दशाकर्ष = पु० दशया तैलादिकमाकर्षति आ + कृष–अण्। १ प्रदीपे २ वस्त्राञ्चले पु० स्त्री० पुंस्त्वे व० व०। हारा०। णिनि दशाकर्षिन् प्रदीपे हारा०।

दशाक्षर = न० दश अक्षराणि पादेऽत्र। १ पङ्क्तिनामके छन्दोभेदे। “वरुणो दशाक्षरेण विराजमुदजयत्” यजु० ९। ३६। २ दशाक्षरयुक्ते मन्त्रभेदे त्रि०। स्त्रियां टाप्। “दशाक्षरा वै विराट्” श० ब्रा० १। १। १। २२। ३ तन्त्रोक्ते स्त्रीदेवतामन्त्रे स्त्री तत्र अर्श आद्यचि गौरा० ङीष्। “एषा दशाक्षरी विद्या सर्वसम्पत्प्रदायिनी” तन्त्रसा-।

दशाङ्गधूप = पु० त्रिदीषघ्ने अवग्रहपिशाचादिनाशके धूपविशेषे यथा “वासयेद्वा दशाङ्गेन त्रिदोषघ्नेन चार्भकम्। नश्यन्ति यस्य धूपेन अवग्रहपिशाचकाः। पञ्चांशा गन्धपाषाणात् तावन्महिषगुग्गुलुः। चतुरंशं चन्दनञ्च जटामांसी च तावती। त्रिभागः सर्जकः सारस्तावदेव हि रालकम्। उशीरन्तु द्विभागं स्यात् घृते भृष्टं नखं समम्। कर्पूरी मृगनाभिश्च एकभागौ प्रकीर्त्तितौ। एष दशाङ्गधूपस्तु रूद्रस्यापि मनोहरेदिति” शब्दार्थचि० धृतवाक्यम्। पुष्पदानोत्तरं देवाय दीयमाने ३ धूपविशेषे यथा “मधु मुस्तं घृतं गन्धो गुग्गुल्वगुरुशैलजम्। सरलं सिह्लसिद्धार्थं दशाङ्गधूप उच्यते इति”। अन्यश्च। कर्पूरं कुष्ठमगुरु गुग्गुलुर्मलयोङ्भवम्। केशरं वालकं पत्रं त्वक् जातीकोषमुत्तमम्। सर्वमेतद्घृतयुतं दशाङ्गधूप ईरित” इति।

दशाङ्गुल = न० दश अङ्गुलय इव फलत्वगुपरि सन्त्यस्य अच्। १ खर्बुजे फलभेदे भावप्र० तस्य फलोपरि अङ्गुलाकारदशसिरासत्त्वात् तथात्वम्। तद्गुणाः खर्वुजशब्दे २४६९ पृ० उक्ताः। दश अङ्गुलयः प्रमाणमस्य तद्धितार्थद्विगोः ठञ् तस्य लुक् अच्समा०। २ दशाङ्गुलिप्रमाणयुक्ते त्रि०। “निःक्षेप्योऽयोमयः शङ्कुर्ज्वलन्नास्ये दशाङ्गुलः” मनुः। सहस्रशोर्षेत्यादि “अत्यतिष्ठद्दशाङ्गुलम्” ऋ० १०। ९०। १ “दशाङ्गुलं दशाङ्गुलिपरिमितं देशमत्यतिष्ठत् अतिक्रम्य व्यवस्थितः” भा०।

दशाधिपति = पु० ६ त० ज्योतिषोक्ते १ दशापतौ रव्यादिग्रहे दशानां पदातीनामधिपतिः। दशपदात्यध्यक्षे राजनियुक्ते २ सैन्यभेदे च (जमादार) “समानाशनपानास्ते कार्य्या द्विगुणवेतनाः। दशाधिपतयः कार्य्याः शताधिपतयस्तथा। ततः सहस्राधिपतिं कुर्य्याच्छूरमतन्द्रितम्” भा० शा० १०० अ०।

दशानन = पु० दश आननान्यस्य। रावणे शब्दर०। “दशानन किरीष्टेभ्यस्तत्क्षणं राक्षसश्रियः” रघुः। “ध्वंसितोद्धत दशाननाम्” (लङ्काम्) माघः। दशास्यादयोऽप्यत्र।

दशानिक = पु० आने जीवने हितः आनिकः दशाभेदे आनिकः। दन्तीवृक्षे शब्दच०

दशान्त = पु० ६ त०। १ वार्द्धके २ वर्त्तिकान्ते च। “निर्विष्टविषयस्नेहः स दशान्तमुपेयिवान्। आसीदासन्ननिर्वाणः प्रदीपार्चिरिवोषसि” रघुः।

दशामय = पु० दशामया यस्मात्। रुद्रे हेमच०।

दशापवित्र = न० दशा वस्त्राञ्चलं पवित्रमिव। श्राद्धादिदेये वासःखण्डे। “दशापवित्रनामको यो वस्त्रखण्डस्तेनोद्गतो द्रोणकलशमूलमध्ये विलभागान् मन्त्रगतैस्त्रिभिः शोधयेत्” “दशापवित्रस्य मध्ये शुक्लां पूर्णां स्रुवं सोम धारास्रावणार्थं यजमान आबघ्नाति, सा नाभिरित्युच्यते। उदीचीनदशमवाचीननाभि च दशापवित्रं कृत्वा द्रोणकलशस्योपरिष्टादुद्गात्रादयस्ततो वितनुयुः। वितन्य च दशापवित्रस्य कोणान् धारयेयुः” ता० ब्रा० १। २ भा०। “अथ दशापवित्रमुपस्पृश्य हङ्करोति” शत० ब्रा० ४। २। २। ११

दशारुहा = स्त्री दशसु दिक्षु आरोहति आ + रुह–क। कैवर्त्तीमुस्तके राजनि०।

दशार्ण = पु० दश ऋणानि दुग्संणि भूमयो जलाधारा वा यत्र “प्रवत्सेत्यादिना” पा० वृद्धिः। १ देशभेदे स च देशः वृ० सं० कूर्म्मविभागे १४ अ० आग्नेय्यामुक्तो यथा “आग्नेय्यां दिशि कोसलाः” इत्युपक्रमे “निषादराष्ट्राणि पुरिकदाशार्णाः”। स्वार्थे अण्। “तुलाधरेऽवन्त्यपरान्त्य साधून् बणिग्दशार्णान् भरुकच्छपांश्च” ५ अ०। “सप्तव्याधा दशार्णेषु” श्राद्धे पाठ्यपितृगाथा। तद्वावकशब्दो यत्रानुवाकेऽध्याये अस्ति विमुक्ता० अण्। दाशार्ण दशार्णशब्दयुक्ते अनुवाके अध्याये च। सोऽभिजनोऽस्य तस्य राजा वा अण्। दाशार्ण पित्रादिक्रमेण तद्देशवासिनि तन्नृपे च “तत्र दाशार्णको राजा सुधर्म्मा लोमहर्षणम्। कृतवान् भीमसेनेन महद्युद्धंनिरायुधम्” भा० स० २८ अ०। भीमप्राचीजये। अत्र स्वार्थे क। बहुषु अणो लुक्। “पूर्वमागस्कृतो जित्वा दशार्णाः समरे जिताः” भा० आ० ११३ अ०। “विजित्याल्पेन कालेन दशार्णानजयत् प्रभुः। प्रतीचीस्थोऽपि तन्नामा देशोऽस्ति “तान् दशार्णान् स जित्वा च प्रतस्थे पाण्डुनन्दनः” भां० स० ३१ अ०। नकुलप्रतीचीजये। अतएव भा० भी० ९ अ० “अतऊर्द्धं जनपदान्निबोध गदतोमम” इत्यु पक्रमे “उत्तमाश्च दशार्णाश्च मेकलाश्चोत्कलैः सह” इत्यत्र उत्तमत्वेन पूर्वं पूर्वदक्षिणस्याम् दशार्णानुक्त्वा “जठराः कुक्कुराश्चैव सदशार्णाश्च भारत!। पुनरन्यो निर्विशेषणो दशार्णदेश उक्तः। परस्ताच्च “वातायना दशार्णाश्च रोमाणः कुशविन्दवः इत्यत्र वातायनत्वेनविशेषणात् तादृशोऽपि देशभेदोऽस्तीति गम्यते। “सम्पत्स्यन्ते कतिपयदिनस्थ्यायि हंसा दशार्णाः” मेघ०।

दशार्णेयु = पु० पौरवरौद्राश्वनृपस्य पुत्रभेदे “दशार्णेयुर्जलेयुश्च स्थलेयुश्च महावलः” हरिवं० ३१ अ०।

दशार्द्ध = न० दशानामर्द्धम्। १ पञ्चसंख्यायां २ तत्संख्येये च “अण्व्योमात्रा विनाशिन्यो दशार्द्धानान्तु याः स्मृताः” मनुः। “छिद्रेण यन्त्रस्य समर्पयध्वं शरैः शितैर्व्योमचरैर्दशार्द्धैः” भा० आ० १८५ अ०। दश बलानि ऋधोति ऋध–अण्। ३ दशबले बुद्धे त्रिका० दशवलशब्दे दृश्यम्।

दशार्ह = पु० क्रोष्टृवंश्यधृष्टनृपस्य पुत्रभेदे “धृष्टस्य जज्ञिरे पुत्रात्रयः परमधार्मिकाः। आवन्त्यश्च दशार्हश्च बली विषहरश्च यः” हरिव० ३७ अ० क्रोष्टुवंश्योक्तौ। भाग० ९। २४। ३ उक्ते २ वृष्णिनृपपौत्रे च। “क्रथस्य कुन्तिः पुत्रोऽभूद् वृष्णि स्तस्याथ निर्वृतिः। ततो दशार्हो नाम्नाभूत् तस्य व्योमः सुतस्ततः”। उपचारात् ३ तद्वंश्ये नृपे ४ तदधिकृतदेशे च “धौम्यञ्च भीमश्च युधिष्टिरञ्च यमौ च कृष्णाञ्च दशार्ह सिहः। उवाच दिष्ट्या भवतां शिवेन प्राप्तः किरीटी मुदितः कृतास्त्रः। प्रोवाच कृष्णामपि याज्ञसेनीं दशार्हभर्त्ता सहितःसुहृद्भिः” भा० व० १८३ अ०। ५ विष्णौ पु० “विजयोजयः सत्यसन्धो दशार्हः स्वात्वतां पतिः” विष्णु० स०। शङ्करभाष्ये तु दाशार्ह इति पठित्वा दाशोदानं तमर्हति दाशार्हः दशार्हस्य कुले उत्पन्नत्वाद्वा” व्याख्यातम्। दशार्हस्य गोत्रापत्यम् शिवा० अण्। दाशार्ह यदुवंश्यमात्रे कृष्णादौ त्रि० स्त्रियां ङीप्। दशार्हस्तद्वाचकशब्दीऽस्त्यत्र अध्याये अनुवाके वा विमुक्ता० अण्। दाशार्ह दशार्हशब्दयुक्ते अनुवाके अध्याये च। ६ आयुधजीविसंघभेदे च। ततः स्वार्थे पर्श्वा० अण्। दाशार्ह आयुधजीविसंघभेदे। प्रज्ञा० स्वार्थे अण्। दाशार्ह यदुवंश्ये नृपमात्रे च।

दशावतार = पु० दश अवतारा अस्य। विष्णौ दश अवताराश्च अवतारशब्दे दृश्या अन्येऽपि दशावताराः मत्स्यपु० उक्ता यथा “धर्मान्नारायणस्यांशः संमूतश्चाक्षुषेऽन्तरे। यज्ञञ्च वर्त्तयामासुर्देवा वैवस्वतेऽन्तरे। प्रादुर्भावे ततस्तस्य ब्रह्मा ह्यासीत् पुरोहितः। युगाख्यायाञ्चतुर्थ्यान्तु आपन्नेषु सुरेषु वै। संभूतः स समुद्रान्ते हिरण्यकशिपोर्बधे। द्वितीये नरसिंहाख्ये रुद्रो ह्यासीत् पुरोहितः। वलिसंस्थेषु लोकेषु त्रेतायां सप्तमं प्रति। तृतीये वामनस्यार्थे धर्मेण तु पुरोधसा। एतास्तिस्रः स्मृतास्तस्य दिव्याः संभूतयो द्विजाः। मानुष्याः सप्त येऽन्ये तु शापजास्तान्निबोधत। त्रेतायुगे तु प्रथमे दत्तात्रेयो बभूव ह। नष्टे धर्मे चतुर्थांशे मार्कण्डेयपुरःसरः। पञ्चमः पञ्चदश्यान्तु त्रेतायां सम्बभूव ह। मान्धाता चक्रवर्त्ती तु तस्यौतथ्यपुरःसरः। एकोनविंश्यां त्रेतायां सर्वक्षत्रान्तकृद्विभुः। जामदग्न्यस्तथा षष्ठो विश्वामित्र पुरःसरः। चतुर्विंशे युगे रामो वशिष्ठेन पुरोधसा। सप्तमो रावणस्यार्थे जज्ञे दशरथात्मजः। अष्टमे द्वापरे विष्णुरष्टाविंशे पराशरात्। वेदव्यासस्तथा जज्ञे जातूकर्णपुरःसरः। कर्त्तुं धर्मव्यवस्थानमसुराणां प्रणाशनम्। तिष्ये नवमके जज्ञे तपसा पुष्करेक्षणः। देवक्यां वसुदेवेन द्वैपायनपुरःसरः। तस्मिन्नेव युगे क्षीणे सन्ध्याशिष्टे भविष्यति। कल्की विष्णुयशा नाम पाराशर्य्यपुरःसरः। दशमो भाव्यसंभूतो याज्ञवल्क्यपुरःसरः।”

दशाश्व = पु० दश अश्वा रथेऽस्य। चन्द्रे शब्दर०। “रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः। वामदक्षिणतो युक्ता दश तेन चरत्यसौ। वीथ्याश्रयाणि शृक्षाणि ध्रुवाधारेण वेगिना। ह्रासवृद्धिक्रमस्तस्य राशीनां सवितुर्यथा। अर्कस्येव स्थितस्याश्वाः सकृद्युक्ता वहन्ति ते। कल्पंमेकं मुनिश्रेष्ठ! वारिगर्भसमुद्भवाः” पुराण सर्वस्वे विष्णु० पु०।

दशाश्वमेध(धिक) = न० काशीस्थतीर्थभेदे तनमहात्म्यादिकथा काशी० ख० ५२ अ० उक्ता यथा

“साहाय्यं प्राप्य राजर्षेर्दिवोदासस्य पद्मभूः। इयाज दशभिः काश्यामश्वमेधैर्महामखैः। अद्यापि होमधूमोघैर्य्यद्व्याप्तं गगनान्तरम्। तदा प्रभृति नैवेह नीलिमानं जहात्यदः। तीर्थं दशाश्वमेधाख्यं प्रथितं जगतीतले। तदा प्रभृति तत्रासीद्वाराणस्यां शुभपदम्। पुरा रुद्रसरो नाम तत्तीर्थं कलसोद्भव!। दशाश्वमेधिकं पश्चाज्जातं विधिपरिग्रहात्। स्वर्द्धुन्यथ ततः प्राप्ता भगीरथसमागमात्। अतीव पुण्यवज्जात मतस्तीर्थमनुत्तमम्। विधिर्दशाश्वमेधेशं लिङ्गं संस्थाप्य तत्र वै। स्थितवान् न गतोऽद्यापि क्वापि काशीं विहाय तु। राज्ञो धर्मरतेस्तस्य छिद्रं नाप च किञ्चन। अतः पुरारेः पुरतो विदित्वा किं वदेद्विधिः। क्षेत्रप्रभावं विज्ञाय ध्यायन् विश्वेश्वरं विभुम्। ब्रह्मेश्वरं च संस्थाप्य विधिस्तत्रैव संस्थितः। परा तनुरियं काशी विश्वेशस्येति निश्चितम्। अस्याः संसेवनाच्छम्भुर्न कुप्यति पुरा मयि। कः प्राप्य काशीं दुर्मेधाः पुनस्त्यक्तुमिहेहते। अनेकजन्मजनितकर्म्मनिर्मूललक्षणाम्। विश्वसन्तापसंहर्तुः स्थाने विश्वपतेस्तनुः। सन्ताप्यते परं काश्याविश्लेषजमहाग्निना। प्राप्य काशीं त्यजेद्यस्तु समस्ताघौघनाशनीम्। नृपशुः स परिज्ञेयो महासौख्यपराङमुखः। निर्वाणलक्ष्मीं यः काङ्क्षेद्भञ्जन् संसारदुर्गतिम्। तेन काशी न सन्त्याज्या यद्याप्तैशादनुग्रहात्। यः काशीं संपरित्यज्य गच्छेदन्थत्र दुर्मतिः। तस्य हस्तलाद्गच्छेच्चतु र्वर्गफलोदयः। निवर्हणीमघौघस्य सुपुण्यपरिवृंहि- णीम्। कः प्राप्य काशीं दुर्मेधास्त्यजेन्मोक्षसुखप्रदाम्। सत्यलोके कृतं सौख्यं क्व सौख्यं वैष्णवे पदे। यत् सौख्यं लभ्यते काश्यां निमेषार्द्धनिषेवणात्। वाराणसीगुणगणान्निर्णीय द्रुहिणस्त्विति। व्यावृत्य मन्दरगिरिं न पुनः प्रत्यगान्मुने!। स्कन्द उवाच। मित्रावरुणयोः पुत्र। महिमानं ब्रवीमि ते। काश्यां दशाश्वमेधस्य सर्वतीर्थशिरोमणेः। दशाश्वमेधिकं प्राप्य सर्वतीर्थोत्तमोत्तमम्। यत् किञ्चित् क्रियते कर्म तदक्षयमिहेरितम्। स्नानं दानं तपो होमः स्वाध्यायो देवतार्चनम्। सन्ध्योपास्तिस्तर्पणञ्च श्राद्धं पितृसमर्च्चनम्। दशाश्वमेधिके तीर्थे सकृत् स्नात्वा नरोत्तमः। दृष्ट्वा दशाश्वमेधेशं सर्वपापैः प्रमुच्यते। ज्यैष्ठे मासि सिते पक्षे प्राप्य प्रतिपदं तिथिम्। दशाश्वमेधिके स्नात्वा मुव्यते जन्मपातकात्। ज्यैष्ठशुक्लद्वितीयायां स्नात्वा रुद्रसरोवरे। जन्मद्वयकृतं पापं तत्क्षणादेव मुञ्चति। एवं सर्वासु तिथिषु क्रमात् स्नायान्नरोत्तमः। आ शुक्लदशमीं यावद्दशजन्माघमुत्सृजेत्। तिथिं दशहरां प्राप्य दशजन्माघहारिणीम्। दशाश्चमेधिके स्नातीयामीं पश्येन्न यातनाम्। लिङ्गं दशाश्वमेधेशं दृष्ट्वा दशहरातिथौ। दशजन्मार्जितैः पापैस्त्यज्यते नात्र संशयः। स्नातो दशहारायां यः पूजयेल्लिङ्गसुत्तमम्। भक्त्या दशाश्वमेधेशं न त गर्भदशा स्पृशेत्। ज्यैष्ठे मासि सिते पक्षे पक्षं रुद्रसरे नरः। कुर्वन्वै वार्षिकीं यात्रां न विघ्नैरभिभूयते। दशाश्वमेधावभृथैर्यत् फलं सम्यगाप्यते। दशाश्वमेधे तन्नूनं स्नात्वा दशहरातिथौ। स्वर्द्धुन्याः पश्चिमे तीरे नत्वा दशहरेश्वरम्। न दुर्द्दशामवाप्नोति पुमान् पुण्यतमः क्वचित्। यत् काश्यां दक्षिणद्वारमन्तर्गेहस्य कीर्त्त्यते। तत्र ब्रह्मेश्वरं दृष्ट्वा ब्रह्मलोके महीयते। इति ब्राह्मणवेशेन वाराणस्यां महाधिया। द्रुहिणेन स्थितं तावद्यावद्विश्वेरागमः। दिवोदासीऽपि राजेन्द्रो वृद्धब्राह्मणरूपिणे। ब्रह्मणे कृतयज्ञाय ब्रह्मशालामकारयत्। ब्रहेम्श्वर समीपे तु ब्रह्मशाला मनोहरा। ब्रह्मा तत्रावसद्ध्योम ब्रह्मथीषैर्निनादयन्।”

दशाह = पु० दशानामह्रां समाहारः टच समा० समाहारत्वात् नाह्रादेशः “अह्रान्ताः पुंसि” पा० पुंस्त्वम्। दशदिनममुदाये। “दशाहं शावमाशौचं सपिण्डेशु विधीयते” “अतिक्रान्तेदशाहे तु त्रिरात्र मशुचिर्भवेत्” मनुः।

दशिन् = त्रि० ब० व० दश संख्याः सन्ति वेषाम् डिनि। १ दशसंख्यायुक्ते। दशसंख्या ग्रामाः अधिकृतत्वेन सन्त्यस्य डिनि। २ राज्ञा नियुक्ते दशग्रामाघिकृते च “दशी कुलन्तु भुञ्जीत विंशी पञ्चं कुलानि च” मनुः। दश संख्याः प्रमाणं येषाम् डिनि। ३ दशसंख्याप्रमाणके त्रि०। “तां दशिभिः प्रायुङ्क्त” शत० ब्रा० १३। १४। २। दशा वर्त्तिका वस्त्राञ्चलं वा अस्त्यस्य इनि। ४ दशायुक्ते दीपे ५ सदशे वस्त्रे च त्रि०

दशीविदर्भ = पु० दक्षिणस्थे देशभेदे “अथापरे जनपदा इत्युपक्रमे “दशीविदर्भाः कान्तीकास्तङ्गनाः परतङ्गनाः” भा० भी० ९ अ०।

दशेन्धन = पु० दशा वर्त्तिकैव इन्धनं यस्य। प्रदीपे त्रिका०।

दशेर = त्रि० दश्श–एरक्। हिंस्रे त्रिका०।

दशेरक = पु० दशेर + संज्ञायां कन्। १ मध्यदेशे सोऽभिजनोऽस्य तस्य राजा वा अण्। दाशेरक पित्रादिक्रमेण तद्देशवासिनि तन्नृपे च। बहुषु अणी लुक्। २ दशेरक तत्रार्थे व० व०। हेमचन्द्रे दशेरुक इति पाठान्तरम्।

दशेश = पु० दशानामीशः। दशापतौ १ रव्यादिग्रहे। दशानां ग्रामाणामीशः। २ राज्ञा नियुक्ते दशग्रामाधिकृते च। “शंसेद् ग्रामो दशेशाय दशेशो विंशतीशिनम्” मनुः।

दशैकाशिक = त्रि० एकादशार्थत्वादेकादश वस्ततो दश ये दत्ता दश एकादश भविष्यन्ति ते दशैकादशाः निपातनात् समासान्तोऽकारः। “प्रयच्छति गर्ह्यम्” पा० दशैकादशान् प्रयच्छतीत्यर्थे “कुसीददशैकादशात् ष्ठन्ष्ठचा विति पा० ष्ठच्। शतं प्रति दशकरूपां वृद्धिं ग्रहोतरि वार्द्धुषिकभेदे स्त्रियां षित्त्वात् ङीष्।

दशोणि = पु० दश बहवः उणयोऽस्य। बहुहबिष्के “दशोणये कवये तर्कसातौ” ऋ० ६। २०। ४ “दशोणये बहुहविष्कात् कवये मेधाविनः पञ्चम्यर्थे चतुर्थी” भा०।

दशौषधकाल = पु० दशविध औषधकालः शा० क०। दशविधे औषधकाले स च सुश्रुते उत्तरतन्त्रे उक्तो यथा “अत ऊर्द्ध्वं दशौषधकालान्वक्ष्यामः। तत्र “निर्भक्तं प्राग्भक्तमधोभक्तं मध्येभक्तभन्तराभक्तं सभक्तं सा मुद्गं मुहुर्मुहुर्ग्रासं ग्रासान्तरञ्चेति दशौषधकालाः। तत्र निर्भक्तं १ केवलमेवौषधमुपयुज्यते१। बीर्य्याधिकं भवति भेषजमन्नहीनं हन्यात्तथामयमसंशयमाशु चैव। तद्बालवृद्धयुवतीमृदवोऽथ पीत्वा ग्लानिं परां सभुपयान्ति बलक्षयञ्च। प्राग्भक्तं २ नाम् यन्मु प्राग्भक्त- स्योपयुज्यते। शीघ्रं विपाकमुपयाति बलं न हिंस्या दन्नावृतं न च मुहुर्वदनान्निरेति। प्राग्भक्तसेवनमथो वलमादंधाति दद्याच्च वृद्धशिशुभीरुवराङ्गनाभ्यः। अधो भक्तं ३ नाम यद्भुक्तान्ते पीयते। पीतं यदन्नमुपयुज्य तदूर्द्ध्वकाले हन्याद्गदान् वहुविधांश्च बलं दधाति। मध्येभक्तं ४ नाम यन्मध्ये भक्तस्य पीयते। मध्ये तु पीतमुपहन्त्यविसारिभावाद्ये मध्यदेहमभिभूय भवन्ति रोगाः। अन्तराभक्तं ६ नाम यदन्तरा पीयते पूर्बापरयोर्भक्तयोः। हृद्यं मनोबलकरन्त्वथ दीपनीयं पथ्यञ्च सम्भवति चान्तरभक्तमेतत्। सभक्तं ७ नामौषधेषु यत्साध्यते भक्तम्। पथ्यंसभक्तमबलाबलयोर्हि नित्यं तद्द्वेषिणामपि तथां शिशुवृद्धयोश्च। सामुद्गं ८ नाम यद्भक्तस्यादावन्ते च पीयते। दोषे द्विधा प्रतिसृते तु समुद्ग संज्ञमाद्यन्तयोर्यदशनस्य निषेव्यते तु। मुहुर्मुहुर्न्नाम ८ सभक्तमभक्तं वा यदौषधं मुहुर्मुहुरुपयुज्यते। श्वासे मुहुर्मुहुरतिपसृते च कासे हिक्कावमीषु च वदन्त्युप्रयोज्यमेतत्। ग्रामं ९ नामकबलनम् (फलमस्य मुद्रितपुस्तके पतितम्) ग्रासान्तरं १० नाम यत्पिण्डव्यामिश्रम्। ग्रासान्तरेषु वितरेद्वमनीयधूमान् श्वासादिषु प्रथितदृष्टगुणांश्च लेहान्। एवमेते दशौषधकालाः”।

दस = उत्क्षेपे उपक्षपे च अपक्षये अक० दि० पर० सक० सेट्। दस्यति। इरित् अदसत् अदासीत्–अदसीत्। उदित्। दसित्वा दस्त्वा। “तेषां दिशोऽदस्यन्” तै० स० १। ६। १ १। ३ “त्वां त्सारी दसमानो भगमीट्टे तक्ववीये” ऋ० १। १३४ ५। आर्षस्तङ् गणव्यत्ययश्च “मा ते प्राण उपदसन्” अथ० ५। ३०। १५ “अब्रह्मताविदसाम” यजु० १०। २२

दस = दर्शने दंशने च चु० आ० सक० सेट् इदित्। दंसयते अददंसत दंसशब्दे दृश्यम्।

दस = पु० दस उपलपे वेदे भावे अच्। उपक्षेपे “मनुं चक्रुरुपरं दसाय” ऋ० ६। २१। २१। दसाय शत्रूणामुपक्षेपाय” भा० लोके तु घञ् दास इत्येव तत्रार्थे उत्क्षेपे च।

दसेरक = पु० दशेरकशब्दार्थे मरुदेशे “दसेरकाः केकयाः सकैकेयाः वृ० स० ४ अ०। सोऽभिजनोस्थस्य तस्य राजा वा अण्। दासेरक पित्रादिक्रमेण तत्र वासिनि तन्नृपे च बहुषु अणो लुक्। तत्रार्थे “आवन्त्यान् दाक्षिणात्यांश्च पार्वतीयान् दसेरकान्” भा० द्रो० ११ अ०। दासेरक पृषो०। २ गर्द्धभे पुंस्त्री०। “यास्त्रिष्ठन्त्यः प्रमेहन्ति यथैवोष्ट्र दसेरंकाः” भा० क० १० अ०। अयं तालव्यमध्यश्च त्रिका०।

दस्म = त्रि० दस उपक्षेपे मक् १ उपक्षेपके “पुरूणि दस्मो निरिणाति व्यजस्रैः ऋ० १। १४८। ४। “दस्म उपक्षपयिता” भा० दस दर्शने कर्मणि मक्। २ दर्शनीये “राजेव दस्म! निषदोऽधिवर्हिषि” ऋ० १०। ४३। २। “हे दस्म! दर्शनीयेन्द्र!” भा०। “दस्मत् कृणोष्यध्वरम्” १। ७४। ४। दस्मत् दसु दंशनदर्शनयोः इषियुधीन्धीत्यादिना मक्। “दस्ममित्यत्र मकारस्य वर्णव्यत्ययेन तकारः” भा० “एतेनास्य तान्तत्वकल्पनम् प्रामादिकम्। “जुजोषदिन्द्रोदस्मवर्च्चाः ऋ० १। १७३। ४ “दस्मवर्चाः दर्शनीयतेजाः” भा० ३ यजमाने ४ चौरे ५ हुताशने च मेदि०। खार्थे यत् दस्म्य दर्शनीये त्रि०। “द्व्युक्षाय दस्म्यं वचः” ऋ० ८। २४। २०।

दस्यु = पु० दस–युच् अनुनासिकत्वात् नानादेशः। १ महासाहसिके (डाकाइत्) २ खले च शब्दार्थचि० “श्वभिर्हतस्य यन्मांसं शुचि तन्मनुरब्रवीत्। क्रव्याद्भिश्च हतस्यान्यैश्चण्डालाद्यैश्च दस्युभिः” मनुः। “मुखबाहूरुपज्जानां या लोके जातयो बहिः। म्लेच्छवाचश्चार्य्यवाचः सर्वे ते दस्यवः स्मृताः” मनूक्ते ब्राह्मणादिचतुर्वर्णभिन्ने ३ जातिभेदे च। “प्रमाधनीपचारज्ञमदासं दासजीवनम्। सैरिन्ध्रं वागुरावृत्तिं सूते दस्युरयोगये” मनुः। ४ कर्मवर्जिते च। “गर्द्धते दस्युजूताय स्तवान्” ऋ०। ६। २४। ८। “दंस्युजूताय कर्म्मवर्ज्जितैः प्रेरिताय” भा० ५ उपक्षपके त्रि० ६ असुरे पु० “चेतन्ते दस्युतर्हणा” ऋ० ९। ४७। २ “दस्यूनामसुराणां तर्हणा” भा० “स वज्रभृद्दस्यु हा भीम उग्रः” ऋ० १। १००। १२ दस्युहा “दस्यूनामुपक्षपयितृणामसुराणां वहन्ता” भा०।

दस्युसात् = अव्य० दस्युनामधीनं भवति करोति सम्पद्यते वा साति। तस्कराधीने भूतादौ “अन्ताश्चाकाल एव स्युर्लोकोऽयं दस्युसाद्भवेत्। पतेयुर्नरकं घोरं यदि राजा न पालयेत्” भा० शा० ६८ अ०।

दस्र = पुंस्त्री० दस्यति पांसून् दस उत्क्षपे रक्। १ गर्द्धभे स्त्रियां जातित्वात् ङीष्। दस्यति रीगान् क्षिपति दस उपक्षेपे। २ अश्विनीकुमारयोर्द्वयोः द्वि० व०। तत्तुल्यसंख्यत्वात् ३ द्वित्वसंख्यायां ४ तत्संख्येये च तदधिष्ठातृकत्वात् ५ अश्विनीनक्षत्रे च मेदि०। “अनुसस्रतुस्तमथ दस्रयोः सुतौ” माघः। तयोर्मध्ये विशेष वाचित्वे एकवचनान्तोऽयं “नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनामपि। मार्त्तण्डस्यात्मजावेतावष्टमस्य महा- त्मनः” भा० शा० २०८। “देवौ तस्यामजायेतामश्विनौ भिषजां वरौ। नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनाविति” हरिव० ९ अ०। नासत्यदस्रयोर्द्वन्वचारित्वात् द्विवचनान्तता ६ हिंस्रे त्रि०। ७ शिशिरे न० संक्षिप्तसारः।

दस्रदेवता = स्त्री० दस्रौ देवता अस्य। अश्विनीतारायां हेम०। अश्वियमदहनेत्यादिवाक्ये तस्या दस्रदैवत्यमनुसन्धेयम्।

दस्रसू = स्त्री० दस्रौ सूते सू-क्विप्। सूर्य्यपत्न्यां त्वष्टृकन्यायां संज्ञायाम् त्रिका० अश्विनीकुमारशब्दे दृश्यम्

दह = दीप्तौ अक० दाहे सक० चु० उभ० सेट् इदित्। दंहयति ते अददंहत् त।

दह = दाहे भस्मीकरश्चे सक० भ्वा० प० अनिट्। दहति अधाक्षीत् ददाह देहतुः। दग्धा दह्यात् धक्ष्यति। दग्धः दग्धिः दग्ध्वा दग्धव्यः दहनीयः दाह्यः। दाहः दहनम्। दाहयति अददीहत् दिधक्षति “उष्णो दहति चाङ्गारः शीतः कृष्णायते करम्” हितो० “क्रुद्धं कुलं धक्ष्यति विप्रबह्निः” भट्टिः वृक्षानङ्गारकारीव मैनान् धाक्षीः समूलकान्” भा० स०। ६० अ० “दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः” सा० द० “देहं धारणयाग्नेय्या दग्ध्वा धामाविशत् स्वकम्” भाग० “दग्धव्योऽसौ कटाग्निना” सनुः। “कर्म्मणि दह्यते अदाहि देहे। “दह्यते च कुलं सर्वम्” चाणक्यः। “देहे लङ्का मतेश्वरा” भट्टिः दंदह्यते। “दंदह्यमानां शोकेन” भट्टिः।

दहदहा = स्त्री कुमारानुचरमातृभेदे “ख्याता दहदहा चैव तथा धमधमेति च” भा० श० ४७ अ० दह दहेति बक्ति मयूरव्य० कर्त्तारं चाभिदधातीति कर्त्तरि अयं साधुः एवं धमधगेत्यत्रापि बोध्यम्।

दहन = पु० दह-ल्यु। १ अग्नौ, “दवदहनस्तुहिनदीधितिस्तस्य” सा० द० “दह दहन! तदैतत् पापमङ्गं मदीयम्” सीतोक्तिः। २ चित्रकवृक्षे, ३ भल्लातके, ४ दुष्टचेतसि च। ५ कपोते पुंस्त्री० राजनि० स्त्रियां जातित्वात् ङीष्। ६ दाहकमात्रे त्रि०। लोकदहन! मनो दहन इत्यादि। ७ रुद्रभेदे पु०। “एकादश सुताः स्थाणोः ख्याताः परमतेजसः। मृगव्याधथ सर्पश्च निरृतिश्च महायशाः,। अजैकपादहिर्बुध्न्यः पिनाकी च परन्तपः। दहनोऽथेश्वरश्चैव कपाली च महाद्युतिः, स्थाणुर्भगश्च भगवान् रुद्रा एकादश स्मृताः” भा० आ० ६६ अ०। उपचारात् ८ कृत्तिकानक्षत्रे “दहनविधिशताख्यामैत्रभं सौम्यवारे” ज्यो० त०। भावे ल्युट्। ९ दाहे न०। “अपरो दहने स्वकर्म्मणां ववृते ज्ञानमयेन वह्निना” रघुः।

दहनकेतन = पु० न० दहनस्य केतन इव। धूमे हेमच०।

दहनप्लुष्ट = त्रि० दहनादिव प्लुष्टं प्लोषणं यस्मात्। वैद्यकप्रसिद्धे (वेलेस्तारा) पदार्थे अग्निप्लुष्टादयोऽप्यत्र। तत्पदाने हि देहे वह्नेरिव प्लोषणं (फोस्का) भवतीति प्रसिद्धिः।

दहनप्रिया = स्त्री ६ त०। स्वाहायामग्निभार्य्यायाम् त्रिका०

दहनर्क्ष = न० ६ त०। कृत्तिकानक्षत्रे “यदा विशाखासु महेन्द्रमन्त्री सुतश्च भानोर्दहनर्क्षयातः” वृ० स० १० अ०। दहनभादयोऽप्यत्र।

दहनसारथि = पु० ६ त०। वायौ। “दक्षिणदहनसारथिरयाहतचञ्चलचूतकलिके” दशकु। दहनसहचरादयोऽप्यत्र।

दहनागुरु = न० दहनस्य दाहाय अगुरु। दाहागुरुणि राजनि०

दहनाराति = पु० ६ त०। जले राजनि०। तस्य वह्रिनाशकत्वात् तथात्वम् दहनरिपुप्रभृतयोऽप्यत्र।

दहनोपल = पु० दहनाय वह्रये हितः उपलः (आतसी) सूर्य्यकान्तमणौ हेम०। सूर्य्यकिरणसम्पर्केण हि ततो वह्नेः प्रादुर्भावात् तस्य तथात्वम्।

दहनोल्का = ६०। विस्फुलिङ्गरूपायामुल्कायाम् त्रिका०

दहर = पु० दह–अर। १ मूषिकायां २ स्वल्पे ३ भ्रातरि ४ बालके च मेदि०। ५ अतिसूक्ष्मे ६ दुर्वोधे च “अथ यदिदं दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्” छा० उ०। तत्र स्वल्पे “नेष्टा पत्नीमानेष्यन् कौशं वासः परिधापयति चण्डातकं दहरं वा” कात्या० श्रौ० १४। ५। ३ “परिधापयतीति कारितत्वादध्येषणात्र भवति चण्डातकं चलनक उच्यते एवं ह्यभियुक्तोपदेशः अर्द्धोरुकं विलासिन्या वासश्चण्डातकं विद्ः” दहरं तु कौपोनम् दहरशब्दस्याल्पवाचकत्वात्” कर्कः। २ नरके ३ वरुणे च उणादि०।

दहराकाश = पु० कर्म्म०। चिदाकाशे ईश्वरे।

दह्न = पु० दहन्रक्। १ दावाग्नौ २ जठरे च। “सोऽन्यजन्मनि दह्राग्निर्विश्रवाश्च महातपाः” भाग० ४। १। ३० “दह्राग्निः जठराग्निः” श्रीधरःस्वल्पार्थस्यैवात्र कर्मधारयः जठरस्थस्याग्नेः स्वल्पत्वात् इत्यन्ये।

दा = दाने भ्वा० पर० सक० सेट् ण इत्। यच्छति प्रणियच्छति अदात्। ददौ ददतुः। देयात्। दास्यति। देयम् दानीयं दातव्यं दत्तः दातुम् दत्त्वा।

दा = दाने जुहो० उभ० सक० सेट्। ददाति दत्ते प्रणिददाति। दद्यात् ददीत। ददातु ददतु देहि दत्ताम् दत्स्व। अददात् अदत्त। अदात् अदित। ददौ ददिथ–ददाथ ददिव। ददे ददिषे। दाता देयात् दासीष्ट। दास्यति। कर्मणि दीयते अदायि अदायिषाताम्–अदिषाताम्। दासीष्ट–दायिषीष्ट दास्यते–दायिष्यते। दापयति। दित्सति देदीयते। दातव्यः दानीयः देयम्। दाता। दानं दायः दत्तं प्रत्तम्। दातुं दत्तिः दत्त्वा प्रदाय। ददत् ददानः। ददिवान्। “यो ददाति स कुकूदः” अमरः। “मूर्ध्नि मूर्द्धाभिषिक्तस्य ददति स्म विधानतः” रामा० अयो० २६ स० “दद्याच्चैवासनं स्वकम्” “सोऽन्तर्दशाहात् तद्द्रव्यं दद्याच्चैवाददीत वा” मनुः। “देहि युद्धं नरपते! ममाद्य रणमूर्द्धनि” भा० उ०१९३ अ० “ददौ स दश धर्माय” मनुः। “अवकाशं किलोदन्वान् रामायाभ्यर्थितो ददौ” रघुः। “पाण्डवानां सभामध्येऽदुर्यो धनौपागतः। तस्मै गाञ्च हिरण्यञ्च” विदग्धमू०। “न दास्यामि समादातुं सोमं कस्मैचिदप्यहम्” भा० आ० ३४ अ० “दातव्यमिति यद्दानं दीयतेऽनुपकारिणे” गीता “देयं दारसुतादृते” याज्ञ०। “दत्तभुक्तफलं धनम्” दायभागधृतभारतम् “दत्तात्मा तु स्वयं दत्तः” मनुः “सुता ददे तस्य सुताय मैथिली” भट्टिः। “आददानः परक्षेत्रात्” न दण्डं दातुमर्हति” “स ज्ञेयः दत्त्रिमः सुतः” मनुः “तेषां दत्त्वा तु तृप्तेषु सपवित्रं तिलोदकम्” स्मृतिः। “अदित्सन्तं दापयति प्रजानन्” यजु० ९। २४। “दायादानपि दापयेत्” मनुः। “तेषामशीतिं यानानि रत्नपूर्णानि दापय” रामा० अयो० ३२ स०। “स दाप्यः पथमं दमम्” याज्ञ० “अस्मभ्यमिन्न दित्ससि” ऋ० १। १७०। ३ “दित्सन्तं भूयो यजमानश्चिकेत” ऋ० २। १४। १०।अति + अतिक्रम्य दाने अत्यन्तदाने च। “न जीवन्तमतिददाति” कात्या० ४। १। २७। “अतिद बलिर्बद्धः” चाण०अनु + पञ्चाद्दाने तुल्यरूपदाने प्रतिनिधित्वेन च। “न दूढ्ये अनुददासि वामम्” ऋ० १। १९०। ५। “सूराश्चदस्मा अनु दादपस्याम्” ७। ४५। २ “यः शर्धते नानददाति शृध्याम् २। १२। २०अभि + आभिमुख्येन दाने “तथैव चैनमुक्त्वा वामपार्ष्णिमभ्यदात्” भा० व० १९७ अ० गद्यम्।अव + अधोदाने अवत्तम् आदिकर्मणि तु वा तादेशः यथाह सि० कौ० “अवदत्तं विदत्तञ्च प्रदत्तञ्चादिकर्मणि सुदत्तमनुदत्तञ्च निदत्तमिति वेष्यते” चशब्दाद्यथाप्राप्तम्।आ + ग्रहणे “दद्याच्चैवाददीत वा”। “शुभां विद्या माददीतावरादपि” मनुः। “स्वं चादास्यामि भूयोऽह पाप्मानं जरया सह” भा० आ० ८४ अ०। “शरीरमात्तं मृत्युना” छा० उ० “आददानः परक्षेत्रात्” मनुः।अप + आ + अपेक्ष्य ग्रहणे। “मृत्पिण्डमपादाय महावीरं करोति” शत० ब्रा० १४। १। २। १७उद् + आ + उदस्य ग्रहणे “उदादाय पृथिवीं जीवदानुम्” यजु० १। २८।उप + आ + सामीप्येन ग्रहणे “उपात्तविद्यो गुरुदक्षिणार्थी” रघुः।परि + आ + परिवर्त्त्य ग्रहणे “पर्य्याददानं चास्त्राणि भीमधन्वानमर्जुनम्” भा० उ० ४८ अ० “तस्मिन्निधीनादधोतप्रज्ञां पर्य्याददीत च” भा० शा० ८६ अ०।प्रति + आ + प्रतिग्रहणे दत्तस्य पुनर्ग्रहणे च। “शुभाशुभं कर्मकृतं यदन्यत्तदेव प्रत्याददते स्वदेहे” भा० शा० २०२ अ० “न चाहं शक्तः शापं प्रत्यादातुम्” भा० आ० ३ अ०वि + आ + अङ्गादेःप्रसारणे आत्म० स्वाङ्गप्रसारणे तु पर०। “व्यादायास्यं महारक्षस्तौ दृष्ट्वाऽथ ह्यधावत” हरिवं० ३१७ अ०। “भक्षयत्येष मां रुद्रो व्यात्तास्यो दारुणाकृतिः भा० व० ६४ अ०। “नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम्” गीता।परि + उपरिस्थापने। “त्रिते दुःष्वप्न्यं सर्वमाप्ते परिदद्मसि” ऋ० ८। ४७। १५ “परिदद्मसि उपरि दद्मः वयं त्रिताः परित्यजामः इत्यर्थः। अथवा त्रिते मयि यद्दुष्वप्न्यं दृष्टं तत् स्वर्णकाराय भालाकाराय वा परिदद्मसि अस्मत्तोऽपि निष्कृष्य तयोरुपरि स्थापयामः” भा०प्र + विधानादिना प्रकर्षेण च दाने। “प्रदानं स्वाम्यकारणम्० मनुः। “प्रत्तं जलं द्व्यञ्जलमन्तिकेऽपाम्” भट्टिः। “नष्टं विनष्टं कृमिभिः श्वहतं विषमे स्थितम्। हीनं पुरुषकारेण प्रदद्यात् पालएव तु” मनुः।अनु + प्र + पश्चात् प्रदाने। “एते श्वासानुप्रदाना अथोषाश्च विवृण्वते। कण्ठम्” शिक्षा।प्रति + प्र + प्रत्यर्पणे गृहीतस्य पुनरर्प्रणे “राज्य प्रतिप्रदा स्यामि” भा० उ० ५५२५ श्लो०।सम् + प्र + सत्कारेण प्रदाने। “तदर्हमासनं तस्मै सम्प्रदाय यथाविधि। गां चैव मधुपर्कं च सम्प्रदायार्घ्यमेव च” भा० स० ५ अ०। “अहन्यहनि चाप्येवं याचतां सम्प्रदीयते” भा० व० ८५३१ श्लो०। अविच्छेदेन शिष्टानामाचारे च, सम्प्रदायः।प्रति + प्रतिरूपदाने प्रत्यर्पणे च। “सत्यङ्कारकृतं द्रव्यं द्विगुणं प्रतिदापयेत्” याज्ञ०। “प्रतिदास्यामि भगवन्! पुंलिङ्गं तव सुव्रत!” भा० उ० १९३ अ०। “शिष्यव्यतिक्रमं वीक्ष्य निवर्त्य गुरुरागतः। अशपत् पततां देहो निमे! पण्डितमानिनः। निमिः प्रतिददौ शापं गुरवे धर्मवर्जिने। तवापि पततां देहो लोभाद्धर्ममजानतः” भाग० ९। १३। ५

दा = लवने अदा० प० सक० अनिट् पित् तेन न घुसंज्ञा। दाति अदासीत् दायात्। “अग्निर्ह दाति रोमा पृथिव्याः” ऋ० १०। ६५। ४ “दाति छिनत्ति दाप् लवने अदादित्वाच्छपो लुक्” भा०। “कुविदङ्ग यवमन्तो यवं चिद्यथा दान्त्यनुपूर्वं वियूय” १०। १३१। २ “स हि ष्मा धन्वाक्षितं दाता न दात्या पशुः” ५। ७। ७ “अहिंसन्तु ओषधीर्दान्तु पर्वन्” अथ० १२। ३। ३१ “वर्हिर्देवसदनं संदामि” कात्या० श्रौ० कर्कधृतश्रुतिः।

दाक = पु० ददाति यज्ञे हविरादिकं दा–क न कित्। यजमाने उज्वलद०।

दाक्ष = त्रि० दक्षस्येदम् अण्। दक्षसम्बन्धिनि मखादौ “भागीयसां भागमादातुमिच्छन् महो दाक्षो येन कृत्तोऽन्यथावत्” हरिवं०१३१ अ०। दाक्षीणां सङ्घः अङ्को लक्षणं वा इञन्तात् अण्। २ दाक्षिसमुदाये ३ तदङ्के च पु० ४ तल्लक्षणे न०। “परम्परासंवद्धोऽङ्कः साक्षात्तु लक्षणम्” सि० कौ०। दाक्षेः छात्राः “इञश्च” पा० अण्। ५ दाक्षेः छात्रेषु ब० ब०। दाक्षेरागतः अण्। ६ दाक्षेरागते त्रि०। गोत्रचरणात् वुञि प्राप्ते “न दण्डमानवान्तेवासिषु” पा० पर्य्युदासात् अणेव। ७ दाक्षेः दण्डप्रधानमानवेषु ८ अन्तेवासिषु च तेन तद्भिन्नेषु दाक्षकः। तेषु तु दाक्षादण्डमानवाः शिष्या वा” सि० कौ०।

दाक्षक = पु० दाक्षेरिदम् गोत्रचरणात् वुञ्। १ दण्डभान वान्तेवासिभिन्ने तत्सम्बन्धिनि तेषु तु अणेव। दाक्षशब्दे दृश्यम्। दाक्षीणां विषयो देशः राजन्या० वुञ्। २ दाक्षेर्विषये पु०।

दाक्षायण = पुंस्त्री दक्षस्य गोत्रापत्यम् इञ् “यञिञोश्च” पा० यूनि फल “इञः प्राचामिति” पा० विशेषणात् न युवप्रत्ययस्य लुक् तस्य प्रागदेशस्थितत्वाभावदिति” सि० कौ० १ दक्षस्ययूनि गोत्रापत्ये। दाक्षायणस्य विषयो देशः ऐषु कार्या० भक्तल। दाक्षायणभक्त तदीये देशरूपे विषये पु०। दक्षस्येदस दाक्षं तच्च तदयनञ्चेति। २ सुवर्णादावलङ्कारे च। “दाक्षायणं दक्षिणा” कात्या० श्रौ० ४। ४। २८। “दाक्षायणं सुवर्णमुच्यते” कर्कः। “यो विभर्त्ति दाक्षायणं हिरण्यम्” यजु० ३४। ५१। “दाक्षायणशब्दीऽलङ्कारार्थः वेददी० उक्तेः ३ भूषणे च। तत्र दक्षस्य यून्यपत्ये “यदाबध्नान् दाक्षायणा हिरण्यम्” यजु० ३४। ५२। स्त्रियां ङीप्। “भोः कश्यपस्य पुत्रोऽहं माता दाक्षायणी च मे” भा० शा० १७० अ० “दाक्षायण्योऽश्विनीत्याद्याः” अमरः। दक्ष एव दाक्षः तस्यायनं तत्कृतो यज्ञभेदः संज्ञात्वात् पूर्वपदाण्णत्वम्। ४ दक्षकृते यज्ञभेदे स च यज्ञः शत० व्रा० २। ४। ४। २ उक्तो यथा “प्रजापतिर्ह वा एतेनाग्रे यज्ञेनेजे प्रजाकामो बहुः प्रजया पशुभिः स्यां श्रियं गच्छेयं यशस्व्येवमन्नादः स्यामिति। स वै दक्षो नाम। तद्यदनेन सोऽयजत तस्माद्दाक्षायणयज्ञो नाम” तद्विधिर्यथा “दाक्षायणयज्ञः प्राजापश्वन्नयशस्कामस्य” कात्या० श्रौ० ४। ४। १। इत्यादिषु ३० सूत्रेषूक्तः। “तत्रैवं प्रथमं पौर्णमास्यां श्राद्धान्वारम्भणीयपूर्वकोऽग्नीषोमीययागः पुनरुद्धृत्य सांनाय्यवदुपक्रमः। प्रतिपद्याग्नेयेन पुरोडाशेनैन्द्रेण दधा पयसा च यागः, पक्षे वैमृधः। मांसमैथुन वर्जनसङ्कल्पः। पुनरुद्धृत्य तस्मिन् प्रतिपद्दिन एवैन्द्राग्नयागः पुनरुद्धृत्य मैत्रावरुण्याः पयस्याया उपक्रमः। प्रातर्द्वितोयायामाग्नेयेन मैत्रावरुण्या च यागो यथोक्त पक्षे आदित्यश्चरुः तदानीमेव पुनरुद्धृत्याग्नीषोमीय यागः। ततः पुनरुद्धरणादिदधियागप्रक्रमः। प्रातस्तृतीयायामाग्नेयसांनाय्ययागः पक्षे वैमृधः। तदानी मेवोद्धृत्यैन्द्राग्नयागः। पुनरुद्धृत्य मैत्रावरुण्या उपक्रमः तदनन्तरमादित्यो वा इत्येवम्प्रकारेण संवत्सरं यावत् प्रत्यहं कर्त्तव्यम्” कर्कः। तत्पद्धतिश्च तत्र भाष्ये दृश्या। “ऋक्षेष्ट्याग्रयणञ्चैव चातुर्म्मास्यानि चाहरेत्। उत्तरायणञ्च क्रमशो दाक्षस्यायनमेव च” मनुः। सुवर्णे “दाक्षायणी व्रह्मसूत्री वेणुमान् सकमण्डलुः” याज्ञ० “दाक्षायणं सुवर्णं तदस्यास्तीति इनि। दाक्षायणी” मिता०।

दाक्षायणी = स्त्री० दक्षस्य स्त्र्यपत्यम् इञि फक् ङीष्। १ अश्विन्यादिताराषु २ सत्यां दुर्गायाम् मेदि० “सापि दक्षाय सुश्नोणी गौरी दत्ताथ ब्रह्मणा। दुहितृत्वे पुरा याहि रुद्रेणोढा महात्मना। सा च दाक्षायणी देवी पुनर्भूत्वा नृपोत्तम!” वराह० पु०। ३ रेवतीनक्षत्रेहेम०। ४ दन्तीवृक्षे रत्नमा०। ५ अदित्यां कश्यपपत्न्याम् “दक्षञ्च तेषामारभ्य प्रजाः सम्यग्विवर्द्धिताः। तत्र दाक्षायणीपुत्राः सर्वे देवाःसवासवाः। वसवोऽष्टौ च रुद्राश्च आदित्यामरुतस्तथा”।

दाक्षायणीपति = पु० ६ त०। १ शिवे २ चन्द्रे च त्रिका०।

दाक्षायण्य = पु० दाक्षायण्यामदितौ भवः बा० यत्। आदित्ये “प्रलोभतस्तथा दक्षो भवितेह प्रजापतिः। दाक्षायण्य स्तथादित्यो मनुश्चादित्यतस्तथा” भा० अनु० १४७ अ०

दाक्षि = पुंस्त्री दक्षस्य गोत्रापत्यम् इञ्। दक्षस्यापत्ये घोषादिषु परेषु अस्य आद्युदात्तता दाक्षिघोषः दाक्षिकन्था दाक्षिह्रद इत्यादि। संज्ञात्वेऽपि एतत्पूर्वककन्थायास्तत्पुरुषे “तत् पुरुषे शालाया नपुंसके” “कन्था च” पा० क्लीवत्वप्राप्तावपि “संज्ञायां कन्थोशीनरेषु” पा० उशीनरत्वाभावात् न क्लीबता। उशीनरदेशकन्थायान्तु क्लीवत्वात् नाद्युदात्तता। “कन्थापलदनगरग्रामह्रदोत्तरपदात्” पा० एतत्पूर्वककन्थादिभ्यः भवादौ छ। दाक्षिकन्थीयं दाक्षिनगरीयमित्यादि। “कूलसूदस्थलकर्षाः” पा० आद्युदात्तात् अस्मात् परस्थकूलादीनामादिरुदात्तः। दाक्षिकूलः दाक्षिकर्षः। एतौ च ग्रासविशेषवाचिनौ। अस्य वृद्धत्वात् षस्थशब्दे परे नाद्युदात्तता। दाक्षिप्रस्थः।

दाक्षिण = त्रि० दक्षिणा प्रयोजनमस्य अण्। ऋतुग्रहाङ्गहोम भेदे स च “अथ प्रतिपरेत्य गार्हपत्यम् दाक्षिणानि जुहोति” शत० ब्रा० ४। ३। ४। ६ इत्युपक्रम्य दर्शितः “इडां भक्षयित्वा शालाद्वार्य्ये दाक्षिणहोमः” कात्या० श्रौ० १०। २। ४ “ततः शालाद्वार्ये दाक्षिणहोमः कर्त्तव्यः दाक्षिणहोम इति संज्ञा “अथ प्रतिपरेत्य गार्हपत्यं दाक्षिणानि जुहोतीति” श्रुतत्वात् दाक्षिणानि दक्षिणा प्रयोजनानि येषाम्” कर्कः।

दाक्षिणक = पु० दक्षिणायां कर्मसमाप्तौ द्रव्यदानरूपायां क्रियायां प्रसृतः दक्षिणमार्गेण चन्द्रलोकं गच्छंति वा वुञ्। १ दक्षिणातत्परे इष्टापूर्त्तेन २ चन्द्रलोकगामिनि च उपचारात् दक्षिणमार्गगामिनो ३ बन्धे च। “विपर्ययादतत्त्वज्ञाना दष्यते बन्धः स च त्रिविधः प्राकृतिकोवैकृतिको दाक्षिणकश्चेति इत्युप्रक्रमे “इष्टापूर्त्तेनदाक्षिणकः पुरुषतत्त्वानभिज्ञो हि इष्टापूर्त्तकारी कामोपहतमनाबध्यत इति” सा० कौ०।

दाक्षिणशाल = त्रि० दक्षिणशालायां भवःञ। दाक्षिणशालायां भवे।

दाक्षिणात्य = त्रि० दाक्षिणा भवः “दक्षिणापश्चात्पुरसस्त्यक्” पा० त्यक्। १ दक्षिणाभवे २ नारिकेले पु० राजनि०।

दाक्षिणापथक = त्रि० दक्षिणापथे देशे भवः धूमा० वुञ्। दक्षिणापथदेशभवे।

दाक्षिण्य = न० दक्षिणस्य अनुकूलस्य पटोर्वा भावः ष्यञ्। १ आनुकूल्ये २ पटुतायाम्। “नारदो मत्प्रियं कुर्वन् मुनिरक्लिष्टकर्मकृत्। दाक्षिण्यादनुरोधाच्च दत्तवान्नात्र संशयः” हरिवं० १२६ अ०। “तस्य दाक्षिण्यरूढेन नाम्ना मगधवंशजा” रधुः। “दाक्षिण्यं चेष्टया वाचा परचित्तानुवर्त्तनम्” सा० द० उक्ते ३ नाटकलक्षणभेदे च।

दाक्षी = स्त्री दक्षस्य स्त्र्यपत्यम् इञ्। “इतो मनुष्यजातेः” पा० ङीष्। १ दक्षस्य स्त्र्यपत्ये २ पाणिनिमुनेर्मातरि च

दाक्षीपुत्र = पु० ६ त०। पाणिनिमुनौ हेमच०।

दाक्षेय = पु० दाक्ष्या अपत्यम्। पाणिनिमुनौ हेमच०।

दाक्ष्य = न० दक्षस्य भावः कर्म्म वा ष्यञ्। १ कौशले सहसाप्रत्युत्पन्नकार्येषु अव्यामोहेन प्रदृत्तौ “शक्तिं चावेक्ष्य दाक्ष्यं च भृत्यानाञ्च परिग्रहम्” मनुः। “दाक्ष्यं सद्यःफलदं यदग्रतः” माघः।

दाघ = पु० दह–भावे घञ् न्यङ्ग्वा० कुः। दाहे शब्दार्थचि०।

दाडक = पु० दल–ण्वुल् लस्य डः। दन्ते शब्दार्थक०।

दाडिम = त्रि० दल–विशरणे भावे घञ् दालेन निर्वृत्तः भावात् इमप् लस्य डः। स्वनामख्याते फलप्रधाने वृक्षे मेदि० “तत् फलं त्रिविधं स्वादु स्वाद्धम्लं केवलाम्लकम्। तत्र स्वादु १ त्रिदोषघ्नं तृड्दाहज्वरनाशनम्। हृत्कण्ठमुखरोगघ्नं तर्पणं शुक्रलं लघु। कषायानुरसं ग्राहि स्निग्ध मेधाबलवहम्। स्वाद्वम्लं २ दीपनं रुच्यं किञ्चित् पित्तकरं लघु। अम्लन्तु ३ पित्तजनकमुष्णं वातकफापहमिति” भाव० प्र०। २ एलायां मेदि०। अस्य स्त्रीत्वे गौरा० ङीष्। “वियोमिनीमैक्षत दाडिमीमसौ” नैष० “रक्ता दन्ता भविष्यन्ति दाडिमीकुसुमोपमाः” देवी०। एतत् स्थिता दुर्गा रक्तदन्ती। अमरे पुंस्त्वोक्तिः प्रायिकी उदाहरण दृष्ट्या मेदिनिकरेण त्रिलिङ्गत्वस्योक्तेः।

दाडिमपत्रक = पु० दाडिमस्य पत्रमिव पत्रमस्य कप्। रोहितकवृक्षे २ राजनि०

दाडिमपुष्प = पु० दाडिमस्य पुष्पमिब पुष्पमस्य। १ रोहितक वृक्षे ६ त०। २ दाडिमस्य पुष्पे न०।

दाडिमप्रिय = पु० दाडिमं तत्फलं प्रियमस्य। १ शुकखगे २ दाडिमपियमात्रे त्रि० शब्दरत्ना०।

दाडिमभक्षण = पु० द्राडिमं भक्षयितुं शीलमस्य ल्यु। १ शुकखगे शब्दच०। २ दाडिमफलभक्षके त्रि०। भक्ष–भावे ल्युट् ६ त०। ३ दाडिमफलस्य भक्षणे न०

दाडिमादिचूर्ण = न० दाडिमफलत्थगादिचूर्णविशेषे। “द्वे पले दाडिमादष्टौ खण्डाद् व्योषं पलत्रयम्। त्रि सुगन्धिपलञ्चैव चूर्णमेकत्र कारयेत्। टच्चूर्णं मात्रया भुक्तमरोचकहरं परम्। दीपनं पाचनं च स्यात् पीनसज्वरकासजित्” वैद्य०

दाडिमाष्टक = पु० दाडिमस्य तत्त्वचः अष्टकं पलाष्टकं यत्र। दाडिमफलत्वगादियुक्ते चूर्णभेदे “कर्षोन्मिता तुगाक्षीरी चातुर्जात द्विकार्षिक्वम्। यमानी धान्यका जाटी ग्रन्थिव्योषं पालांशकम्। पलानि दाडिमादष्टौ सिताया श्चैकतः कृतः। गुणैः कपित्थाष्टकवच्चूर्णोऽयं दाडिमाष्टकः” चक्रद०। कपित्थाष्टकञ्च १६६० पृ० उक्तम् तद्वत्गुण युतोऽयमिति बोध्यम्।

दाडिमीरस = पु० “दाडिमं घृतसन्तप्तं तत्र पात्रे विनिः क्षिपेत्। ततः पक्वः पटेपूत इति स्याद्दाडिमीरसः” इत्युक्ते रसभेदे

दाडिमीसार = पु० दाडिमीं तच्छब्दं सरति गच्छति अण्। दाडिमवृक्षे राजनि०।

दाडिम्ब = पु० दा–बा० डं डस्य नेत्त्वम्। (डालिम)। ख्याते वृक्षे शब्दार्थचि०।

दाडी = स्त्री दल्यते फलेऽसौ दल–कर्म्मणि घञ् गौरा० ङीष् लस्य डः। दाडिमे पा०। तस्याः फलम्। अण् तस्य हरितक्या० लुपि “हरीतक्यादि चेति” प्रकृतिलिङ्गत्वात् २ तत्फलेऽपि स्त्री।

दाढा = स्त्री दैप् शोधे दा–दाने सम्पदा० भावे क्विप् दे शुद्ध्यै दानाय वा ढौकते ढौक–बा० ड। १ दन्तभेदे दंष्ट्रायाम् हेम०। दानाय प्रेरणे २ प्रार्थनायां ३ समूहे च” शब्दार्थकल्प०। स्वार्थे क कापि अत इत्त्वम्। दाढिका तत्रार्थे हेम०। दाढायै केशसमूहाय प्रभवति ठक्। दाढिका (दाडि) श्मश्रुणि। “केशेषु गृह्णतोहस्तौ छेदयेदविचारयत्। पादयोर्दाढिकायां च” मनुः। “दाढिकायां श्मश्रुणि” कुल्लू०।

दाण्ड = पु० स्त्री दण्डस्य इक्ष्वाकुपुत्रभेदस्यापत्यम् शिवा० अण्। १ दण्डस्यापत्ये स्त्रियां ङीप्। दण्डस्य भावः पृथ्वा०। वा अण्। २ दण्डभावे न०। ३ आयुधजीविसङ्घभेदे। दण्डानां समूहः अञ्। ४ दण्डसमूहे न०।

दाण्ड(ण्डि)कि = त्रि० “आहुस्त्रिगर्त्तषष्ठांश्च कौण्डोपरथदाण्ड(ण्डि)की। क्रोष्टुकिर्जालमालिश्च व्रह्मगुप्तोऽथ जालकिः” सि० कौ० उक्ते त्रिगर्त्तषष्ठे आयुधजीविसङ्घभेदे ततः स्वार्थे छ। दाण्ड(ण्डि)कीय तत्रार्थे।

दाण्डपाता = स्त्री दण्डस्य पातो यस्मां तिथौ “सास्यां क्रिया- याम” पा० सूत्रेण संज्ञायां ञः। दण्डमात्रस्थतिथिभेदे।

दाण्डाजिनिक = त्रि० दण्डाजिनेन तद्धारणेनार्थानन्विच्छति “अयःशूलदण्डाजिनाभ्याम” पा० ठञ्। मायाविनि कपटेनार्थलाभेच्छया दण्डाजिनधारिणि

दाण्डायन = पु० दण्डस्य गोत्रापत्यम् नडा० फक्। दण्डगोत्रापत्ये तस्य स्थलं दाण्डिनायनस्थलम्। ग्रामभेदे “कूलसूदस्थलकर्षाः संज्ञायाम्” पा० ततः उत्तरपदस्थस्थलशब्द आद्युदात्तः” सि० कौ०।

दाण्डिक = त्रि० दण्डेन तद्धारणेन जीवति वेतना० ठञ्। दण्डधारणोपजीविनि। तस्य भावः पुरो० यक्। दाण्डिक्य तद्भावे न०।

दाण्डिन् = पु० ब० व०। दण्डेन प्रोक्तमधीयते शौन० णिनि। दण्डप्रोक्तकल्पसूत्राध्यायिषु

दाण्डिनायन = पुंस्त्री० दण्डिनो गोत्रापत्यं नडा० फक् दाण्डिनायनेत्यादिना टिलोपाभावः। दण्डिनोगोत्रापत्ये।

दात = त्रि० दाप् लवने कर्मणि क्त। १ लूने, २ छिन्ने। दैप्–शोधे कर्त्तरि क्त। ३ शुद्धे च। दो–खण्डने इत्यस्य तु दितः दा–दाने इत्यस्य दत्त इति भेदः।

दाति = स्त्री० दैप् शोधे दाप लवने भावे क्तिच्। १ शुद्धौ २ छेदने दा–दाने बा० ति। ३ दाने ४ दत्ते च “मरुतो दातिवारः” ऋ० १। १६७। ८। “दातिवारः प्रदेयजलः दत्तवरणीयहविर्लक्षणधनो वा” भा०

दातु = न० दा–भावे तुन्। १ दाने “कत्तस्य दातु शवसो व्युष्टौ” ऋ० १०। ९९। १ “कद दातु किं दानम्” भा० “सहस्र दातु पशुमद्धिरण्यवत्” ऋ० ९। ७२। ९। २ दातरि त्रि०।

दातृ = त्रि० दा–दाने तृच्। १ दानकर्त्तरि २ दानशीले च १ दात मे भूभूतां नाथः प्रमाणीक्रियतामिति” कुमा० “कामो दाता कामः प्रतिग्रहीता कामैतत्तै” यजु० ७। ४८ स्त्रियां ङीप्। शीलार्थे तृचि तु न कर्म्मणि षष्ठा “स हि ष्मा धन्वाक्षितं दाता न दात्या पशुः ऋ० ५। ७। ७। दातृधर्मश्च दानशब्दे दृश्यः।

दात्यूह = पुंस्त्री० दाप्–लवने क्तिन् दातिमूहते ऊह–अण् दो–खण्डने क्तिन् दितिं वहति वह–क ऊठ् दित्यूहः ततः स्वार्थे अण् देविकाशिंशपेत्यादिना आत्त्व १ कालकण्ठके पक्षिभेदे अमरः। २ जलकाके राजनि० ३ चातके मेदि० ४ मेघे पु० शब्दर०। जातित्वे सर्वत्र स्त्रियां ङीष। “सारसं रज्जुबालं च दात्यूहं शुकसारिके” मनुः “क्रव्यादपक्षिदात्यूहशुकप्रतुदटिट्टिभान्” याज्ञ०।

दात्यौह = पुंस्त्री दात्यूह + पृषी०। दात्यूहे खगे शब्दर०

दात्र = न० दो–खण्डने दाप् लवने वा करणे ष्टुन्। छेदन साधने लवित्रे (दा) अस्त्रभेदे अमरः। “क्षुरैः क्षुरप्रैर्भल्लैश्च दात्रैरञ्जलिकैस्तथा” हरिव० २३७ अ० “दात्रेण धान्यं लुनाति” व्या०। दा–दाने कर्मणि त्र। २ दातव्ये। “दात्रं यत्रोपदस्यति” ऋ० ८। ४३। ३३ “दात्रं दातव्यम्” कर्त्तरि त्र। ३ दानकर्त्तरि “सोमस्य दात्रमसि” यजु० १०। ६ “दात्रं दानकर्त्तृ” वेददी० दा दाने भावे त्र। ४ दाने “तद्वां दात्रं महि कीर्त्तेन्यम्” ऋ० १। ११६। ६ “दात्रं दानम्” भा०।

दात्व = पु० दा–दाने त्वन्। १ दातरि २ यज्ञकर्मणि च उज्वल०।

दाद = पु० दद–भावे घञ्। दाने “दत्त्वा च विविधान् दादान् पूजयित्वा च वै द्विजान्” भा० श० ३७ अ० “तत्र दत्त्वा बहून् दादान् विप्रान् संपूज्यमाधवः” ४० अ०।

दाधिक = त्रि० दध्नि दध्ना वा संस्कृतः दध्ना चरति दध्ना संसृष्टं उपसिक्तं वा ठक्। १ दध्नि संस्कृतद्रव्ये २ दध्नाचारिणि ३ दध्ना संसृष्टे ४ दध्नोपसिक्ते च “वीजपूररसोपेतं सर्पिर्दधि चतुर्गुण्णम्। साधितं दाधिकं नाम गुल्महृत् प्लीहशूलजित्” सुश्रुतोक्ते गुल्मादिनाशके ५ औषधभेदे न०।

दाधित्थ = न० दाधित्थस्य विकारः अनुदात्तादित्वात् अञ्। दधित्थस्य कपित्थस्य विकारे। तस्य परिमाणम्। तत्प्रत्ययात् पुनरञ्। २ दाधित्थपरिमाणे न०।

दाधृवि = स्त्री धृवि–यङ् लुक् इन्। धरित्र्यां माधवः “पुत्रा यांश्चो नु दाधृविभरध्यै” ऋ० ६। ६६। ३। “दाधृविर्धरित्री” भा०।

दाधृषि = त्रि० धृष–यङ्लुक्–इन्। अत्यन्तधर्षके “ब्रह्मणा यामि सवनेषु दाधृषिः” ऋ० २। ७। ७ “दाधृषिर्द्धर्षकः” भा० “सत्राहणं दाधृषिं तुम्रमिन्द्रम्” ऋ० ४। ११६। ८ “दाधृ षिमत्यन्तधर्षकम्” भा०।

***