वाचस्पत्यम्
दशय to दशा
links:
Menu अ–ह
Prev दभ–दशम
Next दशाक–दाध
दशय
दशा
UpasanaYoga
.org

दशयोग = पु० दशानामङ्गानां योगः। विवाहादौ वर्ज्ये दोषभेदे तत्स्वरूपप्रतिप्रसवादिकम् उपयमशब्दे १२६८ पृ० दृश्यम्। अयं दशयोगभङ्ग इत्यन्ये। २ दशहराशब्दे वक्ष्यमाणे ज्यैष्ठमासशुक्लपक्षादिदशके च।

दशरथ = पु० सूर्य्यवंश्ये अजनृपात्मजे रामचन्द्रपितरि नृपभेदे मेदि० “अयोध्यायां महाराजो रघुरासीन् महाबलः। अजस्तु रघुतो जज्ञे अजाद्दशरथोऽभवत्” हरिवं० १५ अ०।

दशरथसुत = पु० ६ त०। रामे दशरथात्मजादयोप्यत्र।

दशरश्मिशत = पु० दश रश्मिशतान्यस्य। सहस्रकिरणे सूर्य्ये “दशरश्मिशतोपमद्युतिम्। यशसा दिक्षुदशस्वपि श्रुतम्। दर्शपूर्वरथं यमाख्यया दशकण्ठारिगुरुं विदुर्बुधाः” रघुः।

दशरात्र = पु० दशभिः रात्रिभिर्निर्वृत्तः ठञ् तस्य लुकि तद्धितार्थद्वि० अच् समा०। १ दशरात्रसाध्ये यागभेदे स च यागः कात्या० २५। ११। १७ श्रौ० उक्तः। दशानां रात्रीणां समाहारः। २ रात्रिदशके न०। अस्य रात्रान्तत्वेऽपि संख्यावाचकपूर्वकत्वात् क्लीवता। “प्रतिषेधैः समं तत्र दशरात्रमशुध्यति। यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत्” मनुः। “अथ चेद्दशरात्रं सन्निपतेत् आद्यं दशरात्रम्” शु० त०।

दशरूपक = न० दश रूपकाणि दृश्यकाव्यानि प्रतिपाद्यत्वेन सन्त्यत्र अच्। नाटकादिलक्षणप्रतिपादकग्रन्थभेदे।

दशरूपभृत् = पु० दश मत्स्यादीनि रूपाणि बिभर्त्ति भृक्विप्। मत्स्यादिदशाकृतिधारके विष्णौ शब्दार्थक०। दशावतारशब्दे तद्रूपाणि दृश्यानि।

दशलक्षणक = पु० दश लक्षणान्यस्य कप्। धर्म्मे “दश लक्षणको धर्मः सेवितव्यः प्रयत्नतः” इत्युपक्रमे “धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः। धीर्विद्या सत्यमक्रोधो दशकं धर्म्मलक्षणम्” मनुः।

दशवाजिन् = पु० दश वाजिनो रथेऽस्य। १ चन्द्रे हेमच०। “दशाश्वं श्वेतपद्मस्थं विचिन्त्योमाधिदैवतम्” चन्द्रध्या०।

दशवार्षिक = त्रि० दशसु वर्षेषु भवः ठञ् उत्तरपदवृद्धिः। दशवर्षभवे स्त्रियां ङीप्। “पश्यतोऽब्रुवतो हानिर्भूमेर्विंशतिवार्षिकी। परेण भुज्यमानाया धनस्य दशवर्षिकी” याज्ञ०।

दशविध = त्रि० दश विधा प्रकारा यस्य। दशप्रकारे “भेदस्तमसोऽष्टविधो दशविधो महामोहः” सा० का०। दशविधसंस्कारः।

दशवीर = न० दश वीरा यत्र। सत्रभेदे। “तदेतच्छाक्त्यानां दशवीरमेषां दश वीरा जायन्ते य एतदुपयन्ति” ता० ब्रा० २५। ७। ४। “तदेतदुक्तं सत्रं शक्त्यानां दशरीरं वीरयन्त्यमित्रानिति वीराः पुत्रास्तेषां दशसंख्यानां साधकम् अतो ये दीक्षिता एतदुपयन्ति तेषामपि दश वीराः पुत्रा। जायन्ते” भा०।

दशव्रज = पु० ऋषिभेदे। “याभिः कण्व मेधातिथिं यज्ञं याभिर्वशं दशव्रजम्” ऋ० ८। ८। २०

दशशत = न० दशगुणितं शतम्। १ सहस्रसंख्यायां २ तत्संख्येये च। “गवां दशशतं धनम्” भा० व० ६८ अ०।

दशशतरश्मि = पु० दशशतं सहस्रं रश्मयोऽस्य। सूर्य्ये हेमच०।

दशशताङ्घ्रि = स्त्री दश शतमङ्घ्रयोऽस्य। १ शतमूल्यां २ शता वर्य्याम् पारस्करनि०।

दशसप्ता = स्त्री दश च सप्त चास्यां विष्टुतौ। साम्नो विन्यासभेदेन विष्टुतिभेदे तत्प्रकारादिकं ता० ब्रा० भाष्ये दर्शितं यथा।

“अथ सप्तदशस्तोमस्य दशसप्ताख्या विष्टुतिः। सा द्विःप्रकारा। सप्तास्थितेत्यपरा सा च द्विःप्रकारा। ततंः पञ्चभ्यस्तिसृभ्यो नवभ्यश्चेत्येकः। तत उद्यती ततो भस्त्रेति दशसप्तसप्तास्थितयोर्मेदेन सहेत्येवं सप्त विष्टुतयः। तद्याद्यां दशसप्ताख्यां विष्टुतिं दर्शयति” भा०। “पञ्चभ्यो हिङ्करोति स तिसृभिः स एकया स एकया, पञ्चभ्यो हिङ्करोति स एकया स तिसृभिः स एकवा, सप्तभ्यो हिङ्करोति स एकया स तिसृभिः स तिसृभिर्दशसप्ता सप्तदशस्य विष्टुतिः” ता० ब्रा० २। ७। १। “स्पष्टार्थः। आदितो द्वाभ्यां पञ्चर्च्चाभ्यां हिङ्करोति पर्य्यायाभ्यां दश। उत्तरे सप्तेति दश च सप्त चास्यां विष्टुताविति दशसप्तेयं सप्तदशस्तोमस्य विष्णुतिः”। तदुत्तरत्र खण्डादौ उद्यतो सप्तास्थिताभस्त्राणां प्रकारो वर्णितस्तत्रैव दृश्यः

दशसाहस्र = न० दश गुणितं सहस्रं परिमाणमस्य अण् उत्तरपदवृद्धिः। १ दशगुणितसहस्रमिते अयुते २ तत्संख्येये च “भूतानां दशसाहस्रं परिघेण समाहतम्” हरिवं० २५२ अ०।

दशसाहस्रिक = त्रि० दश सहस्राणा प्रमाणमण्ठञ् उत्तरपदवृद्धिः। अयुतमितभागादौ। “दशसाहस्रिकी भागस्तेषां धात्रा प्रकल्पितः” हरिवं० ११३ अ०।

दशस्य = त्रि० दशं दानमिच्छति यक् सुक् च नामधातुः दानेच्छायां प० अक० सेट् दशस्यति अदशस्यीत्। “एवा नो अग्ने विक्ष्वा दशस्य” ऋ० ७। ४३। ५। “इरावती धेनुमती हि भूतं “सूयवसिनी मनुषे दशस्या” ७। ९९। ३।

दशहरा = स्त्री दश पापानि हरति हृ–ट। गङ्गाजन्मदिने ज्यैष्ठशुक्लदशम्याम्।

“ज्यैष्ठे मासि क्षितिसुतदिने शुक्लपक्षे दशम्यां हस्ते शैलान्निरगमदियं जाह्नवी मर्त्यलोकम्। पापान्यस्यां हरति च तिथौ सा दशेत्याहुरार्य्याः पुण्यं दद्यादपि शतगुणं वाजिमेधायुतस्येति” शङ्खः। अपि च “अदत्तानामुपादानं हिंसा चैव विधानतः। परदारोपसेवा च कायिकं त्रिविधं स्मृतम्। पारुष्यमनृतं चैव पैशुन्यञ्चापि सर्वशः। असम्बद्धप्रलापश्च वाङ्मयं स्यात् चतुर्विधम्। परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनम्। वितथाभिनिवेशश्च मानसं त्रिविधं स्मृतम्। एतानि दशपापानि हर त्वं मम जाह्नवि!। दशपापहरा यस्मात् तस्माद्दशहरा स्मृता। “ज्येष्ठे मासि सिते पक्षे दशम्यां बुधहस्तयोः। गरानन्दे व्यतीपाते कन्याचन्द्रे वृषे रवौ। दशयोगे नरः स्नात्वा सर्वपापैः प्रमुच्यते” इति स्कन्दपुराणे काशीखण्डे। अत्र कुजबुधयोः कल्पभेदेन व्यवस्था ज्ञेया। ३ सेतुबन्धरामेश्वरयोः प्रतिष्ठादिने यथोक्तं स्कान्दे सेतुमाहात्म्ये “ज्यैष्ठे मासि सिते पक्षे दशम्यां बुधहस्तयोः। गरानन्दे व्यतीपाते कन्याचन्द्रे वृषे रवौ। दशयोगे सेतुमध्ये लिङ्गरूपधरं हरम्। रामो वै स्थापयामास शिवलिङ्गमनुत्तमम्। अता-ऽस्यां तु विशेषेण पूजा कार्य्या हितार्थिभिः”। अत्र स्नानाङ्कसङ्कल्प उक्तः गारुडे २१५ अ० यथा। “अद्य हस्ते तु नक्षत्रे दशम्यां ज्यैष्ठके सिते। दशपापहरायाञ्च अदत्तादानकल्मषम्। विरुद्धाचरणं हिंसा परदारोपसेवनम्। पारुष्याहृतपैशुन्यमसम्बद्धं प्रभाषणम्। परद्रव्याभिध्यानञ्च मनसानिष्टचिन्तनम्। एतद्दशाघघाताय गङ्गास्नानंनं करोम्यहमिति”।

दशा = स्त्री दन्श–अङ नि० नलोपः। १ अवस्थायां २ दीपवर्त्याम्, मेदि० “अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरम्। परोपकारनिरता मणिदीपा इवोत्तमाः” इत्युद्भटः। ३ चित्ते, अजयपालः। ४ कालकृतविशेषरूपायां ५ गर्भवासजन्मादिवाल्ययौ वनादिरूपायामवस्थायाञ्च। ताश्च “गर्भवासः १ जन्म २ वाल्यं ३ कौमारं ४ पौगण्डम् ५ यौवनं ६ स्थाविरता ७ जरा ८ प्राणरोधः ९ नाश १०” नीलकण्ठेनोक्ताः दश वेद्याः। ५ कामकृते विरहिणां नेत्ररागाद्यवस्थादशके, ज्योतिषोक्ते नक्षत्रानुसारेण सूर्य्यादिग्रहाणां स्वामित्वेन ६ भोग्यकाले च। तत्र स्मरकृतदशाश्च “नयनप्रीतिः प्रथमं चित्तासङ्गस्ततोऽथ सङ्कल्पः। निन्द्राच्छेदस्तनुता विषयनि वृत्तिस्त्रपानाशः। उन्मादो मूर्च्छा मृतिरित्येताः स्मरदशादशैव स्युः”। ग्रहाणां स्वस्वसूचितफलविपाककालभेदरूपा दशा च नानाविधा तत्र “कलौ नाक्षत्रिकीदशा” इत्युक्तेः नक्षत्रसूचितैव दशा ग्राह्या साऽपि नानाविधा षट्त्रिंशद्वर्षीया मङ्गलादियोगिनीदशा, अष्टोत्तरीयवर्षात्मिका रव्याद्यष्टग्रहाणां दशा। विंशोत्तरीयवर्षात्मिकासूर्य्यादिनवग्रहैर्विपच्यमानफलात्मिका च तत्र योगिनीदशा तु “गुणं संयोज्य जन्मर्क्षे वसुभिर्भागमाहरेत्। मङ्गलाद्यास्त्रिरावृत्ता ह्यष्टौ ज्ञेया महादशाः”। “मङ्गला पिङ्गला धन्या भ्रामरी भद्रिका तथा। उल्का सिद्धा सङ्गटा च एकोत्तरमिताः क्रमात्” इत्युक्त्यनुसारेण ज्ञेया। तदानयनञ्चान्यत्र “आर्द्रा दिभिस्त्रिरावृत्त्या ह्यष्टौ ज्ञेयाः क्रमादमूः। मङ्गला पिङ्गला धन्या भ्रामरी भद्रिका तथा। उल्का सिद्धां सङ्कटा च एकैकोत्तरवत्सरा। अश्विन्यादित्रयं तत्र भ्रामर्य्यादित्रयेऽधिकम्। सिद्धायां रोहिणी शेषे सङ्कटायां मृगः परः। मङ्गलायाः पतिश्चन्द्रः पिङ्गलाया रविस्तथा। धन्यायास्तु बुधः स्वामी भ्रामर्य्या धरणीसुतः। भद्रिकाया पतिर्जीव उल्काया रविनन्दनः। सिद्धायाः भार्गवः स्वासी सङ्कटायास्तु दानवः” इत्येवं क्रमात् दशाज्ञेया। तासां सुखेन ज्ञानाययोगिनीदशाचक्रम्।दशानाम म पि ध भ्रा भ उ सि सं०तदीशाः च र बु कु जी श शु रामानवर्षाः १ २ ३ ४ ५ ६ ७ ८जन्मनक्ष- ६ ७ ८ ९ १० ११ १२ १३त्रानुसारेण १४ १५ १६ १७ १८ १९ २० २१तासां प्रवेश- २२ २३ २४ २५ २६ २७ ४ ५नक्षत्राणि। १ २ ३

त्रैराशिकेन नक्षत्रभुक्तकालमपहाय प्रकृतदशाकालात् गतभोग्यकालानुसारेण दशाकालाः कल्प्याः एवं सर्वत्र।

विंशोत्तरीयदशा तु “रविश्चन्द्रस्तथा भौमो बुधजीवौ शनैश्चरः। बुधः केतुः भृगुश्चेति कृत्तिकादौ त्रिधा भ्रमेत्”। दशावर्षाश्च “षट् सूर्य्यस्य दशा वर्षाः दिङ्मिता रजनीपतेः। कुजस्य सप्त वर्षाः स्युः राहोरष्टादशैव तु। गुरोः षोडश विज्ञेयाः शनेरेकोनविंशतिः। विदः सप्तदश ज्ञेया केतूनां सप्त कीर्त्तिताः। भृगोर्विंशतिरुद्दिष्टा सूर्य्यादीनां महादशाः”।विंशोत्तरीयदशाचक्रम्।दशेशाः र च म रा जी श बु के शुवर्षमानम् ६ १० ७ १८ १६ १९ १७ ७ २०जन्मनक्षत्रा- ३ ४ ५ ६ ७ ८ ९ १० ११नुसारेण १२ १३ १४ १५ १६ १७ १८ १९ २०प्रवेशनक्षत्राणि २१ २२ २३ २४ २५ २६ २७ १ २ त्रैराशिकेन प्राग्वद्भुक्तभोग्यक्रालानुसारेण दशाकल्पनम्। एतद्दशफलानि सर्वार्थचिन्तामणावुक्तानि यथा

“दशानुरोधेन फलं वदन्ति मुनीश्वरा जातशुभाशुभं तत्। सारं समुद्धृत्य तदेव वक्ष्ये भेदं यथा विस्तरतो दशानाम्। दीप्तः १ स्वस्थ २ स्तु मुदितः ३ शान्तो ४ हीनो ५ऽतिदुःखितः ६। विकलश्च ७ खलः ८ कोपी ९ नबधा खेचरो भवेत्। उच्चस्थः खचरो दीप्तः १ स्वस्थः २ स्वक्षेत्रगो मतः। मुदितो ३, मित्रभे ४ शान्तः समगोहीनको ५ऽधरः। शत्रुभे दुःखसंयुक्तो ६ विकलः ७ पापसंयुतः। खलः ८ पराजितो ज्ञेयः कोपी ९ स्यादर्कसयुतः। पृथक् पृथक् फलं तेषां दशा काले विशेषतः। तत्र नामानुरोधेन परिपाके वदन्ति हि। पाके प्रदीप्तस्य धराधिपत्यमुत्साह शौर्य्यं धनवाहनञ्च। स्त्रीपुत्रलाभं सुखबन्धुपूजां क्षितोश्वरान्मानमुपैति विद्याम् १। स्वस्थस्य खेटस्य दशाविपाके स्वस्थो नृपाल्लब्धधनादिसौख्यम्। विद्यायशःप्रीतिमहत्त्वताश्च दारार्थभूम्यात्मजधर्ममेति २। मुदान्वितस्यापि दशाविपाके वस्त्रादिभूगन्धसुतार्थधैर्यम्। पुराणधर्मश्रवणादिगानदानादियानाम्बरभूषणाप्तिम् ३। दशाविपाके सुखधैर्यमेति शान्तस्य ४ भूपुत्रकलत्रयानम्। विद्याविनोदान्वितधर्मशास्त्रं बह्वर्थदेशाधिपपूज्यताञ्च। स्थानच्युतिर्बन्धुविरोधिता च हीनस्य ५ खेटस्य दशाविपाके। जीवत्यसौकुत्सितहीनवृत्त्या त्यक्तीजनै रोगनिपीडितः स्यात्। दुःखान्द्वितस्यापि ६ दशाविपाके नानाविधं दुःखमुपैति नित्यम्। विदेशगो बन्धुजनैर्विहीनश्चौरादिभूपैर्भयमाप्रपन्नः। वैकल्यखेटस्य ७ दशाविपाके वैकल्यतां याति मनोविकारम्। पित्रादिकानां मरणं विशेषात् स्त्रीपुत्रयानाम्बरचोरपीडाम्। दशाविपाके कलहं वियोगं खलस्य ८ खेटस्य पितुर्वियोगम्। शत्रुञ्जनानान्धनभूमिनाशमुपैति नित्यं स्वजनैश्च निन्द्यः। कोपान्वितस्यापि ९ दशाविपाके पापं समायाति बहुप्रकारैः। विद्यायशः स्त्रीधनभूमिनाशं राज्ञाञ्च वित्तं हरतेऽत्र रोगी”। अथ परमोच्चादिगरविदशाफलानि। भानोर्दशायां परमो च्चगस्य भूम्यर्थदारात्मजकीर्त्तिशौर्यम्। संमाननं भूमिपतेः सकाशादुपैति सञ्चारविनोदगोष्ठीम्। उच्चान्वितस्यापि रवेर्दशायां गोवृद्धिधान्यार्थपरिभ्रमञ्च। संसारयुग्बन्धुजनैर्विरोधं देशाद्विदेशञ्च रतिप्रकोपात्। प्रचण्डवेश्यागमनं क्षितीशादुपैति वृहिं रतिकेलिमानम्। मृदङ्गभेरीरवयुक्तयानमन्योन्यवैरं लभते मनुष्यः। आरोहिणी वासरनायकस्य दशा महत्त्वं कुरुतेऽतिसौख्यम्। परोपकारं सुतदारभूमिगोवाजिमातङ्गकृषिक्रियादीन्। दशावरोहा दिननायकस्य कृषिक्रियावित्तगृहेष्टनाशम्। चोराग्निपीडां कलहं विरोधं नरेशकोपं कुरुते विदेशम्। नीचस्थितस्यापि रवेर्विपाके मानार्थनाशं क्षितिपालकोपात्। स्वबन्धुनाशं सुतमित्रदारैः पित्रादिकानामपकीर्त्तिमेति। अत्यन्तनीचान्वितसूर्यदाये विपत्तिमाप्नोति मृहच्युतिञ्च। विदेशयानं मरणं गुरूणां स्त्रीपुत्रगोभूमिकृषेर्विनाशम्। मूलत्रिकोणस्थरवेर्विपाके क्षेत्रार्थदारात्मजबन्धुसौख्यम्। राजाश्रयं गोधनमित्रलाभं स्वस्थानयानादिकमेति राज्यम्। स्वक्षेत्रगस्यापि रवेर्दशायां स्वबन्धुसौख्यं कृषिवित्तकीर्तिम्। विद्यायशःप्रार्थित राजपूजां स्वभूमिलाभं समुपैति विद्याम्। दशाविपाके ह्यधिशत्रुगस्य रवेः प्रनष्टार्थकलत्रपुत्रः। गोमित्रपित्रादिशरीरकष्टं शत्रुत्वमायाति जनैः समन्तात्। सपत्नराशिस्थितसूर्यदाये दुःखी परिभ्रष्टसुतार्थदारः। नृपाग्नि चोरैर्विपदं विषादं पित्रोर्विरोधञ्च दशान्तमेति। स्वमित्रराशिस्थितसूर्यदाये स्वभृत्यमित्रात्मजराजपूजाम्। स्वगेहवासं स्वजनस्य सङ्गाद् यानादिभूषाम्बरताम्रलाभम्। अत्यन्तमित्रर्क्षगतस्य भानोर्दशाविपाके ह्यतिसौख्यमेति। स्त्रीपुत्रधान्यार्थमनोविलासतटागयानाम्बरभूषणानि। समर्क्षगस्यापि रवेर्दशायां समञ्जनैः स्यात् कृषिभूमिधान्यम्। गोवाजियानाम्बरदेहसौख्यं स्त्रीपुत्रदोषं रणपीडितः स्यात्। नीचान्वितस्यापि रवेर्दशायां नीचानुवृत्त्या कुनखी कुशीलः। स्त्रीपुत्रधान्यार्थपशुक्रियादिमनोविकारं समुपैति हेयम्। उच्चान्वितस्यापि रवेर्दशायां मनोविलासं लभते स्ववृत्त्या। तीर्थाभिषेकं हरिकीर्त्तनञ्च प्राकारकूपादिपुराणशास्त्रम्। पापान्वितस्य द्युमणेर्विपाके नित्यं मनः क्लिश्यति हेयबुद्ध्या। कुभोजनं कुत्सितवस्त्रपानं कुशीलवृत्त्या त्वधनं कृशत्वम्। दिनाधिनाथस्य शुभान्वितस्य पाके सुखं भूमिधनादिवस्त्रम्। इष्टैर्विलासं स्वजनैः समाजं कल्याणवाग्जालविनोदगोष्ठीम्। पापेक्षितस्वापि सहस्रभानोर्दशाविपाके परमन्तु दुःखम्। पित्रोर्विनाशं सुतदारकष्टं चोराग्निभूपालकृतं कृशत्वम्। करोति भानुः शुभवीक्षितश्चेत् विद्यायशस्त्री सुतवाग्विलासम्। कान्तिप्रतापं रतिकेलिसौख्यं पित्रोः सुखं भूपतिमाननां च। केन्द्रान्वितस्यापि दिवाकरस्य दशाविपाके नृपदण्डदुःखम्। स्थानच्युतिम्बन्धुवियोगमेति भङ्गः कृषेर्वित्तपरिभ्रमञ्च। त्रिकोणसंयुक्तरवेर्विपाके बुद्धिभ्रमं राजविमाननञ्च। सौख्यादिहानिं निधनं पितुश्च कर्म्मादिवैकल्यमुपैति काले। उच्चांशकस्य च दशा विदधाति वृत्तिं नित्यं प्रतापजनितां महतीं श्रियञ्च। नानाविनोदललितं रतिकेलिसौख्यं स्त्रीवस्त्रलाभमनिशं पितृवर्गनाशम्। नीचांशयुक्तस्य रवेर्दशायां भार्यार्थभूपुत्रविदेशयानम्। त्यक्तोजनैर्बन्धुंविकुत्सितस्तु मनोविकारं ज्वरमेहरोगम्। आदौ सूर्यदशायां दुःखं पितृरोगकृतक्षयश्चाधिः। मध्ये पशुधनहानिश्चान्ते विद्यामहत्त्वञ्च। दशाविपाके धनहानिमेति षष्ठस्थभानोरतिदुःखजालम्। गुल्मक्षयोद्भूतपवित्ररोगं मूत्रादिकृच्छ्रं त्वथवा प्रमेहम्। रन्ध्रस्थभानोरपि वा दशायां देहस्य कष्टं त्वथवाग्निचिह्नम्। चातुर्थिकं नेत्रविकारकासं ज्वरातिसारं स्वपदच्युतिञ्च। भानोर्द्वादशगस्य चेद्यदि दशा क्लेशार्थहानिं कृशं स्त्रीबन्ध्वात्मजभूमिनाशमथ वा पित्रोर्विनाशं कलिम्। स्थानात् स्थानपरिभ्रमं विषकृतं राज्ञोभयं पातरुक् विद्यावादविनोदगोष्ठिकलहं गोवाजिसंपीडनम्। पुत्रोत्पत्तिविपत्तिमत्र कुरुते भानोर्धनस्थस्य वा क्लेशम्बन्धुवियोग दुःखकलहं वागदूषणं क्रोधनम्। स्त्रीनाशं धननाशनं नृपभयं भूपुत्रयानाम्बरं सर्बं नाशमुपैति तत्र शुभयुक् वाच्यं न चैतत्फलम्। भानोर्विक्रमयुक्तस्य दशा धैर्य्यं महत् सुखम्। नृपमाननमर्थाप्तिं भ्रातृवैरं विपत्तथा। सुखस्थितस्यापि रवेर्दशायां भोगार्थभूभृत्यकलत्रहानिम्। क्षेत्रादिनाशं स्वपदच्युतिं वा यानच्युतं चोरविषाग्निशस्त्रैः। दारान्वितस्यापि रवेर्दशायां कलत्ररोगस्त्वथ वा मृतिर्वा। कुभोजनं कुत्सितपाकजातं क्षीरादिदध्याज्यविहीनमन्नम्। कर्मस्थितस्यापि रवेर्दशायां राज्यार्थलाभं समुपैति धैर्य्यम्। उद्योगसिद्धिं यशसा समेतं जयं विवादे नृपमाननं च। आयिस्थितस्यापि दशा विपाके भानोर्धनाप्तिं शुभकर्मलाभम्। उद्योगसिद्धिं सुतदारसौख्यं यानादिभूषाम्वरदेहसौख्यम्। संज्ञाध्याये यस्य यद्द्रव्यमुक्तं कर्मा जीवे यस्य यच्चोपदिष्टम्। भावस्थानालोकयोगोद्भवं च तत्तत्सर्वं तस्य योज्यं दशायाम्। सूर्य्ये स्थानबलाधिके कृषिधनं गोभूमियानाम्बरं सौख्यं राजसु माननं परधनैः संयुज्यते कान्तिमान्। तत्पाके शयनाम्बरादि लभते सर्वोपकारं महाकीर्त्तिं भूषणमिष्टबन्धुसहितं तीर्थाभिषेकं महत्। रविर्यदा स्थानबलेन हीनस्तत्पाककाले बलमर्थनाशम्। स्थानच्युतिं बन्धुविरोधतापं देशाद्विदेशं समुपैति दुःखम्। दिग्वीर्य्ययुक्ते दिवसेश्वरे तु दिगन्तराक्रान्तिधनादिसौख्यम्। तत्तद्दिशः प्राप्तयशोऽर्थभूमिर्नो चेत्तथा तादृशमत्र नास्ति। तत्कालभानात्तनुते बलिष्ठे रवौ विपाके कृषिभूमिवित्ते। उद्योगसिद्धिं नृपमाननाञ्च हीने रवौ कालबलेम नाशम्। निसर्गतः सर्वमुपैति कालरवौ तु नैसर्गिकवीर्य्ययुक्ते। यानार्थभूषाम्बरदेहसौख्यं हीने रवौ चोरनृपाग्निभीतिम्। ० रवौ तु चेष्टाधिकवीर्य्ययुक्ते स्वचेष्टितार्थागममेति सौख्यम्। नृपस्य मानं सुतदारसौख्यं कृष्यादियानाम्बरमत्र हीने। रवौ खगानां बलदृष्टियुक्ते त्वचिन्तयित्वा सकलं च सौख्यम्। तज्जायते तत्परिपाककाले तेनैव हीने सकलं विनाशम्। क्रूरादिषष्ठांशरिवेर्दशायां स्थानच्युतिं वा नृपचोरभीतिम्। कोपाधिकं तत्र शिरोरुजं च पित्रादिनाशं त्वथवा तदीयम्। मृद्वंशषष्ठांशरवेर्दशायां मृद्वंशपानाम्बरभूषणाप्तिम्। नामद्वयं राजसु पूजितञ्च वेदान्तशास्त्रागमधर्मशास्त्रम्। पारावताद्यंशयुतस्य भानोर्दशाविपाके महतीञ्च कीर्त्तिम्। बन्ध्वर्थदेशाधिपमाननं च पुत्रादिसंमित्रकलत्रलाभम्। स्वोच्चादिजन्यं फलमाहुरादौ पश्चात् फलं खेचरदृष्टिजन्यम्। मध्ये फलं स्थानभवं तथैव पापग्रहाणामिह योजयन्ति। भुजङ्गमत्र्यंशयुतस्य भानोर्दशाविपाकेऽहिभयं विषाद्वा। नृपाग्निपातित्यमनेकदुःखं पाशादिभृत्त्र्यंशयुतस्य चैवम्। स्वोच्चस्थोऽपि दिनेशो नीचांशे चेत्कलत्रधनहानिः। स्वकुलजबन्धुविरोधः पित्रादीनां तथैव मुनिवाक्यम्। उच्चांशकयुतो भानुर्नीचस्थीऽपि महत्सुखम्। करोति राज्यभारं च दशान्ते विपदं कृशाम्”।

अथोच्चादिगचन्द्रदशाफलानि “अत्युच्चगस्यापि निशाकरस्य दशाविपाके कुसुमाम्बरञ्च। महत्त्वतामेति कलत्रलाभं धनायतिं पुत्रमनोविलासम्। उच्चस्थितस्यापि निशाकरस्य प्राप्तौ दशायां सुतदारवित्तम्। मिष्टान्नपानाम्बरभूषणाप्तिं विदेशयानं स्वजनैर्विरोधम्। आरोहिणी चन्द्रदशा प्रपन्ना स्त्रीपुत्रवित्ताम्बरसौख्यकीर्त्तिम्। करोति राज्यं सुखभोजनञ्च देवार्च्चनं भूसुरतर्पणञ्च। निशाकरस्याप्यवरोहकाले स्त्रीपुत्रमित्राम्बरसौख्यहानिम्। मनोविकारं स्वजनैर्विरोधं चोराग्मिभपैः पतनं तटाके। नीचांशगस्यापि निशाकरस्य प्राप्तौ दशायां विविधार्थहानिम्। कुभोजनं कुत्सितराजसेवा मनोविकारं समुपैति निद्राम्। मूलत्रिकोणस्थितचन्द्रदाये नृपाद्धनं भूमिसुतार्थदारान्। प्राप्नोति भूषाम्बरमानलाभं सुखं जनन्या रतिकेलिलोलम्। स्वक्षेत्रगस्यापि निशाकरस्य नृपाद्धनप्राप्तिमुपैति सौख्यम्। प्रचण्डवेश्यागमनं क्षितीशात् संमाननं स्त्रीसुतबन्धुमौख्यम्। निशाकरस्याप्यतिशत्रुराशि गतस्य दाये कलहोऽर्थनाशम्। कुवस्त्रतां कुत्सितभोजनञ्च क्षेत्रार्थदारात्मजतापयानम्। यानाम्बरालङ्करणादिहानिं विदेशयानं परिचारकत्वम्। देशान्तरे भ्राम्यति वन्धु हीनो दुःखी परिक्लिश्यति शत्रुगेठे। मिंत्रर्क्षगस्यापि निशाकरस्य पाकेऽर्थलाभं क्षितिपालमैत्रीम्। उद्योगसिद्धिं जलवस्तलाभं चित्राम्बराभूषणवाग्विलासम्। सुधाकरस्याप्यतिमित्रराशिं गतस्य दाये त्वतिसौख्यमेति। विद्याविनोदाङ्कितराजपूजां क्षेत्रात्मदारात्मजकामलाभम्। दशाविपाके समराशिगस्य कलानिधः काञ्चनभूमिलाभम्। किञ्चित्सुखं बान्धवरोगपीडां विदेशयानं लभते मनुष्यः। नीचस्थितस्य हि दशा विपदं महार्त्तिं क्लेशार्थदुःखवनवासमुपैति काले। कारागृहं निगडपादकृशान्नहीनश्चौराग्निभूपतिभयं सुतदारशेषम्। क्षीणेन्दुपाके सकल विहीनं राज्यार्थभूपुत्रकलत्रमित्रम्। उन्मादचित्त स्वजनौर्वरोधमृणित्वमायाति कुशीलवृत्त्या। पूर्णेन्दुपाके परिपूर्णमेति विद्या विनोदाङ्कितराजपूजाम्। स्त्रीपुत्रभृ यार्थमनोविलासं विशेषतः शोभनकर्मलाभम्। केनापि स्वोच्चस्थवियच्चरेण युक्तस्य चन्द्रस्यं दशाविपाके। मनःप्रसादं मदनाभिरामं स्त्रीपुत्रभृत्यादिविनोदगोष्ठीम्। पापान्वितस्यापि नि० शाकरस्य पाकेऽग्निचोरक्षितिपालकोपैः। दुःखं सुतस्त्रीसुतबन्धुहानिं विदेशयानं त्वशुभादिकर्म। चन्द्रस्य सौम्य ग्रहसंयुतस्य प्राप्तौ दशायां शुभकर्मलाभम्। गोभूहिरण्याम्बरभूषणानि तीर्थाभिषेकं परदारसौख्यम्। पापेक्षितस्यापि निशाकरस्य दशाविपाके विफलं सुकर्म। कोपाधिकं कुत्सितभोजनञ्च मातुर्वियोगं त्वथवा तदीयम्। निशाकरस्यापि शुभेक्षितस्य परोपकारं महतीं च कीर्त्तिम्। इष्टार्थवन्ध्वागमभूपमानं जलाक्रयावस्त्रमनो विलासम्। भूलत्रिकोणगेन्दोर्दशां प्रपन्नो नरः सुबहुकोशः। बहुपुत्रवान् विनीतो बन्धुविरोधं प्रघानतां याति। सुखस्थितस्यापि निशाकरस्य मातुर्वियोगं सुखयानभमिम्। कृषेर्वनाप्तिं गृहकर्मलाभकीर्त्तिं स्वनामाङ्कितपद्यजालम्। दारान्वितस्यापि निशाकरस्य पाके कलत्राप्तिमुदाहरन्ति। सुपुत्रसौख्यं शयनाम्बरञ्च प्रमेहम्त्रादिकृशं मनोरुक्। कर्मस्थितस्यापि दशा प्रपन्ना चन्द्रस्यं कीर्ति “लभते सुविद्याम्। यज्ञादिकर्माप्तिमनेकसौख्यं भूपुत्रयानाम्बरबन्धुपूजाम्। नीचांशगस्यापि दशा ददाति रोगं महत्तरं चेन्दोः। पादाक्षिरोगपीडां बुद्धषु पराजयं गतोत्साहम्। उच्चांशगस्यापि दशा ददाति सौख्यं महत्तरं चेन्दोः। नानाविधधनलाभं भूपतिसम्मानदेहपुष्टिं च। चन्द्रदशायामादौ नरपतिमम्माननकीर्त्तिसौख्यं च। मध्ये स्त्रीमतनाश गृहधनसौख्याम्बरं चान्ते। षष्ठस्य चन्द्रस्य दशा प्रपन्ना करोति दुःखं कलहं वियोगम्। चोराग्निभूपालभयं जलेन मूत्रादिकृच्छ्रं धननाशमाहुः। रन्ध्रास्थतस्यापि दशा प्रपन्ना देहस्य कार्श्यं जलभीतिदुःखम्। विदेशयानं सकलैर्विरोधं कुभोजनं मातृजनेषु नाशम्। रिप्फगचन्द्रदशाया प्राप्तो भृतिनाशनं कुरुते। राज्ञोऽनृतधनभाग्यं स्थानविनाशं महत्पर दुःखम्। चन्द्रस्य वित्तस्थितिपाककाले वित्तात्मजस्त्रोसुखभोगभाग्यम्। मिष्टान्नपान रतिकेलिसौख्यं धनागमं पुण्यजलाभिषेकम्। तृतीयराशिस्थनिशाकरस्य दशा महत्सौख्यमनेकवित्तम्। मनो दृढं भ्रातृजनादिसौख्यं कृष्यन्नयानाम्बरभूषणाप्तिम्। लाभस्थितस्यापि निशाकरस्य प्राप्तौ दशायां विविधार्थलाभम्। मृद्वन्नपानाम्बरकेलिलोलं स्त्रीपुत्रलाभं तु मनोविलासम्। दिनेश्वरेणाहतचन्द्रदाये प्राप्नोति दुःखं स्वजनैर्विरोधम्। भार्याक्षयं भूपनृपाग्निचोरैर्मातुर्वियोगं कृषिधान्यनाशम्। चन्द्रे स्थानबलाधिके धनसुखं कीर्त्तिञ्च विद्यागमं देवब्राह्मणतर्पणं नृपधनान्याप्नोति भूमिं धनम्। स्त्रीरत्नाम्बरभूषणं कृषिधनं गोविक्रियासेवनं मिष्टान्नादिरसायनं फलयुतं दध्याज्यमाल्याम्बरम्। निशाकरे स्थानबलैर्विंहीने स्थानार्थनाशं स्वपदच्युतिञ्च। स्वबन्धुनाशं त्वथ वा वियोगं कृषेर्विनाशं समुपैति काले। निशाकरे दिग्बलसंयुतेऽस्मिन् दिगन्तरादागतवस्तु चित्रम्। विद्यागमं भूपतिमित्रताञ्च स्वबन्धुपुतां गजवाजिभूमिम्। चन्द्रे तथा कालबलान्वितेऽस्मिन् तुरङ्गयानं कृषिगोमहीश्च। विद्यादिघोषं नखकेशदन्तचर्माम्बरालङ्कृतवाहनञ्च। निसर्गवीर्यान्वितचन्द्रदाये निसर्गतश्चापि करोति सौख्यम्। अयत्नतो वाहनदेशलाभं नृपालपजां बहुवाहनञ्च। चन्द्रे यदा दिग्बलवीर्य्ययुक्ते कृषाकटाक्षेण नरेश्वरस्य। समस्तभाग्यं समुपैति सौख्यं परोपकारं च मनोऽभिलाषम्। क्रूरादिषष्ठांशसमन्वितस्य दाये शशाङ्कस्य बहुत्वदुःखम्। स्त्रीपुत्रनाशं क्षितिपालकोपं विद्याविवादं कलहं जनैश्च। मृद्वंशषष्ठांशसमन्वितस्य चन्द्रस्य दाये बहुपुत्रलाभम्। भृत्थार्थलाभं विजयं सुखं च कीर्त्तिञ्च विद्यां लभते विशेषात्। पारावताद्यंशसमन्वितस्य चन्द्रस्य दाये महतीं च कीर्त्तिम्। विद्याविनोदं लभते च सौख्यं देवार्चनं पुण्यजलाभिषेकम्। क्रूरद्रेष्काणसंयुक्तश्चन्द्रो दिशति रोगिताम्। कार्य्यं पापसमायुक्तं गोव्राह्मणनिपीडनम्। आदौ भावफलं प्रोक्तं स्थानजन्यं ततः फलम्। अंशोद्भवं फलं पश्चाद्ग्रहजातफलं तथा”।

अथोच्चादिगभौमदशाफलम्। “अत्युच्चभूनन्दनदाय- काले क्षेत्रार्थलाभं समरे जयञ्च। आ धक्यमन्वेति नरेशमानसहोदरस्त्रोसुतवाग्विलासम्। उच्चङ्गतस्य हि दशा धरणीसुतस्य प्राप्नोति राज्यमथवा क्षितिपाच्च वित्तम्। भूमेध्यदारसुतबन्धुसमागमं च यानादिरोहणविशेषविदेशयानम्। आरोहिणी भूमसुतस्य सौख्यं दशा तनोत्यन्ननरेन्द्रपूजाम्। प्रधानतान्धैर्यमगोऽभिलाषं भाग्योत्तरं गोगजवाजिसङ्घम्। धरासुतस्याप्यवरोहकाले स्थानार्थनाशं कलिकापदुःखम्। विदेशवासं स्वजनैर्विरोधं चोराग्निभपैर्गयमेति कष्टम्। नीचस्थितस्यापि धरासुतस्य दाय कुवृत्त्या स्वजनादिरक्षाम्। कुभोजनं गोगजवाजिनाशं स्वबन्धुनाशं नृपवह्निचोरैः। मूलत्रिकोणस्थितभौमदाये मिष्टान्नपानाम्बरभूषणाप्तिम्। पुराणधर्मश्रवणं मनोज्ञं भ्र त्रादिसौख्यं कृषिलाभमेति। स्वक्षेत्रगस्यापि धरासुतस्य दशाविपाके लभतेऽर्थभूमिम्। स्थानाधिपत्यं सुखवाहनञ्च नामद्वयं भ्रावसुस्रं सुखाप्तिम्। धरासुतस्याप्यतिशत्रुराशिं गतस्य दाये कलहादिदुःखम्। नरेशकोपं स्वजनैर्विरोधं भूम्यर्थदारात्मजमित्ररोगम्। भूनन्दनस्याप्यरिराशिगस्य दशाविपाके समरे च पीडाम्। शोकाग्निभूपालविषैः प्रमादं पीडातिकृच्छ्रादिगुदाक्षिणोगम्। मित्रर्क्षगस्यापि कुजस्य दाये मित्रत्वमायाति सपत्नसङ्घैः। चोराग्निमान्द्याक्षिविपादभूमिं कृषेर्विनाशं कलिकोपदुःखम्। कुजस्य दाये त्वतिमित्रराशिं गतस्य भूपालकृतार्थभूमिम्। वस्त्रादियज्ञादिविवाहदीक्षामुपैति देशान्तरलब्धभाम्यम्। धरासुतस्यापि समर्क्षमस्य गृहोपकार्य्यं स्वधनप्रमाणात्। स्त्रीपुत्रभृत्यात्मसहोदराणां शत्रुत्वमाप्नोति नृपाग्नि पीडाम्। नीचग्रहेणापि समन्वितस्य धरासुतस्यातिमनोविकारम्। प्रेष्यत्ववृत्तिं परकीयमन्नं स्त्रीपुत्रनाशं नृपवह्निचीरैः। किञ्चित् सुखं भोजनवस्त्रपानं कृच्छ्रेण वृत्तिं नृपपूजनञ्च। उच्चान्वितेनापि समन्वितस्य भौमस्य दाये सुतदारपीडाम्। पापान्वितस्यापि कुजस्य दाये पापानि कर्माणि करोति नित्यम्। देवद्विजानां पशुदेवतानां सहोदराणाञ्च कुमार्गवृत्त्या। शुभान्वितस्याषि कुजस्य दाये केचित् सुख देहकृशाङ्गरोगम्। भूपैर्विवादं समरे जयं च विद्याविवादं परदेशवासम्। शुभेक्षितधरासूनोर्दाये भूम्यर्थनाशनम्। तस्मिन् गोचरसंयुक्ते त्वत्यन्तं शोभनं भवेत्। आरस्य पापग्रहवीक्षितस्य प्राप्तौ दशायां बहुदुःखकष्टम्। जनैः परित्यक्तकलत्रमित्रो देशा- न्तरस्थः क्षितिपालकोपात्। केन्द्रगतभौमदाये चोरविषाभ्यामुपैति दुःखानि। कलहो वासविरोधं लभते देशान्तर याति। चतुर्थराशिस्थितभौमदाये स्थानच्युतिं बन्धुविरोधिताञ्च। चोराग्निपीडां नृपतेः सकाशात् भीतिं परे दुर्गप्रदे प्रयाति। कलत्रयुक्तस्य कुजस्य दाये कलत्रहानिर्गुदमूत्रकृच्छ्रम्। अगोचरस्थस्य च तादृशं फलं तदन्यथा चेत् फलमन्यथैव। कर्मस्थितस्वापि कुजस्य पाके कर्मादिवैकल्यमुपैति दुःखम्। उद्योगभङ्गं त्वपकीर्त्तिमेति विद्या सुतंस्त्रीधनमानहानिः। अर्कगभौमदशायां दधाति शोकं स्त्रिया विरोधं च। राज्याच्च्युतिं विपक्षाद्देशाद्देशान्तरं याति। वित्तगभौमदशायां संप्राप्तौ तस्य वृद्धिमुपयाति। स्वकुलाढ्यत्वं लभते नृपहृतवित्तं मुखाक्षिरोनञ्च। भ्रातृस्थानगतश्च सौख्यफलदो भूनन्दनोऽरातिहा धैर्ये वित्तसुतार्थदारसहजैः सङ्गं नृपात् पूज्यताम्। पुत्रस्थानगतस्य पुत्रमरणं बुद्धिभ्रमं जाड्यतां शत्रुक्षेत्रगतस्य भूमिसहजैर्दुःखं महारोगभाक्। पञ्चमस्थधरासूनोर्दाये कीर्त्तिं विवेकिताम्। नेत्ररोगं त्वर्थनाशं दद्यात् कलहमेव वा। मरणपदस्थो भौमः करोति दुःखं महद्भयं पाके स्फोटकमन्यविरोधं स्थानविनाशं विदेशयानञ्च। भवमस्थधरासूनोर्दशापाके षदच्युतिम्। गुरूणां च तथा कष्टं तपाविघ्नं महद्भयम्। आयस्थभौमदाये करोति राज्यार्थभूषसम्मानम्। समरे जयपतापं वागुपकारं मनोजवं कीर्त्तिम्। व्ययगतभौमदशायां प्राप्तौ धनहृति नृपाद्भीतिम्। स्थानसुतदारनाशं भ्रातॄणां विदेशवासञ्च। उच्चांशसंयुक्तधराजकाले मनोभिलाषं विजयं सुखञ्च। प्रचण्डदासीगमनं नृपस्य प्रधानतां याति सुगन्धपद्यम्। नीचांशमौमदाये नीचयुतेऽत्यन्तकर्मवैकल्पम्। धनहांनिभूपदण्डः शिश्नोदरपरायणोऽशीलः। भौमदशायामादौ लभते विविधार्थमानहानिं च। मध्येऽग्निभूपचौरैर्भीतं तत्र विनिर्दिशेन्मतिमान्। अन्ते भ्रातृवियोगं सुतधनदाराग्निगुल्ममूत्रादिम्। भौमेऽप्येवं न भवेद्रोचरयुक्ते विशेषतः कथयेत्। भौमस्य संस्थानबलान्वितस्य दशाविपाकेऽर्थकलत्रसौख्यम्। स्थानादिलाभं सुखकीर्त्तिशौर्यमुद्योगसिद्धिं त्वनयादुपैति। स्थानवीर्यविहीनस्तु कुरुते स्वपदच्युतिम्। कुजः कुसीदवृत्त्या च जीवनं भवति ध्रुवम्। दिग्वीर्ययुक्तस्य कुजस्य दाये नृपात् सुलब्धार्थरणप्रतापम्। गोभूमिकृष्यम्बरयानलाभं दिगन्तरा क्रान्तयशःप्रतापम्। कालवीर्ययुतभौमदशायां काम्यलब्धिरिति सौख्यमुपैति। पट्टपस्त्रमणिभौक्तिकलाभं चित्रवस्त्रकृ षगेगजलाभम्। निसर्गवीर्या न्वतभौमदाये कृवाकटाक्षेण महीपतीनाम्। समस्तभाग्यात्मजमित्रषन्धुगोभूमिभूषाम्बरदेहसौख्यम्। निसर्गतः स्थानधनाक्षिनाशं पित्ताधिकं कुत्सतभोजनञ्च। कुजस्य दाये कुनखी षि{??}घ्नः सहोदराणामपि देहपीडा। वक्रान्वितस्य भौमस्य दशाकाले महद्भंयम्। चीराग्नमर्पपीडां च वनवासं पदच्युतिम्। दृग्वीर्ययुक्तस्य कुजस्य दाये कृपाकटाक्षेण महीपतीनाम्। समस्तभाग्यात्मजमित्रवन्धगोभूमिभूषाम्बरदेहसौख्यम्। क्रूरषष्ठांशसंयुक्तभौमदायेऽतिपीडनम्। कारागृहप्रवेशञ्च ममस्तविभवक्षयम्। सौम्यषष्ठांशसंयुक्तभौमदाये शुभं भवेत्। विवाहदीक्षायज्ञं च सर्वेषामुपकारकम्। पारावतादिसंयुक्तभौमदाये महत् सुखम्। भूम्यर्थदारसम्पत्तिधनवाहनभोजनम्। क्रूरद्रेक्काणसंयुक्तकुजदाये मनोव्यथा। निगडं विषभीतिं च पाशबन्धनमेव च। उच्चस्थोऽपि धरासूनुर्नीचांशकसमन्वितः। तत्पाके भ्रातृमरणं नृपवह्निविषाद्भयम्। भूमिपुत्रोऽपि नीचस्थः स्वोच्चभागसमन्वितः। तत्पाके भूमिदारार्थपुत्रमित्रविवर्द्धनम्” कुजदशा।

अथ बुधदशा। “अत्युच्चसोमात्मजदायकाले धनान्वितः ख्यातिनुपैति सौख्यम्। ज्ञानञ्च कीर्त्तिं जननायकत्वं स्त्रीपुत्रभूम्यर्थमहोत्सवञ्च। उच्चस्थितस्यापि शशाङ्कसूनोदेशा महत्त्वं कुरुतेऽर्थसौख्यम्। देहस्य पुष्टिर्धनधान्यपुत्र गोवाजिमत्तेभमृदङ्गनादम्। आरोहिणी सौम्यदशा प्रपन्ना यज्ञोत्सवं गोवृषवाजिसङ्घम्। मृद्वन्नभषाम्बरयानलाभं बाणिज्यभूम्यर्थपरोपकारम्। शशाङ्कसूनोस्त्ववरोहिणी या दशा महत्कष्टतरञ्च। दुःखम। विज्ञानहीनं परदारसङ्गं नृपाग्निचीरैर्भयमत्र कष्टम्। नीचस्थचन्द्रात्मजदायकाले ज्ञानेन हीनं स्वजनैर्वियुक्तम्। पदच्युतिं बन्धुविरोधितां च विदेशयानं वनवासदुःखम्। मूलत्रिकोणान्वितसौम्य दाये राज्यं महत्सौख्यकरं च कीर्त्तिम्। विद्याविलासं निगमार्थशीलं पुराणधर्मश्रवणादिपूतः। स्वक्षेत्रगस्यापि शशाङ्कसूनोः प्राप्तौ दशायां धनधान्यसम्पत्। वाणिज्यगोभूमिसूतार्थदारमृद्वन्नपानाम्बरभूषणाप्तिः। शशाङ्कसूनोस्त्वरिराशिगस्य शत्रोर्भयं भूपतिकोप- जातम्। विद्याविहीनं कुलहीनसेबां कुभोजनं दारसुतार्थनाशनम्। शशाङ्कसूनोरतिशत्रुराशिं गतम्य पाके विपदं च दुःखम्। उद्योगभङ्गं स्वजनैर्विरोधं यज्ञादिविघ्नं शुभकर्भनाशम्। मित्रक्षेत्रदशायां शशाङ्कसूनोर्धनायतिः सौख्यम्। नामद्वयसंप्राप्तिः स्वनामाङ्कितगद्यपद्यानि। अतिमित्रराशिगस्य दशा प्रपन्ना महत्वतां याति। भूपतिमैत्रं सौख्यं धनसुतदाराश्च बन्धुसम्मानम्। समर्क्षगस्यापि शशाङ्कसूनोर्दशा सुखं धान्यसुताम्बराणि। करोति राज्यच्युतिमत्रविध्रं विज्ञानहीनं पिटकादिरोगम्। नीचखेचरसंयुक्त सौम्यदावेऽतिकष्टताम्। पदभ्रंसं बन्धुनाशं कर्मनाशं मनोरुजम्। उच्चखेचरसंयुक्तसौम्यदाये महत् सुखम्। भाग्योत्तरं सुविद्यां च बाणिज्यं गोकृषिक्रियाः। विदः पापान्वितस्यापि दाये पापमुपैति च। क्षेत्रार्थदारपुत्रादिकृषिगांभूमिनाशनम्। विदः सौम्ययुतस्यापि परिपाके महत् सुखम्। राज्ययोगं सुखं कीर्त्ति दारपुत्रनृपात् सुखम्। सौम्येक्षितस्यापि शशाङ्कसूनोर्दंशाविपाके महतीं च कीर्त्तिम्। विद्याविलासोद्भव राजपजां कान्तिप्रतापं यशसा समेतम्। पापेक्षितस्यापि शशाङ्कसूनोर्धान्यक्षयं बन्धुजनैर्वियुक्तम। विदेशयानं स्वपदच्युतिं च प्रेष्यानुवृत्त्या कलहाऽतिकृच्छ्रम्। केन्द्रोपगस्य हिं दशा शशिनन्दनस्य भूथालमित्रधनधान्यकलत्रपुत्राम्। यज्ञादि कर्मनृपमानयशःप्रलब्धिं नृद्वन्नपानशयनाम्बरभूषणानि। लग्नं गतस्य हि दशा शशिनन्दनस्य भूपालमानं कृषिलब्धभाव्यम। भेरीरवादि परिघोषितयानमार्गं तीर्थाभिषेकमथवा जगति प्रसिद्धम्। वित्तगसौम्यदशायां विद्याप्राप्तिं महत्त्वकीर्त्तिञ्च। भूपतिभाग्यसमानो राज्यस्थाने प्रधनतां याति। तृतीयराशिस्थितचन्द्रसूनोर्दशाविपाके जडतां सगेति। उद्गानमाजीवनगुलमरोगमन्नार्त्तियोगे नृपमाननञ्च। शशाङ्कसूनोर्हिवुकस्थितस्य दशा प्रपन्ना गृहधान्यनाशम्। सौख्यादिहीनं हिवुकेशमृत्युमुद्योगभङ्गं च पदच्युतिं वा पञ्चमस्थशशिनन्दनस्य या क्रूरबुद्धिरतिकष्टता भवेत्। हीनवृत्तिरपि राजमेवया कृच्छ्रलब्धधनमेति सम्पदम् षष्ठाष्टमान्त्यस्थित सौम्यदाये त्वग्दोषजातं बहुरोगमेति। विचर्चिका पैत्तिकपाण्डुरोगं नृपाग्निचौरैर्मरणं कृशत्वम्। देहाङ्गवैकल्यकलत्रबन्धुविद्वेषणं भूपतिदत्तकोषम्। आक- स्मिकं मृत्युभयं प्रमादं रिप्फस्थितस्यापि शशाङ्कसूनोः। दारस्थितस्यापि शशाङ्कसूनोर्दशा विपाके सुतदारवित्तम्। विद्याविनोदं विमलाम्बर च नामद्वयं भूपतिमित्रताञ्च। भाग्यस्थितस्यापि शशाङ्कसूनोर्भाग्योत्तरं दारसुतार्थलाभम्। तीर्थाभिषेकं जपहोमदान यज्ञादिकर्माणि लभेन्मनुष्यः। कर्मस्थितस्यापि शशाङ्कसूनोर्दशाविपाके नृपतौल्यमेतिः। सौख्यं स्वनामाङ्कितगद्यपद्यं नामद्वयं दारसुतार्थलाभम्। प्रपूजनं देवमहीरुहाणां साम्राज्यलाभं जननायकत्वम्। कवित्वमार्गं समुपैति काले यज्ञादिदीक्षां स्वजनैर्विशेषात्। उपान्त्यरोशिस्थितसौम्यदाये त्वनेकधा वित्तमुपैति काले। दानेन वा भूपतिमाननाद्वा कृषेश्च बाणिज्यविचारतो वा। उच्चांशसंयुक्तशशाङ्कसूनोर्दशाविपाके सुतभूषणाप्तिः। मनो विलासं नयनाभिराममुत्साहधैर्य्यं च जलाभिषेकम्। नीचांशकयुतः सौम्यो नीचवृत्त्यानुजीवनम्। प्रेष्यत्वं परिहारं च दशायाञ्च करोति तत्। सौम्यदशायामादौ लभते धनधान्यसम्पदं पुरुषः। अन्त्ये स्वजनविरीधं मध्ये दाये नरेशसम्मानम्। अर्कगसौम्यदशायां लभते विविधापदं मनोदुःखम्। खकुलजनृपविरोधं निन्दामयं वाक्षिकर्णरोगञ्च। स्थानवीर्य्ययुते सौम्ये तत्पाके कीर्त्तिराज्यदम्। मनोधैर्यं मनोत्साहं यज्ञदीक्षाशुभप्रदम्। तद्विहीनबुधे स्थानदारपुत्रमहद्भयम्। विदेशवासं दुःखं च नानापरिभवक्रियाः। दिग्वीर्यसहिते सौम्ये दिगन्ताद्धनिकः सुधीः। सामन्तराजमित्रत्वं गन्धमाल्यस्य लेपनम्। कालवीर्य्य युतसौम्यदशायां देहसौख्य कलहादिवियोगम्। दारपुत्रनृपमाननमेति गाङ्गतोयपरिपूततनुः स्यात्। निसर्गवीर्यान्वितसौम्यदाये निसर्गतश्चापि शुभादि कर्म। विद्याविवादं स्वजनैर्विरोधं मातुर्वियोगं त्वथवा तदीयम्। वक्रचेष्टान्विते सौम्ये भाग्य दारसुतार्थभाक्। तथा पुराणदानादिसमुद्रस्नानमाचरेत्। दृग्बलेन युते सौम्ये सर्वभूतेषु सौम्यताम्। करोति रति केलिञ्च राज्यभाग्यसमन्वितम्। क्रूरषष्ठांशसौम्यस्य दशापाके महद्भयम्। चोराग्निभूपैर्भीतिः स्याच्छुभदृगयोगवर्जिते। मृद्वंशादियुते सौम्ये राज्यलाभं महत् सुखम्। मार्दवं सर्वभूतेषु कृषिपुत्रार्थसम्पदम्। सौम्ये वैशेषिकाशस्थे विशेषाद्राजपूज्यताम्। सुगन्धाम्बरमाल्यं च विद्यागोष्ठीरहस्यताम्। क्र रद्रेष्काणसंयुक्तश्चन्द्रसूनुर्यदा तदा। चोराग्निभूपतिभयं स्थाननाश मह- द्भयम्। उच्चराशिगतः सौम्यो नीचभागगतो यदि। राज्यं सुख महत्कीर्तिम् विनाशयति तत्क्षणात्। चन्द्रात्मजोऽपि नीचस्थः स्वोच्चभागसमन्वितः। अशुभ फलमादौ तु शुभमन्त्ये प्रयच्छति”।

अथ गुरुदशा “गुदोर्दशायां परमोच्चगस्य राज्यं महत्सौख्यमुपैति कीर्त्तिम्। मनोविलासं गजवाजिसङ्घं नृपाभिषेकं स्वकुलाधिपत्यम्। कुलीरगस्यापि गुरोर्दशायां भाग्यात्तरं भूपतिमाननाद्वा। विदेशयानं महदाधिपत्यं दुःखैः परिक्लिन्नतनुर्मनुष्यः। आरोहिणी देवगुरोर्महत्त्वं दशा प्रपन्ना कुरुतेऽर्थभूमिम्। गानक्रिया स्त्रासुतराजपूजां स्ववीर्यतः प्राप्तयशःप्रतापभ्। जीवदशायामारोहिण्यामीशो मण्डलादिनाथो वा। द्विजभूपाललब्धधनो मेधावी कान्तिमान् विनीतज्ञः। देवेन्द्रपूज्यस्य दशावरो हा करोति सौख्यं सकृदेव नाशः। सकृद्यशः कान्तिविशेषजालं नरेश्वरत्वं सकृदेव याति। अतिनीचभागभाजो गुरोर्दशायां प्रभग्नगृहपुञ्जः। अन्योन्यहृदयवैरं कृषिनाशं याति परभृत्यः। मूलत्रिकोणनिलयस्य गुरोर्दशायां राज्यार्थभूमिसुतदारविशेषसौख्यम्। यानाधिरोहणमपि स्वबलाप्तवित्तं यज्ञादिकर्मजनपूजितपादपीठम्। गुरोर्दशायां स्वगृहं गतस्य राज्ञोऽर्थभूधान्यसुखाम्बरञ्च। मिष्टान्नगोपाजिमनोविलासं काव्यादिपुण्यागमवेदशास्त्रम्। गुरोर्दशायामतिशत्रुराशिं गतस्य दुःखं समुपैति शोकम्। विषादभूम्यर्थकलत्रनाशं नृपाग्निचोरैर्बहुदुःखपीडाम्। गुरोर्दशायामरिराशिगस्य क्षेत्रादिवित्तं शयनाम्बरञ्च। नरेशसम्मानमुपैति नित्यं स्त्रीपुत्रभृत्यात्मसहोदरार्त्तिम्। प्राप्तौ दशायामतिमित्रराशिं गतस्य जीवस्य नरेन्द्रपूज्यम्। मृदङ्गभेरारवयानघोषं दिगन्तराक्रान्तसमस्तभाग्यम्। मित्रर्क्षगस्यापि गुरोर्दशायां नरेशमैत्रीं समुपैति कीर्त्तिम्। विद्याविवादे जयमन्नसौख्यसुगन्धमृद्वस्त्रपरोपकारम्। समर्क्षमस्यापि गुरोर्दशायां सामान्यतो भूपतिदत्तभाग्यम्। कृष्यर्थगोभूमिमनोविलास मित्राम्बरालङ्कृतिभूषणाप्तिम्। नीचखेचरसंयुक्तजीवदाये मनोरुजम्। परप्रेष्यापवादञ्च पुत्राणाञ्च विरोधिताम्। उच्चखेचरसंयुक्तगुरुदाये महत्सुखम्। अनेकगोपुरादीनां निर्माणं नृपपूज्यताम्। पापान्वितस्यापि गुरोर्दशायां करोति पापं हृदयान्तरस्थम्। गूढं बहिः पुण्यफलं विशेषात् भूम्यर्थदारात्मजसौख्यमेति। शुभान्वितस्यापि गुरोर्दशायां नरेशयानं मृदुलाम्बरं च। दानेन वित्तं नृपमाननाद्वा यज्ञादिसंमार्गविशेषलाभम्। पापेक्षितस्यापि गुरोर्दशाया प्राप्त सुखं किञ्चिदुपैति धैर्यम्। क्वचिद् यशः कुत्रचिदाप्तसौख्यं क्वचिद्धनं नाशमुपैति चान्ते। शुभेक्षितस्यापि गुरोर्दशायां देशान्तरे वित्तमुपैति भूपात्। देवार्चनं भूसुरतर्पणञ्च तीर्थाभिषेकं गुरुपूज्यताञ्च। केन्द्रगतजीवदार्य राज्यं भूदारराजसम्मानम्। विविधसुखानन्दकरं बहुजनरक्षां प्रधानतां याति। लग्नङ्गतस्य हि दशापुरुषं करोति जीवस्य सौख्यममलाम्बरभूषणाप्तिम्। यानाधिरोहणमृदङ्गगणारवैश्च मत्तेभवाजिभटसङ्घयुतं करोति। चतुर्थकेन्द्रस्थितजीवदाये यानत्रयं भूपतिमित्रभावम्। भूपालयोगो यदि भूपतित्वं नी चेत्तदा तत्सदृशं करोति। कलत्रराशिस्थितजीवदाये दारार्थपुत्रार्थसुखं प्रयाति। विदेशयानं समरे जयञ्च धान्यं परब्रह्मणि पुण्यकर्म। कर्मस्थितस्यापि गुरोर्विपाके राज्याप्तिमाहुर्मुनयस्तदानीम्। भूपालयोगे त्वथ वार्थपुत्रकलत्रसत्कर्मसु राजयोगम्। पञ्चमस्थगुरोर्दाये मन्त्रोपास्तिर्महत्सुखम्। सुताप्तिं राजपूजाञ्च वेदान्तश्रवणादिकम्। त्रिकोणसंस्थस्य गुरोर्दशायां स्त्रीपुत्रधान्यार्थविवेकबुद्धिम्। मृद्वन्नपानाम्बरपट्टवस्त्रयानादिलाभं नवमे तु सौख्यम्। उच्चांशसंयुक्तगुरोर्दशायां भाग्योत्तरं राजसमानमेति। प्रवालमुक्तामणिरत्नलाभं सर्वेषु सख्यं समुपैति सौख्यम्। नीचांशसंयुक्तगुरोर्विपाके भूपाद्भयं गुल्मविचर्चिकादीन्। स्थानच्युतिं बन्धुविरोधिताञ्च नृपाग्निचोरैः स्वकुलोद्भवैश्च। अर्कगजीवदशायां सहसा ज्वरपीडितो भवेत् क्षीणः। ऊर्द्ध्वाङ्गरोगतप्तो दुःशीलत्वप्रभग्नसंसारः। आदौ गुरुदशाकाले नृपपूजां महत्सुखम्। मध्ये स्त्रीपुत्रलाभादि चान्ते कष्टं विनिर्दिशेत्। धनस्थितस्यापि गुरोर्विपाके धनायतिं भूपतिमाननञ्च। विद्या विवादाङ्कितराजगोष्ठीं सर्वोपकारं विजयं सुखञ्च। नृपकृतबहुमानं भ्रातृभिर्भूमिलाभं परयुतविजनैर्वा दत्तगोभूमिवित्तम्। अशनवसनभूषागन्धमाल्याम्बराणि परकृतमुपकारं शुद्धतामेति शौर्यम्। तृतीयस्थगुरोर्दाये भ्रातॄणां च सुखं धनम्। नृपदत्तं धनं सौख्यं गन्धमाल्याम्बरादिकम्। नीरोगतां पुत्रकलत्रलाभं लग्नाद्रिपुस्थस्य गुरोर्दशायाम्। आदौ भवेदेवमथान्त्य पाके दारार्थचोरादिभयं सरोगम। जीवोमरणपदस्थः करोति सौख्यं स्ववन्धुजनहानिम्। स्यान- च्युति विदेशं प्रान्ते स्त्रीराजपुत्रसम्मानम्। लाभ गजीवदशाया सप्राप्तौ राज्यलाभमुपयाति। बह्वर्थदारपुत्राद्भूपविरोधं स्वबन्धुविद्वेषम्। व्ययगतजीवदशायां प्राप्ती वाहनादि समुपयाति। लभते विदेशयानं नानाक्लेशैश्च परिभूतः। पाके स्थानबलान्वितस्य च गुरोः क्षेत्राथदारात्मजान् संप्राप्नोति गजाश्ववस्त्रकनक चित्राम्बर भूषणम्। दिग्वीर्यान्वितदेवनायकगुरौ लोके प्रसिद्धं तथा जीवे कालबलाधिके नृपबधूसम्मामि तां याति सः। निसर्गवीर्यान्वितजीवदाये निसर्गतश्चातिसुखं महत्त्वम्। विद्याविलासं रतिकेलिसौख्यं भागीरथीतोयकृताभिषेकम्। वक्रं गतस्यापि गुरोर्दशायां महार्थतां याति सुतार्थदारान्। युद्धे जथ भूपतिमित्रतां च सुगन्धजाताम्बरवाग्विलासम्। दिग्वीर्ययुक्तस्य गुरोर्विपाके कृपाकटाक्षेण महीपतीनाम्। समस्तभाग्यं समुपैति नित्यं देशान्तरे भ्राम्यति किञ्चिदेव। क्रूरषष्ठांशसंयुक्तगुरोर्दायेऽतिकष्टताम्। राजकोपावमानादीन् लभते नात्र संशयः। सौम्यषष्टांशसंयुक्तगुरोर्दायेऽतिसौख्यताम्। वाहनं बन्धुसम्मानं यज्ञवैवाहिकं शुभम्। पारावतांशयुक्तस्य गुरोः पाके महत् सुखम्। मृद्वन्नपट्टवस्त्रञ्च हेमविक्रियभूषणम्। पापद्रेक्काणयुक्तस्य गुरोर्दाये च बन्धनम्। कारागृहप्रवेशञ्च निगडं दारविग्रहम्। उच्चस्थोऽपि गुरुर्नीचराश्यंशकसमन्वितः। महाभाग्यं तु संप्राप्तं तत्क्षणादेव नश्यति। नीचस्थो देवपूज्योऽपि स्वोच्चांशकसमन्वितः। भाग्यक्षये तु संप्राप्ते भाग्यं याति तदा नरः”।

अथ शुक्रदशा। “अत्युच्चभृगुदशायां मत्तविलासप्रियार्थभोगी स्यात्। माल्याच्छादनभोजनशयनस्त्रीपुत्रधनयुक्तः। स्वीच्चस्थितस्यापि भृगोर्दशायां स्त्रीसङ्गनष्टार्थविरुद्धधर्मम्। पित्रोर्विनाशं समुपैति दुःखं शिरोरुजं भूपतिमाननञ्च। आरोहिणी शुक्रदशा प्रपन्ना धान्यं वरालङ्कृतिकान्तिपूजाम्। प्रवृत्तिसिद्धिं स्वजनैर्विरोधं मात्रादिनाशं परदारसङ्गम्। भृगोः सुतस्याप्यवरोहकाले प्रचण्डवेश्यागमनं धनाप्तिम्। स्त्रीपुत्रबन्ध्वार्त्तिमनोविकारं हृच्छूलरोगं मदनार्त्तिमेति। उद्वेगरोगतप्तः कर्मसु विफलेषु सर्वदाभिरतः। अतिनीचगतस्य दाये शुक्रस्यात्मार्थदारपुत्रार्त्तिम्। मूलत्रिकोणभाजो भृगोर्दशायां महाधिपत्यं स्यात्। क्रयविक्रयकुशलधनवान् कीर्त्त्यन्वितो विधिज्ञश्च। स्वर्क्षगशुक्रदशायां लभते स्त्रीपुत्रमित्रधनशौर्य्यम्। नित्योत्साहं द्वेषं परोपकारं महत्त्वञ्च। भृगोर्दशायामतिशत्रुराशिं गतस्य पुत्रार्थकलत्रहानिम्। प्रभग्नसंसारविशीर्णदेहं गुल्माक्षिरोगं ग्रहणीप्रकोपम्। शत्रुक्षेत्रदशायां भूगोरपत्यार्थदारहानिः स्यात्। भूपतिरोपं कुरुते मत्तविलासार्थपापकर्माणि। मित्रक्षेत्न दशायां परोपकारी कलाविधिज्ञश्च। पूगारामकृषिः स्याद्देवमनुष्येश्वरोद्धृतार्थश्च अतिमित्रशुक्रदाये भूपतिसम्मानसौख्यं च। गीधनवाजिसमेतं गजवरसङ्घैः निरस्तदोषैश्च। समर्क्षगस्यापि भृगोर्विपाके प्रमेहगुल्माक्षिगुदप्ररोगः। किञ्चित् सुखं भूपतिवह्निचोरैः भयं स्वनामाङ्कितगद्यपद्यम्। नीचखेचरसंयुक्तभृगोर्दाये महद्भयम्। अषवादकृतं दोषं लभते पापकर्मभिः। स्वोच्चस्थितेन सहितस्य भृगोर्विपाके राज्यं महत्त्वसमराधिपतित्वमेव। हेमाम्बरादिमणिभूषणयानलाभं भेरीमृदङ्गपणवानकवाद्यघोषैः। पापान्वितेस्यापि भृगोदशायां स्थानच्युतिं वन्धुजनैर्विरोधम् आचारहीनं कलहप्रियत्वं कृष्यर्थभूम्यात्मजदारनाशम् शुभान्वितस्यापि भृगोर्दशायां सौभाग्यमित्रात्मजधान्यलाभम्। नरेशपूजां गजवाजिसङ्घं प्रवालमुक्तामणियनिलाभम्। पापेक्षितस्यापि भृगोर्दशायां मानार्थहानिं समुपैति दुःखम्। स्त्रिया विरोधं स्वपदच्युतिं च विदेशवासं निजकर्महीनम्। शुभेक्षितस्यापि भृगोर्विपाके धनाम्बरं भूपतिपूजनञ्च। जनाधिपत्यं स्वशरीरकान्तिं कलत्रमित्रात्मजसौख्यमेति। केन्द्रं गतस्य हि दशा भृपुनन्दनस्य यानाम्बरादिमणिभूषितदेहकान्तिम्। राज्यार्थभूमिकृषिवाहनवस्त्रशस्त्रदुर्गादियानवनवासजलाभिषेकम्। लग्नगशुक्रदशायां संप्राप्तं राजमाननं लभते मणिगोधनकृषिलाभं परापवादं महोत्साहम्। चतुर्थराशिस्थितशुक्रदाये राज्यं महत्सौख्यमुपैति यानम्। कृषिक्रियावित्तपशुप्रजानां वृद्धिं प्रतापान्वितकीर्त्तिजालम्। कलत्रराशिस्थितशुक्रदावे कलत्रनाशं त्वथवा विदेशम प्रमेहगुलनादिशरीररोगं प्रभग्नवित्तात्मजबन्धुराज्यम्। कर्भस्थशुक्रस्य दशाविपाके विद्याधनप्राप्तिनशपूजे। भाग्योत्तरं पालितदेहकान्ति दिगन्तरप्राप्तयशः प्रतापम्। त्रिकोणसंयुक्तभृगोर्विपाके विद्याधनप्राप्तिनरेशपूजाम्। प्रबालमुक्तामणिशङ्खशुक्तिगोभूमियानाम्ववस्त्रलाभम्। पञ्चमस्थभृगोर्दाये पुत्रावाप्तिं विंनिर्दिशेत्। कीर्त्तिञ्च राजपूजाञ्च सर्वेषामुपकारकम्। त्रिकोणस्थ- गतः शुक्रः करोति नृपपूज्यताम्। यज्ञकर्मादिलाभञ्च गुरुपित्रोः सुखं यशः। वित्तगशुक्रदशायां धनहानिमाहुर्धनायतिं चापि। अन्नसुखं वाग्विलासं परोपकारं नरेशसम्मानम्। तृतीयराशिस्थितशुक्रदाये धैर्य्यं महोत्साहमदीनसत्त्वम्। चित्राम्बरालङ्कृतिवाहनाप्तिं सहोदराणां बहुभाग्यलाभम्। भृगोर्विपाकेऽरिगतस्य नाशं धान्यार्थबह्वात्मजसोदराणाम्। रोगं महाकार्यविनाशनं च शत्रोर्भयं भूपतिवह्निचौरैः। रन्ध्रस्थितस्यापि भृगोर्विपाके शस्त्राग्निचोरक्षतमित्रविघ्नम्। क्वचित् सुखं किञ्चिदुपैति वित्तं क्कचिन्नरेशाप्तयशः प्रतापम्। लाभस्थितस्यापि भृगोर्विपाके सुगन्धमाल्याम्बरराज्यपूजाम्। पुत्रार्थसौख्यं कृषिविक्रयञ्चदानं स्वनामाङ्कितपद्यजालम्। व्ययगतशुक्रदशायां लभते धान्यार्थराजसम्मानम्। स्थानच्युतिं प्रवासं मातृवियोगं मनोविलासञ्च। जीवर्क्षगतस्य भृगोः स्त्रीपुत्रमहीनाशनं कुरुते। कर्मसु नित्यो विघ्नो जननीक्लेशान्वितो मनोदुःखी। अर्झगशुक्रदशायां जीर्णगृहवासः शुभावरोधश्च। लभते दारविनाशं भ्रातृवियोगञ्च कलहञ्च। सिंहगशुक्रदशायां लभते विविधापदं मनोदुःखम्। उद्योगरोभतप्तः कर्मसु विफले तु संर्वदाभिरितः। शुक्रे स्थानबलाधिके नरपतेः सम्माननं भूषणं विद्यावादविवादगोष्टिरसिकं लामद्वयं संभ्रमम्। तस्मिन् दिक्प्रबलान्विते बहुयशःपुत्रार्थदाराम्बरं शुक्रे कालबलान्विते सुखधनं कीर्त्तिः स्वनामाङ्किता। निसर्गवीर्य्ययुक्तस्य भृगोर्दाये महत् सुखम्। कृषिगोभूमितित्तादि भ्रातृमातृसुखं भवेत्। वक्रं गतस्यापि भृगोः सुतस्य दशाविपाके त्वतिराजपूजाम्। मृदङ्गभेरीरवयुक्तयामं विचित्रवस्त्राभरणानि राज्यम्। दिग्वीर्य्ययुक्तस्य भृगोर्विपाके यज्ञादिकर्माणि करोति काले। विद्याविलासं शयनाम्बरञ्च नृपाभिषेकं कलहं विरोधम्। क्रूरषष्ठांशयुक्तस्य भृगोर्दाये विपद्भयम्। चोराग्निराजभीतिः स्यात् कृषिगोभूमिनाशनम्। सौम्यषष्ठांशयुक्तस्य भृगोर्दाये महत् सुखम्। कूपारामतटागानां निर्माणं देवपूजनम्। वैशेषिकांशसंयुक्तभृगीर्दाये महत् सुखम्। वाहनं भूपसम्मानं भ्रातृस्त्रीधनसम्पदः। क्रू रद्रेष्काणसंयुक्तभृगोर्दायेऽरिभीतिदम्। कारागृहमहत्कष्टमनलं चोरपीडनम्। उच्चक्षेत्रेऽपि नीचांशयुक्तः शुक्रोऽतिकष्टदः। करोति राज्यनाशञ्च स्थाननाशमथापि वा। उच्चांशयुक्तशुक्रीऽपि नीचराशिसमन्वितः। कृषिगोभूमि- वाणिज्यं धनधान्यविवर्द्धनम्” शुक्रमहादशाफलम्।

अथ शनिदशा। “मन्दात्युच्चदशायां ग्रामसभामण्डलाधिपत्यं स्यात्। लभते विनीदशीलं पितृनाशं बन्धुकलहं च। स्वोच्चदशायां कुरुते देशभ्रंशं मनोरुजं दुःखम्। बाणिज्यहानिसत्वं कृषिहानिं नृपविरोधञ्च। आरोहिणी वासरनाथसूनोर्दशा विपाके नृपलब्धभाग्यम्। वाणिज्यलाभं कृषिभूमिलाभं गोवाजियानं सुतदारलाभम्। दिनेशसूनोस्त्ववरोहकाले राज्यच्युतिं दारसुतार्थनाशम्। भाग्यक्षयं भूपतिकोपयुक्तं प्रेष्यत्वमायाति गुदाक्षिरोगम्। नीचस्थितस्यापि दिनेशसूनोर्दाये कलत्रात्मजसोदराणाम्। नाशं महाकष्टतरां कृषिं च नीचानुवृत्त्या समुपैति वृत्तिम्। मूलत्रिकोणनिलयस्य शनेर्दशायां देशान्तरादिवनवासमुपैति काले। नामद्वयं यदि सभानगराधिपत्यं विद्वेषणं सुतकलत्रजनादिभिर्वा। स्वक्षेत्रगस्य च दशा दिवसेशसूनोर्द्वेषं करोति बलपौरुषकीर्त्तिजालम्। राजाश्रयं कनकभूषणभूमिलाभं धैर्य्यं स्वनामसदृशानुगुणं च सौख्यम्। शनेर्दशायामतिशत्रुगस्य स्थानच्युतिं वन्धुविरोधिताञ्च। चोरादिभूपैर्भयमत्र विघ्नं भृत्यार्थदारात्मजकोपमेति। दिनेशसूनोस्त्वरिराशिगस्य वैश्याद्धनं प्राप्य तु भूमिनाशम्। कृषेर्विनाशं स्वपदच्युतिञ्च वैरं समायाति शरीरकृच्छ्रम्। मित्रक्षेत्रदशायां मन्दस्य तु शिल्पकर्मवेत्ता। ज्ञानबलं प्रतापं ददाति दुःखं महत्त्वञ्च। अधिमित्रमन्ददाये ददाति सौख्यं नरेशसम्मानम्। सुतधनदारविशेषात् पशुकृषिमहिषादिबाणिज्यम्। समर्क्षगस्यापि शनेर्दशायां समानबुद्धिः सुतदारमित्रे। भृत्यापदं बन्धुजनेषु वैरं देहस्य कष्टं क्षयवातपित्तैः। नीचखेचरसंयुक्तशनेर्दाये महद्भयम्। विप्रलम्भोपवासश्च नीचवृत्त्यानुजीवनम्। स्वोच्चखेचरसंयुक्तशनेर्दाये महत् सुखम्। किंञ्चिद्राज्यं कृषेर्लाभं भृत्यवर्गार्थनाशनम्। पापान्वितस्यापि शनेर्दशायां पापानि गूढानि करोति काले। नीचस्त्रिया सङ्गमनं विशेषाच्चोरादिनीचैः कलहं विदारम्। शुभान्वितस्यापि शनेर्दशायां विशेषतो ज्ञानमुपैति काले। परोपकारं नृपलब्धभाग्यं कृष्णानि धान्यान्ययसाञ्च लाभम्। पापेक्षितस्यापि शनेर्दशायां भृत्यार्थदारात्मजसोदराणाम्। नाशं समायाति परापवादं कुभोजनं कुत्सिगन्धमाल्यम्। शुभेक्षितस्यापि शंनेर्दशायां स्त्रीपुत्रभृत्यार्थमुपैति काले। पश्चादुपैत्यत्र मह- त्त्वकष्टं गोभूमिबाणिज्यकृषेर्बिनाशम्। केन्द्रान्वितशनेर्दाये कलहायासपीडनम्। पुत्रमित्रार्थदारादिबन्धूनां मरणं घ्रुवम्। लग्नगतशनेर्दाये देहकृच्छ्रमुपैति च। स्थानच्युतिं प्रवासञ्च राजकोपं शिरोरुजम्। चतुर्थस्थशनेर्दाये मातृतद्वर्गनाशनम्। गृहदाहं पदभ्रंशं चोरार्त्तिं नृपपीडनम्। दारराशिगतस्यापि शनेर्दायेऽरिपीडनम्। मूत्रकृच्छ्रं महाद्वेषं स्त्रीहेतोर्मरणन्तु वा। दशमस्थशनेर्दाये कर्म्मनाशमुपैति च। देशान्तरं पदभ्रंश निगडं राजपीडनम्। द्वितीयस्थशनेर्दाये वित्तनाशमथाक्षि रुक्। राजकोपं मनस्तापमन्नशेषं मनोरुजम्। तृतीयस्थशनेर्दाये कृषिगोधनसम्पदः। मनोजाड्यमनुत्साहं भ्रातृतद्वर्गनाशनम्। पञ्चमस्थशनेर्दाये पुत्रनाशं मनो रुजम्। राजकोपं भृत्यनाशं बन्धुस्त्रीवित्तविभ्रमम्। षष्ठस्थरविसूनोस्तु दशाकालेऽरिपीडनम्। व्याधिचोरविषैर्बाधां ग्रहक्षेत्रविनाशनम्। मरणपदस्थी मन्दः करोति नित्यं सुतार्थदाराणाम्। नाशं भृत्यजनानां गोमहिषभूमिदारनाशं च। नवमगतमन्ददाये पित्रोर्नाशं गुरोस्तथैवापि। लभते विदेशयानं स्वकुलजातैर्विनाशमुपयाति। लाभगमन्ददशायां लभते विविधार्थसौख्यसम्मानम्। सुतदारभृत्यसौख्यं मनोविलासं कृषेश्च लब्धधनम्। व्ययगतमन्ददशायां भीतिं चोराग्निभूपसङ्घैश्च। किविधापदं च दुःखं विदेशयानं खबन्धुनाशञ्च। अर्कगमन्ददशायां स्वजनद्वेषं परस्त्रियं लभते। भृत्यापत्यविरोधं महोद्योगं दोषपरिभूतम्। नीचांशिमन्ददाये नीचाचारेण जीवनं लभते। सर्वेषां प्रेष्यत्वं धनसुतदारैश्च विग्रहं दुःखम्। उच्चांशिमन्ददाये विविधसुखानन्दभोगभाग्यादीन्। कुरुते विदेशयानं ग्रामसभामण्डलाधिपत्यं वा। आदौ मन्ददशायामतिदुःखं मातृनाशनं कुरुते। मध्ये विदेशयानं परगृहवासं परान्नभुक चान्ते। स्थानवीर्य्ययुतमन्ददशायां दारपुत्रधनकीर्त्तिमुपैति। चोरशत्रुनृपवह्निभयं वा बन्धुनाशमथवाक्षिगुदार्त्तिम्। मन्दस्य दिग्वीर्य्ययुतस्य दाये दिगन्तरादाप्त खार्थकीर्तिम्। भूम्यर्थदारात्मजसोदराणां विनाशनं बन्धुजनैर्विरोधम्। कालवीर्य्ययुतमन्ददशायां कालकूटविषभीतिमुपैति। दारपुत्रनृपचोरभयं वा धान्यभूमिकृषिवाहनलाभम्। वक्रचारयुतो मन्दः करोति विफलां क्रियाम्। उद्योगभङ्गदुःखञ्च सोदराणाञ्च नाशनम्। क्रूरषष्ठांशसंयुक्तशनिदाये महद्भयम्। नृपकोपं पदभ्रंशं कारागृहनिवेशनम्। सौम्यषष्ठाशसंयुक्तशनिदाये महत्सुखम्। दारपुत्रार्थसंपत्तिं लभते बन्धुविग्रहम्। वैषेषिकांशसंयुक्तः शनिःसौख्यं करोति च। विशेषाद्राजसम्मानं विचित्राम्बरभूषणम्। क्रूरद्रेष्काणसंयुक्तशनिदाये महद्भयम्। उद्बन्धनं विषाद्भीतिं नृपचोराग्निजम्भयम्। नीचराशिगतो मन्दः स्वोच्चांशकसमन्वितः। दशादौ दुःखमापाद्य दशान्ते कष्टदो भवेत्। उच्चराशिगतो मन्दो नीचांशकसमन्वितः। दशादौ सुखमापाद्य दशान्ते कष्टदो भवेत्।”

अथं राहुदशा। “राहोर्वृषोऽत्र केतीस्तु वृश्चिकस्तुङ्गसंज्ञितः। मूलत्रिकोणं कुम्भश्च क्रियो मित्रभमुच्यते। एतत्सप्तमराशिन्तु केतोर्मूलत्रिकोणभम्। षष्ठाष्टरिप्फगो राहुस्तद्दाये कष्टदो भवेत्। उच्चस्थः सैहिकेयस्तु तत्पाके सुखदो भवेत्। राज्यं करोति मित्राप्तिं धनधान्याभिवर्धनम्। राहुर्नीचस्थितोदाये चोराग्निनृपभीतिदः। उद्बन्धनं विषाद्भीतिं कुरुते सिंहिकासुतः। राहोर्दशायाः संप्राप्तौ नृपचोराग्निपीडनम्। विदेशयानं दुःखार्तिं वनवासाद्भयं ध्रुवम्। लग्नगतराहुदाये बुद्धिविहीनं विषाग्निशस्त्राद्यैः। बन्धुविनाशं लभते दुःखार्तिञ्च पराजयं समरे। राहोर्दशायां धनराशिगस्य राज्यञ्च चित्तं हरते विशेषात्। कुभाजनं कुत्सितराजसेवा मनो विकारं त्वनृतं प्रकोपम्। तृतीयराशिस्थितराहुकाले पुत्रार्थदारात्मजसोदराणाम्। सुखं कृषेर्बन्धनमाधिपत्यं विदेशयानं नरपालपूजाम्। चतुर्थराशिस्थितराहुकाले मातुर्विनाशन्त्वथवा तदीयम्। क्षेत्रार्थनाशं नृपतेः प्रकोपं भार्यादिपातित्यमनेकदुःखम्। चोराग्निबन्धार्ति मनोविकारं दारात्मजानामपि रोगपीडा। चतुर्थराशिस्थितराहुकाले प्रभग्नसंसारकलत्रपुत्रम्। बुद्धिभ्रमं भोजनसौख्यनाशं विद्याविवार्द कलहञ्च दुःखम्। कोपं नरेन्द्रस्य सुतस्य नाशं राहोः सुतस्थस्य दशाविपाके। दशाविपाके त्यरिराशिगस्य चोराग्निभूपैर्भयमाप्तनाशम्। प्रमेहगुल्मक्षयपित्तरोगं त्वगदोषरोगं त्वथवा मृतिञ्च। कलत्रराशिस्थितराहुदाये कलत्रनाशं समुपैति शीघ्रम्। विदेशयानं कृषिभाग्यहानिं सर्पाद्भयं मृत्युसुतार्थनाशम्। राहोर्दशायां निधनस्थितस्य यमालयं याति सुतार्थनाशम्। चोराग्निभूपैः स्वकुलोद्भवैश्च भयं मृगैर्वा वनवासदुःखम्। राहोर्दशायां नवमस्थितस्य पित्रोर्विनाशं लभते मनुष्यः। विदेशयानं गुरुबन्धुनाशं स्नानं समुद्रस्य सुतार्थनाशम्। मानस्थितस्यापि दशाविपाके राहोः प्रवृत्तिं लभते मनुष्यः। पुराणधर्मश्रवणादिभिश्च गाङ्गेयतोयैरपि शुद्धदेहः। सौम्यर्क्षगश्चेत्फलमेवमेव पापक्षैगश्चेन्न तथा भवेद्धि। प्रोक्तं फलं यत्सकलं तदेव सौम्यर्क्षगश्चेत्फलमन्यथान्यत्। पापक्षेत्रगतो राहुः कर्मस्थः पापसयुतः। आभशस्तस्तदाकाले पुत्रदाराग्निषीडनम्। आयराशिगतो राहुस्तत्पाके नृपमाननम्। धनाप्तिः दारलाभञ्च गृहक्षेत्रादिसम्पदः। व्ययगतराहुदशायां देशभ्रशं मनोरुजं कुरुते। विच्छिन्नदारपत्रं कषिपशुधनं धान्यसम्पदां नाशम्। कुलीरगोमेषयुतस्य राहोर्दशोविपाके धनलाभमेति। विद्याविनोदं नृपमाननञ्च कलत्रभृत्यात्मसुखं प्रयाति। पाथोजमीनाश्वयुतस्य राहोर्दशाविपाके सुतदारलाभम्। देशाधिपत्यं नरवाहनञ्च दशावसाने सकलं विनाशम्। पापर्क्षसंयुक्तफणीन्द्रदाये देहस्य कार्श्यं स्वकुलस्य नाशम्। भूपाद्भयं वञ्चनतोऽरिभीतिः प्रमेहकासक्षयमूत्रकृच्छ्रम्। शुभदृष्टियुतो राहुः करोति सफलक्रियाम्। राजमाननमर्थाप्तिं बन्धूनां मरणं ध्रुवम्। पापदृष्टियुतो राहुः कर्मनाशं करोति च। उद्योगभङ्गं देहार्तिं चोराग्निनृपपीडनम्। डच्चगेहयुतो राहू राज्यलाभं करोति च। स्त्रीपुत्रधनसम्पत्तिं वस्त्राभरणलेपनम्। नीचग्रहयुतो राहुर्नीचवृत्त्यानुजीवनम्। कुभोजनं कुदारञ्च कुपुत्रं लभते तदा। दशादौ दुःखमाप्नोति दशामध्ये सुखं यशः। दशान्ते स्थाननाशञ्च गुरुपुत्रादिनाशनम्।”

अथ केतुदशाफलम्। “भार्यापुत्रविनाशनं नरपतेर्भ्रान्तिर्महाकष्टतां विद्याबन्धुधनाप्तिमित्ररहितं रोगाग्निमित्रैर्भयम्। यानारोहणपातनं विषजलैः शस्त्रादिभिर्वा भयं देशाद्देशविवासनं कलिरुचिं वह्न्यादिभिर्वा भयम्। केतोर्दशायां संप्राप्तौ दारपुत्रविनाशनम्। राजकोपं मनस्तापं चोराग्निकृषिनाशनम्। केन्द्रस्थस्य दशा केतोः करोति विफलक्रियाम्। राजार्थसुतदाराणां नाशनं विपदं तथा। लग्नकेन्द्रगतस्यापि केतोर्दाये महद्भयम्। ज्वरातिसारमेहञ्च स्थासकादि विषूचिकाः। धनराशिगतस्यापि केतोर्दाये धनक्षयम्। वाक्पारुष्यं मनोदुःखं कुत्सितान्नं मनोरुजम्। तृतीयराशिगस्यापि केतोर्दाये महत्सुखम्। मनोवैकल्य- माथाति भ्रातृभिर्द्वेषणं परम्। चतुर्थराशिगस्यापि केतोर्दाये सुखक्षयम्। प्रभग्नदारपुत्रादिगृहे धान्य प्रहर्षितः। पञ्चमस्थस्य केतोस्तु दशाकाले सुतक्षयम्। बुद्धिभ्रमं विशेषेण राजकोपं धनक्षयम्। केतोस्त्वरिगतस्यापि दशाकाले महद्भयम्। चोराग्निविषमीतिः स्याद्देशाप्तिं समुपैति च। कलत्रराशिसंयुक्तकेतोर्दाये महद्भयम्। दारपुत्रार्थनाशञ्च मूत्रकृच्छ्रं मनोरुजम्। केतोरष्टमयुक्तस्य दशाकाले महद्भयम्। पितृमृत्युश्वासकासग्रहण्यादिक्षयान्वितः। नवमस्थस्य केतोस्तु दशापाके पितुर्विपत्। गुरार्वा विपदं दुःखं शुभकर्म्मविनाशनम्। कर्म्मस्थ केतोः संप्राप्तौ दशायां सुखमेति च। मानहानिं मनोजाड्यमपकीर्तिं मनोरुजम्। लाभस्थकेतोः संप्राप्तौ दाये सौख्यं करोति च। भ्रातृवर्गादिसौख्यञ्च यज्ञदारादिवर्धनम्। रिःफस्थकेतोः संप्राप्तौ दाये कष्टतरं भवेत्। स्थानच्युतिं प्रवासञ्च राजपीडाक्षिनाशनम्। दशादौ सुखमाप्नोति दशामध्ये महद्भयम्। दशान्ते राजभीतिञ्च देहजाड्यमथापि वा। शुभवीक्षणसंयुक्तः केतुः सौख्यं करोति च। राज्यार्थं गृहशान्तिञ्च राजपूजां महत्तराम्। पापेक्षितयुतो वापि केतुर्दुःखं करोति च। ज्वरातिसारमेहांश्च त्वग्दोषं राजपीडनम्।” इयं हरगौरीदशेत्युच्यते।

अष्टोत्तरीयदशा ज्वो० त० उक्ता यथा।

“षट् सूर्य्यस्य दशा ज्ञेया शशिनोदश पञ्च च। अष्टावङ्गारके प्रोक्ता बुधे सप्तदश स्मृताः। शनैश्चरे दश प्रोक्ता गुरोरेकोनविंशतिः। राहोर्द्वादश वर्षाणि भृगोरप्येकविंशतिः। दिक्षु त्रयं त्रयं ज्ञेयं विदिक्षु च चतुष्टयम्। कृत्तिकादि प्रदातव्यं दिगम्बरमता दशा। कृत्तिकादित्रये सूर्य्यः सोमो रौद्रचतुष्टये। मघादित्रितये भौमोबुधोहस्तचतुष्टये। अनुराधात्रये सौरिर्गुरुः पूर्वाचतुष्टये। धनिष्ठात्रितये राहुः शेषे शुक्रः प्रकीर्त्तितः। सूर्य्योपप्लवभौमार्किदशातिकष्टदा नृणाम्। गुरुज्ञचन्द्रशुक्राणां यथेप्सितफलप्रदा”। वराहः “स्वशाकहीनशाकाव्दात् प्रत्यव्दं पञ्च वासरान्। तिथींश्च चन्द्रशिखिनौ क्ष्मागुणौ च कृताश्विनौ। दण्डपलविपलान्यनुपलानि च सावने। वर्द्धयित्वा ऋक्षशेषभोग्यात्तु गणनक्रमात्”। अन्तर्दशाज्ञानमाह। “स्वदशाभिर्दशां हत्वा नवभिर्भागमाहरेत्। लब्धा मासास्तु तच्छेषं पूरयित्वा तु त्रिंशता। अङ्कैर्हृत्वा दिनं लभ्यं तच्छेषे षष्टिपूरिते। नवभिश्च हृते लब्धा ज्ञेया दण्डास्तदन्तरे। रवेः षड्वर्षमध्ये तु वेदा ४ मासा रवेर्निजाः। चन्द्रस्य दश मासाश्च दिक्दिनं पञ्च मासकाः। कुजस्य, ज्ञस्य रुद्रास्तु मासा दिकदिवसाः शनेः। ऋतुमासाद्युविंशच्च गुरोर्वर्षा द्युविंशतिः। राहोर्मासाष्टका ज्ञेया भृगोर्वर्षस्तु मासकौ। एवं ग्रहाणामन्येषामूह्याश्चैवान्तरोदयाः। यद्ग्रहस्यान्तरे यस्तु यत्संख्यं कालमाप्तवान्। तत्संख्यै स्वान्तरे तस्मै स दद्यादिति निश्चयाः। स्वान्तरग्रहणे स्वांशं स्वांशेन पूरयेत् सदा”। दशाफलन्तु। “उद्विग्नचित्तपरिखेदितवित्तनाशक्लेशप्रवासगदपीडितपक्षघातैः। संक्षोभितस्वजनबन्धुवियोगदुःखैर्भानोर्दशा भवति कष्टकरी नराणाम्”। र। “सौख्यं विभर्त्ति वरवाहनयानरत्नकीर्त्तिप्रतापवलवीर्य्यशुभान्वितञ्च। मिष्टान्नपानशयनासनभाजनानि चान्द्री ददाति धनकाञ्चनभूमिशङ्खम्”। च। “शस्त्राभिघातबधवन्धनरेन्द्रपीडाचिन्ताज्वरं विकलताञ्च गृहे करोति। चौराग्निदाहभयभङ्गविपत्तिरोगकीर्त्ति प्रतापधनहा च दशा कुजस्य”। म। “दिव्याङ्गनावदनपङ्कजषट्पदत्वं लीलाविलासशयनासनभोजनञ्च। नानाप्रकारविभवागमकोषवृद्धिः क्षिप्रं भवेद्बुधदशासु हितार्थसिद्धिः”। बु। “मिथ्यापवादबधवन्धनकार्य्यहानिर्मात्सर्थ्ययुक्प्रियसुखद्रविणैर्विहीनः। मित्रेषु वैरमभिवाञ्छति वैरयुक्तः कष्टासु पापददशासु शनैश्चरस्य”। श। “रम्यं गृहं विनयसञ्चयमानदृद्धिं प्राप्नोति सौख्यधनधान्यविभूतियोगम्। धर्मार्थकामसुखभोगवहूपयुक्तं यावत् वृहस्पतिदशा पुरुषोहि तावत्”। वृ। “बुद्ध्या विहीनमतिनाशवियोगदुःखं नष्टार्थसिद्धिभयभङ्गविषार्त्तिरोगस्। सन्तापशोकपरदेशगतिं करोति राहोर्दशा भवति जीवनसंशयाय”। रा। मन्त्रप्रभावनिपुणः प्रमदाविलासः श्वेतातपत्रनृपपूजितदेशलाभः। हस्त्यश्वलाभधनपूर्णमनोरथः स्यात् शौक्रो दशा भवति निश्चलराजलक्ष्मीः”। शु। अन्तर्दशाफलं तु विस्तरभयान्नोक्तम्। “सत्ये लग्नदशा प्रोक्ता त्रेतायां योगिनी मता द्वापरे हरगौरी तु कलौ नाक्षत्रिकी दशा” अग्निपुराणनाम्ना पठित्वा गौडा अष्टोत्तरीयदशामेव नाक्षत्रिकी दशेत्याहुः। वराहेण तु नाक्षत्रिकीं दशामनादृत्यैव वृहज्जातके बलिष्ठलग्नकेन्द्रस्थादिदशा प्रतिपादिता यथा

“उदयरविशशाङ्कप्राणिकेन्द्रादिसंस्थाः प्रथमवयसि मध्येऽन्त्ये च दद्युः फलानि। न हि न फलविपाकः केन्द्रसंस्थाद्यभावे भवति हि फलपक्तिः पूर्वमापोक्लिमेऽपि १। आयुः कृतं येन हि यत्तदेव कल्प्या दशा सा प्रबलस्य पूर्वम्। साम्ये बहूनां बहुवर्षदस्य तेषां च साम्ये प्रथमोदितस्य २। एकर्क्षगोऽर्द्धमपहृत्य ददाति तु स्वन्त्र्यंशं त्रिकोणगृहगः स्मरगः स्वरांशम्। पादं फलस्य चतुरस्रगतः स होरास्त्वेवं परस्परगताः परिपाचयन्ति ३। स्थानान्यथैतानि सवर्णयित्वा सर्वाण्यधश्चेह विवर्जितानि। दशाव्दपिण्डे गुणका यथांशं छेदस्तदैक्येन दशाप्रमेदः” ४ मू०।

“उदयो लग्नं रविरात्मा शशाङ्कश्चन्द्रो मनः एषामुदयरविशशाङ्कानां मध्याद् यः प्राणी बलवान् तद्बलवशा त्तस्व सम्बन्धिनी प्रथमा दशा भवति प्राणिनां देहवताम्। तथा च यवनेश्वरः “निशाकरादित्यविलग्नभानां तत्कालयोगादधिकं बलं यः। विभर्ति तस्यादिदशेष्यते सा शेषास्ततः शेषबलक्रमेणेति” उदयश्च रविश्च शशाङ्कश्चोदय रविशशाङ्काः उदयरविशशाङ्कानां प्राणी उदयरविशशाङ्कप्रणी च केन्द्रादिसंस्थाश्चोदयरविशशाङ्कप्राणिकेन्द्रादिसंस्थाः एवमेषां मध्याद्येन प्रथमा दशा दत्ता तस्यैव केन्द्रादिसंस्थाः केन्द्रपणफरापोक्लिमेषु स्थिता ग्रहाः वीर्योपचयक्रमेण दशां दद्युः एवं लग्नार्कशशाङ्कानां मध्यादेकस्य बलवतो दशा आदौ परिकल्प्या ततस्तस्य ये केन्द्रस्थाः तेषां दशाः परिकल्प्याः तैः केन्द्रस्थैः प्रथमे वयसि फलं दत्तं भवति ततः प्रथमदशापतेरेव ये पणफरस्थास्तेषां दशाः परिकल्प्याः तैः मध्ये वयसि फलं दत्तं भवति। ततः प्रथमदशापतेरेवापोक्लिम स्थानां दशाः परिकल्प्याः तैरन्त्ये वयसि फलं दत्तं मवति यदुक्तम् प्रथमवयसि मध्येऽन्त्ये च दद्युः फलानि तथा च यवनेश्वरः “पूर्वं तु केन्द्रोपगताः फलन्ति मध्ये वयः पाणफरे निविष्टाः। आपोक्लिमस्थाः फलदावयोऽन्त्ये यथाबलं स्वं समुपैति पूर्वम्”। अथ यदि केन्द्रस्थाः ग्रहाः न भवन्ति तदा कः प्रथमे वयसि फलं प्रयच्छति इत्याह न हि न फलविपाक इत्यादि केन्द्रस्थाद्यभावे केन्द्रस्थानां ग्रहाणामभावे असम्भवे सति प्रथमे वयसि यः फलविपाकः स न हि न यतो द्वौ नञौ प्रकृत्यर्थं गमयतः पणफरस्थानासप्यभावे मध्ये वयसि फलविपाको न हि न एतदुक्त भवति यदा केन्द्रस्था ग्रहा न भवन्ति तदा पणफरस्थाः पूर्वं फलं प्रयच्छन्ति ततः आपोक्लिमस्थाः अथ केन्द्रस्थान भवन्ति पणफरस्थाश्च न मवन्ति। तदा सर्वस्मिन्नेव वयसि आपोक्लिमस्थाः फलं प्रयच्छन्ति। यत उक्तं भवति हि फलपक्तिः पूर्वमापोक्लिमेऽपि इति एवमापो क्लिमस्थानामभावे प्रथमं केन्द्रस्थाः फलं प्रयच्छन्ति ततः पणफरस्थाः। आपोक्लिमस्था न भवन्ति न च पणफरस्थास्तदा सर्वस्मिन्नेव वयसि केन्द्रस्थाः फलं प्रयच्छन्ति। एतदुक्तं भवति। लग्नार्कशशाङ्कातां मध्ये यो बलवांस्तस्य प्रथमां दशां कल्पयित्वा ततस्तत्केन्द्रगानां सर्वेषां कल्पनीया तेषां परिकल्प्य पणफरस्थानां ततः परिकल्पनीयास्ततः परमापोक्लिमस्थानाम् केन्द्रस्थानामभावे प्रथमं दशापतेरनन्तरं पणफरस्थानां कल्पनीयास्ततः आपोक्लिमस्थानाम् केन्द्रस्थानामभावे पणफरस्थानामप्यभावे आपोक्लिमस्थानामेव कल्पनीयाः। अथ केन्द्रस्थाः पणकरस्थाश्च भवन्ति। आपोक्लिमस्था न भवन्ति तदा केन्द्रस्थानां परिकल्प्य पणफरस्थानामेव परिकल्पनीयाः अथ केन्द्रस्था भवन्ति पणफरस्था न भवन्ति आपोक्लिमस्थाश्च भवन्ति तदा केन्द्रस्थानां कल्पयित्वा आषोक्लिमगानामेव कल्पनीयाः। अथ केन्द्रगा एव केवलं भवन्ति तदा तेषामेव कल्पनीयाः। अथ पणफरगा एव भवन्ति तदा षणफरगानामेव कल्पनीयाः। अथाऽपोक्लिमगा एव भवन्ति तदा तेषामेव कल्पनीयाः। तथा च स्वल्पजातके उक्तम्। लग्नार्कशशाङ्कानां यो बलवांस्तद्दशा भवेत् प्रथमा। तत्केन्द्रपणफरापोक्लिमोपगानां बलाच्छेषाः” १।

अथ दशाकालप्रमाणं केन्द्रगानामपि दशाक्रमज्ञानमिन्द्रवज्रयाह “आयुः कृतमिति शोध्यक्षेपविशुद्धमायुर्यावद्वर्षप्रमाणं येन ग्रहेण दत्तं तस्य ग्रहस्य सम्बन्धिनी दशा कल्प्या परिकल्पनीया तत्र “लग्नर्कशशाङ्काना यो बलवान् तद्दशा भवेत्प्रथमेति न्यायेन तद्दशां प्रथम कल्पयित्वा ततस्तत्केन्द्रगानां परिकल्पनीया यत्रैषां च केन्द्रगानां मध्यात् सा च दशा प्रवलस्यातिबलस्य पूर्वं प्रथमं कलप्या अनन्तरं तस्मादूनबलस्य एवं क्रमेण यथा यथा ऊनबला भवन्ति तथा तथा पश्चात्तदीयदशाः कल्पनीयाः। एवं केन्द्रगानां दशाः परिकल्प्य ततः पणफरगानाम् अनेनैव क्रमेण परिकल्प्याः ततः आपोक्लिमगानाम् अनेनैव क्रमेणेति। साम्ये वहूनामिति केन्द्रगानां बहूनां ग्रहाणां बलसाम्ये सति बहुवर्षदस्य बहूनि वर्षाणि येन दत्तानि तस्य प्रथमं दशा परि- कल्प्या। नन्वत्र कथं ग्रहाणां वलसाम्यं मवति यदि द्वावपि स्वसुहृत्त्रिकोणोच्चगतौ भवतस्तदा नैसर्गिकेण वलेन योऽधिकः स एव वली स्यात् किन्तु स्थानदिक् चेष्टाकालबलग्रहदर्शनादिबलानि यावद्गणितविधिनैकी क्रियन्ते तावद्वलसाम्यं भवति ग्रहाणां यथा सामान्येनोदाहरणम्। यदि शनैश्चरो बलत्रयेण संयुक्तो भवति भौमो बलद्वयेन तदा तत्र भौमस्य निर्सर्गबलबत्वाद्बलसाम्यं भवत्येवं सर्वेषामपि ज्ञेयम्। तेषाञ्च साम्ये प्रथमोदितस्येति तेषां वर्षाणां साम्येऽपि वर्षतुल्यत्वेऽपि प्रथमोदितस्य दशा परिकल्प्या प्रथममादावर्कमण्डलाद्य उदित उद्गतस्तस्य। यदा बलसाम्यं न भवति तदा बहुवर्षदेऽपि ग्रहे स्थिते तदा प्रथमोदितेऽपि स्थिते बलाधिकस्यैव पूर्वं परिकल्प्येति तेषाञ्च बलसाम्ये प्रथमोदितस्येत्यत्न द्विविध उदयः प्रत्यहं चक्रभ्रमवशादेकः, आदित्यविप्रकर्षेणापरः। तत्रेहादित्यविप्रकर्षेण उदयो गणितस्कन्धोक्तकालांशकवशाज्ज्ञेयः अत्र च भगवान् गार्गः “बली लग्नेन्दुसूर्य्याणां दशामाद्यां प्रयच्छति। तस्मात्ततः प्रयच्छन्तिकेन्द्रादिस्थाः क्रमेणतु। तत्रापि बलिनः पूर्वं तत्साम्ये वहुदायकाः। तत्साम्येऽपि प्रयच्छन्ति वे पूर्वं रविविच्युताः” २ भट्टो०।

“एवं दशाव्यवस्थायां जातायामन्तर्दशायाञ्च ग्रहज्ञानं वसन्ततिलकेनाह एकर्क्षगोऽर्द्धमिति दशापतिना सहैकर्क्षगोग्रहः एकस्मिन् राशौ गतः दशापतिदत्तान्तर्दशाकालस्य यदर्द्धं तदर्द्धमपहृत्य स्वैरात्मीयैः दशागुणैः परिपाचयति। त्र्यंशं त्रिकोणगृहगः दशापतेस्त्रिकोणगृहगो नवपञ्चमे स्थाने स्थितो दशापतिदत्तान्तर्दशाकालातू त्र्यंशं तृतीयभागमपहृत्य खैरात्मीयैः दशागुणैः परिपाचयति। स्मरगः स्मरांशमिति दशापतेः स्मरगः सप्तमस्थानगः दशापतिदत्तान्तर्दशाकालात् स्वरांशं सप्तमभागमप्रहृत्य स्वैः दशागुणैः परिपाचयति। पादं फलस्य चतुरस्रगतः दशापतेः चतुरस्रगोऽष्टमचतुर्थस्थानस्थो दशापतिदत्तान्तर्दशाकालात्पादं चतुर्थभागमपहृत्य स्वैर्दशागुणैः परिपाचयति। सहोराः होरा लग्नं तया त्सहिताः परस्परमन्थोन्यमनेकप्रकारेण व्यवस्थिताः स्वैः स्वः गुणैः परिपाचयति। एतदुक्तं भवति। यथा दशापतेः सकाशादेकर्क्षादिगो ग्रहो यथास्वं पठितमंशं परिपाचयतितथा लग्नमपि पाचयति। अथ दशापतेः प्रथममंशपरिकल्पनां कृत्वा पश्चादेकक्षो दिगतानां कर्त्तव्याः यस्माद्दणापतेर्यो भाग आगच्छति तदनुसारेणार्द्धादयो भागाः। परिशेषाणां भवन्ति। अथैकस्मिन् स्थाने यदा बहवो ग्रहा भवन्ति तदा तेषां मध्याद् यो बलवान् स एवैकः परिपाचयति नान्ये। कथमेतद्गम्यते उच्यते। एकवचननिर्देशात् एकर्क्षगोऽर्द्धमपहृत्य ददाति तु स्वमित्याद्येकवचनात् न केवलं मिहिराचार्येणैकवचननिर्देशः कृतो यावत् स्वल्पजातकेऽपि तथा चोक्तम् “एकर्क्षेऽर्द्धं त्र्यंशं त्रिकोणयोः सप्तमे तु सप्तांशं चतुरस्रयोस्तु पादं पाचयति गतो ग्रहः स्वगुणैरिति” गर्गादीनामप्येकवचननिर्देशोऽस्ति तथा च भगवान् गर्गः “एकर्क्षे संगतश्चार्द त्रिभागन्तु त्रिकोणगः सप्तमस्थः स्वरांशन्तु पादन्तु चतुरस्रगः। लग्नेन सहिताः सर्वे ह्यन्योन्यं फलदायकाः” यवनेश्वरश्चाप्येवम् “कालोऽर्द्धभागैकग्रहाश्रितस्य तदर्द्धभागं लभते चतुर्थे। त्रिभागभागी च त्रिकोणसंस्थात्तदर्द्धभाक् स्याच्च पृथक् त्रिकोणे। स्यात् सप्तमे सप्तमभागभागी स्थितो ग्रहश्चारवशात् ग्रहस्य”। एवं सर्वत्रैकवचननिर्देशः। तस्मादेवं ज्ञायते यथैक एवांशहारो भवति न सर्व इति तथा च सत्यः “अर्द्धं तृतीयमर्द्धं तथार्द्धं स्वोच्चसप्तमं भागम्। एकर्क्षे नवपञ्चमचतुर्थनिधनास्तसंस्थानम्। दद्युर्ग्रहा ग्रहाणां स्वदशास्वन्तर्दशाख्यानाम्। फलकालान्मित्रविधिक्रमेण भेदाश्च तेऽप्येवम्। एकर्क्षगेषु बलवान् भागहारो मित्रतो रिपोर्वापि मित्रञ्च”। पुष्कलफलं तस्मिन् काले रिपोर्नैवं तथा च मयः “एकर्क्षोपगतानां यो भवति बलाधिको विशेषेण। एकः स एव हर्त्ता नान्ये तत्र श्रिता विहगाः”। इति लग्नेऽपि यत्रांशापहारित्वं प्राप्तस्तत्र च लग्ने यदा ग्रहः स्थितो भवति तदा लग्नग्रहयोर्यो बलवान् स एवैकः पठितमंशमपहरति अन्ये सर्वेषामेकादिराशिगानामन्तर्दशाभागमिच्छन्ति। अन्ये पुनः एकमेव भागं गृहीत्वा तं भागमेकर्क्षगानां भागीकृत्य तद्भागांशमिच्छन्ति” ३ भट्टो०।

“अथ दशांशपरिकल्पनाज्ञानमिन्द्रवज्रयाह स्थानानीति अर्द्धादिका भागाः स्थानशब्देनोच्यन्ते तेषां चार्द्धादिकानां भागानां सवर्णना कार्या सवर्णना सदृशच्छेदता ततः सवर्णयित्वा छेदसावृश्यमुत्पाद्य ततस्तानि सर्वाणि स्थानानि अधः स्वैः छेदैः विवर्जितानि कार्याणि छेदा अपास्या इत्यर्थः। उपरिगताराशयो यथांशं प्रत्यंशं गुणना कार्या भवन्ति छेदः तदैक्येन संक्षेपेण छेदो भागहारो भवति। कस्मिन् गुणके को भागहार इत्याह दशाव्दपिण्डे दशावर्षसमूहे। तेनैतदुक्तं भवति दशाव्दान् पृथक् पृथक् संगुणकारैः संगुण्य छेदेन विभज्यावाप्तं वर्षाद्यमन्तर्दशा भवन्ति” ४ भट्टो०।

“सम्यगबलिनः स्वतुङ्गभागे संपूर्णा बलवर्जितस्य रिक्ता। नीचांशगतस्य शत्रुभागे ज्ञेयानिष्टफला दशा प्रसूतौ” ५ मू०।

“एवं दशान्तर्दशाविभागे ज्ञाते कस्य सम्बन्धिनी दशान्तर्दशा वा शुभफला भवति कस्याशुभफलेत्येतन्न ज्ञायते तदर्थं दशासु फलानुरूपाः संज्ञा वैतालीयेनाह सम्यग्वलिम इति प्रसूतौ पुरुषस्य जन्मकाले यो ग्रहः सम्यग्बलवान् भवति पूर्वोक्तैः बलैः सर्वैः युक्तो भवति तत्सम्बन्धिनी संपूर्णनाम्नी दशा भवति न केवलं यावत् स्वतुङ्गभागेऽवस्थितस्य परमोच्चभागगतस्यैव संपूर्णा नाम्नी भवति सम्यग्वलिनैत्युक्त्वा पुनः स्वतुङ्गभाग इत्यनेनैतज्ज्ञापयति यदि परमोच्चगतो ग्रहोऽन्यैः बलकारणैः युक्तो न भवति तथापि तस्य सम्बन्धिनी संपूर्णैव संपूर्णायां दशायामन्तर्दशायाञ्च काले शरीरारोग्यधनवृद्धिभिः पुरुषोऽभिवर्द्धते। अथ समस्तबलैः युक्तो न मवति किञ्चिदूनबलस्य भागे यो ग्रहो गतः भवति यश्च शत्रुभागे शत्रुनवांशे च गतस्तस्य दशानिष्ठकला ज्ञेया ज्ञातव्या। अथानिष्टफलदशान्तर्दशाकाले धनहानिमनारोग्यञ्च प्राप्नोति अत्र च भगवान् गार्गिः “सर्वैर्बलैरुपेतस्य परमोच्चगतस्य च। संपूर्णाख्या दशा ज्ञेया धनारोग्यविवर्द्धिनी। गर्वैर्बलैर्विहीनस्य नीचराशिगतस्य वा। रिक्ता नाम दशा ज्ञेया धनारोग्यविनाशिनी। स्वोच्चराशिगतस्याथ किञ्चिद्बलगतस्य च। पर्णा नाम दशा ज्ञेया धनदृद्धिकरी शुभा। यः स्यात् परमनीचस्थस्तथाचारिनवांशके। तस्यानिष्टफला नाम व्याध्यनर्थविवर्द्धिनी” ५ भट्टो०।

“भ्रष्टस्य तुङ्गादवरोहिसंज्ञा मध्या भवेत् सा सुहृदुच्चभाग। आरोहिणी निम्नपरिच्युतस्य नीचारिभागेष्वधमा भवेत् सा” ६ मू०।

“अथ दशान्तर्दशासंज्ञाः पुनरपीन्द्रवज्रयाह भ्रष्टस्येति तुङ्गात्परमोच्चाद्भ्रष्टस्य च्युतस्यावरोहिसंज्ञा दशा परमोच्चभागान्तादारभ्य यावत् परमनीचभागादि तत्रान्तरे यद्राशिषट्कं तत्रावस्थितेन ग्रहेण या दत्ता दशान्तर्दशावा सावरोहिणीसंज्ञा भवति यस्मात्परमोच्चाद्भ्रष्टः प्रत्य- हमधोऽवतरतीति ग्रहः कल्प्यते यावत्परमनीचमिति अवरोहिसंज्ञा दशाऽधमफला भवति। यस्माद्वक्ष्यति “संज्ञानुरूपाणि फलान्यथैषामिति”। मध्या भवेत् सा सुहृदुच्चभाग इति सैवारोहिणी यत्र तत्र राशौ व्यवस्थितेन सुहृद्भागेन मित्रांशकस्थेन दत्ता दशा मध्यानाम्न्येव भवति एवं यत्र तत्र राशौ अर्थादेव स्वांशकस्थेन दशा मध्यैव। एवं यत्र तत्र राशौ खोच्चनवांशकस्थेन दशा मध्यैव। आरोहिणीति। निम्नान्नीचात् परिच्युतस्य चलितस्य ग्रहस्यारोहिणीनाम्नी दशा भवति परमनीचान्तभागादारभ्य यावत् परमोच्चभागादि तत्रान्तरे यद्राशिषट्कं तत्रावस्थितेन ग्रहेण या दत्ता दशान्तर्द्दशा वा सारोहिणीनाम्नी दशा भवति यस्मात् परमनीचादभ्रष्टः प्रत्यहं तावदारोहतीति ग्रहः परिकल्प्यते यावत् परमोच्चमिति। आरोहिणी च श्रेष्ठफला भवति। नीचारिभांश इति सैवारोहिणी यत्र तत्र राशौ स्वनीचराश्यंशोपगतेन दत्ताऽधमानाम्नी दशा भवति एवं यत्र तत्र राशावरिभांशकस्थेन शत्रुनवांशकगेन दत्ताऽधमैव दशा भवति। पूर्वं शत्रुनवांशकगेन दत्तानिष्टफलेत्युक्तमधुना सैवाधमेति तत् किमेतदित्यत्रोच्यते अवरोहिणीशत्रुनवांशकस्थेन दत्तापि अनिष्टफला ज्ञेया आरोहिण्यधमा अनयोः कः फलभेदः अत्रोच्यते अनिष्टफलाफलमशुभं प्रयच्छति अधमाशुभमेवाल्पमिति एवमवरोहिणीसंज्ञा यदाधमसंज्ञा भवति तदा सैवानिष्टफलसंज्ञां लभते आरोहिणी यदा मध्यसंज्ञा भवति तदा सैव पूर्णेति संज्ञा ज्ञेया अत्राह, भगवान् गार्गिः “उच्चनीचान्तरस्थस्य दशा स्यादवरोहिणी। तस्यामल्पमवाप्नोति फलं क्लेशाच्छुभं नरः। मित्रोच्चस्वांशकस्थस्य मध्या मध्य फला तु सा। नीचोच्चमध्यगस्योक्ता श्रेष्ठा चारोहिणी दशा। सैवाधमाख्या भवति नीचराश्यंशगस्य तु। अवरोहिणी चेदधमा भवेत् कष्टफला तदा। आरोहिणी मध्यफला संपूर्णा परिकीर्त्तितेति” ६ भट्टो०।

“नीचारिभांशे समवस्थितस्य शस्ते गृहे मिश्रफला प्रदिष्टा। संज्ञानुरूपाणि फलान्यथैषां दशासु वक्ष्यामि यथोपयोगम्” ७ मू०।

“अथ दशान्तर्दशासंज्ञाः पुनरप्युपजातिकयाह नीचा रीति शस्तानि गृहाणि स्वोच्चमूलत्रिकोणात्मक्षेत्रमित्रक्षेत्राणि तेष्ववस्थितेन नीचराश्यं शकेऽरिभांशे शत्रु- नवांशके समवस्थितेन वा ग्रहेण दत्ता या दशान्तर्दशा वासा मिश्रफलानाम्न्येव मिश्रफला शुभमशुभञ्च फलं प्रयच्छति व्याधिसमेतमर्थागममेवमादिशेत् अर्थादेवाशस्तराशिगतेन, अशस्ताः शत्रुनीचराशयः तद्गेन स्वोच्चमित्रमूलत्रिकोणात्मवर्गोत्तमनवांशकगेनापि दत्ता मिश्रफलैव भवति संज्ञारूपाणि नामसदृशानि फलानि दशास्वन्तर्दशासु च ज्ञेयानि। तद्यथा संपूर्णाऽत्यन्तश्रेष्ठफलप्रदा। पूर्णा श्रेष्ठफला। अधमाऽशुभफलदा अल्पफलदा रिक्ता अर्थापहारिणी अनिष्टफलदात्यन्तमशुभफलकारी। मिश्रफला शुभमशुभञ्च फलं प्रयच्छति। अथैषां दशास्विति अथशब्दः आनन्तर्य्ये एषामादित्यपूर्वाणां ग्रहाणां दशासु यथोपयोगम् उत्तरत्र वक्ष्यामि यथा येन प्रकारेणैव युज्यते तथा तत्कथयिष्यामि कस्यान्तर्दशायां किं फलमुपयुज्यत” ७ भट्टो०

“उभयेऽधममध्यमपूजिता द्रेष्काणैश्चरभेषु चोत्क्रमात्। अशुभेष्टसमाः स्थिरे क्रमाद्धोरायाः परिकल्पिता दशा” ८ मू०।

“अथ लग्नदशायां शुभाशुभज्ञानं वैतालीयेनाह उभये इति। उभये द्विस्वभावे राशौ लग्नगते द्रेष्काणक्रमेणाधममध्यमपूजिता दशा ज्ञेयाः प्रथमद्रेष्काणे जातस्याधमाऽशोभनाऽनिष्टफला द्वितीये द्रेष्काणे मध्यमामिश्रफला तृतीये द्रेष्काणे पूजिता श्रेष्ठफला। चरभेषु चरराशिषु उत्क्रमेण वैपरीत्येन तेन प्रथमद्रेष्काणे जातस्य पूजिता द्वितीये मध्यमा तृतीयेऽधमानिष्टफला अशुभेष्टसमाः स्थिरे क्रमादिति स्थिरे स्थिरराशौ प्रथमद्रेष्काणेऽशुभा द्वितीये द्रेष्काणे इष्टा श्रेष्ठा तृतीये द्रेष्काणे समा मध्यफला एवं होरायाः लग्नस्य दशाः परिकल्पिता उक्ता इति” ८ भट्टो०।

“एकं द्वौ नवविंशतिर्घृतिकृती पञ्चाशदेषां क्रमाच्चन्द्रारेन्दुजशुक्रजीवदिनकृद्दैवाकरणीणां समाः। स्वैः स्वैः पुष्टफला निसर्गजनितैः पक्तिर्दशायाः क्रमादन्ते लग्नदशा शुभेति यवनानेच्छन्ति केचित्तथा” ९ मू०।

“अथ नैसर्गिकदशाकालं ग्रहाणां शार्दूलविक्रीडितेनाह एकमिति। एकाद्याः समाः एकादीनि वर्षाणि चन्द्रादीनां यथाभिहितानि नैसर्गिकाणि तद्यथा जन्मसमयादारभ्यैकं संवत्सरः एकश्चन्द्रस्य ततः परं द्वावारस्याङ्गारकस्य एवं त्रयः ततः परं नवेन्दुजस्य बुधस्य एवं द्वादश। ततः परं विंशतिः शुक्रस्य एवं द्वा- त्रि शत्। ततः परं धृतयः अष्टादश जीवस्य गुरोः एवं पञ्चाशत् ततः परं कृतिसंख्या विंशतिः दिनकृतः सूर्य्यस्य एवं सप्ततिः। ततः पर पञ्चाशत् दैवाकरेः सौरेः, एवं विंशत्यधिकं वर्षशतम् १२०। एतेषु निसर्गदशाधिपेषु ग्रहेषु बलवत्सूपचयशब्दितेषु च तद्दशासु शोभनानि दशाफलानि भवन्ति हीनबलेष्वनुपचयस्थेष्वशोभनानि। एतच्च सर्वथा चिन्त्यम्। यतो निसर्गदशास्वविसंवाद इति तथां च यवनेश्वरः “स्तनोपभोगः शशिनो वयः खम् भौमस्य विद्याद्दर्शनानुजन्म। बौधन्तु शिक्षापदकालमाहुरमैथुनेच्छाललितप्रवृत्तिम्। शौक्रं युवत्वं विधुपूर्वदृष्टमामध्यमाद्देवगुरोर्वदन्ति। रवेर्वयोऽर्द्धात्परमन्यमस्मात् सौरेर्जरा दुर्भगकालमाहुरिति” नैसर्गिकस्थदशाकालस्य प्रयोजनमाह स्वैः स्वैरिति तत्र यस्य ग्रहस्य सम्बन्धिनी पूर्वविधिना कृता दशान्तर्द्दशा वा सा यदि नैसर्गिकसमाभिः निसर्गकथितवर्षैः स्वैः स्वैः आत्मीयैः युज्यते स्वदशाकालेन समकालं भवति तदा यावत्कालं तस्य दशाद्वयस्यैक्यं भवति तावत्कालं तस्य दशान्तर्दशा वा यदि भवति तस्थाः पुष्टा परिपूर्णा फलपक्तिः पाको भवति क्रमात् प्रतिपद्य यावद्वर्त्तते तावच्छुभफलेत्यर्थः। अत्र केचिद्वदन्ति “यथा पूर्वविधिना ज्ञाता शुभा तदा शुभफलमत्यर्थं प्रयच्छत्यथाशुभा तदाऽशुभमत्यर्थमिति” एतच्चायुक्तम् यस्माद्यबनेश्वरः “स्वेष्टा दशा स्वे वयसि ग्रहस्येति” तथा च सत्यः “एकाव्दिकः शशी त्र्यव्दिकः कुजो द्वादशावदिकः सौम्यः द्वात्रिंशद्भृगुपुत्रो गुरुस्तु कथितः शतस्यार्द्धं ५०। सप्तत्यव्दः सूर्य्यो विंशत्यधिकः शनैश्चरोऽवदशतः। वयसोऽन्तराणि चैषां स्वदशा नैसर्गिकः कालः। स्वं वयसः सदृशं ग्रहाः समासाद्य देहिनां कालम्। भक्षणपोषणचेष्टास्वभावदाः स्युर्यथासंख्यम्”। अथ लग्नदशानैसर्गिककालं पुराणयवनमतेनाह अन्ते लग्नदशा इति विंशत्यधिकाद्वर्षशतादूर्ध्वं यदि कस्यचिदायुषः कालो भवति तदा स कालः सर्व एव लग्नस्य नैसर्गिकी दशा। कालो भवति तस्मिन् काले पुराणयवनानां मतेन लग्नदशा शोभना भवति। विंशत्यधिकाद्वर्षशतादूर्ध्वमित्येतत् कुतोऽवगम्यते उच्यते तदर्वाक्कालस्यान्यग्रहपरिगृहीतत्वात् लग्नस्थानावकाशादेव। अथ वान्यः कश्चिदाह यथा ननु विंशत्यधिकात् शतादधिकं यस्यायुर्नास्ति किं तस्य लग्ननैसर्गिको दशाकालो नास्ति। उच्यते नास्त्येव न केवलं यावद्वर्षसप्ततेरभ्यधिकं नास्ति यस्यायु र्नास्ति तस्य शनैश्चरसम्बन्ध नैसर्गिको दशाकालो नास्ति यस्य पञ्चाशतोऽधिकं नास्ति तस्यादित्यस्यापि नास्ति एवमन्येषामपि योज्यम् ननु विंशत्यधिक वर्षशतं परमायुरत ऊर्ध्वं जीविताभावात्को लग्नस्य नैसर्गिको दशाकालः उच्यते पूर्वमेव व्याख्यातं यथा विंशत्यधिकं वर्षशतं परमायुः त्रैराशिकार्थमश्वादीनामायुर्ज्ञानार्थं प्रदर्शितं यतः तावत्प्रमाणादायुषः परं सम्भवतीति तथा च यदा मीनलग्ने बलवति मीनांशकान्ते च कश्चिज्जातो भवति सर्वेच ग्रहाः यत्र तत्र राशौ मिनांशकावस्थिता भवन्ति केचिदुच्चगताः केचिच्च वक्रिताग्तदा मीनलग्नो द्वादशवर्षाणि ददाति स एव बलयुतस्तदान्यानि द्वादशवर्षाणि ग्रहश्चैको मीनांशकान्तं गत्वाद्वादशवर्षाणि ददाति तानि च वक्रोच्चगत्वात् त्रिगुणानि षट्त्रिंशद्भवन्ति आदित्यवर्जम् आदित्यस्य मेषे धन्वंशके गतस्य सप्तविंशतिवर्षाणि भवन्ति एवं चन्द्रादीनां षण्णां शतद्वयं षोडशाधिकं भवति आदित्यस्य सप्तविंशतिः लग्नस्य चतुर्विंशतिः। एवमेकीकृतं शतद्वयं सप्तषष्ट्यधिकं भवति। नन्वेतावत्, प्रमाणं कालं कश्चिज्जीवमानो न दृश्यते योगस्यातिदुर्लभत्वात् उच्यते कश्चित् दृश्यत एव जन्त्वादिकः नेच्छन्ति केचित्तथा तां लग्नदशामन्ते केचिदाचार्याः श्रुतिकीर्त्तिप्रभृतयः तथा तेनैव प्रकारेण शुभेति नेच्छन्ति नो वाञ्छन्तीत्यर्थः यस्मादबलत्वे लग्नस्य वयोऽन्ते तद्दशा भवति सा शुभा। आचार्य्येण लग्नदशायां शुभाशुभत्वं बलवशान्नोक्तं द्रेष्काणवशादुक्तम् उभयेऽधममध्यपूजिता इति यस्माद्वलहीनस्यापि लग्नस्य वयोऽन्ते दशाद्रेष्काणवशाच्छुभा भवति तस्माद्ये आचार्या अन्ते लग्नदशां नेच्छन्ति ते निष्कारणमेव नेच्छन्ति। ननु किमागमग्रन्थानां कारणेन उच्यते य एवाचार्य्याः अन्ते लग्नदशां नेच्छन्ति त एवागमान् त्यक्त्वा यथादर्शितकारणम् उपन्यस्य नेच्छन्ति तेन कारणेन दोष उक्तः तथा च श्रुतिकीर्त्तिः “अन्ते लग्नदशा शुभेति” यवनानैतद्वहूनां मतं तस्मिन् हीनवले यतोऽन्त्यसमये साम्यादतो नेष्यते एतच्छ्रुतकीर्त्तिना कारणमुपन्यस्तं तच्च दुष्टमतो नैसर्गिके लग्नदशाकालेऽलर्दशा शुभेत्यवगन्तव्यम्” भट्टो०।

“पाकस्वामिनि लग्नगे सुहृदि वा वर्गस्थसौम्येऽपि वा प्रारब्धा शुभदा दशा त्रिदशषड्लाभेषु वा पाकके। मित्रोच्चोपचयत्रिकोणमदने पाकेश्वरस्य स्थितश्चन्द्रः सत्- फलबोधनानि कुरुते पापानि चातोऽन्यथा” १० मू०।

“अथ दशान्तर्दशाशुभाशुभज्ञानं शार्दूलविक्रीडितेनाह पाकस्वामिनीति। सौरसावनचान्द्रनाक्षत्राणि चत्वारि मानानि तत्र सौस्मानं रविभगणभोगः। यावता कालेनार्कोभमेकं भुङ्क्ते स सौरी मासदिनं यावता कालेन राशिद्वादशकं भुङ्क्ते तत्सौरंवर्षं तच्च पञ्चषष्ट्यधिकैस्त्रिभिः शतैः दिनानां घटिकापञ्चदशकेन सार्द्धेन भवति। सावनमुदयादुदयः। अर्कोदयात् पुनरेवार्कोदयः सावनमहोरात्रं तच्च षष्टिघटिकमहोरात्रं अहोरात्र त्रिंशन्मासः मासा द्वादश वर्षम्। एवं षष्ट्यधिकैस्त्रिभिः शतैः दिनानां सावनं वर्षम्। चान्द्रं तिथिभोगः तच्च स्वमानेन षष्ट्यधिकं शतत्रयं भवति सावनेनेदं मानं शतत्र यं चतुःपञ्चाशदधिकं दिनानां तच्चान्द्रं वर्षं भवति। एवं सौरसावनचान्द्राणि त्रीणि मानानि प्रत्येकं स्वस्वमानेन षष्ट्यधिकं शतत्रयं भवति। नाक्षत्रं चन्द्रनक्षत्रभोगः तच्च दिनानां सप्तविंशत्या मासो भवति तत्र शतत्रयेण चतुर्विंशत्यधिकेन दिनानां वर्षमुक्तञ्च “रव्यंशगोऽहो रात्रः सौरश्चान्द्रमसस्तिथिः। चन्द्रनक्षत्रभोगस्तु नाक्षत्रः परिकीर्त्तितः। स सावनो ग्रहर्क्षाणामुदयादुदयावधि। नाक्षत्रमाने मासः स्यात् सप्तविंशतिवासरः। शेषमाषु निर्दिष्टो मासस्त्रिंशद्दिनात्मकः” इति तस्मात् सावनमानेनायुर्दायगणना कार्य्या यस्माच्छोष्यक्षेपविशुद्धमायुः कर्तव्य तच्च सावनमानं सौरमानेन संक्रान्त्यवधिको मासः सावनस्त्रिंद्रात्रः चान्द्रोऽमास्यान्तिकः, नाक्षत्रो रेवत्यन्तिकः। सौरमधिमासकयुतं चान्द्रं भवति चान्द्रमवमरात्रोनं सावनं भवति चान्द्रं साव्दनाक्षत्रम् उक्तञ्च “युगवर्षमासपिण्डं रविमानं साधिमासकं चान्द्रम्। अवमविहीनं सावनमैन्दवमव्दान्वितं वर्षमिति। एवं शोध्यक्षेपविशुद्धं सावनमानेनायुर्दाविधिः तथा च मयूरचित्रक गगवान् गार्गिः “आयुर्दायविभागश्च प्रायश्चित्तक्रियास्तथा। सावनेनैव कर्त्तव्या सत्राणामप्युपासनम्”। नन्वर्कोदयादारभ्यार्कोदयावधिं यावदहोरात्रं तत् पुलिशतन्त्रे सौरमहोरात्रं पठ्यते। “अष्टाक्षिवसुसप्तमरूपनवमुनिनगतिथयः शतगुणाश्च सौरेणेति” एतच्च पुलिश एव जानाति यस्मात् पुलिशतन्त्रं वर्ज्जयित्वा सर्वसिद्धान्तेषु तन्त्रेषु सौरमानेन रविभगणभोगः सौरमानमधिमासयुक्त चान्द्रमवमरात्रोनं सावनं भवति एवं शोध्यक्षेपविशुद्धं चान्द्रं भवति। सावनमानं सावसंहितासु चार्कोदयादारभ्यार्कोदयं यावद्यदहोरात्रं तत्सावनमहोरात्रमिति संज्ञा तथा च भगवान् पराशरः गार्गिश्च “सावनेन स्मृतो मासस्त्रिंशदुष्णकरोदयः” तथा श्रीभट्टब्रह्मगुप्तः “सावनमुदयादुदयमिति” एवं पुरुषस्य जन्मसमये सावनमहर्गणं कृत्वा तस्मात्तिथिनक्षत्रपरिच्छेदस्तात्कालिकाग्रहाः सलग्ना यथा कृतास्तथा दशान्तर्द्दशावसाने कर्त्तव्याः तत आगामिदशाफलं वक्तव्यम्। कथमुच्यते। प्रथमं जन्मनि अहोरात्रात् तात्कालिकं कृत्वा ततस्तत्रान्तर्दशाकालं वर्षादिकं दिनीकृत्य योजयेद्वर्षाणि द्वादशभिः संगुण्य तेषु मासान् संयोज्य त्रिंशता पुनः संगुण्य तेषु दिनानि क्षिपेत्। एवं कृते दशाकाली दिनरूपो भवति तच्च तात्कालिके जन्माहर्गणे सविकले सविकलं संयोज्याहर्गणो भवति तत्राद्यो यद्घटिकादिः कालो भवति तस्यातीतार्द्धरात्रात्परतो गणना कार्य्या तस्मादिष्टदिनमानमानयेदनेनाचार्य्यसूर्य्येण द्युगणोऽधोभवगुणितो द्विनवरसाप्तावधिकश्चान्द्रः चान्द्रोऽधरर्तुवेदानागाप्तः अधिमासदिनैर्हीनः इति अथ वसुगुणत्रिरात् मुनिगुणितः द्विनवखरसाप्तः पृथग्रसखदिग्मिः लब्धं खरामगुणितं शुद्धाप्तात् सैककोरविद्युगणः एतत् खण्डनाद्यकरणेनैव भवति। कोऽसौ रविद्युगण इत्याह शाकोऽगवसुशरीनोऽर्कगुणः चैत्रादिमासमुक्तः त्रिंशद्गुणस्तिथियुत इति। अ{??} षष्ट्यधिकेन शतत्रयेण भागमपहृत्यावाप्तं करणाव्दाः शेषास्त्रिंशद्भक्ताश्चैत्रसिताद्या मासाः शेषा वर्त्तमानमासे सिताद्यास्तिथयः करणाव्देष्वगवसुशरान् संयोज्यातीतशककालो भवति तस्मिन् शाके तस्मिन्मासे तस्मिन् दिने सोऽहर्गण इति तत्रैव दशाप्रवेशः पुनरप्यन्यमन्तर्दशाकालं दिनीकृत्य तस्मिन् योजयेत् एवं यावत्योऽन्तर्दशा भवन्ति तावत्योऽनेनैव प्रकारेण योजनीयाः। एवं ततो ग्रहान् लग्नञ्च गणयेत् अथ वानेन प्रकारेण कालानयनम् “आदित्ये क्रियमाणे यावन्तो गतभगणा भवन्ति तावन्तः करणप्रारम्भादारभ्य गताव्दाः। तेषु करणप्रणीतं शककालं संयोज्येष्टशककालो भवति वर्त्तमाने वर्षे यावन्तो राशयः स्फुटार्का भवन्ति तावन्तो मासाः सूर्य्यभगणानीतात् शुक्लपक्षं कृष्णपक्षं वा तिथिनक्षत्रं चन्द्रार्काभ्यां ज्ञायते एव। पाकस्वामिनीत्यादि यस्य ग्रहस्यान्तर्द्दशाप्रवेशः स पाकस्वामी तावच्चासौ पाकस्वामी यावत् तस्यान्तर्दशामेव। स च पाकस्वाम्यन्तर्दशाप्रवेशे लग्नगो यदि भवति तदा तस्य सम्बन्धिन्यन्तर्दशा प्रारब्धा शुभद शोभनफलदा भवति अथ वा तात्कालिकं पाकस्वामिनो यत् सुहृन्मित्रं तस्मिन्नपि दशा प्रवेशकाले लग्नगे शोभना दशा वक्तव्या। अथ वास्य दशापतेः पूर्वव्याख्यातो यो वर्गः तस्मिन्नपि लग्नगे शोभना। अथवान्यस्मिन् सौम्ये शुभग्रहे तत्काललग्नगे दशा प्रारब्धा शोभनैव। अथवा पाकपे दशाधिपतौ ग्रहे तात्कालिकलग्नात्त्रिदशषड्लाभेषु तृतीयषट्दशमैकादशस्थानानामन्यतमस्थे शोभनैव दशा वक्तव्या। यद्यप्यत्र सामान्येनोक्तं प्रारब्धा शुभदा दशा तथापि “अधिशत्रुदशां शत्रोः प्राप्तोऽनिष्टफलप्रदः। अधिमित्रोऽपि मित्रस्य दशां प्राप्तोऽतिशोभनः। समः समदशामेत्य यथोक्तफलदो हि सः”। एतदपि चिन्तनीयम् अनेन प्रकारेण यदि शुभफलान्तर्दशा भवति तदा शुभैव अन्यथाऽशुभैव। अथ शुभफलायामन्तर्दशायां किमप्यनवरतमेव सर्वकालं शुभफलवाप्तिर्भवति किं वा कस्मिंश्चिद्दिवसे एवमशुभायामन्तर्दशायामशुभफलावाप्तिरित्युभयत्र सन्देहव्युदासार्थमाह भित्रोच्चोपचयेत्यादि पाकेश्वरस्य दशापतेः पतिराशौ सञ्चरतः तत्काले यो ग्रहो मित्रं तत्क्षेत्रस्थितश्चन्द्रमा यदा भवति तदा सत्फलबोधनानि कुरुते न केवलं यावत् पाकपतेरुपचयस्थानगतोऽपि त्रिषडेकादशदशमस्थानानामन्यतमस्थानस्थस्त्रिकोणगोऽपि नवपञ्चमस्थानगतोऽपि तथा मदनस्थः सप्तमे च स्थितः एतेषु निर्दिष्टस्थानेष्वन्यतमस्थानगश्चन्द्रभाः शुभफलायां दशायां सत्फलबोधनानि कुरुते। ज्ञायते तेषां फलानामित्यत्रोच्चोपचयत्रिकोणमदने यस्मिन् स्थाने पाकेश्वरस्य चन्द्रमाः स्थितः स राशिः जन्मनि योभाव आसीत्तदुद्भूतं सत्फलं बोधयति विशेषेण तथा दशा पठितमिति अतोऽस्मादुक्तप्रकारादन्यथा पाकपतेस्तत्कालं शत्रु गृहे नीचराशौ वा दशापतिना सहैकराशौ द्वितीयचतुर्थाष्टमद्वादशस्थानानाभन्यतमस्थानस्थो भवति तदा शुभफलायां दशायां पापानि फलानि प्रकटीकरोति स च राशिर्यो भाव आसीत्तदुद्भूतं फलं बोधयति विशेषेण दशापठितमपि अनिष्टमप्यष्टकवर्गोद्भूतं च मिश्रदशायां मित्रोच्चोपचयादिषु सत्फलबोधनानि कुरुते शत्रुनीचादिषु अशुभफलानामिति तथा च भगवान् गार्गिः “यद्राशिसंस्थः शीतांशुः शुभकृत् परिकीर्त्तितः। सराशिर्जन्मकाले तु यो भावस्तत् कृतञ्च तत्”। शरीरादि- कृतं सौख्यं वक्तव्यं बलयोगतः अनिष्टराशिसंस्थं तु तद्भावानामशोभन इति” १० भट्टो०।

“दशासु शस्तासु शुभानि कुर्वन्त्यनिष्टसज्ञास्वशुभानि चैवम्। मिश्रासु मिश्राणि दशाफलानि होराफलं लग्नपतेः समानम्” १९ मू०।

“अथैकस्मिन् वृत्ते दशासु शुभान्यशुभानि च फलान्युक्तानि तेषां विषयविभागं लग्नदशाफलं चोपजातिकयाह दशासु इति शुभाशुभं व्यामिश्रत्वं दशासु पूर्वमेवोक्तं तथा जन्मकाले उपचयराशिस्थानिर्मलमूर्त्तयः स्पष्टगतयश्च ये ग्रहास्तेषामपि दशाः शुभाः ये चोप चयस्था हता रूक्षाः स्वल्पमूर्त्तयस्तेषामपि दशा अशुभाः तथा च यवनेश्वरः “निशाकरादित्यविलग्नभानां तत्कालयोगादधिकं वलं यः। बिभर्त्ति तस्यादिदशेष्यते सा शेषास्त्वतः शेषबलक्रमेण। वयोऽधिको यः प्रथमाद्गतो वा ग्रहः स पूर्वं पठितो दशेशः। बलाधिकश्चेद्यदि केन्द्रसंस्थः पूर्वं स शेषासु यथा प्रदिष्टः। श्रेष्ठा दशा स्वे वयसि ग्रहस्य स्वोच्चश्रितात्कालबलाश्रिताच्चेत्। मूलत्रिकोणात् स्वगृहाच्च मध्या मित्राश्रिताज्जन्मगृहाश्रिताद्वा। नीचारिभांशोपगताज्जिताद्वा गृहात् परिध्वस्तविवर्णरूक्षा। जन्मेशशत्रोर्निधनारिभेशाद् या वाप्यते सा बहुदोषदा स्यात्”। एवं शस्तासु शोभनासु दशासु ग्रहाः शुभान्येव फलानि कुर्वन्ति दशाफलवृत्ते यानि शुभान्यभिहितानि तान्येव भवन्ति नेतराणि, अनिष्टसंज्ञास्वशुभदशासु अशुभान्य निष्टानि एव भवन्ति मिश्रासु दशासु मिश्राण्येव दशाफलानि भवन्ति एतच्च प्रतिसूत्रमस्माभिश्च व्याख्यातं तथा च सत्यः “जन्मन्युपचयभवनेषु संस्थिताः सव्यगाः सुमूर्त्तिधराः, श्रेष्ठं फलं विदध्युर्ग्रहाः क्रमात् स्वां दर्शां प्राप्य अन्यैर्निहता रूक्षाल्पमूर्त्तयो ह्युपचयर्क्षसंस्थाश्च स्वदशाभिहतं नेष्टं ग्रहाः प्रयच्छन्ति लोकेषु होराफलं लग्नपतेः समानमिति” होरायाः लग्नस्यान्तर्दशाफलं लग्नपतेः लग्नाधिपस्य समानं तुल्यम् वक्तव्यं यथा मेषलग्नजातस्य भौमदशाफलं वृषलग्नजातस्य शुक्रदशाफलं एवमन्येष्वपि वक्तव्यं किन्तु द्रेष्काणवशाच्छुभायां लग्नदशायां शुभफलमशुभायामशुमम् मिश्रायामुभयमपि। अथ ये पूर्वं दशारिष्टा उक्तास्तेषामिमे भङ्गाः प्रोक्ताः तथा च सारावल्याम् “प्रवेशे बलवान् खेटः शुभैर्वा संनिरीक्षितः। सौम्याधि- मित्रवर्गस्थो मृत्युकृत् न भवेत् तदा। अन्तर्दशाधिनाथस्य विबलस्य दशा यदा। वलिनः स्यात् तदा भङ्गो न बाध्या तस्य च ध्रुवम्। युद्धे च विजयी तस्मिन् ग्रहयोगे शुभो यदि। दशायां न भवेत् कष्टं स्वोच्चादिषु च संश्रिते इति” १९ भट्टो०।

“संज्ञाध्याये यस्य यद्द्रव्यमुक्तं कर्माजीवो यश्च यस्योपदिष्टः। भावस्थानालोकयोगोद्भवञ्च तत्तत्सर्वं तस्य योज्यं दशायाम्” २० मू०।

“अथान्येपामपि फलानां दशास्वतिदेशं मालिन्याह संज्ञाध्याये इति। यस्य ग्रहस्यं संज्ञाध्याये यद्द्रव्यम् “ताम्रं स्यान्मणिहेमेत्यादिना, ग्रन्थेनोक्तं कथितं तस्य तद्द्रव्यस्य शुभदशायां प्राप्तिः योज्या अशुभदशायां हानिः। यश्च कर्माजीवो यस्य ग्रहोपदिष्टो जातकेऽभिहितः “अर्थाप्तिः पितृपत्नीत्यादि तस्य ग्रहदत्तस्य कर्माजीवस्य तदन्तर्दशायामेवाप्तिर्भविष्यति। भावफलं वक्ष्यति “शूरस्तब्ध” इत्यादि स्थानफलं राशिफलं “प्रथितश्चतुरोऽटन” इत्यादि तथा “मेषे सस्वस्तिमिरनयन” इत्यादि। आलोकनफलं दृष्टिफलम् “चन्द्रे भूपबुधौ” इत्यादि योगोद्भवं नाभसयोगानुक्त्वा “सर्वयोगेषु योगकर्तृभ्यो ग्रहेभ्यो मध्याद् यो बलीयान् स स्वदशायामेव फलं ददाति” नाभसयोगाः सकलदशास्वपि फलप्रदाः वक्ष्यति च “इति निगदिता योगाः सार्द्धं फलैरिह नाभसाः नियतफलदाश्चिन्त्या ह्येते समस्तदशास्वपीति”। एवमादि यद् यदुक्तं तत्सर्वं निरवशेषं तस्य ग्रहस्य दशायां योज्यमिति” २० भट्टो०।

“छायां महाभूतकृताञ्च सर्वेऽभिव्यञ्जयन्ति स्वदशामवाप्य। क्वम्ब्वग्निवाय्वम्बरजान् गुणांश्च नासास्यदृक् त्वक्श्रवणानुमेयान्” २१ मू०।

“अथ यस्य जातकमपि न गणितं तस्य शरीरच्छायां दृष्ट्वा ग्रहदशाज्ञानमिन्द्रवज्रयाह छायां महाभूतकृतामिति पूर्वमुक्तम् “शिखिभूखपयोमरुद्गणानां वशिनो भूमिसुतादयः क्रमेणेति” तत्रादित्यचन्द्रौ वह्न्यम्बुप्रसिद्धावेव यः कश्चिद्गहः स्वदशामात्मीयदशामवाप्य महाभूतकृतां छायां अभिव्यञ्जयति प्रकटीकरोति छायाशब्देन शरीरशोभाभिधीयते शरीरकान्तिरित्यर्थः तथा च सच्छायोऽयं विच्छायोऽयं वर्त्तत इत्यभिधीयते एवमात्मीयदशायां पृथिव्यादिमहाभूतकृतां शरीरच्छायां व्यञ्जयति प्रकटीकरोति सा च क्वम्बुग्निवाय्वम्बरजान् गुणान् कुः पृथिवी अम्बुर्वरुणः अग्निः हुताशनः वायुः अनिलः अम्बरम् आकाशम् एभ्यो जातोत्पन्ना सा छाया तद्गुणान् करोति तांश्च यथासंख्यं नासास्य दृक्त्वक्श्रवणानुमेयान्। पार्थिवी पार्थिवं गुणं गन्धमभिव्यञ्जयति नासानुमेयं घ्राणेनोपलभ्यते आप्या आप्यं गुणं रसमभिव्यञ्जयति तच्चास्यानुमेयम् आस्यंशब्देनेह जिह्वा ज्ञेया तया रसस्योपलब्धेः आस्यग्रहणं चात्र वृत्तानुरोधात् कृतम्, आग्नेयी आग्नेयं गुणं रूपमभिव्यञ्जयति दृष्ठ्यनुमेयं, वायवी वायव्यं स्पर्शं गुणमभिव्यञ्जयति त्वगनुमेयं स्पर्शेनोपलभ्यते नाभसी नाभसं गुणं शब्दभभिव्यञ्जयति श्रवणानुमेयं कर्णोपलभ्यम्। एतदुक्तं भवति यदा शुभगन्धः पुरुषो भवति तदास्य बुधकृता पार्थवीच्छायाज्ञेया। यदा मिष्टरसभोजी भवति तदास्य चन्द्रशुक्रकृताप्या छाया ज्ञेया। यदातीवरूपवान् सुकान्तः पुरुषो भवति तदा सूर्यभौमकृता आग्नेयी छाया ज्ञेया। यदा स्पर्शेन मृदुर्भवति तदा शनैश्चरकृता वायवी छाया ज्ञेया। यदास्य वचनं कर्णयोः सुखकरं भवति तदा जीवकृता नाभसी छाया ज्ञेया। छायाविशेषलक्षणमाचार्य्येण संहितायामभिहितम् तथा च “छाया शुभाशुभफलानि निवेदयन्ती लक्ष्या मनुष्यपशुपक्षिषु लक्षणज्ञैः। तेजो गुणान् बहिरपि प्रविकाशयन्ती दीपप्रभा स्फटिकरत्नघटस्थितेव। स्निग्धद्विजत्वङ्नखरोमकेशा छाया सुगग्धा च महीसमुत्था। तुष्ट्यर्थलाभाव्युदयान् करोति धर्मस्य चाहन्यहनि प्रवृत्तिम्। स्निग्धा सिता च हरिता नयनाभिरामा सौभाग्यमार्दवसुखाभ्युदयान् करोति। सर्वार्थसिद्धिजननी जननीव चाप्या छायाफलं तनुभृतां शुभमाददाति। चण्डा धृष्या पद्महेमाग्निवर्णा युक्तं तेजो विक्रमैः सप्रतापैः। आग्नेयीति प्राणिनां स्याज्जयाय क्षिप्रं सिद्धिं वाञ्छितार्थस्य धत्ते। मलिनपरुषकृष्णा पापगन्धानिलोत्था जनयति बधबन्धं व्याध्यनर्थार्थनाशम्। स्फटिकसदृशरूपा भाग्ययुक्तात्युदारा निधिरिव गगनोत्था श्रेयसां स्वच्छवर्णा” २१ भट्टो०।

“शुभफलददशायां तादृगेवान्तरात्मा(ख्या) बहु जनयति पुंसां सौख्यमर्थागमं च। कथितफलविपाकैस्तर्कयेद्वर्त्तमानां परिणमति फलाप्तिः स्वप्नचिन्तास्ववीर्य्यैः” २२ मू०

“अत्र च वायवीं छायां वर्जयित्वा सर्वास्वेव छायासु अशुभं शुभं च फलं तत्कथम् शुभफलेयमशुभफलेयमिति तद्दशा ज्ञायते तत्संज्ञानमन्तरात्मनः स्वरूप मालिन्याह शुभफलदेति शुभं फलं ददाति यः स शुभफलदः शुभफलदस्य ग्रहस्य या दशा तस्याम् अन्तरात्मा स्वदेहस्थः परमात्मा चित्स्वरूपः तादृगेव शुभो भवति। तस्य च पुरुषस्य छायादर्शितग्रहदशाकाले बहुविधमनेकप्रकारं सौख्यं सुखभावमर्थागमं धनलाभं च जनयत्युत्पादयति अर्थादेवाशुभदशायां पुरुषस्यान्तरात्माप्यशुभो भवति तत्र दर्शितग्रहछाया सूचिता तादृगेव फलदा सा चासौख्यमनर्थागमञ्च बहुप्रकारं जनयति मिश्रायां मिश्रा च। यात्राथाञ्च वक्ष्यति “निमित्तानुचरं सूक्ष्मं देहेन्द्रियमहत्तरम्। तेजो ह्येतच्छरीरस्थं त्रिकालफलवन्नॄणाम्। प्रीतये न मनो नार्थेनासिद्धावभिनन्दति। तस्मात् सर्वात्मना यातुरनुमेयं यथा मनः। शुभाशुभानि सर्वाणि निमित्तानि स्युरेकतः। एकतश्च मनःशुद्धिस्तद्विशुद्धिर्जयावहा” इति कथितफलविपाकैरिति ग्रहाणां दशासु यानि फलानि शुभान्यशुभानि कथितान्युक्तानि तानि यः पुरुषो भुङ्क्ते तस्य पुरुरुषस्य तद्ग्रहदशा वर्त्तते इति ज्ञेयम् एतदुक्तं भवति यादृशं फलं शुभमशुभं वा पुरुषस्योपलभ्यते तच्च यस्य ग्रहस्य दशायां पठितं सा तस्य दशा नरस्य वर्त्तत इति ज्ञेयम्। एवं वर्त्तमानां दशान्तर्कयेल्लक्षयेदित्यर्थः। एवं छायावशेनान्तरात्मवशेन फलपक्तिवशेन वा गणितस्य जातकस्य वर्त्तमानां दशां वदेत्। यथा सौरदशायामशुभायां व्यङ्गत्वमुक्तं न च शुभायामथ नैकध्यं व्यङ्गत्वं दृष्टम्। शुक्रदशायां शुभायां निधिप्राप्तिरुक्ता न च सापि दृष्टा। तदर्थमाह परिणमति फलाप्तिरिति अवीर्य्यैः बलहीनैः ग्रहैः फलानि यानि शुभान्थशुभानि वा दत्तानि तत्फलाप्तिः फलप्राप्तिः स्वप्ने स्वप्नावस्थायां परिणमत्यनुभूयते चिन्तायां मनोरथेन वेति। केचित्तु “शुभफलददशायां तादृगेवान्तराख्येति पठित्वैवं व्याचक्षते यथा शुभायां दशायामन्तराख्यान्तर्दशा शुभापि भवति तदा पुंसां बहु जनयति सौख्यमर्थागममिति अर्थादेवाशुभायां दशायामशुभान्तर्दशा असौख्यमनर्थागमञ्च बहु जनयतीति” अनेन व्याख्यानेन शुभायामशुभायाञ्च शुभाशुभानि भवन्ति मिश्रफलं प्रयच्छन्ति। न चैतदिष्यते यस्मादुक्तम् “एकर्क्षगोऽर्द्धमपहृत्य ददाति तु स्वमिति” अत्र दशापतेः फलमपहृत्यान्तर्दशापतिरेव स्वं फलं ददातीति ज्ञेयम् अन्यथापहृत्येति निरर्थकं स्यादिति तस्मात् पूर्वपाठः श्रेयान् द्वितीयः प्रमादपाठः। पनाहृपाठेन विना छायां दृष्टाया दशायाः शुभाशुभत्वमानेतुं न शक्यत इति” २२ भट्टोत्पलकृतं तद्व्याख्यानम्।

“एकग्रहस्य सदृशे फलयोर्विरोधे नाशं वदेद् यदधिकं परिपच्यते तत्। नान्यो ग्रहः सदृशमन्यफलं हिनस्ति स्वां स्वा दशामुपगताः स्वफलप्रदाः स्युः” २३ मू०।

“अथैकग्रहदत्तयोः फलयोः सदृशयोर्नाशो भवति भिन्नदत्तानां बहूनामपि पक्तिरेव भवतीत्येतद्वसन्ततिलकेनाह एकग्रहस्येति सर्वाण्येव फलानि नाभसवर्जं स्वदशायां ग्रहः प्रयच्छतीत्युक्तम् तत्रैकेन ग्रहेण यदा सदृशं विरुद्धं फलद्वयं दत्तं भवति तस्मिन् सदृशे तुल्ये द्वयोः फलयोर्विरोधे सति नाशो भवतीति तस्य फलद्वयस्य वदेद्व्रूयात् कीदृशं तद्विरुद्धमित्यत्रोच्यते यथा कश्चिद्ग्रहः कयापि युक्त्या दशाफलादिना सुवर्णदो भवति स एवान्यया युक्त्या अष्टवर्गफलयोगफलदृष्टिफलभावफलानामन्यतमेन सुवर्णापहारी भवति तदा फलद्वयेऽपि सुवर्णसम्बन्धोऽस्ति इति सादृश्यं स्वर्णदानापहारेणेति विरोधः। एवमेकस्य ग्रहस्य सदृशे फलयोः विरोधे नाशं वदेत् न सुवर्णलाभो न चापहानिरिति यदधिकं परिपच्यते तत एकेनापि ग्रहेण फलद्वयं दत्तमन्यरूपं तयोः मध्याद्यदधिकं तत्परिपच्यते। यथा कश्चिद्ग्रहो निर्दिष्टप्रकारद्वयेन सुवर्णदः स एव प्रकारेणैकेन सुवर्णापहारी तदा द्वयोरधिकत्वात्तद्दानस्य सुवर्णं ददात्येव नापहरति। अथ वा प्रकारद्वयेन सुवर्णापहारीप्रकारेणैकेन सुवर्णदस्तदापहरणस्याधिकत्वादपहरत्येव। अथवा सुवर्णापहारी रूप्यदश्च तथापि द्वे असदृशे असदृशत्वादधिकं परिपच्यते सुवर्णापहारी रूप्यदश्च भवति इति कश्चित् नान्यो ग्रह इति अन्येन ग्रहेण दत्तं सदृशं विरोध्यपि फलं नान्यो ग्रहोऽपि हिनस्त्यपहरति यथा कश्चिद्ग्रहः सुवर्णदो भवत्यन्यश्च सुवर्णापहारी तदा तत्र सुवर्णदः स्वदशायां सुवर्णं ददाति स्वदशायां सुवर्णापहारी चापहरति अनेनैतदुक्तं भवति। यथैकग्रहस्य सदृशफलयोः विरोवे समग्रजन्मान्तरेऽपि फलनाशं वदेत् अन्यत्र विरुद्धयोरपि फलयोः नाशं न वदेत् यतः सुवर्णदो ग्रहः स्वामात्मीयां दशामुपगतः प्राप्तः सुवर्णलाभं करोति सुवर्णापहारी स्वदशामुपगतः प्राप्तः सुवर्णमपहरति एतदष्टकवर्गफलं विनाशयतस्तत्रैकस्य ग्रहस्य फलसदृशयोरपि तुल्यसंख्ययोः फलयोर्नाशी भविष्यति यथा च भविष्यति तथा तत्रैव प्रतिपादपि ष्यामः इति” २३ भट्टो० ताजकीक्तवर्षदशा हीनांशदशाख्या तु नील० उक्ता यथा

अथ दशाक्रमः “स्पष्टान् सलग्नान् खचरान् विधाय राशीन् विनाऽत्यल्पलवं तु पूर्वम्। निवेश्य तस्मादधिकाधिकांशं क्रमादयं स्यात् तु दशाक्रभोऽव्दे। ऊनं विशोध्याधिकतः क्रमेणांशाद्यं विशुद्धांशकशेषकैक्यम्। सर्वाधिकांशोन्मितमेव तत् स्यादनेन वर्षस्य मितिस्तु भाज्या। शुद्धांशकांस्तान् गुणयेदनेन लब्धं ध्रुवाङ्केन भवेद्दशायाः। मानं दिनाद्यं खलु तद्ग्रहस्य फलान्यथै षां निगदेत्तु शास्त्रात्। शुद्धांशसाम्ये बलिनो दशाद्या बलस्य साम्येऽल्पगतेऽस्तु पूर्वा। साग्ये विलग्नस्य बलेन चिन्त्यं बलादिकं लग्नपतेर्विचिन्त्यम्”। तत्फलादिकं “दशा रवेः पूर्णबलस्य दत्ते” इत्यादिना तत्रोक्तं दृश्यम्। पाश्चात्त्यैः वर्षकाले मुद्दा दशा व्यवह्रियते सा तु “वर्षोन्मितिर्जन्मभसंयुताङ्कहृता क्रमेण रवितो दिनानि। विंशोत्तरीयानुसृतेस्तु वर्षाः वर्षप्रवेशात् त्रिगुणा दशाः स्युः” यथा रवेः षड्वर्षाः त्रिगुणिताः १८ दिनानि। एवं विषोः १० वर्षा वर्षे ३० दिनानि। कुजस्य ७ वर्षा वर्षे २१ दिनानि। राहोः १८ वर्षा वर्षे ५४ दिनानि। गुरोः १६ वर्षा वर्षे ४८ दिनानि। शनेः १९ वर्षा वर्षे ५७ दिनानि। बुधस्य १७ षर्षा वर्षे ५१ दिनानि। केतोः ७ वर्षा वर्षे २१ दिनानि। शुक्रस्य २० वर्षा वर्षे ६० दिनानि। एवं ३६० दिनानीति बोध्यम्। जातकरत्ने तु दशविधा दशा उक्ता १ योगिनी २ वार्षिकी ३ नाक्षत्रिकी ४ साग्निकी ५ मुद्दा ६ विंशोत्तरा ७ त्रिंशोत्तरा ८ पताकी ९ हंरगौरी १० दैनिकीति। तत्रैव तद्विशेषो बोध्यो विस्तरभयादिह तदानयनादिकं नोक्तम्। “सत्ये लग्नदशा चैव त्रेतायां हरगौरिका। द्वापरे योगिनी चैव कलौ नाक्षत्रिकी दशा” इति समयामृतम् वराहस्तु वृहज्जातके एतदनादुत्यैव कलौ लाग्निकी दशा दर्शितेति बोध्यम्। अन्तर्दशाशब्दे विंशोत्तरीयदशान्तर्दशा नयने “स्वदशाभिर्दशां हत्वा दशभिर्भागमाहरेदित्येव पाठः। तत्र बसुभिरित्यप पाठो बोध्यः।विंशोत्तरीयान्तर्दशाचक्रम्।महादशावर्षाः र ६ च ७ म १० स्व०। ३१८ स्व० १०। ० स्व० ४। २७ च० ६। म० ७। ० रा १। ० १८ म० ४। ६ रा १। ६। ० जी०। ११। ६ रा० १०। २४ जी १। ४। ० श १। १। ९ जी० ९। १८ श १। ७। ० बु० ११। २७ श० ११। १२ बु १। ५। ० के ४। २७ बु० १०। ६ के०। ७। ० शु १। २ के० ४। ६ शु १। ८। ० र० ४। ६ शु१। ०। ० र०। ६० च०। ७।समष्टिवर्षाः ६ १० ७ महादशावर्षाः रा १८ जी १६ श १९ स्व २। ८। १२ स्व २। १। १८ स्व ३०। ३ जी २। ४। २४ श २। ६। १२ बु २। ८। ९ श २। १०। ६ बु २। ३। ६ के १। १। ९ बु२। ६। १८ के० ११। ६ शु ३। २। ० के१। ०१८ शु २। ८। र० ११। १२ शु ३। ०। ० र०। ९। १८ च १। ७। ० र० १०। ० च १। ४। म १। १। ९ च १। ६। ० म०। ११। ६ रा २। १०। ६ व१। ० १८ रा २। ४। २४ जी २। ६। १२ समष्टिवर्षाः १८ १६ १९ महादशावर्षाः बु १७ के ७ शु २० स्व० २। ४। २७ स्व०। ४। २७ स्व३। ४। के०११। २७ शु १। २। र १। ०। ० शु २। १०। ० र०। ४। ६ च १। ८। र० १०६ च १। ५। ० म १। २। च१। ५। ० म०। ४। २७ रा ३। ०। ० म० ११। २७ रा १। ०। १८ जी २। ८। ० रा२। ६। १८ जी०। ११। ६ श ३। २। जी २। ३। ६ श १। १९। ९ बु २। १०। ० श २। ८। ९ बु ११। २७ के १। २ समष्टिवर्षाः १७ ७ २० अष्टोत्तरीयान्तर्दशामानं ज्योतिस्तत्त्वेऽस्तीति नात्र प्रदर्शितम्।पूर्वमनुक्तत्वात् योगिन्यामन्तर्दशाचक्रमत्र प्रदर्श्यते योगिन्यन्तर्दशाचक्रम्।महादशावर्षाः म १। पि २। ध ३। भ्रा ४। भ ५। उ ६। सि ७। स ८।अन्तर्दशामानम्। म १०। पि १। १० ध ३। भ्रा ५। १० भ ८। १० उ १। ३ सि १। ४। १० स १। ९। १० पि २० ध २। ० भ्रा ४। भ ६। २० उ १०। सि १। २ स १। ६। २० म। २। २० ध १। ० भ्रा २। २० भ ५ उ ८। सि ११। २० स १। ४ म० २। १० पि। ५। १० भ्रा १। १० भ ३। १० उ ६ सि ९। १० स १। १। १० म। २। पि० ४। २० ध। ८। ० म १। २० उ ४। सि ७ स १०। २० म। १। २० पि। ४। ध। ७। भ्रा। १०। २० उ २। सि ४। २० स ८ म १। १० पि। ३। १० ध। ६। भ्रा ९। १० भ १। १। १० सि २। १० स ५। १० म १। पि २। २० ध। ५। भ्रा। ८। भ ११। २० उ १। ४० स २। २० म। २० पि २। ध ४ भ्रा। ६। २ भ। १०। ७१। २। सि १। ६। २० समष्टिवर्षाः १। २। ३। ४। ५। ६। ७। ८।

***