देवा = स्त्री दिव–अच्। १ पद्मचारिण्यां लतायाम् २ असनपर्ण्याञ्च शब्दच०।

देवाक्रीड = पु० देवा आक्रीडन्त्यत्र आ + क्रीड–आधारे घञ् ६ त०। १ देवोद्याने इन्द्रारामे “देवराजाभ्यनुज्ञातो रत्नैश्च प्रतिपूजितः। वैनतेयं समारुह्य सहितः सत्यभामया। देवाक्रीडं परिक्रामन् पूज्यमानः सुरर्षिभिः। स ददर्श महाबाहुराक्रीडं वासवस्य च” हरिवं० १२३ अ०

देवागारिक = त्रि० देवागारे नियुक्तः अगारान्तत्वात् ठन्। देवागारे परिचरणार्थं नियुक्ते।

देवाची = स्त्री देवानञ्चति वेदे बा० नलोपः नाद्र्यादेशश्च ङीप्। १ देवान् प्रति गन्त्र्यां २ देवानां पूजिकायां च “देवान् प्रत्यक्तया कृपेति” यास्कोक्तेः देवान् प्रत्यक्ततया सामर्थ्यलक्षणायां २ कृपायाञ्च “य ऊर्द्धया स्वध्वरो देवाच्या कृपा” ऋ० १। १२७। १ “कृपा कृपयेति” भा०

देवाजीव = त्रि० देवं देवप्रतिमाद्रव्यमाजीवति जीव–अण् उपस०। (पूजारी) देवले। णिनि देवाजीवोत्यप्यत्र।

देवाट = त्रि० देवा अटन्त्यत्र अट–आधारे घञ्। देवगत्याधारे पाटलिपुत्रादुत्तरस्यां गङ्गापारे वर्तमाने १ हरिहरक्षेत्रे “यदा नन्दी शूलपाणिर्गोधनेन पुरस्कृतः। स्थितवान तद्दिनादेव क्षेत्रं हरिहरात्मकम्। देवानामटनाच्चैव देवाट इति संज्ञितम्” वराहपु०। देवानटन्ति अट–अण् उप० स०। देवान् प्रति २ गन्तरि त्रि०।

देवातिथि = पु० पोरवनृपभेदे “ततश्चाक्रोधनस्तस्माद्देवातिथि रभून्नृपः” भाग ९। २२। ९

देवातिदेव = पु० देवानतिक्रम्य दीव्यति अति + दिव–अच्। विष्णौ “देवातिदेवो भगवान् प्रसूतिरंशे हरिर्यस्य जगत्प्रणेता” हरिवं० १५४ अ०।

देवात्मन् = पु० देव आत्मा यस्य। १ अश्वत्थवृक्षे अश्वत्थशब्दे दृश्यम् कर्म०। २ देवस्वरूपे च।

देवाधिदेव = पु० देवानामधिदेवः। १ सर्वेश्वरे परमेश्वरे २ महादेवे च ३ जिनदेवभेदे हेमच०।

देवाधिप = पु० देवानामप्यधिपः। १ सर्वनियन्तरि परमेश्वरे २ द्वापरयुगीयनृपभेदे स च निकुम्भासुरांशात् द्वापरे भूमाववततार यथाह भा० आ० ६७ अ० “निकुम्भादजितः संख्ये महामतिरजायत। भूमौ भूमिपतिश्रेष्ठो देवाधिप इति स्कृतः”। ३ इन्द्रे च “वलिं बद्धा महादैत्यं शक्रो देवाधिपः कृतः” भा० उ० ९ अ०

देवानांप्रिय = त्रि० ६ त०। “देवानां प्रिय इति च भूर्खे” वा० अलुक्स०। १ मूर्खे “पशवो हि देवानां प्रीतिं जनयन्ति इति तेषां प्रियास्तथा च तत्प्रियत्वेन पशुतुल्यता प्रतीथते इत्यतः पशुवन्मूर्ख इति तदर्थः” तत्त्वबो०। २ छागे पुंस्त्री त्रिका०।

देवानीक = पु० सावर्णस्य तृतीयमनोः पुत्रभेदे “संवर्त्तनः सुशर्मा च देवानीकः पुरूवहः” हरिवं० ७ अ० तत्पुत्रोक्तौ। सगरवंश्ये २ नृपभेदे च “क्षेमधन्वसुतस्त्वासीत् देवानीकः प्रतापवान्” हरिवं० १५ अ०। ६ त०। ३ देवानां सैन्ये न० “उग्रं तच्च महानादं देवानीकं महाप्रभम्” भा० व० २२६ अ०।

देवानुक्रम = पु० वैदिकमन्त्राणां देवताज्ञापनायानुक्रमो यत्र। वैदिकमन्त्राणां देवताज्ञापके ग्रन्थभेदे। सामान्यतः छन्दोविशेषाणां देवताभेदाः सर्वानुक्रमणिकायामुक्ताः तच्च देवताशब्दे ३६८२ पृ० “गायत्र्या अग्निरुष्णिहः सवितेत्यादि” वाक्यम् दर्शितम्।

देवानुचर = त्रि० देवाननुचरति अनु + चर–ट। १ देवपश्चाद्गा मिनि विद्याधरादौ उपदेवे “निशम्य देवानुचरस्य वाचं मनुष्यदेवः पुनरप्युवाच” रघुः। देवानुयायिन्देवानुग प्रभृतयोऽप्यत्र।

देवान्तकं = पु० ६ त०। १ राक्षसभेदे २ दैत्यभेदे च।

देवान्धस् = न० देवानामन्ध इव दर्शनेन प्रीतिकरम्। १ अमृते हेमच० देवान्नादयोऽप्यत्र। देवयोग्यमन्धः। २ देवनैवे द्यार्थे ३ कल्पितेऽन्ने च “अनुपाकृतमांसानि देवान्नानि हवींषि च” मनुः।

देवापि = पु० पौरवे प्रतीपराजपुत्रे नृपभेदे “प्रतीपस्य त्रयः पुत्रा जज्ञिरे भरतर्षभ!। देवापिः शान्तनुश्चैव बाह्लीकश्च महारथः। देवापिश्च प्रवव्राज तेषां धर्महितेऽप्सया” भा० आ० ९४ अ० “ऋक्षस्तस्य दिलीपोऽभूत् प्रतीपस्तस्य चात्मजः। देवापिः शान्तनुस्तस्य बाह्लाक इति चात्मजाः। पितृराज्यं परित्यज्य देवापिस्तु वनं गतः” भाग० ९। २२। ११ “देवापिर्योगमास्थाय कलापग्राममास्थितः। सोमवंशे कलौ नष्टे कृतादौ स्थापयिष्यति” तत्रैव

देवाभीष्ट = त्रि० ६ त०। १ देवानामभिलषिते २ ताम्बूल्यां स्त्री शब्दच०।

देवायतन = न० ६ त०। देवप्रतिमालये “न देवायतनं गच्छेत् कदाचिद्वाऽप्रदक्षिणम्। न पीडयेद्वा वस्त्राणि न देवायतनेष्वपि” कूर्मपु० “न जीर्णदेवायतने न वल्मीके कदाचन” मनुना तत्र मूत्रोत्सर्गः प्रतिषिद्धः।

देवायुध = न० ६ त०। इन्द्रधनुषि सूर्यप्रतिकूलदिशि सजलजलधरयुक्ते गगने सूर्यकिरणप्रतिविम्बेन जाते धनु राकारे पदार्थे हेम० इन्द्रायुधशब्दे ९५४ पृ० दर्शितं तदुत्पत्तिकारणं दृश्यम्। ६ त०। २ देवानामायुधे वज्रादौ च।

देवायुस् = न० ६ त० अच् समा०। देवानां जीवनकाले “मन्त्रेणाहवनीये निर्वपति ह्रसीयसा गार्हपत्ये द्राघीयो हि देवायुषम्” शत० ब्रा० ७। ३। १। १०

देवारण्य = न० देवप्रियं देवभूयिष्ठं वा अरण्यम्। १ तीर्थभेदे “प्रयागे देवरमणे देवारण्येषु चैव ह। भोगवत्यां महाराज! कौशिकस्याश्रमे तथा” भा० उ० १८७ अ०। ६ त०। २ देवनामारामे च “अलमुद्योतयामासुर्देवारण्यमिवर्तवः” रघुः।

देवारि = पु० ६ त०। १ असुरे “येन देवारयः सर्वे महायुधि निपातिताः” भा० द्रो० ८१ अ०।

देवार्पण = न० देवेषु अर्पणम्। देवोद्देशेन देयद्रव्यस्य तद्दानजन्यफलस्य वा १ त्यागे। देवेभ्योऽर्प्यन्ते यैः अर्पिकरणे ल्युट्। २ ऋग्वेदादौ “पृथग्भूतानि चान्यानि यानि देवार्पणानि वै” भा० अनु० ८६ त०। “देवार्पणानि ऋग्यजुःसामानि० पृथग्भूतानि मूर्तिमन्तीत्यर्थः” नीलक०।

देवार्य्य = पु० अहद्गणभेदे “अरिष्टनेमिस्तु नेमिर्वीरश्चरमतीर्थकृत्। महावीरो वर्द्धमानो देवार्यो ज्ञातनन्दनः। गणा नवास्यर्षिसंघा एकादश गणाधिपाः” हेमच०।

देवार्ह = त्रि० देवानर्हति दाने अर्ह–अण् उप० स०। १ देवाय दानयोग्ये २ सुरपर्णे न० राजनि०।

देवालय = न० ६ त०। १ स्वर्गे २ देवप्रतिमाभवने च शब्दार्थ- कल्प०। ३ सहदेवीलतायां स्त्री राजनि०।

देवाला = स्त्री देव इवालति अल–अच्। रागिणीभेदे हला०।

देवावास = पु० ६ त०। १ अश्वत्थवृक्षे त्रि०। २ स्वर्गे ३ देवप्रतिमालये ४ सुमेरौ च “देवावासः शुभः पुण्यो गिरिराजो हिरण्मयः” हरिवं० २३६ अ०

देवावी = पु० देवानवति अव–प्रीणने औणादिक ई। १ देवतर्पके सोमे “देवेभ्यस्त्वा देवाव्यं गृह्णामि” यजु० ७। २२। देवा अव्यन्ते तर्प्यन्तेऽस्मिन् आधारे ई। २ देवतर्पणाधारे यज्ञे च “इमं नो देव! मवितर्यज्ञं प्रणय देवाव्यम्” यजु० ११। ८।

देवावृध् = पु० देवा वर्द्धन्तेऽत्र वृध–क्विप् पूर्वपददीर्धः। पर्वत भेदे “देवावृत् पर्वतश्चैव तथा वै बालुको गिरिः” हरिवं० २३६ अ०।

देवावृध = पु० देवा वर्द्धन्तेऽनेन वृध–घञर्थे क दीर्घः। सात्वते नृपभेदे “सात्वतान् सत्वसम्पन्नान् कोशल्या सुषुवे सुतान्। भजिनं भजमानञ्च दिव्यं देवावृधं नृपम्” हरिवं० ३८ अ० “छत्रं देवावृधो दत्त्वा सराष्ट्रोऽभ्यपतद्दिवम्” भा० शा० २३४ अ०

देवाश्व = पु० देवस्य शक्रस्याश्वः। उच्चैः श्रवसि अश्वे

देवाहार = पु० देवयोग्य आहारः। १ देवार्हे आहारे ६ त०। २ अमृते हेमच०।

देवाह्वय = पु० नृपभेदे “देवाह्वयः सुप्रतिमः सुप्रतीको वृहद्रथः” भा० आ० १ अ० नानानृपोक्तौ

देविक = पु० अनुकम्पितो देवदत्तः मनुष्यनामवह्वच्कत्वेन ठन्। द्वितीयादचः परस्य लोपः। १ अनुकम्पिते देवदत्ते। दीव्यति दिव–ण्वुल् कापि अतैत्त्वम्। २ नदीभेदे स्त्री “अर्द्धयोजनबिस्तारां पञ्चयोजनमायताम्। एतावद्देविकामाहुर्देवर्षिपरिषेविताम्” पद्मपु०। ३ धुस्तूरे भावप्र० देविकायां भवः अण्। एत आत् दाविक तत्र भवे त्रि०।

देविन् = त्रि० दिव–णिनि। क्रीडाकारके “राज्ञा सचिह्नं निर्वास्याः कूटाक्षोपधिदेविनः” याज्ञ०।

देविय = पु० अनुकम्पितो देवदत्तः वह्वच्कमनुष्यनामत्वात् घ द्वितीयादचः परस्य लोपः। अनुकम्पिते देवदत्ते।

देविल = त्रि० देवृ देवने इल्च्। १ धार्मिके। अनुकम्पितो देवदत्तः इलच् देवियवत्। २ अनुकम्पिते देवदत्ते पु०

देवी = स्त्री देवयति प्रवृत्तिनिवृत्त्युपदेशेन यथाधिकारं व्यवहारयति सर्वान् देव–णिच् अच् ङीप्, दीव्यति दिवअच् पचादौ देवट् इति निर्देशात् टित्त्वात् ङीप् देवस्य पत्नी ङीष वा। १ देवपत्न्यां “देवीनां दक्षिणायने” स्मृतिः। देवसेनाशब्दे उदा० दृश्यम्। २ दुर्गायाञ्च धरणी “नमोदेव्यै महादेव्यै शिवायै सततं नमः” “देव्या यया ततमिदं जगदात्मशक्त्या” इति च देवीमाहात्म्यम्। “सकृत् कृत्वा महा पूजां देवीपादजलं पिबन्। न जातु जननीगर्भे गच्छेदिति विनिश्चयः” दीवीभागव० “अपराधं परं कृत्वा देवीभक्तस्य को नरः। सुखं लभेत यदपि भवेत् त्राता शिवः स्वयम्” इति देवीभाग० ३ कृताभिषेकायां राजमहिष्याम् अमरः। ४ मूर्वायां ५ पृक्कायां च मेदि०। ६ द्विजस्त्रीणामुपाधिभेदे “देव्यन्ताश्च स्त्रियः सर्वा दास्यन्ताः शूद्रयोनयः” कर्मविपाकः। ७ आदित्यभक्तायां ८ लिङ्गिन्यां ९ बन्ध्याकर्कोटक्यां १० शालपर्ण्यां ११ महाद्रोण्यां १२ पाठायां १३ नानरमुस्तायाम्। १४ मृगेर्वारुकायां १५ हरीतक्याम् १६ अतस्यां १७ श्यामानामखगे च स्त्री राजनि०। १८ रविसंक्रान्तौ तत्कालस्य यथा देवीस्वरूपत्वम् तथा एकादशीत० निरणायि यथा “अतीतानागतो भोगो नाड्यः पञ्चदश स्मृताः। सान्निध्यन्तु भवेत् तत्र ग्रहाणां संक्रमे रवेः। व्यवहारो भवेल्लोके चन्द्रसूर्योपलक्षितः। काले विकल्पते सर्वं ब्रह्माण्डं सचराच रम्। पूण्यपापविभागेन फलं देवी प्रयच्छति। एकाधिककृतं तस्मिन् कोटिकोटिगुणं भवेत्। धर्माद्विवर्द्धते ह्यायूराज्यं पुत्रसुखादि च। अधर्माद्व्याधिशोकादि विषुवायणसन्निधौ। विषुवेषु च यद्दत्तं जप्तं भवति चाक्षयम्। एवं विष्णुपदे चैव षडशीतिमुखेषु च” देवीपु०। “भोगोव्याप्तिः सूक्ष्मसंक्रमणकालसन्निधाने पुण्यतमत्वमिति यावदिति कल्पतरुः। वस्तुतस्तु भुज्यत इति भोगो भोग्यः रविसंक्रमणे अतीतानागतः कालो भोग्यस्तन्निमित्तपुण्यपापजननयोग्य इति यावत्। अतएव पुण्यपापविभागेन फलमित्युपसंहृतम्। स कालः कियानित्याह। नाड्यः पञ्चदशेति उभयतः पञ्चदशदण्डपुण्यत्वं दिवा विष्णुपदीविषयमिति तिथितत्त्वे वक्ष्यते। सान्निध्यमित्यादिना तस्यैव कालस्य स्तुतिः। विकल्पते स्वभावात् प्रच्यवते। देवी संक्रान्तिकालस्वरूपा संक्रान्त्युपक्रमे देवीपुराण एव “समायनमृतुर्मासः पक्षोहश्च क्रमेण तु। स्थूलसूक्ष्मविभागेन देवी सर्वगता विभो!”। इत्यभिधानात् “कलाकाष्ठादिरूपेण परिणामप्रदायिनी” इति मार्कण्डेयपुराणाच्च” रघु०। तत्र कृताभिषेकायां राजमहिष्याम् “स्नातोऽनुलिप्तः सुरभिः स्रग्वी रुचिरभूषणः। स्नातां विशुद्धवसनां गच्छेद्देवीं सुभूषणाम्। न हि देवीगृहं गच्छेदात्मीयात् सन्निवेशनात्। अत्यर्थवल्लभोऽपीह विश्वासं स्त्रीषु न व्रजेत्। देवीगृहगतं भ्राता भद्रसेनममारयत्। मातुःशय्यान्तरे लीनं कारूषञ्चौरसं सुतम्। लाजान् विषेण संयोज्य मधुनेति विलोडितः। देवी तु काशीराजेन्द्रं निजधान रहोगतम्” काम० नीति०।

देवीकोट = पु० शोणितपुरे वाणासुरपुरे त्रिका०।

देवीन्धियक = पु० देवीं धिया इत्याद्यप्रतीकशब्दोऽस्ति अत्र अनुवाके अध्याये वा गोषदा० वुन्। देवीं धियेत्याद्यप्रतीकयुक्ते अनुवाके अध्याये च।

देवीपुराण = न० देव्यामाहात्म्यादियुक्ते उपपुराणभेदे

देवीभागवत = न० देव्या माहात्म्यावेदकं भागवताख्यं पुराणम्। पुराणभेदे तच्चोपपुराणं कल्पान्तरे महापुराणं वेति उपपुराणशब्दे निर्णीतं तत्र दृश्यम्।

देवीमाहात्म्य = न० ६ त०। मार्कण्डेयपुराणान्तर्गते “सावर्णिः सूर्यतनय इत्यादिके सावर्णिर्भविता मनुरित्यन्ते त्रयोदशाध्यायात्मके ग्रन्थभेदे “श्रोष्यन्ति चैव ये भक्त्या देवीमाहात्म्यमुत्तमम्” मत्स्यापु०।

देवीरापसक = पु० देवीराप इत्याद्यप्रतीकमस्त्यत्रानुवाक्ये अध्याये वा गोषदा० युन्। देवीराप इत्याद्यप्रतीकयुक्ते अध्याये अनुवाके च।

देवीसूक्त = न० देव्याः तद्देवताकं सूक्तमृकसमुदायः। ऋग्वेदे शाकलसंहितायामतिप्रसिद्धे देवीदेवताके १ सूक्तभेदे “रात्रिसूक्तं जपेदादौ मध्ये सप्तशतीं जपेत्। प्रान्ते तु जपनीयं वै देवीसूक्तमिति क्रमात्” मरीचिकल्पः। तत्रैव पुरश्चरणप्रकरणे “कृष्णाष्टमीं समारभ्य यावत् कृष्णचतुर्दशीम्। वृद्ध्यैकोत्तरमाजाप्यं पूर्वसंपुटितं तत्। एवं देव्या यथा प्रोक्तः पौरश्चरणिकः क्रमः। तदन्ते हवनं कुर्यात् प्रतिश्लोकेन पायसम्। रात्रिसूक्तं प्रति ऋचं तथा देव्याश्च सूक्तकम्। हुत्वान्ते प्रजपेत् स्तोत्रमादौ पूजादिकं मुने!” अत्र गुप्तवतीकारा आहुः। “पूर्वसंपुटितम् पूर्वाभ्यां पूर्वोक्ताभ्यां रात्रिसूक्तदेवीसूक्ताभ्यां संपुटितम्” प्रतिश्लोकेनेति मन्त्रविभागोपलक्षणम् कात्यायन्यादितन्त्रोक्तसप्तशतीविभागग्रन्थस्य हवनादिविधिं प्रति वाक्यशेषत्वेन तेनैव बैधपदार्थनिर्णयावश्यमभावात्। रात्रिसूक्तदेवीसूक्ते च ऋग्वेदे शाकलसंहितायां प्रसिद्धे। तथेत्यनेन जपे कॢप्तक्रमः संपुटाकारो निर्दिश्यते तच्छब्दस्य पूर्वपरामर्शित्वात्। तस्य श्लोकपूरणमात्रार्थत्वं तुन न्याय्यम्। द्वाभ्यामपि सूक्ताभ्यां त्रिरावृत्तसप्तशतीहोमोत्तरमेव पाठक्रमानुसारेण होमः। “विश्वेश्वरीं जगद्धात्रीमिति” स्तवो रात्रिसूक्तम्। “नमोदेव्यै महादेव्यै इति” स्तवो देवीसूक्तमिति कश्चित् तन्न “प्रतिश्लोकं प्रतिऋचमिति” प्रतिनियतनिर्देशविरोधात् ऋक्सूक्तादिशब्दानां वैदिकमन्त्रेष्वेव रूढत्वप्रसिद्धेः। मत्स्यसूक्तमित्यादि क्वाचित्कतान्त्रिकव्यवहारस्य केवलयौगिकत्वेनोपपत्तेः। तेन ऋक्पदस्य श्लोके लक्षणेत्युक्तिरपि साहसमात्रम्। समुद्रमनोध्यानादिविधौ वृहद्रथन्तरपदयोः प्रतिनियतनिर्देशबलादेव लक्षणाव्यवस्थाया इव प्रकृते कॢप्ताया एव शक्तेर्व्यवस्थादार्ढ्यस्य कैमुतिकन्यायेनैव सिद्धेः। यदि त्वेवमालोच्यते “विश्वेश्वर्य्यादिकं सूक्तं दृष्टं तद्ब्रह्मणा पुरा। स्तुतये योगनिद्राया मम देव्याः पुरन्दर!। महिषान्तकरीसूक्तं सर्वसिद्धिप्रदं तथा। देव्या ययादिकं दिव्यं दृष्टं देवैः सहर्षिभिः। देवि! प्रपन्नार्त्तिहरे! प्रसीदेत्यादिकं तथा। नारायणीस्तुतिर्नाम सूक्तं परमशोभनम्। अमुष्याः स्तुतये दृष्टं व्रह्माद्यैः सकलैः सुरैः। नमो देव्यादिकं सूक्तं सर्वकामफलप्रदम्” इति विशफलितवेषेण पाञ्चरात्रलक्ष्मीतन्त्रे व्यवहारदर्शनादेतेषां स्तोत्राणा मपौरुषेयत्वस्य सिद्धान्तितत्वाच्च सूक्तत्वव्यवहारो युज्यत एवेति। तदा कात्यायनीतन्त्रमते विश्वेश्वरीमिति श्लोकात् पूर्वं ब्रह्मोवाचेत्यस्य पाठाभावात्तदुत्तरमेव तत्पाठाच्च। त्वं स्वाहेत्यारभ्यैव स्तोत्रारम्भः तस्य च योगनिद्रात्मकरात्रिदैवतत्वात् मरीचितन्त्रे रात्रिसूक्तपदेन निर्देश इति समाधेयं परं त्वेतत्तन्त्रमनुसरता विश्वेश्वरीमिति श्लोकेऽङ्गहोमदशायां न होतव्यम्। स्तोत्रान्तिमश्लोकस्य द्वेधा विभागोऽपि न कार्यः। देवीसूक्तेऽपि त्रेधा विभागोऽङ्गहोमे न विधेयः प्रधानविधिशेषस्याङ्गविधावन्वयेन प्रतिऋचमिति पदे लक्षणाकल्पने मानाभावादित्यवधेयम्”। २ नमोदेव्यै महादेव्यै इत्यादिके देवीमाहात्म्यस्य पञ्चमाध्यायस्थे देव्याः स्तुतिरूपे मालामन्त्रे च “स च वैश्यस्तपस्तेपे देवीसूक्तं परं जपन्” देवीमाहा० तत्र गुप्तवतीकारा आहुः “देवीसूक्तं बह्वृचेष्वतिप्रसिद्ध- मेकं। विश्वेश्वरीमित्यादीत्येके श्रीसूक्तमाथर्वणप्रसिद्ध मित्यन्ये। वस्तुतस्तु देवीसूक्तं नमोदेव्या इत्यादिक पञ्चमाध्यायस्थं स्तुतिरूपं तच्च सर्वदेवताकूटस्थाया महालक्ष्म्याः स्तोत्रं शुम्भादिवधार्थिभिर्ब्रह्मादिभिर्देवैर्दृष्टं सर्वक्लेशपरिहारैश्वर्य्यादिफलकं तत्कामाभ्यां ताभ्यां जप्तम् अनुपदं श्रुतत्वात् बुद्धिसन्निहितत्वाच्चेदमेव देवीसूक्तपदेनात्र गृहीतुमुचितं लक्ष्मीतन्त्रसम्मतश्चायमर्थः इति प्रागेव निरूपितमित्यपरे “प्राणाधः संस्थितं वीजं व्योम वीजं हुताशनः। त्रिकोणविन्दुनादाढ्यं प्रणवादि नमोऽन्तकम्। अम्बिकासिद्धिदं ज्ञेयं देवीसूक्तं परं स्मृतम्” इति क्वचित्पठिते ३ मन्त्रभेदे च।

देवृ = पु० दिव–ऋ। देवरे स्वामिनः कनिष्ठभ्रातरि अमरः।

देवेज् = पु० देवं यजते यज–क्विप्। देवयष्टरि

देवेज्य = पु० देवानामिज्यः पूज्यः। सुराचार्य्ये जीवे शब्दर०।

देवेन्द्र = पु० ६ त०। सुरेन्द्रे शक्रे “त्वमेव देवेन्द्र! सदा निगद्यसे” रघुः।

देवेश = पु० ६ त०। १ देवनियन्तरि परमेश्वरे २ महादेवे च “भगवांश्चापि देवेशो यत्र देवी च कीर्त्त्यते” भा० आ० ६२ अ०। ३ तत्पत्न्यां स्त्री ङीष्। “देवेशि! भक्तिसुलभे। परिवारसमन्विते!। यावत्त्वां पूजयिष्यामि तावत्त्वं सुस्थिरा भव” तन्त्रसारः। ४ विष्णौ पु० “देवेशो देवभृद्गुरुः” विष्णुस० देवेश्वरादयोऽप्यत्र।

देवेशय = पु० देवे अधिष्ठातृतया शेते शी–अच् अलुक्स०। देवेषु अधिष्ठातृतया वासिनि १ परमेश्वरे २ विष्णौ च “अमृतेशय! हिरण्येशय! देवेशय! कुशेशय!” भा० शा० ३४० अ०।

देवेष्ट = त्रि० देवानामिष्टः। १ देवानामभिलषिते २ महामेदायां ३ गुग्गुलौ च पु० राजनि०।

देवोद्यानं = न० ६ त०। देवानामुद्याने तद्भेदश्च नन्दनं चैत्ररथं वैभ्राजं सर्वतोभद्रमिति चत्वारि, त्रिकाण्डे तु वैभ्राजं मिश्रकं सिध्रकावणं चैत्ररथमिति उक्तानीति भेदः।

देवौकस् = न० ६ त०। देवस्थाने सुमेरौ “राक्षसालयदेवौकःशैलयोर्मध्यसूत्रगाः। रोहितकमवन्ती च तथा सन्निहितं सरः” सूर्यसि०।

देव्य = न० देवस्य भावः ष्यञ वेदे बा० न वृद्धिः। देवत्वे “महत्तद्वोदेव्यस्य प्रवाचनम्” ऋ० ४। ३६। १ “देव्यस्य देवत्वस्य प्रवाचनं प्रख्यापकम्” भा०।

देश = पु० दिशति दिश–अच्। भूगोलान्तर्गते विभागभेदे जनपदशब्दे विवृतिः। विस्तरस्तु देशावलीग्रन्थस्य प्रामाण्ये तत्र दृश्यः।

देशक = त्रि० दिश–कर्त्तरि ण्वुल्। १ उपदेष्टरि अनुशास्तरि हेमच०। देश + स्वार्थे क। २ देशशब्दार्थे

देशकारा(री) = स्त्री रागिणीभेदे सङ्गीतशास्त्रम्। इयं च मेघरागस्य भार्य्या

देशधर्म्म = पु० देशानुरूपः धर्मः। देशोचितधर्मे स च “यस्मिन् देशे य आचारः पारम्पर्यक्रमागतः” मनूक्तः “देशधर्मान् जातिधर्मात् कुलधर्मांश्च शाश्वतान्। पाषण्डगणधर्मांश्च शास्त्रेऽस्मिन्नुक्तवान् मनुः” मनुः शास्त्रविरोधस्थले देशधर्मः परित्याज्यः यथाह आ० गृ० सू० १। ७१ नारयणोपाध्यायः “वैदेहेषु सदाएव व्यवायोदृष्टः गृह्ये तु “व्रह्मचारिणौ त्रिरात्रमिति” ब्रह्मचर्यं विहितं तत्र गृह्योक्तमेव कर्म कुर्य्यात् न देशधर्ममिति”।

देशना = स्त्री दिश–णिच्–युच्। नियोगे विध्यादौ “एकोद्दिष्टादिवृद्ध्यादौ ह्रासवृद्ध्यादि देशना” ति० त० व्यासः।

देशपरिच्छिन्न = त्रि० ३ त० अधिकरणैकदेशवर्तिनि सर्वाव्यापिनि। यथा संयोगादि।

देशभाषा = स्त्री देशप्रचलिता भाषा शा० त०। तत्तद्देशेषु प्रचुलितभाषायाम् मातृभाषायाम्। “कुशला देशभाषासु जल्पन्तोऽन्योन्यमीश्वराः” भा० श० ४६ अ०।

देशराजचरित = न० गद्यपद्यमयात्मके चम्पूभेदे सा० द०

देशरूप = न० दिश–कर्मणि घञ् देशस्य दिश्यमानस्य उचितस्य रूपम्। उचिते समञ्जसे अमरः “लघुना देशरूपेण ग्रन्थयोगेन भारत!” भा० शा० १०७ अ०। देश + प्रशंसायाम् रूपप्। २ प्रशंसिते देशे च।

देशाखो = स्त्री रागिणीभेदे सा च हिन्दीलरागस्य द्वितीय भार्य्या संगीतशास्त्रम्।

देशान्तर = न० अन्योदेशः मयूर० स०। १ देशभेदे तच्च स्मृतौ परिभाषितं यथाह वृद्धमनुः

“वाचो यत्र विभिद्यन्ते गिरिर्वा व्यवधायकः। महानद्यन्तरं यत्र तद्देशान्तरमुच्यते। देशनामनदीभेदान्निकटोऽपि भवेद् यदि। तत्तु देशान्तरं प्रोक्तं स्वयमेव स्वयम्भुवा। दशरात्रेण या वार्त्ता न श्रूयेताथवा पुनः। वृहस्पतिः “देशान्तरं वदन्त्येके षष्टियोजनमायतम्। चत्वारिंशद्वदन्त्येके त्रिंशदेके तथैव च” “इत्युक्तमुनिद्वयवचनोक्तवागादियोजनादिभेदसामञ्जस्यार्थमेवं व्याख्यायते त्रितयवैशिष्ट्ये त्रिंशद् योजनाभ्यन्तरे, द्वितीयवैशिष्ट्ये तदुपरि, एकवैशिष्ट्ये चत्वारिंशद्योजनोपरि, वाणीगिरिमहानद्यन्तरितत्वभेदा- भावेऽपि षष्टियोजनोपरि, वैदेश्यमिति शुद्धिचिन्तामणिः” शु० त० रघु०। “देशान्तरगते प्रेते” शु० त० “क्लीवे देशान्तरगते पण्डिते भिक्षुकेऽपि वा। योगशास्त्राभियुक्ते च न दोषः परिवेदने” उ० त० शातातपः भूगोलस्थमध्यरेखातः पूर्वापरस्थे उत्तरदक्षिणस्थे वा योजनविशेषान्तररूपे चरसंज्ञके २ पदार्थे तत्स्वरूपं सि० शि० उक्तं तच्च चरशब्दे ८९८ पृ० दर्शितम्। अधिकमत्र सि० शि० उक्तं तत्रादर्शितं दर्श्यते

“यल्लङ्काज्जायनीपुरोपरि कुरुक्षेत्रादिदेशान् स्पृशत् सूत्रं मेरुगतं बुधैर्निगदिता सा मध्यरेखा भुवः” मू० “अत्रोपपत्तिर्गोले इदानीं देशान्तरमाह” प्रमिता० “यत्र रेखापुरे स्वाक्षतुल्यः पलस्तन्निजस्थानमध्यस्थितैर्योजनैः। खेटभुक्तिर्हता स्पष्टभूवेष्टनेनोद्धृता प्रागृणं स्वं तु पश्चाद् ग्रहे” मू० “अत्रोपपत्तिस्त्रैराशिकेन गोलेऽभिहिता च। इदानी देशान्तरघटिका आह” प्रमि० “प्राग्भूविभागे गणितोत्थकालादनन्तरं प्रग्रहणं विधोः स्यात्। आदौ हि पश्चाद्विवरे तयोर्या भवन्ति देशान्तरनाडिकास्ताः। तद्घ्नं स्फुटं षष्टिहृतं कुवृत्तं भवन्ति देशान्तरयोजनानि। घटीगुणा षष्टिहृता द्युभुक्तिः स्वर्णं ग्रहे चोक्तवदेव कार्यम्। अर्कोदयादूर्द्ध्वमधश्च ताभिः प्राच्यां प्रतीच्यां दिनपप्रवृत्तिः। ऊर्द्ध्वं तथाधश्चरनाडिकाभी रवावुदग्दक्षिणगोलयाते” मू०। “यः किल मध्यरेखाया अपरिज्ञानात् ततः प्राक् पश्चाद्वा स्थितोऽस्मीति न वेत्ति तेनैवं ज्ञातव्यम्। विधुग्रहणदिने घटिकायन्त्रेण स्पर्शकाले रात्रिगतं ज्ञेयम्। अथ च गणितेन स्पर्शकालो ज्ञेयः। गणितोत्थकालादनन्तरं प्रग्रहणं यदि दृष्टं तदा द्रष्टा रेखातः प्राग्भूविभागे। यतो द्रष्टा यथा यथा रेखातः प्राग्व्रजति तथा तथा रेखोदयात् प्रागेवार्कोदयं पश्यति। इतोऽन्यथा चेत् तदा पश्चाद् द्रष्टा। दृग्ग्रहणप्रग्रहणकालयोरन्तरं देशान्तरघटिकास्ताभिर्गुणं षष्ट्या हृतं स्पष्टभूवेष्टनम् एवमनुपाताद्देशान्तरयोजनानि। अथ वा किं योजनैः। यदि घटीषष्ट्या गतिर्लभ्यते तदा देशान्तरघटीभिः किमिति। एवं यत् फलमुत्पद्यते तत् प्रागृणं पश्चाद्धनमिति युक्तमुक्तम्। तथा प्राच्यां ताभिर्घटीमिर्दिनवारप्रवृत्तिरर्कोदयादूर्द्ध्वं भवति। प्रतीच्यां तु तस्मादधः। यतो लङ्कोदये वारादिः। अतएव च रवावुत्तरगोलस्थे चरार्द्धघटिकाभिरूर्द्ध्वम्। यतस्तदोन्मण्डलं क्षितिजादूर्द्ध्वम्। दक्षिणे त्वधोऽतस्तत्रोदयादधो वारप्रवृत्तिरिति सर्वं निरवद्यम्” प्रमि०।

देशिक = त्रि० देशे प्रसितः टन्। १ पथिके हेमच०। देश उपदेशः तत्र प्रसितः। २ गुर्वादौ “धर्माणां देशिकः साक्षात् स भविष्यति धर्मभाक्” भा० अ० १४७ अ०।

देशिन् = त्रि० दिशति दिश–णिनि। १ देशके स्त्रियां ङीप् सा च २ तर्ज्जन्यां शब्दच० “कनिष्ठादेशिन्यङ्गुष्ठमूलान्यग्रं करस्य च। प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात्” याज्ञ०

देशी = स्त्री रागिणीभेदे सा च दीपकरागस्य भार्य्या

देशीय = त्रि० देशे भवः गहा० छ। देशभवे “इति पाश्चात्त्य देशीयाः पठन्ति” रघु० “सुरते कर्णमूलेषु यच्च देशीय भाषया। दम्पत्योर्जल्पितं मन्दं मन्मनं तद्विदुर्बुधाः” कामशास्त्रम्।

देशित = त्रि० दिश–णिच् कर्मणि क्त। उपदेशप्रेरिते “काकेभ्यो रक्ष्यतामन्नमिति वालोऽपि देशितः। उपघातप्रधानत्वान्न श्वादिभ्योऽपि रक्षति” मीमांसाकारिका।

देशीयवराडी = पु० रागिणीभेदे “देशीयवराडीरूपक तालेन गीयते” गीतगो०

देश्य = त्रि० दिश–कर्मणि ण्यत्। १ उपदेश्ये २ पूर्वपक्षे न० शब्दरत्ना० देशे भवः दिगा० यत्। ३ दशभवे त्रि० अस्य अकर्मधारये तत्पुरुषे उत्तरपदस्थस्य वर्ग्या० आद्युदात्तता।

देष्ठ = त्रि० अतिशयेन दाता दातृ + अतिशायने इष्ठन् तृणोलोपे गुणः। दातृतमे “वसुदेष्ठः सुन्वते भुवः” ऋ० ८। ६६। ६

देष्णु = त्रि० दा–इष्णुच् गुणः। दातरि उज्ज्वल०

देह = पु० न० दिह–घञ्। १ शरीरे स च स्थूलसूक्ष्मकारणभेदात् त्रिविधः। अङ्गशब्दे गात्रशब्दे च विवृतिः सूक्ष्मदेहस्यैव भोगो ब्रह्मवैवर्त्तपु० दर्शितो यथा तत्र यमं प्रति सावित्रीप्रश्नः “स्वदेहे भस्मसाद्भूते यान्ति लोकान्तरं नराः। केन देहेन वा भोगं भुञ्जते च शुभाशुभम्। देहो वा किंविधो ब्रह्मन्! तन्मे व्याख्यातुमर्हसि” तत्र यमस्योत्तरम् “शृणु देहविवरणं कथयामि यथागमम्। पृथिवी वायुराकाशस्तेजस्तोयमिति स्फुटम्। देहिनां देहवीजञ्च स्रष्टुः सृष्टिविधौ परम्। पृथिव्यादिपञ्चभूतैर्यो देहो निर्मितो भवेत्। स कृत्रिमो नश्वरश्च भस्मसाच्च भवेदिह। वृद्धाङ्गुष्ठप्रमाणञ्च यो जीवः पुरुषः कृतः। बिभर्त्ति सूक्ष्मदेहन्तं तद्रूपं भोगहेतवे। स देहो न भवेद्भस्म ज्वलदग्नौ यमालये। जलेन नष्टी देहो वा प्रहारे सुचिरे कृते। न शस्त्रे च न चास्त्रे च न तीक्ष्णकण्टके तथा। तप्तद्रवे तप्तलौहे तप्तपाषाण एव च। प्रतप्तप्रतिमाश्लेषेऽप्यत्यूर्द्धपतनेऽपि च। न च दाधो न भग्नश्च भुङ्क्ते सन्तापमेव च। कथितं देहवृत्तान्तकारणञ्च यथागमम्” स्थूलश्च नश्वरः। “अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः” गीता। सूक्ष्मादित्रैविध्यं सां० का० त० कौ०

“सूक्ष्मा मातापितृजाः सह प्रभूतैस्त्रिधा विशेषाः स्युः। सूक्ष्मास्तेषां नियताः मातापितृजा निवर्तन्ते” सा० का० “त्रिधा विशेषाः स्युः। तान् विशेषप्रकारानाह सूक्ष्मा इत्यादि सूक्ष्मदेहाः परिकल्पिताः (१) मातापितृजाः षाट्कौशिकाः तत्र मातृतो लोमलोहितमांसानि, पितृतस्तु स्नाय्वस्थिमज्जान इति षट्कोगणः। प्रकृष्टानि महान्ति भूतानि प्रभूतानि तैः सह सूक्ष्मशरीरमेकोविशेषः मातापितृजो द्वितीयः महाभूतानि तृतीयः। महाभूतवर्ग च घटादीनां निवेशः इति। सूक्ष्ममातापितृजयोर्देहयोर्विशेषमाह सूक्ष्मास्तेषां विशेषाणां मध्ये ये, ते नियताः, नित्याः मातापितृजा निवर्तन्ते रसान्ता वा भस्मान्ता वा विडन्ता वेति सूक्ष्मशरीरं विभजते” त० कौ०

“पूर्वोत्पन्नम(श)सक्तं नियतं महदादिसूक्ष्मपर्यन्तम्। संसरति निरुपभोगं भावैरधिवासितं लिङ्गम्” सां० का० प्रधानेनादिसर्गे प्रतिपुरुषमेकैकमुत्पादितम् अस(श)मव्याहतं शिलामप्यनुविशति नियतम् आ वादिसर्गात् आ च महाप्रलयादवतिष्ठते। महदादिसूक्ष्मपर्यन्तं महदहङ्कारैकादशेन्द्रियपञ्चतन्मात्रपर्यन्तम् एषां समुदायः सूक्ष्मशरीरं शान्तघोरमूढैरिन्द्रियैरन्वितत्वाद्विशेषः। नन्वस्त्वेतदेव शरीरं भोगायतनं पुरुषस्य, कृतं दृश्यमानेन षाट्कौशिकेन शरीरेणेत्यत आह संसरतीति उपात्तमु पात्त षाट्कौशिकं शरीरं जहाति हायं हायं चोपादत्ते कस्मात्? निरुपभोगं यतः, षाटकौशिकं शरीरं विना सूक्ष्मं शरीरं निरुपभोगं, तस्मात्संसरति। ननु धर्माधमनिमित्तः संसारः न च सूक्ष्मशरीरस्यास्ति यद्योगः, तत्कथं संसरतीत्यत आह भावैरधिवासितं धर्माधर्मज्ञानाज्ञानवैराग्यावैराग्यैश्वर्य्यानैश्वय्यर्य्याणि भावास्तदन्विता बुद्धिः तदन्वितञ्च सूक्ष्मशरीरमिति तदपि भावैरधिवासितं यथा सुरभिचम्पकसम्पर्काद्वस्त्रं तदामोदवासितम्भवति तस्माद्भावैरेवाधिवासितत्वात्संसरति। कस्मात्पुनः प्रधानमिव महाप्रलयेऽपि तच्छरीरं न तिष्ठतीत्यत आह लिङ्गम् लयं गच्छतीति लिङ्गं हेतुमत्त्वेन चास्य लिङ्गत्वमिति भावः” त० कौ०। परिकल्पिना इत्यस्य अनुमिता इत्यर्थः तत्प्रयोगश्च परलोके कर्मफलभोगः सूक्ष्मदेहं विनाऽनुपन्नः भोगत्वात् स्थूलस्वदेहारब्धकृष्यादिजनितस्य शस्यस्य स्वदेहेनैव भोगवत् यद्यत् स्वदेहारब्ध कर्मफलं तत्तत् स्वदेहेनैव भोग्यं नेतरेण अन्यथा कृतहान्यकृताभ्यागमप्रसङ्ग इत्यादि तर्कश्चात्रानुसन्धातव्यः। “किन्तु देहमयोनिजम्” भाषा० “देहात्मप्रत्ययो यद्वत् प्रमाणत्वेन कल्पितः” शा० भा० कारिका “देहिनाऽस्मिन् यथा देहे कौमारं यौवनं जरा। तथा देहान्तरप्राप्तिः” गीता। उत्पत्तिस्थानभेदेवः देहश्चतुर्विधः “देहश्चतुर्विधोज्ञेयो जन्तोरुत्पत्तिभेदतः। उद्भिज्जः स्वेदजोऽण्डोत्थश्चतुर्थश्च जरायजः” राघवभट्टधृतवाक्यम्। ज्योतिषोक्ते २ लग्ने च “देहाधीशः स्वगेहे बुधगुरुकविभिः संयुतो वीक्षितो वा” जातका०। दिह–भावे घञ्। ३ लेपने पु०

देहकर्त्तृ = त्रि० देहं करोति कृ–तृच्। १ देहकारके पृथिव्यादिभूते २ ईश्वरे ३ सूर्ये च पु० कर्मसाक्षित्वात्तयोस्तथात्वम् “देहकर्त्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः” भा० व० ३ अ०। सूर्यनामोक्तौ।

देहकृत् = त्रि० देहं करोति कृ–क्विप्। १ देहकारके पृथिव्यादिभूते। २ परमेश्वरे पु० “स एष भगवान् देवः” इत्युपक्रमे “देहकृत् देहभृत् देही” भा० अनु० १६ अ० ईशस्तुतिः।

देहकोष = पु० देहस्य कोष इव। देहावरके खगानां पक्षे (पाखा) शब्दच०।

देहक्षय = पु० देहस्य क्षयो यस्मात्। १ रोगे शब्दच०। ६ त०। २ देहस्य नाशे च।

देहज = पु० देहात् जायते जन–ड। १ तनुजे पुत्रे “द्वैपायनादनवरो महित्वे तस्य देहजः”। २ पुत्र्यां स्त्री। ३ देहजातमात्रे त्रि० “अहितो देहजो व्याधिर्हितमारण्यमौषधम्” उद्भट्टः।

देहद = पु० देहं दायति शोधयति देहं देहपुष्टिं ददाति रसायनेन वा दै–शोधने दा–दाने वा क। १ पारदे राजनि०। २ देहदातरि त्रि०।

देहधारक = न० देहं धारयति धारि–ण्वुल्। १ अस्थ्नि देहधारिणि २ शरीरिमात्रे त्रि०। णिनि। देहधारिन् तत्रार्थे स्त्रियां ङीप्। “संस्थिता परमा माया देहिनां देहधारिणी” ति० त० स्क० प्रभा० ख०।

देहधि = पु० देहोधीयतेऽत्र धा–आधारे कि। देहाधारे खगानां देहावरके पक्षे (पाखा) शब्दचन्द्रिकाकोषः।

देहधृज् = पु० धृज–गतौ क्विन्। प्राणवायौ “वायुर्यो वक्त्रसञ्चारी स प्राणो नाम देहधृक्” सुश्रु०। २ देहधारक मात्रे मनुष्यादौ त्रि०।

देहभुग् = त्रि० देहे भुङ्क्ते कर्मफलानि भुज–क्विन्। १ देहाभिमानिनि जीवे। देहं भुङ्क्ते भोजयति कर्मसाक्षित्वात् भुज–अन्तर्भूतण्यर्थे क्विन्। २ सूर्य्ये पु० “देहभुग् देहिनां गतिः” भा० अनु० १६ अ० सूर्यनामोक्तौ।

देहभृत् = पु० देहं विभर्त्ति स्वकर्म्मानुसारेण भृ–क्विप्। स्वस्वकर्म्मानुसारेण देहाधिष्ठातरि कर्म्मात्मनि १ जीवे। “कर्म्मात्मा त्वपरी योऽसौ बन्धमोक्षैः संयुज्यते” सा० प्र० भा० धृतवाक्ये तस्य कर्मयोगेन देहसम्बन्धरूपस्य बन्धस्योक्तेस्तथात्वम्। “धिगिमां देहभृतामसारताम्” रघुः।

“मनुष्योऽहं व्राह्मणोऽहं गृहस्थोऽहमित्त्याद्यभिमानेनाबाधितेन देहं कर्माधिकारहेतुं वर्णाश्रमादिरूपं कर्त्तृत्वभोक्तृत्वाद्याश्रयं स्थूलसूक्ष्मशरीरेन्द्रियसङ्घातं बिभर्त्ति अनाद्यविद्यावासनावशात् व्यवचारयोग्यत्वेन, कल्पितमसत्यमपि सत्यतया स्वभिन्नमपि स्वाभिन्नतया पश्यन् धारयति पोषयति वेति देहभृत्। २ विवेकज्ञानशून्ये अविद्यावति कर्त्तृत्वाभिमानिनि। स च त्रिविधः। रागादिदोषप्रावल्यात् काम्यनिषिद्धादियथेष्टकर्मानुष्ठायी मोक्षशास्त्रानधिकार्येकः १। अपरस्तु यः प्राकृतः सुकृतवशात् किञ्चित् प्रक्षीणरागादिदोषः सर्वाणि कर्माणि त्यक्तुमशक्नुवन् निषिद्धानि काम्यानि च परित्यज्य नित्यानि नैमित्तिकानि च कर्माणि फलाभिसन्धित्यागेन सत्त्वशुद्ध्यर्थमनुतिष्ठन् गौणसन्न्यासी मोक्षशास्त्राधिकारी द्वितीयः २। ततो नित्यनैमित्तिककर्मानुष्ठानेनान्तःकरण शुद्ध्या समुपजातविविदिषः श्रवणादिना वेदनं मोक्ष साधनं सम्पिपादयिषुः सर्वाणि कर्माणि विधितः परित्यज्य ब्रह्मनिष्ठं गुरुमुपसर्पति विविदिषासन्यासिसमाख्यस्तृतीयः ३।

देहम्भर = त्रि० देहं बिभर्त्ति भृ–बा० खच् मुम् च। देहपोषके “जनेषु देहम्भरवार्तिकेषु” भाग० ५। ५। ४

देहयात्रा = स्त्री देहस्य लोकान्तरे यात्रा, देहरक्षार्थं यात्रा उद्यमादि वा। १ यमपुर्य्यादिगमने मरणे २ देहरक्षार्थं भोजनादौ च मेदि० “अयं देहयात्रामात्रार्थमिच्छानिच्छापरेच्छाप्रापितानि सुखदुःखलक्षणान्थारब्धफलान्य- नुभवन्” वेदान्तसा० “अतीव भर्तुर्व्रतधर्मनिष्ठया शुश्रूषया चार्षया देहयात्रया” भाग० ४। २३। १७ आर्षः टाप्।

देहला = स्त्री देहं भुविलेपं राति ददाति सेवनात् रा–क रस्य लः। मद्ये शब्दच०।

देहलि(ली) = स्त्री देहं लेपनं लाति गृह्णाति आधारत्वेन ला–बा० कि वा ङीप्। द्वारपिण्ड्याम् (देओयाल) शब्दर०। “विन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पैः” मेघदू०। अमरादौ ह्रस्वान्तपाठः स च पु०।

देहवत् = त्रि० देह + अस्त्यर्थे मतुप् मस्य वः। देहात्माभिमानिनि जीवे “अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते” गीता।

देहवायु = पु० देहस्थो वायुः। प्राणादिवायुपञ्चके त्रिका०।

देहसाम्य = न० ६ त०। अङ्गानां समत्वे। तल्लक्षणमुक्तं यथा “अङ्गानां समतां विद्यात् समे ब्रह्मणि लीयते। नो चेन्नैव समानत्वमृजुत्वं शुष्कवृक्षत्रत्” शब्दार्थचि० धृतवाक्ये।

देहसार = पु० ६ त०। मज्जनि धातौ राजनि०।

देहातीत = पु० देहं देहाध्यासमतीतः। घटादिवत् देहस्य द्रष्टृत्वेन तदभिमानशून्ये विदुषि।

देहात्मवादिन् = पु० देहमात्मानं वदति वद–णिनि। चार्वाके तस्य यथा देहात्मवादित्वं तथा चार्वाकशब्दे २९२१ पृ० दर्शितम्।

देहात्मप्रत्यय = पु० देहस्यात्मतया प्रत्ययः। देहे आत्मत्वेन अभिमाने “देहात्मप्रत्ययो यद्वत् प्रमाणत्वेन कल्पितः। लौकिकं तद्वदेवेदं प्रमाणं त्वाऽऽत्मनिश्चयात्” शा० भा० धृ० कारिका

देहाध्यास = पु० देहस्य तद्धर्मस्य वा आत्मतया तद्धर्मतया वा अध्यासः भ्रमः। देहधर्मस्य मनुष्यत्वादेरात्मधर्मतया बोधे। यथा मनुष्योऽहं कृशोऽहं गौरोऽहमित्यादि देहधर्मस्य आत्मनि भ्रमः।

देहिका = स्त्री दिह–ण्वुल्। कीटभेदे उपजिह्विकायां त्रिका०

देहिन् = स्त्री देहाः सर्वे भूतभविष्यद्वर्त्तमाना जगन्मण्डलवर्तिनोऽस्य सन्तीति इनि। १ देहतादात्म्याध्यासापन्ने जीवे। एकस्यैव विभुत्वेन सर्वदेहयोगित्वाल्लिङ्गदेहोपाधिरात्मा देहीत्युच्यते। २ देहाभिन्नात्मदर्शिनि च। जीवश्च विद्वांश्चेत् प्रवासीव परगेहे तत्पूजापरिभवादिभिरप्रहृष्यन्नविषीदन्नहङ्कारममकारशून्यस्तिष्ठति। अज्ञो हि देहतादात्म्याभिमानाद् देहमात्मतयाऽभिमन्यमानः देहाधिकरणमेवात्मनोधिकरणं मन्यमानो गृहे भूमा- वासने वाहमासे इति मन्यते न तु देहे आसे इति “देहिनामदहद्योगमंहसाम्” माघः।

दै = शोधने भ्वा० पर० सक० शुद्धौ अक० अनिट् पित् तेन न घुसंज्ञा। दायति अदासीत् ददौ दायात् दायते दातः। दातिः।अव + श्वेतीभावे अक० आवदाय्ति शुक्लीभवति “अवदातः सितौ गौरः” अमरः।

दैतेय = पुंस्त्री दितेरपत्यं ढक्। दितेरपत्ये असुरे अमरः। “देतेयाश्चाप्यदैतेयाः परस्परजयैषिणः” हरिवं० २१४ अ०। स्त्रियां ङीप्। “दैतेयी चासुरी प्रजा” भा० शा० २३७ अ०।

दैत्य = पु० दितेरपत्यं ण्य। दितेरपत्ये अमरः। “दैत्यदानवयक्षाणां गन्धर्वोरगरक्षसाम्” मनुः। योपधत्वात् जातावपि स्त्रियां टाप्।

दैत्यगुरु = पु० ६ त०। शुक्राचार्ये अमरः। “शत्रुक्षयान् दैत्यगुरुस्तृतीये” वृ० सं० १०४ अ०।

दैत्यदेब = पु० ६ त०। १ वरुणे त्रिका०। ३ वायौ हेम०।

दैत्यद्वीप = पु० गरुडात्मजभेदे “दैत्यद्वीपः परिद्वीपः मारसः पद्मकेतनः” भा० उ० १०० अ० गरुडात्मजोक्तौ

दैत्यधूमिनी = स्त्री तारादेव्यर्चनाङ्गे मुद्राभेदे “तारार्चने विशेषास्तु कथ्यन्ते पञ्च मुद्रिकाः। योनिश्च भूतिनी चैव वीजाख्या दैत्यधूमिनी। लेलिहानेति संप्रोक्ताः पञ्च मुद्रा विलोकिताः” तन्त्रसारे उद्दिश्य “दानवधूमकेत्वपरनामतया सा लक्षिता यथा “परिवर्त्त्य करौ स्पष्टौ कनिष्ठाकृष्टमध्यमे। अनामायुगलं चाधस्तर्ज्जनीयुगलं पृथक्। अन्योऽन्यं निविडां बद्ध्वाङ्गुष्ठाग्रेऽनामिकां ततः। दानवधूमकेत्वाख्या मुद्रैषा कथिता प्रिये!”।

दैत्यनिसूदन = पु० दैत्यान् निसूदयति हिनस्ति नि + सूदिणिच्–ल्यु। विष्णौ तस्य दानवारित्वात्तथात्वम्।

दैत्यपति = पु० ६ त० हिरण्यकशिपौ। “प्राणच्छिदां दैत्य० पतेर्नखानाम्” माघः।

दैत्यपुरोधस् = पु० ६ त०। शुक्राचार्ये हारा० “जिगीषया ततो देवावव्रिरेऽङ्गिरसं मुनिम्। पौरोहित्येन याज्यार्थे काव्यं तूशनसं परे” भा० आ० ७६ अ० तस्यासुरपौरहित्यवरणमुक्तम्। दैत्यपुरोहितादयोऽप्यत्र।

दैत्यपूज्य = पु० ६ त०। शुक्राचार्ये “कनकनिकषगौरे व्याधयो दैत्यपूज्ये” वृ० स० ९ अ०।

दैत्यमातृ = स्त्री ६ त०। कश्यपर्षेः कलत्रे १ दितो उपचारात् तेषां विमातृषु २ अदित्यादिषु तत्कलत्रेषु च “अदितिर्दितिर्दनुश्चैव सिंहिका दैत्यमातरः” हरिवं० १६८ अ०।

दैत्यमेदज = पु० दैत्यस्य म्दाज्जायते जन–ड। १ गुगगुलौ २ पृथिव्यां स्त्री राजनि० मधुकैटभमेदजातत्वात्तस्यास्तथात्वम्

दैत्ययुग = न० ६ त०। दैवयुगवत् द्वादशसहस्रमितवर्षेषु शब्दार्थकल्पतरुः। दैवयुगशब्दे दृश्यम्।

दैत्या = स्त्री दितेरियम् ण्य टाप्। १ सुरायां त्रिका० २ मुरानामगन्धद्रव्ये अमरः। ३ चण्डोषधौ मेदि० योपधत्वात् जातावपि टाप्। ३ दैत्यजातिस्त्रियाम्।

दैत्यारि = पु० ६ त०। १ विष्णौ अमरः। २ देवतामात्रे च मेदि०।

दैत्याहोरात्रं = पु० ६ त०। मानुषे वर्षे शब्दार्थकल्पतरुः तन्मानस्य देवमानतुल्यत्वात्तथात्वम्।

दैत्येज्य = पु० ६ त०। दैत्यगुरौ शुक्राचार्ये।

दैन = न० दीनस्य भावः। १ दीनत्वे दिने भवः अण्। २ दिनभवे त्रि०।

दैनन्दिन = त्रि० दिनं दिनं भवः वीप्सायां द्वित्वम् अत्यन्तसंयोगे द्वितीया ततो भवार्थे अण् अणि परे द्वितीय विभक्तेर्लुक मध्यस्थायास्तु प्रत्ययपरत्वाभावान्न लुक्। दिने दिने भवे प्रत्यहं भवे “एष दैनन्दिनः सर्गो ब्राह्मस्त्रैलोक्यवर्तनः। तिर्य्यङ्नृपितृदेवानां सम्भवोयत्र कर्मभिः” भाग० ३। ११। २७।

दैनन्दिनप्रलय = पु० ६ त०। ब्रह्मणः स्वमानानुसारेण प्रतिदिनावसाने सर्वसृष्टवस्तूनां क्षये प्रलयविशेषे “चतुर्दशेन्द्रावच्छिन्नं ब्रह्मणो दिनमुच्यते। तावती ब्रह्मणो रात्रिः सा च ब्राह्मी निशा नृप!। कालरात्रिश्च सा ज्ञेया वेदेषु परिकीर्तिता। एवं सप्तकल्पजीवी मार्कण्डेयो महातपाः। ब्रह्मलोकादधः सर्वे लोका दग्धाश्च तत्र वै। उत्थितेनैव सहसा सङ्कर्षणमुखाग्निना। चन्द्रार्कव्रह्मपुत्राश्च ब्रह्म लोकं गता द्रुतम्। ब्रह्मरात्रे व्यतीते तु पुनश्च ससृजे विधिः। तस्य ब्राह्म्यां निशायाञ्च क्षुद्रप्रलयसम्भवः। एवं त्रिंशद्दिवारात्रैर्ब्रह्मणो मास एव च। वर्षं द्वादशमार्सश्च ब्रह्मसम्बन्धि चैव हि। एवं परिमिताव्दे च गते च व्रह्मणो नृप। दैनन्दिनस्तु प्रलयो वेदेषु परिकीर्तितः। अहोरात्रश्च स प्रोक्तो वेदविद्भिः पुरातनैः। तत्र सर्व प्रनष्टाश्च चन्द्रार्कादिदिगीश्वराः। आदित्यावसवो रुद्रा मन्विन्द्रा मानवादयः। ऋषयो मुनयश्चैव गन्धर्वा राक्षसदायः। मार्कण्डेयो लोमशश्च पेचकश्चिरजीविनः। इन्द्रद्युम्नश्च नृपतिश्चाकूपारश्च कच्छपः। नाडीजङ्घो वकश्चैव सर्वे नष्टाश्च तत्र वै। ब्रह्मलोकादधः सर्वे लोका नागालयास्तथा। ब्रह्मलोकं ययुः सर्व ब्रह्मलोकादवस्तथा। गते दैनन्दिने ब्रह्मा लोकांश्च ससृजे पुनः। एवं शतायुःपर्यन्त परमायुश्च ब्रह्मणः” व्र० वै० प्र०।

दैनिक = त्रि० दिने भवः “कालाट ठञ्” पा० ठञ्। दिनभवे स्त्रियां ङीप्। सा च दिने क्रियमाणकर्मभृतौ शब्दमा०।

दैर्घवरत्र = पु० दीर्घवरत्रेण निर्वृत्तः कूपः अण्। दीर्घरज्ज्वाकृष्टदण्डखननेन निष्पादिते कूपे।

दैर्घ्य = न० दीर्घस्य भावः व्यञ्। दीर्घतायाम्।

दैन्य = न० दीनस्य भावः ष्यञ्। १ दीनत्वे, कार्पण्ये च। “दौर्गत्याद्यैरनौजस्यं दैन्यं मलिनतादि कृत्” सा० द० उक्ते २ व्यभिचारिगुणभेदे च “दैन्यचिन्ताश्रुनिश्वासवैवर्ण्योच्छ्वसितादिकृत्” सा० द० “इन्दोर्दैन्यं त्वदनुसरणक्लिष्ट कान्तेर्विभर्त्ति” मेघ०।

दैलीपि = पु० दिलीपस्यापत्यम् इञ्। दिलीपापत्ये ततः तौल्वल्या० युवप्रत्ययस्य फको न लुक्। दैलीपायनस्तदीय युवापत्ये।

दैव = त्रि० देवादागतः अण्। १ भाग्ये फलोन्मुखे शुभाशुभकर्मणि “दैवाधीनं जगत्सर्वं जन्मकर्म शुभाशुभम्। संयोगाञ्च वियोगाश्च न च दैवात् वरं बलम्। कृष्णायत्तञ्च तद्दैवं स दैवात् परतस्ततः। भजन्ति सततं भक्ताः परमात्मानमीश्वरम्। दैवं वर्द्धयितुं शक्तुं क्षयं कर्तुं स्वलीलया। न दैवबद्धस्तद्भक्तश्चाविनाशी च निर्गुणः” इति ब्र० वै० गणे०। मनुरुवाच। “दैवे पुरुषकारे च किं ज्यायस्तद्ब्रवीहि मे। अत्र मे संशयो देव! छेत्तुमर्हस्यशेषतः” मत्स्य उवाच “स्वमेव कर्म दैवाख्यं विद्धि देहान्तरार्जितम्। तस्मात् पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः। प्रतिकूलं तथा दैवं पौरुषेण विहन्यते। मङ्गलाचारयुक्तानां नित्यमुत्थान शीलिनाम्। येषां पूर्वकृतं कर्म सात्विकं मनुजोत्तम!। पौरुषेण विना तेषां केषाञ्चिद्दृश्यते फलम्। कर्मणा प्राप्यते लोके राजसस्य तथा फलम्। कृच्छ्रेण कर्मणा विद्धि तामसस्य तथा फलम्। पौरुषेणाप्यते राजन्! मार्गितव्यं फलं नरैः। दैवमेव विजानन्ति नराः पौरुष वर्जिताः। तस्माद्धि कालसंयुक्तं दैवेन सफलं भवेत्। पौरुषं दैवसम्पत्त्या काले फलति पार्थिव!। दैवं पुरुष कारश्च कालश्च मनुजोत्तम!। त्रयमेव मनुष्यस्य पिण्डितं स्यात् फलावहम्। कृषेर्वृष्टिसमायोगात् दृश्यन्ते फलसिद्धयः। तास्तु काले प्रदृश्यन्ते नैवाकाले कथञ्चन। तस्मात् सदैव कर्तव्यं सधर्मपौरुषं नृभिः। एवन्ते प्राप्नुवन्तीह परलोके फलं ध्रुवम्। नालसाः प्राप्नुवन्त्यर्थान्न च दैवपरायणाः। तस्मात् सदैव यत्नेन पौरुषे यत्नमाचरेत्। त्यक्तालसान् दैवपरान् मनुष्यानुत्थानयुक्तान् पुरुषान् हि लक्ष्मीः। अन्विष्य यत्नाद्वृणुते नृपेन्द्रं तस्मात् सदोत्थानवता हि भाव्यम्” मत्स्यपु० १९५ अ० “तृणं वज्रायते नूनं वज्रं चैव तृणायते। बलवान् बलहीनश्च दैवस्य गतिरीदृशी” “उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीर्देवेन देवमिति कापुरुषा वदन्ति” नीतिमाला “दैवायत्तं कुले जन्म ममायत्तं हि पौरुषम्” वेणीसं० देवस्येदम् देवाद्यञञौ पा० अञ्। २ देवसम्बन्धिनि स्त्रियां ङीप्। “दैवी ह्येषा गुणमयी मम माया दुरत्यया” गीता। “देवी विचित्रा गतिः” उद्भटः। ३ गीतोक्ते सम्पद्भेदे स्त्री “अभयं सत्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः। दानं दमश्च यज्ञश्च स्वाध्यायस्तपआर्जवम्। अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम्। दया भूतेष्वलोलुखं मार्द्दवं ह्रीरचापलम्। तेजः क्षमा धृतिः शौच मद्रोहोनाभिमानिता। भवन्ति सम्पदं दैवीमभिजातस्य पाण्डव!। दैवी सम्पद् विमोक्षाय निबन्धायासुरी मता” गीता देवस्येवायम् अञ्। ४ मनूक्ते विवाहभेदे पु० “ब्राह्मो दैवस्तथैवार्तः प्राजापत्यस्तथाऽऽसुरः। गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः” इत्युद्दिश्य “यज्ञे तु वितते सम्यगृत्विजे कर्म कुर्वते। अलङ्कृत्य सुतादानं दैवं धर्मं प्रचक्षते” इति लक्षितम् “सुतादानं तन्निमित्त ग्रहणमिति तात्पर्य्यार्थः। विवाहानां ब्रह्मदेवादिदेवताकत्वाऽभावेन इवार्थगर्भितार्थकता कुल्लूकभट्टेनोक्ता। देवो देवताऽस्य अञ्। ५ मनूक्ते अङ्गुल्यग्ररूपे आचमनाङ्गे तीर्थभेदे आचमनोपक्रमे “अङ्गुष्ठमूलस्यतले ब्राह्मं तीर्थं प्रचक्षते। कायमङ्गुलिमूलेऽग्रे दैवतीर्थं तयोरधः” कनिष्ठादेशिन्यङ्गुष्ठमूलान्यग्रं करस्य च। प्रजापतिपितृब्रह्म दैवतीर्थान्यनुक्रमात्” याज्ञबल्क्यैकवाक्यत्वात् अङ्गुल्यग्रस्यैव तथात्वम्। इदमर्थे अञ्। ६ देवसम्बन्धिनि देवसर्गरूपे सर्गभेदे दैवसर्गश्चाष्टविधो “विबुधाः १ पितरो २ऽमुराः ३ गन्धर्वाप्सरसः सिद्धा ४ यक्षरक्षांसि चारणानि ५ भूतप्रेतपिशाचाश्च ६ विद्याधूः ७ किन्नरादयः ८ भाग० ३। ९०। २६ उक्तः साङ्ख्यतत्त्वकौमुद्यान्तु अन्यबिधैवाष्टविधतोक्ता यथा “अष्टविकल्पो दैवस्तिर्य्यग्योनश्च पञ्चधा भवति। मानुष्यश्चैकविधः समासतो भौतिकः सर्गः” सा० का० “ब्राह्मप्राजापत्यैन्द्रगान्धर्वराक्षसपैशाच इत्य- ष्टविधो दैवः सर्गः” त० कौ। देवोदेवभेदो देवताऽस्य अञ्। ७ श्राद्धभेदे देवताभेदोद्देशेन कर्तव्ये श्राद्धभेदे न०। तस्य पितृश्राद्धात् पूर्वं कर्त्तव्यता मनुनोक्ता यथा “देवकार्य्यात् द्विजातीनां पितृकार्यं विशेष्यते। दैवं हि पितृकार्यस्य पूर्वमाप्यायनं स्मृतम्। तेषामारक्षभूतं तु पूर्वं दैवं नियोजयेत्। रक्षांसि हि विलुम्पन्ति श्राद्धमारक्षवर्जितम्। दैवाद्यन्तं तदीहेत पैत्राद्यन्तं न तद्भवेत्। पेत्राद्यन्तं त्वीहमानः क्षिप्रं नश्यति सान्वयः”। देवलोऽपि “यत्तत्र क्रियते कर्म पैतृके ब्राह्मणान् प्रति। तत्सर्वं तत्र कर्तव्यं वैश्वदेविकपूर्विकम्” आसनगन्धादिदाने दैवपूर्वकतां पैत्र्यश्राद्धे विधत्ते स्म। श्राद्धभेदे देवताभेदाश्च नि० सि० निरूपिताः कस्यचिच्छ्राद्धस्य चादैवपूर्वकता चोक्ता यथा

हेमाद्रौ शङ्खवृहस्पती “इष्टिश्राद्धे क्रतुदक्षौ सत्यो नान्दीमुखे वसुः। नैमित्तिके कामकालौ काम्ये च घुरिलोचनौ। पुरूरवार्द्रवौ चैव पार्वणे समुदाहृतौ” तत्रैव “उत्पत्तिं नाम चैतेषां न विदुर्ये द्विजातयः। अयमुच्चारणीयस्तैः श्लोकः श्राद्धासमन्वितैः। आगच्छन्तु महाभागा विश्वेदेवा महाबलाः। ये यत्र विहिताः श्राद्धे सावधाना भवन्तु ते” इति। इष्टिश्राद्धं प्रतिरुचिविहितमित्युक्तमिति कल्पतरुः। आधानादिकर्माङ्गमित्यन्ये। नैमित्तिकमेकोद्दिष्टम् “एकोद्दिष्टन्तु यच्छ्राद्धं तन्नैमित्तिकमुच्यते” भविष्योक्तेः एतद् यद्यपि “एकोद्दिष्टं दैवहीनमिति” तत्र वैश्वदेवनिषेधस्तथापि “नवश्राद्धे द्वादशमासिके च कामकाकालौ ज्ञेयौ “नवश्राद्धं दशाहानि नवमिश्रन्तु षड्क्रतून्। अतःपरं पुराणं वै त्रिविधं श्राद्धमुच्यते। यस्मिन्नेव पुराणे वा विश्वेदेवा न लेभिरे। आसुरं तद्भवेच्छ्राद्धं वृषलं मन्त्रवर्जितम्” इति बह्वृचपरिशिष्टात्। एतच्च बह्वृचानामेव। तेन तेषानेवोक्तेः अन्येषां तु नात्र विश्वेदेवा कात्यायनोक्तेस्तन्निषेध एवेति पृथ्वीचन्द्रोदयः। अन्ये तु नैमित्तिकं सपिण्डीकरणमाहुः। भविष्ये यद्यप्येकोद्दिष्टं तच्छब्देनोक्तं तथापि “तदप्यदैवं कर्तव्यमयुग्मान् भोजयेद्द्विजानिति” तत्रैव विश्वेदेवनिषेधात्। यद्यपि सपिण्डीकरणेऽशत एकोद्दिष्टत्वं तथापि “सपिण्डीकरणं श्राद्धं देवपूर्वं नियोजयेदिति” वचनात्तत्परत्वम्। हेमाद्रावादित्यपुराणे “विश्वेदेवौ क्रतुर्दक्षः सर्वास्विष्टिषु कीर्त्तितौ। नित्यं नान्दीमुखे श्राद्धे वसुसत्यौ च पैतृके। नवान्नलम्भने देवौ कामकालौ सदैव हि। अपि कन्यागते सूर्ये काम्ये च धुरिलोचनो। पुरूरवार्द्रवौ चैव विश्वेदेवौ तु पार्वणे”। क्वचित् विश्वेदेवापवादमाह हेमाद्रौ शातातपः “नित्यं श्राद्धमदैवं स्यादेकोद्दिष्टं तथैव च। मातुः श्राद्धं च युग्मेः स्याददैवं प्राङ्मुखैः पृथक्। योजयेद्दैवपूर्वाणि श्राद्धान्यन्यानि यत्नतः” नान्दीश्राद्धे भिन्नप्रयोगपक्षे मातुः श्राद्धमदैवमिति हेमाद्रिः। तत्र देवसम्बन्धिनि। “होमोदैवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम्” मनुः। दिवि भवः अण्। ८ आकाशभवे त्रि०।

दैवक = पु० देवएव दैबः स्वार्थे क। १ देवे “सर्वभूतानि सदैवकानि प्रस्थेऽजयत् खाण्डवे सव्यमाची” भा० व० ४० अ० देवकस्यापत्यं स्त्री अण् ङीप्। २ देवकनृपस्यापत्यस्त्रियां वसुदेवपत्नीभेदे श्रीकृष्णस्य मातरि स्त्री।

दैवकीनन्दन = पु० ६ त०। वासुदेवे श्रीकृष्णे दैवकीसुतादयोऽप्यत्र।

दैवकोविद = त्रि० दैवे शुभाशुभज्ञापकहेतौ कोविदः। दैवज्ञे शब्दरत्ना० स्त्रियां टाप्।

दैवक्षत्रि = पु० क्रोष्टुवंश्ये देवक्षत्रस्यात्मजे नृपभेदे “तस्मात् करम्भः कारम्भिर्देवरातोऽभवन्नृपः। देवक्षत्रः सुतस्तस्य दैवक्षत्रिर्महायशाः” हरिवं० ३७ अ०।

दैवचिन्तक = पु० दैवं लक्षणेन शुभाशुभं चिन्तयति चिन्तिण्वुल्। दैवज्ञे तल्लक्षणादिकं वृ० सं० २ अ० उक्तं तच्च २५०० पृ० गणकशब्दे दर्शितम् दैवविदादयोऽप्यत्र।

दैवज्ञ = त्रि० दैवं जानाति ज्ञा–क। १ दैवचिन्तके प्रश्नादिना शुभाशुभनिरूपिण्यां विप्रश्निकायां २ स्त्रियां स्त्री २ सङ्कीर्णजातिभेदे गणकशब्दे २५०२ पृ० दृश्यम् तज्जातिप्राप्ति हेतुश्च ब्रह्मवै० प्र० खण्डे उक्तो यथा

“लाक्षालोहादिव्यापारी रसादिविक्रयी च यः। स याति नागवेष्टञ्च नागैर्वेष्टित एव च। वसेत् स्वलोम मानावदं तत्रैव नागदंशितः। ततो भवेत् स गणको वैद्यश्च सप्तजन्मसु। गोपश्च चर्मकारश्च रङ्गकारस्ततः शुचिः” स च अपकृष्टव्राह्मणः “अव्राह्मणो भट्टदैवज्ञादि” प्रा० वि० अब्राह्मणशब्दे दृश्यम् तस्य च नक्षत्रसूचकत्वदोषेण दूषितत्वादपकृष्टत्वम्।

दैवत = न० देवतैव स्वार्थे अण्। देवतायां “दैवतैरपकृष्यन्ते सुदूरमतिवेगिताः” सू० सि० “किमेकं दैवतं लोके” विष्णुसं० “व्राह्मणो दैवतं महत्” मनुः “व्राह्मणाः सम्भवेनैव देवानामपि दैवतम्” मनुः। अस्य अमरे पुंनपुंसकतोक्तावपि कविभिः पुंस्त्वेनाप्रयुक्तत्वात् तत्- प्रयोगे अप्रयुक्ततारूपः काव्यदोष इति काव्यप्र० आह स्म यथा “यथायं दारुणाचारः सर्वदैव विभाव्यते। तथामन्ये दैवतोऽस्य पिशाचो राक्षसोऽथ वा” अत्र दैवतशब्दः “दैवतानि पुंसि वा” इत्याम्नातोऽपि न केनचित् प्रयुज्यते। “आर्षं छन्दो दैवतञ्च विनियोगस्तथैव च” इत्युद्देशे योगियाज्ञ० “यस्य यस्य तु मन्त्रस्य उद्दिष्टा देवता तु या। तदाकारं भवेत्तस्य दैवत देवतोच्यते” अथातो दैवतम् तद्यानि नामानि प्राधान्यस्तुतीनां देवतानां तद्दैवतमित्याचक्षते” निरु० देवतामधिकृत्योकृतः ग्रन्थः अण्। निरुक्तस्य ३ तृतीये काण्डे तस्य देवताधिकारेण कृतत्वात्। “आद्यं नैघण्टुकं काण्डं द्वितीयं नैगमं तथा। तृतीयं दैवतञ्चेति समाम्नायस्त्रिधा मतः” यास्कोक्तः तच्च “अग्न्यादिदेवपत्न्यन्तं देवताकाण्डमुच्यते” इति तत्रोक्तम्। देवतानां समूहः अण्। ४ देवतासमूहे न० देवताया इदम् अण्। ५ देवतासम्बन्धिनि प्रतिमादौ “मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम्। प्रदक्षिणानि कुर्वीत प्रज्ञातांश्च वनस्पतीन्” मनुः।

दैवतन्त्र = त्रि० दैवं भाग्यं तन्त्रं प्रधानं यस्य। भाग्याधीने “किञ्च पुरा हरिश्चन्द्ररामचन्द्रमुख्या महीन्द्रा ऐश्वर्य्योपमितमहेन्द्रा दैवतन्त्रं दुःखयन्त्रं सग्यगनुभूय पश्चादनेक कालन्निजराज्यमकुर्वन्” दश० कु०।

दैवतरस = पु० प्रवरर्षिभेदे श्रौमतकामकायनानां वैश्वामित्र दैवश्रवस दैवतरसेति” आश्व० श्रौ० १२। १४। ३

दैवतरेय = पुंस्त्री० देवतरस्य श्रेष्ठदेवस्यापत्यं शुभ्रा० ढक्। श्रेष्ठदेवस्यापत्ये स्त्रियां ङीप्।

दैवति = पुंस्त्री दैवतस्यापत्यम् इञ्। देवतापत्ये ततः यूनि फक्। दैवतायन तस्य यून्यपत्ये तौल्वल्या० तस्य न लुक्।

दैवत्य = त्रि० देवता स्वार्थे ष्यञ्। देवतायाम् “आर्षं छन्दश्च दैवत्यम्” याज्ञ० “ऋग्वेदो देवदैवत्यः यजुर्वेदस्तु मध्यमः” मनुः।

दैवदत्त = त्रि० देवदत्तस्य छात्रा “वा नामधेयस्य वृद्धसंज्ञा वक्तव्याः” वार्त्ति वृद्धत्वाभावपक्षे अण्। १ देवदत्तच्छात्रादौ। देवदत्तः भक्तिरस्य अचित्तत्वाभावात् न ठक् किन्तु अण्। २ देवदत्तभक्तियुक्ते त्रि० अपत्ये तु इञ् दैवदत्ति तदपत्ये पुंस्त्री भवार्थे काश्या० ठञ्ञिठौ दैवदत्तिक तद्भवार्थे। स्त्रियां ठञि ङीप् ञिठि टाप।

दैवदर्शनिन् = पु० ब० व०। देवदर्शनेनर्षिणा दृष्टमधीयते शौनका० णिनि। देवदर्शनप्रोक्तछन्दोऽध्यायिषु।

दैवदारव = त्रि० देवदारोर्विकारः “ओरञ्” पा० अञ्। देवदारुवृक्षविकारे यूपादौ

दैवदीप = पु० दैवेन दीप इव। नेत्रे त्रिका०। तस्य दीपवदर्थप्रकाशकत्वात् तत्तुल्यत्वं दैवाधीनतयैवान्धत्वादिशून्यत्वेन दीपतुल्यत्वमिति तस्य तथात्वम्।

दैवन्त्यायन = पु० देवन्त + बा० गोत्रे यञ् ततोयूनि फक्। त्र्यार्षेयगोत्रप्रवरभेदे “यास्कवाधौलमौनमौकशार्कराक्षिसार्ष्टिसावर्णिशालङ्कायनजैमिनिदैवन्त्यायनानां भार्गववैतहव्यसावेतसेति” आश्व० श्रौ० १२। १० “अयं गण” त्र्यार्षेयः। प्रवरेषु क्वचिच्छास्त्रान्तरवशात् पदविपर्य्यासोवर्णविपर्य्यासो वा पदान्यत्वं वाऽस्ति न तेन प्रवरान्यत्वं भवतीति मन्तव्यम्” नारा०

दैवपर = त्रि० दैवं भाग्यं परं चिन्त्यं यस्य। कार्यसिद्धौ भाग्यस्य प्रधानतया चिन्तके यद्भविष्ये हेम० “सम्पत्तेश्च विपत्तेश्च दैवमेव हि कारणम्। इति दैवपरोध्यायन्नात्मना न विचेष्टते” काम० नी०।

दैवप्रश्न = पु० दिवि आकाशे भवः दैवः कर्म०। “नक्तं निर्गत्य यत्किञ्चिच्छुभाशुभकरं वचः। श्रूयते तद्विदुर्घीरा दैवप्रश्नमुपश्रुतिम्” हारा० उक्ते शुभाशुभसूचनार्थे आकाशभवे वाक्यभेदे उपश्रुतौ आकाशवाण्याम्।

दैवमति = पुंस्त्री० देवमतस्यर्षेरपत्यम् इञ्। देवमतस्यर्षेरपत्ये स्त्रियां वा ङीप्। ततोयूनि फक्। दैवमतायन तदीये यून्यपत्ये तत्र तौल्व० न फको लुक्। अत्र दैवमिति इति तौल्वल्या० गणे पाठान्तरं स च देवमितस्यापत्ये अन्यत् दैवमतिवत्।

दैवयज्ञि = पुंस्त्री० देवो देवार्थो यज्ञो यस्य तस्यापत्यम् इञ्। देवार्थयज्ञकारकस्यापत्ये स्त्रियां वा ङीप्। ततोयून्यपत्ये फक्। दैवयज्ञायन तदीये यून्यपत्ये। अत्र तौल्व० न फको लुक्।

दैवयुग = न० देवस्वेदम् अण् कर्म०। दिव्ये युगे देवमानेन द्वादशसहस्रवर्षमितकाले “यदेतत् परिसंख्यातमादावेव चतुर्युगम्। एतत् द्वादशसाहस्रं देवानां युगमुच्यते” मनुः “सुरासुराणामन्योऽन्यमहोरात्रो विपर्ययात्। तत्षष्टिः षड्गुणा दिव्यं वर्षमासुरमेव च” सू० सि० “देवदैत्यानां बहुत्वाद्बहुवचनम्। अन्योऽन्यम् परस्परग् विपर्ययात् व्यत्यासात् अहोरात्रः। अयमर्थः। देवानां यद्दिनं तदसुराणां रात्रिः। देवानां या रात्रिस्तदसुराणां दिनम्। दैत्यानां यद्दिनं तद्देवानां रात्रिः। देत्यानां या रात्रिस्तद्देवानां दिनमिति। तथा च देवदैत्ययोर्दिनरात्र्योरेव व्यत्यासाद्भेदो न मानेनेति। तयोरहोरात्रस्यैक्याद्देवाहोरात्रमानकथनेनैव दैत्याहोरात्रमानमुक्तमिति मावः” रङ्ग०। “तद्घाशसहस्राणि चतुर्युगमुदाहृतम्। सूर्य्याव्दसङ्ख्यया द्वित्रि सागरैरयुताहतैः। सन्ध्यासन्ध्यंशसहितं विज्ञेयं तच्चतुर्युगम्। कृतादीनां व्यवस्थेयं धर्मपादव्यवस्थया” सू० सि०।

दैवयोग = पु० दैवस्य योगः फलोन्मुखतया सम्बन्धः। भाग्यस्य फलोन्मुखतया सम्बन्धे।

दैवराजिक = त्रि० देवराजे भवादि काश्या० ठञ् ञिठ् वा। देवराजभवे स्त्रियां ठञि ङीप् ञिठि टाप्।

दैवराति = पुंस्त्री० देवरातस्यापत्यम् इञ्। १ देवरातस्यापत्ये २ जनकराजपितरि च जनकस्य देवरातित्वस्य भा० शा० ३१२ अ० उक्तेः यथा “याज्ञवल्क्यमृषिश्रेष्ठं दैवरातिर्महायशाः। पप्रच्छ जनको राजा प्रश्नं प्रश्नविदां वरम्” देवरातशब्दे दृश्यम्।

दैवल = पु० देवलस्यापत्यं शिवा० अण्। देवलस्यर्षेरपत्ये सच शाण्डिल्यगोत्रस्य प्रवरर्षिभेदः यथाह आश्व० गृ० १२। १४। ७। ८ “शाण्डिलानां शाण्डिलासितदैवलेति” “कश्यपासितदैवलेति वा”।

दैवलक = पु० देवं देवयोनिं लाति गृह्णाति पूज्यत्वेन ला–क स्वार्थे कुत्सितार्थे क वा। १ भूतसेवके हारा० देवलकस्येदम् अण्। २ देवलसम्बन्धिनि त्रि०।

दैवलेखक = पु० दैवं लिखति लिख–ण्वुल्। मौहूर्त्तिके त्रिका०।

दैववंश = पु० देवानामयम् अण् कर्म०। देवानां वंशे तद्वंशवर्णनञ्च वायुपु० ३१ अ० यथा “पितृवंशप्रसङ्गेन कथाह्येषा प्रकीर्तिता। पितॄणामानुपूर्व्येण देवान् वक्ष्याम्यतःपरम्। त्रेतायुगमुखे पूर्वमासन् स्वायम्भुवेऽन्तरे। देवा यामा इति ख्याताः पूर्वं ये यज्ञसूनवः। अजिता ब्रह्मणः पुत्रा जिताजिदजिताश्च ये। पुत्राः स्वायम्भुवस्यैते शुक्रनाम्ना तु मानसाः। तृप्तिमन्तोगणा ह्येते देवानान्तु त्रयः स्मृताः। छन्दोगास्तु त्रयस्त्रिंशत् सर्वे स्वायम्भुवस्य ह। यदुर्ययातिर्द्वौदेवौ दीधयः स्रवसो मतिः। विभासश्च क्रतुश्चैव प्रजातिर्विशतोद्युतिः। वायसो मङ्गलश्चैव यामा द्वादश कीर्तिताः। अभिमन्युरुग्रदृष्टिः समयोऽथ शुचिश्रवाः। केवलो विश्वरूपश्च सुपक्षो मधुपस्तथा। तुरीयो निर्हपुश्चैव युक्तोग्रावाशिनस्तु ते। यमिनो विश्वदेवाद्यो यविष्ठोऽमृतवानपि। अजिरो विभुर्विभावश्च मृलिकोऽथ विदेहकः। श्रुति शृणो वृहच्छुक्रोदेवा द्वादश कीर्तिताः। आसन् स्वायम्भुवस्यैते अन्तरे सोमपायिनः। त्विषिमन्तो गणा ह्येते वीर्यवन्तो महाबलाः। तेषामिन्द्रः सदा ह्यासीद् विश्वभुक् प्रथमो विभुः। असुरा ये तदा तेषामासन् दायाद वान्धवाः। सुपर्णयक्षगन्धर्वाः पिशाचोरगराक्षसाः। अष्टौ पितृभिः सार्द्धं ते नासत्या देवयोनयः”।

दैववाणी = स्त्री कर्म०। १ दैवप्रश्ने उपश्रुतौ २ संस्कृतवाक्ये “संस्कृतानाम दैवी वाक्” काव्यादर्शः।

दैवशर्मि = पुंस्त्री० देवशर्मणोऽपत्यम् बाह्वा० इञ्। देवशर्मणोऽपत्ये ततः गहादि० भवाद्यर्थे छ। दैवशर्मीय तेद्भवादौ त्रि०

दैवसर्ग = पु० कर्म०। देवादिसर्गभेदे दैवशब्दे दृश्यम्।

दैवसृष्टि = स्त्री देवस्येयम् अण दैवी कर्म०। स्वयम्भूकृतायां देवानां सृष्टौ। तत्प्रकारश्च वायुपु० ९ अ० उक्तो यथा “सृष्ट्वा सुरांस्तु देवेशस्तनुमन्यामपद्यत। अरक्तां सत्त्वबहुलां ततस्तां सोऽभ्ययूयुजत्। ततस्तां युञ्जतस्तस्य प्रियमासीत् प्रभोः किल। ततो मुखे समुत्पन्ना दीव्यतस्तस्य देवताः। यतोऽस्य दीव्यतो जातास्तेन देवाः प्रकीर्तिताः। धातुर्दिवीति यः प्रोक्तः क्रीडायां स विभाव्यते। तस्यान्तन्वान्तु दिव्यायां जज्ञिरे तेन देवताः”।

दैवस्थानि = पुंस्त्री० देवस्थानस्यर्षेरपत्यम् इञ्। १ देवस्थानस्यर्षेरपत्ये स्त्रियां वा ङीप्। ततः यूनि फक् तस्य पैला० लुक्। २ दैवस्थानि तदीये यून्यपत्ये च।

दैवहव = पु० ब० व०। दैवहव्यस्य देबहूनामकर्षेरपत्यस्य छात्राः कण्वा० अण् यञो लुप्। दैवहव्यस्य छात्रेषु।

दैवहीन = त्रि० दैवेन भाग्येन हीनः। शुभभाग्यहीने तदनुमापकहेतवश्च दीपिकायामुक्ता यथा “व्यसनी विनष्ट धर्मा त्रिविधोत्पातपीडितोयश्च। पुरुषः स दैवहीनः कथितो दैवान्वितोऽन्यः। दैवहीनं रिपुं जेतुं यायाद्दैवान्वितो नृपः। योज्यो दैवान्वितामात्या दैवहीने तथात्मनि” तत्रैव।

दैवागारिक = त्रि० देवागारे नियुक्तः “तत्र नियुक्तः” इत्यधिकारे अगारन्तात् ठक्। देवागारनियुक्ते देवागारिक इति क्वचित् पाठदर्शनात् ठना निष्पन्नमित्युक्तं प्राक्।

दैवात् = अव्य० हठादित्यर्थे शब्दार्थचि०।

दैवात्यय = पु० दैवकृतोऽत्यय उत्पातः। दैवकृते उत्पाते “अन्यत्र दैवात्ययात्” वृ० सं० २ अ०। दिव्यान्तरिक्षभूमिजेषूत्पातेषु यद्भावि अशुभं स दैवात्यय इत्यर्थः।

दैवादिक = पु० दिवादिगणे पठितः ठञ्। दिवादिगणे पठिते धातौ “सेधेति शपानिर्देशो दैवादिकनिवृत्त्यर्थः” मनो०।

दैवारिप = पु० देवारीन् असुरान् पाति आश्रयदानेन पा–क देवारिपः समुद्रस्तत्र भवः अण्। शङ्खे तस्य समुद्रजातत्वात् तथात्वम् “भैरवं शब्दमत्यर्थं वानरस्य च कुर्वतः। दैवारिपाच्च बीभत्सुस्तस्मिन् दौर्य्योधने बले” भा० वि० ५ अ० “दैवारिपात् शङ्खात् भैरवं शब्दं कुर्वतः इत्यर्थः” नीलक०।

दैवासुर = न० देवासुरस्य वैरम् द्वन्द्वात् वैरे वुणि प्राप्ते “न वैरे देवासुरादिभ्यः” वार्त्ति० तन्निषेघे अण्। १ देवासुरयोर्वैरे। देवासुरशब्दोऽस्त्यत्र अनुवाके अध्याये वा विमुक्ता० अण्। देवासुरशब्दयुक्ते २ अनुवाके ३ अध्याये च पु०।

दैवाहोरात्र = पु० कर्म०। देवानां स्वमानेन दिनरूपे मानुषे वर्षात्मके काले।

दैविक = त्रि० देवस्येदम् देवानुद्दिश्य प्रवृत्तः वा० ठक्। देवमात्रोद्देशेन कर्तव्ये श्राद्धे। “देवानुद्दिश्य यच्छ्राद्धं तत्तु दैविकमुच्यते। हविष्येन विशिष्टेन सप्तम्यादिषु यत्नतः” भविष्यपु०। दैवशब्दोऽपि तत्रार्थे। “सम्पन्नमित्यभ्युदये दैवे रुचितमित्यपि” मनुना देवमात्रोद्देश्यक श्राद्धे तृप्तिप्रश्नेरुचितशब्दस्य वक्तव्यतोक्तेः दैवशब्दस्य निरपेक्षदेवमात्रोद्देश्यकश्राद्धपरत्वावगतेः। २ देवसम्बन्धिनि त्रि०। “अहोरात्रे विभजते सूर्य्यो मानुषदैविके। दैविकानां युगानान्तु सहस्रपरिसङ्ख्यया। यत् प्राक् द्वादशसाहस्रमुदितं दैविकं युगम्” “दाशापराधतस्तोये दैविके नास्ति निग्रहः” इति च मनुः।

दैवी = स्त्री देवस्येयम् अण् अञ् वा। १ देवसम्बन्धिन्यां स्त्रियां “दैवी सम्पद् विमोक्षाय” गीता। “काला मे मातर्क्यहेतुगहना दैवी सतां यातना” शान्तिक०। २ दैवविवाहेनोढायां स्त्रियां “ब्राह्मीपुत्रः पुरुषानेकविंशतिं पूयते देवीपुत्रचतुर्दश आर्षीपुत्रः सप्त” बिष्णुसं०।

दैवोदास = पु० दिवोदासे भवः अण्। १ दिवोदासभवे तस्यापत्यं शिवाद्यण्। २ तदपत्ये स च प्रवरभेदः यथाह आश्व० श्रौ० १२। १०। १२ मित्रयुवां वाध्रश्चेति “त्रिप्रवरं भार्गवदिवोदासवाध्रश्चेति” दिवोदासेनाहूयमानः अण्। ३ दिवोदासेनाहूयमाने वह्नौ च “दैवोदासो अग्निर्देवा~ अच्छा न मज्मना” ऋ० ८। १०३। २ “दैवोदासः दिवोदासेनाहूयमानोऽग्निः” भा० तस्यापत्यम् इञ्। दौवोदासि इत्येव स च प्रतर्द्धेन।

दैव्य = न० देवस्येदम् “देवात् यञञौ” पा० यञ्। १ देवसम्बन्धिनि २ भाग्ये च “ब्रूषे नमसा दैव्यं जनम्” ऋ० २। ३०११।

दैशिक = त्रि० देशेन निर्वृत्तः तस्येदम् वा ठञ्। १ देशकृते २ देशसम्बन्धिनि च स्त्रियां ङीप्। “परत्वञ्चापरत्वञ्च द्विविधं परिकीर्तितम्। दैशिकं कालिकञ्चापि मूर्त एव तु दैशिकम्”। परत्वं सूर्यसंयोगभूयस्त्वज्ञानतो भवेत्। अपरत्वं तदल्पत्वबुद्धितः स्यादितीरितम्। तयोरसमवायी तु दिक्संयोगस्तदाश्रये। दिवाकरपरिस्पन्द पूर्वोत्पन्नत्वबुद्धितः। परत्वमपरत्वन्तु तदनन्तरबुद्धितः। अत्र त्वसमवायी स्यात् संयोगः कालपिण्डयोः। अपेक्षाबुद्धिनाशेन नाशस्त्वेषामुदाहृतः” भाषा०। “दैशिकपरत्वं बहुतर सूर्यसंयोगान्तरितत्वज्ञानादुत्पद्यते। एवं तदल्पीयस्त्वज्ञानादपरत्वमुत्पद्यते। अत्रावधित्वार्थं द्वितीयापेक्षा। यथा पाटलिपुत्रात् काशीमपेक्ष्य प्रयागः परः। पाटलि पुत्रात् कुरुक्षेत्रमपेक्ष्य प्रयागोऽपर इति। तयोर्दैशिकपरत्वापरत्वयोः। असमवायी असमवायिकारणम्। तदाश्रये दैशिकपरत्वापरत्वाश्रये। दिवाकरेति। अत्र परत्वं अपरत्वञ्च कालिकं ग्राह्यम्। यस्य सूर्यपरिस्पन्दापेक्षया यस्य सूर्यपरिस्पन्दोऽधिकः स ज्येष्ठः यस्य न्यूनः स कनिष्ठः। कालिकपरत्वापरत्वे जन्यद्रव्य एब। अत्र कालिकपरत्वापरत्वयोः। एषां कालिकदैशिकपरत्वापरत्वानाम्” सि० मू०।

दैशिकविशेषणता = स्त्री कर्म०। देशकृते अभावीयस्वरूपसम्बन्धभेदे।

दैष्टिक = त्रि० दिष्टं भाग्यमिति मतिर्यस्य “अस्ति नास्ति दिष्टं मतिः” पा० ठक्। भाग्यप्रमाणके दैवपरे। “नालम्बते दैष्टिकतां न निषीदति पौरुषे” माघः।

दैहिक = त्रि० देहे भवः तस्येदं वा ठक्। १ देहभवे २ देहसम्बन्धिनि च “दैहिकानां मलानां च शुद्धिषु द्वादशस्वपि। वसाशुक्रमसृङ्मज्जामूत्रविड् घ्राणकर्णविट्। श्लेष्माश्रुदूषिका स्वेदो द्वादशैते नृणां मलाः” मनुः “एष हि ब्रह्मबन्धूनां बधो नान्योऽस्ति दैहिकः” भाग० १। ७। ५६। स्त्रियां ङीप्। “प्रजाः ससर्ज कतिधा दैहिकीर्मानसीर्विभुः” भाग० ३। १०। १

दैह्य = त्रि० देहे भवः ष्यञ्। देहभवे जीवे। “अथापि वत मे दैह्यो ह्यात्मा चैवात्मना विभुः” भाग० १। ४। ३० “सूर्योऽग्निस्त्वं मरुद्देवः सोमः सन्ध्याहनी दिवा। कंकुः स्वयं धर्म इति ह्येते दैह्यस्य साक्षिणः” भाग० ६। १। ३९।

***