दिश = दाने आज्ञापने कथने च तु० उभ० सक० अनिट्। दिशति ते अदिक्षत् त दिदेश देष्टा दिष्टः दिष्टिः। दिष्ट्वा आदिश्य “साक्षिणः सन्ति मेत्युक्त्वा दिशेत्युक्तो दिशेन्न यः” मनुः। दाने “इष्टां गतिं तस्य सुरा दिशन्ति” भा० आनु० १८४३ श्लो० आज्ञापने “महादेवेन दिष्टं ते पुत्रजन्म नराधिप!” भा० व० १०६ अ०। “दिदेश तस्मै प्रयतां तनूजाम्” कुमा०।अति + स्वविषयमुल्लङ्घ्यान्यविषये उपदेशे सक० अतिदेशशब्दे १०० पृ० दृश्यम्। “यथाकालोपपाते तद्दैवते तद्दैवतं हुत्वा तद्वातिदिश्यानेन जुहुयात्” कात्या० श्रौ० २५। २। ४ उपदेशे च। “इत्यर्चितः स भगवानतिदिश्यात्मनः पदम्” भाग० ४। ९। २८।अनु + पश्चात्कथने। “यज्ञं देवेभ्योऽनुदिशति” तैत्ति० स०१। ५। ४। ३ “रामश्चाप्यनुदिश्यताम्” रामा० लङ्का० ८९ स०अप + छलने यथार्थाह्नवे अपदेशशब्दे दृश्यम्। “पश्चिमक्रतुविदा पुरोधमा रोगशान्तिमपदिश्य मन्त्रिणः। सम्भृते शिखिनि गूढमादधुः” “तस्य निर्दयरतिश्रमालसाः मित्रकृत्यमपदिश्य पार्श्वगाः” रघुः।वि + अप + संज्ञाभेदे “भ्रातरं राजराजानं महेश्वरसखं प्रभुम्। धनेश्वरं व्यपदिशन्” भा० व० २८० अ०। “मित्रं च मां व्यपदिशस्यपरं च यासि” मृच्छक० “ईश्वर इति व्यपदिश्यते” वेदा० सा० “निमित्तसद्भावाद्विशिष्टोऽपदेशोऽमुख्यव्यवहारोव्यपदेशः” परिभाषेन्दुशेखरोक्तेऽर्थे।अभि + अभिमुखीकृत्योपदेशे। “यां यामभ्यदिशत् सैनमकामयत” पञ्चभीष्मब्रा० १२। ११।आ + आज्ञायाम् उपदेशे “अथात आदेशो नेति” वृ० उ० “आदिक्षदादीप्तकृशानुकल्पम्” भट्टिः। आदेशशब्दे २१९ पृ० उक्ते अर्थे च “धातोः स्थाने इवादेशम्” रघुः।अनु + आ + पश्चादादेशे उपदेशे च अन्वादेशशब्दे २१९ पृ० उक्ते अर्थे च।प्रति + आ + निराकरणे “प्रत्यादेशो निराकृतिः” अमरः “ऋजु प्रणामक्रिययैव तन्वी प्रत्यादिदेशैनमभाषमाणा” “अन्तः शरीरेष्वपिंयः प्रजानां प्रंत्यादिदेशाविनयं विनेता” रघुः “किमहमेतं जलधरममयं न प्रत्यादिशामि” विक्र०वि + आ + विशेषेणादेशे। “समीरणः प्रेरयिता भवेति व्यादिश्यते केन हुताशनस्य” कुमा०सम् + आ + सम्यगादेशे। “समादिदेशैकवधूर्भवित्री” कुमा०।उद् + स्वरूपकथने “उद्देशीलक्षणं विभागः परीक्षा चेति” न्यायसमयः। उद्देशशब्दे ११७० उक्तेऽर्थे च। तच्छब्दे उदा० प्रश्ने उद्देशकशब्दे दृश्यम्।उप + अनुशासने उपदेशशब्दे १२१० पृ० उक्तेऽर्थे च। “उपदिशति कामिनीनां यौवनमद एव ललितानि” सा० द० “उपदिष्टमिहेच्छामि तापस्यं वीतकलमषाः” भा० उ० १७४ अ०प्रति–उप + उपदेशस्य प्रतिरूपोपदेशे “व्याघिं प्रति प्रत्युपदेक्ष्यामः” सुश्रु० “यद्यत्प्रयोगविषये भाविकमुपदिश्यते मया तस्यै। तत्तद्विशेषकरणात् प्रत्युपदिशतीव मे वाला” माला० मिनिर् + निर्णयेन देशने कथने च “अतुषत् पीठमासन्ने निरदिक्षच्च काञ्चनम्” भट्टिः उच्चांरणे च “निर्दिश्यमानस्यादेशा भवन्ति” व्या० परिभाषा “षष्ठ्यन्तं निर्दिश्यमानमुच्चार्यमाणम्” नागेशभट्टः।प्रति + निध + प्रकृतानुरूपनिर्देशे। “तदिति प्रकृतं भावलक्षणं प्रतिनिर्दिश्यते”। येन पदेन उद्देशस्तेनैव पदेन पनःकथने। उद्देश्यप्रतिनिर्द्देश्ययोरेकपटप्रतिपाद्यत्वेऽपि न कथितपदत्वदोषः अन्यपदेन निर्द्देशे तु प्रत्युत भग्नप्रक्रमतादोषः यथाह सा० द० “एवमुक्तो मन्त्रिमुख्यैरावणः प्रत्यभाषत” अत्र वचधातुना प्रक्रान्तं प्रतिवचनमपि तेनैव वक्तुमुचितं तेन रावणः प्रत्यवोचतेति पाठो युक्तः। एवञ्च सति न कथितपदत्वदोषः तस्योद्देश्यप्रतिनिर्देश्यव्यतिरिक्तविषयत्वात्। इह हि वचनप्रतिवचनयोरुद्देश्यप्रतिनिर्देश्यत्वं यथा “उदेति सविता ताम्रस्ताम्र एवास्तमेति च” इत्यत्र। यदि पदान्तरेण स एवार्थः प्रतिपाद्यते तदान्योऽर्थ इव प्रतिभासमानः प्रतीतं स्थगयति। यथा वा “ते हिमालयमामन्त्र्य पुनःप्रेक्ष्य च शृलिनम्। सिद्धञ्चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः” अत्र अश्मै- इति इदमा प्रक्रान्तस्य तेनैव तत्समानाभ्यामेतददःशब्दाभ्यां वा परामर्शो युक्तो न तच्छब्देन। यथा वा “उद्वन्वच्छिन्ना भूः स च पतिरपां योजनशतम्” अत्र “मिता भूः पत्यापां स च पतिरपामिति” युक्तः पाठः।प्रति + प्रतिरूपदेशने। “भुजगगतिप्रतिदेशितात्मकृत्यः” भा० शा० ३६७ अ०सम् + सम्यक्कथने सम्यक्तयादेशे वाचा कथने च “अभिदूति काचिदिति संदिदिशे” माथः “ननु सन्दिशेति सुदृशोदितया त्रपया न किञ्चन किलाभिदधे” माघः “ददौ स दयितां भ्रात्रे मालाञ्चाग्र्यां हिरण्मयीम्। राज्यं सन्दिश्य भोगांश्च ममार व्रणपीडितः” भट्टिः “अथ विश्वात्मने गौरी सन्दिदेश मिथः सखीम्” कुमा०।

दिश् = स्त्री दिशति ददात्यवकाशं दिश–क्विन्। १ आशायाम् प्राच्यादिव्यवहारहेतौ काष्ठायाम्। “कृत्वैकमवधिं तस्मादिदं पूर्वञ्च पश्चिमम्। इति निर्दिश्यते देशो यया सा दिगिति स्मृतेति” उक्तेस्तस्या दैशिकपरत्वापरत्वा समवायिकारणत्वम्। सा चैका नित्या विभ्वी चेति “कालखात्मदिशां सर्वगतत्वं परमं महत्” भाषा०। दिक्परीक्षा च कलाद सूत्रोपस्करयोर्यथा

“इत इदमिति यतस्तद्दिश्यं लिङ्गम्” सू०। “काललिङ्गप्रकरणं समाप्य इदानीं दिग्लिङ्गप्रकरणमारभमाण आह। दिश इदं दिश्यं दिगनुमापकम् इतोऽल्पतरसंयुक्तसंयोगाश्रयादिदं बहुतरसंयुक्तसंयोगाधिकरणं परम् इतश्च संयुक्तसंयोगभूयस्त्वाधिकरणादिदं सयुक्तसंयोगाल्पीयस्त्वाधिकरणमपरमिति नियतदिग्देशयोः समानकालयोः पिण्डयोर्यतो द्रव्याद्भवति सा दिगित्यर्थः। न हि तादृश द्रव्यमन्तरेण भूयसां संयुक्तसंयोगानामल्पीयसां वा पिण्डयोरुपनयनायकमन्यदस्ति न च तदुपनयमन्तरेण तत्तद्विशिष्टबुद्धिः न च तामन्तरेण परत्वापरत्वयोरुत्पत्तिः न च तदुत्पत्तिं विना तद्विशिष्टप्रत्ययव्यवहारौ। न च काल एव संयोगोपनायकोऽस्तु किं द्रव्यान्तरेणेति वाच्यं कालस्य नियतक्रियोपनायकत्वेनैव सिद्धेः, अनियतपरधर्मोपनायकत्वकल्पनायान्तु काश्मीरकुङ्कुमपङ्करागं कार्णाटकामिनीकुचकलसं प्रत्युपनयेत् आकाशात्मनोरपि तथा परधर्म्मोपसंक्रामकत्वे म एव प्रसङ्गः, दिशस्तु अनियतपरधर्म्मोपसंक्रासकतयैव सिद्धत्वान्नातिप्रसङ्गः एवञ्च क्रियोपनायकात् कालात् संयोगोपनायिका दिक् पृथगेव। किञ्चास्मात् पूर्वमिदम् अस्माद्दक्षिणमिदम् अस्मात्पश्चिममिदम् अस्मादुत्तरमिदम् अस्माद्दक्षिणपूर्वमिदम् अस्माद्दक्षिणपश्चिममिदम् अस्म त्पश्चिमोत्तरमिदम् अस्मादुत्तरपूर्वमिदम् अस्मादधस्तादिदम् अस्मादुपरिष्टादिदम् इत्येते प्रत्यया इत इदमितीत्यनेन संगृहीताः एतेषां प्रत्ययानां निमित्तान्तरासम्भवात्। किञ्च नियतोपाध्युन्नायकः कालः अनियतोपाध्युन्नायिका दिक्, भवति हि यदपेक्षया यो वर्त्तमानः स तदपेक्षया वर्त्तमान एव, दिगुपाधौ तु नैवं नियमः यं प्रति या प्राची तं प्रत्येव कदाचित्तस्याः प्रतीचीत्वात् एवमुदीच्यादिष्वपि वाच्यम्, यदपेक्षया सूर्य्योदयाचलसन्निहिता या दिक् सा तदपेक्षया प्राची यदपेक्षया सूर्य्यास्ताचलसन्निहिता या दिक् सा तदपेक्षया प्रतीची, सन्निधानन्तु संयुक्तसंयोगाल्पीयस्त्वं ते च सूर्य्यसंयोगा अल्पीयांशो भूयांसो वा दिगुपनेयाः। एवं प्राच्यभिमुखपुरुषवामप्रदेशावच्छिन्ना दिगुदीची, तादृशपुरुषदक्षिणभागावच्छिन्ना दिक् दक्षिणा, वामत्वदक्षिणत्वे तु शरीरावयववृत्तिजातिविशेषौ। गुरुत्वासमवायिकारणकक्रियाजन्यसंयोगाश्रयोदिक् अधः। अदृष्टवदात्मसंयोगजन्याग्निक्रियाजन्यसंयोगाश्रयोदिगूर्द्ध्वा। एवञ्चेन्द्राग्नियमनिरृतिवरुणवायुसोमेशाननागब्रह्माधिष्ठानोपलक्षिता दश दिश इति व्यपदेशान्तरं प्राच्यादिव्यपदेशात्” उप० वृ०। “द्रव्यत्वनित्यत्वे वायुना व्याख्याते” सू०। दिशो द्रव्यत्वं नित्यत्वञ्च वायुपरमाणुवदित्याह। “गुणवत्त्वाद्द्रव्यत्वम् अनाश्रितत्वाच्च नित्यत्वमित्यर्थः” वृ०। एकत्वमतिदिशन्नाह। “तत्त्वम्भावेन” सू०। “दिग्लिङ्गाविशेषाद्विशेषलिङ्गाभावाच्च सत्त्वावदेकत्वं तदनुविधानादेकपृथक्त्वम्” वृ०। ननु यद्येकैव दिक् कथं तर्हि दश दिशं इति प्रतीतिव्यवहारावित्यत आह। “कार्य्यविशेषेण नानात्वम्” सू०। “कार्य्यविशेषः कार्य्यभेदस्तेन नानात्वोपचार इत्यर्थः” वृ०। तमेव कार्य्यभेदं दर्शयन्नाह। “आदित्यसंयोगाद्भूतपूर्वाद्भविष्यतो भूताच्च प्राची” सू०। “प्राक् अस्यां सविता अञ्चतीति प्राची तथाच यस्यां दिशि मेरुप्रदक्षिणक्रमेण भ्रमत आदित्यस्य प्रथमं संयोगो भूतपूर्वो भविष्यन् वा सा दिक् प्राची अत्र पुरुषाभिसन्धिभेदमाश्रित्य कालत्रयोपवर्णनम्, भवति हि कस्यचित्पूर्वेद्युः प्रातरस्यां दिशि आदित्यसंयोगः प्रथमं वृत्त इतीयं प्राचीति प्राचीव्यवहारः कस्यचिदपरेद्युरस्यां आदित्यसंयोगः प्रथमं भावीत्यभिसन्धाय प्राचीव्यवहारः कस्यचिदिदानीं अस्याम् आदित्यसंयोगो भवन्नस्तीत्यभिसन्धाय प्राचीव्यवहारः, भूतादिति आदिकर्म्मणि क्तप्रत्ययः तेनाभिसन्धेरनियमात् यदाप्यादित्यसंयोगो नास्ति रात्रौ मध्याह्नादौ तत्रापि प्राचीव्यवहारानुगमः सिद्ध्यतीति भावः” उप० वृ०। दिगन्तरव्यवहारेऽपीममेव प्रकारमतिदिशन्नाह “तथा दक्षिणा प्रतीची उदिची च” सू०। “तद्वदेव दक्षिणदिग्वर्त्तिनगादिना सहादित्यसंयोगाद्भूतपूर्वाद्भविष्यतो भूताद्वा दक्षिणव्यवहारः एवं प्रतीच्युदिच्योरपि व्यवहार उन्नेयः। वामत्वदक्षिणत्वे निरुक्ते एव” उप० वृ०। दिगन्तरालव्यवहारेऽपीममेव प्रकारमतिदिशन्नाह “एतेन दिगन्तरालानि व्याख्यातानि” सू०। “प्राचीदक्षिणयोर्दिशोर्लक्षणसाङ्कर्य्येण दक्षिणपूर्वादिगिति व्यवहारः एवं दक्षिणपश्चिमा पश्चिमोत्तरोत्तरपूर्वेत्यूह्यम् एते चादित्यसंयोगा येन विभुना द्रव्येणोपनीयन्ते सा दिगिति कणादरहस्ये व्युत्पादितं विस्तरतः” उप० वृ०। झलि पदान्ते च कुः। दिक्। “दिग्दक्षिणा गन्धवहं मुखेन”। “प्रसन्नदिक् पांशुविविक्तवातम्” कुमा०। सा चोपाधिभेदात् दशधा “पूर्वाग्नेयी दक्षिणा च नैरृती पश्चिना तथा। वायवी चोत्तरैशानी ऊर्द्धा चाधोदिशोदशेति” वराहपुराणम्। आशाशब्दे तत्सत्त्वे प्रमाणं प्राच्यादिभेदे उपाधिस्वरूपञ्च८३५ पृ० दृश्यम्। “यया दिशा धावति वेधसः स्पृहा” नैष० “परस्परालापमिवामला दिशः” किरा० भागुरिमते वा टाप् दिशाप्यत्र। दिशागज दिशापालशब्दे दृश्यम् दिशाञ्च यात्राद्युपपयोगिसंज्ञाभेदः ज्यो० त० उक्तो यथा “अङ्गारिणी दिग्रविविप्रयुक्ता यस्यां रविस्तिष्ठति सा प्रदीप्ता। प्रधूमिता यास्यति यां दिनेशः शेषाः प्रशस्ताः शुभदाश्च ताः स्युः”। “यत्र पूर्वादिकाष्ठायां वृषराश्यादिगोरबिः। सा दिगस्तमिता ज्ञेया शेषास्तिस्रः सदोदिताः। यात्रा युद्धं विवादश्च द्वारं प्रासादहर्म्ययोः। न कर्तव्यं शुभं चान्यदस्ताशाभिमुखं नरैः”। “अस्ताशायां स्थितं यस्य नाम्नः प्रथममक्षरम्। स आर्त्तः सर्वकार्येषु ज्ञेयोदैवहतो नरः” ज्योति० त० दिक्करशब्दोक्ते २ दन्तक्षते च वैजयन्ती ३ दशसंख्यायाम् ४ तत्संख्यान्विते च। “दिग्भिर्गुणैरष्टयमैः शरैवैः” नील० ता०। ५ श्रोत्राधिष्ठातृदेवताभेदे “दिग्वातार्कप्रचेतोऽश्वि ब्रह्मेन्द्रोपेन्द्रमृत्युकाः” शारदातिलकम्। कः प्रजापतिः दिशि भवं दिगा० यत्। दिश्य दिग्भवे त्रि०। दिशा निर्वृत्तम् ठञ्। दैशिक दिक्कृते त्रि० दैशिकपरत्वापरत्वे।

दिश = त्रि० दिशति दिश–क। १ देशके। २ विष्णौ पु०। “चतुरस्वी गभीरात्मा विदिशो व्यादिशो दिशः” विष्णुस०।

दिशम् = स्त्री दिश–बा० कसुन्। दिशि रमानाथः।

दिशागज = पु० दिशायां स्थितो गजः। दिग्गजे “नागान् दिशागजसुतान् दिव्यानपि च भारत!” हरिवं० १४५ अ०

दिशाचक्षुस् = पु० गरुडात्मजभेदे। “वातवेगो दिशाचक्षुर्निमिषोऽनिमिषस्तथा” भा० उ० १०० गरुडपुत्रोक्तौ।

दिशापाल = पु० दिशां पालयति पालि–अण् उप० स०। इन्द्रादौ १ दिक्पाले २ ब्रह्मनियोजिते वैराजादिप्रजापतिसुते दिशां पालकभेदे च। दिग्भेदेन तेषां नियोजनकथा हरिव० ४ अ० यथा “एवं विभज्य राज्यानि क्रमेण स पितामहः। दिशापालानथ ततः स्थापयामास भारत!। पूर्वस्यां दिशि पुत्रन्तु वैराजस्य प्रजापतेः। दिशापालं सुधन्वानं राजानं सोऽभ्यषेचयेत्। दक्षिणस्यां महात्मानं कर्दमस्य प्रजापतेः। पुत्रं शङ्खपदं नाम राजानं सोऽभ्यषेचयेत्। पश्चिमायां दिशि तथा रजसः पुत्रमच्युतम्। केतुमन्तं महात्मानं राजानं सोऽभ्यषेचयेत्। तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः। उदीच्यां दिशि दुर्द्धर्षं राजानं सोऽभ्यषेचयेत्। तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना। यथाप्रदेशमद्यापि धर्मेण परिपाल्यते”।

दिशोदण्ड = पु० दिशमनादृत्य दण्डः अलुक् स०। दिशोऽनादरेण दण्डे सि० कौ०।

दिश्य = त्रि० दिशि भवः दिगा० यत्। दिशि भवे। “ये सर्पाः पार्थिवा य आन्तरिक्षा ये दिव्या ये दिश्यास्तेभ्य इमं बलिमहार्षम्” आश्व० गृ० २। १। ९।

दिष्ट = त्रि० दिश–कर्म्मणि क्त। १ उपदिष्टे २ कथिते। संज्ञायां कर्त्तरि क्त। ३ भाम्ये न० अमरः। “न दिष्टमिष्टं कुरुते न तिष्ठति तु पौरुषे” विष्णु पु०। ४ काले पु० अमरः। ५ वैवस्वतमनोः पुत्रभेदे। “नरिष्यन्तोऽथनाभागः सप्तमी दिष्ट उच्यते” भाग० ८। १३। ३ वैवस्वतमनुपुत्रकथने। ६ दारुहरिद्रायां शब्दमाला

दिष्टान्त = पु० ६ त०। १ भाग्यसमाप्तौ तदुपलक्षिते २ मरणे च। “ततो दिष्टान्तमापन्नः सर्वेषां दुःखमावहन्” भा० आ० ४९ अ० “दिष्टान्तमाप्स्यति भवानपि पुत्रशोकात्” रघुः

दिष्टि = स्त्री दिश–भावे क्तिन् सज्ञायां कर्त्तरिं क्तिच् वा। १ हर्षे २ परिमाणे च मेदि०। ३ कथने उपदेशे ४ उत्सवे “तथाचास्य दिष्टिवृविभिव शुश्राव” काद०। ५ भाग्ये च “राजकुले दिष्टिवृद्धिसग्प्रु मीमहानभूत्” काद०।

दिष्ट्या = अव्य० दिश–सम्पदा० मावे क्विप् दिशं देशनं स्त्यायति स्त्यै–ष्ट्यै–वा क्विप् अघ्न्यादि० नि० वा। १ हर्षे २ मङ्गले भाग्यार्थकदिष्टिशब्दस्य तृतोयान्तस्य रूपमित्यन्ये तेन ३ भाग्येनेत्यर्थे। “अन्योऽन्यगतसौहार्दा दिष्ट्यादिष्ट्येति चात्रुवन्” भा० आ० १२९ अ०

दिष्णु = त्रि० दा–गिष्णु। दातरि उणादि०।

दिह = लेपने अदा० उभ० सक० अनिट्। देग्धि दिग्धे अधिक्षत् अधिक्षत–अदिग्ध अधिक्षन्त अदिहत।। दिदेह दिदिहे। देग्धा धेक्ष्यति दिग्धः। “अदिहंश्चन्दनैः शभैः” भट्टिः। “स चन्दनोशीरमृणालदिग्धः” भट्टिः। उपसर्गपूर्वकस्य तत्तदुपसर्गद्योत्यार्थयुक्तलेपने। प्रणिदेग्धि “दन्तास्तपसाभिदिग्धाः” अथ० ५। १८। ८ “दन्तरजसावदेग्धि” कौ० त० ब्रा० ३१ “कवचैः शोणितादिग्धैः” भा० भी० ३३८४ श्लो० “ऊर्जं वा एतं रसं पृथिव्या उपदीका उद्दिहन्ति यद्बल्मीकम्” तै० आ० ५। २। ८ “लोहानां च मणीनां च मलपङ्कोपदिग्धता” काम० नी० “शिरोगलं कफोपदिग्धम्” सुस्रु० “यथाधो भूमौ निदिग्धं तदमुया स्यादेवं तत्” शत० ब्रा० १। ७। २। १३

दी = क्षये दि० आत्म० अक० अनिट्। दीयते अदास्त। दिग्ये ओदित् दीनः। उपसर्गपूर्वकस्य तत्तदुपसर्पद्योत्यार्थक्षये “अध श्येनो जवसा निरदीयम्” ऋ० ४। २७। १ “आपी नप्त्रे वृतमन्नं वहन्तीः स्वयमत्कैः परिदीयन्ति यह्वीः” ऋ० २। ३५। १४

दीक्ष = मौण्ड्ये यागे उपनयने नियमब्रतयोरादेशे च भ्वा० आ० सक० सेट्। दीक्षते अदीक्षिष्ट। दिदीक्षे दीक्षिष्यते। “दीक्षस्व सह रामेण त्वरितं तुरगाध्वरे” भट्टिः “यज्ञादुह वा एष पुनर्जायते यो दीक्षते” ऐत० व्रा० २। २२ “कथं नोमध्येऽदीक्षिष्ट” ऐत० ब्रा० २। १९ “ब्रह्मसत्रेण दीक्षिष्यमाणः” भाग० ३। १। ६ क्वचित् वेदे पदत्ययः “ते ह देवयजनं दिदीक्षुः पञ्चमी० ब्रा० २४। १८ णिच्। दीक्षयति “राजानं दीक्षयामासुः सर्पसत्रात्यये तदा” भा० आ० २०१७ श्लो०।

दीक्षण = न० दीक्ष–भावे ल्युट्। यज्ञाद्यर्थनियमभेदे। “बन्ध मीक्षमखदीक्षणेष्वपि” राजमार्त्तण्डः।

दीक्षणीय = न० दीक्षणाय हितादि छ। दीक्षासाधने हविर्भेदे। “यो दीक्षते आग्नावैष्णवं ह्यदो दीक्षणीयं हविर्भवति” शत० व्रा० ३। ३। ४। २१। १ इष्टिभेदे स्त्री “दीक्षणीयापायणीयातिथ्यदेवता” कात्या० श्रौ० ५। ४। १० “दीक्षणी- यादीनां सकलानामिष्टीनां सदेवताकानामुपांशुत्वम्” कर्कः “वागन्तेन वा दीक्षणीयां, नीचैस्तरांनीचैस्तरःमितरे” कात्या० श्रौ० ७। २। ३१ “अथ वा वागन्तेन उत्तमया वाचा उच्चैर्दीक्षणीयां कुर्युः इतरे द्वे इष्टी प्रायणीयातिथ्ये नीचैस्तरां कर्तव्ये, दीक्षणीया उच्चैस्तरां, प्रायणीया तदपेक्षया नीचैस्तरां, तदपेक्षया नीचैस्तरामातिथ्येति” कर्कः। ३ सौमिके इष्टिभेदे हेम०। ४ वाजपेयाङ्गभूते इष्टिभेदे। “वाजपेयाङ्गभूतानां यजतीनां दीक्षणीयाप्रायणीयादीनामादिषु सकृद्गृहीतमाज्यं जुहोति” यजु० ९। ५। वेददी०।

दीक्षा = स्त्री दीक्ष–भावे अ। १ नियमे २ उपनयनसंस्कारे “दीयते विमलं ज्ञानं क्षीयते कर्मवासना। तेन दीक्षेति सा प्रोक्ता मुनिभिस्तन्त्रवेदिभिः” इति तन्त्रोक्ते ३ अभीष्टदेवभन्त्रग्रहणे ४ तदुपदेशे। यागाङ्गदीक्षा च द्वादशसंख्या अपरिमिता वा यथाह कात्या० श्रौ० ७। १। २९ सू० “द्वादश दीक्षाः” “अत्राग्निष्टोमे भवन्ति” कर्कः। “अपरमिता वा” द्वादशसंख्यातोऽतिशयेनाधिकसंख्या वा दीक्षा भवन्ति “अपरिमितं प्रमाणाद्भूय इति” परिशिष्टकारः अतश्चत्वारो दीक्षापक्षाः, “एका दीक्षा, तिस्रो दीक्षा, द्वादशदीक्षा अपरिमिता वा दीक्षेति” शाखान्तरादेते दीक्षापक्षाः। आपस्तम्बः “दशाहमवरार्ध्यं दीक्षितो भवति मासं सवत्सरं वा यदा कृश स्यादित्यपरं विज्ञायते च यद्रा वै दीक्षितः कृशो भवत्यथ मेध्यो मवति यदास्मिन्नन्तर्न किं चन भवत्यथ मेध्यो भवति यदास्य कृष्णं चक्षुषोर्नश्यत्यथ मेध्यो भवति यदास्य त्वचास्थि संधीयतेऽथ मेध्यो भवति पीवा दीक्षेत कृशो यजेत यदस्याङ्गानां हीयते जुहोत्येव तदिति विज्ञायते” इति। कर्कः “पुण्याहे दीक्षा क्रयः प्रसव उत्थानम्” ३१ सू० “तान्यत्र दीक्षा सोमक्रयः प्रसवः सुत्या उत्थानं समाप्तिः पुण्याहे विष्ठिव्यतीपातादिज्योतिःशास्त्रनिषेधवर्जिते सुदिने भवन्ति यतएवं स्मरन्ति “आभ्युदयिकः पदार्थः पुण्येऽहनि कर्त्तव्यः एतानि चाभ्युदयिकानीति” कर्कः। तान्त्रिकमन्त्रदीक्षाकालादि मल० त० उक्त यथा “अथ दीक्षाकालः सा च मलमामे न कार्य्या यथाऽगस्त्यसंहितायाम् “यदा ददाति सन्तुष्टः प्रसन्नवदनी मनुम्। अयमेव तथा चैवमिति कर्त्तव्यताक्रमः। विशुद्धदेशकालेषु शुद्धात्मा नियतो गुरुः। सङ्कल्प्यो पोष्य कर्त्तव्यमङ्कुरारोपणं मुने!। कुर्य्यान्नान्दीमुखं न्नाद्धमादौ च स्वस्तिवाचनम्। स्वगृह्योक्तप्रकारेण तदेतद्विदधीत वै। मधुमासे भवेद्दुःखं माधवे रत्नसञ्चयः। मरणं भवति ज्यैष्ठे आषाढे बन्धुनाशनम्। समृद्धिः श्रावणे नूनं भवेद्भाद्रपदे क्षयः। प्रजानामाश्विने मासि सर्वतः शुभमेव हि। ज्ञानं स्यात् कार्त्तिके सौख्यं मार्गशीर्षे भवत्यपि। पौवे ज्ञानक्षयो माघे भवेन्मेधाविवर्द्धनम्। फालगुनेऽपि विवृद्धिः स्यान्मलमासं विवर्जयेत्। गुरौ रवौ दिने शुके कर्त्तव्यं बुधसोमयोः। अश्विनी भरणी स्वातिविशाखाहस्तभेषु च। ज्येष्ठोत्तरत्रयेष्वेवं कुर्य्यान्मन्त्राभिषेचनम्। शुक्लपक्षे च कृष्णे वा दीक्षा सर्वसुखावहा। पूर्णिमा पञ्चमी चैव द्वितीया सप्तमी तथा। त्रयोदशी च दशमी प्रशस्ता सर्वकामदा। पञ्चाङ्गशुद्धदिवसे सोदये शशितारयोः। गुरुशुक्रोदये शुद्धे लग्ने द्वादशशोधिते। चन्द्रतारानुकूले च शस्यते सर्वकर्मसु। सूर्य्यग्रहणकालेन समानो नास्ति कश्चन। तत्र यद्यत् कृतं सर्वमनन्तफलदं भवेत्। न मासतिथिवारादिशोधनं सूर्य्यपर्वणि। ददातीष्टं गृहीतं यत्तस्मिन् काले गुरोर्नृषु। सिद्धिर्भवति मन्त्रस्य विनायामेन सेव्यतः”। मनुं मन्त्रम्। अङ्कुरारोपणमागमप्रमिद्धम्। शुद्धकालत्वं दर्शयति मधुमासे इत्यादि। पञ्चाङ्गशुद्धदिवसे तिथिवारनक्षत्रकरणयोगशुद्धदिवसे। तथाच महाकपिलपञ्चरात्रम् “एवं नक्षत्रतिथ्यादौ करणे योगवासरे। मन्त्रोपदेशा गुरुणा साधकस्य शुभावहः~। सोदये शशितारयोरिति जन्मचन्द्राद्यतारयोरानुकूल्यसहिते गुरुशुक्रोदये गुरुशुक्रानस्तमये। एतत्तु समयशुद्ध्यन्तरोपलक्षणम्। (अकालशब्दीक्ते “गुरीर्भृगोरस्तवाल्ये” इत्यादिके वचने “परीक्षारामकूपांश्च पुरश्चरणदीक्षणे” इत्यादिना अशुद्धकाले तस्यावर्ज्यत्वमुक्तम्)। द्वादशशोधिते द्वादशांशशोधिते। ज्ञानमालायाम् “रविसंक्रमणे चैव सूय्यस्य ग्रहणे तथा”। तथा “तत्र लग्नादिकं किञ्चिन्न विचार्य्यं कथञ्चन”। दीक्षातत्त्वे “यदैवेच्छा तदा दीक्षा गुरोराज्ञानुरूपतः। न तिथिर्न व्रतं होमो न स्नानं न जपः क्रिया। दीक्षायाः कारणं किञ्चित् स्वेच्छयाप्ते तु सद्गुरौ”। सदुगुरौ सिद्धमन्त्रगुरौ। दीपिकायाम् “ध्रुवमृदुनक्षत्रगणे रविशुमवासरेपु सत्तिथौ सद्गुरौ दीक्षा। स्यिरलग्ने शुभचन्द्रे केन्द्रे कोणे शुभे गुरौ धर्मे”। ध्रुवाणि त्रीण्युत्तरप्रणि रोहिणी च। मृदनि चित्रा- नुराधामृगशिरोरेवत्यः। केन्द्रं लग्नचतुर्यसप्तदशकम्। कोणं नवपञ्चकम्। धर्म्मो नवमः। वीरतन्त्रे “रोहिणी अवणार्द्रा च धनिष्ठा चोत्तरात्रयम्। पुष्यः शतभिषगकौ च दीक्षामक्षत्रमिष्यते”। अर्को हस्तः। रत्नावल्याम् “योगाश्च प्रीतिरायुष्मान् सौभाग्यः शोभनो धृतिः। वृद्धिर्ध्रुवः सुकर्म्मा च साध्यः शुक्रश्च हर्षणः। वरीयांश्च शिवः सिद्धो ब्रह्मा इन्द्रश्च षोडश”। तथा। शुभानि करणानि स्युर्दीक्षायाञ्च विशेषतः। शकुन्यादीनि षिष्टिञ्च विशेषेण विवर्जयेत्”। शकुन्यादीनि शकुनिना गचतुष्पदकिन्तुध्नानि। कृष्णेऽष्टम्यां चतुर्दश्यां पूर्वपञ्चदिने तथा”। कृष्णे कृष्णपक्षे। कालोत्तरे “भूतिकामैः सिते सदा” म० त० दीक्षायां प्रतिप्रसवः “राघवभट्टधृतसा रसंग्रहे शिष्यस्त्रिजन्मदिवसे संक्रान्तौ विषुवायने। सत्तीर्थेऽर्कविधुग्रासे तन्तुदामनपर्वणोः। भन्त्रदीक्षां प्रकुर्वाणो मासर्क्षादीन् न शोधयेत्”। तन्तुपर्व परमेश्वरोपवीत दानतिथिः श्रावणी पूर्णिमा। दामनपर्व दमनभञ्जनतिथिश्चैत्रशुक्लचतुर्दशी। कूर्म्मपुराणे हिमालयं प्रति देवीवाक्यम् “यानि शास्त्राणि द्वश्यन्ते लोकेऽस्मिन् विविधानि च। श्रुतिस्मृतिविरुद्धानि निष्ठा तेषां हि ताममी। करालभैरवञ्चापि यासलं वाममाश्रितम्। एवंविधानि चान्यानि मोहनार्थानि तानि तु। मया सृष्टानि चान्यानि मोहायैषां भवार्णवे”। तस्मात् सद्भिः श्रुतिस्मृतिविरुद्धे वर्त्मनि न कदाचित् पदं न्यस्तव्यम्। अर्य्यादिदुष्टमन्त्रप्रतीकारस्तु “एषु दोषेषु सर्वत्र मायां काममथापि वा। क्षिप्त्या चादौ श्रिथं दद्यात् तद्दूषणविमुक्तये। तारसंपुटिती वापि दुष्टमन्त्रो विशुध्यति। यस्य यत्र भवेद्भक्तिः सोऽपि मन्त्रोऽस्य सिद्ध्यति। भुवनेश्वरीपारिजातेऽपिं “मायावीजसमायुक्तः क्षिप्रं सिद्धिप्रदो भवेत्। पिण्डस्तु केवलो मन्त्रो मायावीजोज्ज्वलीकतः। मायावीजात् भवेत् प्राणीवीजञ्चैतन्यवीर्य्यवत्”। नारदीये “यदृच्छया श्रुतं मन्त्रं छद्मनापि हठेन वा। पत्रेक्षितं वा गायाञ्च तसुपेत्य त्वनर्थकृत्। प्रविश्य विधिवद्दीक्षामभिवेकावसानिकाम्”। अधिकं तत्त्रासारोक्तं देशाद्यनुपदं वत्यते तन्त्रसारे दीक्षाशब्दस्य व्युत्पत्तिप्रदर्शनपूर्वं कलावावशप्र कता दर्शिता यथा

“दीक्षां विना जपस्य दुष्टत्रात पथमं सा निन्म प्यते “दिव्यं ज्ञानं यतो दद्यात् कुर्य्यात् पापस्व संक्ष- यम्। तस्माद्दीक्षेति सा प्रोक्ता मुनिभिस्तन्त्रवेदिभिः। दीयते ज्ञानसंभारः क्षालनात् पापसन्ततेः। ततो दीक्षेति सा प्रोक्ता मुनिभिस्तन्त्रवेदिभिः”। सर्वाश्रमेषु दीक्षाया आवश्यकत्वम् तथा च “दीक्षामूलं जपं सर्वं दीक्षामूलं परन्तपः। दीक्षामाश्रित्य निवसेत् यत्र कुत्राश्रमे वसन्”। शूद्रस्य निषेधमाह तन्त्रान्तरे “प्रणवाद्यं न दातव्यं मन्त्रं शूद्राय सर्वथा। आत्ममन्त्रं गुरोर्मन्त्रं मन्त्रञ्चाजपसंज्ञकम्। स्वाहाप्रणवसंयुक्तं शूद्रे मन्त्रं ददद्विजः। शूद्रो निरयमाप्नोति ब्राह्मणो यात्यधीगतिम्”। नृसिंहतापनीये “सावित्रीं प्रणवं यजुर्लक्ष्मीं सत्री शूद्रो यद्विजानीयात् स मृतोऽधोगच्छति”। लक्ष्मीं लक्ष्मीमन्त्रम्। विशेषमाह वाराहीतन्त्रे “गोपालस्य मनुर्देयो महेशस्यापि पादजे। तत् पत्न्याश्चापि सूर्यस्य गणेशस्य मनुस्तथा”। अदीक्षितस्य निन्दामाह तन्त्रसारे “अदीक्षिताये कुर्वन्ति जपपूजादिकाः क्रियाः। न भवन्ति श्रियै तेषां शिलायामुप्तवीजवत्। देवि! दीक्षाविहीनस्य न सिद्धिर्न च सद्गतिः। तस्मात् सर्वप्रयत्नेन गुरुणा दीक्षितो भवेत्। अदीक्षितोऽपि मरणे रौरवं नरकं व्रजेत्। तस्माद्दीक्षां प्रयत्नेन सदा कुर्य्याच्च तान्त्रिकात्। कल्पे दृष्ट्वा तु मन्त्रं वै यो गृह्णाति नराधमः। मन्वन्तर सहस्रेषु निष्कृतिर्नैव जायते। नादीक्षितस्य कार्य्यं स्यात् तपोभिर्नियमव्रतैः। न तीर्थगमनेनापि न च शारीरयन्त्रणैः”। अतः सद्गुरोराहितदीक्षः सर्वकर्माणि साधयेत्। गोविन्दवृन्दावने “अदीक्षितस्य मरणे प्रेतत्वं न विमुञ्चति”। नवरत्नेश्वरः “सर्वासामपि दीक्षाणां मुक्तिः फलमखण्डितम्। अविरोधाद्भवन्त्येव प्रासङ्गिक्यस्तु भुक्तयः”। दीक्षा काम्या च यथा कुलार्णवे “उपपातकलक्षाणि महापातककोटयः। क्षणाद्दहति देवेशि! दीक्षा हि विधिना कृता। दीक्षाह्यागमोक्तागमपदार्थमाह गामले “आगतः शिववक्त्रेभ्यो गतश्च गिरिजानने। मग्नस्तस्या हृदम्भोजे तस्मादागम उच्यते। आगमोक्तविधानेन कलौ देवान् यजेत् सुधीः। न हि देवाः प्रसीदन्ति कलौ चान्यविधानतः। पञ्चवर्णैर्भवेद्दीक्षा ह्यागमोक्तैः शृणु प्रिये!। यां कृत्वा कलिकाले च सर्वाभीष्टं नभेन्नरः” तन्त्रसा० दीक्षाप्रकारश्च कलावतीशब्दे १७९२ पृ० दृश्यः अन्यत्र च दीक्षाशब्दव्युत्पत्त्यादिकमुक्तं यथा

रुद्रजामले “ददाति शिवतादात्म्यं क्षिणोति च मलत्रयम्। अतो दीक्षेति संप्रोक्ता दीक्षातन्त्रार्थवेदिभिः”। लघुकल्पसूत्रे च “दीयते परमं ज्ञानं क्षीयते पापपद्धतिः। तेन दीक्षोच्यते तन्त्रे स्वागमार्थबलावलात्”। योगीनीतन्त्रे तृतीयभागे षष्ठपटलेऽपि “दीयते ज्ञानमत्यर्थं क्षीयते पाशबन्धनम्। अतो दीक्षेति देवेशि! कथिता तत्त्वचिन्तकैः। मनसा कर्मणा वाचा यत् पापं समुपार्जितम्। तेषां विश्लेषकरणी परमज्ञानदा यतः। तस्माद्दीक्षेति लोकेऽस्मिन् गीयते शास्त्रवेदकैः। विज्ञानफलदा सैव द्वितीया लयकारिणी। तृतीया मुक्तिदा चैव तस्माद्दीक्षेति गीयते”। विश्वसारतन्त्रे द्वितीयपटले च “अथ दीक्षां प्रवक्ष्यामि शृणुष्व कमलानने!। यस्य विज्ञानमात्रेण देवत्वं लभते नरः। दिव्यज्ञानं यतो दद्यात् कुर्यात्पापक्षयं यतः। तस्माद्दीक्षेति सा प्रोक्ता सर्वतन्त्रस्य सम्मता”। अथ दीक्षामाहात्म्यम् सद्रजामले पूर्वखण्डे तृतीयपटले “देवि! दीक्षाविहीनस्य न सिद्धिर्न च सद्गतिः। तस्मात् सर्व प्रयत्नेन गुरुणा दीक्षितो भवेत्। अदीक्षितोऽपि मरणे रौरवं नरकं व्रजेत्। तस्माद्दीक्षां प्रयत्नेन सदा कुर्याच्च तान्त्रिकीम्” पञ्चदशपटले “अदीक्षिता ये कुर्वन्ति जपपूजादिकाः क्रियाः। न भवन्ति प्रिये! तेषां शिलायामुप्त वीजवत्” कल्पसूत्रटीकाधृतकुलार्णवतन्त्रे “रसेन्द्रेण यथा विद्धमयः सुवर्णतां व्रजेत्। दीक्षाविद्धस्तथैवात्मा शिवत्वं लभते प्रिये! दीक्षाग्निदग्धकर्मासौ पाशाद्विच्छिन्नबन्धनः। गतस्तस्य कर्मबन्धो निर्जीवश्च शिवो भवेत्। गतं शूद्रस्य शूद्रत्वं विप्रस्यापि च विप्रता। दीक्षासंस्कारसंमिन्ने जातिभेदो न विद्यते। शिवलिङ्गे शिलाबुद्धिं कुर्वन् यत् पापमाप्नुयात्। दीक्षितस्यापि पूर्वत्वं स्मरन् तत् पापमाप्नुयात्। दार्वश्मलौहमृद्रत्नजाति “लङ्गं प्रतिष्ठितम्। यथोच्यते तथा शुद्धाः सर्वे वर्णाश्च दीक्षिताः। येन पूजितमात्रेण चाब्रह्मभुवनान्तकम्। पूजितं तेन सर्वं स्याद्दीक्षितेन न संशयः। नादी क्षतस्य कार्यं स्यात्तपोभिर्नियमव्रतैः। न तीर्थगमनेनापि न च शारीरयन्त्रणैः” पञ्चमखण्डे षष्ढोल्लासेऽपि “गवां सर्पिः शरीरस्थं न करोत्यात्मपोषणम्। स्वकर्म चरितं दत्त पुनस्तामेव पोषयेत्। एवं सर्वशरीरस्थं सर्पिर्वत् परमेश्वरी। विना चोपासनाद्देवि! न ददाति फलं नृणाम”। पुरश्चरणरसोल्लासे प्रथमपटले “न च दीक्षा- परं ज्ञानं न च दीक्षापरं तपः। न च दीक्षापरं कालं तस्माद्दीक्षा गीरयसी” तत्र देशकालादि तन्त्रसारे निर्णीतं यथा “वृषे सिंहे च कन्यायां धनुर्मीनाख्यलग्नके। चन्द्रतारानुकूले च कुर्य्याद्दीक्षाप्रवर्त्तनम्। स्थिरलग्नं विष्णुमन्त्रे शिवमन्त्रे चरः शुभः। द्विःस्वभावगतं लग्नं शक्तिमन्त्रे प्रशस्यते। त्रिषडायगताः पापाः शुभाः केन्द्रा त्रिकोणगाः। दीक्षायान्तु शुभाः सर्वे रन्ध्रस्थाः सर्वनाशकाः”। शुक्लपक्षे भवेद्दीक्षा कृष्णेऽप्या पञ्चमाद्दिनात्”। निषिद्धमासेऽपि तत्तद्विशेषो मुनिभिरुदितः रत्नावल्याम् “षष्ठी भाद्रपदे मासि तथा कृष्णा चतुर्दशी। कार्त्तिकं नवभी शुक्ला मार्गे शुक्ल तृतीयिका। पौषे च नवमी शुक्ला माघे शुक्लचतुर्थिका। फाल्गुने नवमी शुक्ला चैत्रे कामचतुर्दशी”। त्रयोदशीति केचित्। “वैशाखे साऽक्षया चैव ज्यैष्ठे दशहरा तिथिः। आषाढे नवमी शुक्ला श्रावणे कृष्णपञ्चमी। एतानि देवपर्वाणि तीर्थकोटिफलं लभेत्। अत्र दीक्षा प्रकर्त्तव्या न मासञ्च परीक्षयेत्। न वारं न च नक्षत्रं न तिय्यादिकदूषणम्। न योगकरणञ्चैव शङ्करेण च भाषितम्”। अन्यच्च। “चैत्रे त्रयोदशी शुक्ला वैशाखैकादशी सिता। ज्यैष्ठे चतुर्दशी कृष्णा आषाढे नागपञ्चमी। श्रावणैकादशी भाद्रे रोहिणीसंयुताष्टमी। आश्विने च महापुण्या महाष्टम्यप्यभीष्टदा। कार्त्तिके नवमी शुक्ला मार्गशीर्षे तथा सिता। षष्ठी चतुर्दशी पौषे माघेऽप्येकादशी सिता। फाल्गुने च सिता षष्ठी चेति कालविनिर्णयः”। योगिनीतन्त्रे “अयने विषुवे चैव ग्रहणे चन्द्रसूर्य्ययोः। रविसंक्रान्तिदिवसे युगाद्यायां सुरेश्वरि!। मन्वन्तरासु सर्वासु महापूजादिमे तथा। चतुर्थी पञ्चमी चैव चतुर्दश्यष्टमी तथा। तिथयः शुभदाः प्रोक्ताः” इत्यादिवचनात् चतुर्दश्यष्टमीति शक्तिविषयम् चतुर्थीति गणेशविषयम् तत्तत्कल्पोक्तत्वात् “निन्दितेष्वपि कालेषु दीक्षोक्ता ग्रहणे शुभा। सूर्य्यग्रहणकालस्य समानो नास्ति भूतले। विशेषतो महादेवि! दीक्षाग्रहणकर्मणि। तत्र यद्यत्कृतं सर्वमनन्तफलदं भवेत्। रविसंक्रमणे चैव सूर्य्यस्य ग्रहणे तथा। तत्र लग्नादिकं किञ्चिन्न विचार्य्यं कथञ्चन। रविसंक्रमणे चैव नान्यदन्वेषितं भवेत्। न वारतिथिमासादिशोधनं सूर्य्यपर्वणि”। एवं चन्द्रग्रहणे-ऽपि तथा च रुद्रयामले “न कुर्य्याच्छाक्तिकी दीक्षामुपरक्ते विभावसौ। न कुर्य्याद्वैष्णवीं तान्तु यदि चन्द्रमसो ग्रहः”। एतच्च गोपालश्रीविद्येतरविषयम। “अन्येषु पुण्ययोगेषु ग्रहणे चन्द्रसूर्य्ययोरिति” गौतमीयात्। सूर्य्यग्रहणकाले तु नान्यदन्वेषितं भवेत्” इति योगिनीहृदयाच्च। वस्तुतस्तु “श्रीपराकालीवीजानि लोपादौर्गश्च यो मनुः। सूर्य्यस्योपग्रहे लब्धे नृणां शीघ्रफलप्रदः” उक्तवचनानुरोधात् पूर्ववचने शक्तिमन्त्रपदं श्रीविद्याद्यतिरिक्तशक्तिमन्त्रपरमिति साम्प्रदायिकाः। “अमावास्या सोमवारे भौमवारे चतुर्थिका। सप्तमी रविवारे च सूर्यग्रहशतैः समा। शिष्यानाहूय गुरुणा कृपया दीयते यदि। तदा लग्नादिकं किञ्चिन्न विचार्यं कथञ्चन। तथा “सर्वे वारा ग्रहाः सर्वे नक्षत्राणि च राशयः। यस्मिन्नहनि सन्तुष्टो गुरुः सर्वे शुभावहाः”। योगिनीतन्त्रे “ग्रहणे च महातीर्थे नास्ति कालस्य निर्णयः”। अथ वक्ष्यामि दीक्षायाः स्थानं तन्त्रानुसारतः। गोशालायां गुरोर्गेहे देवागारे च कानने। पुण्यक्षेत्रे तथोद्याने नदीतीरे च मन्त्रवित्। धात्रीविल्वसमीपे च पर्वताग्रगुहासु च। गङ्गाया स्तु तटे वापि कोटिकोटिगुणं भवेत्”। दीक्षायां निषिद्धदेशमाह “गयायां भास्करक्षेत्रे विरजे चन्द्रपर्वते। चण्डाले च मतङ्गे च तथा कन्याश्रमेषु च। न गृह्णीयात्ततो दीक्षां तीर्थेष्वेतेषु पार्वति!”। वाराहीतन्त्रे “शुक्रोऽस्तो यदि वा वृद्धो गुर्वादित्यो भवेद्यदि। मेषवृश्चिकसिंहेषु तदा दोषो न विद्यते”। महाविद्यासु सर्वासु कालादिविचारो नास्ति तदुक्तं मुण्डमालातन्त्रे “कालादिशोधनं नास्ति न चामित्रादि दूषणम्”। ५ कर्मणि च “विवाहदीक्षां निरवर्त्तयत् गुरुः” “विवाहदीक्षातिलकं चकार” रघुः नियमे “एताश्चान्याश्चरेदेव दीक्षा विप्रो वने वसन्” मनुः।

दीक्षागुरु = पु० दीक्षायां गुरुरुपदेष्टा। मन्त्राद्युपदेष्टरि।

दीक्षान्त = पु० दीक्षायाः प्रधानयागस्य अन्तः अन्तोपलक्षितः तत्समापको यागभेदः। अवभृथस्नानरूपे यागभेदे अमरः।

दीक्षापति = पु० ६ त०। दीक्षापालके सोमे। “दीक्षां मे दीक्षापतिर्मन्यतामनु” यजु० ५। ६। “दीक्षायाः पतिः पालकः सोमः” वेददी०। दीक्षापालादयोऽत्यत्र।

दीक्षायूप = पु० न० दीक्षाङ्गं यूपः। दीक्षाङ्गपश्वादिमारणार्थ काष्ठमये पदार्थभेदे “रणयज्ञदीक्षायूपेन” काद०

दीक्षित = त्रि० दीक्ष–कर्त्तरि क्त दीक्षा जाताऽस्य तार० इतच् वा। १ सोमादियागाङ्गव्रतभेदधारिणि २ संजाततन्त्रीक्त दीक्षे च दीक्षाशब्दे उदा०। “वर्णानां ब्राह्मणश्चासि विप्रेण दीक्षितो द्विजः” भा० अनु० ९१८ श्लो० “अवाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत्। भोभवत्पूर्वकन्त्वेनममिभाषेत धर्मवित्” “नाक्रामेत् कामतश्छायां वभ्रुणो दीक्षितस्य च” मनुः। ३ काम्पिल्लनगरस्थविप्रभेदे तत्कथा “आसीत् काम्पिल्लनगरे सोमयाजिकुलोद्भवः। दीक्षितो यज्ञदत्ताख्यो यज्ञविद्याविशारदः। वेदवेदाङ्ग वेदार्थवेदोक्ताचारचञ्चुरः। राजमान्यो बहुधनो वदान्यः कीर्तिभाजनम्। अग्निशुश्रूषणरतो वेदाध्ययनतत्परः” काशीख० १३ अ०। स दीक्षितः अयनं यस्याः गौरा० ङीष्। दीक्षितायनी तत्पत्न्यां स्त्री “महापतिव्रतां सम्यक् पत्नीं प्रोवाच तामथ। दीक्षितायनि! कुत्रासि क्व ते गुणनिधिः सुतः। अथ तिष्ठतु किन्तेन क्व सा मम शुभोर्मिका। अङ्गोद्वर्तनकाले या त्वया मेऽङ्गुलितो हृता। नवरत्नमयीं शीघ्रं तामानीय प्रयच्छ मे। इति श्रुत्वाथ तद्वाक्यं भीता सा दीक्षितायनी” काशीख० १३ अ० यज्ञमात्रे ४ संजातदीक्षे च। “संग्रामाध्वरदीक्षितो नरपतिः पत्नी गृहीतव्रता” वेणीसं० “दीक्षितो न ददाति” श्रुतिः।

दीक्षितृ = त्रि० दीक्ष–शीलार्थे युचं बाधित्वा तृच्। दीक्षाशीले

दीति = स्त्री दीप–क्तिन् वेदे पलोपः। दीप्तौ “सुदीतिरस्यादित्येभ्यः” ता० ब्रा० १९। ११ “सुदीतिः सुदीप्तिरसि” भा०।

दीदि = पु० दीप बा० दि–पृषो०। द्योतमाने। “अश्विना पिबतं मधु दीद्यग्नी शुचिब्रता” ऋ० १। १५। १० दीद्यग्नी द्योतमानाग्नियुक्तौ” भा०

दीदिवि = पु० दिव–क्विन् अभ्यामे तस्य दीर्घः वलि वलोपः। १ स्वर्गे २ भक्ष्ये च उज्ज्वल०। ३ अन्ने अस्त्री अमरः। पुनःपुनर्भृशं वा दीव्यति दिव–यङ्लुक् इन् न गुणः अभ्यासदीर्घः। ४ पुनःपुनर्भृशं वा द्योतने त्रि० “राजन्तमध्वराणां गोपामृतस्य दीदिविम्” ऋ० १। १। ८ “दीदिविम् पुनःपुनर्भृशं वा द्योतकम” भा०

दीधिति = स्त्री दीधी–क्तिन् ग्रहादित्वादिद “यीवर्णयोर्दीर्धिवेव्योः” पा० इकारलोपश्च। १ किरणे “सलिलमये शशिनि रवेर्दीधितयो मूच्छितास्तमोनैशम्। क्षपयन्ति दर्पणीदरनिहिता इव मन्दिरस्यान्तः” वृ० सं० “पुपोष वृद्धिं हरिदशदीधितेः” रघुः “अमृतदीधितरेष विदर्भजे!” नैष०। “स्वाधःसुधादीधितिमानन्ति” सि० शि० २ रघुनाथशिरोमणिकृते चिन्तामणिटीकाभेदे ३ अङ्गुलौ निघण्टुः।

दीधितिकृत् = पु० दीधितिं कृ–क्विप्। चिन्तामणिटीकाभेदकारके रघुनाथशिरोमणिपण्डिते

दीधितिमत् = पु० दीधितयः भूम्ना सन्त्यस्य मतुप्। १ सूर्ये “सरसां सुप्तपद्मानां प्रातर्दीधितिमानिव”। “शरद्द्वनात् दीधितमानिवोक्ष्णः” कुमा०। २ अर्कवृक्षे च।

दीधी = देवने दीप्तौ च अदा० जक्षा० आत्म० अक० सेट्। दीधीते अदीधिष्ट। दीध्ये दीध्याञ्चक्रे। दीधिता दीधिष्यते दीधितिः। “दीधीवेवीसमः कश्चिद्गुणवृद्ध्योरभाजनम्” सा० द०।

दीन = त्रि० दी–क्त तस्य नः। १ दुःखिते अमरः। २ भीते च। ३ तगरपुष्पे न० ४ मूषिकायां स्त्री मेदि०। “यद्वासुदेवेनादीनमनादीनवमीरितम् माघः। “दिनानि दीनोद्धरणोचितस्य” रघुः।

दीनदयालु = पु० दीने दयालुः। दुःखिते १ दयालौ “दीनदयालुतयाऽवनिपालः” नैष०।

दीननाथ = ६ त०। दुःखितजनभर्त्तरि।

दीनार = पु० दी–आरक् नुट् च। १ स्वर्णभूषणे २ मुद्रायां ३ सुवर्णकर्षद्वये ४ निष्कमाने अमरभरतौ। “दीनारोरोपकैरष्टाविंशत्या परिकीर्त्तितः। सुवर्णसप्ततितमोभागोरोपक उच्यते” विष्णुगुप्तोक्ते सप्तमांशाधिकहेमरत्तिकारूपरोपकैरष्टाविंशत्या परिसिते ५ द्वात्रिंशद्रत्तिकामिते हेम्नि च प्राय० त० रधुः।

दीप = दीप्तौ दि० आत्म० अक० सेट्। दीप्यते अदीपि–अदीपिष्ट। दिदीपे दीप्तः। णिच् अदीदिपत्–त अदिदीपत् त। दीप्तिः। दीपनं दीपकः दीप्रः। “दीप्यमानः स्वतेजसा” मनुः। “पुनर्दिदीपे मददुर्द्दिनश्रीः” रघुः “देवाहवेष्वदीपिष्ट” “सधूमदीप्ताग्निरुचीनि रेजुः” भट्टिः “ततः शकुनयो दीप्ताः मृगाश्च क्रूरभाषिणः” हरिवं० १७१ अ०। “हिंस्रेषु दीप्रास्त्रधरः कुमारः” भट्टिः “यावत् कर्माणि दीप्यन्ते तावत् संसारवासनाः” कुलार्ण०। उपसर्गपूर्वकस्य तत्तदुपसर्गद्योत्यार्थयुक्ते तदर्थे “आदिक्षदादीप्तकृशानुकल्पम्” भट्टिः “यस्य यद्रेतसः प्रथममुददीप्यत” ऐत० ब्रा ३। ३४ “क्रुध्यन्ति परिदीप्यन्ति भूमिजस्याधिष्ठिते” भा० शा० २०३६ श्लो० आर्षः पदव्यत्ययः। “ते शराः खसमुत्थेन प्रदीप्ताश्चित्रभानुना” भा० उ० १८१ अ०

दीप = पु० दीपयति स्वं परञ्च दीप–णिच्–अच्। स्वपर- प्रकाशके तैलादिस्नेहयोगेन १ वर्तिकादाहकशिखान्विते प्रदीपे कार्त्तिके तद्दानप्रशंसा पाद्मे उत्तरख० यथा “शृणु दीपस्य माहात्म्यं कार्तिके च हरिप्रिय!। यस्य श्रवणमात्रेण दीपदाने मतिर्भवेत्। सूर्य्यग्रहे कुरुक्षेत्रे नर्मदायां शशिग्रहे। तुलादानस्य यत् पुण्यं तदूर्जे दीपदानतः। घृतेन दीपकं यस्तु तिलतैलेन वा पुनः। ज्वालयेन्मुनिशार्दूल! अश्वमेधेन तस्य किम्। तेनेष्टं क्रतुभिः सर्वं कृतं तीर्थावगाहनम्। दीपदानं कृतं येन कार्त्तिके केशवाग्रतः। तावद्गर्जन्ति पापानि देहेऽस्मिन्मुनिसत्तम!। यावत् कार्त्तिकमासे न दीपदानं कृतं भवेत्। तावद्गर्जन्ति पुण्यानि स्वर्गे मर्त्ये रसातले। यावत्तु ज्वलते दीपः कार्तिके केशवाग्रतः। श्रूयतेऽत्रापि पितृभिर्गाथा गीता महामुने!। भविष्यन्ति कुलेऽस्माकं कदाचित्ते सुता भुवि। कार्त्तिके दीपदानैर्ये तोषयिष्यन्ति केशवम्। अपि नस्ते भविष्यन्ति कुले सुचरिता गुणैः। दीपदानं कार्त्तिके ये दीप्यन्ति हरितुष्टिदम्। गयायां पिण्डदानेन कृतं नः प्रीणनं मुतेः। यैश्चापि कार्त्तिके दत्तो दीपस्तुष्टि करो हरेः। दीपं दास्यन्ति ये पुत्रास्तुष्ट्यर्थं चक्रपाणिनः। कार्त्तिके तैर्मुनिश्रेष्ठ! नरकादुद्धृता वयम्। मन्त्रहीनं क्रियाहीनं शुद्धिहीनं जनार्दन!। व्रतं सम्पूर्णतां यातु कार्त्तिके दीपदानतः। अनेनैव हि मन्त्रेण दीपं सङ्कल्पयेन्मुने!। मधुसूदनतुष्ट्यर्थं कार्तिके मुनि पुङ्गव!”। वामनपुराणे च “दास्यते देवदेवाय दीपपुष्पानुलेपनम्। अपि नः स कुले भूयादेकादश्यां तिथौ नरः। करिष्यत्युपवासन्तु सर्वपातकहानिदम्। इत्थं पितॄणां वचनं श्रुत्वा नृपतिसत्तमः। ददौ च दीपान् विधिवत् विष्णीरायतने वलिः। सुगन्धतैलसंपूर्णान् दीपान् सघृततैलकान्। सर्षपस्य सुतैलेन मधुकातसिसम्भवैः। दोपप्रदानान्नरकानन्धतामिस्रसंज्ञकान्। तीर्त्वा स भार्यया ब्रह्मन्! विष्णुलोकमगात्ततः” वराहपुराणे दीपं स्पृष्ट्वा वैधकर्मकरणे दोष उक्तो यथा

“दीपं स्पृष्ट्वा तु यो देवि! मम कर्माणि कारयेत्। तस्यापराधाद्वै भूमे! पापं प्राप्नोति मानवः। तच्छृणुष्व महाभागे! कथ्यमानं मयानघे!। जायते षष्टिवर्षाणि कुष्ठी गात्रेपरिप्लुतः। चाण्डालस्य गृहे तत्र एवमेव न संशयः। एवं भुक्त्वा तु तत्कर्म मम क्षेत्रे मृतो यटि। मद्भक्तश्चैव जायेत शुद्धे भागवते गृहे। प्राय- श्चित्तं प्रवक्ष्यामि दीपस्य स्पर्शनाद्भुवि। तरन्ति मनुजा येन कष्टं चाण्डालयोनिषु। यस्य कस्यापि मासस्य शुक्लपक्षे च द्वादशी। चतुर्थभक्तमाहारमाकाशशयने स्वपेत्। दीपं दत्त्वापराधाद्वै तरन्ति मनुजा भुवि। शुचिर्भूत्वा यथान्यायं मम कर्मपथे स्थितः। एतत्ते कथितं देवि! स्पर्शनात् दीपकस्य तु। संसारशोधनञ्चैव यत् कृत्वा लभते शुभम्”। वर्त्तिस्थज्वलदग्निशिक्षा हि दीपः तदङ्गम्नेहादिनियमो यथा वह्निपुराणे “घृतं तैलञ्च दीपार्थे स्नेहान्यन्यानि वर्जयेत्”। दीपभेदास्तस्द्दशाभेदाश्च कालिका० पु० ६८ अ० उक्ता यथा “पुरश्चरणकृत्याञ्च दीपं शृण्विह भैरव!। दीपेन लोकान् जयति दीपस्तेजोमयः स्मृतः। चतुर्वर्गप्रदोदीपस्तस्माद्दीपैर्यजेत् श्रिये” इत्युपक्रम्य “घृतप्रदीपः प्रथमस्तिलतैलोद्भवस्ततः। सार्षपः फलनिर्यासजातो वा राजिकोद्भवः। दधिजश्चाणुजश्चैव प्रदीपाः सप्त कीर्त्तिताः। पद्मसूत्रभवा दर्भ गर्भसूत्रभवाऽथ वा। शणजा वादरी वापि फलकोषोद्भवाऽथ वा। वर्तिका दीपकृत्येषु सदा पञ्चभिदाः स्मृताः। तैजसं दारवं लौहं मार्त्तिक्यं नारिकेलजम्। तृणध्वजोद्भवं वापि दीपपात्रं प्रशस्यते। दीपवृक्षाश्च कर्तव्या तैजसाद्यैश्च मैरव!। वृक्षेषु दीपोदातव्यो न तु भूमौ कदाचन। सर्वंसहा वसुमती सहते न त्विदं द्वयम्। अकार्य्यपादघातञ्च दीपतापं तथैव च। तस्माद् यथा तु पृथिवी तापं नाप्नोति वै तथा। दीपं दद्यान्महादेव्यै अन्येभ्योऽपि च भैरव!। कुर्वन्तं पृथिवीतापं यो दीप सुत्सृजेन्नरः। स ताम्रतापं नरकमाप्नोत्येव शतं समाः। सुवृत्तवर्त्तिसस्नेहपात्रेऽभग्ने सुदर्शने। मृण्मये वृक्षकोटौ तु दीपं दद्यात् प्रयत्नतः। लभ्यते यस्य तापस्तु दीपस्य चतुरङ्गुलात्। न स दीप इति ख्याती ह्योघवह्निस्तु स स्मृतः। नेत्राह्लादकरः सार्चिर्दूरताप विवर्जितः। सुशिखः शब्दरहितो निर्धूमी नाति ह्रस्वकः। दक्षिणावर्त्तवर्तिस्तु प्रदीपः श्रीविवृद्धये। दीपवृक्षस्थिते पात्रे शुद्धस्नेहप्रपूरिते। दक्षिणावर्तवर्त्त्या तु चारुदीप्तः प्रदीपकः। उत्तमः प्रोच्यते पुत्र! सर्वतुष्टि प्रदायकः। वृक्षेण वर्जितो दीपो मध्यमः परिकीर्त्तितः। विहीनः पात्रतैलाभ्यामधमः परिकीर्त्तितः। शार्ण वा वादरं वास्त्रं जीर्णं मलिनमेव वा। उपयुक्तन्तु नो दद्यात् वर्तिकार्थन्तु साधकः। उपादद्यान् नूत्रमेव सततं श्रीविवृद्धये। कोषजं रोमजं वस्त्रं वर्तिकार्थं न चाददेत्। न मिश्रीकृत्य दद्यात्तु दीपं स्नेहान् घृतादिकान्। कृत्वा मिश्रीकृतं स्नेहं तामिस्रं नरकं व्रजेत्। वसामज्जास्थिनिर्यासैः स्नेहैः प्राण्यङ्गसम्भवैः। प्रदीपं नैव कुर्य्यात्तु कृत्वा पङ्के विषीदति। अस्थिपात्रेऽथ वा गव्ये दुर्गन्धाद्युपवासिनि। नैव दीपः प्रदातव्यो विबुधैः श्रीविवृद्धये। नैव निर्वापयेद्दीपं कदाचिदपि यत्नतः। सततं लक्षणोपेतं देवार्थमुपकल्पितम्। न हरेज्जनतो दीपं तथा लोभादिना नरः। दीपहर्त्ता भवेदन्धः काणो निर्वापको भवेत्। उद्दीप्तदीपप्रतिमः काष्ठकाण्डसमुद्भवः। विल्वेध्मोद्भवमेवाथ दीपालाभे निवेदयेत्। उल्मूकं नैव दीपार्थे कदाचिदपि चोत्सृजेत्। प्रसन्नार्थन्तु तं दद्यादुपचाराद्बहिः कृतः। एवं वां कथितो दीपो धूपञ्च शृणुतं सुतौ!”। श्राद्धे वस्त्रवर्तियुक्तदीपनिषेधो यथा “दीपं वर्जत् वस्त्रवर्त्तिप्रत्यक्षं तैलमेव च”। योगिनी० त० २ य भागे ५ पटलः। पुरुषस्य दीपनिर्वापणे दोषो यथा। “दीपनिर्वापणात् पुसः कुष्माण्डच्छेदनात् स्त्रियः। अचिरेणैव कालेन वंशनाशो भवेद्ध्रुवम्” ति० त०। देवदत्तदीपस्य तु निर्वापणम् विधानपारिजाते उक्तं यथा “स्वयं निर्वापितं दीपमाजिघ्रन्ति सुरारयः। तस्मान्निर्वापयेद्दीपं देवानां घ्राणतुष्टये”। कार्त्तिककृष्णचतुर्दश्यां नरकनिवृत्तये दीपदानं यथा “नरकाय प्रदातव्यो दीपः संपूज्य देवताः” तिथितत्त्वधृतलिङ्गपुराणम्। “स्नाने धूमे तथा दीपे नैवेद्ये भूषणे तथा। घण्टानादं प्रकुर्वीत तथा नीराजनेऽपि च। विधानपारिजातोक्तः दीपदाने घण्टानादोविधेयः। शिवालये दीपोद्दीपनमाहात्म्यं काशीख० १३ अध्याये दृश्या दिङ्मात्रमत्रोच्यते “स दीपवासनायोगात् बहून् दीपान् प्रदीप्य वै। अलकायाः पतिरभूद्रत्नदीपशिखाश्रयः”। दीपवर्तिश्च कर्पूरगर्भिणी कार्य्या “वर्त्त्या कर्पूर गर्भिण्या सर्पिषातिलजेन वा। आरोप्य दर्शयेद्दीपानुच्चैः सौरभशालिनः” शारदाति०। तन्त्रसारे “कर्पूरादियुता वर्त्तिः सा च कार्पास। निर्मिता। सप्तावृत्ता सुसंकॢप्तो दीपः स्याच्चतुरङ्गुलः” कार्त्तवीर्य्यप्रियार्थदीपविशेषस्तु कार्त्तवीर्यदीपशब्दे १९८४ पृ० उक्तः। दीपदानफलादिकम् भा० अनु०९८ अ० उक्तं यथा

“दीपदाने प्रवक्ष्यामि फलयोगमनुत्तमम्। यथा येन यदा चैव प्रदेया यादृशाश्च ते। ज्योतिस्तेजः प्र- काशं वाऽप्यूर्द्धगञ्चापि वर्ण्यते। प्रदानं तेजसां तस्मात्तेजो वर्द्धयते नृणाम्। अन्धन्तमस्तमिस्रञ्च दक्षिणायनमेव च। उत्तरायणमेतस्माज्ज्योतिर्दानं प्रशस्यते। यस्मादूर्द्ध्वगमेतत्तु तमसश्चैब भैषजम्। तस्मादूर्द्ध्वगतेर्दाता भवेदत्रेति निश्चयः। देवास्तेजस्विनो यस्मात् प्रभावन्तः प्रकाशकाः। तामसा राक्षसाश्चैव तस्माद्दीपः प्रदीयते। आलोकदानाच्चक्षुष्मान् प्रभायुक्तो भवेन्नरः। तान् दत्त्वा नोपहिंसेत न हरेन्नोपनाशयेत्। दीपहर्त्ता भवेदन्धस्तमोगतिरसुप्रभः। दीपप्रदः स्वर्गलोके दीपमालेव राजते। हविषा प्रथमः कल्पी द्वितीयश्चौषधीरसैः। वसामेदोऽस्थिनिर्य्यासैर्न कार्यः पुष्टिमिच्छता। गिरिप्रपाते गहने चैत्यस्थाने चतुष्पथे। दीपदाता भवेन्नित्यं य इच्छेद्भूतिमात्मनः। कुलोद्योतो विशुद्धात्मा प्रकाशत्वञ्च गच्छति। ज्योतिषाञ्चैव सालीक्यं दीपदाता नरः सदा” दीपस्य शुभाशुभलक्षणम् वृ० सं० ८४ अ० उक्तं यथा “वामावर्त्तो मलिनकिरणः सस्फुलिङ्गोऽल्पमूर्त्तिः क्षिप्रं नाशं व्रजति विमलस्नेहवर्त्त्यन्वितोऽपि। दीपः पापं कथयति फलं शब्दवान् वेपनश्च व्याकीर्णार्चिर्विशलभमरुद् यश्च नाशं प्रयाति। दीपः संहतमूर्त्रिरायततनुर्निर्वेपनो दीप्तिमान् निःशब्दोरुचिरः प्रदक्षिणगतिर्वैदूर्य हेमद्युतिः। लक्ष्मीं क्षिप्रमभिव्यनक्ति रुचिरं यश्चोद्यतं दीप्यते शेषं लक्षणमग्निलक्षणसमं योज्यं यथायुक्तितः”

“प्रवर्तितो दीप इव प्रदीपात्” निशीथदीपाः सहसा हतत्विषः” रघुः। दीपयत्यर्थान् वा। २ प्रकाशके यथा चित्रदीपादयः पञ्चदश्याम्।

दीपक = पु० त्रि० दीपयति स्वं परञ्चार्थं दीपि–ण्वुल्। स्वपरप्रकाशके स्त्रियां टाप् अतैत्त्वम् दीपिका। षट्कर्मदीपिका ज्योतिषदीपिका २ प्रदीपे पु० ३ अलङ्कारभेदे अलङ्कारशब्दे ३९९ पृ० दृश्यम्। ४ यमान्यां रत्नमाला ५ लोचमस्तके वृक्षे शब्दरत्ना० अनयोरग्निदीपकत्वात् तथात्वम् ६ कुङ्कुमे न०। ७ खगग्राहिणि(वाज) (सिकरा) प्रसिद्धे खगे पुंस्त्री हेमच०८ मात्रावृत्तभेदे “तुरगैकमुपधाय सुनरेन्द्रमबधाय। इह दीपकमवेहि लघुमन्तवधेहि” तल्लक्षणम्। ९ रागभेदे पु० स च हनूमन्मते द्वितीयोरागः सूर्यनेत्रान्निर्गतः पड्जस्वराश्रयः ग्रीष्मर्त्तौ मध्याह्ने गेयः। क्षुद्रोदीपःङीप्। स्वार्थे–क ह्रस्वः। दीपिका क्षुद्रदीपे “स शंवरारेर्वलिदीपिका इव” नैष०।

दीपकलिका = स्त्री दीपस्य कलिकेव। १ दीपशिखायां शूलपाणिकृते २ याज्ञवल्क्यसंहिताटीकाभेदे च।

दीपकिट्ट = न० ६ त०। कज्जले शब्दार्थकल्पतरुः।

दीपकूपी = स्त्री दीपस्य कूपीव। दीपवर्त्तिकायाम् दीपदशायाम् शब्दमा०।

दीपखोरी = स्त्री खोर–गत्याघाते णिच–अच् गौरा० ङीष्। ६ त०। दीपवर्त्तिकायां (शल्ते) शब्दमाला।

दीपध्वज = पु० दीपस्य ध्वज इव। कज्जले जटाध०।

दीपन = त्रि० दीपयति वह्निम् दीप–णिच्–ल्यु। १ तगरमूले रत्नमा० २ कूङ्कुमे त्रिका०। ३ मयूरशिखावृक्षे ४ शालिञ्चशाके च पु० शब्दच० ५ कासमर्दे ६ पलाण्डौ च पु० राजनि०। ७ दीघकमात्रे त्रि०। भावे ल्युट्। ८ प्रकाशने न० ९ ग्राह्यमन्त्रसंस्कारभेदे च “मन्त्राणां दश कथ्यन्ते संस्काराः सिद्धिदायिनः। जननं जीवनं पश्चात्ताडनं बोधनं तथा। अथाभिषेको विमलीकरणाप्यायने तथा। तर्पणं दीपनं गुप्तिर्दशैता मन्त्रसंस्क्रियाः। “तारमायारमायोगो मनोर्दीपनमुच्यते” शारदाति०। दीप्यतेऽनया दीपि–करणे ल्युट् ङीप्। दीपनी १० मेथिकायां ११ पाठायां १२ यवान्याञ्च स्त्री राजनि०। १३ दीपनसाधने त्रि० स्त्रियां ङीप्। “त्रिफला कफपित्तघ्नी मेहकुष्ठविनाशिनी। चक्षुष्या दीपनी” “निहन्याद्दीपनं गुल्मपीनसाग्न्यल्पतामपि”। “कटुकोदीपनः पाचनो रोचनः शोधनः” इति च सुश्रु०।

दीपनीय = पु० दीपनाय जठरानलोद्दीपानाय हितः छ। १ यवान्यां राजनि० औषधवर्गभेदे “पिप्पली पिप्पलीमूलं चव्यचित्रकनागरम्। दीपनीयः स्मृतो वर्गः कफानिलगदापहः” चक्रपाणिदत्तः। दीप–णिच–अनीयर्। ३ ज्वालनीये त्रि०।

दीपपादप = पु० दीपस्य पादप इव आश्रयत्वात्। (पिलसुज) दीपाधारे शब्दार्थकल्प० दीपवृक्षादयोऽप्यत्र।

दीपपुष्प = पु० दीपः तत्कलिकेव पुष्पमस्य। चम्पके राजनि०।

दीपभाजन = न० ६ त०। दीपपात्रे तज्ज्वालनतैलाधारे पात्रे “वामनार्चिरिव दीपभाजनम्” रघुः।

दीपमाला = स्त्री दीपानां माला। श्रीणीभूते प्रदीपसंघे “उद्बुद्धां च जगद्धात्रीं पूजयेद्दीपमालया” ति० त०।

दीपवत् = त्रि० दीप + अस्त्यर्थे मतुप् मस्य वः। १ दीपयुक्ते गृहादौ स्त्रियां ङीप् ङीबन्तः २ कामख्यापीठस्थे नदीभेदे “शाश्वती कथिता या तु नदी मत्स्यध्वजा सिता। तस्याः पूर्वे समाख्याता नदी दीपवती मता। एषा च हिमवज्जाता छिन्दन्ती दीपवत्तमः। तेन देवमनुष्येषु नदी दीपवती स्मृता। दीपवत्याः पूर्वतस्तु शृङ्गाटोनाम पर्वतः” कालिका० पु० ८२ अ०

दीपशत्रु = पु० ६ त०। कीटभेदे (जोनाकीपोका) पारस्करनि०

दीपशिखा = पु० ६ त०। १ प्रदीपज्वालायाम् उपचारात् तज्जाते २ कज्जले च शब्दार्थचन्द्रिका।

दीपशृङ्खला = स्त्री दीपानां शृङ्खलेव। दीवावल्यां हारा०

दीपान्वित = त्रि० ६ त०। १ दीपयुक्ते गृहादौ श्मशानचत्वरादिषु देयदीपयुक्तायां मुख्याश्विनस्व गौणकार्त्तिकस्य २ अमावास्यायाम् स्त्री तत्कर्त्तव्यादि यथा भविष्यपुराणे “येयं दीपान्विता राजन्। ख्याता पञ्चदशी भुवि। तस्यां दद्यान्न चेद्दत्तं पितॄणां वै महालये। प्रदोषसमये लक्ष्मीं पूजयित्वा यथाक्रमम्। दीपवृक्षास्तथा कार्य्या भक्त्या देवगृहेष्वपि। चतुष्पथे श्मशानेषु नदीपर्वतसानुषु। वृक्षमूलेषु गोष्ठेषु हत्वरेषु गृहेषु च। वस्त्रैः पुष्पैः शोभितव्याः क्रयविक्रयभूमयः। दीपमालापरिक्षिप्ते प्रदोषे तदनन्तरम। ब्राह्मणान् भोजयित्वादौ विभज्य च बुभुक्षितान्। अलङ्कृतेन भोक्तव्यं नववस्त्रोपशोभिना। स्निग्धैर्मुग्धैर्विदग्धैश्च बान्धवैर्भृतकैः सह” तिथित०। निर्णयसिन्धौ तत्र विशेष उक्तो यथा कालादर्शे “प्रत्यूष अश्वयुग्दर्शे कृताभ्यङ्गादिमङ्गलः। भक्त्या प्रपूजयेद्देवीमलक्ष्मीविनिवृत्तये” अस्य व्याख्याने आदिशब्दात्पञ्चत्वगुदकस्नानादेरुपसंग्रहः तदुक्तं पद्मपुराणे “स्वातिस्थिते रवाविन्दुर्यदि स्वातिगतो भवेत्। पञ्चत्वगुदकस्नायी कृताभ्यङ्गविधिर्नरः। नीराजितो महालक्ष्मीमर्चयन् श्रियमश्नुते। अश्वयुग्दर्श इति दर्शशब्दः प्रत्यूषे स्वातियुक्ततिथिपरः तदुक्तं व्राह्मे “ऊर्जे शुक्लद्वितीयायां तिथिषु स्वातिऋक्षगे। मानवो मङ्गलस्नायी नैव लक्ष्म्या वियुज्यते”। तत्रैव “इषेभूते च दर्शे च कार्त्तिकपथमे दिने। यदा स्वाती तदाभ्यङ्गम्नानं कुर्याद्दिनोदये”। कश्यपमंहितायां तु दीपाबलिदर्शं प्रकम्य “इन्दुक्षयेऽपि संक्रान्तौ रवौ पाते दिनक्षये। तत्राभ्यङ्गो न टोषाय पातः पापापनुत्तये” इति। स्वातियोगं विनाप्यभ्यङ्ग उक्तः। मात्स्ये “दीपैर्नाराजनादत्र सैषा दीपाबली स्मृता”। अत्र विशेषो हेमाद्रौ भविष्ये “दिवा तत्र न भोक्तव्यमुते वालातुराज्जनात्। प्रदोषसमये लक्ष्मीं पूजयित्वा ततः क्रमात्। दीपवृक्षाश्च दातव्याः शक्त्या देवगृहेषु च” तत्रैवाभ्यङ्गमभिधाय “एवं प्रभातसमये त्वमावास्यां नराधिप!। कृत्वा तु पार्वणश्राद्धं दधिचोरघृतादिभिः। दीपान् दत्त्वा प्रदोषे तु लक्ष्मीं पूज्य यथाविधि। स्वलङ्कृतेन भोक्तव्यं सितवस्त्रोपशोभिना”। अयं प्रदोषव्यापी ग्राह्यः “तुलासंस्थे सहस्रांशौ प्रदीषे भूतदर्शयोः। उल्काहस्ता नराः कुर्युः पितॄणां मार्गदर्शनम्” इति ज्योतिषोक्तेः “दिनद्वये तस्य सत्त्वे परः “दण्डैकरजनीयोगे दर्शः स्यात्तु परेऽहनि। तदा विहाय पूर्वेद्युः परेऽह्नि सुखरात्रिका” इति तिथतत्त्वे ज्योतिर्वचनात्। दिवोदासीये तु प्रदोषस्य कर्मकालत्वात् “अर्द्धरात्रे भवत्येव लक्ष्मीराश्रयितुं गृहान्। अतः स्वलङ्कृता लिप्ता दीपैर्जाग्रज्जनोत्सवाः। सुधाघवलिताः कार्याः पुष्पमालोपशोभिताः” इति ब्राह्मोक्तेश्व। प्रदोषार्द्धरात्रव्यापिनी मुख्या, एकैकव्याप्तौ परैव। प्रदोषस्य मुख्यत्वादर्धरात्रेऽनुष्ठेयाभावाच्च। यत्तु “अपराह्णे प्रकर्त्तव्यं श्राद्धं पितृपरायणैः। प्रदोषसमये राजन्! कर्त्तव्या दीपमालिका” इति क्रमः स सम्पूर्णतिथावेव प्राप्तेरनुवादो न विधिः। तत्तत्कर्मकालव्याप्तेर्बल सत्त्वात् सम्पूर्ण्णितिथौ प्राप्त्या खण्डतिथावप्राप्त्या विध्यनुवादविरोधाच्चेत्युक्तम्। अत्रैव दर्शेऽपररात्रेऽलक्ष्मी निःसारणमुक्तं मदनरत्ने भविष्ये “एवं गते निशीथे तु जने निद्रार्द्रलोचने। तावन्नगरनारीभिः शूर्पडिण्डिमवादनैः। निष्काश्यते प्रहृष्टाभिरलक्ष्मीः स्वगृहाङ्गणात्”। दीपाबली (देओयार्ला) इति ख्याता तत्रार्थे

दीपीय = त्रि० दीप + अपूपा० हितार्थे पक्षे छ। दीपहिते पक्षे यत्। दीप्य तत्रार्थे त्रि०।

दीपोत्सव = पु० दीपैरुत्सवः। १ दीपहेतुके उत्सवे उपचारात् २ दीपान्वितामावास्यायाञ्च भविष्यपु०।

दीप्त = त्रि० दीप–क्त। १ प्रकाशान्विते २ समुज्वलिते च मेदि०। “समिद्धशरणा दीप्ता देहे लङ्का मतेश्वरा” भट्टिः। ३ स्वर्णे ४ हिङ्गुनि च न० राजनि०। ५ निम्बूके पु० ६ सिंहे पुंस्त्री० राजनि० स्त्रियां जातित्वात् ङीष्। ७ ज्योतिष्मत्यां (शातला) स्त्री रत्नमाला ८ लाङ्गलिवृक्षे स्त्री टाप्। “शुण्ठी पादमिता कणार्णवमिता दीप्तायमान्योःक्रमात्” वैद्यकम्। १० नामारोगभेदे पु० “नासा प्रदीप्तेव च यस्य जन्तोर्व्याधिन्तु तं दीप्तमुदाहरन्ति” सुश्रुतः नासारोगभेदोक्तौ। “दोप्ते रोगे पैत्तिकं संविधानं कुर्य्यात् सर्वं स्वादु यच्छी- तलञ्च” सुश्रुतः स्वार्थे क। दीप्तक स्वर्णे न० राजनि०।

दीप्तकीर्त्ति = त्रि० दीप्ता कीर्त्तिर्यस्य। १ प्रकाशमानयशस्के २ कार्त्तिकेये पु०। “आग्नेयश्चैव स्कन्दश्च दीप्तकीर्त्तिरनामयः” भा० व० २३१ अ० कार्तिकनामोक्तौ। कर्म०। ३ दीप्ते यशसि स्त्री।

दीप्तकेतु = पु० १ नृपभेदे। “धृष्टवेतुर्वृहत्केतुर्दीप्तकेतुर्निरामयः” भा० आ० १ अ० नानानृपोक्तौ। २ दक्षसावर्णिमनुपुत्रभेदे। “नवमो दक्षसावर्णिर्मनुर्वरुणसम्भवः। धृष्टकेतुर्दीप्तकेतुरित्याद्यास्तत्सुता नृप!”। भाग० ८। १२। ९ २ दीप्तः केतुरस्य। ३ दीप्तध्वजके त्रि० कर्म०। ४ दीप्ते ध्वजे पुंन०

दीप्तजिह्वा = स्त्री दीप्ता जिह्वा अस्याः। उल्कामुख्यां शृगाल्यां हारा० तस्या रात्रौ जिह्वातोऽग्नेः स्वतः स्फुरणात्तथात्वम्।

दीप्तपिङ्गल = पुंस्त्री दीप्तं स्वर्णमिव पिङ्गलः जटायाम्। स्वर्णपिङ्गलजटायुक्तत्वात् सिंहे राजनि० स्त्रियां जातित्वात् ङीष्।

दीप्तमूर्त्ति = त्रि० दीप्ता मूर्त्तिरस्य। १ प्रकाशान्वितमूर्त्तिके २ विष्णौ पु०। “बिश्वमूर्त्तिर्महामूर्त्तिर्दीप्तमूर्त्तिरमूर्त्तिमान्” विष्णुस० “ज्ञानमयी स्वेच्छया वा तैजसी मूर्त्तिरस्येति” भा०।

दीप्तरस = पु० दीप्तो रसोऽस्य। किञ्चुलके शब्दच० तदसस्य रात्रौ स्वयं ज्वलनात्तस्य तथात्वम्।

दीप्तरोमन् = पु० विश्वदेवभेदे। “जितात्मा मुनिवर्यश्च दीप्तरोमा भयङ्करः” भा० अनु० ९१ अ० विश्ववदेवीक्तौ।

दीप्तलोचन = पुंस्त्री० दीप्तं लोचनं यस्य। विडाले राजनि०। स्त्रियां जातित्वात् ङीष्।

दीप्तलोह = न० नित्यकर्म्म०। १ कांस्ये राजनि० कर्म०। २ ज्वलिते ३ लोहे च।

दीप्तवर्ण = त्रि० दीप्तं स्वर्णमिव वर्णोऽस्य। १ स्वर्णतुल्य वर्णके २ कार्त्तिकेये पु० “शिशुः शीघ्रः शुचिश्चण्डो दीप्तवर्णः शुभाननः” भा० व० २३१ अ० कार्त्तिकनामोक्तौ।

दीप्तशक्ति = त्रि० दीप्ता शक्तिरस्य। १ प्रकाशमानसामार्थ्ये दीप्ता शक्तिरस्त्रविशेषोऽस्य। २ कार्त्तिकेये पु०। “दीप्तशक्तिः प्रशान्तात्मा भद्रकृत् कूटमोहनः” भा० व० २३१ अ० स्कन्दनामोक्तौ।

दीप्तांशक = पु० कर्म०। ताजकोक्ते सूर्य्यादेरंशभेदे। “तिथ्यर्काष्टनगाङ्कशैलखचराः सूर्य्यादिदीप्तांशकाः” नील० ता० र १५। च १२। म ८। बु ७। वृ ९ शु ७। श ९। सूर्य्यादेः एतदशमध्यवर्त्तिनि ग्रहान्तरे इत्थशालादियोगः, लिप्तार्द्धा- न्तराले तु पूर्णेत्थशालः तदूर्द्ध्वं त्रैराशिकेन फलकल्पना।

दीप्तांशु = पु० दीप्ता अंशवोस्य। १ सूर्ये “यथा हि दिवि दीप्तांशुः प्रभासयति तेजसा” भा० आ० १७१ अ०। २ अर्कवृक्षे च।

दीप्ताक्ष = पुंस्त्री० दीप्ते अक्षिणी अस्य षच्। १ विडाले त्रिका० स्त्रियां ङीष्। २ दीप्तलोचनान्विते नृपराक्षसादौ त्रि०। “वाहुः मुन्दरवंश्यानां दीप्ताक्षाणां पुरूरवाः” भा० उ० ७३ अ० स्त्रियां ङीष्। “एताश्चान्याश्च दीप्ताक्ष्यः करभोत्कटमूर्द्ध्वजाः” भा० व० २७९ अ०

दीप्ताग्नि = पु० दीप्तोऽग्निरस्य। १ अगस्त्वे मुनौ त्रिका० तेन भुक्तपीतमात्रेण वातापिसमुद्रयोर्जठरानलेन जारणात् तस्य तथात्वम्। २ दीप्तजठरानलयुक्ते त्रि० “बलिनः खरभक्ष्या ये ये च दीप्ताग्नयो नराः”। “सात्म्यतोऽल्पतया वापि दीप्ताग्नेस्तरुणस्य च” सुश्रु० कर्म०। ३ दीप्ते वह्नौ पु० “सधूमदीप्ताग्निरुचीनि रेजुः” मट्टिः “शब्दान् दीप्ताग्निसङ्काशान्” भा० व०१७ अ०।

दीप्ताङ्ग = त्रि० दीप्तमङ्गमस्य। १ दीप्तिवुक्तदेहके। २ मयूरे पुंस्त्री शब्दच० स्त्रियां जातित्वात् ङीष्।

दीप्ति = स्त्री दीप–भावे क्तिन्। १ त्विषि प्रभायाम् “एवं दीप्त्या योजनं भाति सन्ध्या” वृ० सं०३१ अ० २ अभिव्यक्तौ च ज्ञानाभिव्यक्तिरूपदीप्तेः कारणानि पात० सू० भाष्ययोरुक्तानि यथा “योगाङ्गानुष्ठानदशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः” सू० “योगाङ्गान्यष्टावभिधायिष्यमाणोनि तेषामनुष्ठानात् पञ्च पर्वणो विषयस्याशुद्धिरूपस्य क्षयोनाशस्तत्क्षये सम्यग्ज्ञानस्याभिव्यक्तिर्यथा यथा च साधनान्यनुष्ठीयन्ते तथा तथा तनुत्वमशुद्धिरापद्यते यथा यथा च क्षीयते तथा तथा चक्षयक्रमानुरोधिनी ज्ञानस्यापि दीप्तिर्विवर्द्धते सा खल्वे षा पिवृद्धिः प्रकर्षमनुभवति आ विवेकख्यातेरा गुणपुरुषस्वरूपविज्ञानादित्यर्थः। योगाङ्गानुष्ठानमशुद्धेर्वियोगकारणं यथा परशुः छेद्यस्य, विवेकख्यातेस्तु प्राप्तिकारणं यथा धर्मः सुखस्य, नान्यकारणम्। कति चैतानि कारणानि शास्त्रे भवन्ति नवैवेत्याह तद् यथा “उत्पत्तिस्थित्यभिव्यक्तिविकारप्रत्ययाप्तयः। वियोगान्यत्वधृतयः कारणं नवधा स्मृतम्” इति। तत्रोत्पत्तिकारणं मनोभवति ज्ञानस्य स्थितिकारणं मनसः पुरुषार्थता शरोरस्येवाहार इति अभिव्यक्तिकारणं यथा रूपस्यालोकस्तथा रूपज्ञानम्। विकारकारणं मनसो विषयान्तरम् यथाग्निः पाक्यस्थ, प्रत्ययकारणं धूमज्ञानमग्निज्ञानस्य, प्राप्तिकारणं योगाङ्गानुष्ठानं विवेकख्यातेः वियोगकारणं तदेवाशुद्धेः अन्यत्वकारणं, यथा सुवर्णकारः सुवर्णस्य, एवमेकस्य प्रत्ययस्याविद्यामूढत्वे द्वेषो, दुःखत्वे रागः, सुखत्वे तत्त्वज्ञानं माध्यस्थ्ये, धृतिकारणं शरीरमिन्द्रियाणां, तानि च तस्य महाभूतानि शरीराणां तानि च परस्परं सर्वेषाम्। तैर्य्यग्यौनमानुषदैवतानि च परस्परार्थत्वादित्येवं नव कारणानि तानि च यथासम्भवं पदार्थान्तरेष्वपि योज्यानि” भा० स्त्रीणां यौवने अयत्नसाध्ये गुणभेदरूपे ३ सत्वजेऽलङ्कारे च “यौवने सत्वजास्तासामष्टाविंशतिसंख्यकाः। अलङ्कारास्तत्र भावहावहेलास्त्रयोऽङ्गजाः। शोभा कान्तिश्च दीप्तिश्च माधुर्यञ्च प्रगल्भता” इत्युपक्रमे “रूपयौवम लालित्यभोगाद्यैरङ्गभूषणम्। शोभा प्रोक्ता, सैव कान्तिर्मन्मथाप्यायिता दुतिः। कान्तिरेवातिविस्तीर्णा दीप्तिरित्यभिधीयते” सा० द० लक्षयित्वा उदाजहार यथा “तारुण्यस्य विलासः समधिकलावण्यसम्पदोहासः। धरणितलस्याभरणं युवजनमनसोवशीकरणम्”। दीपकर्त्तरि संज्ञायां क्तिच्। ४ लाक्षायां ५ कांस्ये च राजनि०। विश्वदेवभेदे पु० “उष्णीनाभो नभोदश्च विश्वायुर्दीप्तिरेव च” भा० अनु० ९१ अ० विश्वदेवोक्तौ।

दीप्तिक = स्त्री दीप्त्या कायति कै–क। दुग्धपाषाणवृक्षे राजनि०।

दीप्तिमत् = पु० दीप्तिरस्त्यस्य मतुप्। दीप्तियुक्ते “तद्व्योम्नि शतधा भिन्नं ददृशे दीप्तिमन्मुखम्” रघुः। उदक्स्थो दीप्तिमान् स्थूलो जयी याम्येऽपि यो बली” सू० सि० “दिवश्च्युतैर्भूरतिदीप्तिमद्भिर्नक्तं ग्रहैर्द्यौरमलप्रदीप्तैः” भा० क०९४ अ०। कृष्णस्य सत्यभामायां जाते २ पुत्रभेदे पु० कृष्णस्येत्युपक्रमे “जज्ञिरे सत्यभामायां भानुर्भीमवरः क्षुपः। रोहितो दीप्तिमांश्चैव ताम्रजाक्षो जला न्तकः” हरिवं० १६२ अ०।

दीप्तोद = न० दीप्तमुदकं यत्र उदकस्योदादेशः। तीर्थभेदे “गच्छ पुत्र! नदों पुण्यां वधूसरकृताह्वयाम्। तत्रोप स्पृश्य तीर्थेषु पुनर्वपुरवाप्स्यसि। दीप्तोदं नाम तत्तीर्थं यत्र ते प्रपितामहः। भृगुर्देवयुगे राम! तप्तवानुत्तमं तपः। तत्तथा कृतवान् रामः कौन्तेय! वचनात् पितुः” भा० व० ९९ अ०

दीप्तोपल = पु० दीप्तः सूर्यकरसंसर्गात् ज्वलितः उपलः। सर्यकान्तमणौ (आतर्सा) राजनि०।

दीप्त्य = त्रि० दीप्ताय दीपनाय हितम् गवा० यत्। दीप्तिहिते।

दीप्य = पु० दीपाय अग्निदीपनाय हितम् अपूपा० पक्षे यत्। १ यमान्यां २ जीरके च राजनि०। ३ रुद्रजटायाम् अमरः ४ प्रदीपहितादौ त्रि०।

दीप्यक = पु० दीप्य + संज्ञायां कन् स्वार्थे क वा। १ अजमोदायां २ यमान्यां ३ मयूरशिखायां रुद्रजटायाञ्च मेदि०।

दीप्र = त्रि० दीप–र। दीप्तिशीले “हिंस्रेषु दीप्रास्त्रधरः कुमारः” “ब्रातीनव्यालदीप्रास्त्रः सुत्वनः परिपूजयन्” भट्टिः

***