दिप्सु = त्रि० दन्भ–सन् उ–छान्दसः न भष्। दम्भेच्छौ। “न यं दिप्सन्ति दिप्सवः” ऋ० १। २५। १४। “लोकेतु धिप्सति धिप्सुः” इति भेदः।

दिभ = नीदने चु० उभ० सक० सेट् इदित्। दिम्भयति–ते अदिदिम्भत्–त।

दिम्प = संघाते चुरा० उभ० सक० सेट्। दिम्पयति ते अदिदिम्पत्–त।

दिय = त्रि० देय + पृषो०। देवे “भुवद्वसुर्दियानां पतिः” ऋ० ८। १९। ३७।

दिरिपक = पु० कन्दुके त्रिका०।

दिलीप = पु० सूर्य्यवंश्ये १ नृपभेदे। सूर्यवंशे दिलीपौ च द्वौ जातौ एकः अंपुमतः पुत्रः स्वट्वाङ्गापरनामा। अपरोदुलिदुहस्य पुत्रः रामवृद्धप्रपितामहः यथोक्तं हरिवशे १५ अ० “सुतः पञ्चजनस्यासीदंशुमान्नाम वीर्यवान्। दिलीपस्तनयस्तस्य खट्वाङ्ग इति विश्रुतः। येन स्वर्गादिहागत्य मुहूर्त्तं प्राप्य जीवितम्। त्रयोऽनुसन्धिता लोका बुद्ध्या सत्येन चानघ!। दिलीपक तु दायादो महाराजो भगीरथः”। “अनमित्रसुतो राजा विद्वान् दुलिदुहोऽभवत्। दिलीपस्तनयस्तस्य रामस्य प्रपितामहः। दीर्घबाहुर्द्दिलीपस्य रघुर्नाम्नाऽभवत्सुतः। अयोध्यायां महाराजो रघुरासीन्महाबलः। अजस्तु रघुतोजज्ञे अजाद्दशरथोऽभवत्। रामो दशरथाज्जज्ञे धर्मात्मा सुमहायशाः” हरिवं० १५ अ० रामस्य प्रपितामहः तस्य वृद्धप्रमितामहः इत्यर्थः। तत्र रथुपितरि “दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव” रघुः।

दिलीपराज् = पु० दिलीप एव राट् राजा। दिलीपनृपे त्रिका०।

दिलीर = न० दल–वा० ईर पृषो०। शिलीन्ध्रे हारा०।

दिव = प्रीतौ भ्वा० पर० सक० सेट् इदित्। दिन्वति अदिन्वीत्।

दिव = जिगोषायां क्रीडायां च अक० पणे व्यवहारे इच्छायां स्ततौ च सक० दिवा० पर० सक० सेट्। अस्य करणस्य वा कर्मसंज्ञा। अक्षैरक्षान् वा दीव्यति अदेवीत् दिदेव। देवित्वा द्यूत्वा देवनं दिदिवान् दुद्यूवान् “अदीव्यद्रौद्रमत्युग्रम्” भट्टिः। “उवाच दीव्याव पुनर्वहुवित्तं मयाऽर्जितम्” भा० व० ७८ अ० “दिव्यामि शकुने! त्वया” भा० स० ७४ अ० “ततस्तु भाते वार्ष्णेये पुण्यश्लोकस्य दीव्यतः वा० व० ६१ अ०। “तदाऽदेवीत् पाण्डवीऽजातशत्रुः” भा० स० ६५ अ०। आर्षे तु क्वचित् तङ्। “प्रव्रज्यायेव दीव्येत विना दुर्द्यूतदेविनम्” भा० वि० १८ अ० “अक्षानुखा पुनर्द्यूतमेहि दीव्यस्व भारत!” भा० स० ७४ अ०। “के तत्रान्ये कितवा दीव्यमाना विना राज्ञो धृतराष्ट्रस्य पुत्रैः” ५६० श्लो० “दिवस्तदर्थस्य” पा० व्यवहारक्रीडार्थत्वेऽस्य कर्म्मणि षष्ठी शतस्यदीव्यति। तदर्थस्य किं ब्राह्मणं दीव्यति स्तौती त्यर्थः सि० कौ०। द्यूतं जिगीषायामन्यत्र आद्यूनः जिगीषाशून्य इत्यर्थः। टिदेविषति दुद्यूषति देवयति ते अदिदिवत् त। “तेनादुद्यूषयद्रामं मृगेण मृगलोचना” भट्टिः। देदिवीति देद्योति उपसर्गपूर्वस्य तत्तदुपसर्गद्योत्यार्थयुक्ते तदर्थे।

दिव = कूजने चु० आत्म० सक० सेट्। देवयते अदिदेवत।

दिव = अर्द्दे चु० उभ० सक० सेट्। देवयति ते अदीदिवत् त।

दिव् = स्त्री दीव्यत्यत्र दिव–वा० आधारे डिवि। १ स्वर्गे २ आकाशे च अमरः। द्यौः दिवौ दिवः द्युम्याम् द्युषु। ३ दिने “सौरेण द्युनिशोर्वामम्” सू० सि० “मनीषितं द्यौरपि येन दुग्धा” रघुः “य इत्थमस्वास्थ्यमहर्दिनं दिवः” “दिवीव चक्षुराततम्” ऋ० १। २२। ५

दिव = न० दीव्यत्यत्र घञर्थे आधारे क। १ स्वर्गे। दिवौकद्धः त्रिदिवः। २ आकाशे मेदि०। ३ दिने ४ वने च हेमच०। तत्र स्नर्गे “लोकपालैर्महाभागैर्दिवं देववरैरिव” भा० व० १६१ अ० दिने “शुशुभेऽभ्यधिकं राजन्। दिवं ज्योति र्गणैरिव” हरिवं० ९३ अ०।

दिवङ्गम = त्रि० दिवमाकाशं स्वर्गं वा गच्छति दिव–वा० खच् मुस्। १ आकाशगामिनि। “दिशं प्रतिष्ठमानानामस्तु शब्दो दिवङ्गमः” भा० व० ४८ अ०। २ स्वर्गगामिनि च “दिवङ्गमं रुरोधाथ मार्गं भीमस्य कारणात्” भा० व० १४६ अ०।

दिवन् = न० दिव–वा० अप्रतिपूर्वादपि कनिन् उज्ज्वल०। स्वर्गे त्रिदिवौकसः। अस्य भत्वे उपधाऽल्लोपस्य दीर्घः विधौ स्थानिवत्त्वाभावात् दीर्घः दीव्ना दीव्ने इत्यादि

दिवस = पु० दीव्यत्यत्र दिव–असच् किच्च। “नाडीषष्टितमस्तत्र सावनो दिवसः स्मृतः। त्रि शभागोऽर्कराशेस्तु दिवसः सौर उच्यते। चान्द्रस्तु तिथ्यवच्छिन्नो भौमो भूपरिधेर्मतः” इत्युक्तेषु सावनादिषु दिनेषु। “दिवसाः परिणामरमणीयाः” शकु०। “अयोजयत् स धर्मात्मा दिवसे दिवरे श्र च”। भा० उ० १८२ अ०।

दिवसकर = पु० दिवसे करोऽस्य दिवसं करोति कृ–अच् वा। १ सूर्ये हेमच० २ अर्कवृक्षे च। “दिवसकरसचोऽस्तं ध्यान्तमन्तर्गृहेषु” माघः। कृ–क्विप् दिवसकृदप्यत्र पु०।

दिवस्पति = पु० दिवः पतिः अलुक्ल० रोःसत्वम्। १ इन्द्रे अमरः। “इन्द्राणीमानयिष्यामो यथेच्छसि दिवस्पते!” भा० उ० ११ अ०।

दिवस्पुत्र = पु० दिवः आकाशस्य पुत्रवत् प्रियः दिवः पुरु त्रायते त्रै–क पृषो० वा। १ द्युलोकप्रिये २ द्युलोकपालके वा सूर्ये। “दिवस्पुत्राय सूर्याय शंसत” यजु० ४। ३५ “दिवस्पुत्राय द्युलोकस्य पुत्रवत् प्रियाय द्युलोकाद्धि सूर्यो जायते दिवः पुरु त्रायते स इति दिवस्पुत्राय दिवःपालकायेति” वा वेददी०।

दिवस्पृथिवी = स्त्री द्वि० व० द्यौश्च पृथिवी च “दिवसश्च पृथि व्याम्” पा० दिव इत्येव चात् द्यावा च आदेशे अकारोच्चारणं सकारस्य रुत्वं (क्वापि) मा भूदित्येतदर्थम्” सि० कौ०। रोदस्योः द्यावाभूम्योः हेमच०। “तं देवा बुध्ने रजसः सदंससं दिवस्पृथिव्योररतिम्” ऋ० २। २। ३

दिवस्पृश = पु० स्पृशति स्पृश–क्विन् ६ त०। पादेन स्वर्ग स्पर्शिनि १ परमेश्वरे “दिवस्पृक् सर्वदृग्व्यासः” विष्णुस०। “दिवःस्पर्शनाद्दिवस्पृक्” भा० “पादोऽस्य सर्वाभूतानि त्रिपादस्यामृतं दिवि” छा० उ० तस्य पादस्य दिविस्थत्वात् त्रिविक्रमावतारे वा तथात्वात् तत्त्वम्। २ आकाशस्पर्शिनि शब्दादौ च।

दिवा = अव्य० दिव–का। दिवसे अमरः “दिवा मातर्युष्मच्चरणयुगलध्याननिरनः” कर्पूरस्तवः “पश्चिमान्तु समासीनो मलं हन्ति दिबाकतम्” मनुः।

दिवाकर = पु० दिवा करोरि कृ–ट। १ सूर्ये २ अर्कवृक्षे च “दिवाकरकरैः पूतं दिवास्नानं प्रगस्यते” ति० त० “दिवाकराद्रक्षति यो गुहासु” “दिवाकराप्लुष्टविभूषणास्प दाम्” कुमा०।

दिवाकरसुत = पु० ६ त०। १ शनौ २ यमे ३ कर्णे ४ सुग्रीवे च ५ यमुनायां तपत्यां च स्त्री। अरुणात्मजशब्दे दृश्यम्। “गङ्गादिवाकरसुताजलचारुहाराम्” वृ० सं० ४३ अ०

दिवाकीर्त्ति = पु० दिवैव कीर्त्तिः कृत्यं यस्य रात्रौ क्षुरकर्मनिषेधात्। १ नापिते अमरः। २ चण्डाले हेमच०। तस्य दिवाचरत्वात्तथात्वं दिवाचरशब्दे दृश्यम्। “दिवाकीर्त्तिमुदक्याञ्च पतितं सूतिकां तथा। शवं तत्स्मृष्टिनं स्पृष्ट्वा स्नानेनैव विशुध्यति” मनुना तस्यास्पृश्यत्वमुक्तम्। दिवाऽकीर्त्तिर्यस्य। उलूके पेचके हेमच०। दिवा तस्य नामोच्चारद्वे हि तस्य भक्ष्यद्रव्ये तिक्तता जायते इति लोकसिद्धत्वात् तन्नाम्नो न दिवाकीर्त्तनीयता।

दिवाकीर्त्त्य = न० दिवा दिवसे कीर्त्त्यं कीर्त्तनीयम्। वर्षसाध्ये गवामयने सत्रे द्वयोर्मासषठ्कयोर्मध्ये विषुवन्नामके एकस्मिन्नहनि गेये सामभेदे तच्च ता० ब्रा० ४। ६। १ दर्शितं यथा “विषुवानेष भवति” पूर्वोत्तरयोः पक्षसोर्मध्येऽनुष्ठेयं गवायनस्य प्रधानभूतं विषुवदाख्यमहः प्रदशयति एष विषुवान् संवत्सरस्य मध्यतो भवतीत्युपक्रमे अस्मिन्नहनि सामानि विधत्ते” भा०। “दिवाकीर्त्त्यसामा भवति” ता० ब्रा० ४। ६। १२। “दिवाकीर्त्त्यानि शुक्रियाणि सामानि तस्मिन् प्रयुज्यन्ते इति दिवाकीर्त्त्यसामा अय विषुवान् दिवाकीर्त्त्यसामा कार्यः” भा०। तस्य प्रशंसापूर्वकं तत्र गेयर्चः प्रतीकञ्च दर्शतं यथा “स्वर्भानुर्बा आसुर आदित्यन्तमसाविध्यत्तस्य देवा दिवाकीर्त्त्यैस्तमोऽपाघ्नन् यद्दिवाकीर्त्यानि भवन्ति तम एवास्मादपघ्नन्ति रश्मयो वा एत आदित्यस्य यहृवाकीर्त्यानि रश्मिभिरेव तदादित्यं साक्षादारभन्ते” ता० ब्रा० ४। ६। १३ “आसुरेण स्वर्भानुना तमसाविद्धस्यादित्यस्य वा धकं तमोऽन्धकारं देवा दिवाकीर्त्त्यैः सामभिरपाघ्नन् व्यनाशयन् अते यद्दिवाकीर्त्त्यान्यस्मिन् भवन्ति तेन तम एवास्मादादित्यादपघ्नन्ति। कथमेषां साम्नां तमसोहननसामर्थ्यमिति चेत् उच्यते दिवाकीर्त्यसामानीति यत् एते आदित्यस्य रश्मयो वै रश्मिरूपा एव अत एषां युक्तमेव तमसो नाशकत्वं तत्तथासति रश्मिभिरेवादित्य साक्षात् प्रत्यक्षमारभन्ते ये सत्रिणो विषुवति दिवाकीर्त्यानि प्रयुञ्जत इत्यर्थः। दिवाकीर्त्त्य सामभिस्तमसोऽपहननं सामान्येनोक्तं तदेव विवृणोति” भा० “भ्राजाभ्राजे पवमानमुखे भवतो मुण्यत एवास्य तमोऽपघ्नन्ति” ता० ब्रा० ४। ६। १४। “पवमानमुस्वे माध्यन्दिनार्भवयोः पवमानयोर्मुखे प्रमुखे भ्राजाभ्याजे सामनी भवतः गायत्रस्य नित्यत्वात् ततः परस्तात् क्रमेण भवत इत्यर्थः। अस्य प्रत्नामनुद्यूतमिति तृचे गातव्यं साम भ्राजं, तन्माध्यन्दिने पवमानमुखे, “परिस्वानोगिरिष्टा इत्यस्मिन् गेयं साम आभ्राजं तदार्भवपवमानमुखे” भा०

दिवाचर = त्रि० दिवा दिवसे चरति भक्षार्थम् चर–ट। पक्षिभेदे स्त्रियां ङीप्। “टिवाचरो न शर्वर्यां न च नक्तञ्चरो दिवा” वृ० स० ८ अ० २ चण्डाले तस्य रात्रौ ग्रामनगरे चारनिषेधेन दिवसे एव धारस्य मनुनावि- हितत्वात् तथात्वं यथा “रात्रौ न विचरेयुस्ते ग्रामेषु नगरेषु च। दिवा चरेयुः कार्य्यार्थं चिह्निता राजशासनैः” ३ श्यामाखगादौ च दिवासञ्चरशब्दे दृश्यम्।

दिवाचारिन् = त्रि० दिवा चरति चर–णिनि। दिवससञ्चारिणि भूते। “स्वाहेत्यथ बलिहरणम्” इत्युपक्रमे “सर्वेभ्यो भूतेभ्यो दिवाचारिभ्य इति दिवा” आश्व० गृ० १। २। ९ सू०।

दिवाटन = पुंस्त्री० दिवाऽटति अट–ल्यु। १ काके शब्दार्थकल्प० स्त्रियां जातित्वात् ङीष्। २ दिवागतयुक्ते त्रि०।

दिवातन = त्रि० दिवा भवः द्यु तुट् च। दिवाभवे। “शशिन इव दिवातनस्य लेखा” कुमा०। स्त्रियां ङीप्। “पङ्कजानां दिवातनीम्” भट्टिः।

दिवातर = न० अतिशयेन दिवा प्रकाशकम् तरप्। अत्यन्तप्रकाशके दिवसे। “यः सुदर्गतरो दिवातरात् प्रायुषे दिवातरात्” ऋ० १। १२७। ५

दिवान्ध = पुंस्त्री० दिवा दिवसे अन्धः। १ पेचके त्रिका० २ दिवसान्धप्राणिमात्रे च। “दिवान्धाः प्राणिनः केचित् रात्रावन्धास्तथाऽपरे” देवीमा० ३ वल्गुलाखगे स्त्री राजनि०

दिवान्धकी = स्त्री दिवान्ध–स्वार्थे क गौरा० ङीष्। छुछुन्दर्य्याम् पुराणम्।

दिवाभीत = पुंस्त्री दिवा दिवसे भीतः। १ पेचके “लीनं दिवाभीतमिवान्धकारम्” कुमा०। स्त्रियां जातित्वात् ङीप्। २ कुमुदाकरे ३ चौरे च पु० मेदि०।

दिवाभीति = पु० दिवा भीतिरस्य। १ पेचके शब्दर०। २ दिवसभीतियुक्ते त्रि०।

दिवामणि = पु० दिवा मणिरिव। १ सूर्ये शब्दर० २ अर्कवृक्षे च।

दिवामध्य = पु० ६ त०। मध्याह्ने हेमच०।

दिवावासु = पु० दिवा वसुः किरणोऽस्य। १ सूर्ये २ अर्कवृक्षे च दीव्यति दिव–क्विप् द्यौः आवसुः हविरस्य दिवमावसति आ + वस–उन् वा। १ दीप्तहविष्के २ द्युलोक वासिनि वा इन्द्रे। “दिवं यय दिवावसो!” ऋ० ८। ३४। १।

दिवाशय = पु० दिवा दिवसे शेते–शी–अच् ७ त०। १ दिवास्वापयुक्ते २ दिवसेऽप्रकाशयुक्ते च “न मे दिवाशयाः पुत्रा न रात्रौ दधिभोजिनः। गुर्विणीं नानुगच्छति न स्पृशन्ति रजस्यलाम्” जैमि० भारतम्। “आरुरोह कुमुदाकरोपनां रात्रिजागरपरोदिवाशयः” रघुः।

दिवासञ्चर = त्रि० दिवा विसे सञ्चरति सम–चर–ट। दिवलचारिणि प्राणिभेदे तथाभूताः वृ० सं० ८८ अ० कति- चिदुक्ता यथा “श्यामाश्येनशशघ्नवञ्चुलशिखिस्त्रीकर्ण चक्राह्वयाश्चाषाण्डीरकखञ्जरोटकशुकध्वाङक्षाः कपोतास्त्रयः। भारद्वाजकुलालकुक्कुटखरा हारीतगृध्रौ कपिः फेण्टः कुक्कुटपूर्णकूटचटकाश्चोक्त दिवासञ्चराः”।

दिवासप्न = पु० दिवा दिवसे स्वप्नः। दिवानिद्रायाम। तद्दोषादिंकं दिनचर्य्याशब्दे भावप्र० उक्तमुक्तम्। सुश्रुते च “सर्वर्त्तुषु दिवास्वापः प्रतिषिद्धोऽन्यत्र ग्रीष्मात्। प्रतिषिद्धेष्यपि तु बालवृद्धस्त्रीकर्षितक्षतक्षीणमद्यनित्ययानवाहनाध्व कर्मपरिश्रान्तानामभुक्तवतां मेदःस्वेदकफरसरक्तक्षीणानामजीर्णिनाञ्च मुहूर्त्तं दिवास्वप्नमप्रतिषिद्धं रात्रावपि जागरितवतां जागरितकालादर्द्धमिष्यते दिवास्वप्नः। विकृतिर्हि दिवाखप्नो नाम तत्र स्वपतामधर्मः सर्वदोषप्रकोपश्च तत्प्रकोपाच्च कासश्चासप्रतिश्यायसिरा गौरवाङ्गमर्द्दाऽरोचकज्वराग्निदौर्बल्यानि भवन्ति”। “मृगयाक्षी दिवास्वप्नः परीवादः स्त्रियोमदः। तौर्यत्रिकं वृथाट्या च कामजो दशको गणः” व्यसनोक्तौ मनुः रसाभियुक्तमन्नं वा दिवास्वप्नञ्च सेवते। अपक्वान्नगते काले स्वयं दोषान् प्रकोपयेत्” भा० आश्व० १७ अ०

दिवास्वाप = पु० ७ त०। १ दिवसनिद्रायाम्। दिवास्वप्नशब्दे दृश्यम्। दिवास्वापोयस्य। २ उलूकादौ च तेषां रात्रिचारित्वेन दिवास्वापवत्त्वात् तथात्वम् यथोक्तं वृ० सं० ८८ अ० “लोमाशिकापिङ्गलाच्छिपिकाख्यौ वल्गुल्युलूकौ शशकश्च रात्रौ।” २ वल्गुलीखगे स्त्री राजनि०।

दिवि = पु० दीव्यति दिव–वा० कि। चाषखगे शब्दसा०

दिविक्षित् = त्रि० दिवि क्षयति वसति क्षि–क्विप् अलुक्स०। स्वर्गवासिनि। “सूर्य्यामासाविचरन्ता दिविक्षिता” ऋ० १०। ९२। १२। “दिविक्षिता दिविवसन्तौ” भा० औस्थान्येवेदे आच्। “गम आदित्येभ्यश्च विश्वेभ्यश्च देवेभ्यो दिविक्षिद्भ्यो लोकक्षिद्भ्यः” छा० उ०

दिविज = पु० दिवि जायते जन–ड अलुक्स०। द्युलोकजाते “तामेवातिदूरे मधूकरीमिव सुमनस उपजिघ्रतीं दिविज मनुजमनोनयनाह्लाददुषैर्गतिविहारविनयावलोकसुस्वराक्षरावयवैः भाग० ५। २। ७ “व्युषा आवो दिविजा ऋते नाविष्कृण्वाना” ऋ० ७ ७५ १ “जे विभाषा” पा० पक्षे लुक् द्युजोऽप्यत्र

दिवित्मत् = दीप्तिमत् + पृषो०। दीप्तियुक्ते “महाराये दिवित्मते” ऋ० ४। ३१। ११ “दिवित्मते दीप्तिमते” भा०।

दिविता = स्त्री दीप–ब्रा० इतच् पृषो०। दीप्तौ “ग्रावाणो वाचा दिविता दिवित्मता” ऋ० १०। ७६। ६ “दिवितायां दीप्तिमत्तायाम्” भा०।

दिवियज् = पु० दिवि द्युनोकेस्थितानीन्द्रादीन् यजते यजक्विप् अलुक्स०। द्युलोकस्थितदेवयाजिनि “होतारो न दिवियजो मन्द्रतमाः” ऋ० ९। ९७ २६ “देवानिन्द्रादीन्स्तुवन्त्येवं दिवियजो दिवि द्युलोकेस्थितानिन्द्रादीन् देवान् यलन्तः” भा०।

दिविरथ = पु० पौरवे भूमन्युसुते नृपभेदे “ततो दिविरथोनाम भूमन्योरभवत् सुतः” भा० आ० ९४ अ० २ अङ्गराजपुत्र दधिवाहनपुत्रे नृपभेदे च “अङ्गपुत्रो महानासीद् राजेन्द्रो दधिवाहनः। दधिवाहनपुत्रस्तु राजा दिविरथोऽभवत्। पुत्रो दिविरथस्यासीच्छक्रतुल्य पराक्रमः” हरिवं० ३१ अ०।

दिविष(स)द् = पु० दिवि सीसति सद–क्विप् अलुक्स० वा षत्वम्। देवे अमरः। “पृथिवीसदं त्वान्तरिक्षसदं दिविसदं देवसदं नाकसदम्” यजु० ९। २ “मान्द्रानन्द पुरन्दरादिदिविषद्वृन्दैरमन्दादाराद्” “दृप्यद्दानवदूयमानदिविषद्दुर्वारदुःखापदाम्” गीतगो०।

दिविष्टि = त्रि० दिवमिच्छति इष–कर्त्तरि क्तिच। द्युलोकेच्छायुक्ते “इमा उ वां दिविष्टयः” र्० ७। ७४। १ “दिविष्टयो दिवमिच्छन्त्यः” भा०

दिविष्ठ = त्रि० दिवि तिष्ठति स्था–क अलुक्स० षत्वम्। १ अन्तरीक्षस्थे २ स्वर्गस्थिते च “दिविष्ठस्य भुविष्ठस्त्वं सखीभूतो मम प्रियः” भा० आ० ६ अ०।

दिविस्पृश् = त्रि० दिवि स्पृशति क्विन् “न रपरेति” पा० पर्युदासात् न षत्वम्। द्युलोकस्पर्शिनि “आहि स्थाथो दिविस्पृशम्” ऋ० ४। ४६। ४ किन्नन्तत्वात् झलि पदान्ते च कुः

दिवी = स्त्री दिव बा० ई। उपजिह्विकाकीटे हारा०।

दिवेदिवे = अव्य० दिव–बा० के द्वित्वञ्च। दिवसे निरु०।

दिवोकस् = पु० द्यौ स्वर्ग आकाशो वा ओकोयस्य। १ देवे २ चातकस्वगे च मेदि०।

दिवोजा = त्रि० दिवो जायते जन–ङ। वा० अलुकस०। द्युलोकाज्जाते “एषा स्या नो दुहिता दिवोजा” ऋ० ६। ६५। १

दिवोदास = पु० दिवः स्वर्गात दामीदानं यस्मै। वध्रश्वस्य पुत्रभेदे “वध्रश्वान्मिथुनं यज्ञे मेनकायामिति श्रुतिः। दिवोद्रामश्च राजर्षिरहल्या च यशस्विनी” हरिवं० ३२ अ०। मनुर्वश्ये रिपुञ्जयास्व्ये २ नृपभेदे च तत्कथा काशीऋ० ४७ अ०।

“ततश्चिन्तयता स्रष्ट्वा दृष्टो राजर्षिसत्तमः। अवि- मुक्ते महाक्षेत्रे तपस्यन्निश्चलेन्द्रियः। ममोरन्वयजो वीरः क्षत्रोधर्मैवीदितः। रिपुञ्जयेति विख्यातो राजा परपुरञ्जयः। अथ ब्रह्मा तमासाद्य बहुगौरवपूर्वकम्। उवाच वचनं राजन्! रिपुञ्जय! महामते!। इमां पालय भूपाल! ससमुद्रादिकाननाम्। नागकन्यां लागराजः पत्न्यर्थन्ते प्रदास्यति। अनङमोहिनीन्नाम्ना वासुकिः शीलभूषणाम। दिवोऽपि देवादास्यन्ति रत्नानि कुसुमानि च। प्रजाप्रलनसन्तुष्टा महाराज! प्रतिक्षणम्। दिवोदास इति ख्यातमतो नाम त्वमाप्स्यसि। मत्प्रसादाच्च नृपते! दिव्यं सामर्थ्यमस्तु ते। परमेष्ठिवचः श्रुत्वा ततोऽसौ राजसत्तमः। वेधसं बहुशः स्तुत्वा वाक्यञ्चेदमुवाच ह। राजोवाच। पितामह। महामान्य! त्रिलोकीकरणक्षम!। कथन्नान्ये च राजानो मे कथं कथ्यते त्वया। ब्रह्मोवाच त्वयि राज्यं प्रकुर्वाणे देवोवृष्टिं विधास्यति। पापनिष्ठे च वै राज्ञि न देवो वर्षते पुनः। राजोवाच यद्यहं पृथिवीनाथः सर्वलोकपितामह!। तदा दिविसदो देवा दिवितिष्ठन्तु सा भुवि। देवेषु दिवि तिष्ठत्सु मयि तिष्ठति भूतले। असपत्येन राज्येन प्रजा सौख्यमवाप्स्यति! तथेति विश्वसृक्प्रोक्तो दिवोदासो नरेश्वरः। पटह घोषयाञ्चक्रे दिवं देवा व्रजन्त्विति। मयि प्रशासति क्षौणीं सुराः खस्था भवन्त्विति। नागच्छन्त्विह वै नाना नराः सुस्था भवन्त्विति” इत्युपक्रमे दिवोदास्यस्य काशीतो निर्वासनान्तकथा तत उत्तरैषु अध्यायेषु दृश्या। ३ धन्वन्तरेरवतारे काशीराजभेदे आयुर्वेदशब्दे तत्कथा ७८९ पृ० सुश्रुतप्रादुर्भावे भाव० प्र० उक्ता दृश्या।

दिवोद्भव = त्रि० दिवे स्वेर्गे उद्भवति उद् + भू अच्। आकाश स्वर्गयोर्जाते। २ एलायां स्त्री शब्दार्थकल्प०।

दिवोल्का = स्त्री दिवा जाता उल्का। दिवसजातायां नभसश्च्युतायामुल्कायाम्। “सधूमा न्यपतत् सार्चिर्दिवोल्का नभसश्च्युता” भा० उ० ३० अ०।

दिवौकस् = पु० दिवं स्वर्ग ओकोयस्य दिवा ओकोयस्येति दिवन्शब्दे उजज्वलदत्तः। देवे “पथि व्यजृम्भन्त दिवौकसामपि”। “वचोनिशम्याधिपतेर्दिवौकसाम” रघुः। “कीर्त्तयन्निव दिवौकसां प्रियम्” माथः “तारकेश्च दिवौकमः” कुमा०।

दिवौकस = पु० (ओकस्) शब्दोऽदन्मोऽभलीत्युज्ज्वलदलोक्ते दिवमोकसोऽस्य। देवे “वसुधामिह संप्राप्तैः सर्वैरेव दिवौकसैः” हरिवं० २१३ अ०।

दिव्य = त्रि० दिवि भवः यत्। १ स्वर्गभवे २ आकाशभवे ३ उत्पातभेदे पु० “संसूचयन्ति दिव्यान्तरीक्षभौमास्तदुत्पाताः” वृ० सं० उक्तम् उत्पातशब्दे ११२३ पृ० दृश्यम्। ४ यमे ५ गुग्गुलौ च पु० राजनि०। कालीविलासतन्त्रोक्ते ६ भावभेदे “शृणु भावत्रयं देवि! दिव्यवीरपशुक्रमात्। दिव्यस्तु देववत्प्रायो वीरंश्चोद्धतमानसः। सत्यत्रेतार्द्धपर्यन्तं दिव्यभावविनिर्णयः। त्रेताद्वापरपर्यन्तं वीरभाव इतीरितम्। मद्यं मत्स्यं तथा मांसं मुद्रां मैथुनमेव च। श्मशानसाघनं भद्रे! चितासाधनमेव च। एतत्ते कथितं सर्वं दिव्यवीरमतं प्रिये। दिव्यवीरमतं नास्ति कस्विकाले सुलोचने!”। ७ नायकभेदे रसमञ्जरी इन्द्रादयो दिव्यनायकाः। ८ लवङ्गे न० मेदि० ९ हरिचन्दने न० राजनि०। १० गङ्गाजलादिस्पर्शपूर्वकशपथभेदे “ब्राह्मणो वचनं श्रुत्वा ज्ञानेशोज्ञानिनां वरः। गङ्गातोयं करे कृत्वा स्वीकारञ्च चकार सः। गङ्गातोयमुपस्पृश्य मिथ्या यदि व्रदेज्जनः। स याति कालसूत्रञ्च यावद्वै ब्रह्मणोवयः”। ब्रह्म० वै० प्र० ख०। “तथा गङ्गोदकं ताम्रं गोमयं गोरजस्तथा। सत्यं वा यदि वाऽसत्यं यदि दिव्यं करोति यः। कर्त्ता। च गौरवं याति तथा कारयित्वा प्रिये!। उभयोः पुनरावृत्तिनरयोनिषु नास्ति वै। तस्यास्ति पुनरावृत्तिर्व्याघशूकरयोनिषु। दिव्यं कर्तुः कारयितुर्जपपूजा वृथा तथा। गायत्रीरहितस्यापि नरकञ्चोत्तरोत्तरम्” इति गायत्रीतन्त्रे ५ पट०। व्यवहारे प्रतिज्ञातार्थसाधनाय वादिप्रतिवादिनोरन्यतराभ्यां कर्त्तव्ये ११ लौकिकसाक्ष्यादिप्रमाणासद्भावे तुलादिपरीक्षाभेदे। तद्भेदादिः तत्र त्यसामान्यविधिच्च वीरमि० दिव्यमातृकायां दर्शितो यथा

“तत्र दिव्यन्नाम मानुषप्रमाणाभावे यन्निर्णायकं यत् तदुच्यते। यत्तु स्मृतितत्त्वे एवकारस्थले अपिशब्द दत्त्वा मानुषप्रमाणसत्त्वेऽपि यत्र दिव्याङ्गीकारस्तत्रापि तद्भवतीति प्रयोजनमुक्त तदयुक्तम् “एषामन्यतमाभावे दिव्यान्यतममिति” वदता याज्ञवल्क्येन “प्रमाणहीने वादे तु निर्दोषा दैविकी क्रियेति” वदता वृहस्पतिना च “युक्तिष्वप्यसमर्थासु शपथैरेनमर्दयेदिति” नारदेनापि मानुषप्रमाणासत्त्वे एव दिव्यस्य विधानात्। तत्र० वृहस्पतिः दिव्यवेदानाह “घटोऽग्निरुदकर्ञ्चैव विषं कोषस्तु पञ्चमः। शरन्तु तण्डुलाः प्रोक्ताः सप्तमन्तप्तमाषकम्। अष्टमं फालमित्युक्तं नवमन्धर्मजन्तथा। दिव्यान्येतानि सर्वाणि निर्दिष्टानि स्वयम्भुवेति”। नारदः “युक्तिष्वप्यसमर्थासु शपथैरेनमर्दयेत्। अर्थकालबलापेक्ष मग्न्यम्बुसुकृतादिभिः। धटोऽग्निरुदकं चैव विषं कोशस्तु पञ्चमः। उक्तान्येतानि दिव्यानि विशुद्ध्यर्थं महात्मभिः। सन्दिग्धेऽर्थेऽभियुक्तानां परीक्षार्थं महात्मनाम्। प्राक्तानि नारदेनेह सत्यानृतविशुद्धये” इति। अर्दयेत्पीडयेत्। अर्थापेक्षत्वं सिसाधयिषितार्थस्याल्पत्वमहत्त्वानुरूपमित्यर्थः। नन्वेषामपि शपथानां मानुषप्रमाणाभाव एव निर्णायकत्वेन दिव्यत्वात् कथं दिव्यानि नवेत्यभिधानम्। तथा च शङ्खः “तत्र दिव्य नाम तुलाधारणं विषाशनमप्सु प्रवेशो लोहधारणमिष्टापूर्त्तप्रदानमन्यांश्च शपथान् कारयेदिति”। तांश्च शपथानाह वृहस्पतिः “सत्यवाहनशस्त्राणि गोवीजकनकानि च। देवव्राह्मणपादांश्च पुत्रदारशिरांसि च। एते च शपथाः प्रोक्ताः स्वल्पार्थे सुकराः सदेति”। नारदोऽपि “सत्यवाहनशस्त्राणि गोरीजकनकानि च। देवतापितृपादांश्च दत्तानि सुकृतानि च। स्पृशेच्छिरांसि पुत्राणां दाराणां सुहृदान्तथा। अभियोगेषु सर्वेषु कोशपानमथापि वा। इत्येते शपथाः प्रोक्ता मनुना स्वल्पकारणे” इति। सत्यम्। अत्र समनन्तरभाविनिर्णयनिमित्तस्य दिव्यत्वेन विवक्षितत्वात्। तादृशत्वञ्च घटादीनामेव न तु शपथानान्तेषां कालान्तरभाविनिर्णयनिमित्तत्वात्। नन्वेवं कोशस्य कथन्तेषु ग्रहणमिति चेत् सत्यम्। तस्य तेषु पाष्ठोमहाभियोगविषयकत्वसाम्यात् सावष्टम्भाभियोगविषयत्वसाम्याच्च। वस्तुतस्तु शपथानामपि मारदादिवचनानुसाराद्गोबलीवर्दन्यायेन दिव्यत्वाभ्युपगमेन नवशब्दस्योपलक्षणत्वात्। तथाच नारदः “युक्तिष्वप्यसमर्थासु शपथैरेनमदेयेत्। अर्थकालबलापेक्षमग्न्यम्बुसुकृतादिभिः। घटोऽग्निरुदकञ्चैव विषं कोशश्च पञ्चमः। उक्तान्येतानि दिव्यानि विशुद्ध्यर्थं महात्मभिः”। दिव्यं नाम तुलारोहणम्। विषाशनमप्सु प्रवेशो लोहधारणमिष्टापूर्त्तप्रदानमन्यास शपथान् कारयेत्। मनुः “असाक्षिकेषु त्वर्थेषु मिथो विवदमानयोः। अविदंस्तत्त्वतः सत्य शपथेनापि लम्भयेत्। अग्निं वाहारवेदेनमप्सु चैनन्निमज्जयेत्। पुत्रदारस्य वाप्येनं शिरांसि स्पर्शयेत् पृथक्। यस्माद्देवैः पयुक्तानि पुष्करार्थे महात्मभिः। परस्मरविशुद्ध्यर्थं तस्माद्दिव्यानि नामतः”। असाक्षिकेष्विति मानुषप्रमाष्णरहितेष्वित्यर्थः। उद्दिष्टानां दिव्यानां षध्ये तुलादीनि महाभियोगे प्रयोक्तव्यानि तथा च याज्ञवल्क्यः “तुलाग्न्यापो विषं कोगो दिव्यामीह विशुद्धये। महाभियोगेष्वेतानि शीर्षकस्थेऽभियोक्तरि। रुच्चा वान्यतरः कुर्य्यादितरो वर्त्तयेच्छिरः”। अत्राम्बिशब्देन तप्तायापिण्डादयो गृह्यन्ते। णीर्षकं लक्षणया जयपराजयनिमित्तो दण्डः तत्प्रयुक्तदण्डभागित्वं वा रुच्या इच्छया। इतरः अभियुक्ताभियोक्त्रोरन्यतरः। इतरः शिरोवर्त्तयेत् दण्डं स्वीकुर्यादित्यर्थः। ननु “कोशमल्पेऽपि दापयेत्” इति स्वल्पाभियोगेऽपि कोशस्य विधानात् कथं महाभियोगेष्वेतानीति चेन्न तस्य तुलादिषु पाठोऽवष्टम्भाभियोगेऽपि प्राप्त्यर्थः। न तु महाभिवोगेष्वेवेति नियमार्थः। “अन्यथा कोशस्य शङ्काभियोग एव प्राप्तिः स्यात्। “अवष्टम्भाभियुक्तानधटादीनि विनिर्दिशेत्। तण्डुलाश्चैव कोशश्च शङ्कास्वेतौ नियम्य चेति पितामहस्मरणात्। अवष्टम्भः शीर्षकस्थः। अवष्टम्भोऽत्र निश्चय इति स्मृतितत्त्वे। यदा शीर्षकस्थोऽभियोक्ता न स्यात्तदा एतानि दिव्यानि न स्यादिति तथा च नारदः “शिरोवर्त्ती यदा न म्यात्तदा दिव्यं न दीयते” इति। दिव्यदाने नियममाह पितामहः “अभियोक्ता शिरःस्थाने दिव्येषु परिकीर्त्त्यते। अभियुक्ताय दातव्यं दिव्यं श्रुतिनिदर्शनात्”। कात्यायनोऽपि “न कश्चिदभियोक्तारं दिव्येषु विनियोजयेदिति”। अभियुक्ताय दातव्यमित्यस्यापवादं रुच्यावान्यतर इत्यनेनाह याज्ञवल्क्यः। नारदोऽपि “परियोक्ता शिरःस्थाने सर्व त्रैकः प्रकल्पितः। इच्छया त्वितरः कुर्य्यादितरो वर्त्तयेच्छिरः” इनि। क्वचिद्विषयविशेषे शिरोविनापि दिव्यं देयमित्याह याज्ञवल्क्यः “विनापि शीर्षकात् कुर्य्यान्नृपद्रोहेऽथ पातके” इति। शीर्षकाद्विनापि पराजयप्रयुक्तदण्डभागिनोऽभियोक्तुरभावेऽपि। पातके ब्रह्महत्यादौ। कात्यायनोऽपि “पार्थिवैः शङ्कितानाञ्च निर्दिष्टानाश्च दस्युमिः। आत्मशुद्धिपराणाञ्च दिव्यं देयं शिरो विनेति”। कालिकापुराणेऽपि “परदाराभिशामे च चोर्य्यागम्यागमेषु च। महापातकशस्ते च स्थाद्दिव्य नृरसाहमे। पिप्रतिपत्तौ विवादेऽवर्णस्य स्यापने कृते। तत्रैव स्थापयेद्दिव्यं शिरःपूर्बं मही- पतिः। परदाराभिमर्षे च बहवो यत्र वादिनः। शिरोहीनम्भवेद्दिव्यमात्मनः शुद्धिकरणादिति”। विप्रतिपत्तौ परदारगमनाद्यभियोगरूपायां, विवादे ऋणादानादिविषये अवर्णोऽवबादः। परदाराभिमर्षे चेति चौर्य्यादीनानप्युपलक्षणम्। विष्णुः “राजद्रोहे साहमे च विना शीर्षप्रवर्त्तनादिति”। विषयविशेषेषु दिव्यविशेषानाह संग्रहकारः “धटादीनि विषन्तानि गुरुष्वर्थेषु दापयेत्”। पितामंहोऽपि “अवष्टम्भाभियुक्तानां धटादीनि विनिर्दिशेत्। तण्डुलाश्चैव कोशश्च शङ्कास्वेतौ नियोजयेत् इति”। कात्यायनः “शङ्काविश्वाससन्धाने विभागे रिक्थिनां सदा। क्रियासमूहकर्तृत्वे धटादीनि विनिर्दिशेत्”। क्रियासमूह कर्त्तृत्वे सम्भूयैकक्रियाकारित्वे। पितामहोऽपि “विश्रम्भे सर्वशङ्कासु सन्धिकार्य्ये तथैव च। एषु कोशः प्रदातव्यो नित्यं चित्तविशुद्धवे। शिरःस्थापि विहीनानि दिव्यादीनि विवर्द्धयेत्। धटादीनि विषान्तानि कोश एकः शिरः स्मृतः” इति। तण्डुलानां विपयं स एवाह “चौर्य्ये तु तण्डुला देया नान्यत्रेति विनिश्चयः” इति। अन्यत्र स्त्रीसंग्रहादौ न तु दत्तापह्नवे “तदर्द्धार्द्धस्य तण्डुला” इति वक्ष्यमाणकात्यायनवचनेन तण्डुलदिव्यस्य विधानात्। एतदल्पचौर्य्यशङ्कायां वेदितव्यम्। “चौर्य्येऽभिशङ्कायुक्तानां तप्तमाषो बिधीयते” इति महाचौर्य्यशङ्कायां तप्तमाषस्य तेनैव विधानात्। द्रव्यसङ्ख्यया दिव्यविशेषानाह विष्णुः “अथ शपथक्रिया राजद्रीहादिषु यथाकामनिक्षेपर्णस्तेयेष्वर्थप्रमाणादिति”। शपथो दिव्यम्। राजद्रोहादिषु यथाकामं राजेच्छानुरोधाद्दिव्यं निक्षेपादिषु धनतारतम्यादित्यर्थः। वस्त्रादिविषयविवादे तु तन्मूल्यद्रव्यपरिमाणं ग्राह्यम्। वृहस्पतिराप “विष सहस्रेऽपहृते पादोने च हुताशनः। त्रिभागोने च सलिलमर्द्धे देयो धटः सदा। धनुःशतावियोगे तु दातव्यस्तप्तमाषकः। त्रिशते तण्डुला देयाः कोशश्चैव तदद्धके। शतहृतेऽपह्नुते च दातव्यं धर्मशोधनम्। गोचरस्य प्रदातव्यं सद्यः कालावलेहनम्। एवा सङ्ख्या निकृष्टानां मध्यानां द्विगुणा स्मृता। चतुर्गुणोत्तमानाञ्च कल्पनीया परीक्षकैरिति”। धर्मशोधनम्। धर्मज दिव्येन शोधनम्। निकृष्टानां जातिगणधर्मैः मध्यमत्वमुत्तमत्वञ्च तैरेव। यत्तु “नाहस्तादुद्धरेत् फालन्न विषं न तुलां तथेति” याज्ञ्यवल्क्यवचनं तन्मध्यमोत्तमपुरुषविषयम्। यत्तु “सहस्ने तु धटं दद्यात् सहस्रार्द्धे तथायसम्। अर्द्धस्यार्द्धे तु सलिलं तस्यार्द्धे तु विषं स्मृतमिति” पितामहवचनं तद्यत्राल्पद्रव्यापहारे पातित्यं भवति तद्विषयम्। एतत्स्तेयसाहसविषयम् दत्तापह्नवे तु कात्यायनः “दत्तस्यापह्नवो यत्र प्रमाणं तत्र कल्पयेत्। स्तेयसाहसयोर्दिव्यं स्वल्पेऽप्यर्थे प्रदापयेत्। सर्वद्रव्यप्रमाणन्तु ज्ञात्वा हेम प्रकल्पयेत्। हेमप्रमाणयुक्तन्तु तदा दिव्यं प्रयोजयेत्। ज्ञात्वा सङ्ख्यां सुवर्णानां शतनाशे विषं स्मृतम्। अशीतेस्तु विनाशेऽथ दद्याच्चैव हुताशनम्। षष्ट्या नाशे जलं देयं चत्वारिंशति वै धटम्। विंशद्दशविनाशे तु कोशपानं विधीयते। पञ्चाधिकस्य वा नाशे तदर्द्धार्द्धस्य तण्डुलाः। ततीऽर्द्धार्द्धविनाशे हि स्पृशेत्पुत्रादिमस्तकान्। ततोऽर्द्धार्द्धविनाशे तु लौकिकस्य क्रिया स्मृता। एवं विचारयन् राजा धर्मार्थाभ्यां न हीयत” इति। अत्र सुवर्णशब्दः षोडशमाषात्मकः। नाशोऽपह्नवः। विंशद्दशविनाशे त्रिंशद्विनाशन इति स्मृतिचन्द्रिका। पञ्चाधिकस्य पञ्चभ्योऽधिकस्य षट्प्रभृतेरिति यावत्। तदर्द्धार्द्धस्य सुवर्णप्रभृतेः। ततोऽर्द्धार्द्धस्य अष्टमाषोन सुवर्णार्द्धप्रभृतेः। ततोऽर्द्धार्द्धस्य विनाशे सार्द्धसप्तमाषो नसुवर्णार्द्धप्रभृतेर्विनाशे। लौकिकाश्च क्रियाः। अपह्नवे तव दशगुणो द्रव्यनाशो भविष्यतीत्यादिकाः। चशब्दः स्मार्त्तशपथसंग्रहार्थः। अतएवाह विष्णुः “सर्वेष्वेवार्थजातेषु मूल्यं कनकं कल्पयेत्। तत्र च कृष्णलोने शूद्रं दूर्वाकरं शापयेत्, द्विकृष्णलोने तिलकरम्, त्रिकृष्णलोने जलकरं चतुःकृष्णलोने सुवर्णकरम्, पञ्चकृष्णलोने सीरोद्धृतमहीकरम्, तत्र सुवर्णार्द्धोने कीशो देयः शूद्रस्य ततःपरं यथार्हं धटाग्न्युदकविषाणामन्यतमं द्विगुणार्थे यथाभिहिता समयक्रिया। बैश्यस्य त्रिगुणेऽर्थे, राजन्यस्य कोशवर्जञ्चतुर्गुणेऽर्थे ब्राह्मणस्य कोशन्दद्यात् अन्यत्रागामिकालसमयनिबन्धनक्रियातः कोशस्थाने ब्राह्मणं सीरोद्धृतमहीकरमेव शापयेत्। प्राग्दृष्टदोषं स्वल्पेऽप्यर्थे दिव्यानामम्यतममेव कारयेत्। सत्सु प्रथितं सच्चरितं न महत्यर्थेऽपीति”। सीरोद्धृतमहीकरं लाङ्गलोद्धृतलोष्टहस्तमित्यर्थः। ऊनग्रहणमधिके शापनिवृत्त्यर्थं शापे तु विशेषमाह मनुः “सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः। गोवीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैरिति” यद्यहमर्थापह्नवी स्यात् तदा सत्याभिधानधर्मो मम निष्कलः स्यादिति शप कारिणं ब्राह्मणं वाचयेत्। एवं क्षत्रियादीनां वाहनादीनि निष्फलानि स्युरित्यादीत्यर्थः। पादस्पर्शादीनां विशेषः स्मृत्यन्तरे दशितः “निष्के तु सत्यवचनं द्विनिष्के पादलम्भनम्। ऊनत्रिके तु पुष्पं स्यात् कोशपानमतःपरम्” इति। अत्र निष्कशब्देन कर्षचतुर्थांशो मुद्रामुद्रितः प्रतिपाद्यते क्वचिद्देशे तत्रापि निष्कव्यवहारात् न तु मनूक्तो निष्कः तस्य राजतपलात्मकत्वेन मूलकाञ्चनकर्षादधिकत्वात् तत्र सत्यवचनविधौ चतुर्गुणेऽर्थे ब्राह्मणस्येति विरोधः स्यात्। दिव्ये दण्डे च मनूक्तं परिमाणम् ग्राह्यमिति वृहस्पतिराह “सङ्ख्या रश्मिरजोमूला मनुना समुदाहृता। कार्षापणान्ता सा दिव्ये नियोज्या विनये तथेति”। संख्या परिमाणं रश्मिरुजीमूला त्रसरेण्वादिका। विनये दण्डे। तच्च परिमाणं प्रतिज्ञापूर्वकं मनुराह “लोकसं व्यवहारार्थं याः संज्ञाः प्रथिता भुवि। ताम्ररूप्यसुवर्णानां ताः प्रवक्ष्याम्यशेषतः। जालान्तरगते भानौ यत् सूक्ष्मं दृश्यते रजः। प्रथमं तत्प्रमाणानान्त्र्यसरेणुम्पचक्षते। त्र्यसरेणवोऽष्टौ विज्ञेया लिक्षैका परिमाणतः। ता राजसर्षपस्तिस्रस्ते त्रयो गौरसर्षपः। सर्षपाः षड्यवो मध्यस्त्रियवन्त्वेककृष्णलम्। पञ्चकृष्णलको माषस्ते सुवर्णस्तु षोडश। पलं मुवर्णाश्चत्वारः पलानि धरणन्दश। द्वे कृष्णले समधृते विज्ञेयो रौप्यमाषकः। ते षोडश स्याद्धरणं पुराणश्चैव राजतः। धरणानि दश ज्ञेयः शतमानस्तु राजतः। कार्षापणस्तु विज्ञेयः कार्षिकस्ताम्रिकः पणः। चतुःसौवर्णिको निष्को विज्ञेयस्तु प्रमाणतः” इति। अत्र ताम्ररूप्यसुवर्णानामिति ताम्ररूप्ययोरल्पत्वात् प्राक्प्रयोगो न तु क्रमप्रदर्शनार्थः। पलानि धरणन्दशेत्यन्तं सुवर्णपरिमाणाभिधानात्। चतुःसौवर्णिकी निष्क इत्युक्तं रूप्यपरिमाणाभिधानम्। अवशिष्टेन ताम्रपरिमाणाभिधानम्। जालान्तरप्रविष्टे सूर्यरश्मौ यत् सूक्ष्मं रजो दृश्यते तत् त्र्यसरेणुसंज्ञकम् अष्टौ त्र्यसरेणवो लिक्षा तास्तिस्रः राजसर्षपः। त्रयो राजसर्षपाः गौरसर्षपः। षड्गौरसर्षपा मध्यमो यवो न सूक्ष्मो न स्थूल इति। मध्यमयवस्य परिमाणमुक्तं मिताक्षरायाम् मध्यशब्दः पादपूरणार्थः। तथा च संपूर्णयवपरिमाणमुक्तमिति मनु- भाष्ये। त्रयो यवाः कृष्णलम्। माषः पञ्च कृष्णलानि सुवर्णः षोडश माषाः। पलं सुवर्णाश्चत्वारः। धरणन्दश पलानि। सूप्यमाषो द्वे कृष्णले। रजतस्य धरणं षोडश रूप्यमाषाः। अस्य च पुराण इति संज्ञान्तरम्। राजतः शतमानः राजतदशधरणानि राजतपलसंज्ञाप्यस्य भवति। “शतमानन्तु दशभिर्धरणैः पलमेव त्विति” याज्ञवल्क्यस्मरणात्। पूर्वोक्तसुवर्णचतुष्टयपरिमिति एकी राजतनिष्कः। कार्षिकः कर्षसंमितः ताम्रिकस्ताम्रविकारः कार्षापणो विज्ञेयः। पण इति च संज्ञा अस्यैव विज्ञेयेत्यर्यः। चशब्दोऽध्याहार्यः। अतएव वृहस्पतिः “निष्कं सुवर्णाश्चत्वारः कार्षिकस्ताम्रिकः पणः”। ताम्रकर्षकृता मुद्रा विज्ञेयः कार्षिकः पणः। स एव चन्द्रिका प्रोक्ता ताश्चतस्रस्तु धानकाः। ता द्वादश सुवर्णस्तु दीनाराख्यः स एव तु”। इति कर्षः पलचतुर्थांशः। “ते षोडशाक्षः कर्षोऽस्त्री पलङ्कर्षचतुष्टयम् इत्यमरसिंहेनाभिधानात्। ते माषाः षोडशाक्षः कर्ष इति च संज्ञेत्यर्थः। तेनाक्षकर्षशब्दयोः सुवर्णपरिमाणवचनत्रमित्यवगम्यते। याज्ञवल्क्यः पले विकल्पमाह “पलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्त्तितम्”। इति तस्य चतुर्थोऽंशो विंशतिर्माषा तत्परिमितः कार्सापणः। अतएव कात्यायनः “माषो विंशतिभागस्तु ज्ञेयः कार्षापणस्य तु। काकिणी तु चतुर्भागा माषकस्य पणस्य चेति”। राजतोऽपि कार्षापणोऽस्तीत्याह नारदः “कार्षापणो दक्षिणस्यान्दिशि रौप्यः प्रवर्त्तत” इति। व्यासस्तु निष्कस्य प्रमाणमाह “पलान्यष्टौ सुवर्णस्तु ते सुवर्णाश्चतुर्दश। एतत् निष्कप्रमाणन्तु व्यासेन परिकीर्त्तितम्”

वर्णभेदेन दिव्यव्यवस्थामाह नारदः “ब्राह्मणस्य धटो देयः क्षत्रियस्य हुताशनः। वैश्यस्य सलिलं देयं शूद्रस्य विषमेव तु। साधारणः समस्तानां कोशः प्रोक्तो मनीषिभिः। विषं विना ब्राह्मणस्य सर्वेषां वा तुला स्मृता” इति। अनित्या चेयं व्यवस्था “राजन्येऽग्निधटं विप्रेवैश्ये तोयं नियोजवेत्। सर्वेषु सर्वदिव्यं वा विषवर्जं द्विजोत्तमे” इति कात्यायनस्मरणात्। व्यवस्थापक्षे वयोविशेषादिना व्यवस्थापनीयम् तदाह नारदः “क्लीवातुरान् अत्वहीनान् परितश्चार्दितान्नरान्। बालवृद्धातुरांस्त्रीश्च परीक्षेत धटं सदा। स्त्रीणान्तु न विषं प्रोक्तं न चापि सलिलं स्मृतम्। धटकोशादिभिस्तासामन्तस्तत्त्वं विथ्रारयेत्। नार्त्तानान्तीय शद्धिः स्यात् न विषं पित्तरोगिणाम्। श्वित्र्यन्धकुनखादीनां नाग्निकर्म विधीयते। न मज्जनीयाः स्त्रीबाला धर्म्मशास्त्रविचक्षणैः। रोगिणो ये च वृद्धाः स्युः पुमांसो ये च दुर्बलाः। निरुत्साहान् व्याधिक्लिष्टान्नार्तांस्तीये निमज्जयेत्। सद्यो म्रियन्ते मज्जन्तः स्वल्पप्राणा हि ते स्मृताः। साहसेऽप्यागतानेतान्नैव तोये निमज्जयेत्। न चापि हारयेदग्निन्न विषेण विशोधयेत्” याज्ञवल्क्यः “तुला स्त्रीबालवृद्धान्धपङ्गुब्राह्मणरोगिणाम्। अग्निर्जलं वा शूद्रस्य यवाः सप्त विषस्य चेति”। स्त्रीमात्रजातिवयोऽवस्थाविशेषानादरेण। बाल आषोडशाद्वर्षाज्जातिविशेषानादरेण। वृद्धोऽशीतिकावरः। अन्धो नेत्रविकलः। पङ्गुः पादविकृतः। ब्राह्मणीजातिमात्रम्। रोगी व्याधितः।

एतेषां शोधनार्थं सर्वदिव्यसाधारणेषु मार्गशीर्षशेत्रवैशाखेषु स्त्र्यादीनां सर्वदिव्यप्रसक्तौ तुलैवेति नियम्यते न तु सर्वकालं स्त्रीणां तुलानियमः कोशादिविधानात्। अग्नि फालस्तप्तमाषश्च क्षत्रियस्य। जलमेव वैश्यस्य। यवा एवार्थे शूद्रस्य विषस्य सप्तेव यवा उक्तप्रमाणलक्षणा भवन्तीत्यर्थः। ब्राह्मणस्य तुलाविधानात् अग्निर्जलं वेति क्षत्रियवैश्यविषयमित्यवगम्यते। अतएव पितामहः “ब्राह्मणस्य धटो देयः क्षत्रियस्य हुताशनः। वैश्यस्य सलिलं प्रोक्तं विषं शूद्रस्य दापयेत्” इति। कात्यायनोऽपि “न लोहशिल्पिनामग्निः सलिलं नाम्बुसेविनाम्। मन्त्रयोगविदाञ्चैव विषं दद्यात्तु न क्वचित्। तण्डुलैर्न नियुञ्जीत व्रतिनं मुखरोगिणाम्” इति। व्रतिनं पयोब्रतादिनियमस्थम्। हारीतोऽपि “कुष्ठिनां वर्जयेदग्निं सलिलं श्वासकासिनाम्। पित्तश्लेष्मवतां नित्यं विषंच परिवर्जयेत्” इति। विष्णुरपि “न श्लेष्मकारिणां व्याधितानां भीरूणां श्वासकासिकानामम्बु सेविनामुदकं हेमन्तशिशिरयोश्चेति” पितामहोऽपि “कुष्ठिनां वर्जयेदग्निं सलिलं श्वासकासिनाम्। पित्तश्लेष्मवतां नित्यं विषन्तु परिवर्जयेत्। मद्यपस्त्रीव्यसनिनां कितवानां तथैव च। कोशः प्राज्ञै र्न दातव्यो ये च नास्तिकवृत्तयः” इति। यत्तु पितामहेनोक्तम् “सव्रतानां भृशार्त्तानां व्याधितानां तपस्विनाम्। स्त्रीणाञ्च न भवेद्दिव्यं यदि धर्मस्त्ववेक्ष्यते” इति तुलेतरविषयं तदिति केचित् तदयुक्तम्। “धटकोशादिभिस्तासामन्तस्तत्त्व विचारयेदिति पूर्वोदाहृत- नारदवचनेन स्त्रीणां कोशादेर्विधानात्। तदग्न्यम्बुविषयमित्युक्तं विद्यारण्यश्रीपादैः। विज्ञानेश्वराचार्यास्तु पुंस्त्रियोर्विवादे रुच्या वान्यतरः कुर्यादित्यनेन पक्षे स्त्रीणामपि दिव्यप्रसक्तौ पुरुषस्यैव दिव्यं न स्त्रीणामित्येतत्परमिदम्। अन्यथा सर्वथा तासां दिव्यनिषेधे धटकोशादिभिस्तासामन्तस्तत्त्वं विचारयेदित्यनेन विरोधः स्यादिति पाहुः। कात्यायनः “गोरक्षनान् बाणिजकांस्तथा कारुकुशीलवान्। प्रेष्यान् वार्द्धुषिकांश्चैव ग्राहयेच्छूद्रवद्द्विजान्”। कालिकापुराणेऽपि “वर्णान्त्यस्य सदा देयं माषकं तप्तहेमजमिति”। वर्णानामन्त्यः प्रत्यन्तः तस्येत्यर्थः। नारदोऽपि “महापराधे निर्द्धर्मे कृतघ्ने क्लीवकुत्सिते। नास्तिके दृष्टदीषे च शप्तानां तु विवजयेत्” इति। कात्यायनोऽपि “मातापितृद्विजगुरुवृद्धस्त्रीबालधातिनाम्। महापातकयुक्तानां नास्तिकानां विशेषतः। लिङ्गिनां प्रमदानाञ्च मन्त्रयोगक्रियाविदाम्। वर्णसङ्करजातानां पापाभ्यासप्रवर्त्तिनाम्। एतेष्वेवाभियोगेषु निन्द्येष्वेवं प्रवर्त्तितः। दिव्यं प्रकल्पयेन्नैव राजा धर्मपरायणः। एतैरेव नियुक्तानां साधूनां दिव्यमर्हति। न सन्ति साधवो यत्र तत्र शोध्याः स्वकैर्नरैरिति”। साधूनां दिव्यमर्हति राजा कल्पयितुमिति शेषः। प्रतिनिधिद्वारा एतैर्दिव्यं कारणीयमिति द्रढयितुमाह स एव “महापातकयुक्तेषु नास्तिवेषु विशेषतः। न देयं तेषु दिव्यन्तु पापाभ्यासरते भृगुः। येषु पापेषु दिव्यानि कर्त्तव्यानि प्रयत्नतः। तारयेत्सज्जनैस्तानि नाभिशस्तं त्यजेन्नर इति”। तारयेत् शोधयेत्। अभिशोधनं प्रतिनिधिद्वारा शीधनमकारयित्वा न त्यजेदित्यर्थः। यत्तु तेनैवोक्तम् “अस्पृश्याधसदासानां म्लेच्छानां पापकारिणाम्। प्रातिलोम्यप्रसूतानां निश्चयी न तु राजनि। तत्प्रसिद्धानि दिव्यानि संशये तेषु निर्दिशेदिति”। तत्तैर्नियुक्तानां साधूनामभावे विज्ञेयम्। तत्प्रसिद्धानि घटादीनि इति स्मृतितत्त्वे। साधूनामप्यसामर्थ्ये प्रतिनिधिमभ्युपजानाति स एव “कालदेशाविरोधे तु यथायुक्तं प्रकल्पयेत्। अन्येन हारयेद्दिव्यं विधिरेषु विपर्ययः”। सामर्थ्याभावे सर्ववर्णविषये विशेषमाह हारीतः, “राजन्येऽग्निं धटं विप्रे वैश्ये तोयन्नियोजयेत्। न विषं ब्राह्मणे दद्याद्विषं वर्णान्तरे स्मृतम्। कोशतण्डुलधर्मास्तु धर्मसम्भवमेव च। पुत्रदारादिशपथान् सर्ववर्णे प्रयोजयेत्” इति। अथ दिव्यकालः तत्र पितामहः “यो यस्य विहितः कालो विधिर्यस्य च यो यथा। तं प्रवक्ष्यामि तत्त्वेन वादिनश्च बलाबलम्। चैत्रो मार्गशिराश्चैव वैशाखश्च तथैव च। एते साधारणा मासा दिव्यानामविरोधिनः। धटः सर्वर्त्तुकः प्रोक्तो वाते वाति विवर्जयेत्। अग्निः शिशिरहेमन्तवर्षासु परिकीर्त्तितः। शरद्ग्रीष्मे च सलिलं हेमन्ते शिशिरे विषमिति”। विष्णुरपि स्त्रीब्राह्मणविकलाऽसमर्थरोगिणां न तुला देया न वाति वायौन कुष्ठ्यसमर्थलोहकाराणामग्निर्देयः शरद्ग्रीष्मयोश्च न कुष्ठिपैत्तिकब्राह्मणानां विषं देयं प्रावृषि च। न श्लैष्मिकाणां व्याध्यर्दितानां भीरूणां श्वासकासिनामम्बुजीविनामुदकं हेमन्तशिशिरयोश्चेति। हेमन्तनिषेधोऽत्र पौषमासविषय एव न तु मार्गशीर्षविषयोऽपि। मार्गशीर्षस्य “चैत्रो मार्गशिरा इति पूर्वोदाहृत पितामहवचनेन सकलदिव्यसाधारणत्वाभिधानात्। नारदोऽपि “विचार्य्य धर्मनिपुणैर्धर्मशास्त्रविशारदैः। धर्मं सर्वर्तुकं प्रोक्तं पण्डितैर्धटधारणम्। वर्षासु समये वह्निर्हेमन्तशिशिरे तथा। ग्रीष्मे सलिलमित्युक्तं विषं काले तु शीतले। न शीते तोयशुद्धिः स्यान्नीष्णकालेऽग्निशोधनम्। न प्रावृषि विषं दद्यात् प्रवाते न तुलां तथा। नापराह्णे न सन्ध्यायां न मध्याह्ने कदाचनेति”। मध्याह्ने दिव्यनिषेधो जलव्यतिरिक्तविषयः। अतएव पितामहः “पूर्वाह्णेऽग्निपरीक्षा स्यात् पूर्वाह्णे च धटो भवेत्। मध्याह्ने तु जल देयं धर्मतत्त्वमभीप्सता। दिवसस्य तु पूर्वाह्णे कोशशुद्धिर्विधीयते। रात्रौ तु पश्चिमे भागे विषं देयं सुशीतलमिति”। अत्र विषस्य वर्षासु निषेधात् सिंहरवावेव परीक्षामात्र निषेधाच्च दिव्यान्तरं सिंहेतरवर्षाष्वपि कुर्वन्ति। अतः “याम्यायने हरौ सुप्ते सर्वकर्माणि वर्जयेदित्यस्य न विषयः। तथा च ज्योतिषे “सिंहस्थे मकरस्थे च जीवे चास्तमिते भृगौ। मलमासे न कर्त्तव्या परीक्षा जयकाङ्क्षिणा”। तथा “रविशुद्धौ गुरौ चैव न शुक्रेऽस्तगते पुनः। सिंहस्थे च रवौ नैव परीक्षा शस्यते बुधैः। नाष्टम्यां न चतुर्दश्यां प्रायश्चित्तपरीक्षणे। न परीक्षाधिवासश्च शनिभौमदिने भवेत्”। रविशुद्धौ गुरौ चेदित्यत्र शस्यत इति शेषः तथा च दीपिकायाम् “न शुक्रास्तेऽष्टमेऽर्के गुरुसहितरवौ जन्ममासेऽष्टमेऽव्दे विष्टौ मासे मलाख्ये कुजशनिदिवसे जन्मतारासु चाथ। नाडीनक्षत्रहीने गुरुरविरजनीनाथताराविशुद्धौ प्रातः कार्य्या परीक्षा द्वितनुचरग्रहांशोदये शस्तलग्ने”। इति। यद्यपि दिव्ये वारविशेषविधानाभावस्तथापि शिष्टाचारादादित्यवारे दिव्यानि दातव्यानीति मिताक्षरायाम्। अथ द्रिव्यदेशाः तत्र पितामहः। “प्राङ्मुखो निश्चलः कार्यः शुचौ देशे धटः सदा। इन्द्रस्थाने सभायां वा राजद्वारे चतुष्पथे” इति। धटग्रहणं दिव्यान्तरस्याप्युपलक्षणम्। इन्द्रस्थानग्रहणञ्च प्रसिद्धदेवतायतनान्तरस्याप्युपलक्षणम्। अतएव दिव्यमात्रमुपक्रम्य नारदः “सभाराजकुलद्वारे देवायतनचत्वरे”। विषयविशेषे इन्द्रस्थानादीनां व्यवस्थामाह। कात्यायनः “इन्द्रस्थानेऽभिशस्तानां महापातकिनां नृणाम्। नृपद्रोहप्रवृत्तानां राजद्वारे प्रयोजयेत्। प्रातिलोम्यप्रसूतानां दिव्यं देयञ्चतुष्पथे। अतोऽन्येषु तु कार्य्येषु सभामध्ये विदुर्बुधा” इति। इन्द्रस्थाने इन्द्रध्वजपूर्वस्थाने। दिव्यदेशानादरे दिव्यं विसंवदतीत्याह, नारदः “अदेशकालदत्तानि बहिर्वासकृतानि च। व्यभिचारं सदर्थेषु कुर्वन्तीह न संशयः”। वासो जननिवासस्तस्माद्वहिष्कृतानि निर्जनप्रदेशकृतानीति यावत्। अतएव पितामहः “प्रत्यक्षं दापयेद्दिव्यं राजा वाधिंकृतोऽपि वा। ब्राह्मणानां श्रुतवतां प्रकृतीनां तथैव चेति”। ब्राह्मणानां प्रकृतयोऽमात्यास्तेपाञ्चेत्यन्वयः। अथ दिनव्यसाधारणविधिस्तत्र वृहस्पतिः “स्नेहात् क्रोधाल्लोभतो वा भेदमायान्ति साक्षिणः। विधिदत्तस्य दिव्यस्य न भेदो जायते क्वचिदिति”। विधिश्च पितामहेन दर्शितः “दिव्येषु सर्वकार्य्याणि प्राड्विवाकः समाचरेत्। अध्वरेषु यथाध्वर्युः सोपयासो नृपाज्ञया। तत आवाहयेद्देवान् विधिनानेन धर्मवित्। वादित्र तूर्यघोषैश्च गन्धमाल्यानुलेपनैः। प्राङ्मुखः प्राञ्जलिर्भूत्वा प्राड्विवाकस्ततो वदेत्। एह्येहि भगवन्धर्म! अस्मिन्दिव्ये समाविश। सहितो लोकपालैश्च वस्वादित्यमरुद्गणैः। आवाह्य तु धटे धर्मं पश्चादङ्गानि विन्यसेत्”। सर्वकार्य्याणि साधारणानि असाधारणानि च ततस्तदुपयोगिसामग्रीसम्पादनानन्तरमित्यर्थः। धटग्रहणमत्र दिव्यमात्रोपलक्षणम्। अस्मिन्दिव्य इति मन्त्रलिङ्गादेतेषां धर्माणां दिव्यमात्रसाम्यस्य। “इमं मन्त्रविधिं कृत्स्नं सर्वदिव्येषु योजयेत्। आवाहनञ्च देवानां तथैव परिकल्पयेत्” इत्युपसंहरता तेनैवोक्तत्वाच्च। अङ्गानि कानीत्याकाङ्क्षायां स एवाह, “इन्द्रं पूर्वे तु विन्यस्य प्रेतेशं दक्षिणे तथा। वरुणं पश्चिमे भागे कुवेरं चोत्तरे तथा। अग्न्यादिलोकपालांश्च कोणभागेषु विन्यसेत्। इन्द्रः पीतो यमः श्यामो वरुणः स्फटिकप्रभः। कुवेरस्तु सुवर्णाभः अग्निश्चैव सुवर्णभः। तथैव निरृतिः श्यामो वायुर्धूम्रः प्रशस्यते। ईशानस्तु भवेद्रक्त एवं ध्यायेत्क्रमादिमान्। इन्द्रस्य दक्षिणे पार्श्वे वसूनास्थापयेद्बुधः। धरोध्रुवस्तथा सोम आपश्चैवानलोऽनिलः। पत्यूषश्च प्रभातञ्च वसवोऽष्टौ प्रकीर्त्तिताः। देवेशेशानयोर्मध्ये आदित्यानां तथाऽयनम्। धातार्यमा च मित्रश्च वरुणांशो भगस्तथा। इन्द्रो विवस्वान् पूषा च पर्जन्यो दशमः स्मृतः। ततस्त्वष्टा ततो विष्णुरजघन्यो जघन्यजः। इत्येते द्वादशादित्या नाममिः परिकीर्त्तिताः। अग्नेः पश्चिमभागे तु रुद्रा एकादश स्मृताः। वीरभद्रश्च शम्भुश्च गिरिशश्च महायशाः। अजैकपादहिर्बुघ्न्यः पिनाकी चापराजितः। भुवनाधीश्वरश्चैव कपाली च विशाम्पतिः। स्थाणुर्भवश्च भगवान् रुद्रास्त्वेकादश स्मृताः। प्रेतेशरक्षोमध्ये च मातृस्थानं प्रकल्पयेत्। ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा। वाराही चैव माहेन्द्री चामुण्डा गणसंयुता। निरृतेरुत्तरे भागे गणेशायतनं विदुः। वरुणस्योत्तरे भागे मरुतां स्थानमुच्यते। पवनः स्पर्शनो वायुरनिलो मरुतस्तथा। प्राणाः प्राणेशजीवौ च मरुतोऽष्टौ प्रकीर्त्तिताः। घटस्योत्तरभागे तु दुर्गामावाहयेद्बुधः। एतासां देवतानान्तु स्वनाम्ना पूजनं विदुः। भूषावसानं धर्माय दत्त्वाचार्घादिकं क्रमात्। अर्घादि पश्चादङ्गानां भूषान्तमुपकल्पयेत्। गन्धादिकां निवेद्यान्तां परिचर्य्यां प्रकल्पयेत्। चतुर्दिक्षु तथा होमः कर्त्तव्यो वेदपारगैः। आज्येन हविषा चैव समिद्भिर्होमसाधनैः। सावित्र्या प्रणवेनाथ स्वाहान्तेनैव होमयेत्”। अङ्गानाम् इन्द्रादिदर्गान्तानाम् अर्थाद्युपकल्पनञ्च न काण्डानुसमयेन। तथात्वे प्रयोगवचनावगताङ्गसहभावबाधापत्तेः। किन्तु पदार्थानुसमयेन तथा च दुर्गायै भूषण दत्त्वा धर्मास्येन्दादिदुर्गान्तानाञ्च गन्धादिपरिचयं विप्रकल्पयेदिति। गायत्रीं प्रणवाद्रिकामुच्चार्य्य पुनः प्रणवं स्वाहाकारान्तमुच्चार्य्य समिदाज्यचरुभिः प्रत्येकमष्टोत्तरशतं जुहुयात्। “अनुक्तसङ्ख्या यत्र स्यात् शतमष्टोत्तरं स्मृतमिति” स्मरणादित्यर्थः। होमानन्तरकर्त्तव्यं स एवाह “यमर्थमभियुक्तः स्याल्लिखित्वा तन्तु पत्रके। मन्त्रेणानेन सहितन्तत् कार्यञ्च शिरः क्रमात्”। मन्त्रश्च “आदित्यचन्द्रावनिलानलौ च द्यौर्भूमिरापो हृदयं यमश्च। अहश्च रात्रिश्च उभेच सन्ध्ये धर्मश्च जानाति नरस्य वृत्तमिति” एतत् सर्वं पूर्बाह्णे कर्त्तव्यम् तस्य प्रधानकालत्वात् तथा च नारदः “अहोरात्रोषिते स्नाते आर्द्रवाससि मानवे। पूर्वाह्णे सर्वदिव्यानां प्रदानमनुकीर्त्तितमिति”। एतत् प्राड्विवाकेनोपवासादिनियमपूर्वकं कर्त्तव्यम् तथा च नारदः “प्राड्विवाकस्ततो विप्रो वेदवेदाङ्गपारगः। श्रुतवृत्तोपसम्पन्नः शान्तचित्तो विमत्सरः। सत्यसन्धः शुचिर्दक्षः सर्वप्राणिहिते रतः। उपोषितश्चार्द्रवासाः कृतदन्तानुधावनः। सर्वासां देवतानाञ्च पुजां कृत्वा यथाविधि”। कर्तुरुपवासादिकमाह “त्रिरात्रोपोषितोयः स्यादेकरात्रोपोषितस्तु वा। नित्यं देयानि दिव्यानि शुचये सार्द्रवाससे” इति। याज्ञवल्क्योऽपि “सचेलं स्नातमाहूय सूर्य्योदय उपोषितम्। कारयेत्सर्वदिव्यानि नृपव्राह्मणसन्निधाविति”। अत्र सूर्य्योदयपदेन पूर्वाह्ण एव ग्राह्यः “पूर्वाह्णे सर्वदिव्यानां प्रदानमनुकीर्त्तितमिति” नारदवचनानुरोधात्। त्रिरात्रैकरात्रीपवासयोः शक्ताशक्तविषयत्वेन व्यवस्था ज्ञेया। दिव्यप्रयोगानन्तरं दक्षिणादानम् उक्तेन विधिना दिव्यप्रयोगं कारयितुः राज्ञः फलञ्चाह पितामहः “सिद्भिः परिवृतो राजा शुद्धिमेतां प्रपूजयेत्। ऋत्विक्पुरीहिताचार्य्यान् दक्षिणाभिस्तु तोषयेत्। एवं कारयिता राजा भुक्त्वा भोगान्मनोरमान्। महतों कीर्त्तिमाप्नोति ब्रह्मभूयाय कल्पते” इति। अयञ्च विधिः सर्वदिव्यसाधारण इत्याह स एव “इमं मन्त्रविधिं कृत्स्नं सर्वदिव्येषु योजयेत्। आवाहनञ्च देवानां तथैव परिकीर्त्तितमिति”। सर्वदेवावाहनादि संशोध्यशिरसि पत्रारोपणान्तं सर्वदिव्यसाधारणमित्यर्थः” दिव्यमातृका। १२ जलभेदे। “दिव्यं चतुर्विधं प्रोक्तं धाराजं करकाभवम्। तौषारञ्च तथा हैमं तेषु धारं गुणाधिकम्” भाव० प्र०। १३ स्नानभेदे न० “असामर्थ्याच्छरीरस्य कालशक्त्याद्यपेक्षया। मन्त्रस्नानादितः सप्त केचिदिच्छन्ति सूरयः। मान्त्रं भौमं तथाग्नेयं वायव्यं दिव्यमेव च। वारुणं मानसञ्चैव सप्तस्नानं प्रकीर्तितम्। “आपोहिष्ठेति” वै मान्त्रं, मृदालम्भन्तु पार्थिवम्। आग्नेयं भस्मना स्नानं, वायव्यं गोरजः स्मृतम्। यत्तु सात पवर्षेण स्नानं तद्दिव्यमुच्यते। वारुणञ्चावगाह्यञ्च, मानस विष्णुचिन्तनम्। समस्तं स्नानमुद्दिष्टं मन्त्रस्नानक्रमेण तु। कालदोषादसामर्थ्यात् सर्वं तस्य फलं स्मृतम्” योगियाज्ञवल्क्यः। दिवि द्योतात्मके आदित्ये परमव्योम्नि वा ब्रह्मणि स्वस्वरूपे भवः यत्। “दिव्यश्च देवताप्रायः शुद्धान्तःकरणः सदा। द्वन्द्वातीतो वीतरागः सर्वभूतसमः क्षमी” इत्युक्ते १४ तत्त्ववेत्तरि पु० १५ आमलक्यां स्त्री मेदि०। १६ बन्ध्याकर्कोटक्याम् १७ शतावर्य्याम् १८महामेदायाम् १९ व्राह्म्याम् २० स्थूलजीरके २१ श्वेत दूर्वायाम् २२ हरीतक्याम् २३ पुरायाम् २४ गन्धवत्याञ्च स्त्री राजनि०। २५ दैवे दिने २६ नदीये माने च न० दिव्यदिनदिव्यमानशब्दयोर्दृश्यम्। २७ द्युलोकाज्जाते २८ मनोज्ञे २९ लोकातीते दिव्यदर्शी दिव्यचक्षुः त्रि०।

दिव्यकट = न० प्रतीचीस्थे पुरभेदे “कृत्स्नं पञ्चनदञ्चैव तथैवामरपर्वतम्। उत्तरज्योतिषञ्चैव तथा दिव्यकटं पुरम्” भा० स० ३१ अ० नकुलप्रतीचीजये।

दिव्यकुण्ड = न० कामरूपपीठस्थक्षोभकशैलपूर्वभागस्थे कुण्डविशेषे। “यथा तद्दक्षिणे महाशैलः क्षोभकोनामनामतः। तस्मिन् गिरौ शिलापृष्ठवक्त्रेदेवी व्यवस्थिता। पञ्चपुष्करिणी नाम्ना प्रञ्चयोनिस्वरूपिणी। एकत्र पञ्चभिर्दुर्गा योनिभिः पञ्चवक्त्रकम्। स्थिता रमयितुं तत्र नित्यमेव हिमाद्रिजा। तच्छैलपूर्वभागात्तु कान्ता नाम महानदी। दक्षिणं सागरं याति प्रथमां चोत्तरस्रवा। दिव्यकुण्डं महाकुण्डं तच्छैलोपत्यकागत्म। संस्थितस्तत्र स्नात्वा तु तां देवीं परिपूजयेत्। दिव्यकुण्डे नरः स्नात्वा पञ्चपुष्करिणीं शिवाम्। यः पूजयेन्महाभागः स योनौ न हि जायते”। कालि० पु० ८१ अ०

दिव्यगन्ध = पु० कर्म०। १ मनोज्ञे गन्धे। दिव्योगन्धोऽस्य। २ गन्धके ३ लवङ्गे च न० ४ स्थूलैलायां महाचञ्च शाके च स्त्री राजनि०।

दिव्यगायन = पु० कर्म्म०। गन्धर्वे अमरः।

दिव्यचक्षुस् = पु० दिव्यं चक्षुर्यस्मात् ५ ब०। १ मर्कटे शब्दमाला। (चसमा) ख्याते २ पदार्थे च ३ सुगन्धभेदे ४ सुलोचने च। दिव्यमन्तरीक्षभूतं चक्षुरस्य। ५ अन्धे त्रि० मेदि०। कर्मधा०। ५ अलौकिकपदार्थदर्शनयोग्ये नेत्रे न० “न च वा शक्यते द्रष्टुमनेनैव स्वचक्षुषा। दिव्यं ददामि ते चक्षुः फस्य मे योगमैश्वरम्” गीता। दिव्यमलौलिकार्थदर्शनसाधनं चक्षुरस्य। ७ तथाभूतनेत्रयुक्ते त्रि० “त्वया नियम्या ननु दिव्यचक्षुषा” रघुः “नमस्तुभ्यं विरूपाक्ष! नमस्ते दिव्यचक्षुषे” नीलकण्ठस्तवः।

दिव्यतेजस् = स्त्री दिव्यं तेजो यस्याः ५ ब०। १ ब्राह्मीलतायाम्। २ अद्भूततेजस्के त्रि०।

दिव्यदर्शिन् = त्रि० दिव्यमलौकिकपदार्थं पश्यति दृश–णिनि। अतीन्द्रियार्थदर्शके। “व्याजहार सभामध्ये दिव्यदर्शी महातपाः” भा० आश्र० २० अ०। दृश–क्विप्। दिव्यदृगप्यत्र।

दिव्यदिन = न० दिवि भवम् यत् कर्म०। दैवे दिने “मासैर्द्वादशभिर्वर्षं दिष्यं तदहरुच्यते” सू० सि० तन्मानमुक्तम्।

दिव्यदोहद = न० “यत् दीयते तु देवेभ्यो मनोराज्यस्य सिद्धये। उपयाचितकं दिव्यदोहदं तद्विदुर्बुधाः” हारा० उक्ते अभीष्टसिद्धये देवेभ्यो देये द्रव्ये।

दिव्यनदी = स्त्री कर्म०। आकाशगङ्गायाम्।

दिव्यनारी = स्त्री अप्सरःसु स्वर्वेश्यायाम् दिव्यस्त्री प्रभृतयोऽप्यत्र। “दिव्यस्त्रीकरचारुचामरवरैः संवीज्यमानः कदा” गङ्गास्तवः।

दिव्यपञ्चामृतम् = न० पञ्चानाममृतानां तत्तुल्यस्वादूनां समा हारः कर्म०। मिलितगव्याज्यदधिक्षीरमधुसितात्मके पदार्थे राजनि०।

दिव्यपुष्प = पु० दिव्यं मनोज्ञंपुष्पमस्य। १ करवीरे २ महाद्रोणायां राजनि० संज्ञायां कन् कापि अतैत्त्वम्। दिव्यपुष्पिका रक्तपुष्पकार्कवृक्षे स्त्री रत्नमाला।

दिव्यप्रश्न = पु० कर्म०। अनागतज्ञापके प्रश्ने। “उच्चावचं दैवयुक्तं रहस्यं दिव्यप्रश्नाः मृगचक्रामुहूर्त्ताः। क्षयं महान्तं कुरुसृञ्जयानां निवेदयन्ते पाण्डवानां जयञ्च” भा० उ० ४७ अ०।

दिव्यमान = न० कर्म०। दैवे माने “सुरासुराणामन्योन्यमहोरात्रं विपर्ययात्। यत् प्रोक्तं तद्भवेद्दिव्यं भानो र्भगणपूरणात्”। “युगानां त्रिघनं यातं तथा कृतयुगं त्विदम्। प्रोज्झ्य सृष्टेस्ततः कालं पूर्वोक्तं दिव्यसंख्यया”। “व्राह्मं दिव्यं तथा पित्र्यं प्राजापत्यं गुरोस्तथा। सौरं च सावनं चान्द्रमार्क्षं मानानि वै नव” सू० सि०।

दिव्ययमुना = स्त्री नित्यकर्म०। कामरूपपीठस्थदमनिकाया नद्याः पूर्वभागस्थे नदीभेदे यथा “तस्या नद्याः पूर्वभाने गङ्गेव फलदायिनी। माघन्तु सकलं मासं तस्यां स्नात्वा नरोत्तमः। तथा दमनिकायाञ्च परं निर्वाण माप्नुयात्। ततः पूर्वे परा देवी नाम्ना सा सरिदुत्तमा। महती दिव्ययमुना यमुनावत्फलप्रदा। दक्षिणाद्रिसमुद्भूता दक्षिणोदधिगामिनी। तस्यान्तु कार्तिकं मासं स्नात्वा मोक्षमवाप्नुयात्” कालि० पु० ८१ अ०

दिव्यरत्न = न० कर्म०। चिन्तामणौ मणौ शब्दार्थक०।

दिव्यरथ = पु० कर्म्म०। व्योमयाने विमाने शब्दरत्ना०।

दिव्यरस = पु० नित्यर्म्म०। १ पारदे राजनि०। २ मनोज्ञे रसे पु०। दिव्योरसीऽस्य। ३ रुचिररसयुक्ते त्रि०।

दिव्यलता = स्त्री कर्म्म०। १ मूर्वालतायाम् राजनि०। २ मनोज्ञे लतामात्रे च।

दिव्यवस्त्र = पु० दिव्यं वस्त्रं यस्मात्। १ सूर्यप्रकाशे शब्दरत्ना०। ६ त०। २ भास्वरवस्त्रयुक्ते त्रि० कर्म०। ३ मनोज्ञे वसने न०

दिव्यसरित् = स्त्री कर्म्म० आकाशगङ्गायाम् “व्योम्नि दिव्यसरिदम्बुपद्धतिः” माघः।

दिव्यसानु = पु० १ विश्वदेवभेदे “विश्वे चाग्निमुखा देवाः” इत्युपक्रमे “पार्ष्णिक्षेमासमूहश्च दिव्यसानुस्तथैव च” भा० आनु० ९१ अ० विश्वदेवोक्तौ। २ दिव्यसानुके गिरौ च।

दिव्यसार = पु० दिव्यः सारोऽस्य। शालवृक्षे राजनि०।

दिव्यादिव्य = पु० दिव्यश्चादिव्यश्च कर्म०। नायकभेदे रसमञ्जरी यथा अर्जुनादयः। २ नायिकाभेदे स्त्री यथा द्रौपद्यादयः। ३ उपदेवीभेदे स्त्री शब्दार्थचि०।

दिव्यासन = न० “अथ दिव्यासन वक्ष्ये पृष्ठं हस्तेन बन्धयेत्। एकहस्तमध्यदेशं भूमिहस्तञ्च नासया” रुद्रजा उक्ते आसनभेदे।

दिव्येलक = पु० सर्पभेदे “त्रयाणां वैकरञ्जानां पुनर्दिव्येलकलोध्रपुष्पकराजिचित्रिकाः पोटगलः पुष्पाभिकीर्णो दर्भपुष्पोवेल्लितकः सप्त तेषामाद्ययोराजिलवत् शेषा मण्डलिवत्” सुश्रु०।

दिव्योदक = न० कर्म०। १ अन्तरीक्षभवे जले दिव्यशब्दे भाव० प्र० वाक्ये तद्भेदादि दृश्यम्। अम्बुशब्दे विवृतिः।

दिव्योपपादुक = पु० उपपद्यते मातृपित्रादिदृष्टकारणमनपेक्ष्यैव अदृष्टसहकृताणुभ्य एव उत्पद्यते उप + पद–उकञ् कर्म० पिशाचादिव्यावृत्तये दिव्य इति विशेषणं तेषाञ्च मातृपित्रादिदृष्टकारणापेक्षाभावेऽपि दिव्यत्वाभावान्न तथात्वम्। देवे अमरः।

दिव्यौघ = पु० तन्त्रोक्ते गुरुभेदे। “महादेवो महाकालस्त्रि- पुरश्चैव भैरवः। दिव्यौघा गुरुवः प्रोक्ताः सिद्धौघान् कथयामि ते”। इति शक्तिरत्नाकरतन्त्रम्। “अथ तारागुरून् वक्ष्ये दृष्टादृष्टफलप्रदान्। ऊर्द्धकेशो व्योमकेशी नीलकण्ठोवृषध्वजः। दिव्यौघान् सिद्धिदान् वत्स! शृणुष्वावहितो मुदा”। “शृणु वत्स! महादेव! गुरून् दुर्गामनूद्भवान्। परमात्मा परानन्दः परमेष्ठी शुभोदयः। कृष्णकाल! कालनाथो दिव्यौघा भैरवादिकाः” तन्त्रसारे देवताभेदात्तद्भेदा उक्ता २ रुचिरौषधौ च

दिव्यौषधि = स्त्री नित्यकर्म०। १ मनःशिलायाम् शब्दार्थचि०।

***