दानक = न० कुत्सितं दानम् “दान कुत्सिते” पा० ग० सू० यावा० कन्। कुत्सिते दाने।

दानकाम = त्रि० दानं कामयते कम–स्वार्थे णिङ् अण्। दानशीले “गौतमस्तोमेन यदीच्छेद्दानकामा मे प्रजा स्यादिति” आश्व० श्रौ० ९। ३। १४।

दानच्युत = पुंस्त्री गोत्रप्रवरर्षिभेदे कार्त्तकौ० बाभ्रवशब्देनास्य द्वन्द्वे पूर्वपदे प्रकृतिस्वरः वाभ्रवदानच्युताः।

दानधर्म्म = पु० दानरूपो धर्मः। दानात्मके धर्मे स च भारते आनुशासनपर्वणि ५७ अध्यायावधिषु ६९ अध्यायान्तेषु विस्तरेणोक्तः। अन्यश्च “अथातः संप्रवक्ष्यामि दानधर्ममनुत्तमम्। अर्थानामुचिते पात्रे श्रद्धया प्रतिपादनम्। दानन्तु कथितं तज्ज्ञैर्भुक्तिमुक्तिफलप्रदम्। न्यायेनोपार्जयेद्वित्तं दानभोगफलञ्च तत्। अध्यापनं याजनञ्च वृत्तिर्विप्रे प्रतिग्रहः। रक्षणं विजयश्चैव क्षत्रवृत्तिरुदाहृता। कुसीदं कृषिबाणिज्यं वैश्यवृत्तिः स्वभावजा। यद्दीयते च पात्रेभ्यस्तद्दानं परिकीर्त्तितम्। नित्यं १ नैमित्तिकं२ काम्यं ३ विमलं ४ दानमीरितम्। अहन्यहनि यत् किञ्चिद्दीयतेऽनुपकारिणे। अनुद्दिश्य फलं तत् स्यात् ब्राह्मणाय तु नित्यकम्१। यत्तु पापोपशान्त्यै च दीयते विदुषां करे। नैमित्तिकं२ तदुद्दिष्टं दानं सद्भिरनुष्ठितम्। अषत्यविजयैश्चर्य्यस्वर्गार्थं यत् प्रदीयते। दानं तत् काम्य (३) माख्यातमृषिभिर्धर्मचिन्तकैः। ईश्वरप्रीणनार्थाय ब्रह्मवित्सु प्रदीयते। चेतसा सत्वयुक्तेन दानं तत् विमलं ४ स्मृतम् “इत्युपक्रम्य गारुडे ५१ अ० उक्तः। “दानधर्मात् परोधर्मो भूतानां नेह विद्यते” तत्रैवाध्याये

दानपति = पु० ६ त०। १ अक्रूरे यादवभेदे। “गच्छत्वयं दानपतिः क्षिप्रमानयितुं व्रजात्। नन्दगोपञ्च गोपांश्च करदान् मम शासनात्” हरिवं० ७९ अ०। “शंसद्भिः स्यन्दनेनाशु प्राप्तो दानपतिर्व्रजम्” ८२ अ०। २ बहुप्रदे, त्रि० “यज्वा दानपतिर्धीमान् यथा नान्योऽस्ति कश्चन” भा० आ० २२३ अ०। ३ असुरभेदे पु०। “रणोत्कटो दानपतिः शैलध्वंसी कुलाकुलः” हरिवं० २४० अ० असुरोक्तौ।

दानपात्र = न० ६ त०। दानयोग्ये ब्राह्मणभेदे दानशब्दे दृश्यम्

दानफल = न० ६ त०। दानजन्ये फलभेदे तत्र दानभेदे कतिचित् फलभेदा वह्नि० पु० उक्ता यथा “गत्वा यद्दीयते दानं भक्त्या पात्रे विधानतः। तदनन्तफलं विद्धि अवस्थात्रितये नृप!। तमोवृतस्तु यो दद्यात् भयात् क्रोधात्तथैव च। नृप! दानन्तु तत् सर्वं भुङक्ते गर्भस्थ एव तु। ईर्ष्यामन्युमनाश्चैव दम्भार्थं चार्थकारणात्। यो ददाति द्विजातिभ्यः स वाल्ये तु तदश्रुते। वैश्वदेवविहीनञ्च सन्ध्योपासनवर्जितम्। यद्दान दीयते तस्मै वृद्धकाले तदश्नुते। वृथाजन्मानि चत्वारि वृथा दानानि षोडश। तान्यहं संप्रवक्ष्यामि यथावदनुपूर्वशः। अपुत्रस्य १ वृथाजन्म धर्मबाह्या नराः २ सदा। परपाकं सदाश्नन्ति ३ परतापरताश्च ४ ये। देव पितृविहीनं १ यत् ईश्वरेभ्यः स्वदोषतः २। दत्त्वानुकींर्तनाच्चैव ३ वेदाग्निव्रतत्यागिने ४। अन्यायोपार्जितं दानं ५ व्यर्थं व्रह्महणे ६ तथा। गुरुवेऽनृतवक्ते ७ यत् स्तेनाय ८ पतिताय९ च। कृतघ्नाय१० च यद्दत्तं सर्वदा व्रह्मविद्विषे ११। याचकाया १२ च सर्वस्य वृषल्याः पतये १३ तथा। परिचारकाय १४ भृत्याय १५ सर्वत्र पिशुनाय १६ च। इत्येतानि तु राजेन्द्र! वृथा दानानिं षोडश”।

दानव = पु० दनोरपत्यम् अण्। कश्यपपत्न्याः दक्षकन्याभेदस्य दनोरपत्ये। १ दानवाश्च भा० आ० ६५ अ० उक्ता यथा “चत्वारिंशद्दनोः पुत्राः ख्याताः सर्वत्र भारत!। तेषां प्रथमतो राजा विप्रचित्तिर्महायशाः। शंवरो नमुचिश्चैव पुलोमा चेति विश्रुतः। असिलोमा च केशी च दुर्जयश्चैव दानवः। अयःशिरा अश्वशिरा अश्वशङ्गुश्च वीर्यवान्। तथा गगनमूर्द्धा च वेगवान् केतुमांश्च सः। स्वर्भानुरश्वोऽश्वपतिर्वृषपर्वाजकस्तथा। अश्वग्रीवश्च सूक्ष्मश्च तुहुण्डश्च महाबलः। एकपादेकवक्त्रश्च विरुपाक्षमहोदरौ। निचन्द्रश्च निशुम्भश्च कुपटः कपटस्तथा। शरभः शलभश्चैत सूर्य्यचन्द्रमसौ तथा। एते ख्याता दनोर्वंशे दानवाः परिकीर्त्तिताः” “दानवांश्च विवुधा विजिग्यिरे” माघः। दानवस्येदम् अण्। २ दानवसम्बन्धिनि त्रि० स्त्रियां ङीप्। “मायाश्चास्मै ददौ सर्वाः दानवीः काममोहिता” हरिवं० १६३ अ०।

दानवगुरु = पु० ६ त०। शुक्राचार्य्ये

दानवज्र = पु० दैवे गान्धर्वे च वैश्यजातिके अश्वभेदे। “देवगन्धर्ववाहास्ते दिव्यवर्णा मनोजवाः। क्षीणाक्षीणा भवन्त्येते न हीयन्ते च रंहसः। पुरा कृतं महेन्द्रस्य वज्रं बृत्तनिवर्हणम्। दशधा शतधा चैव तच्छीर्णं वृत्रमूर्द्धनि। ततो भागीकृतो देवैर्वज्रभाग उपास्यते। लोके यशोधनं किञ्चित् सा वै वज्रतनुः स्मृता। वजपाणिर्ब्राह्मणः स्यात् क्षत्रं वज्ररथं स्मृतम्। वैश्या वै दानवज्राश्च कर्मवज्रा यवीयसः। क्षत्रं वज्रस्य भागेन अबध्या वाजिनः स्मृताः। रथाङ्गं वडवा सूते शूराश्चाश्वेषु ये मताः। कामवर्णाः कामजवाः कामतः समुपस्थिताः। इति गन्धर्वजा कामं पूरयिष्यन्ति ते हयाः” भा० आ० १७० अ०।

दानवारि = पु० ६ त०। १ देवे २ विष्णौ च। दानं गजमदरूपं वारि। ३ गजमदजले न०। “सेनाचरीभवदिभाननदान वारिवासेन यस्य जनिताऽसुरभी रणश्रीः” नैष० “कटस्थल प्रोषितदानवारिभिः” माघः।

दानवीर = पु० १ वीररसभेदे तदाश्रये २ नायकभेदे च। “स च दानधर्मयुद्धैर्दयया च समन्वितश्चतुर्द्धास्यात्”। स च वीरः दानवीरो धर्मवीरो दयावीरो युद्धवीरश्चेति चतुर्विधः तत्र दानवीरो यथा परशुरामः। “त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिरिति” अत्र परशुरामस्य त्यागे उत्साहः स्थायी भावः। सम्प्रदानब्राह्मणैरालाम्बनविभावैः सत्वाध्यवसायादिभिश्चोद्दीपनविभावै र्विभावितः सर्वस्वत्यागादिभिरनुभावितो हर्षधृत्यादिभिः सञ्चारिभिः पुष्टिं नीतो दानवीरतां भजते” सा० द०।

दानवेय = पु० दन्वाः अपत्यं दनु–स्त्रियां मनुष्यजातित्वात् ऊङ्। ततः “स्त्रीम्यो ढक्” पा० ढक्। दनुनाम्न्या दक्षकन्याया अपत्ये “दैतेया दानवेयाश्च किमिच्छन्ति पराक्रमात्” हरिवं० २२१ अ० “विष्णुनानिहतेष्वेव दानवेयेषु ते हताः” भा० क० ७३ अ०।

दानशील = त्रि० दानं शीलं सततमनुष्ठानं यस्य। बहुदातरि “यत् फलं दानशीलश्च क्षमाशीलश्च यत् फलम्” भा० भी० १२० अ०।

दानशौण्ड = त्रि० दाने शौण्दः दक्षः। बहुप्रदे अमरः “निर्गुणोऽपि विमुखो न भूपतेर्दानशौण्डमनसः पुरोऽभवत्” माघः।

दानसागर = पु० गौडदेशप्रसिद्धे भूम्यासनानादीनां षोडशानां पदार्थानां प्रत्येकं षोढशसंख्यान्विते देयद्रव्यभेदे। “यः कश्चित् कुरुते देवि! ग्रहणे दानसागरम्। वृषोत्सर्गं महादानं यत् किञ्चित् पृथिवीतले” कामधेनुत० २५ पटले। दानानां सागर इव प्रतिपादकतया आधार इव। २ तुलापुरुषादिमहादानानां विधानज्ञापके स्मृतिनिबन्धभेदे।

दानयोग्य = त्रि० ६ त०। दानशब्दोक्ते दानस्य पात्रे।

दानीय = त्रि० दीयतेऽस्मै दा–बा० सम्प्रदाने अनीयर्। १ सम्प्रदाने। “दानीयः प्रमवो लयः” मुग्ध०। दानमर्हति यत्। २ दानयोग्ये दानपात्रे च।

दानु = त्रि० दा–दामे दो–खण्डने वा कर्त्त्सरि नि। १ दातरि २ विक्रान्ते मेदि०। ३ वायौ ४ सुखे च संक्षिप्तसा०। उणा०। ५ दानवे च। “दानुं शयानं स जनास रन्द्रः” ऋ० २। १२। ११। “दानुं दानवम्” माधवः भावे नु। ६ दाने ७ वर्षणे८ न० “यवं न वृष्टिर्दिव्येन दानुना” ऋ० १०। ४३। ७ “दानुना दानेन वर्षणेन वा” भा० “आदित्या दानुनस्पतो” ऋ० १। १३६। ३। “दानुनः दानस्य” भा० कर्मणि नु। ८ देये धने च। “करत्तिस्रोमघवा दानुचित्राः” ऋ० १। १७४। ७ “दानुभिर्देयैर्धनैश्चित्राः” भा०

दान्त = त्रि० दम–कर्त्तरि क्त। १ बहिरिन्द्रियनिग्रहकर्त्तरि “शान्तोदान्त उपरतस्तितिक्षुः श्रद्धावान् समाहितो भूत्वात्मन्यात्मानमवलोकयेत्” वेदान्तमारधृता श्रुतिः। दमणिच्–क्त नि०। २ दमिते ३ शिक्षिते वलीवर्दादौ त्रि० ४ दमनकवृक्षे पु० राजनि०।

दान्ति = स्त्री दम–क्तिन्। १ तपःक्लेशादिसहिष्णुतायां २ बाह्येन्द्रियनिग्रहे च।

दापित = त्रि० दा–णिच–कर्मणि क्त। २ साधिते २ दण्डिते दापितघनके २ प्रतिवाद्यादौ च।

दाप्य = त्रि० दा–णिच्–कर्मणि यत्। १ दण्ड्ये २ दापनीये च।

दाम = न० दो–खण्डने बा० करणे मन्। १ पश्वादिबन्धनरज्ज्वो “स्रगदाभैरिव चित्रिता” भा० भी० ५७ अ०। “सन्तानमाल्यदामं च तैरेव कुसुमैः कृतम्” हरिवं० १४५ अ०। भावे मन् २ सन्धाने। दम्यते अनुशिष्यते दम–कर्मणि घञ् बा० दीर्घः। लोके विश्वसंसारे दामोदरशब्दे दृश्यम्।

दामकण्ठ = पु० गोत्रप्रवर्त्तकर्षिभेदे तस्य गोत्रापत्यम् इञ्। दामकण्ठि तदीये यून्यपत्ये ततः उपका० द्वन्द्वे अद्वन्द्वे च बहुषु युवप्रत्ययस्य लुक्। कलसीकण्ठदाभकण्ठाः दामकण्ठा वा इत्येवम्।

दामग्रन्थि = पु० मत्स्यराजविराटस्य सेनापतिभेदे “अथ मत्स्योऽब्रवीद्राजा शतानीक जघन्यजम्। कङ्कवक्कभगोपालादामग्रन्थिश्च वीर्य्यवान्। युध्येयुरिति मे बुद्धिर्वर्त्तते नात्र संशयः” भा० वि० ३१ अ०

दामचन्द्र = पु० द्रुपदनृपस्य पुत्रभेदे “धृष्टद्युम्नः शिखण्डी च दौर्मुखिर्जनमेजयः। चन्द्रसेनो सदमेनः कीर्त्तिवर्मा ध्रुवो धरः। वसुचन्द्रो दामचन्द्रः सिंहचन्द्रः सुतेजनः। द्रुपदस्य तथा पुत्रा द्रुपदश्च महास्त्रबित्” भा० द्रो० १५८ अ०

दामन् = न० स्त्री दो–खण्डने करणभावादौ मनिन्। दोहन काले पश्वादिपादबन्धनरज्ज्वौ (छा~दनदडि) २ मालायां ३ रज्वुमात्रे अमरः बहुप्रग्रहयुक्ते एकस्मिन् यत्र पशबोबध्यन्ते (दोका) ख्याते ४ पदार्थे च “भाति स्म दामाप्रपदीनमस्य” माघः स्त्रियां नान्तत्वेऽपि मनन्तत्वात् न ङीप्। दामानौ दामानः किन्तु वा ङीप्। दामे दामा इत्यादि

दामनपर्वन् = न० दमनस्येदमण दामन षर्वं यत्र। दमनभञ्जनतिथौ १ चैत्रशुक्लचतुर्दश्याम् २ तन्मासीयद्वादश्यादिषु च दमनशब्दे मूल दृश्यम्। “सत्तीर्थेऽर्कविषुग्रासे तन्तुदामनपर्वणोः” नरसिंह पु० तन्तुपर्वशब्दे दृश्यम

दामनि = पु० दमनस्यापत्यम् इञ्। १ दमनस्यापत्ये २ आयुध जीविसंधभेदे च ततः स्वार्थे दामन्यादि० छ। दामनीय तत्रार्थे बहुत्वे तु तद्राजत्वात्तस्य लुक्। दामनय इत्येव

दामनी = स्त्री दामैव प्रज्ञा० स्वार्थे अण् अणि न नलोपः ङीप्। पशुबन्धनरज्ज्वौ अमरः “दामनीदाभभार्सम् केचित् कायावलम्बिभिः। कीलैरारोप्यमाणैश्च दामनीपाशपाशितैः” हरिवं ६६ अ०

दामन्यादि = पु० “दामन्यादित्रिगर्त्तषष्ठादेः” पा० छप्रत्ययनिमित्ते पा० ग० सूत्रोक्ते शब्दगणे स च गण“दामनि औलपि वैजवापि औदकि औदङ्कि आच्युतन्ति आच्युतदन्ति शाकुन्तकि आकिदन्ति औडवि काकदन्तकिं शात्रुन्तपि सार्वसेनि विन्दुवैन्दवि तुलभ भौञ्जायन काकन्दि सावित्रीपुत्र”।

दामलिप्त = न० तमोलिप्तनगरे (तमलुक) हेम०

दामलिह् = पु० दाम–लेढि लिह–क्विप्। १ दामलेहके। तमात्मन इच्छति क्यच् दामलिह्यति ततः क्विप्। २ आत्मनो दामलेहकेच्छौ “दादेर्धातोर्घः” पा० उपदेशे दादेरिति विशेषणात् अस्य उपदेशे दादित्वाभावात् न घः सि० कौ०।

दामाञ्जन = न० दाम्नः अञ्जनम्। अश्वादेः पादबन्धनरज्ज्वौ (पिछाडि) हेमच० दामाञ्चलमप्यत्रार्थे हारावली “दामाञ्चलस्खलितलोलपदं तुरङ्गाः” माघः।

दामिनी = स्त्री भीमो भीमसेनेनवत् दामा सुदामा नगः स एकदेशत्वेनास्त्यस्य “संज्ञायां मन्माभ्याम्” पा० इनि ङीप्। सौदामन्यां विद्युति।

दामोदर = पु० दाम वन्धनसाधनं उदरे यस्य। यशोदानन्दने कृष्णे तत्कथा “ततो यशोदा संक्रुद्धा कृष्ण कमललोचनम्। आनाय्य शकटीमूले भर्त्सयन्ती पुनःपुनः। दाम्ना चैवोदरे बद्ध्वा प्रत्यबध्नादुदूखले। यदि शक्नोषि गच्छेति तमुक्त्वा कर्म साऽकरोत्” इत्युपक्रमे “स च तेनैव नाम्ना तु कृष्णो वै दामबन्धनात्। घोषे दामोदर इति गोपिभिः परिगीयते” हरिव० ६४ अ० “विदारो रोहितोमार्गो हेतुर्दामोदरः सहः” विष्णु० स०। शाङ्करभाष्ये तु अस्यान्यापि व्युत्पत्तिर्दर्शिता यथा “दमादिसाधनेनोदरा उत्कृष्टा गतिर्या तया गम्यत इति दामोदरः। “दमाद्दाभोदरं विदुरिति” महाभारते यशोदया दाम्नोदरे बद्ध इति वा “दामानि लोकनामानितानि यस्योदरान्तरे। तेन दामोदरस्त्वेषः श्रीधरस्त्विट्समाश्रितः” इति व्यासवचनात् वा दामोदरः। “दमो बहिरिन्द्रियनिग्रहः तज्जन्यो दामः तस्येदमित्यण् ऋगताविति धातोर्भावे “ऋदोरप्” पा० अपि गुणे रपरत्वे च अरः अवगतिः गत्यर्थानां ज्ञानार्थकत्वात्तस्य विशेषणमुदिति उत्कृष्ट इत्यर्थः तथा च दामो दमसाधकः उत् उत्कृष्टः अरः अवगतिः साक्षात्काररूपास्येति दामोदरः। उत्कृष्टा च गतिः धूमादिगतिमपेक्ष्यार्चिरादिः दमादिसाधना अस्य सगुणस्येति दामोदरनामनिरुक्तिः। “तर्वोर्मध्यगतं बद्ध दाम्ना गाढं तथोदरम्। ततश्च दामोदरतां स ययौ दामबन्धनादिति” ब्रह्मपुराणम् इति आनन्दगिरिः। २ अतीते अर्हद्भेदे हेमच०। वर्द्धमानपुरसन्निकृष्टे ३ नदभेदे च। ४ शालग्राममूर्त्तिभेदे तल्लक्षणं पद्मपुराणे यथा “स्थूलो दामोदरो ज्ञेयः सूक्ष्मचक्रो भवेत्तु सः। चक्रे तु मध्यदेशेऽस्य पूजितः सुखदः सदा”। ब्रह्माण्डपुराणे “दामोदरस्तथा स्थूलो मध्यचक्रः प्रतिष्ठितः” प्रतिष्ठित इत्यत्र प्रकीर्तित इति क्वचित् पाठः। “दूर्वाभं द्वारसङ्कीर्णं पीतरेखायुतं शुभम्”। “पीतरेखा तथैव चेति” ब्रह्मपुराणे पाठः। ब्रह्मपुराणे “उपर्य्यधश्च चक्रे द्वे नातिदीर्घं मुखे बिलम्। मध्ये च रेखा लम्बैका स च दामोदरः स्मृतः”। अन्यत्र “स्थूलो दामोदरो ज्ञेयः सूक्ष्मरन्ध्रो भवेत्तु यः। चक्रे तन्मध्यदेशस्थे पजितः शुभदः सदा”। ब्रह्मवै० प्रकृतिखण्डे “द्विचक्रं स्फुटमत्यन्तं ज्ञेयं दामोदराभिधम्”। मत्स्यसूक्ते “विश्वक्सेनमतिस्थूलं लघु दामोदरं स्मृतम्”

दामोष्णीष = पु० गोत्रव्यावर्त्तकप्रवरर्षिभेदे “दामोष्णीषस्त्रैबलिश्च पर्णादो वरजानुकः” भा० स० ४ अ०। युधिष्ठिरमभासभ्योक्तौ। तस्यापत्यं कर्वा० ण्य। दामोष्णीष्य तदपत्ये पुंस्त्री

दाम्पत्य = न० दम्पत्योरिदं पत्यन्तत्वात् यक्। १ दम्पति सम्बन्धिनि अग्निहोत्रादौ २ दम्पत्योरन्योन्यप्रीतौ च “ब्रह्मवर्चसकामस्तु यजेत ब्रह्मणस्पतिम्” इत्युपक्रमे “विद्याकामस्तु गिरिशं दम्पत्यार्थमुमां सतीम्” भाग० २। ३। ८।

दाम्भिक = त्रि० दम्भेन चरति धर्मं ठक्। लोकेषु कीर्त्त्यादि ख्यापनार्थं धर्मचारिणि १ वैडास्वव्रतिनि, २ दुम्भयुक्ते च। “पापरोग्यभिशस्तश्च दाम्भिको रसविक्रयी” मनुना रसविक्रयकर्मविपाकः दाम्भिकत्वमित्युक्तम्। “दाम्भिको दुष्कृतः प्राज्ञः शूद्रेण सदृशो भवेत्” भा० व० २१५ अ०। ३ वकपक्षिणि पुंस्त्री० राजनि०।

दाय = दाने भ्वा० आत्म० सक० सेट्। दायते अदायिष्ट अदायिढ्वम् अदायिध्वम्। ऋदित् णिच् अददायत–त।

दाय = पु० दा–दाने भावे घञ्। १ दाने “मिथोदायः कृतो येन गृहीतो मिथ एव वा। मिथ एव प्रदातव्यो यथा दायस्तथा ग्रहः। अस्वामिना कृतो यस्तु दायो विक्रय एव वा” मनुः। दीङ्ंक्षये भावे धञ्। २ लये अजयपालः ३ स्थाने मेदि०। दो–खण्डने भावे घञ्। ४ खण्डने शब्दरत्ना०५ सोल्लुण्ठनभाषणे मेदि०। तस्य परोक्तस्य खण्डनरूपत्वात् तथात्वम्। दा–दाने कर्मणि घञ्। ६ देये धनादौ “ते तत्र विविधान् दायान् विजयार्थं नरेश्वराः” भा० आ० १८४ अ०। “संस्थाः स्युश्चारसंस्थित्यै दत्तदायाः शुभाशयाः” काम० नीति० “दायन्तु विविधं तस्मै शृणु मे गदतोऽनघ! यज्ञार्थं राजभिर्द्दत्तं महान्तं धन सञ्चयम्” भा० स० ५१ अ०। ७ विवाहकाले कन्यायै दीयमाने यौतुकादिधने कन्यादानकाले जामात्रादिभ्यो ८ देये धने व्रतान्तभिक्षादौ समावृत्तब्रह्मचारिभ्यो ९ दीयमाने धने च १० विभागार्हपित्रादिधने च दायभागशब्दे दृश्यम्।

दायक = त्रि० दा–दाने ण्वुल्। १ दातरि “तावतां गोसहस्राणां फलं प्राप्नोति दायकः” भा० व० १९३ अ० “चौराणां भक्तदायकाः” मनुः। दो–खण्डने ण्वुल्। २ खण्डके च। दायेन धनेन कायति कै–क। ३ दायादे “गृह्या इति समाख्याता यजमानस्य दायकाः” गृह्यम् दायका दायादा इत्यर्थः।

दायबन्धु = पु० दाये बन्धुः। भ्रातरि शब्दरत्ना०

दायभाग = पु० दायस्य सम्बन्धिभिर्भागो यत्र। अष्टादशविवादान्तर्गते विवादपदभेदे तन्निरूपणं जीमूतवाहनकृते दायभागे यथा “अथ दायमागो निरूप्यते तत्र नारदः “विभागोऽर्थस्य पित्र्यस्य पुत्रैर्यत्र प्रकल्प्यते। दाथभाग इति प्रोक्तं तद्विवादपदं बुधैः”। पितृत आगतं पित्र्यं तच्च पितृ मरणोप्रजातस्वत्वमुच्यते। पित्र्यस्येति पुत्रैरिति च द्वयमपि सम्बन्धिमात्रोपलक्षणं सम्बन्धिमात्रेण सम्बन्धिमात्रधनविभागेऽपि दायभारपदप्रयोगात् अतएव दायभागं विवादपदमुपक्रम्य नारदोऽपि मात्रादिधन- विभागमप्युपदर्शितवान् तथा मनुरपि पित्रादिपदमदत्त्वैव “एष स्त्रीपुंसयोरुक्तो धर्मो वो रतिसंहितः। आपद्यपत्यप्राप्तिश्च दायभागं निवोधत” इत्युपक्रम्य यावत्सम्बन्धिधनविभागमुक्ततान्। दीयत इति व्युत्पत्त्या दायशब्दो ददातिप्रयोगश्च गौणः मृतप्रव्रजितादिस्वत्वनिवृत्तिपूर्वकपरस्वत्वोत्पत्तिफलसाम्यात् न तु मृतादीनां तत्र त्यागोऽस्ति। ततश्च पूर्वस्वामिसम्बन्धाधीनं तत्स्वाम्योपरमे यत्र द्रव्ये स्वत्वं तत्र निरूढो दायशब्दः। ननु किं दायस्य विभागो विभक्ता वयवत्वं? यद्वा दायेन सह विभागोऽसंयुक्तंत्वं? न तावत् पूर्वः दायविनाशापत्तेः नापि द्वितीयः संयुक्तेऽपि न ममेदं विभक्तं स्वं भ्रातुरिदमिति प्रयोगात्। न च सम्बन्धविशेषात् सर्वेषां सर्वधनोत्पन्नस्य स्वत्वस्य द्रव्यविशेषे व्यवस्थापनं विभाग इति वाच्यं सम्बन्ध्यन्तर सद्भावप्रतिपक्षस्य सम्बन्धस्यावयवेष्वेव विभागव्यङ्ग्यस्वत्वापादकत्वात् कृत्स्नपितृधनगतस्वत्वोत्पादविनाश कल्पनागौरवात् यथेष्टविनियोगफलाभावेनानुपयोगाच्च। उच्यते एकदेशोपात्तस्यैव भूहिरण्यादावुत्प न्नस्य विनिगमनाप्रमाणाभावेन वैशेषिकव्यवहारा नर्हतया अव्यवस्थितस्य गुटिकापातादिना व्यञ्जनं विभागः। विशेषेण भजनं स्वत्वज्ञापनं वा विभागः। यत्रापि चैकं दासीगवादिकं वहुसाधारणं तत्रापि तत्तत्कालविशेषे वहनदोहनफलेन स्वत्वं व्यज्यते। तदाह वृहस्पतिः “एकां स्त्रीं कारयेत् कर्म यथांशेन गृहे गृहे। उद्धृत्य कूपवाप्यम्भस्त्वनुसारेण गृह्यते। युक्त्या विभजनीयं तदन्यथानर्थकं भवेत्”। इदं श्लोकार्द्धत्रयं नानास्थानस्थं न तु क्रमिकम्। ननु “पितर्य्यूर्द्धं गते पुत्रा विभजेयुर्द्धनं पितुरिति” नारदवचनात् पितुर्द्धनं विभजेयुरित्यन्वयात् विभागात् पूर्वं न तत्र पुत्राणां स्वत्वं न च विभागस्य स्वत्वकारणता असम्बन्धिधनेऽप्यतिप्रसङ्गात्। उच्यते पित्रादिनिधनानन्तरमेवास्मदीयं धनमिति प्रयोगात् एकपुत्रे च विभागं विनैव स्वत्वस्वीकाराच्च सम्बन्धिनिधनमेव स्वत्व कारणमतो नातिप्रसङ्गः। नन्वर्ज्जयितृव्यापारोऽर्जनम् अर्जनाधीनस्वामिभावश्चार्जयिता तेन पुत्रव्यापारोजन्मैवार्जनं युक्तम् अतो जीवत्येव पितरि पुत्राणां तत्र स्वत्वं न तु तन्निधनात् अतएवोक्तं “क्वचिज्जन्मनैव यथा पित्र्ये धने”। नैतत् मन्वादिविरोधात्। यथा मनुः “ऊर्द्धं वितुश्च मातुश्च समेत्य भ्रातरः समम्। भजेरन् पैतृकं रिक्थमनीशास्ते हि जीवतोः” जीवतोरपि पित्रोः पुत्राणां कुतो न विभाग इत्याशङ्कायामिदमुत्तरं तदानीमस्वामित्वादिति। न च भार्य्या पुत्रश्चेत्यादिवत् अस्वातन्त्र्याभिप्रायमिति वाच्यं तदानीं स्वत्वे प्रमाणाभावात् भार्य्यादिषु तु यत्ते समधिगच्छन्ति अर्जयन्तीति स्वत्वे सिद्धे युक्तमस्वातन्त्र्यवर्णनम्। किञ्च स्वोपात्तेऽपि तेषामस्वामित्वे स्वधनसाध्यवैदिककर्मोच्छेदात् श्रुति विरोधः स्यात्। देवलश्च पितृधने अस्वाम्यमेव स्पष्टयति यथा “पितुर्य्युपरते पुत्रा विभजेयुर्द्धनं पितुः। अस्वाम्यं हि भवेद्देषां निर्दोषे पितरि स्थिते”। किञ्च जीवत्यपि पितरि पितृधने पुत्राणां स्वामित्वे पितुरनिच्छयापि विभागः स्यात् जन्मनैव स्वत्वमित्यत्र प्रमाणाभावाच्च अर्जनरूपतया जन्मनः स्मृतावनधिगमात्। क्वचिज्जन्मनैवेति च जन्मनिबन्धनत्वात् पिता पुत्रसम्बन्धस्य पितृमरणस्य च स्वत्वकारणत्वात् परम्परया वर्णनम्”।

अस्य मते च पुत्राणां पित्राद्युपरमादावव तद्धने स्वत्वं तच्चैकदेशनिष्ठम्।

मिताक्षरादिप्राचीनमते जन्मनैव पुत्राणां पितृधने स्वत्वं तच्च समुदितद्रव्यनिष्ठमिति भेदः।

तदेतत् प्राचीनमतं वीरमित्रोदये जीमूतवाहनमतनिराकरणेन परिष्कृष्य समर्थितं यथा

“यत्र मन्वादिवचनव्याख्यासु बहुधा बुधाः। विवदन्ते दायभागः स प्रबन्धेन वर्ण्यते”। तल्लक्षणमाह नारदः “विभागोऽर्थस्य पित्र्यस्य पुत्रैर्यत्र प्रकल्प्यते। दायभाग इति प्रोक्तं तद्विवादपदं बुधैरिति”। पित्रोरयं पित्र्यम् इति कृतैकशेषात्पितृशब्दाद्यत् अग्रे मातृधनस्यापि विभागकथनात्। पित्र्यस्य पुत्रैरिति च द्वयमपि सम्बन्धिमात्रोपलक्षणम् पत्नीत्यादिनान्येषामपि भर्त्रादिधने तंन्निरूपणात्। अतएवोपक्रमे मनुना पित्रादि पदन्नोपात्तम्। “एष स्त्रीपुंसयोरुक्तो धर्म्मो वो रति संहितः। आपद्यपत्यप्राप्तिश्च दायधर्मं निबोधतेति”। “दायधर्म्मोऽप्यत्र विभागरूपोऽभिप्रेतस्तस्यैवाग्रे लक्षण कथनपूर्वकन्निरूपणात् उद्देशावसरेऽपि “स्त्रीपुन्धर्म्मोविभागश्चेति” तस्यैव विवादपदत्वेनोद्देशात्। अतएबाग्रे यावत्सम्बन्धिधनविभागमेव प्रदर्शितवान्मनुः। दायशब्दश्चायं स्वामिसम्बन्धमात्रंलब्धस्वत्ववद् द्रव्यं वदति। तथा च निथण्टुकारः “विभक्तव्यं पितृद्रव्यं दायभाहुर्मनीषिणः इत्याहः। अत्रापि पितृपदं सम्बन्धिमात्रोपलक्षणमन्यत्रापि दायशब्दप्रयोगात्। विभक्तव्य विभागार्हमित्यर्थः अन्यथैकपुत्त्रादिस्वामिके विभागाभावाद्दायशब्दवाच्यता न स्यात्। यत्तु जीमूतवाहनेन (दीयत इति व्युत्पत्त्या दायशब्दो ददातिप्रयोगश्च गौणः मृतप्रव्रजितादिस्वत्वनिवृत्तिपूर्वकपरस्वत्वोत्पत्तिफलसाम्यात्। नं तु मृतादीनां तत्र त्यागोऽस्ति। तच्च पूर्वस्वामिसम्बन्धाधीनं तत्स्वाम्योपरमे यत्र द्रव्येऽन्यस्य स्वत्वं तत्र निरूढोदायशब्द) इत्युक्त, तन्न सुन्दरम निरूढत्वाङ्गीकारे दायददातिशब्दयोर्गौणत्वोपन्यासानर्थक्यात्। सर्वथाऽवयवार्थराहित्ये हि निरूढत्वम्। न च योगरूढत्वम् अवयवार्थबाधस्य स्वयमेवोपन्यासात् गौणमवयवार्थं परिकल्प्य तदङ्गीकारस्य निष्प्रयोजनत्व मन्योन्याश्रयत्वमनुभवविरोधो व्याघातश्च। तत्स्वाम्योपरम इति च। जन्मनापि स्वत्वस्योपपादयिष्यमाणत्वादव्यापकम्। विभागशब्दस्त्वनेकस्वाम्यानां दव्यसमुदायविषयाणां तत्तदेकदेशे व्यवस्थापने शक्तः। अतएवैकपुत्रादीनां पित्रादिधनस्वाम्ये विभागशब्दाप्रयोगो दायोऽनेन लब्ध इत्येव च प्रयोगः। यत्रापि चैकं दासीगवादि बहुसाधारणं तत्रापि तत्तत्काल विशेषनियतदास्यदोहनादिना तस्य तस्य स्वत्वव्यञ्जनादंस्त्वेकदेशस्वाम्यव्यवस्थापनरूपो विभागशब्दार्थः। अतएव “एकां स्त्रीं कारयेत्कर्म यथांशेन गृहे गृहे” इति “उद्धृत्य कूपवाप्यम्भस्त्वनुसारेण गृह्यते”। “युक्त्या विभजनीयं तदन्यथानर्थकम्भवेदिति” च वृहस्पत्यादिवचनेषु वक्ष्यमाणरीत्या तदुपपादयिष्यते। स च दायोद्विविधोऽ ग्रतिवन्धः सप्रतिन्धश्च। पुत्त्रादीनां पित्रादिधने पुत्त्रत्वादिनैव सत्यपि स्वामिनि पित्रादौ जन्मनैब स्वत्वोत्पत्ते स तेषामप्रतिबन्धोदायः स्वामिसद्भावस्याप्रतिबन्धकत्वात्। यस्तु विभक्तस्यासंसृष्टिनोऽपुत्त्रस्य मृतस्य भ्रात्रादीनां तद्धनरूपोदायः स सप्रतिबन्धः स्वामि सद्भावस्य प्रतिबन्धकन्यापगम एव तत्र स्वत्वोत्पत्तेः। ननु सर्वोऽपि सप्रतिबन्ध एव दायः। स्वामिसद्भावे पुत्रादीनामपि कन्ममात्रेण स्वत्वस्य वक्तुमशक्यत्वात्। तथाहि। यदि जन्मनैव पुत्रादीनां पित्रादिधने स्वत्वं स्मात्तर्ह्युत्पन्नमात्रस्य पुत्त्रादेस्तत् साधारणमिति तदनुमति विना द्रव्यसाध्येष्वाधानादिषु पित्रादोनामनधि- कारापत्तौ “जातपुत्रः कृष्णकेशीऽग्नीनादधीतेति” श्रुतिविरोधः। किञ्च विभागात् प्राकपित्रादिपसादलब्धस्याविभाज्यत्ववश्चनं व्यर्थं स्यात्। तद्धि पित्रा पुत्रान्तरानुमत्या यदि दत्तं सर्वैरेव दत्तमिति विभाग प्राप्त्यभावादेव प्रतिषेधोऽनर्थकः। अननुमत्या तु साधारणद्रव्यस्य दानमेव न सम्भवतीति पित्रादि प्रीतिदत्तत्वादिवचने युक्तिरयुक्ता। एवं पुत्त्राद्यनुमति मन्तरेण स्त्यादीनामपि भर्त्त्रादिभिः प्रीतिदानस्यासम्भवात्तदनुमतौ तु तैरपि दत्तत्वात्। “भर्त्रा प्रीतेन यद्दत्तं स्त्रियै तस्मिन्मृतेऽपि तत्। मा यथाकाममश्नीयाद्दद्याद्वा स्थावरादृते इति” वचने यथाकाममश्रीयाद्दद्याद्बेत्यनेनाविभाज्यत्वं भर्त्तृप्रीतिलब्धस्य यदभिहितं तदपि व्यर्थम्। न चेदमविभागावस्थायां प्रीतिदान तस्य चाविभाज्यत्वन्न प्रतिपादयति किन्तु स्थावरादृते यद्दत्तमित्यन्वयाद्विभागोत्तरमपि भर्त्रा स्त्रियै स्थावरन्न प्रीत्या देयमज्ञानाद्दत्तमपि तेन पुत्रादिभिरपहृत्य विभजनीयमस्थावरन्तु न प्रत्याहर्त्तव्यमित्यनुवादमात्रम् स्थावरस्य स्त्रियै प्रीतिदानप्रतिषेधमात्रं तात्पर्य्येण बोधयतीति शङ्कनीयम्। तथान्वयस्य व्यवहितयोजनाप्रसङ्गेनायुक्तत्वात्। स्थावरप्रीतिदानप्रतिषेधात्रता समर्पकत्वेऽन्यांशस्यानुवादमात्रं व्यर्थत्वापरपर्य्यायश्चापद्यते।

अथ “मणिमुक्ताप्रवालानां सर्वस्यैव पिता प्रभुः। स्थावरस्व तु सर्वस्य न पिता न पितामहः”। तथा “पितृप्रसादाद् भुज्यन्ते वस्त्राण्याभरणानि च। स्थावरन्तु न भुज्येत प्रसादे सति पेवृक इति” वचनमवश्यं विभागंप्राक्कालीनस्थावरप्रसाददानप्रतिषेधपरं वाच्यं मणिमुक्तादिप्रसाददानानुमतिपुरःसरं तत्प्रतिषेधाभिधानात् अन्यथा तय्यानुवादमात्रंत्वेन वैयर्थ्यापत्तेः। तथा च जन्मना पुत्रांदीनां स्वत्वान्मणिमुक्तादिषु तदनुभतिमन्तरेणापि दाने पितुः स्वातन्त्र्यम्। स्थावरे तु तदनुमत्यैवेति विशेष इति वचनद्वयार्थस्य वाच्यत्वाज्जन्मना स्वत्वमायातीति, मैवम् तस्य पितामहोपात्तस्थावरविषयत्वात्। अतीते पितामहे तत्स्वाम्यनाशात्पित्मपुत्रयोः साधारणे तदीयद्रव्यस्वत्वेऽपि स्थावर एव पुत्रानुमत्यपेक्षा मणिमुक्तादौ तु नेति तदर्थात्। यत्तु गौतमवचनम् “उत्पत्त्यैवार्थस्वामित्वं लभते इत्याचार्य्याः” इति। जन्मनः स्वत्वहेतुत्वे मिताक्षराकृता प्रमाणत्वेनीपन्यस्तन्तद्दायभागदायतत्त्वकृता व्याख्यातमेव। पितृस्वत्वोपरमे तज्जन्यत्वस्य हेतुभूतेनोत्पत्तिमात्रसम्बन्धेनान्यसम्बन्धाधिकेन जनकधने पुत्राणां स्वामित्वात्तद्धनं पुत्त्रोलभते नान्यः सम्बन्धीत्यार्य्या मन्यन्त इति। न तु पितृस्वत्वे विद्यमानेऽपि तत्र पुत्रस्वत्वमिति तदर्थः। नारददेवलवचनबिरोधात्। “पितर्यूर्ध्वंगते पुत्त्रा विभजेयुर्द्धनम्पितुरिति” नारदः पितुर्द्धनमित्याह। अन्यथा धनं विभजेयुरित्येवावक्ष्यत्। “पितर्य्युपरते पुत्त्रा विभजेयुर्द्धनम्पितुः। अस्वाम्यं हि भवेदेषां निर्दोषे पितरि स्थिते इति”। देवलोऽपि पितुर्द्धनमित्युक्त्वोत्तरार्द्धेनास्वाम्यं हीति स्पष्टमेव तेषामस्वत्व न्तत्र हेतुत्वेनोक्तवान्। निर्दोषे पातित्यादिस्वत्वापगमकदोषरहिते। मनुरपि “ऊर्ध्वं पितुश्च मातुश्च समेत्य भ्रातरः समम्। भजेरन् पैतृकं रिक्थमनीशास्ते हि जीवतोरिति” जीवतोर्म्मातापित्रोस्तद्धने पुत्त्राणामस्वाम्यं व्यक्तमेवाह। यत्तु शङ्खलिखितावाहतुः “न जीवति पितरि पुत्त्रा रिक्थम्भजेरन्। यद्यपि स्वाम्यम्पश्चादधिगतन्तैरनर्हा एव पुत्त्रा अर्थधर्मयोरस्वातन्त्र्यादिति” स्मृतिचन्द्रिकाकारेण च व्याख्यातम्। यद्यपि “तैः पुत्रैः स्वकीयजन्मनः पश्चादनन्तरमेव पितृधने स्वाम्यमधिगतं प्राप्तन्तथापि जीवति पितरि तद्धनं तदिच्छां विना न विभजेरन्नर्थधर्मयीरस्वातन्त्र्यात्पितृपारतन्त्र्याद्विभागकरणऽनर्हाः पुत्त्रा” इति। तेनानेन वचनेन जन्मना पुत्त्रादीना पित्रादिस्वामिकधने स्वत्वमिति” तदपि न मन्वादिबचनानां बहूनामस्वाम्यप्रतिपादकानामनुरोधेनास्यान्यथार्थस्य वर्णनीयत्वात्। वर्णितञ्च कल्पतरौ “यद्यपि पश्चादधिते पितृधनव्यापारनिरपेक्षैः पुत्रैर्विद्यादिभिरुपात्ते धने स्वाम्यन्तथापि तत्राप्यस्वाम्यञ्जीवति पितरि, किमुत पितृधने अर्थधर्मयोस्तेषां पितरि जीवत्यस्वातन्त्र्यादिति। किञ्च स्वत्वं शास्त्रैकसमधिगम्यं तत्र च रिक्थक्रयादिवज्जन्मनः स्वत्वहेतुत्वेनानुक्तेर्ज्जन्मना स्वत्वमप्रमाणकमेव। अतएव यथा भार्य्यादिवचनम् “भार्य्या पुत्त्रश्च दासश्च त्रय एवाधनाः स्मृताः। यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनमिति”। पारतन्त्व्यमात्रप्रतिपादनपरन्तथाऽस्वाम्यवचनान्यपीत्यपास्तम्। भार्य्यादिष्वध्यग्न्यादिवचनैः कर्त्तनादिसाधनकत्वेन स्वामित्वे सिद्धे युक्तमस्वातन्त्र्यमात्रपरत्वमन्यथा श्रौतादिषु धनसाध्येषु पुराणादिश्रुतन्तेषामधिकारित्वमपि विरुद्व्येत। अत्र तु प्रत्युत जन्मनः स्वत्वहेतुत्वे प्रमाणा- भावाद्व्यर्थमेवान्थथानेकवचनवर्णनम्। किञ्च यदि स्वत्वं लौकिकं स्यात्तर्हि तदुपायानामपि लौकिकत्वात् “स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगसेषु ब्राह्मणस्याधिकं लब्धं, क्षत्रियस्य विजितम् निर्विष्टं वैश्यशूद्रयोरिति” गौतमवचनं व्यर्थमेव स्यादनुवादमात्रत्वान्न हि पाकादोदनो भवतीत्यादि शास्त्रे निष्प्रयोजनमनुवादमात्र मुच्यते। तस्य हि वचनस्यायमर्थः। रिक्थं दायः क्रयः प्रसिद्धः। संविभागो दायस्यैवैकदेशनिष्ठस्वामित्वव्यञ्जकोविभागः। परिग्रहः पूर्वमपरेणास्वीकृतस्यारण्यादि साधारणप्रदेशसम्बन्धिनस्तृणजलकाष्ठादेः स्वीकारः। अधिगमोऽज्ञातस्वामिकस्य निध्यादेः प्राप्तिः। एतेषु स्वत्वहेतुषु सत्सु स्वामी भवति। जातेषु च जायते। ब्राह्मणस्य लब्धं प्रतिग्रहादिप्राप्तमधिकमसाधारणंरिक्थादयस्तु सर्वसाधारणाः। अधिकमित्युत्तरत्र सर्वत्र सम्बध्यते। क्षत्रियस्य विजितं युद्धविजयदण्डादिप्राप्तमसाधारणम्। वैश्यस्य निर्विष्टं कृषिगोरक्षणादिभृतिलब्धम्। शूद्रस्य द्विजशुश्रूषादिभृतिलब्धम्। निपूर्वस्य विशेर्भृतिवाचकत्वम् “निर्वेशोभृतिभोगयोरिति” त्रिकाण्डाभिधानात्। वैश्यशूद्रग्रहणस्योपलक्षणत्वादन्येषामप्यनुलोमजप्रतिलोमजातानां “सूतानामश्वसारथ्यम्” इत्याद्यौशनसादिप्रतिपादितं वृत्तिजातं निर्विष्टशब्देन संगृह्यते सर्वस्य भृतिरूपत्वात्। किञ्च “योऽदत्तादायिनो हस्ताल्लिप्सेत ब्राह्मणोधनम्। याजनाध्यापनेनापि यथा स्तेनस्तथैव सः”। इत्यदत्तादायिनश्चौरस्य हस्ताद्याजनादिस्ववृत्त्यापि धनमर्ज्जयतो दण्डविधानमनुपपन्नं स्वत्वस्य लौकिकत्वे। स्ववृत्त्यार्ज्जयतोनिरपराधत्वात् मन्मते तु शास्त्रैकसमधिगम्यत्वात् स्वत्वस्य चौरदातृकयाजनादावेतद्वचनादेव स्वत्वानुत्पादकत्वात्तद्विधानमुपपन्नतरम्। अपि च मम स्वमनेनापहृतमिति व्यपदेशो न स्यात् स्वत्वस्य लौकिकत्वे अपहर्त्तुरेव तत्र स्वत्वात्। मन्मते त्वपहारस्य निषिद्धत्वेन स्वत्वानुत्पादकत्वादुपपन्नोऽयं व्यपदेशः। यदि च सुवर्णत्वादिकमिव तत्र स्वत्वमपि प्रत्यक्षप्रमाणकन्तर्हि सुवर्णत्वादौ यथा न सन्देहस्तथास्य स्वमिदमस्य वेत्यपि सन्देहो न स्यान्निर्णीतत्वात्। इदमेवोक्तं संग्रहकारेण। “वर्त्तते यस्य यद्धस्ते तस्य स्वामी स एव न। अन्य स्वमन्यहस्तेषु चौर्य्याद्यैः किन्न दृश्यते। तस्माच्छास्त्रत एव स्यात् स्वाम्यं नानुभवादपि। अस्यापहृतमेतेन न युक्तं वक्तुमन्यथा। विदितोऽर्थागमः शास्त्रे तथाऽवर्णि पृथक् पृथगिति”। शास्त्रे “स्वामी रिक्थक्रयेत्यादौ” साधारणासाधारणरूपोऽर्थागमः स्वत्वोपायः पृथक् पृथग्वर्णितस्तथा विदितों लौकिकत्वे तच्छास्त्रानर्थक्यं स्याल्लोकविदितत्वादित्यर्थः। अन्यत् स्पष्टम् यथावर्णमिति स्मृति चन्द्रिकायां पाठः। पूर्वपाठस्तु मदनरत्नलिखितः। अथ यदयस्य यथेष्टं विनियोज्यं तत्तस्य स्वमिति लोकप्रसिद्धेर्यथेष्टबिनियोज्यत्वं स्वत्वमिति चौर्य्याद्यर्जितेनातिप्रसङ्गस्तत्र चौरादेर्य्यथेष्टविनियोज्यत्वाभावाद्विनियोगकाले त्रासादिदर्शनात्। अतएव सन्देहोऽप्युपपन्नः सुवर्णत्वादितुल्यत्वाभावात् स्वत्वस्य। मैवम् असम्भवात्। शास्त्रेण सर्वस्य कुटुम्बभरणादौ विनियोगविशेषनियमादैच्छिकविनियोगविषयत्वस्य कुत्राप्यप्रसिद्धेः। तदप्याह संग्रहकारः शङ्कोपन्यासपुरःसरम् “न च स्वमुच्यते तद्यत् स्वेच्छया विनियुज्यते। विनियीगोऽस्य सर्वस्य शास्त्रेणैव नियम्यते इति”। अत्र पूर्वार्द्धे शङ्कोपन्यास उत्तरार्द्धे तत्परिहारः। न च रिकथादिवदुत्प्रत्त्यैवार्थस्वामित्वमिति गौतमवचने उत्पत्तेरपि जन्मापरपर्य्यायायाः स्वत्वहेतुत्वोक्तेः सत्यपि स्वत्वस्य तदुपायानाञ्च शास्त्रैकसमधिगम्यत्वे जन्मना पुत्रादेः पित्रादिधने स्वत्वमक्षतमेवेति वाच्यम् तस्यानेकदूषणैरन्यथा व्याख्यानस्य प्रागेवीक्तत्वात्। इदमेवाभिसन्धाय धारेश्वरेणापि शास्त्रैकसमधिगम्यमेव स्वत्वमिति सिद्धान्तितम्। अपि च। जीवत्यपि पित्रादौ पुत्रादेस्तद्धने जन्मना स्वत्वे तदनिच्छायामपि पुत्रादीच्छयैव विभागः स्यात्। अस्वातन्त्र्यवचनान्नैवमिति चेत् न तथा सति दृष्टादृष्टविरोधमात्रं भवेद्व्यवहारस्तु सिद्ध्येदेव। यथा पित्रादिभिः सह पुत्रादिभिश्चतुष्पाद्व्यवहारें प्रवर्त्त्यमाने तेषां दृष्टादृष्टयोः श्रेयोविघातमात्रं शिष्ये पितुः पुत्र इत्यादि वचनार्थ इति प्राकप्रपञ्चितं तथात्रापि स्यात्। अस्त्विति चेन्न सकलनिबन्धविरोधात्। क्वचिज्जन्मनैवेति प्राचीनग्रन्थ लिखनमपि जन्मनिबन्धनत्वात्पितापुत्रादिसम्बन्धस्य पितृमरणस्य च तत्स्वत्वापगमहेतुत्वेन परम्परया वर्णनीयम्। किञ्च। ऊर्द्ध्वं पितुश्चेत्यादि मनुवचनं जन्मना पुत्राणां स्वत्वपरं जीवति पितरि सत्यपि पुत्राणां स्वाम्ये तदिच्छया विना न विभागः ऊर्ध्वन्तु स्वेच्छयेति विभागनिषेधार्थं तदिति वाच्यं तच्चान्याय्यम् अस्वाम्यपरत्वापत्तेः। न च पितुरुपरमकालविधानार्थमिति युक्तम् दृष्टार्थ- त्वाद्विभागस्योमयस्याप्यनुपपत्तेः। नापि नियमविधिर्विभागस्य “एवं सह वसेयुर्वा पृथग् वा धर्मकाम्यया” इति मनुना विकल्पाभिधानात्। कालविधौ च पित्रुपरमानन्तरकाल एव विभागो नैमित्तिकस्य निमित्तानन्तर्य्यवाधोऽयं स्यात्। जातेष्टिवज्जातप्राणवियोगापत्तिस्वरूप विशेषविरोधस्यात्राभावात्। अतो जीवतोः पित्रोस्तद्धने स्वाम्यं नास्ति किन्तूपरतयोस्तयोरिति तत्कालीनास्वत्वज्ञापनार्थं मन्वादिवचनं विभागस्तु स्वातन्त्र्यात्तत्कालीन इच्छाप्राप्तौऽनूद्यते। तथा चैतद्वचनविरोधादपि न जन्मना स्वत्वं वक्तुं शक्यम्। उपरमवत्पतितत्वादिकमपि पित्रादिस्वत्वनाशकारणं वक्ष्यते। तस्मात् पित्रादिस्वत्वनाश एव तद्धने पुत्त्रादीनां स्वाम्यं न तत्स्वत्वसमकालीनमिति स्वाम्यादिसद्भावस्य सर्वत्र प्रतिबन्धकत्वात् सर्वोऽपि सप्रतिबन्ध एव दाय इति द्वैविध्यमनुपपन्नमिति। अत्रोच्यते। यदि स्वत्वापगम एव पुत्रादीनां तद्धने स्वत्वं तर्हि निर्दोषे पित्रांदौ जीवति तेषां धनसाध्यवैदिककर्मस्वनधिकारप्रसङ्गे “जातपुत्त्रः कृष्णकेशोऽग्नीनादधीतेत्यादि श्रुतिविरोधस्तुल्यः स्वकपोलकल्पितहेत्वाभाससमर्थितस्मृत्यर्थानुरोधेन श्रुति सङ्कोचोऽयुक्तः। आहिताग्नाविष्टप्रथमयज्ञे पित्रादौ जीवत्यपि पुत्रादीन् प्रति तत्प्रवृत्त्यविशेषात्। सकलयाज्ञिकशिष्टानां तदनुष्ठानदर्शनाच्च। जातपुत्रकृष्ण केशपदाभ्यां वयोवृद्धानतिक्रमस्यैव विवक्षा न तु तयोरव्यवस्थितयोः स्वरूपेणेति विरोधाधिकरणे भाष्यवार्त्ति कादौ स्थितत्वात्। न च यथा प्रुत्रानुमत्या पितुर्भवन्मते तदधिकारस्तथा मन्मतेऽपि पुत्रादीनामपि पित्राद्यनुमत्येति वाच्यम्। यतो द्वयोरपि मते पितुः स्वत्वस्य धने विद्यमानत्वात् खत्वत्यागरूपप्रधाननिष्पत्तिरविहता भवन्मते तु पुत्रादीनां स्वत्वस्यैवाभावादनुमतेश्च स्वत्वजनकत्वाद्यागादिप्रधाननिष्पत्तिरेव कथम्। वस्तुतस्तु पितुः पुत्त्रानुमतिरपि नापेक्षिता स्वातन्त्र्यात्। पित्राद्यनुमतिस्तु पुत्रादेरपेक्षिता पारतन्त्र्यादित्येतावान् विशेषो यथा स्त्रियाः स्वधनेनापीष्टा पूर्त्तादिव्रतादौ भर्त्रादेरनुमतिस्तत्पारतन्त्र्यवचनात्। अननुमतौ तु स्वतन्त्रः प्रत्यवायो वैगुण्यं वा कर्मणि न तु प्रधानस्वरूपानिष्पत्तिः। पित्राद्यनुमतेः स्वत्वीत्पादकत्वञ्चैतदनुरोधात्कल्प्यमानमलौकिकभशास्त्रीयञ्च। तस्माच्छास्त्रैकसमधिगम्येऽपि स्वत्वे कथञ्चिज्जन्मनोऽपि रिक्थादिवचनादधिगमादिपदेन संग्रह आवश्यकः श्रुति स्मृतिपुराणशिष्टाचारसिद्धस्य निर्दोषे जीवत्यपि पित्रादौ पुत्रादियज्ञाद्यनुष्ठानाधिकारस्यानुरोधात्। वस्तुतस्तु लौकिकमेव स्वत्वं लोके च जातमात्राणामेव पुत्रादीनां पित्रादिधने स्वाम्यव्यवहारोऽन्येषामपीति साधयिष्यामः। यच्च पित्रादीनामनुमत्ययोग्यपुत्रादिसाधारणस्वत्वे कथमनुमतिमन्तरेणाधानादिकं स्यादित्युक्तन्तदनुमतियोग्येष्वपि पुत्रादिषु स्वातन्त्र्यात्पित्रादीनां न तदनुमत्यपेक्षा किमुतानुमत्ययोग्येष्विति परिहृतप्रायमेव तद्विधिबलादेवाधिकारोऽवगम्यत इति तु विज्ञानेश्वराचार्य्यः। अतश्चोत्मत्त्यैवार्थस्वामित्वमिति गौतमवन्वनस्य यज्जीमूतवाहनरघुनन्दनाभ्याम्पारम्परिकोत्पत्तिस्वत्वहेतुत्वेन व्याख्यानं कृतन्तदपि व्यर्थमेव। यत्तु शङ्खवचनन्तस्यापि स्मृतिचन्द्रिकोक्तव्याख्यैव साधीयसी। कल्पतरूक्तव्याख्यायान्तु विद्याद्युपात्ताध्याहारेऽनुपस्थितभूयःपदाध्याहारः प्रसज्येत। जन्मपदाध्याहारस्तु पुत्रत्वाद्याक्षेपस्थितेरल्पाध्याहाराच्च नायुक्तः। तेन श्रुत्युपष्टब्धस्मृत्यनुरोधान्मनुनारददेवलादिवचनानामेवास्वातन्त्र्यपरत्ववर्णनभुचिततरम्। यदप्युक्तं प्रीतिदत्तस्याविभाज्यत्ववचनानि जन्मना स्वत्वाभ्युपगमेऽनुपपन्नानीति। तदपि न अनुमत्यभिप्रायेण स्थावरप्रीतिदानाभावस्थिरीकरणार्थतयोपपत्तेः। स्वातन्त्र्याद्वा पितुरनुमतिमन्तरेणापि तेन दत्ते स्थावरव्यतिरिक्ते पुत्राणामविभाज्यत्वमुच्यते। अतएव स्थावरे विशेषवचव्रम् “स्थावरं द्विपदञ्चैव यद्यपि स्वयमर्जितम्। असम्भूय सुतान् सर्वान्न दानन्न च विक्रयः” इति। मणिमुक्ताप्रबालानामित्यादिवचनन्तु जन्मना स्वत्वपक्ष एवोपपन्नतरम्। न च पितामहोपात्तस्थावरमात्रविषयत्वमिति युक्तम्। न पिता न पितामह इति द्वयग्रहणात्। पितामहस्य हि स्वार्जितमपि पुत्रे पौत्रे च सत्यपि न देयमिति वचनं जन्मना स्वत्वङ्गमयति। यथा परमते मणिमुक्ताप्रवालादीनां पैतामहानामपि पितुरेव स्वत्वन्तत्स्मरणात्तथास्मिन् मतेऽपि पुत्रादीनान्तत्र जन्मना स्वत्वे साधारणेऽपि पितुर्दानाधिकार इत्यविशेषः। तस्मात्पैतृके पैतामहे च द्रव्ये पुत्रादीनां यद्यपि जन्मनैव स्वत्वं तथापि पितुरावश्यकेषु धर्मकृत्येषु वाचनिकेषु च प्रसाददानकुटुम्बभरणापद्विमोक्षादिषु च स्थावरव्यतिरिक्तद्रव्यविनियोगे स्वातन्त्र्यमिति ध्येयम्। स्थावरादौ तु स्वार्जितेऽपि पित्रादिपरम्पराप्राप्ते च पुत्रादिपारतन्त्र्यं तुल्यमेव। “स्थावरं द्विपदञ्चैव यद्यपि स्वयमर्जितम्। असम्भूय सुतान् सर्वान्न दानन्न च विक्रयः। ये जाता येऽप्यजाताश्च ये च गर्भे व्यवस्थिताः। वृत्तिञ्च तेऽभिकाङ्क्षन्ति न दानन्न च विक्रयः” इत्यादि वचनात्। अस्याप्यपवादो वक्ष्यते यच्च स्वत्वस्य शास्त्रैकसमधिगम्यत्वाच्छास्त्रे च जन्मनः क्वापि स्वत्वहेतुतानभिधानात् कथञ्जन्मना पुत्रादीनाम्पित्रादिधने स्वत्वस्वीकार इत्युक्तम्। तत्तु शास्त्रैकसमधिगम्यत्वमभ्युपेत्यापि गौतमादिवचन उत्पत्तेरपि स्वत्वोक्तेः परिहृतमेव प्राक्। वस्तुतस्तु न स्वत्वस्य शास्त्रैकससधिगम्यत्वं युक्तियुक्तम्। सर्वथा शास्त्रज्ञानगन्धरहितानां प्रत्यन्तवासिनां म्लेच्छादीनामपि मम स्वमिदं नान्यस्य स्वमिति व्यवपदेशस्तत्कृतश्च क्रयविक्रयादिव्यवहारो दृश्यते। तेनान्वयव्यतिरेकाभ्यां क्रयाद्युपायकं स्वामित्वमपि तैर्यथेष्टविनियोगार्हत्वरूपं पदार्थान्तररूपं वा प्रत्यक्षादिप्रमाणादेवावगतमित्यवश्यं वाच्यम्। एतत्तर्कोपष्टब्धोऽनुमानवाक्यप्रयोगोऽपि विज्ञानयोगिनोक्तः “स्वत्वं लौकिकं लौकिकार्थक्रियासाधनत्वाद्व्रीह्यादिवम् इत्यन्वयदृष्टान्तः। आहवनीयादीनां हि शास्त्रैकसमधिगम्यानां न लौकिकार्थक्रियासाधनत्वमस्तीति व्यतिरेकदृष्टान्तः। तेनान्वयव्यतिरेकौ हेतुः। यद्यप्याहवनीयादीनामपि यागादिलौकिकक्रियासाधनत्वमप्यस्ति। तथापि तल्लोकप्रमाणकाग्न्यादिरूपेण नालौकिकाहवनीयादिरूपेणेति न व्यभिचारः। इह तु सुवर्ण्णादिरूपेण न क्रयादिसाधनत्वमपि तु स्वत्वेनैवे ति सुवर्ण्णत्वादिना भरणाद्यर्थक्रियासाधनत्वात्तद्यथालौकिकं रूपमेवं स्वत्वमपि सर्वानुगतं लौकिकमेव नह्यस्वत्वेन क्रयादि क्रियानिर्वाहो लोके। न चैवं स्वामी रिक्थेत्यादि स्मृतीनां लोकसिद्धार्थानुवादकत्वेनानर्थक्यापत्तिरिति वाच्यम्। धर्माधर्मोपयोगितया व्याकरणस्मृतावनादिवाचकत्वतदभावरूपसाधुत्वासाधुत्वविवेकस्येव तस्योपपत्तेः। साधुशब्दाधिकरणे ह्येतदवस्थितं यत्सङ्कीर्णव्यवहारिणां लोकानामविविक्तं लौकिकमेव साधुत्वं शास्त्रेण विविच्यते। नत्वलौकिकसाधुत्वं साधुभिर्भाषेतेत्यादिविधावन्योन्याश्रयप्रसङ्गादित्यादि। एवमत्रापि तथा च नयविवेके भवनाथः “लीकसिद्धञ्चार्जलञ्ज- न्मादि अतएवानिन्द्यं प्रथमलोकधीविषयव्यवस्थितं तन्निबन्धनार्था स्मृतिर्व्याकरणादिस्मृतिवदिति। जन्मादीत्यादिपदेन क्रयादिग्रहणम्। व्याकरणादित्यादिपदेन सङ्गीतरत्नपरीक्षासामुद्रिकाणां ग्रहणम्। रागादीनामपि हि लोकसिद्धानामेवानभियुक्तान् प्रति विवेकार्थमेव तल्लक्षणकथनमित्युक्तं स्मृत्यधिकरणे आचार्य्यचरणैः। स्वामी रिक्थेत्यादिवचनन्तु प्रागेव व्याख्यातम्। रिक्थशब्दस्तु निष्प्रतिबन्धदायपरः संविभागशब्दश्च सप्रतिबन्धदायपर इति मिताक्षरायां विज्ञानेश्वरेण व्याख्यातम्। स्मृतिचन्द्रिकाकृता तु रिक्थं पित्रादिवने पुत्रादीनां स्वामित्वापादकं जन्मनैवेति व्याख्याय संविभागः पित्रादिधने विशेषनिष्ठस्वामित्वसम्पादको विभाग इति संविभागशब्दो व्याख्यातस्तन्न स्वस्य सतो विभागात् स्वत्वहेतुत्वेन तत्प्रतिपादनानौचित्यात्। एकदेशव्यवस्थापनमात्रं हि स्वत्वस्य विभागेन क्रियते। मुख्यामुख्यहेतुत्वग्रहणे स्वामिपदे वैरूप्यापत्तेः। अतएवाह मिताक्षरायां विज्ञानेश्वराचार्य्यः ‘विभागशब्दश्चानेकस्वामिकधनविषयः प्रसिद्धोनान्यदीयविषयो न प्रहीणविषय इति’। लोके पुत्रादीनां जन्मनैव स्वत्वं प्रसिद्धतरमेव। यदपि पत्नी दुहितरश्चेत्यादिवचनं तदपि स्वामिसम्बन्धनिबन्धनानेकदायहरप्राप्तौ लोकप्रसिद्धेऽपि स्वत्वे व्यामोहनिरासार्थम्। प्रायेण व्यवहारस्मृतीनां लोकसिद्धार्थानुवादकत्वमिति सकलनिवन्धृभिरभिधानात्। नियतौषायिकं स्वत्वं लोकसिद्धमेवेति भगवतोगुरोरपि संमतम्। लिप्सानये हि तृतीये वर्णके द्रव्यार्जननियमानां क्रत्वर्थत्वे स्वत्वमेव न स्यात् स्वत्वस्यालौकिकत्वादिति पूर्बपक्षासम्भवमाशङ्क्य द्रव्यार्जनप्रतिग्रहादीनां स्वत्वसाधनत्व लोकसिद्धमेवेति पूर्बपक्षः समर्थितस्तेन। न च द्रव्यार्जनस्य क्रत्वर्थत्वे स्वमेव न भवतीति याग एव न संवर्त्तेत। प्रलपितमिदङ्केनापि। अर्जनं स्वत्वं नापादयतीति विप्रतिषिद्धमिति” ग्रन्थेन। अस्यार्थष्टीका कृता विवृत एवम्। यदा द्रव्यार्जननियमानां क्रत्वर्थत्वन्तदा नियमानां स्वत्वोपायतामिदं शास्त्रं न बोधयति क्रत्वर्थताबोधने व्यापृतत्वात्। तथा सति प्रतिग्रहादिप्राप्तस्य स्वत्वमित्यत्र प्रमाणाभावादस्वेन च स्वत्वत्यागात्मकयागासम्भवात् कस्येह द्रव्यार्जननियमा भवेयुरिति पूर्वपक्षासम्भव इति शङ्कार्थः। प्रलपित- मित्याद्युत्तरस्तस्यार्थः। अर्जनप्रतिग्रहादेः स्वत्पहेतुताया मोकसिद्धत्वेन शास्त्रस्य तत्राव्यापारान्नियमानां क्रत्वर्यतैव तेन गम्यत इति न यागासम्भवो नियमानर्थक्यञ्चेति। सिद्धान्तेऽपि तेन स्वत्वस्य लौकिकत्वाभ्युपगमेनैव विचारप्रयोजनमुक्तम् ‘अतो नियमातिक्रमः पुरुषस्य न क्रतोरिति’। अस्याप्यर्थ एवं विवृतः। यदा द्रव्यार्जननियमानां क्रत्वर्थत्वन्तदा नियमार्जितेनैव क्रतुर्न्न नियमातिक्रमार्जितेन द्रव्येण। न तु पुरुषस्य नियमातिक्रमदोषः पृर्वपक्षे। सिद्धान्ते अर्जननियमस्य क्रत्वर्थत्वाभावात्केवलपुरुषार्थत्वात्नियमातिक्रमार्जितेनापि द्रव्येणक्रतुसिद्धिरप्रत्यूहा पुरुषस्यैव तु नियमातिक्रमदोष इति अनेन नियमातिक्रमार्जितस्यापि स्वत्वमभ्युपगतमन्यथा क्रतुसिद्ध्यभिधानविरोधात्। तत्रैवाधिकरणे कुमारीस्वामिंनोऽप्यत्रभवतः स्वत्वं लौकिकमित्येवाभिमतमिति। तत्रत्यवार्त्तिकतन्त्ररत्नाभियोगभाजां सुलभमेव। अतएवाह शास्त्रदीपिकायां, पार्थसारथिः रागप्राप्तं तावदर्जनन्न शास्त्रीयम्। रागतश्च पुरुषार्थतया प्राप्तेः प्रत्यक्षेणैवार्जितं द्रव्यं पुरुषम्प्रीणयत् पुरुषार्थं विज्ञायते न तदनुमाने क्रत्वेकशेषतया शक्यं विज्ञातुम्। तस्मात् पुरुषार्थं द्रव्यं क्रतुरपि पुरुषकार्य्याणामन्यतम इति कार्य्यान्तरवत् क्रतावप्युपयुज्यत इत्येतावान् विशेषः। नतु तस्यैवाङ्गं तथा सति जीवनलोपात् क्रतुरेव न प्रवर्त्तेतेति प्रधट्टकेन। अत्रार्जनस्य शास्त्रीयत्वन्निरस्यता स्वत्वस्य तदुपायानाञ्च लीकसिद्धत्वं स्पष्टतरमेवोक्तम्। अन्यदपि तेनैवोक्तम्। तस्मात् पुरुषार्थन्द्रव्यार्जनमेवञ्च दृष्टार्थम्भवति। नियमस्तु दृष्टाभावात्काममदृष्टार्थः स्यात्। अदृष्टमपि पुरुषार्थार्जनविषयत्वात्। नियमस्य पुरुषगतत्वमेव कल्प्यते। तेनासावुपायान्तरेणार्जयन् प्रत्यवेतीति गम्यत इति। ततश्च स्वामी रिक्थेत्यादिवचसां लौकिकमेव रिक्थादीनां स्वत्वोपायत्वमनूद्य तदतिरिक्तोपायनिवृत्तौ तात्पर्य्यन्नियमविधयेति नानर्थक्यशङ्कापि तृप्तिसाधनभोजनाश्रितदिङ्गियमवत्। द्रव्यार्जनमेव क्रत्वर्थपुरुषार्थत्वविचारो दाहरणन्नियमस्तु पूर्बपक्षयुक्तितयोपन्यस्तः। स एव तत्रोदाहरणभित्येव भट्टगुरुमतयोर्भेदः स्वत्वस्य लौकिकत्वं तूभयसम्मतमिति निष्कर्षः। तत्तद्दूषणभूषणादि तु तन्त्राभियोगवतामाकरे एव व्यक्तं प्रस्तुतानुपयोगादिह नोच्यते। एतेन चोर्य्यादिप्राप्तस्यापि स्वत्वं स्यादिति यत्संग्रहकारधारेश्वराभ्यां स्वत्वस्य लौकिकत्वे दूषणमभिहितं तदपि परास्तम्। चौर्य्यादिषु स्वत्वोपायत्वस्य लोकएवाप्रसिद्धेरन्यस्य स्वमिदन्नास्येत्येवं व्यवहारात्। क्रयाद्युपायसन्देहादेव स्वत्वसन्देहोऽपीदमस्य वान्यस्य वेत्याकारोनानुपपन्नः। मम स्वमनेनापहृतमिति न ब्रूयादपहर्तुरेव स्वत्वादिति च यत्खत्वस्य लौकिकत्वे दूषणमभिहितं तदप्येतेनामूलविशीर्णम्। यच्चोक्तं संग्रहकृता “शास्त्रेण सर्वस्य तत्र बिनियोगनियन्त्रणाद्यथेष्टविनियोगार्हत्वरूपस्वत्वासम्भवः इच्छया क्वापि नियोगासम्भवादिति। तदप्यापाततः न हि वयमैच्छिकविनियोगोपहितत्वं ब्रूमोऽपि तु तदर्हत्वमात्रम्। अन्यथा राजादिभयादिच्छाप्रतीघातेऽपि तत्र विनियोगेच्छानिच्छादशयोश्च स्वत्वतदभावौ विरुद्धौ प्रसज्येयाताम् राजादिनियन्त्रणादिव शात्रनियन्त्रणादन्यत्रैच्छिकविनियोगाभावेऽपि तदर्हत्वस्यानपायात्। अतएव दुर्वृत्तेनाशास्त्रीयविनियोगे स्वव्यवहारो नास्ति। प्रत्यवायमात्रपरं शास्त्रातिक्रमात्। तदर्हत्वं च तद र्जितत्वप्रयुक्तमस्त्र्येव। तथा च नयविवेकेऽप्युक्तम्। “तच्च तस्य तदर्हं यद्देनार्जितमिति”। तदर्हं यथेष्टविनियोगार्हमित्यर्थः प्रतिबन्धादङ्कुरमजनयतोऽपि कुमूलस्थवीजस्य वीजत्वप्रयुक्तमङ्कुरोत्पादनार्हत्वमिव। वस्तु तस्तु वीजत्वाङ्कुरार्हत्वयोरिव स्वत्वत्वयथेष्टविनियोगार्हत्वयोरपि भेद एव। अन्यथार्हतावच्छेदकाऽपरिचयेऽर्हताया दुर्न्निरूपत्वात्। तेन ब्राह्मण्यमिव स्वत्वमपि तदुपायज्ञानव्यङ्ग्यं पदार्थान्तरमेवोत्पत्तिविनाशशालि। ब्राह्मण्यन्तु जातिरूपं नित्यमित्येतावान् परं भेदः। इदञ्चाकरे व्यक्तं लीलावत्यादौ च। अत्र मिताक्षरायां स्वत्वलौकिकालौकिकत्वविचारप्रयोजनमुक्तं शास्त्रैकसमधिगम्ये स्वत्वे। मनुः “यद्गर्हितेनार्जयन्ति कर्मणा व्राह्मणा घनम्। तस्योत्सर्गेण शुद्ध्यन्ति दानेन तपसैव च” इत्यादिस्मरणादसत्प्रतिग्रहादि यस्य यदर्जनोपायत्वेन निषिद्धन्तदंर्जिते तस्य स्वत्वाभावाच्चौर्य्याद्यर्जितवत्तत्पुत्राणामपि तदविभाज्यमेव। लौकिकत्वे तु स्वत्वस्य तदर्जितेऽपि पितुः स्वत्वात्तत्पुत्राणां पितृधनत्वेन तद्विभाज्यम्। अर्जयितुरेव प्रतिषेधातिक्रमनिमित्तप्रत्यवायात् प्रायश्चित्तम्। तत्पुत्रादीनान्तु दायरूपधर्मोपायतस्तत्स्वमिति न प्रायश्चित्तमपि “सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः। प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव चेति” मनुस्मरणात्। प्रयोगो वृद्ध्यर्थन्द्रव्यप्रयोगः कर्मयोग आर्त्विज्यादिकरणम्। तत्र दायादीनां त्रयाणां वर्णचतुष्टयसाधारण्येन जयस्य क्षत्रियं प्रति, योगस्य स्वयंकृतस्य वैश्यं शूद्रं च प्रति धर्म्यत्वम् अस्वयंकृतस्यापदि च स्वयंकृतस्यापि सर्वान् प्रति। कर्मयोगस्य तु विप्रं प्रत्येवेति विशेष इति। अत्र मदनरत्नकरो दूषणमाह ‘स्वत्वस्य शास्त्रैकसमधिगम्यत्वेऽप्यसत्प्रतिग्रहादिनिषेधो न स्वत्वानुत्पादकतान्तेषां वदति किन्तु प्रत्यवायमात्रहेतुताम्। इतरथा “आपद्गतः सम्प्रगृह्णन् भुञ्जानो वा यतस्ततः। न लिप्येतैनसा विप्रो ज्वलनार्कसमो हि सः। कुसोदं कृषिबाणिज्यं प्रकुर्वीतास्वयङकृतम्। आपत्काले स्वयं कुर्य्यान्नैनसा युज्यते द्विजः” इति वचनैरेनसा न युज्यत इत्यभिधानेनापदि प्रत्यवायाभावावगमेनानापदिप्रत्यवायस्यैवावगमात् प्रतिषेधप्रतिप्रसवयोः समानविषयत्वौचित्यात्। अतएवानापदि तत्र द्रव्यपरित्यागपूर्बकं जपतपोरूपं प्रायश्चित्तमेव विदधाति। न चौर्य्यादिवद्राजदण्डमपि किञ्चिद्वचनमसत्प्रतिग्रहादौ। तेनासत्प्रतिग्रहादेः पूर्वपक्षसिद्धान्तयोर्द्वयोरपि तेषां स्वत्वोत्पादकत्वाविशेषात्तदर्जितस्य पुत्रादिविभाज्यत्वमपि तुल्यमिति नैतत्प्रयोजनं विचारस्यास्य युक्तमिति’। अत्र वटामः। शास्त्रैकसमधिगम्यस्वत्ववादिनो मते यथा चौर्य्यादिनिषेधस्य स्वत्वानुत्पादकत्वदण्डप्रयोजनं विचारस्यास्य युक्तमिति अत्र कर्तुः प्रायश्चित्तार्हताप्रयोजकत्वपरता। तथाऽसत्प्रतिग्रहादिनिषेधस्याप्यस्तु यथा चापदुपाधिना “तथैव सप्तमे भक्ते भक्तानि षडनश्नता। अश्वस्तनविधानेन हर्त्तव्यं हीनकर्मणः। आख्यातव्यश्च तत्तस्मै पृच्छते यदि वृच्छतीत्यादि” प्रतिप्रसवबलाच्चौर्य्ये तत्त्रितयाभावस्तथाऽसत्प्रतिग्रहादेरप्यस्तु। अन्यथोभयः त्रापि ततः पञ्चमहायज्ञाद्यनिष्पत्तिप्रसङ्गः। शास्त्रीयत्वे स्वत्वस्याप्रसक्तचौर्य्योपायकत्वनिषेधः कथमिति चेत्। अधिगमान्तर्भावेन कथञ्चित्तत्प्रसक्तेस्तेनावश्यवक्तव्यत्वात् अपरथा प्रतिषेधानुपपत्तेः। शास्त्रप्राप्तप्रतिषिधे च विकल्पापत्तिभिया “दीक्षितो न जुहोतीत्यादिवद्भाष्यकारमतेन पर्य्युदासत्वं सामान्यविशेषभावेन विशेषनिषेधसामान्यविध्योर्बाध्यंबाधकभावोऽपि वा मतान्तरेणेत्यपि स्वीकार्य्यमेवागत्या। प्रतिग्रहादेस्तु प्रसक्तिः र्ब्राह्मणादेरस्त्येवेत्यापत्तदभावोपाधिकौ प्रतिप्रसवप्रति- षेधावप्युपपन्नतरौ। तर्ह्यसत्प्रतिग्रहस्वयंकृतबाणिज्यादावनापदि ब्राह्मणस्य राजदण्डोऽपि स्यादिति चेन्न इष्टापत्तेः। न हि स्वधर्मत्यागिनो राजदण्डाभावः कस्यापि सम्मतः। स च क्वचित् सामान्यरूपेणोक्त एव गृह्यते क्वचिद्विशेषादाम्नात इत्यन्यदेतत्। अतएवालौकिकस्वत्ववादिन इदमप्यपरदूषणम्। चौर्य्यादिनिषेधस्य त्रितयप्रयोजकतागौरवम्। पर्य्युदासत्वादिस्वीकारगौरवञ्च लौकिकस्वत्ववादिनस्तु दण्डप्रत्यबायमात्रपरत्वम्। तेषां स्वत्वानुपायत्वस्य लोकसिद्धत्वादिति रागप्राप्तनिषेधे पर्य्युदासादिस्वीकारानापत्तिश्चेति लाधवमिति। तस्माच्छास्त्रैकसमधिगम्ये स्वत्वेऽसत्प्रतिग्रहादेस्तदनुपायत्वात्तदर्जिते पितुः स्वत्वाभावः स्यादेवेति चौर्य्याद्यर्जितपितृधनाविभागवदसत्प्रतिग्रहाद्यर्जितस्याप्यविभाज्यत्वम्। लौकिके तु तस्मिन् लोके तेषामपि तदुपायत्वात् सिद्धं तद्विभाज्यमिति मिताक्षरोक्तं साध्वेव प्रयोजनम्। इदञ्चोपलक्षणम्। पूर्बपक्षे चौर्य्याद्यर्जितपितृधनस्वीकारे यथा पुत्त्रादीनामपि दण्डप्रायश्चित्तं भवत्येव तथाऽसत्प्रतिग्रहाद्यर्जिततद्ग्रहणेऽपीत्यपि प्रयोजनमवसेयम् अर्जयितुरेव प्रायश्चित्तमित्यभिधानेनोचितत्वात्। इदन्त्विह विचार्य्यम्। स्वत्बस्य लौकिकत्वे चौर्य्यस्य लोके तदनुपायत्वे सिद्धे षड्भक्तानशनाद्यापदि यच्चौर्य्यमनुमतन्तेन चोरिते स्वत्वमुत्पद्यते न वा। नाद्यः लोकेऽनुपायत्वेनावधारितत्वात्तदुत्पत्तेरभ्युपगन्तुमशक्यत्वात्। न हि प्रत्यक्षविरुद्धं शास्त्रसहस्रेणापि जलादेर्दधिजनकत्वादि बोध्यते। न द्वितीयः अस्वेन पञ्चमहायज्ञादिप्रधानानिष्पत्तेः। नच क्षुत्प्रतिघातमात्रमेव तेन क्रियतां नान्यदलौकिकमिति वाच्यम्। शिष्टाचारविरोधात् न हि “शिष्टाः पञ्चमहायज्ञाद्यकृत्वा तदुपयुज्यते “यदन्नः पुरुषो लोके तदन्नास्तस्य देबताः” इतिं स्मरणाच्च। अतएव विश्वामित्रः श्वजाबनीं श्वपचगृहात् हृत्वेन्द्रादिदेवोद्देशेन त्यक्त्वा मोक्ष्यामीति मनसिकृत्य यदा यथादैवतन्तद्भागांस्त्र्यक्तुं प्रवत्तस्तदा तुष्टैरिन्द्रादिभिर्वृष्टिः सृष्टा शस्यञ्च तत्क्षणमेव पभूतमभूदित्याख्यायिका पुराणेषु स्मर्य्यते। णास्त्रैकसमधिगम्ये तु खत्वे यथाशास्त्रञ्चौर्य्यादेरपि स्वत्वोत्पादकत्वतदभावौ न विरुद्धौ। लौकिकस्वत्वतदुपायवादिनस्तूपयतः पाशारज्जुरियमिति। अत्र प्रतिविदध्मः। यद्यपि चौर्य्यस्य स्वत्वोत्पादकत्वन्न लोकसिद्धं तथाप्यनेनैव सप्तभक्ताशनकाले षड्भक्तानशिनो विधानाद् गम्यते। स्वत्वमात्रस्य हि शास्त्रीयत्वे विरुद्धत्वमतज्ज्ञानानां क्रयादिस्वत्वसाध्यव्यवहारानुपपत्तेः। अतश्चौर्य्यनिषेधोदण्डपापमात्रबोधक एव। चौर्यस्य स्वत्वोत्पादकत्वाप्रसक्तेर्न तदभावपरः। यथा व्राह्मण्यस्य र्वत्र प्रत्यक्षत्वेऽपि जात्युत्कर्षस्थले शास्त्रीयत्वमेव। पुरुषेयत्तानियमस्य शास्त्रैकगम्यत्वात्। यथाहुराचार्य्याः “एतावन्मात्रन्त्विहागमिकं प्रत्येतव्यम् नह्ययं पुरुषेयत्तानियमोलोकप्रमाणगम्यं इति”। तत्रापि तावत् पुरुषपरम्पराजन्यव्यक्तौ ब्राह्मण्यमभिव्यज्यत इति व्यङ्ग्यव्यञ्जकभाव एव परं शास्त्रीय व्यञ्जके ज्ञानवतस्तादृशव्यक्तौ ब्राह्मण्यं प्रत्यक्षमेव व्यक्तिप्रत्यक्षप्रमुखजातिप्रत्यक्षसामग्रीसम्भारादित्यपि वदन्ति। इह तु चौर्य्यमात्रस्यैव स्वत्वानुत्पादकत्वग्रहात्तादृशस्य तस्य स्वत्वोत्पादकतैव शास्त्रेण बोध्यते। न च प्रत्यक्षविरोधः। नहि प्रत्यक्षविरुद्धं शास्त्रसहस्रेणापि बोधयितुं ंशक्यमिति वाच्यम् नह्यनुत्पादकत्वमपि लोकात्। तादृशेन व्यवहाराभावादन्वयव्यतिरेकगम्या स्वत्वस्य चौर्य्योपायकता नावगम्यत इत्येतावत्। तथा च पुत्रेष्ट्याद्रीनां लोकानवगतपुत्त्रादिजनकता यथा शास्त्रादवगम्गते तेषां दृष्टोपायान्तरजन्यतायामपि, तथेहाप्यस्तु। स्वर्गाहवनीयादीनामलौकिकमात्ररूपाणां दृष्टोपायाभावोऽप्यधिक इत्यन्यदेतत्। प्रतिबन्धकप्रतिबद्धदाहादिजनकता यथोत्तेजकमन्त्राणामथर्वादि शास्त्रगम्या लोकप्रमाणगम्यत्वात् उत्तेजकतायाश्च प्रतिबन्धकप्रतिबद्धकार्यजनकतातिरिक्ताया अनिर्वाच्यत्वात्। शक्तिनाशतदुत्पत्तिकल्पनायामतिगौरवात्। यत्तु जन्मना स्वत्वन्निराकुर्वता जीमूतवाहनेन ‘क्वचिज्जन्मनैवेति जन्मनिबन्धनत्वात्पितापुत्त्रस्य सम्बन्धस्य पितृमरणस्य च कारणत्वात्परम्परया वर्णनसिति’ प्राचीनलिखनाभिप्रायमुक्त्वा कथमुत्पादनरूपेश पितृगतव्यापारेण पुत्रे स्वत्वीद्वषत्तिरित्याशङ्क्योक्त अन्यव्यापारेणाप्यन्यस्य स्वत्वमविरुद्धं शास्तबलकत्वादस्य। दृष्टञ्च लोकेऽपि दाने हि चेतनोद्देश्यकत्यागादेव दातृव्यापारात् सम्प्रदानस्य द्रव्ये स्वामित्वम्। न च स्वीकारणात् स्वत्वं स्वीकर्त्तुरेव दातृत्वापतेः। परस्वद्वापत्तिफलेन न्दि दानरूपता तच्च फल सम्ब्रदानाधीनम्। यथा हि देवतोद्देशेन त्यागं कुर्वचपि यजमानो त द्वोता किन्तु तस्यैव यागस्य होमाभिधाननिमित्तभूतम्प्रक्षेपं कुर्वन्नृत्विगेव होतेत्युच्यते तद्वदत्रापि स्यात्। किञ्च। मनसा पात्रमुद्दिश्येत्यादिशास्त्रे स्वीकारात् प्रागेव दानपदं दृष्टम्। ननु ग्रहणं स्वीकारः अभूततद्भावे च्विप्रयोगादस्वं स्वं कुर्वन् व्यापारः स्वीकारो भवति कथन्ततः प्रागेव स्वत्वम्। उच्यते। उत्पन्नमपि स्वत्वं सम्प्रदानव्यापारेण ममेदमिति ज्ञानेन यथेष्टव्यवहारार्हं क्रियते इति स्वीकारशब्दार्थः याजनाध्यापनसाहचर्याच्च प्रतिग्रहस्य स्वत्वमजनयतोऽप्यर्ज्जनरूपता न विरुद्धा याजनादौ दक्षिणादानादेव स्वत्वात्। पितृनिधनकालीनञ्जीवनमेव वा पुत्त्रस्यार्जनम्भविष्यति। किञ्च। भ्रात्रादिधने तन्मरणात्तन्मरणकालीनजीवनाद्वा भ्रात्रन्तरादेः स्वत्वमकामेनापि वाच्यन्तद्वदिहाप्यस्त्वितिं। तदेतदुत्तानमति बिलसितम्। तथा हि शास्त्रमूलत्वादस्येति तावत् स्वत्वस्य लौकिकत्वसाधनादेव निराकृतम्। यदपि दृष्टश्च लोकेऽपीत्यादि तदप्यापातसुन्दरम्। न हि प्रतिग्रहीतर्य्यस्वीकुर्वत्यपि तस्य स्वत्वमुत्पद्यते। पात्रविशेषोद्देशेन त्यागे तेनास्वीकृतेऽपि तत्स्वत्वोत्पत्तौ परस्मै तस्य प्रतिपादनासम्भवप्रसङ्गात्। यदपि स्वीकर्त्तुरेव दातृत्वापत्तेरिति तदप्ययुक्तम्। परस्वत्वापत्तिफलकव्यापारस्य दानत्वात्सम्प्रदानस्वीकारानुकूलानुमानादिव्यापारस्य दानपदार्थत्वात्तत्फलोपहितता तुं तस्य सम्प्रदानस्वीकारमन्तरेण न सम्भवतीति सम्प्रदानव्यापारस्तद्ध्वटकः। न तु सएव दानशब्दार्थः। यदपि यथा हीत्यादि तदपि न यजमानकर्त्तृकाग्निहोत्रहोमादौ तदविरोधात्। यत्रापि दर्शपूर्णमासादौ त्यागमात्रं यजमानेन क्रियते। चरुवत्तस्य प्रक्षेपोऽर्ध्वादिभिस्तत्रापि विविक्तकर्त्तृकत्वाद्यथास्वन्तद्व्यवहाराविरोधात्। अत्यक्तस्य प्रक्षेपपर होमशब्दबाच्यता नास्ति। स तु त्यागः स्वकर्त्तृकोऽन्यकर्त्तृको वाऽवच्छेदकोऽस्तु न तावता कश्चिद्दोषः। अतएव यागस्य न प्रक्षेपापेक्ष आत्मलाभो होमस्य तु तदपेक्षएव। दानस्य तु प्रतिग्रहीतृव्यापारसापेक्षतैव तदभावे दानपदार्थानिष्पत्तेः। यच्च किञ्चेत्यादि। तदपि यत्किञ्चित् उत्सर्गस्यैव तत्र विधानात् न तु दानस्य। अतएव दाता तत् फलमाप्नोतीत्युक्तमन्यथा तस्यानुवादत्वापत्तेः। दानत्वे हि तस्य तत्फलभावाप्रसक्तेस्तु तत् फलमाप्नोतीति व्यर्थमेश स्यात्। अतस्तत्र जलप्रक्षेपरूपः पात्रोद्देश्यक उद्यर्तएव ददातिना विवक्षितोदानत्वनिष्पत्तिस्तु तस्य सम्प्रदानकर्त्तृकस्वीकारे सत्येवेति परमार्थः। अतएवोत्सृजे इत्येव तत्र सङ्कल्पवाक्यं शिष्टानान्नतु दास्ये इति सम्प्रददे इति वा। अतः प्रतिग्रहादेव दानस्य फलेऽपि सम्प्रदानस्य स्वत्वमिति प्रतिग्रहस्यार्जनरूपत्वमविरुद्धम्। स्वत्वजनकोहि व्याप्रारोऽर्जनशब्दार्थः। अतएवाह प्रभाकरः प्रलपितमिदं केनापि अर्जनं स्वत्वं नापादयतीति विप्रतिषिद्धमिति’। अस्य ग्रन्थः प्रागेव विवृतः। किञ्च। प्रतिग्रहस्य ममेदमिति ज्ञानरूपस्य दातृव्यापारमात्रोत्पन्नस्वत्वव्यवहारार्थतामात्रसम्पादकतायामर्जनशब्दस्थ तत्र गौणता स्यात्। अन्यस्मै तत्प्रतिपादनानुपपत्तिश्च पूर्वमुक्ता। तदस्वीकारे प्रागुत्पन्नतत्स्वत्वनाशश्च कल्प्यः स्यात्। न च दातृव्यापारात्तत्स्वत्वनाशात्साधारण सम्प्रदानस्वत्वोत्पत्तिरवश्याभ्युपेया त्वयापि। अपरथैतत्स्वत्वनाशेऽन्यस्य च स्वत्वानुत्पत्तेर्मध्यस्थस्य तस्य परिग्रहादिनाऽन्यस्य यस्य कस्यापि वनगतास्वामिकतृण काष्टादाविव तत्र स्वत्वं स्यात्परिपालनाप्रसक्तिश्च। तथा मन्मतेऽपि पात्रविशेषोद्देश्यककत्यागे पात्रविशेषस्योत्पन्नमपि स्वत्वन्तदस्वीकारे नश्यत्यन्यस्य स्वीकारात्तस्योत्पद्यत इति न कोऽपि विरोधः साधारणस्वत्वविनाशासाधारणस्वत्वीत्पत्तिरिति वाच्यम्। यतस्तत्र साधारण स्वत्वव्यवहाराभावेन तदुत्पत्तिरप्रमाणिकी नैव स्वीक्रियते गौरवाच्च। किन्तु दातुरेव यथेष्टविनियोगार्हस्वत्वापगमेऽपि परस्वत्वापत्तिफलाभावे दानशब्दार्थानिष्यत्तेर्विधिशिरस्कफलार्थिनः प्रतिपादनावधिपरिपालनीयत्वरूपं स्वत्वमस्त्येव। यथा हुते हविषि भस्मसाद्भावावधि अस्पृश्यस्पर्शादिनिषेधाश्रयणमित्तदोषश्रवणानुरोधेन, तथा चान्यस्वत्वानुत्पत्तावपि न मध्यस्थपरिग्रहाद्यनिवारणादिदोषः। शिष्टाचारोऽप्युभयत्र परिपालनरूपस्तन्मूलकएव। न चीत्सर्गमात्रस्य तत्र त्वया वश्याभ्युपगमात्परस्वत्वापादनादरएव न स्यादिति वाच्यम्। तादृशोत्सर्गस्यैव विधितात्पर्यविषयत्वात्। होमस्थलेऽप्यन्यथा भस्मसाद्भावानादरापत्तेः। यच्च याजनाध्यापन साहचर्य्यात् प्रतिग्रहस्यापि स्वत्वाजनकत्वेऽपि गौणमेवार्जनत्वमिति। तदप्यबोधात्। तत्र हि ये ये द्विज प्रभृतीनाम्भागास्तेषान्तेषान्तेभ्यों भृतिरूपेणैव दक्षिणाकाले प्रतिपादनम्। परिक्रयव्यवहारोऽप्यतएव “स्वामिकर्म परिक्रयः” इति जैमिनिसूत्रादौ विस्तरेण निर्णीतएव विस्तरस्तु तत्रैव द्रष्टव्यः। कर्म्मकरानतिजनिका भृतिरेव हि परिक्रयः। एवमध्यापनेऽपि शिष्योऽ ध्यापकाथाध्यापनभृतिमेव तत्सन्तीषजननीमध्ययनान्तेऽर्पयन्ति। नियतभृतिकरणे तु भृतकाध्यापनमुपपातकम्। अतएव याजनाध्यापनयोः प्रतिग्रहाद्भृतिशब्दवाच्यनिर्वेशाच्च पृथगभिधानमुभयमिश्रितत्वात्। तेन तयोरपि मुख्यमेवार्जनत्वम्। दक्षिणात्वव्यवहारोऽप्यतएव ऋत्विगध्यापकदेये। यदपि भ्रात्रादिधने भ्रात्रन्तरादि स्वत्वोत्पादकत्वन्तन्निधनस्य तत्कालीनभ्रात्रन्तरादिजीवनस्य वा कॢप्तमिति पुत्रादावपि पित्रादिनिधनन्तत्कालीनञ्जीवनं वा स्वत्वोत्पादकमस्तु नत्वकॢप्तं पुत्त्रादिजन्मनैवेत्युक्तम्। तदपि जन्मनोऽपि स्वत्वोत्पादकत्वस्यावश्यकत्वोपपादनादेव परिहृतम्। यच्चोक्तं ऊर्द्ध्वम्पितुश्चेत्यादि मनुवचनमपि जन्मनः स्वत्वापादकत्वे न घटते प्राग्विघागनिषेधार्थत्वे तस्यास्वार्थपरत्वापत्तेः विभागस्य दृष्टार्थत्वेन तद्विधानकालविधानयोरसम्भवात्। विभागस्य पक्षप्राप्तस्य नियभार्थत्वे सहवासविधिविरोधाद्यापत्तेः। तस्मात्पितरि सति मातरि च सत्यान्तद्धनस्वाम्याभाव उपरतयोरेव तयोः पुत्त्रादेस्तद्धनस्वाम्यमिति प्रतिप्रादनार्थमेव तद्वाच्यभिति। तदत्युत्तानाभिधानम् अस्वार्थविधानापत्तेस्तुल्यत्वात्। प्रागस्वातन्त्र्येण कालविधिपरत्वेबाधकाभावात्। इच्छाप्राप्तकालानुवादेऽपि व्यवहारशास्त्रत्वेनाविरोधात्। एतेन जातेष्टिवच्छेषिविरोधादि निमित्तानन्तर्यबाधकाभावात्पित्रुपरमानन्तरक्षणएव विभागः प्रसज्येतेत्यप्यपास्तम्। कालविधानेन पित्रुपरमस्यं निमित्तत्वाबोधनाच्च। अन्यथा निमित्ते सति नैमित्तिकस्यावश्यकत्वात्पित्रोरूर्द्ध्वं विभागाकरणे प्रत्यवायोऽपि प्रसज्येत। पतितत्वपारिव्राज्ययोः पितृस्वत्वनाशोऽप्यधिकः जन्मना स्वत्वन्तुल्यमेव। पातिन्ये तु प्रायश्चित्तानाचरण एव स्वत्वनाशो विभागानर्हता च। अन्यथा द्रव्य साध्यं प्रायश्चित्तमपि पित्रोः स्वद्रव्येण न स्यात्। अतएव णातुर्निवृत्ते रजसीत्याद्यपि कालविधिपरमेव। न तु पातित्यादिवत्तत्र स्वत्वाभावः। स तु लोकत एव विभागनिषेधाच्च भ्रात्रादाविवेत्यादि वक्ष्यते। किञ्च। तदेवं पितृस्वत्वापगमएकः कालः अपरश्चानपगत एव पितस्याम्ये पितुरिच्छयेति कालद्वयमित्युक्त्वा मध्ये मिताक्षरोक्तं विभागकालत्रयं दूषयित्वा तस्मात्पतितत्वनिस्मृहत्वोपरर्मः पितृस्वत्वापगम एकः काल, अपरश्च सति स्वत्वे तदिच्छात इति कालद्वयमेव युक्तमित्युपसंह ता जीमूतवाहनेनैव पितृस्वत्वानपगमेऽपि पुत्त्राण विभागो स्वीकृतस्तत्र पुत्त्राणाम्पितृधने स्वत्वोत्पादः कथम्। कथञ्च जीवतोः प्रित्रीरस्वाम्यप्रतिपादकवचनैः सह न विरोधः। अस्वस्य विभागासम्भवात्कथन्तेषां विभागः। पितृस्वत्वापगमएवोर्द्ध्वं पितुश्चेत्यनेन विवक्षितोऽतएव मृतपदम्परित्यज्योर्द्ध्वमित्युक्तम्। पितृस्वत्वापगमोर्द्ध्वमित्यर्थः पितृस्वत्वापगमश्च तन्निधनादिवत्तस्य पतितत्वनिस्पृहत्वाभ्यामपीत्यादि स्वग्रन्थे पूर्वापरविरोधश्च न कथम्। अत्राप्युपरतस्पृहत्वादिना पुत्राणां स्वत्वम्पितृधने भवतीति ज्ञापनादयमेकःकाल इति उक्तम् तत्राप्युपरतस्पृहत्वादिनेत्यनेन पितृस्वत्वापगमएव यदि विवक्षितस्तर्ह्यनपगते पितृस्वत्वे तदिच्छाऽपरः काल इत्यभिधानं विरुद्धम्। पितृस्वत्वापगमकालीनपुत्रादिजीवनस्यैवार्जनस्य तदीयस्य स्वीकारात्पितृस्वत्वे सति पुत्त्राणान्तद्धने स्वत्वस्वीकारः कथम्। नह्यनाश्रमित्वमातृरजोनिवृत्तिमात्रेण पितुः स्वत्वापगमे पूर्वद्रव्यस्वामिसम्बन्धाधीनन्तत्स्वाम्योपरमे यत्र द्रव्ये स्वत्वन्तत्र निरूढोदायशब्द इति स्वीक्तदायशब्दार्थाभावात्पित्रस्वत्वानपगमे यत्र बिभाग स्तत्र दायशब्दप्रयोगोऽपि दुस्थ इत्यादि बहु व्याकुली स्यात्। जन्मना स्वत्वस्वीकारे तु सर्वमनाकुलमित्यादिसुधीभिरुन्नेयम्। अतएव मिताक्षरादौ पूर्वस्वामिसम्बन्धाधीनं स्वत्वमन्यस्य यत्र धने तदेव दायशब्दवाच्यमित्युक्तन्न तु पूर्वस्वाम्योपरमेऽपि तत्र प्रवेशितः। तत्सिद्धं द्विविधो दाय इति”।

यच्च जीमूतवाहनेनैव मिताक्षरोक्तम् विभागोनाम द्रव्यसमुदायविषयाणामनेकस्वाम्यानान्तदेकदेशेषु व्यवस्थापनमिति विभागशब्दार्थः। न च सम्बन्धाविशेषात् सर्वेषां सर्वधनोत्पन्नस्य स्वत्वस्य द्रव्यविशेषे व्यवस्थापनं विभाग इति वाच्यमित्याशङ्क्य सम्बन्ध्यन्तरसद्भावप्रतिपक्षस्य सम्बन्धस्यावयवेष्वेव विभागव्यङ्ग्यस्वत्वापादकत्वात्। कृत्स्नपितृधनगतस्वत्वोत्पादविनाशकल्पनागौरवात्। यथेष्टविनियोगफलाभावेनानुपयोगाच्चेति दूषयित्वा उच्यते। “एकदेशोपात्तस्यैव भूहिरण्यादावुत्पन्नस्य स्वत्वस्य विनिगमनाप्रमाणाभावेन वैशेषिकव्यवहारानर्हतया अव्यवस्थितस्य गुटिकापातादिना व्यञ्जनं विभागः। विशेषेण भजनं स्वत्वज्ञापनं व विभाग इति व्युत्पत्त्येत्युक्तम्”। तद्द्रायतत्वकृतोपन्यस्य दूषितम् “यत्रास्य स्वत्वन्तत्रैव गुटिकापात इति कथं वचनाभाबान्निश्चेतव्यम्। यत्र हि पितुर्निधनानन्तरन्तदीयाश्वयोरेकमादाय भ्रात्रा यदर्जितन्तत्रार्जकस्य द्वौ भागावपरस्यैकः सर्वसम्मतः। तत्र यदि प्राचीनधनविभागकाले गुटिकापातादर्जकेन स एबाश्वः पश्चाल्लब्धस्तदाप्रादेशिकस्वत्ववादिमते प्रागर्जकस्यैव सोऽश्व इति तेनार्जितधने कथं भ्रात्रन्तरस्य विभागः। तत्रैवास्वत्वेन तदुत्पन्ने सुतरां स्वत्वाभावादश्वस्य चाविभाज्यत्वात्। यदि वार्जकेतरेण सोऽश्वोलब्धस्तदा तेनार्जितधनस्य समभाग एव युक्तः। एकस्य स्वायासेनापरस्याश्वायासेनार्जकत्वादिति। वस्तुतस्तु सम्बन्धाविशेषात् सर्वसम्बन्धिनां सर्वधनोत्पन्नस्य स्वस्य गुटिकापातादिना प्रादेशिकव्यवस्थापनं विभागः। कृत्स्नधनगतस्वत्वोत्पादविनाशावप्यगत्या कल्प्येते। संसृष्टतायां प्रादेशिकस्वत्वोत्पादकृत्स्नधनस्वत्वोत्पादविनाशाविव। तच्च “विभक्तो यः पुनः षित्रा भ्रात्रा वैकत्र संस्थितः। पितृव्येणाथ वा प्रीत्या स तु संसृष्ट उच्यते” इतिवृहस्पतिवचने येषामेव हि पितृभ्रातृपितृव्यादीनां पितृपितामहोपार्जितद्रव्येणाविभक्तं स्वमुत्पत्तितः सम्भवति। तएव विभक्ताः सन्तः पुनः परस्परप्रीत्या पूर्वकृतविभागाः एव यत्तव धनं तन्ममापि यन्मम धनन्तत्तवापीत्येकस्मिन् कार्ये एकरूपतया स्थितास्ते संसृष्टाः नत्वनेवंरूपाणान्धनसंसर्गमात्रेण सम्भूयकारिणां बणिजामपि संसर्गित्वम्। नापि विभक्तानां द्रव्यसंसर्गमात्रेण। प्रीति पूर्वकतादृगभिसन्धिं विनेत्यभिदधता दायभागकृतापि स्वहस्तितम। साधारणस्वत्वादेव हि “बन्धूनामविभक्तानाम्भोगन्नैव प्रदापयेत्” इति कांत्यायनवचनं यथा श्रुतमेव सङ्गच्छते। यावद्भुक्तधनमात्रे स्वस्वत्वस्यापि सत्त्वात्। अतएवात्र धने परस्परस्य चौर्यमपि नास्ति। एवञ्च।

“साक्षित्वम्प्रातिभाव्यञ्च दानं ग्रहणमेव च। विभक्ताभ्रातरः कुर्य्युर्न्नाविभक्ताः प्ररस्परम्” इति नारदवचने परस्परनिरूपितदानादिनिषेधोऽपि न्यायमूलकेव। दानादेःपूर्वमपि देयादौ प्रतिग्रहीत्रादेः स्वत्वसत्त्वाद्दानप्रतिग्रहादेरसम्भवात्। अविभक्तत्वादेव चाविभक्तद्रव्येण यत्कृत दृष्टादृष्टार्थ कर्म तत्र सर्वेषां फलभागित्वम। तथा च नारदः “भ्रातॄणामविभक्तानामेको धर्मः प्रवर्त्तते। विमागे सति धर्मोऽपि भवेत्तेषां पृथक् पृथक्”। व्यासोऽपि “स्थावरस्य समस्तस्य गोत्रसाधारणस्य च। नैकः कुर्य्यात्क्रयन्दानं परस्परमतं विना”। अत्र समस्तस्येति विशेषणोपादानात् कृत्स्नधनगतमेव प्रत्येकं स्वत्वं स्वीक्रियते। तस्मात्तुल्यधनसम्बन्ध्यन्तरसत्त्वेन सम्बन्धिसकाशात् संक्रान्तन्धनं यत्तव ममापीति सम्बन्धिनां प्रतीयते तद्विमतौ दानादिकं प्रतिषिद्धं स्वार्थम्। अतो नैकदेशगतं स्वत्वमिति। इदञ्च द्रव्यसमुदायविषयाणामनेकस्वाम्यानामेकदेशे व्यवस्थापनं विभाग इति वदतो मिताक्षराकृतोऽप्यभिमतमिति लक्ष्यते। इदन्त्विह विचार्यम्। द्रव्यसमुदायनिरूपितं स्वामिगतं स्वाम्यम् स्वामिनिरूपितञ्च द्रव्यससुदाये स्वत्वं व्यासज्यवृत्ति प्रत्येकवृत्ति वा। नाद्यः एकैकस्वामित्वस्वत्वाश्रयनाशे तन्नाशस्यावशिष्टसमुदायगततदुत्पत्तेश्च कल्पनायामतिगौरवापत्तेः प्रत्येकस्य प्रत्येकद्रव्ये दानक्रयादियथेष्टविनियोगानर्हत्वापत्तौ व्यवहारविसंवादापत्तेश्च। न द्वितीयः विभागे सति तावतान्नाशोत्पादकल्पनापत्तेः। स्वस्य सतोविभागो न तु विभागात् स्वत्वमिति ग्रन्थविरोधाच्च। अत्र ब्रूमः। प्रत्येकवृत्तीनि सम्बन्धाविशेषात् स्वाम्यानि च सन्त्येव। परस्परविभागागते परस्परस्यान्यान्यदीयद्रव्ये तानि नश्यन्ति परमते मरणपारिव्रज्यादि नेवेति न काप्यनुपपत्तिः। व्यवस्थापनमपीदमेव अन्यथैकदेश उत्पादनगित्येव वदेत्। अतएव विनाशमात्रकल्पना न तु स्वत्वान्तरोत्पादकल्पना। जीमूतबाहनमते च कुत्र वास्तवं मम स्वत्वमिति विभागात् प्रागनिरूपणात्तदधीनश्रौतस्मार्त्तलौकिककर्मोच्छेदः। अनुमत्या विभागोत्तर कृतया परस्परद्रव्ये परस्परस्वत्वान्तरोत्पत्तिस्वीकारे तदुत्पादविनाशकल्पनागौरवं यत्त्वया मिताक्षरामतं प्रत्यापादितं ततोऽपि तवाधिकमापन्नम्। व्यवहारानुपयोगेन समुदायस्वत्वस्य निष्प्रयोजनता च योपन्यस्ता साप्येकदेशगत स्वत्वाभ्युपगमे तुल्यैवेति कृतमतिदूरंगत्वा”। अनयोश्च मतयोर्युक्तायुक्तत्वं सुधीभिर्भाव्यम् “देशानां जातिसंघस्य धर्म्मो ग्रामस्य यो भृगुः। उदितः स्यात् स तेनैव दायभागं प्रकल्पयेत्” भृगुवचनम् भृगुराहेति शेषः। दायस्य भागः प्रतिपाद्यतयाऽस्त्यत्र अच्। २ जीमूतवाहनादिकते दायस्य विभागज्ञापके ग्रन्थे पु०। दायभागग्राहिक्रमश्च उत्तराधिकारिसब्दे १०९९ पृ० उक्तः।

दायाद = पु० दायं विभजनीयधनमादत्ते आ + दा–क। दायमत्ति अद–अण् उपपदसमासो वा। १ सपिण्डे २ पुत्रे च अमरः। “न तं भजेरन् दायादाः” मनुः। “भुञ्जीतामरणात् क्षान्ता दायादा ऊर्द्ध्वमाप्नुयुः” कात्या०। ३ दायाधिकारिणि त्रि० “तेषां षट् बन्धुदायादाः” मनुः स्त्रियां टाप् “पुमान् दायादोऽदायादा स्त्री” निरु० कप्रत्यतान्तस्यैवेदं रूपम् मुग्धबोधमते षणन्तात् ङीप् स्यात् दायादीति भेदः। सा च ४ कन्यायाम् शब्दार्थकल्प०। पुत्रे “त्वया दायादवानणि त्वं मेबंशकरः सुतः” भा० आ० ७५ अ०।

दायाद्य = न० दायादस्य भावः ब्राह्मणा० ष्यञ्। १ सापिण्ड्ये दायरूपमाद्यम्। २ सापिण्ड्यनिबन्धने धने च “दायाद्यस्य प्रदानञ्च” मनुः “स एष पाण्डोर्दायाद्यं यदि प्राप्नोति पाण्डवः” भा० आ० १४१ अ०। “स्त्रीणां स्वपनि दायाद्यमुपभोगफलं स्मृतम्” भा० अनु० ४७ अ०

दायित = त्रि० दायं दानं करोति दायि–कर्मणि–क्त। कृतदाने दापिते भरतः एतन्मूलं मूल्यम्।

***