दृत = त्रि० दृ + क्त १ आदरयुक्ते आदृतः दॄ–विदारे क्त बा० ह्रस्वः। २ विदीर्णे “दृते दृंह मामित्रस्य” यजु० ३६। १८ “दृते दृ विदारे विदीर्णे जराजर्जरितेऽपि शरीरे” वेददी० ३ जीरके स्त्री शब्द च०।

दृति = स्त्री दॄ–विदारे ति कित् ह्रस्वश्च। १ चर्ममयपात्रे २ मत्स्ये च मेदि०। “इन्द्रियाणां तु सर्वेषां यद्येकं क्षरतीन्द्रियम्। तेनास्य क्षरति प्रज्ञा दृतेः पात्रादिवोदकम्” मनुः “कपाले यद्वदापः स्युः श्वदृतौ च यथा पयः। आश्रयस्थानदोषेण वृत्तहीने तथा श्रुतम्” भा० शा० १३२४ श्लो०। दृतौ भवः ढञ् दार्त्तेय दृतिभवे स्त्रियां ङीप्। मत्स्ये “मांसादष्टगुणा दृतिः” उज्ज्वलद० धृतवाक्यम्। ३ रोमश चर्मणि ४ गलकम्बले च “सवत्सां पीवरीं दत्त्वा दृतिकण्ठामलङ्कृताम्” भा० अनु० ७९ अ०। “दृतिकण्ठां प्रलम्बगलकम्बलाम्” नीलकण्ठः “दृतिकण्ठमनड्वाहं सर्वरत्नैरलङ्कृतम्” तत्रैवाध्याये। ५ मेघे निघण्टुः ६ सत्रविशेषकारके यजमानभेदे द्वतिवातवतोरयनशब्दे दृश्यम्।

दृतिधारक = दृतिं दृत्याकारं धारयति धारि–ण्वुल् ६ त०। (आकनषाता) ख्याते वृक्षे शब्दच०।

दृतिवातवतोरयन = न० अलुक् स०। सत्रभेदे “दृतिवातवतोरयनमेकैकेन पृष्ठ्यस्तोमेन मासं मासम्” कात्या० श्रौ० २४। २४। १६ “दृतिवातवतोरयनमिति सत्रस्य संज्ञा” कर्कः। ताण्ड्यव्रा०२५। ३। १ वाक्यादौ अस्य विवृतिः। “अथ दृतिवातवतोरयनमाह भा० “अतिरात्रस्त्रिवृता मासं, पञ्चदशेन मासं, सप्तदशेन मासमेकविंशेन मासं, त्रिणवेन मासं, त्रयस्त्रिंशेन मासं, महाव्रतं, त्रयस्त्रिंशेन मासं, त्रिणवेन मासमेकविंशेन मासं, सप्तदशेन मासं, पञ्चदशेन मासं, त्रिवृता मासमतिरात्रः”। १ “प्रथमं प्रायणीयोऽतिरात्रस्ततस्त्रिवृदादित्रयस्त्रिंशान्ताः आदितः षण्मासा आप्तव्याः विषुवतः स्थाने महाव्रतं भवति तएव त्रिवृदादिमासा उत्तरस्मिन् पक्षसि द्वादशादिसप्तमासान्ताः षण्मासाः स्युः तत उदयनीयमहः एतानि त्रिषष्ट्युत्तरशतत्रयमहानि स्युः अधिकयोर्द्वयोरह्नोः व्यवस्थाविषये सूत्रकारः दृतिवातवतोरयने द्वावेकीनौ मासौ सुनुयुस्त्रिवृताविति गौतमस्त्रयस्त्रिंशाविति धानञ्जय्यः उभौ वा त्रिंशिनौ स्यातां यथैतद्व्राह्मणमिति त्रयस्त्रिंशावेकोनाविति कल्पकारस्य मतम्। अथैतदयनं कर्तृद्वारा प्रशंसति” भा०। “एतद्वै दृतिवातवन्तौ खाण्डव उपेतो विषुवति वातवानुत्तिष्ठति, समापयति दृतिस्तस्मात्तनीयांसोवातवता भूयांसो दार्त्तेयाः” ६ “एतत् सत्रायणं दृतिश्च वातवांश्चेत्युभौ यजमानौ खाण्डवे वने उपेतः अन्वतिष्ठतामित्यर्थः भूतकाले व्यत्ययेन वर्त्तमानप्रत्ययः एवमुत्तरयोरप्याख्यातयोर्द्रष्टव्यं तयोरनुष्ठानप्रयुक्तं किञ्चित् फलवैषम्यं वक्तुमाह वातवान् विषुवति महाव्रते सम्पूर्णे उत्तिष्ठति उत्तिष्ठन् सत्रं समापितवान् दृतिस्तु द्वादशापि मासानास्थाय संमापयन् यस्मादेकं तस्माद्वातवता वातवतोवंश्यास्तनीयांसः अत्यर्थं तनवः कृशा अभवन् दार्त्तेया दृतिवंश्यास्तु भूयांसो, बहुकृत्स्नानुष्ठानं प्रशस्तफलवदित्युक्तं भवति। अत्र विवृतिभिः कॢप्तम् इति वातवतोरयनमात्रिणवेभ्यस्त्रिवृद्भ्य उद्धरत्युक्थानि पञ्चदशेभ्यः षोडशिनमित्यादिकं द्रष्टव्यम्”।

दृतिहरि = पु० दृतिं चर्ममयं द्रव्यं हरति दृतौ + उपपदे हृपशौ कर्त्तरि इन्। कुक्कुरेउज्व०। पशोरन्यत्र अण् दृतिहार चर्महारके।

दृत्य = त्रि० दृ–कर्मणि क्यप्। १ आदरणीये भावे क्यप्। २ आदरे न० आङि आदृत्य तत्रार्थे “आदृत्यस्तेन वृत्येन” भट्टिः।

दृध्र = न० गवां निर्गमनद्वाररोधके “ते गव्यता मनसा दृध्रमुर्वम्” ऋ० ४। १। १५ भाष्ये माधवः।

दृन् = अव्य० १ हिंसायाम् सि० कौ०। २ दृढार्थे शब्दार्थचि०।

दृन्फ = क्लेशे तु० प० अक० सेट्। दृफति दृम्फति अदृम्फीत्। क्लेशने सक०। दृन्फूः सर्पजातिः

दृन्फू = स्त्री दृन्फ–कू नि० न नलोपः। १ सर्पजातौ २ वज्रे च मेदि० दृन्भू तत्रार्थे सि० कौ०।

दृन्भू = पु० दृन् हिंसायां भवति भुवः क्विप्। १ वज्रे २ सूर्ये हेमच०। ३ नृपे शब्दच० ४ अन्तके संक्षिप्तसार “दृन्कर पुनःपूर्वस्य भुवो यण् वक्तव्यः” वार्ति० अजादौ यण्। दृन्भ्वौ दृन्भ्व इत्यादि दृम्भू तत्रार्थे सि० कौ०

दृप = बाधने तु० पर० सक० सेट्। दृपति अदर्पीत्। ददर्प। कन्दर्पः

दृप = सन्दीपने वा चुरा० उम० पक्षे भ्वा० पर० सक० सेट्। दर्पयति ते दर्पति। अदीदृपत्–त अददर्पत्–त अदर्पीत्।

दृप = हर्षे गर्वे च अक० दिवा० वेट् दृप्यति “दृप्यद्दानयदूयमानदिविषद्दुर्वारदुःखोपमाम्” गीतगो० इरित् अदृपत् अद्राप्सीत् अदर्पीत् केचिदिमं ऊदितं मन्यन्ते दर्पिष्यति द्रप्स्यति अस्य रधादित्वात् वेट्कत्वम्। तेन रूपे न वैलक्षण्यम् दर्पः दृप्तः। ञीत् दृप्तः। शब्दस्तोमे ऊदित्त्वोक्तिः मतभेदेन।

दृप्त = त्रि० दृप–गर्वे हर्षे च वर्त्तमाने क्त। १ गर्वान्विते २ हर्षान्विते च ३ विष्णौ पु० “दर्पदो दर्पको दृप्तोदुर्द्ध्वरोऽन्यापराजितः” विष्णुसं० “दृप्तबालाकिर्हानूचानो गार्ग्य आस” शत० ब्रा० १४। ५। १। १

दृप्र = त्रि० दृप–बाधने रक्। बलयुक्ते उणादि०।

दृफ = क्लेशे तुदा० मुचादि० अक० पर० सेट्। दृम्फति अदर्भीत् क्लेशने सक०। राजा चौरं दृम्फति क्लिश्नातीत्यर्थः।

दृब्ध = त्रि० दृभ–ग्रन्थने कर्मणि क्त। १ ग्राथते त्रि० अमरः। दृभभये कर्त्तरि क्त। २ भीते भावे क्त। ४ ग्रथने ५ भये च न०

दृभ = ग्रथने वा चुरा० उभ० पक्षे तु० पर० सक० सेट्। दर्भयति ते दृमति अदीदृभत्–तं अददर्भत् त अदर्भीत्। ईदित्। दृब्धः दृब्धवान्। दर्भः

दृभ = भये वा चुरा० उभ० पक्षे भ्वा० पर० अक० सेट्। दर्भयति–ते दर्भति। अदीदृभत् त अददर्भत् त। अदर्भींत् ईदित् दृब्धः दृब्धवान्।

दृभीक = पु० दृभ–बा० ईकङ्। असुरभेदे “अध्वर्यवो यो दृभीकम्” ऋ० २। १४। ३ “दृभीको नामासुरः” भा०

दृमिचण्डेश्वर = न० मत्स्यपूराणोक्ते शिवलिङ्गभेदे

दृवन् = त्रि० दॄ–विदारे क्वनिप् बा० वेदे ह्रस्वः। विदारके “दृवाणि रब्धानि क्षुमाणि” यजु० १०। ८

दृश = वाक्षुषज्ञाने भ्वा० पर० सक० अनिट्। पश्यति इरित् अदर्शत् अद्राक्षीत्। ददर्श ददर्शिथ दद्रष्ठ ददृशिव द्रष्टा दृश्यात् द्रक्ष्यति। दर्शनीयं द्रष्टव्यं दृश्यः द्रष्टा दृष्टः द्रष्टुं दृष्टिः दृक् दृष्ट्वा प्रदृश्य। “तुतोष पश्यन् वितृणान्तरालाः” भट्टिः पश्यतो हरः। “न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा। दिव्यं ददामि ते चक्षुः पश्य से योगमैश्वरम्”। “अपश्यद् देवदेवस्य शरीरे पाण्डवस्तदा” गीता “ददर्श दूनः स्थलपद्मिनीं नलः” नैष० मानसज्ञाने च “शान्तोदान्त उपरतस्तितिक्षुः श्रद्धावान् समाहितीभूत्वा आत्मन्यात्मानं पश्यति” श्रुतिः “आत्मा वा अरे द्रष्टव्यः” वृ० उ० श्रुतिः णमुल् “तं विप्रदर्शं कृतघातयत्ना” भट्टिः “दृशेरनालोचने कङ् च” पा० कर्त्तरि कङ् अन्यादृशः कीदृशः चात् क्विन् क्स च अन्यादृक् अन्यादृक्षः। श पश्यः “अपास्य पश्यं निजदृश्यखेटात्” नील० ता० “उग्रम्पश्याकुलेऽरण्ये” भट्टिः दर्शयति ते अददर्शत् अदीदृशत् त। णिचि कर्मणः कर्तृत्वे तङ् दर्शयते भवो भक्तान् भक्तैर्वा आत्मानमिति शेषः। एवं विषये दृशेः कर्तुर्वा कर्मसंज्ञा “सीतां रामेण चात्मानमदर्शयत लक्ष्मणम्” मुग्धबो० सनि तङ् दिदृक्षते। “दिदृक्षमाणः परितः ससीतं रामं यदा नैक्षत लक्षणञ्च”। भट्टिः दिदृक्षा कर्मणि दृश्यते “एकधा बहुधा चैव दृश्यते जलचन्द्रवत्” श्रुतिः “जालान्तरगते भानौ यत् सूक्ष्मं दृश्यते रजः” मनुः “अदर्शि सङ्कोप्य कदाप्यवीक्षितः” “रूपमदर्शि धृतोऽसि यदर्थम्” नैष० अस्यार्षे क्वचित्तङपि। “यं यं हि ददृशे सेयं तं तं मेने नलं नृपम्” भा० व० २२०२ श्लो०। दर्शनयोग्ये प्रकाशे च अक० “मधुरात्मानमदर्शयत् पुरः” कुमा०। दर्शनार्थत्वे तङ् स्यादिति बोध्यम्।अनु + अनुरूपदर्शने “रथे विलग्नाविव चन्द्रसूर्यौ घनान्तरेणानुददर्श लोकः” भा० वि० १६९ श्लो० दृशिशब्दे पात० सूत्रे उदा० दृश्यम्। “बहुविधमनुदृश्य चार्थहेतोः कृपणमिहार्यमनार्यमाश्रयन्तम्” भा० शा० १७९ अ०अभि + आभिमुख्येन समन्ताद्वा दर्शने “तदा प्रभृति कौन्तेय! नरा गिरिमिमं सदा। नाशक्नुवन्नभिद्रष्टुं कुत एवाघिरोहितुम्” भा० व० ९९८२ श्लो०अव + नीचतया दर्शने “यथा जलस्थ आभासः स्थलस्थेनावदृश्यते। स्वाभासेन यथा सूर्यो जलस्थेन दिविस्थितः” भाग० ३। २७। १२आ + आभिमुख्येन समन्ताद्वा दर्शने आदर्शः। “उत्कलादार्शितपथः कलिङ्गाभिमुखो ययौ” रघुः।उद् + नीचस्थस्योच्चतया दृष्टौ उत्प्रेक्षणे चउप + सामीप्येन दर्शने। “चतुष्पाद् व्यवहारोऽयं विवादेषूपदर्शितः” याज्ञ०।नि + दृष्टान्ततया साम्मुख्येन वा दर्शने। “द्रष्टुमिच्छामि ते रूपमैश्वरं त्वं निदर्शय” भा० आश्र० १५८८ श्लो० निदर्शनालङ्कारः “निदर्शयामास विशेषदृश्यम्” रघुःपरा + विपरीतदर्शने यस्य यथारूपं ततोऽन्यरूपेण दर्शने “धूममग्निं परादृश्या मित्राहृत्स्वा दधतां भयम्” अथ० ८। ८। २। “त्रीन् स्तनानुपेयुस्तं पराददृशुः। द्वौ स्तना उपेयुस्तन्नेदीयसः पराददृशुः” शत० ब्रा० ९। ५। १। ३। ४।परि + परितः समन्ताद्वा दर्शने “परिदृष्टानि तीर्थानि गङ्गाचैव मया नृप!” भा० आश्र०७३ अ० परिच्छिन्नतया दर्शने च। “बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः” पा० सू०। दीर्घसूक्ष्मशब्दे ३६१ ४ पृ० दृश्यम्।प्र + सम्यग्दर्शने “मनसैव प्रदीपेन महानात्मा प्रदृश्यते” भा० आश्व० १९ अ० “अहो त्वयाद्य विप्रेषु भक्तिरागः प्रदर्शितः” भा० अनु० ७२११ श्लो० एकदेशदर्शने च। प्रदर्शनार्थमिदमुक्तम्। “योगेश्वरत्वं कृष्णेन यत्र राज्ञां प्रदर्शितम्” भा० आ० ५१० श्लो०।प्रति + तुल्यरूपदर्शने “कृताभ्यङ्गः शोणितेन रुद्रवत् प्रत्यदृश्यत” भा० भी० ४६७९ श्लो० “निमित्तलक्षणं ज्ञानं शाकुनं स्वप्नदर्शनम्। अवश्यं सुखदुःखेषु नराणां प्रतिदृश्यते” रामा० अयो० ५८१५ श्लो०वि + विशेषेण दर्शने “विदर्शयन्तोविविधान् भूयश्चित्रांश्च निर्झरान्” रामा० अयो० ४८ अ० १३ श्लो०सम् + सम्यग्दर्शने “संद्रक्ष्यन्ति नराश्चान्ये स्वरूपेण विनाशनम्” भा० शा० १०६८ श्लो०

दृश् = त्रि० कस्मिंश्चिदुपपदे दृश–क्विन् झलि पदान्ते च कुः। १ तत्तत्पदार्थदर्शके “वायुभक्षो दिवा तिष्ठन् रात्रिं नीत्वाप्सु सूर्यदृक्” याज्ञ० “ऐन्द्रद्युम्ने! यज्ञदृशाविहावां विवक्षू वै जनकेन्द्रं दिदृक्षू” भा० व० १०६२४ श्लो० अनुपपदेऽपि क्विन्। २ द्रष्टरि “दृग्दर्शनशक्त्योरेकात्मतेवास्मिता” पात० सू०। भावे क्विन्। ३ दर्शने ४ ज्ञानमात्रे च स्त्री “प्रतिबन्धदृशः प्रतिवद्धज्ञानमनुमानम्” सा० सू० “प्रतिबन्धोव्याप्तिर्व्याप्तिदर्शनात् व्यापकज्ञानमनुमानम्” भाष्यम्। करणे क्विन्। ५ नेत्रे स्त्री “दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः” सा० द०। “क्षत्रकोपदहनार्चिषं ततः सन्दधे दृशमुदग्रतारकाम्” रघुः ६ द्वित्वसंख्यायाञ्च।

दृशति = स्त्री दृश–बा० भावे अतिक्। दर्शने “सूरो न यस्य दृशतिररेपाः” ऋ० ६। ३। ३ “दृशतिर्दर्शनम्” भा०

दृशद् = स्त्री दृषद् + पृषो०। शिलायाममरे पाटान्तरम् “तथा दृशत्पुत्रञ्च” गोमिलः “दृशत् पेषणाधारशिला, पुत्रं पेषणकरणरूपप्रस्तरस्तदुभयं पूर्ववदुपसादयतीत्यर्थः” सं० त० रघु०।

दृशद्वती = स्त्री दृषद्वती + पृषो०। १ आर्य्यावर्त्तसीमास्थे नदीभेदे २ कात्यायन्याञ्च मेदि०।

दृशा = स्त्री दृश् + हलन्तत्वात् वा टाप्। नेत्रे शब्दच० दृशाकाङ्क्ष्यम्।

दृशाकाङ्क्ष्य = त्रि० दृशया आकाङ्क्ष्यम्। पद्मे शब्दच०।

दृशान = पु० दृश–आनच् किच्च। १ लोकपाले उज्वल० २ विरो चने पु० ३ ज्योतिषि न० मेदि०। ४ आचार्ये पु० उणादिकोषः। ५ ब्राह्मणे ६ उपाध्याये च पु० संक्षिप्तसारः।

दृशि(शी) = स्त्री दृश–भावे कि वा ङीप्। १ दृष्टौ २ प्रकाशे च “द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः” पात० सू०। “दृशिमात्र इति दृक्शक्तिरेव विशेषणेन परामृष्टेत्यर्थः। स पुरुषो बुद्धेः प्रतिसंवेदी बुद्धेर्न सरूपोनात्यन्तं विरूप इति न तावत् सरूपः कस्मात्? ज्ञाताज्ञातविषयत्वात् परिणामिनी हि बुद्धिस्तस्याश्च विषयोगवादिर्घटादि र्ज्ञातश्चाज्ञातश्चेति परिणामित्वं दर्शयति। कस्मात्? न हि बुद्धिश्च नाम पुरुषविषयश्च स्यादगृहीता चेति सिद्धं पुरुषस्य सदा ज्ञातविषयत्वं ततश्चापरिणामित्वमिति। किञ्च परार्था बुद्धिः संहत्यकारित्त्वात् स्वार्थः पुरुष इति। तथा सर्वार्थाध्यवसायकत्वात् त्रिगुणा बुद्धिस्त्रिगुणत्वादचेतनेति गुणानान्तूपद्रष्टा पुरुष इत्यतो न सरूपः। अस्तु तर्हि विरूप इति नात्यन्तं विरूपः, कस्मात्? शुद्धोऽप्यसौ पश्यन्नतदात्मापि तदात्मक इव प्र्त्यवभासते। तथा चोक्तम् अपरणामिनी हि भोक्तृ शक्तिरप्रतिसंक्रमा च परिणामिन्यर्थे प्रतिसंक्राम्येव तद्वृत्तिमनुपतति। तस्याश्च प्राप्तचेतनानुग्रहरूपाया बुद्धिवृत्तेरनुकारमात्रतया बुद्धिकृत्यविशिष्टा हि ज्ञान वृत्तिरित्याख्यायते” भा०। सूर्यप्रकाशयोरिव द्रष्टृदृश्यो र्धर्मधर्मिणोरैक्यात् ३ चेतने पुरुषे च “दृशिस्वरूपो गगनोपमोमतः”। “तदभावात् संयोगाभावोहानं तद् दृशेः कैवल्यम्” पात० सू० “मिथ्यादर्शनस्याभावात् बुद्धिपुरुषसंयोगाभावः आत्यन्तिको बन्धनोपरम इत्यर्थः एतद्धानं तद् दृशेः कैवल्यं पुरुषस्यामिश्रीभावः पुनरसंयोगो गुणैरित्यर्थः। दुःखकारणनिवृत्तौ दुःखोपरमो हानं तदा सरूपप्रतिष्ठः पुरुष इत्युक्तम्” भा० दृश–इक्। ४ दृशधातौ “दृशेरनालोचने कङ् च” पा०

दृशीक = त्रि० दृश–कर्मणि बा० ईकक्। १ दर्शनीये २ शोभने च “स्तोमं रुद्राय दृशीकम्” ऋ० १। २७। १० “दृशीकं दर्शनीयं समीचीनम्” भा०

दृशेन्य = त्रि० दृश–कर्मणि केन्यन्। दर्शनीये “दृशेन्यो महिना समिद्धः” ऋ० १०। ८८। ७ “दृशेन्यः दर्शनीयः” भा०

दृशोपम = न० दृशाया उपमा यत्र। श्वेतपद्मे शब्दमाला।

दृश्य = त्रि० दृश–कर्मणि क्यप्। १ दर्शनीये २ मनोरमे च “चित्रं तदा कुण्डिनवेशिनः सा नलस्य मूर्त्तिर्ववृते न दृश्या। बभूव तच्चित्रतरन्तथापि विश्वैकदृश्यैव यदस्य मूर्त्तिः”। “आस्तामनङ्गीकरणाद्भवेन दृश्यः स्मरो नेति पुराणवाणी” नैप० “तमेकदृश्यं नयनैः पिबन्त्योनार्यो न जग्मुर्विषयान्तराणि” कुमा० “निदर्शयामास विशेषदृश्यमिन्दुं नवोत्थानमिव” रघुः। ३ ज्ञेयमात्रे ४ प्रकाश्ये च “द्रष्टृदृश्ययोः संयोगो हेयहेतुः” पात० सू० “द्रष्टा बुद्धेः प्रतिसंवेदी पुरुषः, दृश्या बुद्धिसत्वोपारूढा सर्वे धर्माः, तदेतद् दृश्यमयष्कान्तमणिकल्पं सन्निधिमात्रोपकारि दृश्यत्वेन स्वम्भवति पुरुषस्य दृशिरूपस्य स्वामिनः। अनुभवकर्मविषयतामापन्नमन्यस्वस्यपेण प्रतिलब्धात्मकं स्वतन्त्रमपि तदर्थत्वात् परतन्त्रम् उभयोर्दृग्दर्शनशक्त्योरनादिरर्थकृतः संयोगो हेयहेतुर्दुःखस्य कारणमित्यर्थः” भा० “प्रकाशक्रियास्थिति शीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम्” पात० सू० “प्रकाशशीलं सत्वं, क्रियाशीलं रजः। स्थितिशीलं तम इति एते गुणाः परस्परोपरक्तप्रविभागाः परिणा- मिनः संयोगविभागधर्माणः इतरेतरोपाश्रयेणोर्ज्जित मूर्त्तयः परस्पराङ्गाङ्गित्वेऽप्यसम्भिन्नशक्तिप्रविभागास्तुल्य जातीयाऽतुल्यातीयशक्तिभेदानुपातिनः। प्रधानवेलायामुपदर्शितसन्निधाना गुणत्वेऽपि च व्यापारमात्रेणाप्रधानान्तर्नीतानुमितास्तिताः पुरुषार्थकर्त्तव्या अयस्कान्तमणिकल्पाः प्रत्ययमन्तरेण एकतमस्य वृत्तिमनुवर्तमानाः प्रधानशब्दवाच्या भवन्ति। एतद्दृश्यमित्युच्यते। तदेतद्भूतेन्द्रियात्मकं भूतभावेन पृथिव्यादिना सूक्ष्मस्थूलेन परिणमते तथेन्द्रियभावेन श्रोत्रादिना सूक्ष्मस्थूलेन परिणमत इति। तत्तु नाप्रयोजनम् अपि तु प्रयोजनमुररीकृत्य प्रवर्तत इति भोगापवर्गार्थं हि तत् दृश्यं पुरुषस्येति तत्रेष्टानिष्टगुणरूपावधारणम् अविभागापन्नं भोगोभोक्तुः स्वरूपावधारणमपवर्ग इति द्वयोरतिरिक्तमन्यद्दर्शनं नास्ति” भा० ग्रहाणां नक्षत्राणां च कालांशविशेषेण सूर्यसान्निव्ये अदृश्यत्वं सू० सि० उक्तम् अस्तशब्दे ५६३ पृ० दर्शितम् उदयशब्दे ११४४। ४५ पृ० दृश्यत्वं च दर्शितं ततएवावगन्तव्यम्।

दृश्य(ष्ट)जाति = न० लीला० उक्ते इष्टकर्मरूपे गणितभेदे इष्टकर्मन् शब्दे ९९७ पृ० तत्प्रकारो दृश्यः।

दृश्यादश्य = त्रि० दृश्यञ्च अदृश्यश्च द्वन्द्व०। १ दृश्ये अदृश्ये च “अष्टादशशताभ्यस्तादृश्यांशाः स्वोदयासुभिः। विभज्य लब्धाः क्षेत्रांशैस्तैर्दृश्यादृश्यताथ वा” सू० सि०। “दृश्या चासौ अदृश्या च” कर्म०! “सा दृष्टेन्दुः सिनीवाली” अमरोक्तेः किञ्चिदंशेन दृश्यचन्द्रायाम् किञ्चिदंशेन अदृश्यचन्द्रायाञ्च २ सिनीवाल्यां स्त्री तस्यां चन्द्रस्य दर्शनादर्शनयोः सत्त्वात् तथात्वम्। ३ तदभिमानिदेवतायाञ्च सा च अङ्गिरसस्तृतीयकन्या यथाह भा० व० २१७ अ० “यां कपर्दिसुतामाहुर्दृश्यादृश्येति देहिनः। तनुत्वात् सा सिनीवाली तृतीयाऽङ्गिरसः सुता”

दृश्वन् = त्रि० दृश–क्वनिप्। दर्शके “विवेकदृश्यत्वमगात् सुराणाम्” भट्टिः “अनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः”। “गुर्वर्थमर्थी श्रुतपारदृश्वा” रघुः।

दृषत्सार = न० दृषदः सारमिव। मुण्डायसे राजनि०।

दृषद् = स्त्री दॄ–अदि षुक् ह्रस्वश्च। १ शिलायां २ पेषणशिलायाञ्च मेदि० तत्र शिलायां “गुर्वीरजस्रं दृषदः समन्तात्” माघः। “दृषदो बासितोत्सङ्गा निषण्णमृगनाभिभिः” कुमा० “तत्र व्यक्तं दृषदि चरणन्यासमर्द्धेन्दुमौलेः” मेघ० पेषणशिलायाम् “पश्चादग्नेर्दृषदमश्मानं प्रतिष्ठाप्य” आश्व० गृ० १। ७। ३ “अपामग्नेः सुरेशस्य दृषदोलूखलस्य च। चतुर्दैवानि चत्वारि द्वाराणि विदधुश्च ते” हरिवं० ११६ अ०। दृषदोलूखलमित्यत्र राजदन्ता० पूर्वनि०। दृषदि पिष्टाः अण्। दार्षद, दृषदि पिष्टे त्रि०

दृषदिमाषक = पु० माषः शुल्कत्वेन दीयते कन् दृषदि पेषणव्यवहारे राज्ञे देयः माषकः “कारनाम्नि च प्राचां हलादौ” पा० अलुक् समा०। पेषणव्यवहारे राजदेये माषरूपे करे।

दृषद्वत् = त्रि० दृषदः सन्त्यस्मित् भूम्ना मतुप् मस्य वः। १ दृषद्युक्ते स्त्रियां ङीप्। सा च २ नदीभेदे “सरस्वतीदृषद्वत्योर्देवनद्योर्यदन्तरम्। तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते” मनुः “प्रययुर्ज्जाह्नवीकूलात् कुरुक्षेत्रं सहानुगाः। सरस्वतीदृषद्वत्यौ यमुनाञ्च निषेव्य ते। ययुर्वनेनैव वनं सततं पश्चिमां दिशम्” भा० व० ५ अ०। “कौशिकी मन्दाकिनी यमुना सरस्वती दृषद्वती गोमती” भाग० ५। १९। १८ भारतवर्षस्थमहानदीकथने। “दक्षिणेन सरस्वत्यादृषद्वत्युत्तरेण च। ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिपिष्टपे” भा० व० ८३ अ०। ३ नृपभेदे पु० “संयातिः खलु दृषद्वतो दुहितरं वराङ्गीं नामोपयेमे तस्यामस्य जज्ञे सार्वभौमः” भा० आ० ९५ अ०। विश्वामित्रस्य ४ पत्नीभेदे स्त्री “दृषद्वतीसुतश्चापि विश्वामित्रात्तथाऽष्टकः। अष्टकस्य सुतो लौहिः प्रोक्तो जह्नुगणो मया” हरिवं०२७ अ०

दृष्ट = त्रि० दृश–कर्मणि क्त। १ दर्शनकर्मणि विलोकिते “दृष्टदोषेऽपि विषये ममत्वाकृष्टसेतनः” देवीमा० “द्यूतमेतत् पुराकल्पे दृष्टं वैरकरं महत्” “तस्येह भागिनौ दृष्टौ वीजी क्षेत्रिकएव च” मनुः २ ज्ञातमात्र च “दृष्टवदानुश्रविकः स ह्यविशुद्धिक्षयातिशययुक्तः” सा० का० “दृष्टानुश्रविकविषयवितृष्णा वशीकारसंज्ञा वैराग्यम्” पात० सू० “दृष्टं श्रुतञ्चेत्युपासीत” छा० उप०। भावे क्त। ३ दर्शने ४ राज्ञां स्वराष्ट्रस्थात् चौरादेर्भये ५ परराष्ट्रात् दाहविलोपादेर्भये च न० अमरः। ६ साक्षात्कारे न० “दृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात्। त्रिविधं प्रमाणमिष्टम्” सा० का० उद्दिश्य तल्लक्षितं यथा

“प्रतिविषयाध्यवसायो दृष्टं, त्रिविधमनुमानमाख्यातम्” सा० का० “अत्र दृष्टमिति लक्ष्यनिर्द्देशः परिशिष्टन्तु लक्षणं समानासमानजातीयव्यवच्छेदोलक्षणार्थः। अवयवार्थस्तु विषण्वन्ति विषयिणमनुबघ्नन्ति स्वेन रूपेण निरूपणीयं कुर्वन्तीति यावत् विषयाः पृथिव्यादयः सुखादयश्च अस्मदादीनामविषयाश्च तन्मात्रलक्षणा योगिनामूर्द्धस्रोतसाञ्च विषयाः। विषयं विषयं प्रति वर्त्तते इति प्रतिविषयमिन्द्रियवृत्तिश्च सन्निकर्षः अर्थसन्निकृष्टमिन्द्रियमित्यर्थः तस्मिन्नध्यवसायस्तदाश्रितैत्यर्थः अध्यवसायश्च बुद्धिव्यापारो ज्ञानम्। उपात्तविषयाणामिन्द्रियाणां वृत्तौ सत्यां बुद्धेस्तमोऽभिभवे सति यः सत्वसमुद्रेकः सोऽध्यवसायैति वृत्तिरिति ज्ञानमिति चाख्यायते इदं तावत् प्रमाणम्। अनेन यश्चेतनाशक्तेरनुग्रहस्तत् फलं प्रमाबोधः। बुद्धितत्त्वं हि प्राकृतत्वादचेतनमिति तदीयोऽध्यवसायोऽप्यचेतनो घटादिवत्, एवं बुद्धितत्त्वस्य सुखादयोऽपि परिणामभेदा अचेतनाः। पुरुषस्तु सुखाद्यननुषङ्गी चेतनः सोऽयं बुद्धितत्त्ववर्त्तिना ज्ञानसुखादिना तत्प्रतिविग्बितस्तच्छायापत्त्या ज्ञानसुखादिमानिव भवतीति चेतनोऽनुगृह्यते चितिच्छायापत्त्या चाचेतनापि बुद्धिस्तदध्यवसायोऽपि चेतन इव भवतीति। तथा च वक्ष्यति “तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम्। गुणकर्तृत्वेऽपि तथा कर्त्तेव भवत्युदासीनः” इति। अत्राध्यवसायग्रहणेन संशयं व्यवच्छिनत्ति संशयस्य अनवस्थितग्रहणेनानिश्चितरूपत्वात् निश्चयोऽध्यवसाय इत्यनर्थान्तरम्। विषयग्रहणेन चासद्विषयं विपर्य्ययमपाकरोति, प्रतिग्रहणेन चेन्द्रियार्थसन्निकर्षसूचनादनुमानस्मृत्यादयः पराकृता भवन्ति। तदेवं समानासमानजातीयव्यवच्छेदकत्वात् प्रतिविषयाध्यवसाय इति दृष्टस्य सम्पूर्णं लक्षणम्” तत्त्वकौ०।

दृष्टदोष = त्रि० दृष्टो दोषः रागलोभादिर्यस्य। १ ज्ञातरागलोभादिरूपदोषके “न दृष्टदोषाः कर्तव्या न व्याध्यार्त्ता न दूषिताः” साक्षिकरणनिषेधे मनुः। दृष्टो दोषो मिथ्याज्ञानजन्यवासना यत्र। २ ज्ञातमिथ्याज्ञानजन्यवासनायुक्तविषये “दृष्टदोषेऽपि विषये ममत्वाकृष्टचेतनः” देवीमा० दृष्टो ज्ञातो दोषोयेन। ३ छिद्रावलोकके रिपौ

दृष्टपृष्ठ = त्रि० दृष्टम् प्रतियोधैः पृष्ठमस्य। पलायमाने शब्दार्थचि० रणात् पराङ्मुखस्य शत्रुभिः पृष्ठस्य दर्शनात् तथात्वम्।

दृष्टप्रत्यय = त्रि० दृष्टेन दर्शनेन प्रत्ययः विश्वासो यस्य। अन्यत्र दर्शनेन कृतदृढनिश्चये।

दृष्टरजस् = स्त्री दृष्टं रज आर्त्तवं यया। १ दृष्टरजस्कायां नार्याम् अमरः। २ तदुपलक्षितायां मध्यमायां प्रौढायाम् स्त्रियां राजनि०।

दृष्टान्त = पु० दृष्टोऽन्तः विषयपरिच्छेदोयत्र। गौ० सूत्रोक्तेषु षोडशसु पदार्थेषु मध्ये पदार्थभेदे तल्लक्षणं तत्रोक्तं यथा “लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः” सू० “लोकसामान्यमनतीता लौकिका नैसर्गिकं वैनयिकं बुद्ध्यतिशयमप्राप्तास्तद्विपरीताः परीक्षकास्तर्केण प्रमाणैरर्थ परीक्षितुमर्हन्तीति, यथा यमर्थं लौकिका बुध्यन्ते तथा परीक्षका अपि सोऽर्थो दृष्टान्तः। दृष्टान्तविरोधेन हि प्रतिषेद्धव्या भवन्तीति। दृष्टान्तसमाधिना च स्वपक्षाः स्थापनीया भवन्तीति तदुक्तावयवेषु चोदाहरणाय कल्पत इति” वात्स्या० भा०। ३ तत्रोक्तावयवमध्ये उदाहरणे च तल्लक्षणं तत्रोक्तं तच्च उदाहरणशब्दे ११६४ पृ० दर्शितम् अधिकमत्र तत्सूत्रभाष्यं प्रदर्श्यते यथा “साध्यसाधर्म्यात् तद्धर्मभावो दृष्टान्त उदाहरणम्” गौ० सू० “साध्येन साघर्म्यं समानधर्मता साध्यसाधर्म्यात् कारणात् तद्धर्मभावो दृष्टान्त इति तस्य धर्म्मस्तद्धर्म्मः तस्य साध्यस्य, साध्यञ्च द्विविधम् धर्म्मिविशिष्टो वा धर्म्मः शब्दस्यानित्यत्वम्। धर्म्मविशिष्टो वा धर्म्मी अनित्यः शब्द इति, इहोत्तरन्तद्ग्रहणेन गृह्यत इति कस्मात्? पृथग्धर्म्मवचनात्। तस्य धर्म्मस्तद्धर्म्मस्तस्य भावस्तद्धर्म्मभावः स यस्मिन् दृष्टान्ते वर्त्तते स दृष्टान्तः साध्यसाधर्म्यात् तद्धर्म्मभावो भवति स चोदाहरणमिष्यते तत्र यदुत्पद्यते तदुत्पत्तिधर्म्मकम् यच्च भूत्वा न भवति आत्मानं जहाति निरुध्यत इत्यनित्यम्। एवमुत्पत्तिधर्म्मकत्वं साधनमनित्यत्वं साध्यं सोऽयमेकस्मिन् द्वयोर्धर्म्मयोः साध्यसाघनभावः साधर्म्याद्व्यवस्थित उपलभ्यते तं दृष्टान्ते उपलभमानः शब्देऽप्यनुमिनोति शब्दोऽप्युत्पत्तिधर्मकत्वादनित्यः स्थाल्यादिवदित्युदाह्रियते तेन धर्मयोः साध्यसाधनभाव इत्युदाहरणम्” भा० “तद्विपर्य्ययाद्वा विपरीतम्” गौ० सू० “दृष्टान्त उदाहरणमिति प्रकृतं, साध्यवैधर्म्यात् तद्धर्मभावो दृष्टान्त उदाहरणमिति। अनित्यः शब्द उत्पत्तिधर्मकत्वात् यथा अनुत्पत्तिधर्मकं नित्यमात्मादि सोऽयमात्मादिदृष्टान्तः साध्यवैधर्म्यादनुत्पत्तिधर्मकत्वादतद्धर्मभावो योऽसौ साध्यस्य धर्मोऽनित्यत्वं स तस्मिन् भवतीति। अत्रात्मादौ दृष्टान्ते उत्पत्तिधर्मकत्वस्याभावादनित्यत्वं न भवतीति उपलभमानः शब्दे विपर्य्य यमनुमिनोति उत्पत्तिधर्मकत्वस्य भावादनित्यः शब्द इति साध- र्म्योक्तस्य हेतोः साध्यसाधर्म्यात् तद्धर्मभावो दृष्टान्त उदाहरणम् वैधर्म्योक्तस्य हेतोः साध्यवैधर्म्यादतद्धर्मभावो दृष्टान्त उदाहरणम्। पूर्वस्मिन् दृष्टान्ते यौ तौ धर्मौ साध्यसाधनभूतौ पश्यति साध्येऽपि तयोः साध्यसाधनभावमनुमिनोति। उत्तरस्मिन् दृष्टान्ते ययोर्धर्मयोरेकस्याभावादितरस्याभावं पश्यति तयोरेकस्याभावादितरस्याभावं साध्ये अनुमिनोतीति, तदेतद्धेत्वाभासेषु न सम्भवतीत्यहेतवी हेत्वाभासाः तदिदं हेतूदाहरणयोः साधर्म्यं परमसूक्ष्मं दुःखबोधं पण्डितैरुपवेदनीयमिति” भाष्यम्। अन्यत्र च “वादिप्रतिवादिनोः संप्रतिपत्तिविषयोऽर्थो दृष्टान्तः। यथा पर्वतो वह्निमान् धूमात् महानसवदित्यादौ महानसो दृष्टान्तः। स द्विविधः साधर्म्यदृष्टान्तः वैधर्म्यदृष्टान्तः। आद्यः पर्वते वह्निसाधने धूमवत्त्वस्य हेतोर्महानसः। द्वितीयः तत्रैव धूमवत्त्वस्य हेतोर्महाह्रदः। ३ अर्थालङ्कारभेदे अलङ्कारशब्दे ३८८ पृ० दृश्यम् “दृष्टान्तोऽत्र महार्णवः” माघः ४ शास्त्रे ५ मरणे च मेदि०

दृष्टि = स्त्री दृश–भावे क्तिन्। १ दर्शने चाक्षुषज्ञाने “नान्धादृष्ट्या चक्षुष्मतामनुपलम्भः” सा० सू०। अक्षिपटलशब्दे ४३ पृ० अक्षिशब्दे ४५ पृष्ठे च दृश्यम्। २ ज्ञानमात्रे मेदि० “तथाप्येकतरदृष्ट्या एकतरसिद्धेर्नापलापः”। “विदितबन्धकारणस्य दृष्ट्या तद्रूपम्” सा० सू०। ३ प्रकाशे च “न द्रष्टुर्दृष्टेर्विपरिलोपोऽस्ति” श्रुति०। ग्रहदृष्टिभेदादिकं ग्रहदृष्टिशब्दे २७५२। ५३ पृ० दृश्यम्। करणे क्तिन्। ४ नेत्रे अमरः। “अस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे” मेघ० “दृष्टिर्गाढनिमीलिता न विकला नाभ्यन्तरे चञ्चला” मृच्छ० “दृष्ट्या प्रसादामलया कुमारं प्रत्यग्रहीत्” रघुः “दृष्टा दृष्टिमधो ददाति” सा० द०।

दृष्टिकृत् = त्रि० दृष्टिं करोति कृ–क्विप्। २ दर्शके २ स्थलपद्मे न० शब्दच०। तस्य शोभया लोकानां दृष्टिसम्पादकत्वात् तथात्वम्।

दृष्टिकृत = न० दृष्टिर्लोकानां दृष्टिः कृता येन निष्ठान्तस्य परनिपातः। १ स्थलपद्मे शब्दरत्नावली। २ कृतदर्शने त्रि०।

दृष्टिक्षेप = पु० दृष्टेः क्षपः। १ दृष्टिपाते।

दृष्टिगत = पु० दृष्टिं गतः विषतया प्राप्तः। १ नेत्रविषये। ७ त०। २ नेत्रगते रोगभेदे अक्षिपटलशब्दे ४३ पृ० दृश्यम्।

दृष्टिगुण = पु० दृष्ट्या गुण्यतेऽभ्यस्यतेऽत्र चु० गुण–अभ्यासे आधारे अच्। १ वाणादिलक्ष्ये शब्दमाला तस्य दृष्ट्यैव शरादिक्षेपणाभ्यासनात् तथात्वम् ६ त०। २ नेत्रगुणेरूपादौ।

दृष्टिप = पु० दृष्टिं पिबति पा–क। देवगणभेदे “गणा देवाना मूष्मपाः सोमपाश्च, लोकाः सुयामास्तुषिता ब्रह्मकायाः। आभासुरा गन्धपा दृष्टिपाश्च” भा० आनु० १८ अ०

दृष्टिबन्धु = पु० दृष्टेर्नेत्रस्य बन्धुरिव सादृश्यापादनात्। १ खद्योते शब्दर० अक्षिपटलशब्दे ४३ पृ० उक्तेन “खद्योतविस्फुलिङ्गाभामिति” सुश्रुतवाक्येन दृष्टेस्तत्तुल्यत्वस्योत्कीर्तनेन तस्य तत्सादृश्यापादकतया तथात्वम्।

दृष्टिवाद = पु० हेमच० उक्ते पञ्चात्मके बौद्धानां वादरूपकथा भेदे “दृष्टिवादो द्वादशाङ्गी स्याद्गणिपिटकाह्वया। प्रति कर्मसूत्रपूर्वानुयोगो पूवगतचूलिकाः। पञ्च स्युर्दृष्टिवादभेदाः पूर्वाणि चतुर्दशापि पूर्वगते”।

दृष्टिविक्षेप = पु० दृष्टिस्तदेकदेशस्य विक्षेपः। १ कटाक्षदर्शने हला० ६ त०। २ दृष्टिपाते ३ दर्शनान्तराये च

दृष्टिविभ्रम = दृष्टेर्विभ्रमः विलासभेदः। नेत्रविलासभेदे “विवर्तितभ्रूरियमद्य शिक्षते भयादकामापि हि दृष्टिविभ्र मम्” शकु० २ दर्शनभ्रान्तौ च

दृष्टिविष = पुंस्त्री दृष्टौ विषोऽस्य। १ सर्पभेदे स्त्रियां जातित्वात् ङीष्। “दृष्टीविषैः सप्तशीर्षैर्गुप्तं भोगिभिरद्भुतैः” भा० व० २२४ अ०। दृष्टीविषैरित्यत्र आर्षो दीर्घः। “ते चाब्रुवन् नहुषो घोररूपो दृष्टीविषस्तस्य विभीम देव!” भा० उ० १५ अ०।

दृह = वृद्धौ भ्वा० पर० अक० सेट्। दर्हति अदर्हीत् ददर्ह। अयमिदिच्च तत्र दृंहति अदृंहीत्। “तमेतैः स्तोमैः सप्तदशैरदृं हन्” ताण्ड० वा० ४। ५। ९ इदित्त्वात् नलोपाभावः दृंह्यते दृंहितः “दिशे दृंह दृंहिता दृंहणेन” तैत्ति० २। ८३। ८ “दृंहणाय खनामसि” अथ० ६। १३६। १ अनिदितस्तु दृह्यते दृहितः इत्यादि।

दॄ = भये भ्वा० पर० सक० सेट्। दरति अदारीत् घटा० णिच् दरयति। ददार दरीता दरिता। दीर्णः।

दॄ = विदारे दिवा० पर० सक० सेट्। दीर्यति अदारीत्। ददार दरीता दरिता दीर्णः।

दॄ = विदारे क्य्रा० प्वा० पर० अक० सेट्। दृणाति अदारीत् दरीता दरिता। दीर्णः। भगन्दरः

दे = पालने भ्वा० आत्म० सक० अनिट्। दयते अदास्त ददे दाता दास्यते दातुम् दत्तः।

देय = त्रि० दा–कर्मणि यत्। १ दातव्ये “स्वंकटुम्बाविरोधेन देयं दारसुतादृते। नान्वये सति सर्वस्वं यच्चान्यस्मै प्रातश्रुतम् याज्ञ० वचनोक्तनिषिद्धभिन्ने २ दानार्हे दत्ताप्रदानिकशब्दे ३४५५। ५६ पृ० दृश्यम्।

देव = देवने भ्वा० आत्म० अक० सेट्। देवते अदेविष्ट। अदेविढ्वम् अदेवि(द्ध्व) ध्वम् दिदेवे ऋदित्। देवयति ते अदि देवत् त। देवनमिह रोदनमिति भट्टमल्लः। परि + विलापे। “विलापः परिदेवनम्” अमरः। “खरदूषणयोर्भ्रात्रोः पर्य्यदेविष्ट सा पुरः” भट्टिः।

देव = पु० दिव–अच्। १ अमरे सुरे नाट्योक्तौ २ राजनि अमरः। ३ नृपे ४ मेघे पु० ५ इन्द्रिये न० मेदिनि० ६ पारदे पु० राजनि०। ७ व्राह्मणानामुपाधिभेदे “ततश्च नाम कुर्वीत पितैव दशमेऽहनि। देवपूर्वं नराख्यं हि शर्मवर्मादि संयुतम्” इति भवि० पु०। “नरमाचष्टे इति नराख्यं नरनाम, देवात् पूर्वं तच्चविशिष्टं शर्मयुतम्। “शर्मा देवश्च विप्रस्य वर्मा त्राता च भूमुजः। भूतिगुप्तश्च वैश्यस्य दासः शूद्रस्य कारयेत्” इति यमवचने समुच्चयोपलब्धेः। “शर्मान्तं ब्राह्मणस्य स्यात्” इति शातातपीयेन शर्मान्तता च। ८ देवदारुणि शब्दार्थचि०। ९ पूज्ये १० दीप्ते च त्रि० ११ परात्मनि पु० एकोदेवः सर्वभूतेषु गूढः” श्रुतिः। “भर्गोदेवस्य” गायत्री “दीव्यते क्रीडते यस्मात् रोचते द्योतते दिवि। तस्माद्देव इति प्रोक्तः स्तूयते सर्वदैवतैः” योगियाज्ञ० “उद्भवः क्षोभणो देवः” विष्णुसं० “यतः क्रीडति सर्गादिभिर्पिजिगीषते शत्रून, व्यवहरति सर्वभूतेषु आत्मतया, द्योतते स्तूयते स्तुत्यैः सर्वत्र गच्छतीति तस्मात् देवः” भा०। सुराश्च यद्यपि बहवस्तथापि प्राधान्यात् त्रयस्त्रिंशत्संख्यया त्रयस्त्रिंशत्पतिशब्दे ३३५९ पृ० दृश्याः तत्र सुरे “देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः” गीता। “देवानृषीत् मनुष्यांश्च पितॄन् गृह्याश्च देवताः” मनुः। नृपे “देवाकर्णय सुश्रुतेन चरकस्योक्तेन जानेऽखिलम्” नैष० नाट्योक्तौ नृपे “यथाऽऽज्ञापयति देवः” भूरिनाटकेषु। मेथे देवो गर्जति देवगर्जनम् देवे वर्षति। “देवाश्च आजानदेवाः कर्मदेवाश्च” कर्मदेवशब्दे १७२८ पृ० दृश्यम्।

देवऋषभ = पु० नित्यकर्म० प्रकृतिवद्भावः। कश्यपकन्यायां धर्मस्य पत्नीभेदे भानौ जाते पुत्रे दशधर्मायेत्युपक्रमे “भानुर्लम्बा ककुब्जामिर्विश्वा साध्या मरुत्वती। वसुर्मुहूर्त्ता सङ्कपो धर्मपत्न्यः सुतान् शृणु। भानोस्तु देवऋषभ इन्द्रसेनस्ततो नृप!” भा० ६। ५। ४। ५

देवऋषि = पु० देवानामृषिः, पूज्यवत्वात् प्रकृतिवद्भावो वा। देवर्षौ नारदादौ “अथ देवऋषी राजन्! संपरेतं नृपात्मजम्” भाग० ६। १६। १ पक्षे देवर्षिरप्यत्र। वृहस्पतेर्वृहत्कीर्त्तेर्देवर्षेर्विद्धि भारत” भा० आ० ६७ अ०।

देवक = त्रि० दिव–ण्वुल्। १ क्रीडके २ गन्धर्वपतिभेदे ३ श्रीकृष्णस्य मातामहे आहुकपुत्रे नृपभेदे च पु० “यस्त्वासीद्देवको नाम देवराजसमद्युतिः। स गन्धर्वपतिर्मुख्यः क्षितौ जज्ञे नराधिपः” भा० आ० ६७ अ० तस्यैव देवकनाम्ना कलाववतारः इत्यर्थः। “आहुकस्य तु काश्यायां द्वौ पुत्रौ सम्बभूवतुः। देवकश्चोग्रसेनश्च देवगर्भसमावुभौ। देवकस्याभवन् पुत्राश्चत्वारस्त्रिदशोपमाः। देववानुपदेवश्च सन्देवो देवरक्षितः। कुमार्यः सप्त चास्यासन् वसुदेवाय ता ददौ। देवकी शान्तिदेवा च सन्देवा देवरक्षिता। वृकदेव्युपदेवी च सुनाम्नी चैव सप्तमी” हरिवं० ३८ अ०। ४ तत्कन्यायां स्त्री ङीष्। देवकीशब्दे दृश्यम्

देवकर्दम = पु० देवप्रियः कर्दम इव। श्रीखण्डागुरुकर्पूर कुङ्कुमैर्मिलितैः कृते कर्दमरूपे गन्धद्रव्यभेदे राजनि०।

देवकात्मजा = स्त्री ६ त०। देवकनृपसुतायां देवक्यां प्राधान्यात् शब्दरत्ना०।

देवकार्य = न० देवप्रियार्थं कार्यम्। १ देवप्रियार्थे होमपूजादौ कार्ये “देवकार्यात् द्विजातीनां पितृकार्यं विशेष्यते” मनुः। देवानाममिलषितं कार्यम्। २ देवाभिलषिते कार्ये च “अनुष्ठितदेवकार्यम्” रघुः कृतरावणबधादिरूपदेवकार्यमित्यर्थः। देवकर्मादयोऽप्यत्र “देवकर्मकृतश्चैव युक्ताः कामेन कर्मसु” भा० शा० १६७ अ०

देवकाष्ठ = न० देवप्रियं काष्ठमस्य। देवदारुवृक्षे रत्ना०। “मनःशिला देवकाष्ठं रजन्यौ त्रिफलोषणम्” सुश्रु०।

देवकिरी = स्त्री मेघरागस्य भार्य्याभेदे रागिणीभेदे तद्रागस्य रागिणीभेदाः तत्स्वरूपञ्च सङ्गीतदा० उक्तं यथा “ललिता मालती गौरी नाटी देवकिरी तथा। मेघरागस्य रागिण्यो भवन्तीमाः सुमध्यमाः”। अस्या स्वरूपं यथा “भ्रमन्ती नन्दने श्यामा पुष्पप्रचयतत्परा। ख्याता देवकिरी ह्येषा करार्पितसखीकरा” देवगिरीति वा पाठः।

देवकिल्विष = न० देवेन कृतं किल्विषमनिष्टकर्म। देवकृते अनिष्टे कार्ये यथा वरुणकृतपाशबन्घनं यमकृतपादबन्धनमित्यादि। “मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत। “अथो यमस्य पड्वीशात् सर्वस्माद्देवकिल्विषात्” ऋ० १०। ९७। १६।

देवकी = स्त्री देवक + पुंयोगे ङीष् पुंयोगश्च न केवल दा- म्पत्यलक्षणः किन्तु जन्यजनकत्वादिरूपोऽपीति हरदत्तः तेन केकयीति सिद्धम्। देवकराजकन्याभेदे देवकशब्दे दृश्यम्। देवकी च कश्यपपत्न्या अदितेरवतारः यथोक्तं हरिवं० ५६ अ० “तस्य (कश्यपस्य) भार्याद्वयञ्चैव अदितिः सुरभिस्तथा। देवकी रोहिणी चैव वसुदेवस्य धीमतः”

देवकीनन्दन = पु० ६ त०। वसुदेवपत्न्या देवक्यानन्दने श्रीकृष्णे। “नन्दगोपस्य जायैका वसुदेवस्य चापरा। तुल्यकालं हि गर्भिण्यौ यशोदा देवकी तथा। देवक्यजनयद्विष्णुं यशोदा तान्तु कन्यकाम्। मुहूर्त्तेऽभिजिते प्राप्ते सार्द्धरात्रे विभूषिते” हरिवं०। ६० अ० “देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः” विष्णुसं० “गृहीत्वा हरणं प्राप्ते कृष्णे देवकिनन्दने” भा० आ० १ अ० संज्ञात्वात् ङीषो ह्रस्वः

देवकीय = त्रि० देवस्येदम् गहा० छ “देवस्य च” पा० ग० तदनुशिष्टः कुक् च। देवसम्बन्धिनि।

देवकीपुत्र = पु० ६ त०। १ श्रीकृष्णे “बलवान्नैव दास्यामि देवकीपुत्रमाश्रितः” हरिवं० १४२ अ०। २ पुरुषयज्ञदर्शनविद्यायां घोरनामकाङ्गिरसस्य शिष्यभूते कृष्णे च। यज्ञदर्शनमुपक्रग्य “तद्धैतद्घीर आङ्गिरसः कृष्णाय देवकीपुत्रायोक्तोवाचाऽपिपास एव स बभूव सोऽन्तवेलाय मेतत्त्रयं प्रतिपद्येताक्षितमस्यच्युतमसि प्राणशंसितमसीति” छा० उ० ३। १७। ६ “तद्धैतत् यज्ञदर्शनं घोरोनामतः, आङ्गिरसो गोत्रतः कृष्णाय देवकीपुत्राय शिष्यायोक्त्वोवाच तदेतत्त्रयमित्यादि व्यवहितेन सम्बन्धः। स चैतद्दर्शनं श्रुत्वाऽपिपास एवान्याभ्यो विद्याभ्यो बभूव। इत्थञ्च विशिष्टेयं विद्या यत् कृष्णस्य देवकीपुत्रस्यान्यां विद्यां प्रति तृड्विच्छेदकरीति पुरुषयज्ञविद्यां स्तौति घोर अङ्गिरसः कृष्णायोक्त्वेमां विद्यां किमुवाचेति तदाह स एवं यथोक्तयज्ञविदन्तवेलायां मरणकाल एतन्मन्त्रत्रयं प्रतिपद्येत जपेदित्यर्थः। किं तत् अक्षितमक्षीणमक्षतं वाऽसीत्येकं यजुः” भा० अत्र परमेश्वरस्य वासुदेवात्मकेश्वरस्य अन्यशिष्यत्वानुपपत्तौ इह तदन्यस्यैव शिष्यत्वम्। श्रुतौ सृष्टेः अनादिप्रवाहरूपतया वासुदेवस्य शिष्यत्वकल्पनया जनकयाज्ञवल्कयोरिव कल्पान्तरस्थयोरियमाख्यायिका स्तुत्यर्थेत्यन्ये। देवकीसुतादयोऽपि वासुदेवे। “अथ भाद्रपदे मासि कृष्णाष्टम्यां कलौ युगे। अष्टाविंशतिमे जातः कृष्णोऽसौ देवकीसुतः” ति० त० ब्रह्मपु० “न्याधायिषातामभिदेवकीसुतम्” माघः।

देवकीमातृ = पु० देवकी माता यस्य समासान्तविधेरनित्यत्वात् न कप्, देवकीं मिनोति प्रसूतित्वेन मा–तृच् वा। वासु देवे श्रीकृष्णे। “पश्यैतान् देवकीमातर्मुमूर्षूनद्य संयुगे” भा० द्रो० १८ अ० प्रथमे विग्रहे सर्वनामस्थाने परे गुणः देवकीमातरमित्यादि द्वितीये देवकीमातारमिति भेदः।

देवकुण्ड = न० देवकृतं कुण्डम्। देवखातके सुभूतिः

देवकुरुम्बा = स्त्री महाद्रोण्यां राजनि०।

देवकुल = न० कुल–संहतौ क देवार्थं कुलमल्पद्वारतया संहतम्। अल्पमुखे (देउल) ख्याते देवगृहभेदे हारा०। देवानां २ वंशे ३ समूहे च

देवकुल्या = स्त्री देवकृता कुल्या अल्पसरित्। १ देवसरिति गङ्गायाम् ६ त०। मरीचः कन्यायाः पूर्णिमासः २ कन्यायाञ्च “पत्नी मरीचेस्तु कला सुषुवे कर्दमात्मजा। कश्यपं पूर्णमासञ्च ययोरापूरितं जगत्। पूर्णिमासूत विरजं विश्वगञ्च परन्तप। देवकुल्यां हरेः पादशौचाद् याऽभूत् सरिद्दिवः” भाग० ४। १। १२। सा च भरतवंश्यस्य भूम्नः पत्नीभेदः यथाह भाग० ५। १५। ६ “भरतस्यात्मजः सुमतिर्नाम” इत्युपक्रमे “प्रतिहर्तुः स्तुत्यामजभूमानावजनिषाताम्। भूम्न ऋषिकुल्यायामुद्गीथः ततः प्रस्तारा देवकुल्यायाम्”।

देवकुसुम = न० देवप्रियं कुसुमम्। लवङ्गे अमरः।

देवकूट = न० वशिष्ठाश्रमसन्निकृष्टस्थे तीर्थभेदे “तत्राश्रमो व शिष्ठस्य त्रिषु लोकेषु विश्रुतः। तत्राभिषेकं कुर्वाणो वाजपेयमवाप्नुयात्। देवकूटं समासाद्य देवर्षिगणसेवितम्” भा० व० ८४ अ०।

देवक्षत्र = पु० क्रोष्टुवंश्ये नृपभेदे “तस्मात् करम्भः कारम्भिर्देवरातोऽभवन्नृपः!। देवक्षत्रोऽभवत्तस्य दैवक्षत्रिर्महायशाः। देववर्गसमो जज्ञे देवक्षत्रस्य नन्दनः” हरिवं० ३७ अ०। देवानां क्षत्रं बलं यत्र। २ यज्ञे च “उच्छन्त्यां मे यजता देवक्षत्रे रुशद् गवि” ऋ० ५। ६४। ७ “देवक्षत्रे यज्ञे” भा०।

देवखात = न० देवेन खात खन–क्त। १ अकृत्रिमे २ जलाशये ७ त०। ३ देवसमीपस्थे खाते च “नदीषु देवखातेषु तडागेषु सरित्सु च। स्नानं समाचरेन्नित्यं गर्त्तप्रस्रवणेषु च” मनः खार्थे क तत्रार्थे अमरः। ३ गुहायां भरतः।

देवलातबिल = पु० नित्यकर्म०। गुहायाम् अमरः।

देवगण = पु० ६ त०। १ देबसमूहे “उदर्कस्तव कल्याणि! तुष्टो देव गणेश्वरः” भा० भी० १२३ अ०। देवगणाश्च त्रयस्त्रिंशत्पतिशब्दे ३३५९ पृ० उक्ताः वस्वादीनुक्त्वा “त्रयस्त्रिंशत इत्येते देवास्तेषामहं तव। अन्वयं संप्रवक्ष्यामि पक्षशः कुलतो गणान्” इत्युपक्रमे “एते देवगणा राजन्! कीर्तितास्तेऽनुपूर्वशः” भा० आ० ६६ अ० उक्ताः। देवसंज्ञकोगणः। २ नक्षत्रभेदे उपयमशब्दे १२५० पृ० गणकूटे दृश्यम् ६ त०। ३ देवपक्षे ४ देवानुचरादौ

देवगणग्रह = पु० सुश्रुतोक्ते देवादिगणरूपे ग्रहे देवानाञ्च शुद्धस्वभावत्वात् ग्रहत्वासम्भवमाशङ्क्य। तद्गणाना मेव ग्रहत्वं च तत्रोक्तं यथा

“गुह्यानागतविज्ञानमनवस्था सहिष्णुता। क्रिया वाऽमानुषी यस्मिन् स ग्रहः परिकीर्त्त्यते। अशुचिं भि न्नमर्य्यादं क्षतं वा यदि वाऽक्षतम्। हिस्युर्हिंसाविहारार्थं सत्कारार्थमथापि च। असंख्येया ग्रहगणा ग्रहाधिपतयस्तु ये। व्यज्यन्ते विविधाकारा भिद्यन्ते ते तथाष्टधा। देवास्तथा शत्रुगणाश्च तेषां गन्धर्वयक्षाः पितरो भुजङ्गाः। रक्षांसि या चापि पिशाचजाति रेषोऽष्टधा देवगणग्रहाख्यः। सन्तुष्टः शुचिरपि चेष्टगन्धमाल्यो निस्तन्द्रो ह्यवितथसंस्कृतप्रमाषी। तेजस्वीस्थिरनयनो वरप्रदाता ब्रह्मण्यो भवति च यः स देवजुष्टः। संस्वेदी द्विजगुरुदेवदीषवक्ता जिह्माक्षो विगतभयो विमार्गदृष्टिः। सन्तुष्टो भवति न चान्नपानजातैर्दुष्टात्मा भवति च देवशत्रुजुष्टः। हृष्टात्मा पुलिनवनान्तरोपसेवी स्वाचारः प्रियपरिगीतगन्धमाल्यः। नृत्यन् वा प्रहसति चारु चाल्पशब्दं गन्धर्वग्रहपरिपीडितो मनुष्यः। ताम्राक्षः प्रियतनुरक्तवस्त्रधारी गम्भीरोद्रुतगतिरल्पवाक् सहिष्णुः। तेजस्वी वदति च किं द दामि कस्मै यो यक्षप्रहपरिपीडितो मनुष्यः। प्रेतेभ्यो विसृजति संस्तरेषु पिण्डान् शान्तात्मा जलमपि चापसव्यवस्त्रः। मांसेप्सुस्तिलगुडपायसाभिकामस्तद्भक्तो भवति पितृग्रहाभिभूतः। भूमौ यः प्रसरति सर्पवत्कदाचित् सृक्कण्यौ विलिहति जिह्वया प्रसक्तम्। निद्रालुर्गुडमधुदुग्धपायसेप्सुर्विज्ञेयो भवति भुजङ्गमेन जुष्टः। मांसासृग्विविधसुराविकारलिप्सुर्निल्लज्जो भृशमतिनिष्ठुरोऽतिशूरः। क्रोधालुर्विपुलबलो निशाविहारी शौचद्विड्भवति च रक्षसा गृहीतः। उद्धस्तः कृशपरुषश्चिरप्रलापी दुर्गन्धो भृशमशुचिस्तथातिलोलः। बह्वाशी विजनहिमाम्बुरात्रिसेवी व्याचेष्टं भ्रमति रुदन् पिशाचजुष्टः। स्थूलाक्षस्त्वरितगतिः स्वफेनलेही निद्रालुः पतति च कम्पते च योऽति। यश्चाद्रिद्विरदनगा- दिविच्युतःसन् संसृष्टो न भवति वार्द्धकेन जुष्टः। देवग्रहाः पौर्णमास्यामासुराः सन्ध्ययोरपि। गन्धर्वः प्रायशोऽष्टम्यां यक्षाश्च प्रतिपद्यथ। कृष्णपक्षे च पितरः पञ्चम्यामपि चोरगाः। रक्षांसि निशि पैशाचाश्चतुर्दश्यां विशन्ति च। दर्पणादीन् यथा छाया शीतोष्णं प्राणिनो यथा। स्वमणिंभास्करार्चिश्च यथा देहं च देहिनः। विशन्ति च न दृश्यन्ते ग्रहास्तद्वच्छरीरिणम्। तपांसि तीव्राणि तथैव दानव्रतानि धर्मो नियमश्च सत्यम्। गुणास्तथाष्टावपि तेषु नित्या व्यस्ताः समस्ताच्च यथाप्रभावम्। न ते मनुष्यैः सह संविशन्ति नवा मनुष्यान् क्वचिदाविशन्ति। ये वाविशन्तीति वदन्ति मोहात्ते भूतविद्याविषयादपोह्याः। तेषां ग्रहाणां परिचारका ये कोटीसहस्रायुतपद्मसंख्याः। असृग्वसामां सभुजः सुभीमा निशाविहाराश्च तमाविशन्ति। निशाचराणां तेषां हि ये देवगणसंसृताः। ते तु तत्सत्वसंसर्गाद्विज्ञेयास्तु तदञ्जनाः। देवग्रहा इति पुनः प्रोच्यन्ते शुचयश्च ये। देववत् ते नमस्यन्ते प्रत्यर्थन्ते च देववत्”।

देवगणिका = स्त्री ६ त०। स्वर्वेश्यायामप्सरःसु।

देवगन्धर्व = पु० देवानां गन्धर्वः गायनः। १ देवससीपे गायने गन्धर्वभेदे। देवगन्धर्वाश्च मौनेयाः प्राधेयाश्च गन्धर्वशब्दे २५२८ पृ० उक्ताः।

देवगन्धा = स्त्री देवप्रियोगन्धोऽस्याः। महामोदयामोषधौ राजनि०।

देवगर्भ = पु० देवात् गर्भोयस्य। देवाहितगर्भके देवपुत्रे १ नरादौ “प्रतिजग्राह तं राधा विधिवद्दिव्यरूपिणम्। पुत्रं कमलगर्भाभं देवगर्भं श्रियावृतम्” भा० व० ३०८ अ०। “देवकश्चोग्रसेनश्च देवगर्भसमावुभौ” हरिवं० ३८ अ० “स तस्यां जनयामास देवगर्भोपमं सुतम्” ११९ अ० २ कुशद्वीपस्थ २ नदीभेदे स्त्री “रसकुल्या मधुकुल्या मित्राविन्दा श्रुतविन्दा देवगर्भा घृतच्युता मन्त्रमालेति यासां प योभिः कुशद्वीपौकसः” भाग० ५। २०११

देवगान्धार = पु० देवप्रियः देवयोग्यो वा गान्धारः। स्वरभेदे “ततस्तु देवगान्धारं छालिक्यं श्रवणामृतम्। भौमस्त्रियः प्रजगिरे मनःश्रोत्रसुखावहम्” हरिवं० १५२ अ० २ श्रीरागस्य रागिणीभेदे स्त्री “गान्धारी देवगान्धारी मालवी श्रीश्च सारवी। राम (गि) किर्य्यपि रागिण्यः श्रीरागस्य प्रिया इमाः” सङ्गीत० दा०

देवगायन = पु० ६ त०। गन्धर्वे हेमच०।

देवगिरि = पु० देवानां प्रियः गिरिः। १ पर्वतभेदे स च भारतवर्षीयः स्वनामख्यातो गिरिः “भारतेऽप्यस्मिन् वर्षे सरिच्छैलाः सन्ति बहवः इत्युपक्रमे “सह्यो देवगिरिरृष्यमुखः श्रीशैलः” भाग० ५। १९। १७ उक्तेः श्रीरागस्य २ रागिणीविशेषे स्त्री ङीप् देवगान्धारीशब्दे दृश्यम्।

देवगुरु = पु० ६ त०। १ सुराचार्ये वृहस्पतौ हेमच० देवानां पितरि २ कश्यपे च “अपश्यन् कश्यपं तत्र मुनिं दीप्तं तपो निधिम्। आद्यं देवगुरुं देवम्” हरिवं० २५७ अ०

देवगुही = स्त्री गुह–बा० कि ङीप् देववत् गुही गुह्या। सरस्वत्याम् “देवगुह्यां सरस्वत्यां सार्वभौम इति प्रभुः” भाग० ८। १३। ८।

देवगुह्य = त्रि० ६ त०। देवानामतिरहस्ये। “एकमासीनमेकान्ते देवगुह्यधरं प्रभुम्” हरिवं० ११६ अ० “श्रुतार्थो देवगुह्यस्य भवान् यत्र वयं स्थिताः” तत्रैवाध्याये “तस्मिन् भ्रातॄणां विग्रहे देवगुह्ये” भा० आ० १ अ० २ मरणे न०। शब्दार्थचि०। तद्धि प्राणिनां वैराग्यानुत्प्रादाय देवैर्गोप्यते इति तस्य तथात्वम्।

देवगृह = न० ६ त०। देवालये तल्लक्षणं गरुडपु० ४७ अ० यथा “चतुःषष्टिपदं कृत्वा दिग्विदिक्षूपलक्षितम्। चतुष्कोणं चतुर्भित्ति द्वाराणि सूर्यसंख्यया। चत्वारिंशाष्टभिश्चैव भित्तीनां क ल्पना भवेत्। ऊर्द्ध्वक्षेत्रसमा जङ्घा जङ्घार्द्धद्विगुणं भवेत्। गर्भविस्तारविस्तीर्णा शूकाग्रा च विधीयते। तत्त्रिभागेण कर्तव्या पञ्चभागेन वा पुनः। निर्गमस्तु शुकाग्राया उच्छ्रयः शिखरार्द्धतः। चतुर्धा शिखरं कृत्वा त्रिभागे वेदिबन्धनम्। चतुर्थे पुनरस्यैव कण्ठस्य मलसारकम्। अथ वापि समं वास्तुं कृत्वा षोडशभागिकम्। तस्य मध्ये चतुर्भागमादौ गर्भन्तु कारयेत्। भागद्वादशकां भित्तिं ततस्तु परिकल्पयेत्। चतुर्भागेण भित्तीनामुच्छ्रयः स्यात् प्रमाणतः। द्विगुणः शिखरोच्छ्रायो भित्त्युच्छ्रायाच्च मानतः। शिखरार्द्धस्य चार्द्धेन विधेयास्तु प्रदक्षिणाः। चतुर्दिक्षु तथा ज्ञेयो निर्गमस्तु तथा बुधैः। पञ्चभागेन संभज्य गर्भमानं विचक्षणः। भागमेकं गृहीत्वा तु निर्गमं कल्पयेत् पुनः। गर्भसूत्रसमो भागादग्रतो मुखमण्डपः। एतत् सामान्यमुद्दिष्टं प्रासादस्य हि लक्षणम्। लिङ्गमानमथो वक्ष्ये पीठो लिङ्गसमो भवेत्। द्विगुणेन भवेद्गर्भः समन्ताच्छौनक! ध्रुवम्। तद्विधा च भवेद्भित्तिर्जङ्घा तद्विस्तरार्द्धगा। द्विगुणं शिखरं प्रोक्तं जङ्घाया श्चैव शौनक!। पीठं गर्भावरं कुर्यात् तन्मानेन शुका- ग्रकाम्। निर्गमस्तु समाख्यातः शेषं मूलवदेव तु। लिङ्गमानं स्मृतं ह्येतद् द्वारमानमथोच्यते। कराग्रं वेदवत् कृत्वा द्वारं भागाष्टकं भवेत्। विस्तरेण समाख्यातं द्विगुणं वेच्छया भवेत्। द्वारवत् पीठमध्ये तु शेषं शुषिरकं भवेत्। पादिकं शैषिकं भित्तिर्द्वारार्द्धेन परिग्रहात्। तद्विस्तारसमा जङ्घा शिखरं द्विगुणं भवेत्। शुकाग्रा पूर्ववज्ज्ञेया निर्गमोच्छ्रायकं भवेत्। मण्डपे मानमेतत्तु स्वरूपञ्चापरं वदे। त्रैवेदं कारयेत् क्षेत्रं यत्र तिष्ठन्ति देवताः। इत्थं कृतेन मानेन बाह्यभाग विनिर्गतम्। नेमिः पादेन विस्तीर्णा प्रासादस्य समन्ततः। गर्भन्तु द्विगुणं कुर्यात् नेम्यामानं भवेदिह। स एव भित्तेरुत्सेधो द्विगुणः शिखरो मतः। प्रासादानाञ्च वक्ष्यामि मानं योनिञ्च नामतः। वैराजः पुष्पकाख्यश्च कैलासो मालकाह्वयः। त्रिपिष्टः पञ्च पञ्चैते प्रासादाः सर्वयोनयः। प्रथमश्चतुरस्रो हि द्वितीयस्तु तदा यतः। वृत्तो वृत्तायतश्चान्योऽष्टास्रश्चेह च पञ्चमः। एतेभ्य एव सम्भूताः प्रासादाः सुमनोहराः। सर्वप्रकृति भूतेभ्यश्चत्वारिंशच्च पञ्च च। मेरुश्च मन्दरश्चैव विमानश्च तथाऽपरः। भद्रकः सर्वतोभद्रो! रुचकोनन्दनस्तथा। नन्दिवर्द्धनसंज्ञश्च श्रीवत्सश्च नवेत्यमी। चतुरस्रात् समुद्भुता वैराजादिति गम्यताम्। वडभी गृहराजश्च शालागृहञ्च मन्दिरम। विशालश्च तथा ब्रह्ममन्दिरं भवनं तथा। उत्तम्भं शिविका वेश्म नवैते पुष्पकोद्भवाः। बलयो दुन्दुभिः पद्मो महापद्मस्तथाऽपरः। बर्द्धनोऽप्यन्य उष्णीष शङ्खश्च कलसस्तथा। खपूरवृक्षकाश्चान्यो वृत्ताः कैलाससम्भवाः। गजोऽथ वृषभो हंसो गरुडः सिंहनामकः। भूमुखो भूधरश्चैव श्रीजयः पृथिवीधरः। वृत्तायतसमुद्भूता नवैते मालकाह्वयात्। वज्रं चक्रं तथान्यच्च स्वस्तिकं वज्रसंज्ञितम्। चित्रस्वस्तिकखड्गौ च गदा श्रीवृक्ष एव च। विजयो नामतश्चैते त्रिपिष्टपसमुद्भवाः। त्रिकोणपत्रमर्द्धेन्दु चतुष्कोणं द्विरष्टकम्। यत्र तत्र विधातव्यं संस्थानं मण्डपस्य तु। राज्यञ्च विजयश्चैवमायुर्बर्द्धनमेव च। पुत्रलाभः श्रियः पुष्टिस्त्रिकोणादिक्रमाद्भवेत्। कुर्य्यात् ध्वजादिसंख्यां वा द्वारि गर्भगृहन्तथा। मण्डपः सम संख्याभिर्गुणितः सूत्रतस्तथा। मण्डपस्य चतुर्थांशाद्भद्रः कार्यो विजानता। स्पर्द्धागवाक्षकोपेतो निर्गवाक्षोऽथ वा भवेत्। सार्द्धभित्तिप्रमाणेन भित्तिमाने- न वा पुनः। भित्तेर्द्वैगुण्यतो वापि कर्तव्या मण्डपाः क्वचित्। प्रासादे मञ्जुरी कार्य्या चित्रा विषममूमिका। परिमाणनिरोधेन रेखा वैषम्यभूमिका। आधारस्तु चतुर्द्वारश्चतुर्मण्डप्रशोभितः। शतशृङ्गसमायुक्तो मेरुप्रासाद उत्तमः। मण्डपास्तस्य कर्तव्या भद्रैस्त्रिभिरलङ्कृताः। घटनाकारमानानां भिन्ना भिन्ना भवन्ति ये। कियन्तोयेषु साधारानिराधाराश्च केचन। प्रतिच्छन्दकभेदन प्रासादाः सम्भवन्ति ते। अन्योन्यसङ्करास्तेषां घटना नामभेदतः। देवतानां विशेषाय प्रासादा बहवः स्मृताः। प्रासादे नियमो नास्ति देवानां च स्वय म्भुवाम्। तान्येव देवतानाञ्च पूर्बमानेन कारयेत् चतुरस्रायतास्तत्र चतुष्कोणसमन्विताः। चन्द्रशाला न्विताः कार्य्या भेरीशिखरसंयुता। पुरतो वाहनानाञ्च कर्तव्या लघुमण्डपाः। नाट्यशाला च कर्तव्या द्वारदेशसमाश्रया। प्रासादा देवतानाञ्च कार्या दिक्षु विदिक्ष्वपि। द्वारपालाश्च कर्तव्या मुख्याङ्गत्वात् पृथक् पृथक्। किञ्चिद्विदूरतः कार्य्या मठास्तत्रोपजीविनाम्। प्रावृता जगती कार्य्या फलपुष्पजलान्विता। प्रासादेषु सुरान् स्थाप्य पूजभिः पूजयेन्नरः। वासुदेवे सर्वदेवान् स्वर्गभाक् तद्गृहादिकृत्” प्रासादसामान्यलक्षणमुक्तमग्निपुराणे १०४ अ० यथा

“ईश्वर उवाच वक्ष्येप्रासादसामान्यलक्षणं ते शिखिध्वज!। चतुर्भागीकृते क्षेत्रे भित्तेर्भागेन विस्तरात्। अद्रिभागेण गर्भः स्यात् पिण्डिका पादविस्तरात्। पञ्चभागीकृतेक्षेत्रे ह्यन्तर्भागेतु पिण्डिका। सुषिरं भागविस्तीर्णं भित्तयो भागविस्तरात् भागौ द्वौ मध्यमे गर्भे ज्यष्ठनागद्वयेन तु। त्रिभिस्तु कन्यसोगर्भः येषो भित्ति रिति क्वचित्। षोढाभक्तेऽथ वा क्षेत्रेभित्तिर्मागैकविस्तरात्। गर्भो भागेन विस्तीर्णो भागद्वयेन पिण्डिका। विस्ताराद् द्विगुणो वापि सपादद्विगुणोऽपि वा। अर्द्धार्द्धद्विगुणो वापि त्रिगुणः क्वचिदुच्छ्रयः। जगती विस्तरार्द्धेन त्रिभागेण क्वचिद्भवेत्। गेमिः पादोनविस्तीर्णा प्रासादस्य समन्ततः। परिधिस्त्र्यंशको मध्ये रथकांस्तत्र कारयेत्। चामुण्डभैरवं तेषु नाट्येशं च निवेशयेत्। प्रासादार्द्धेन देवानामष्टौ वा चतुरोऽपि वा। प्रदक्षिणं बहिः कुर्यात् प्रासादादिषु वा न वा। आदित्याः पूर्वतः स्थाप्याः स्कन्दोऽग्निर्वायुगोचरे। एवं यमादयो न्यास्याः स्वस्यां स्वस्यां दिशि स्थिताः। चतुर्द्धा शिखरं कृत्वा शुकनासा द्विभागिका। तृतीये वेदिका त्वग्रे सकण्ठा मलसारकः। वैराजः पुष्पकश्चान्यः कैलासो मालकस्तथा। त्रिविष्टपश्च पञ्चैव मेरुमूर्द्धनि संस्थिताः। चतुरस्रस्तु तत्राद्यो द्वितीयोऽपि तदायतः। वृत्तो वृत्तायतश्चान्यो ह्यष्टास्रश्चापि पञ्चमः। एकैको नवधा भेदैश्चत्वारिंशच्च पञ्च च। प्रासादः प्रथमो मेरुर्द्वितीयो मन्दरस्तथा। विमानश्च तथा भद्रः सर्वतोभद्र एव च। रुचको नन्दको नन्दिवर्द्धनश्च तथापरः। श्रीवत्सश्चेति वैराजान्ववाये च समुत्थिताः। बलभी गृहराजश्च शालागृहञ्च मन्दिरम्। विशालश्च तथा ब्रह्ममन्दिरं भुवनन्तथा। उत्तम्भः शिविका वेश्म नवैते पुष्पकोद्भवाः। बलयो दुन्दुभिः पद्मो महापद्मक एव च। बर्द्धनो वान्य उष्णीषः शङ्खश्च कलसस्तथा। खपूरवृक्षकश्चान्योः वृत्ताः कैलाससम्भवाः। गजोऽथ वृषभो हंसो गरुत्मान् सिंहनामकः। भूमुखो भूधरश्चान्यः श्रीजयः पृथिवीधरः। वृत्तायतात् समुद्भूता नवैते मालकाह्वयात्। वज्रं चक्रं तथा चान्यत् स्वस्तिकं वज्रस्वस्तिकम्। चित्रं स्वस्तिकखड्गञ्च गदा श्रीवृक्ष एव च। विजयो नामतश्चैते त्रिविष्टपसमुद्भवाः। नगराणामिमाः सञ्ज्ञा लाटादीनामिमास्तथा। ग्रीवार्द्धेनोन्नतञ्चूलं पृथुलञ्च विभागतः। दशधा वेदिकां कृत्वा पञ्चभिः स्कन्धविस्तरः। त्रिभिः कण्ठं तु कर्तव्यं चतुर्भिस्तु तदण्डकम्। दिक्षु द्वाराणि कार्याणि न विदिक्षु कदाचन। पिण्डिका कोणविस्तीर्णा मध्यमान्ता ह्यदाहृता। क्वचित् पञ्चमभागेन महतां गर्भपादतः। उच्छ्राया द्विगुणास्तेषामन्यथा वा निगद्यते। षष्ठ्याधिकात् समारभ्य अङ्गुलानां शतादिह। उत्तमान्यपि चत्वारि द्वाराणि दशहानितः। त्रीण्येव मध्यमानि स्युस्त्रीण्येव कन्यसान्यतः। उच्छ्रायार्द्धेन विस्तारो ह्युच्छ्रायोऽभ्यधिकस्त्रिधा। चतुर्भिरष्टभिर्वापि दशभिरङ्गुलैस्ततः। उच्छ्रायात् पादविस्तीणां विशाखास्तदुदुम्बरे। विस्तरार्द्धेन बाहुल्यं सर्वेषामेव कीर्तितम्। द्विपञ्चसप्तनवभिः शाखाभिर्द्वारमिष्टदम्। अघःशाखा चतुर्थांशे प्रतीहारो निवेशयेत्। मिथुनैरथबल्लीभिः शाखाशेषं विभूषयेत्। स्तम्भविद्धेऽभृत्यता स्यात् वृक्षविद्धे त्वभूतिता। कूपविद्धे भयं पूगवृक्ष विद्धे धनक्षयः। प्रासादगृहशालादिमार्गविद्धेषु बन्धनम्। सभाबिद्धे तु दारिद्र्यं वर्णविद्धे निराकृतिः। उलूखले च दारिद्र्यं शिलाविद्धे तु शत्रुता। छायाविद्धे तु दारिद्र्यं वेधदोषे हि जायते। छेदादुत्पाटनाद्वापि तथा प्राकारलङ्घनात्। सीमाया द्विगुणत्यागाद् वेधदोषी न जायते”। देवगृहरूपप्रासादे विशेषस्तत्र ४२ अ० उक्तो यथा “मानेन प्रतिमाया वा प्रासादमपरं शृणु। प्रतिमायाः प्रमाणेन कर्तव्या पिण्डिका शुभा। गर्भस्तु पिण्डिकार्द्धेन गर्भमानास्तु भित्तयः। भित्तेरायाममानेन उत्सेधन्तु प्रकल्पयेत्। भित्त्युच्छ्रायात्तु द्विगुणं शिखरं कल्पयेद् बुधः। शिखरस्य तु तुर्येण भ्रमणं परिकल्पयेत्। शिखरस्य चतुर्थेन अग्रतो मुखमण्डपम्। अष्टमांसेन गर्भस्य रथकानान्तु निर्गमः। परिधेर्गुणभागेन रथकांस्तत्र कल्पयेत्। तत्तृतीयेन वा कुर्याद्रथकानान्तु निर्गमम्। वामत्रयं स्थापनीयं रथकत्रितये सदा। शिखरार्थं हि सूत्राणि चत्वारि विनिपातयेत्। शुकनासोर्द्ध्वतः सूत्रं तिर्यग्भूतं निपातयेत्। शिखरस्यार्द्धभागस्थं सिंहं तत्र तु कारयेत्। शुकनासां स्थिरीकृत्य मध्यसन्धौ निधापयेत्। तदूर्द्ध्वन्तु भवेद्वेदी सकण्ठा मलसारकम्। स्कन्धभग्नं न कर्तव्यं विकरालं तथैव च। ऊर्द्ध्वं च वेदिकामानात् कलसं परिकल्पयेत्। विस्ताराद्द्विगुणं द्वारं कर्तव्यं तु सुशोभनम्। उदुम्बरौ तदूर्द्ध्वञ्च न्यसेच्छाखां सुमङ्गलैः। द्वारस्य तु चतुर्थांशे कार्य्यौ चण्डप्रचण्डकौ। विश्वक्सेनवत्सदण्डौ शिखोर्द्ध्वोडुम्बरे श्रियम्। दिग्गजैः स्नाप्यमानान्तां घटैः साब्जां सुरूपिकाम्। प्रासादस्य चतुर्थांशैः प्राकारस्योच्छ्रयो भवेत्। प्रासादात् पादहीनस्तु गोपुरस्योच्छ्रयो भवेत्। पञ्चहस्तस्य देवस्य एकहस्ता तु पीठिका। गारुडं मण्डपं चाग्रे एकं भौमादिधाम च। कुर्याद्धि प्रतिमायान्तु दिक्षु चाष्टासु चोपरि। पूर्बं वराहं दक्षे च नृसिंहं श्रीधरं जले। उत्तरे तु हयग्रीवमाग्नेय्यां जामदग्न्यकम्। नैरृत्यां रामकं वायौ वामनं वासुदेवकम्। ईशे प्रासादरचना देया वस्वर्ककादिभिः। द्बारस्य चाष्टमाद्यंशं त्यक्त्वा वेधो न दोषभाक्”। वृ० सं० ५७ अ० कश्चिद्विशेषोऽत्रोक्तो यथा “कृत्वा प्रभूतं सलिलमारामान् विनिवेश्य च। देवतायतनं कुर्याद्यशोधर्माभिवृद्धये। इष्टापूर्तेन लभ्यन्ते ये लोकास्तान् बुभूषता। देवानामालयः कार्यो द्वयमप्यत्र दृश्यते। सलिलोद्यानयुक्तेषु कृतेष्वकृतकेषु च। स्थानेष्वेतेषु सान्निध्यमुपगच्छन्ति देवताः। सरःसु नलिनोच्छ- त्रनिरस्तरविरश्मिषु। हंसांसाक्षिप्तकह्लारवीचीविमलवारिषु। हंसकारण्डवक्रौञ्चचक्रवाकविराविषु। पर्यन्तनिचुलच्छायाविश्रान्तजलचारिषु। क्रौञ्चकाञ्चीकलापाश्च कलहंसकलस्वनाः। नद्यस्तोयांशुका यत्र शफरीकृतमेखलाः। फुल्लतीरद्रुमोत्तंसाः सङ्गमश्रोणिमण्डलाः। पुलिनाभ्युन्नता रम्या हंसहासाश्च निम्नगाः। वनोपान्तनदीशैलनिर्झरोपान्तभूमिषु। रमन्ते देवता नित्यं पुरेषूद्यानवत्सु च। भूमयो ब्राह्मणादीनां याः प्रोक्ता वास्तुकर्मणि। ता एव तेषां शस्यन्ते देवतायतनेष्वपि। चतुःषष्टिपदं कार्यं देवतायतनं सदा। द्वारं च मध्यमं तत्र समदिक्स्थं प्रशस्यते। यो विस्तारो भवेद्यस्य द्विगुणा तत्समुन्नतिः। उच्छ्रायाद् यस्तृतीयोऽशस्तेन तुल्या कटिर्भवेत्। विस्तारार्धं भवेद्गर्भो भित्तयोऽन्याः समन्ततः। गर्मपादेन विस्तीर्णं द्वारद्विगुणमुच्छ्रितम्। उच्छ्रायात्पादविस्तीर्णा शाखा तद्वदुदुम्बरः। विस्तारपादप्रतिमं बाहुल्यं शाखयोः स्मृतम्। त्रिपञ्चसप्तनवभिः शाखामिस्तत्प्रशस्यते। अधःशाखाचतुर्भागे प्रतीहारौ निवेशयेत्। शेषं मङ्गल्यविहगैः श्रीवृक्षस्वस्तिकैर्घटैः। मिथुनैः पत्रवल्लीभिः प्रमथैश्चोपशोभयेत्। द्वारमानाष्टभागोना प्रतिमा स्यात्सपिण्डिका। द्वौ भागौ प्रतिमा तत्र तृतीयांशश्च पिण्डिका। मेरुमन्दरकैलासविमानच्छन्दनन्दनाः। समुद्गपद्मगरुडनन्दिवर्द्धनकुञ्जराः। गृहराजो वृषो हंसः सर्वतोभद्रको घटः। सिंहो वृत्तश्चतुष्कोणः षोडशाष्टाश्रयस्तथा। इत्येते विंशतिः प्रोक्ताः प्रासादाः संज्ञया मया। यथोक्तानुक्रमेणैव लक्षणानि वदाम्यतः। तत्र षडश्रिर्मेरुर्द्वादशभौमो विचित्रकुहरश्च। द्वारैर्युतश्चतुर्भिर्द्वात्रिंशद्धस्तविस्तीर्णः। त्रिंशद्धस्तायामो दशभौमो मन्दरः शिखरयुक्तः। कैलासोऽपि शिखरवान् अष्टाविंशोऽष्टभौमश्च। जालगवाक्षकयुक्तो विमानसंज्ञस्त्रिसप्तकायामः। नन्दन इति षड्भौमो द्वात्रिंशः षोडशाण्डयुतः। वृत्तः समुद्गनामा पद्मः पद्माकृतिः शयानष्टौ। शृङ्गेणैकेन भवेदेकैव च भूमिका तस्य। गरुडाकृतिश्च गरुडो नन्दीति च षट्चतुष्कविस्तीर्णः। कार्यश्च सप्तभौमो विभूषितोऽण्डैश्च विंशत्या। कुञ्जर इति गजपृष्ठः षोडशहस्तः समन्ततो मूलात्। गृहराजः षोडशकस्त्रिचन्द्रशाला भवेद्वलभी। वृष एकभूमिशृङ्गो द्वादशहस्तः समन्ततो वृत्तः। हंसो हंसाकारो घटोऽष्टहस्तः कलसरूपः। द्वारैर्युतश्चतुर्भिर्बहुशिस्वरो भ- वति सर्वतोभद्रः। बहुरुचिरचन्द्रशालः षड्विंशः पञ्चभौमश्च। सिंहः सिंहाक्रान्तो द्वादशकोणोऽष्टहस्तविस्तीर्णः। चत्वारोऽञ्जनरूपाः पञ्चाण्डयुतस्तु चतुरस्रः। भूमिकाङ्गुलमानेन मयस्याष्टीत्तरं शतम्। सार्धं हस्तत्रयं चैव कथितं विश्वकर्मणा। प्राहुः स्थपतयश्चात्र मतमेकं विपश्चितः। कपोतपालिसंयुक्ता न्यूना गच्छन्ति तुल्यताम्। प्रासादलक्षणमिदं कथितं समासाद्गर्गेण यद्विरचितं तदिहास्ति सर्वम्। मन्वादिभिर्विरचितानि पृथूनि यानि तत्सस्मृतिं प्रति मयात्र कृतोऽधिकारः”। तत्प्रतिष्ठाविधिश्च मठप्रतिष्ठाशब्दे वक्ष्यते।

देवग्रह = पु० देवगणशब्दे सुश्रुतोक्ते ग्रहभेदे। “यः पश्यति नरो देवान् जाग्रद्वा शयितोऽपि वा। उन्माद्यति स तु क्षिप्रं तन्तु देवग्रहं विदुः” भा० व० १४५ अ०

देवङ्गम = त्रि० देवं गच्छति गम–वेदे ख। देवगामिनि “अस्यां राध्नोतु होत्रायां देवङ्गमाय” शत० व्रा० १। ९। १। १२ लोके तु णिनि देवगामीत्येव।

देवचक्र = न० सत्राङ्गे १ अभिप्लवभेदे “परि यद्वा एतद्देवचक्रं यदभिप्लवः” ऐत० व्रा० ४। १५ “देवचक्रे वा एते पृष्ठ्यप्रतिष्ठिते। यजमानस्य पाप्मानं तृं हतो परिप्लवेते स यो हैवं विदुषां दीक्षितानां पापकं सत्रे कीर्तयत्येते हास्य देवचक्रे शिरश्छिन्नो दशरात्र उद्धिः पृष्ठ्याभिप्लवौ चक्रे” शत० व्रा० १२। २। २। २ यामलोक्ते देवताभेदोपास्यताज्ञापके २ चक्रभेदे यथा

“पूर्वपश्चिमभेदेन षष्ठरेखां समालिखेत्। वामादि दक्षिणान्तञ्च रेखा दश समालिखेत्। पञ्चगेहे पूरकाङ्कः सर्वाधोहारकाङ्ककान्। तन्मध्ये रचयेदङ्कं देवतागृहसंयुतम्। पूरकाङ्कमाद्यगेहे सप्तर्षियुतमालिखेत्। तद्दक्षिणे द्वादशञ्च दक्षे च नवमन्तथा। तद्दक्षेऽष्टादशकं तद्दक्षे षोडशकं ततः। पूरकाङ्कं तले लेख्य इन्द्राद्यङ्कस्य दक्षतः। इन्द्रगेहे च शतकं विधिविद्याफलप्रदम्। धर्मगेहे शून्यसप्तयुगलं विलिखेत् बुधः। अनन्तमन्दिरे नाथ! शून्याष्टवसुरेव च। कालीगृहे शून्यवेदरामाङ्कं विलिखेत्ततः। धूमावतीमन्दिरे च शून्यखेषुनिशापतीन्। इन्द्राधो दक्षतो लेख्या अङ्काश्चन्द्राधिदेवता। शून्यषष्ठचन्द्रयुक्तं सर्वत्र दक्षतो लिखेत्। तथाश्विनीकुमारौ च शून्यान् नयुगमेरुकौ। तत्पश्चात् सूर्यगेहे च सहस्राक्ष समन्वितम्। तारिणीमन्दिरस्थाङ्कं शून्यवेदपडात्मक्रम्। वगलामुखीगेहस्थं शून्याष्टचन्द्रसंयुतम्। ततश्चन्द्रगृहस्याधो वायुगेहं मनोरमम्। रन्घ्रवेदात्मकं गेहं सर्वसिद्धिप्रदायकम्। राहुगेहं महापापं शून्य शून्यमणिप्रियम्। पश्चादर्कगृहस्थञ्च खशून्ययुगलात्मकम्। षोडशीमन्दिरे शून्यषष्ठचन्द्रसमाहितम्। मातङ्गीमन्दिरे शून्यरन्ध्रचन्द्रसमन्वितम्। वायोरधोवरुणस्य गृहं सप्तशशिप्रियम्। तारिणीगेहमध्ये च शून्याष्टकसमन्वितम्। बुधगेहस्थिताङ्कञ्च शून्यचन्द्र युगात्मकम्। भुवनेशीमन्दिरस्थं शून्याष्टचन्द्रमण्डलम्। प्रत्यङ्गिरामन्दिरस्थं शून्यषष्ठशशिप्रियम्। वरुणाधः कुवेरस्य गृहस्थं षष्ठयुम्मकम्। आनन्दभैरवीगेहे दशकं परिकीर्तितम्। धरणीगृहमध्ये च शून्ययुग्मेन्दुसंयुतम्। भैरवीगृहमध्यस्थं शून्यं युगलचन्द्रकम्। बालागृहस्थं शून्यर्षिचन्द्रमण्डलसंयुतम्। कुवेराधः सुखं चक्रस्थिताङ्कं सर्वसिद्धिदम्। ईश्वरस्य गृहस्थञ्च सप्तशून्ययुगात्मकम्। तिरस्करिण्या गेहस्थं सहस्राङ्कसमन्वितम्। किङ्किणीमन्दिरं पश्चादष्टचन्द्रसमन्वितम्। छिन्नमस्तागृहं पश्चात् शून्याष्टचन्द्र मण्डलम्। वागीश्वरीगृहं पश्चात् खसप्तचन्द्रमण्डलम्। महाफलप्रदातारं धर्मं क्षरति तस्य न। ईश्वरस्य ह्यधोगेहे वटुकस्य गृहं ततः। शून्याष्टमाद्यं स्वगृहं धर्मार्थकाममोक्षदम्। तत्पश्चात् डाकिनीगेहं खशून्य मुनिसंयुतम्। हन्ति साधकमुख्यं हि क्षणादेव न संशयः। स्वगृहे स्वीयमन्त्रस्य फलदं परिकीर्तितम्। भीमादेवी गृहं पश्चात् खसप्तचन्द्रमण्डलम्। भयदं सर्वदेशे तु वर्जयेत्तु गृहान्तरम्। लक्षवर्णं लिखेत् शेषगृहयोः पण्डितोत्तमः। इन्द्रगेहावधि धीरो ककारादिकवर्णकम्। क्षकारान्तं लिखेत् तत्र गणयेत् साधकोऽन्ततः। पूरकाङ्कमूर्द्ध्वदेशे हारकाङ्कमधोलिखेत्। निजनामाक्षरं यत्र तत्कोष्ठाङ्कं महेश्वर!। नीत्वा च पूरयेद्विद्वान् स्वस्वगेहोर्द्ध्वदेशकैः। अङ्कैस्ततो हरेन्नाथ! अधोऽङ्के हार्यशेषकम्। विस्तारश्चेद्देवतानां तदङ्कः शुभदः स्मृतः। अल्पस्त्वशुभदः प्रोक्तः साधकस्यासुखावहः। एकाक्षरे महासौख्यं तत्रापि गणयेन्न च। स्वीयाङ्कः शून्यगामी च देवताङ्कं ततः प्रभो!। तदा नैव शुभं विद्यादशुभाय प्रकल्प्यते। एके धनमवाप्नोति द्वितीये राजवल्लभः। तृतीये जप्यसिद्धिः स्यात् चतुर्थे मरणं ध्रुवम्। पञ्चमे पञ्चवाणः स्यात् षष्ठे दुःखोत्कटानि च। देवानां शक्तिवर्गाणामित्यङ्काः परिकीतिताः। वैष्णवानां विशेषो-ऽत्र पञ्चमाङ्को निषेधकः। येषां यासां देवतानामिच्छा तिष्ठति चेतसि। तन्मन्त्रग्रहणादेव अष्टैश्वर्ययुतो भवेत्। यद्देवताश्रिताये तु तद्गृहाङ्कं हरन्ति ते। ऊर्द्ध्वाङ्केन पूरयित्वाह्यधोङ्केन हरेत् सदा”।

देवचर्य्या = स्त्री ६ त०। १ दवचरिते अद्भुते २ देवार्थं चरणे होमादौ च “श्रिया युतमनिर्देश्यं देवचर्योपशोभितम्” (आश्रमम्) मा० व० १४५ अ०।

देवचिकित्सक = पु० द्वि० व० ६ त०। स्वर्वैद्ययोरश्विनीकुमारयोः हला०। आयुर्वेदशब्दे ७७९ पृ० तयोस्तथात्वकथा दृश्या। २ द्वित्वसंख्यायां तदधिष्ठातृके ३ अश्विनीनक्षत्रे च

देवच्छन्द = पु० देवैश्छन्द्यते प्रार्थ्यते छन्द–कर्मणि घञ्। शतयष्टिके हारे अमरः। “शतमष्टयुतं हारो देवच्छन्दोह्यशीतिरेकयुता” वृह० सं० उक्ते २ हारे च।

देवच्छन्दस = न० देवप्रियं छन्दः टच् समा०। वैदिके श्रोत्रिये छन्दोभेदे।

देवज = त्रि० देवाज्जायते जन–ड। १ देवजाते २ सामभेदे न०। “तस्मादाहुः सत्यं साम देयजं सामेति” शत० ब्रा० ३। ४। २। १६। कृशाश्वसहोदरे सूर्यवंश्ये ३ संयमनृपपुत्रभेदे पु०। “तत्पुत्रात् संयमादासीत् कृशाश्वः सहदेवजः” भाग० ९। २। २२ देवजेन सह वर्त्तमानः कृशाश्वः। सूर्यसम्पादिते ४ ऋतौ पु० “सप्तथमाहुरेकजं षडिद् यमा ऋषयो देवजाः” ऋ० १। १६४। १५। “सप्तानामृतूनां मध्ये सप्तथं सप्तममृतुम्। “थट् च छन्दसि” पा० इति थट्। एकजमेकेनोत्पन्नमाहुः कालतत्त्वविदः। चैत्रादीनां द्वादशानां मासानां द्वयमेलनैन वसन्ताद्याः षडृतवो भवन्ति। अधिकमासेनैक उत्पद्यते सप्तमर्तुः। न च तादृशो मास एव नास्तीति मन्तव्यम्। “अस्ति त्रयोदशो मास इत्याहुरिति” श्रुतेः। तदेवोच्यते। षडिद् यमाः। इच्छब्द एव कारार्थः। षडेव ऋतवो मासद्वयरूपा ऋषयो गन्तारः। ते च देवजाः। देवादादित्याज्जाता इत्येवमाहुः। सप्तमधारस्य त्रयोदशस्य मासस्य देवाभावः। “निः सूर्य्योऽधिकमासो हि मण्डलं तपते रवेरित्यादि” स्मृतेः। तस्मात् षडेय देवजाः अदेवज एकः” भा० सूर्यसंक्रान्तिरहितत्वान्निःसूर्यकत्वं तेन ऋतूनां चान्द्रत्वमपि गम्यते।

देवजग्ध = त्रि० ६ त०। १ देवभक्षिते २ कर्त्तृणे न० हेमच० अल्पार्थे कन्। देवजग्धकम् अल्पकर्त्तृणे अमरः।

देवजन = पु० देवरूपोजनः। देवरूपे जने “भक्षयित्वाभ्यात्ममपः स्वुचा निनयते त्रिः सर्वदेवजनेभ्य। स्वाहेति” आश्व० श्रौ० २। ४। १२। देवानां जनः। २ उपदेवे तदुपकरणभूते गन्धर्वादौ।

देवजनविद्या = स्त्री ६ त०। गन्धर्वविद्यायां नृत्यगीत्यादौ शब्दार्थचि०।

देवजात = त्रि० १ देवेभ्यो जातः। देवेभ्यो जाते “यद्वाजिनो देवजातस्य सप्तेः” ऋ०। २६२। १६ त०। २ देवानां गणे न० “यान्येतानि देवजातानि गणश आख्यायन्ते वसवो रुद्रा आदित्या विश्वेदेवा मरुतः इति” शत० ब्रा० १४। ४। २। २६

देवजामि = स्त्री देवानां जामिरिव। १ देवबन्धौ “अयामि घोष इन्द्र! देवजामिरिरज्यन्त” ऋ० ७। २३। २ “देवजामिर्देवानां बन्धुः” भा०। ६ त०। २ देवानां वध्वां च “विद्म ते स्वप्न! जनित्रं देवजामीनां पुत्रोऽसि यमस्य करणः” अथ० ६। ४६। २

देवट = त्रि० दिव–अटन्। शिल्पिनि उणादिकोषः

देवट्टी = स्त्री देवं देवशब्दमट्टते अतिक्रामति अट्ट–अण् उप० स० शक० गौरा० ङीष्। गङ्गाचिल्ल्याम् हारा०।

देवतर = त्रि० अतिशयेन देवः दीप्तः देवको वा तरप्। १ अतिशयदीप्ते २ अतिदेवके च ततः शुभ्रा० ढक्। दैवतरेय तदपत्ये पुंस्त्री० स्त्रियां ङीप्।

देवतरु = पु० देवप्रियस्तरुः। १ मन्दारादिवृक्षे “पञ्चैते देवतरवः मन्दारः पारिजातकः। सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम्” अमरः २ चैत्यवृक्षे च शबार्थचि०

देवता = स्त्री देव + स्वार्थे तल् “क्वचित् स्वार्थिका अपि प्रत्ययाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते” भाष्योक्तेः पुंस्त्वातिक्रमेण स्त्रीत्वम्। देवे निर्जरे। देवतात्वञ्च “वेदमेयत्यागोद्देश्यत्वम् उद्देश्यत्वञ्च तस्येदमित्यारोपज्ञानविषययत्वमिति” श्राद्धविवेकः। तच्च मन्त्रस्तुत्यत्वं वा। तदुभयं पितॄनामप्यस्तीति श्राद्धादौ तेषां देवतात्वम्। मन्त्रेण द्योत्यत्वं वा देवतात्वं यथाह ऋग्वेद भाष्योपोद्घाते माधवः “तथा देवनार्थदीव्यतिधातुनिमित्तो देवशब्द इत्येतदाम्नायते। “देवनाद्वैदेवोऽभूदिति तद्देवानां देवत्वमिति”। अतो दीव्यतीति देवः मन्त्रेण द्योत्यत इत्यर्थः। “यस्य यस्य तु मन्त्रस्य उद्दिष्टा देवता तु या। तदाकारं भवेत्तस्य देवत्वं देवतोच्यते” योगियाज्ञ०। वैदिकमन्त्रभेदे देवताभेदाः सर्वानुक्रमिकायामुक्तास्ततएवावसेयाः। तन्मूलं हेमा० ब्र० ख० उक्तमिह विस्तरभयानोद्धृतम्। मन्त्राणां तज्ज्ञाने फलमज्ञाने निन्दामाह हेमा० ब्र० योगियाज्ञ“आर्षं छन्दो दैवतञ्च विनियोगस्तथैव च। वेदितव्यं प्रयत्नेन व्राह्मणेन विशेषतः। अविदित्वा तु यः कुर्याद् यजनाध्ययनं जपम्। होममन्तर्जले दानं तस्य चाल्पफलं भवेत्”। तथा “यो विजानाति मन्त्राणामार्षं छन्दश्च दैवतम्। विनियोगं व्राह्मणञ्च मन्त्रार्थं ज्ञानकर्म च। एकैकस्य ऋषेः सोऽपि वन्द्योह्यतिथिवद्भवेत्। देवतायाश्च सायुज्यं गच्छत्यत्र न संशयः। पूर्वोक्तेन प्रकारेण ऋष्यादीन् वेत्ति यो द्विजः। अधिकारो भवेत्तस्य रहस्यादिषु कर्मसु”। ब्राह्मणेन मन्त्रेतरवेदभागेन सह वेदितव्यमित्यर्थः उत्तरत्र विनियोगव्राह्मणयोर्ज्ञेयतया निर्देशात्। तन्निरुक्तिरपि तेनैवोत्तरत्र दर्शिता यथा “नैरुक्त्यं यस्य मन्त्रस्य विनियोग प्रयोजनम्। प्रतिष्ठानं स्तुतिश्चैव ब्राह्मणं तदिहोच्यते। एवं पञ्चविधं योगं जपकाले ह्यनुस्मरेत्। होमे चान्तर्जले योगे स्वाध्याये यजने तथा” इति। २ प्रदेयद्रव्यस्याधिपतौ च दानशब्दे ३५१९ पृ० तद्विशेषो दृश्यः। देवताभेदाश्च निरुक्ते दैवतकाण्डे उक्ता यथा

“अग्न्यादिदेवपत्न्यन्तं देवताकाण्डमुच्यते। वाय्वादयो भगान्ताः स्युरन्तरिक्षस्थदेवताः। सूर्य्यादिदेवपत्न्यन्ता द्युस्थाना देवता इति”। त्रयस्त्रिंशत्पतिशब्दे ३३५९ पृ० देवतानां प्राधान्यतस्त्रयस्त्रिं शत्त्वमुक्तं किन्तु स्वस्वगणपत्नीसहितानां तासां त्रयस्त्रिंशत्कोटिसंख्यात्वं यथोक्तं पद्मपु० उत्तरख० “सदारा विबुधाः सर्वे स्वानां स्वानां गणैः सह। त्रैलोक्ये ते त्रयस्त्रिंशत्कोटिसंख्यतयाऽभवन्”। तेषां गणभेदाश्च गणदेवताशब्दे २५०२ पृ० उक्ताः दृश्याः। तन्मध्येऽधिकारिभेदेन देवताभेदा यथा “या यस्याभिमता पुंसः सा हि तस्यैव देवता। किन्तु कार्य विशेषेण पजिता चेष्टदा नृणाम्। विशेषात् सर्वदा नायं नियमोह्यन्यथा नृप!। नृपाणां दैवतं विष्णुस्तथैव च पुरन्दरः। विप्राणामग्निरादित्यो ब्रह्मा चैव पिनाकधृक्। देवानां दैवतं विष्णुर्दानवानां त्रिशूलभृत्। गन्धर्वाणां तथा सोमो यक्षाणामपि कथ्यते। बिद्याधराणां वाग्देवी साध्यानां भगवान् हरिः। रक्षसां शङ्करो रुद्रः किन्नराणाञ्च पार्वती। ऋषीणां दैवतं व्रह्मा महादेवश्च क्षूलभृत्। मनूनां स्यादुमा देवी तथा विष्णुः समास्करः। गृहस्थानाञ्च सर्वे स्युर्ब्रह्मा वै ब्रह्मचारिणाम्। वैखानसस्याम्बिका स्याद् यतीनाञ्ज महेश्वरः। नतानां भगवान् रुद्रः कुष्माण्डानां विनायकः। सर्वेषां भगवान् ब्रह्मा देवदेवः प्रजापतिः। इत्येवं भग- वान् व्रह्मा स्वयं देवोऽभ्यभावत” इति कूर्म० पु०। देवानां वर्णभेदा भा० शा० मोक्षधर्मे “आदित्याः क्षत्रियास्तेषां विशश्च मरुतस्तथा। अश्विनौ च स्मृतौ शूद्रौ तपस्युग्रे समास्थितौ। स्मृतास्त्वाङ्गि रसा देवा ब्राह्मणा इति निश्चयः। इत्येतत् सर्वदेवानां चातुर्वर्ण्यं प्रकीर्तितम्”। वैष्णवानां गणेशाद्यनन्तरं सनकादिवैष्णवानां पूज्यत्वेन देवतात्वमुक्तं यथा

“यत्र यत्र सुराः पूज्या गणेशाद्यास्तु कर्मिणाम्। विष्ण्वर्चने तत्र तत्र वैष्णवानां हि वैष्णवाः। विश्वक् सेनं ससनकं सनातनमतःपरम्। सनन्दं सनत्कुमारञ्च पञ्चैवं पूजयेत्ततः” पद्म० उत्तरख०। देवषट्कं यथा “गणेशञ्च दिनेशञ्च वह्निं विष्णुं शिवं शिवाम्। देवषट्कञ्च संपूज्य नमस्कृत्य विचक्षणः” ब्रह्म० वै० प्रकृ०। मासविशेषे देवतामेदपूजा मन्त्रमहोदधावुक्ता यथा

“अन्येष्वप्युपरागार्द्धोदययाम्यायनादिषु। कुर्यादलभ्ययोगेषु विशेषाद्देवतार्चनम्। यथा यथेष्टदेवेषु नृणां भक्तिः समेधते। प्राप्यते तैरयत्नेन मनोऽभीष्टं तथा तथा। शुचौ तत्तदहे कुर्याद्देवप्रस्वपनोत्सवम्। ऊर्जे तथैव देवानामुत्थापनविधिं सुधीः। माघकृष्णचतुर्दश्यां विशेषाच्छिवपूजनम्। आश्विनाद्यनवाहेषु दुर्गा पूज्या यथाविधि। गोपालं पूजयेद्विद्वान्नभःकृष्णाष्टमीदिने। रामं चैत्रे सिते पक्षे नवम्यामर्चयेत् सुधीः। वैशाखाद्य चतुर्दश्यां नरसिंहं प्रपूजयेत्। यजेच्छुक्लचतुर्थ्यान्तु गणेशं भाद्रमाघयोः। महालक्ष्मीं यजेद्विद्वान् भाद्र कृष्णाष्टमीदिने। माघस्य शुक्लसप्तम्यां विशेषाद्दिनभायकम्। या काचित् सप्तमी शुक्ला रविवारयुता यदि। तस्यां दिनेशं संपूज्य दद्यादर्घ्यं पुरोदितम्। तत्तत्कल्पोदितानन्यान् देवताप्रीतिवर्द्धनान्। विशेषनिग्रमान् कृत्वा भजेद्देवमनन्यधीः। आषाढीकार्त्तिकीमध्ये किञ्चिन्नियममाचरेत्। देवसम्प्रीतये विद्वान् जप पूजादितत्परः। एवं यो भजते विष्णुं रुद्रं दुर्गां गणाधिपम्। भास्करं श्रद्धया नित्यं स कदाचिन्न सीदति”।

देशनादेशितचतुर्थ्यन्तपदनिर्देश्यत्वं देवतात्वम् अग्मये स्वाहेत्यादिमन्त्रएव देवतेति मीमांसकाः। तन्मतञ्च पूर्वपक्षविधया शब्दचि० उक्ता दूषितं तच्च अविग्रहशब्दे ४५६ पृ० दर्शितम्। देवतानां चैतन्ये विग्रहवत्वे वा मन्त्राणामेव देवतात्वं श्राद्धवि० समर्थितं यथा “विग्रहवत्वं चेन्द्रादीनामपि तिर्यगधिकरणे दर्शितं देत- तात्वं हि तथाविधानां नेष्टमिति। नन्विन्द्रादीनां विग्रहवत्त्वे किं प्रमाणम्? अर्थवाद इति चेन्न तस्य सिद्धेऽर्थेऽप्रामाण्यात्। कथं वा विग्रहवतामदेवतात्वम्? ऐन्द्रं हविरित्यादौ तद्धितादिभिः प्रकृत्यर्थस्य देवतात्वबोधनात् इन्द्रादिपदानि च सहस्रचक्षुरादिमतीषु व्यक्तिषु मुख्यानि मन्त्रपरत्वे लक्षणाप्रसङ्गात्। उच्यते ऐन्द्रादिपदकामाधिकारिकविधिवाक्यस्थकामिश्रुतिरत्र प्रमाणम् अन्यथा स्वर्गिशरोरेऽप्यनाश्वासः स्यात्। यत्राप्यर्थवादादैन्द्रादिपदप्राप्त्यवगतिः तत्रापि तत्फलपरत्वे रात्रिसत्रन्यायएव प्रमाणं विग्रहवतामिन्द्रादीनां सन्निधानस्य प्रत्यक्षबाधितत्वेन तथाविधानां पूज्यत्वासम्भवात् अगत्या तदाकारतया ध्यातस्य मन्त्रस्य लक्षितस्य देवतात्वमिति रहस्यम्। इन्द्राकारतया ध्यानादिन्द्रप्रीतिरभ्युपपन्ना। तथा च योगियाज्ञवल्क्यः “यस्य यस्य तु मन्त्रस्य उद्दिष्टा या च देवता। तदाकारं भवेत्तस्य देवत्वं देवतोच्यते” इति। ननु देवानां विग्रहवत्त्वे तेषामेवाराधितानां फलदातृत्वं कुतो न भवेत्? अलमपूर्वकल्पनया। तथा च भविष्यपुराणे “यद्यद्द्रव्यं नरोऽमृष्टमादित्याय प्रयच्छति। तत्तस्य शतसाहस्रमुत्पादयति भास्करः” याज्ञवल्क्यः “आयुः पूजां घनं विद्यां स्वर्गं मोक्षं सुखानि च। प्रयच्छन्ति तथा राज्यं प्रीता नृणां पितामहाः”। तथा च देवताधिमरणसिद्धान्तविरोधः स्यात्। उच्यते देवानामिन्द्रादीनां पितॄणां वस्वादीनां युगमन्वन्तरादिभेदेन नानात्वावगमात् फलोदयकाले पूर्वस्य च्युताधिकारत्वेन फलदातृत्वाशक्तेः। अन्यस्य चानाराधितत्वेन फलदातृत्वायोगात् तत्रापूर्वे शब्दशक्तौ वाचकशब्दसद्भावात् सर्वत्रैव तदभिघानम् अतएव काम्ये कॢप्तशक्तिर्लिङादिर्नित्ये निषेधे चापूर्वमाहेत्युक्तम्। एवञ्चापूर्बानुप्रवेशात् सहकारितया यदि देवतापि फलदात्री न क्वचित् कोऽपि विरोधः”।

देवताजित् = पु० देवतां जयति जि–क्विप्। १ देवजयिनि असुरादौ भरतपुत्रसुमतेः २ पुत्रभेदे च “भरतस्यात्मजः मुमतिर्नाम” इत्युपक्रमे “तस्माद्वृद्धसेनायां देवताजिन्नाम पुत्रोऽभूत्” भाग० ५। १५। २।

देवताड = पु० देवः दीप्तः तालः डस्य लः। (देताड) ख्याते १ वृक्षे अमरः। २ घोषकलतायाम् विश्वः। देवौ आदित्यचन्द्रौ ताडयति ताडि अण उप० स०। ३ राहौ। देवनाय दीपनाय ताड्यतेऽसौ ताडि–कर्मणि अच्। ४ वह्नौ च मोद०। तस्यीद्दीपनाय ताड्यमानत्वात् तथा- त्वम्। देवताडक स्वार्थे क। देवताडवृक्षे रत्नमाला।

देवतात = पु० तन–क्त वा ङा। ततएव तातः स्वार्थे अण् वा देवार्थं तते १ यज्ञे निघ० “एवा देव देवताते पवस्व” ऋ० ९। ९७। २७। ६ त०। २ देवजनके कश्यपे च। तेनादित्यामादित्यादीनामुत्पादनात्तथात्वम्। ३ मरीच्यादिषु “एते (मरीच्यादयः) मनूंस्तु सप्तान्यानसृजन् भूरितेजसः। देवान् देवनिकायांश्च महर्षींश्चामितौजसः” मनुः। ४ हिरण्यगर्भे च “कर्भात्मनां च देवानां सोऽसृजत् प्राणिनां प्रभुः। साध्यानाञ्च गणं सूक्ष्मम्” मनुः।

देवताति = पु० देव + स्वार्थे तातिल्। देवे “स आवह देवतातिं यविष्ठ!” ऋ० ३। ४९। ४ देवतातिं देवं स्वार्थे तातिल्” भा०

देवताधिकरण = न० देवता कर्मसु तदधिकारित्वमनधिकारित्वं वाधिक्रियते विचार्यतेऽत्र अधि + कृ–आधारे ल्युट्। देवतानां यज्ञादावधिकारित्वतदभावयोरन्यतरसाधके न्यायभेदे। यज्ञादौ देवतानामनधिकारः इति मीमांसकाः। तच्च जै० सू० भाष्ययोर्दर्शितं यथा

“फलार्थत्वात् कर्मणः शास्त्रं सर्वाधिकारं स्यात्” सू० “इदमामनन्ति, दर्शपूणमासाभ्यां स्वर्गकामी यजेत, ज्योतिष्टोमेन स्वर्गकामो यजेत” इत्येवमादि। तत्र सन्देहः किं यावत्किञ्चित् सत्वं, तत् सर्वम् अधिकृत्य एतदुच्यते, उत समर्थम् अधिकृत्य? इति। किं प्राप्तम्? सर्वाधिकारः, अविशेषात्। ननु वृक्षादयो न किञ्चित् कामयन्ते, कथम् तेषाम् अधिकारः स्यात्? उच्यते, मा भूत् अचेतनानाम्, तिरश्चस्तु अधिकृत्य यजेत इति ब्रूयात्। ननु तिर्यञ्चोऽपि न किञ्चित् कामयन्ते। न इति ब्रूमः, कामयन्ते सुखम्, एवं हि दृश्यते, घर्म्मोपतप्ताः छायाम् उपसर्पन्ति, शीतेन पीडिताः आतपम्। आह, ननु तिर्यञ्च आसन्नं फलं चेतयन्ते, न कालान्तरफलं प्रार्थयन्ते, कालान्तरफलानि च कर्माणि। उच्यते, कालान्तरेऽपि फलं कामयमाना लक्ष्यन्ते, शुनः चतुर्दश्याम् उपवसतः पश्यामः, श्येनांश्च अष्टम्याम। न चैषां व्याध्याशङ्का, नियतनिमित्तत्वात्, न अनाहाराणामपि तस्मिन् काले दर्शनात्, समानाहाराणामपि अन्यस्मिन् काले अदर्शनात्। लिङ्गानि च वेदे भवन्ति, देवा वै सत्रमासत इत्येवमादीनि “देवतानाम् ऋषीणां वनस्पतीनाम् अधिकारं दर्शयन्ति। ननु कात्स्न्येन विधिम् उपसंहर्तुम् न शक्नुवन्ति इति अनधिकृताः। उच्यते, यागं कर्तुम् शक्नुवन्ति केचित्, तस्मात् यजेत इत्येवमादीनि अधिकरिष्यन्ति शक्नुवतः, विष्णुक्रमादिवचनानि तु अशक्तान् न अधिकरिष्यन्ति। तत्र योऽनुपदिष्टविष्णुक्रमादिकः स केवलं यागं करिष्यति, कः तस्य दोषः?। द्रव्यपरिग्रहोऽपि देवग्रामः, हस्तिग्रामः, ऋषभस्य ग्रामः इति उपचारात् अस्त्येव तस्मात् अमनुष्याणामपि शक्नुवताम् अधिकार इति” भा० “कर्तुर्वा श्रुतिसंयोगाद्विधिः कात्स्न्येन गम्यते” सू० वाशब्दः पक्षं व्यावर्तयति। न चैतदस्ति, तिर्यगादीनामपि अधिकारः इति। कस्य तर्हि?। यः समर्थः कृत्स्नं कर्म अभिनिर्वर्त्तयितुम्। न चैते, शक्नुवन्ति तिर्य्यगादयः कृत्स्नं कर्माभिनिर्वर्तयितुम्, तस्मात् एषां न सुखस्याभ्युपायः कर्म इति, कथं यो न शक्यते कर्तुम्, सोऽभ्युपायः स्यात्? इति। न देवानां, देवतान्तराभावात्, न हि आत्मानम्, उद्दिश्यत्यागः सम्भवति, त्याग एवासौ न स्यात्, न ऋषीणाम्, आर्षेयाभावात्, न भृग्वादयो भृग्वादिभिः सगोत्रा भवन्ति, न चैषां सामर्थ्यं प्रत्यक्षम्” (देवानां देवतान्तरभावादिति येषां शब्द एव देवताभिप्रेता, तेषामयमप्ययुक्तो ग्रन्थः, शक्यते हीन्द्रेणापीन्द्रशब्दोच्चारणेन हविस्त्यक्तुम्। तस्मात् अर्थमेव देवतामभिप्रेत्य एतद्भाष्यमिति तन्त्ररत्नम्)। यानि पुनर्लिङ्गानि, देवा वै सत्रमासत इत्येवमादीनि, अर्थवादाः ते विधिप्ररोचनार्थाः। विद्यते हि विधिरन्यः तेषु सर्वेषु, न च विधेर्विधिनैकवाक्यभावो भवति, वचनव्यक्तिभेदात्। स्तुतिस्तु सा, इत्थं नाम सत्राणि आसितव्यानि, यत् कृतकृत्या अपि आसते देवाः आसन्नचेतना अपि तिर्यञ्चः, अचेतना अपि वनस्पतयः, किमङ्ग पुनर्विद्वांसो मनुष्याः” भा०

देवानामधिकारित्वं विशेषतो ब्रह्मविज्ञानेऽधिकारित्वमिति वेदान्तिनः तच्च शा० सू० भाष्याभ्यां समर्थितम् तच्च अविग्रहशब्दे ४५५ पृ० दृश्यम्।

देवतानुक्रम = ६ त०। देवानामुद्देशे “नामधेयानि मन्त्रश्च दक्षिणाश्च व्रतानि च। देवतानुक्रमः कल्पः संकल्पस्तन्त्रमेव च” भाग० २। ६। २६

***