य, तत्साध्यो यागः अण्। अश्वमेधे “तेन ह पुरुकुत्सो दौर्ग्रहेणेजे” शत० व्रा० १३। ५४५। दौर्ग्रहेणाश्वेन संहतेन क्रतुना अश्वमेधेनेजे इत्यर्थः” भा०।

दौर्गायण = पु० दुर्गस्यापत्यं नडा० फक्। दुर्गस्यापत्ये

दौर्जन्य = न० दुर्जनस्य भावः ष्यञ्। दुर्जनत्वे “तदिदं सम दौर्जन्यं वालिशस्य महीयसि” भाग० ६। ६८। ५२

दौर्बल्य = न० दुर्बलस्य भावः ष्यञ्। दुर्बलत्वे “अनादेयस्य चादानात् आदेयस्य च वर्जनात्। दौर्बल्यं ख्याप्यते राज्ञः” मनुः “पपात भूमौ दौर्बल्यात्” भा० शा० ५३ श्लो०।

दौर्भागिनेय = पुंस्त्री० दुर्भगाया अपत्यं कल्या० ढक् इनङ् च हृद्भगेत्यादिना द्विपदवृद्धिः। दुर्भगाया अपत्ये।

दौर्भाग्य = न० दुर्भगाया दुर्भगस्य वा भावः ष्यञ् द्विपदवृद्धिः। दुर्भाग्यान्वितत्वे “भुक्त्वा पितृगृहे नारी पुङ्क्ते स्वामिगृहे यदि। दौर्भाग्यं जायते तस्याः शपन्ति कुलदेवताः” इति ज्योति० त० “यत्ते केशेषु दौर्भाग्यं सीमन्तेषु च मूर्धनि। ललाटे कर्णयोरक्ष्णोरापस्तद्घ्नन्तु सर्वदा” याज्ञ० “अद्य कैकेयि! दौर्भाग्यं राज्ञा ते ख्यापितं महत्” भा० व० २७६ अ० तत्कारणञ्च भृगुभारतोक्तम् १७६३ पृ० दर्शितम्।

दौर्भ्रात्र = न० दुष्टोभ्राता तस्य भावः युवा० अण्। दुष्टभ्रातृत्वे।

दौर्मनस्य = न० दुष्टं मनोऽस्य तस्य भावः ष्यञ्। खेदादिनिमित्ते चित्तस्य दौस्थ्ये दुष्टमनोयुक्तत्वे “तेषां कृते मे निश्वासो दौर्मनस्यञ्च जायते” देवीमा० “कृतस्मृतिः प्रोषितदौर्मनस्यम्” वृ० सं० ७८ अ०।

दौर्वासस = न० दुर्वाससा प्रोक्तम् अण्। शिवधर्माख्ये उपपुराणभेदे उपपुराणशब्दे दृश्यम्।

दौर्वीण = न० दुर्वायाः इदम् खञ्। १ दूर्वारसे २ इष्टपर्णे च मेदि०।

दौर्व्रत्य = न० दुष्टं स्खलनोच्छलनादि व्रतं यस्य तस्य भावः ष्यञ्। दुष्टव्रतत्वे “मित्रं सौव्रत्येन रुद्रं दौर्व्रत्येन” यजु० ३९। ९

दौर्हृ(ह)द = न० दुर्हृदो भावः अण् वा न द्विपदवृद्धिः। दोहद + स्वार्थे अण् वा। इच्छादौ दोहदशब्दार्थे दोहदशब्दे सुश्रुतवाक्यं दृश्यम्।

दौर्हार्द्द = न० दुर्हृदो भावः युवा० अण् द्विपदवृद्धिः। शत्रुत्वे

दौर्हृदय = न० दुर्हृदयस्य दुष्टहृदययुक्तस्य भावः युवा० अण् न द्विपदवृद्धिः। दुष्टचित्तत्वे।

दौलेय = पु० दुलेरपत्यम् “इतश्चानिञः” पा० ढक्। दुलेरपत्ये कच्छपे हेमच०।

दौल्मि = पु० दुल्म + अपत्ये इञ्। इन्द्रे शब्दार्थकल्प०।

दौवारिक = पु० द्वारे नियुक्तः ठक् द्वारा० य्वाभ्यां प्राक् ऐच्। १ द्वारनियुक्ते २ द्वारपाले ३ प्रतीहार्य्यां स्त्री ङीप्। “दौवारिकी देवसरूपमेत्य” रघुः “प्रविश्य दौवारिकः” शकु०। दौवारिकलक्षणं मत्स्यपु० उक्तं यथा “प्रांशुः सुरूपोदक्षश्च प्रियवादीन चोद्धतः। चित्तग्राहश्च सर्वेषां प्रतीहारः स उच्यते”। औशनसनीतिशास्त्रपरिशिष्टे तु अन्यथोक्तं यथा “शस्त्रास्त्रकुशलो यस्तु दृढाङ्गश्च निरालसः। यथायोग्यं समाहूयात् स ज्ञेयः प्रतिहारकः”। “ईङ्गिताकारतत्त्वज्ञो बलवान् प्रियदर्शनः। अप्रमादी समो दक्षः स प्रतीहार उच्यते” चाणक्यः। वृ० सं० उक्ते २ एकाशीतिपदस्थे वास्तुदेवभेदे च “पितृदौवारिकसुग्रीवकुसुमदन्ताम्बुपत्यसुराः”।

दौवालिक = पु० देशभेदे तत्रत्यराजादिषु ब० व०। “दौवालिकाः सागरकाः पत्रोर्णाः शैशिरास्तथा। कर्णप्रावरणाश्चैव बहवस्त्वत्र भारत!। तत्रस्था द्वारपालैस्ते प्रोच्यन्ते राजशासनात्। कृतकालाः सुबलयस्ततो द्वारमवाप्स्यथ” भा० स० ५१ अ०।

दौश्चर्म्म्य = न० दुश्चर्म्मणो भावः व्यञ्। स्वभावतोऽनावृत मेढ्रत्वे “ब्रह्महा क्षयरोगित्वं दौश्चर्म्यं गुरुतल्पगः” मनुः।

दौष्क = त्रि० दोषा चरति “दोष उपसंख्यानम्” वार्त्ति० ठण् “इणः षः” पा० षत्वम्। बाहुभ्यां चारिणि।

दौष्कुल = दुष्टं कुलमस्य दुष्कुलः स्वार्थे अण्। दुष्टकुलयुक्ते “न दुर्जने दौष्कुलो वा व्रतैर्यो वा न संस्कृतः” भा० शा० ३६ अ०।

दौष्कुलेय = पु० दुष्कुलस्यापत्यं तत्र भवो वा “दुष्कुलाड्ढक्” पा० पक्षे ढक्। दुष्कुलजाते “कुलेजाताश्च क्लिश्यन्ते दौष्कुलेयवशानुगाः” भा० व० १९३ अ०।

दौष्कुल्य = त्रि० दुष्कुल + स्वार्थे ण्यत्। दुष्टकुलयुक्ते “दौष्कुल्या व्याधिबहुलाः दुरात्मानोऽप्रतापिनः” भा० व० १८३ अ०।

दौष्ठव = न० दुष्ठोः अविनातस्य भावः उद्गा० अण्। अविनीतत्वे

दौष्पुरुष्य = न० दुष्टः पुरुषः तस्य भावः स्वार्थे वा व्राह्मणा० ष्यञ्। १ दुष्टे पुरुषे २ तद्भावे च।

दौष्मन्त(न्ति) = पु० दुष्मन्तस्यापत्यम् शिवा० अण् इञ् वा। दुष्मन्तनृपस्यापत्ये भरते “दौष्मन्तं भरतं चापि भृतं सृञ्जय! शुश्रुमः” भा० द्रो० ६७ अ०। “भरतञ्चैव दौष्मन्तिं मृतं सृञ्जय! शुश्रुमः” भा० शा० २९ अ०। अस्य विसर्गमध्यता मशून्यतापि “तेन हैतेन भरतो दौःषन्तिरीजे” शत० व्रा० १३। ५। ४८ अत्र पृषो० मस्य लोप इति बोध्यम् यमध्यो दौष्यन्तिरित्यप्यत्र “रूपौदार्य्यगुणोपेतं दौष्यन्तिं जनमेजय!” भा० आ० ७४ अ०।

दौष्यन्त्य = त्रि० दुष्मन्तस्यायम् ण्य। दुष्मन्तसम्बन्धिनि “सत्यवत्यचिन्तयन्मा दौष्मन्त्यो वंश उच्छेदं व्रजेदिति” भा० आ० ९५ अ०।

दौस्त्र = न० दुष्टा स्त्री तस्याः भावः युवा० अण्। दुष्टस्त्रिया भावे।

दौहिक = दोहं नित्यमर्हति ठञ्। नित्यं दोहार्हे

दौहित्र = पुंस्त्री० दुहितुरपत्यम् विदा० अञ्। दुहितुरपत्ये स्त्रियां ङीप्। “पौत्रदौहित्रयोर्लोके विशेषो नास्ति कश्चन। तयोर्हि मातापितरौ सम्भूतौ तस्य देहतः” मनुः “दौहित्रोऽपि ह्यमुत्रैनं सन्तारयति पौत्रवत्।” मनुः। २ खड्गादौ न०। “दौहित्रं खड्गमित्याहुरपत्यं दुहितुस्तिलाः। कपिलायाघृतं चैव दौहित्रमिति चोच्यते” मार्कण्डेयपु० “त्रीणि श्राद्धे प्रशस्तानि दौहित्रं कुतुपस्तिलाः” तत्रैव। “त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतुपस्तिलाः। व्रतस्थमपि दौहित्रं श्राद्धे यत्नेन भोजयेत्। कुतपञ्चासने दद्यात् तिलैश्च विकिरेन् महीम्” मनुः “कुतपं नेपालकम्बलम्” इति कुल्लूकभट्टः। “ब्राह्मविवाहेनोढायाः कन्याया पुत्रोत्पत्तिं विना तद्गृहभोजने दोषोऽभिहितः” वह्निपु०।

“कन्यायां व्रह्मदेयायामभुञ्जन् सुखमश्नुते। अथ भुञ्जीत यो मोहात् भुक्त्वा स नरकं व्रजेत्। अप्रजायाञ्च कन्यायां न भुञ्जीयात् कदाचन। दौहित्रस्य मुखं दृष्ट्वा किमर्थमनुशोचंसि। महासत्त्वसमाकीर्णात् नास्ति ते नरकाद्भयम्। नीर्णस्त्वं सर्वदुःखेभ्यः परं स्वर्गमवाप्स्यसि। दौहित्रस्य तु दानेन नन्दन्ति पितरः सदा। यत्किञ्चित् कुरुते दानं तदानन्त्याय कल्पते”

दौहित्रायण = पुंस्त्री० दुहितुरपत्यं युवा विदा० अञि अञन्तत्वात् यूनि हरिता० फक्। दुहितुर्यून्यपत्ये।

***