वाचस्पत्यम्
दत to दत्त
links:
Menu अ–ह
Prev दण्डक–दण्ड्य
Next दत्ता–दन
दत
दत्तशत्रु
UpasanaYoga
.org

दत् = पु० दन्त + पृषो०। १ दन्ते शब्दरत्ना०। “दत् दतौ दतः नासाकर्ण्णदतो भङ्गे” मनुः। दन्तशब्दस्यैव रूपमित्येके दन्तशब्दस्य शसादौ दत आदेशे तत्सिद्धेः शुद्धादेः परतः दन्तस्य तु दत्रादेशे “शुद्ददन् लोलकुण्डलः” भट्टिः। “सुदतीजनमज्जनार्तितेः” नैष०।

दत्त = त्रि० दा–कर्म्मणि क्त। १ त्यक्ते कृतदाने उत्सृष्टे “स्वहस्तदत्ते मुनिमासने मुनिम्” माघः। दत्तं च सप्तविधं दत्ताप्रदानिकशब्दे वक्ष्यते। २ अत्रेरनसूयागर्भजाते दत्तात्रेयापरनामके विष्ण्ववताररूपे पुत्रभेदे पु०। आत्रेयशब्दे ३९२ पृ० तत्सम्भवकथा दृश्या “कपिली नारदो दत्तो योगेशाः सनकादयः” भाग० ४। १९। ६। ३ अग्निसिंहमन्दने जिनभेदे हेमच०। ४ सात्वतवंश्ये भजमानान्वयजे राजाधिदेवस्य पुत्रभेदे। “राजाधिदेवस्य सुता जज्ञिरे वीर्य्यवत्तराः। दत्तातिदत्तौ बलिनौ शोणाश्वः श्वेतवाहनः। शमी च दत्तशर्म्मा च दत्तशत्रुश्च शत्रुजित्। श्रवणा च श्रविष्ठा च स्वसारौ सम्बभूवतुः” हरिवं० ३९ अ०। भावे क्त। ५ दाने न० “दत्तभुक्तफलं धनम्” दायभा० भारतवाक्यम्। “शरणागतसंत्राणं भूतानां चाप्यहिंसनम्। बहिर्वेदि च यद्दानं दत्तमित्यभिधीयते” भा० शा० उक्ते ६ शरणागतादित्रिके अत्र दण्डमिति लिपिकरप्रमादपाठदर्शनात् शब्दकल्पद्रुमे दण्डशब्दस्य शरणागतत्राणाद्यर्थकतोक्ता तद्दृष्ट्वैवास्माभिः दण्डशब्दस्य तदर्थकता पागुक्ता प्रमादकृतैव अर्थपर्य्यालोचनया तत्र “दत्तमित्यभिधीयते” इति पाठस्यैव समुचितत्वात् द्वादशपुत्रान्तर्गते ७ गौणपुत्रभेदे। स च कलियुगेऽपि कर्तुं शक्यते “दत्तौरसेतरेषान्तु पुत्रत्वेन परिग्रहः” कलिवर्ज्ज्ये आदित्यपु० “दत्तपदं कृत्रिमस्याप्युपलक्षणं “औरसः क्षेत्रजस्यैव दत्तः कृत्रिम एव च” कलिधर्म्मे पराशरः इति दत्तकमीमा०। अन्यैस्तु क्षेत्रजपदस्य औरसविशेषणत्वं कृत्रिमपदस्य दत्तकविशेषणत्वं मत्वा द्वयोरेव कलौ पुत्रत्वमिति व्यवस्थापितम्। स्वार्थे क। तत्रार्थे। तल्लक्षणं याज्ञव० “दद्यान्माता पिता वा यं स पुत्रो दत्तको भवेत्” मनुरपि “माता पिता वा दद्यातां यमद्भिः पुत्रमापदि। सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्रिमः सुतः” इति। “आपद्ग्रहणादनापदि न देयो दातुरयं प्रतिषेधस्तथा एकः पुत्रो न देयः “न त्वेवैकं पुत्रं दद्यात् प्रतिगृह्णीयाद्वेति” वसिष्ठस्मरणात्। तथानेकपुत्रसद्भावेऽपि ज्येष्ठो न देयः। “ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः” इति तस्यैव पुत्रकार्य्यकरणे मुख्यत्वात्” मिता०। अथ दत्तकग्रहणाधिकारादिकं दत्तकचन्द्रिकायां दर्शितं तच्चेह प्रदर्श्यते।

मनुः “अपुत्रेण सुतः कार्य्यो यादृक्तादृक् प्रयत्नतः। पिण्डोदकक्रियाहेतोर्नामसंकीर्त्तनाय च।” अत्रिश्च “अपुत्रेणैव कर्त्तव्यः पुत्रप्रतिनिधिः सदा। पिण्डोदकक्रियाहेतोर्यस्मात्तस्मात् प्रयत्नतः”। अपुत्रेण अजातपुत्रेण मृतपुत्रेण वा। “अपुत्रो मृतपुत्रो वा पुत्रार्थं समुपोष्य च” इति शौनकसंवादात्। तेन पुत्रोत्पत्त्या “ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः। पितॄणामनृणश्चैव स तस्माल्लब्धुमर्हतीति” मनुवचनावगते ऋण- परीहारेऽपि तत्पुत्रमरणे पिण्डोदकाद्यर्थं पुनः पुत्रकरणमावश्यकम्। अत्र पुत्रपदं पौत्रप्रपौत्रयोरप्युपलक्षणम् तयोरपि पिण्डदातृत्ववंशकरत्वाविशेषात्। अन्यथा सत्यपि पौत्रे मृतपुत्रस्य निर्निमित्तपुत्रपरिग्रहापत्तिः अतः पुत्रपौत्रप्रपौत्ररहितस्यैव पुत्रीकरणमवगम्यते। अपुत्रेणेत्यत्र पुंस्त्रैकत्वयोर्विधेयविशेषणतया विवक्षितत्वम् तेन द्वाभ्यां त्रिभिर्वा नैकः प्रतिग्राह्य इति तु न देश्यं द्व्यामुष्यायणस्य द्वाभ्यां परिग्रहस्य वक्ष्यमाणत्वात्। स्त्रिंयाश्च भर्त्तुरनुज्ञया तदधिकारात्। यथाह वशिंष्ठः “न तु स्त्री पुत्रं दद्यात् प्रतिगृह्णीयाद्वान्यत्रानुज्ञानाद्भर्तुरिति”। प्रतिनिधिरिति। स च क्षेत्रजादिरेकादशविधः। यथाह मनुः “क्षेत्रजादीन् सुतानेतानेकादश यथोदितान्। पुत्रप्रति निधीनाहुः क्रियालोपान्मनीषिणः”। वृहस्पतिः “पुत्रास्त्रयोदश प्रोक्ता मनुना येऽनुपूर्वशः। सन्तानकारणन्तेषामौरसः पुत्रिका तथा। आज्यं विना यथा तैलं सद्भिः प्रतिनिधीकृतम्। तथैकादश पुत्रास्तु पुत्रिकौरसयोर्विना”। तत्रापि कलौ न सर्वेषामभ्यनुज्ञानम्। “अनेकधा कृताः पुत्रा ऋषिभिर्ये पुरातनैः। न शक्यन्तेऽधुना कर्तुं शक्तिहीनैरिदन्तनैरिति” वचनात्। “दत्तौरसेतरेषान्तु पुत्रत्वेन परिग्रहः” इत्याद्यभिधाय “इमान् धर्म्मान् कलियुगे वर्ज्ज्यानाहुर्म्मणीषिण” इति दत्तकेतरप्रतिनिधिनिषेधात् अतो दत्तकविधिर्विवेच्यते। तत्र शौनकः। “ब्राह्मणानां सपिण्डेषु कर्त्तव्यः पुत्रसंग्रहः। तदभावेऽसपिण्डे वा अन्यत्र तु न कारयेत्”। सपिण्डेष्विति सामान्यश्रवणात् समानासमानगोत्रेष्वित्यर्थः। तथाच सपिण्डाभावे असपिण्डः सगोत्रस्तदभावे भिन्नगोत्रोऽपि ग्राह्य इत्याह शाकलः “सपिण्डापत्यकञ्चैव सगोत्रजमथापि वा। अपुत्रको द्विजो यस्मात् पुत्रत्वे परिकल्पयेत्। समानगोत्रजाभावे पालयेदन्यगोत्रजम्। दौहित्रं भागिनेयञ्च मातृस्वसृसुतं विना” इति। “अन्यत्र तु न कारयेदिति” ब्राह्मणातिरिक्तः क्षत्त्रियादिरसमानजातीयो दत्तको व्यावर्त्त्यते” यदाह मनुः। “माता पिता वा दद्यातां यमद्भिः पुत्रमापदि। सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्त्रिमः सुतः”। आपदि पुत्रप्रतिग्रहीतुरपुत्रत्वे सदृशं सजातीयम्। यत्तु “सदृशं न जातितः किन्तु कुलानुरूपैर्गुणैस्तेन क्षत्रियादिरपि ब्राह्मणस्य पुत्रो युज्यते” इति मेधातिथिव्याख्यानम्। तत्रायमभिसन्धिः औरसासत्त्वे क्षत्त्रियादेरसमानजातीयतया पिण्डोदकाद्यनर्हत्वेऽपि नामसंकीर्त्तनादिप्रयोजनकतया पुत्रत्वमुत्पद्यते एव शास्त्रीयत्वात् परन्त्वल्पोपकारतया ग्रासाच्छादनमात्रभागित्वं यदाह कात्यायनः “असवर्णास्तु ग्रासाच्छादनभागिन” इति। तथा शौनकः “यदि स्यादन्यजातीयो गृहीतोऽपि सुतः क्वचित्। अंश भाजं न तं कुर्य्याच्चौनकस्य मतं हि तत्।” याज्ञवल्क्येनाऽपि पिण्डदोऽंशहरश्चैषां पूर्व्वाभावे परः परः। सजातीयेष्वयं प्रोक्तस्तनयेषु मयाविधिः”। सजातीयस्य पिण्डदातृत्वांशहरत्वे विहिते न तु विजातीयस्य पुत्रत्वं निषिद्धम् व्यक्तमाह वृद्धयाज्ञवल्क्यः “सजातीयः सुतो ग्राह्यः पिण्डदाता स रिक्थभाक्। तदभावे विजातीयो वंशमात्रकरः स्मृतः “ग्रासाच्छादनमात्रन्तु स लभेत तदृक्थिन” इति। वस्तुतस्तु मुनिवचने सदृशपदस्य सजातोयार्थकतैव युक्ता परत्र तादृशदत्तकस्य विभागदर्शनात् असवर्णस्य च विभागासम्भवात्। “दौहित्रो भागिनेयश्चेति” दौहित्रभागिनेयनिषेधः शूद्रातिरिक्तविषयः तथा च शौनकः “क्षत्रियाणां सजातौ च गुरुगोत्रसमेऽपि वा। वैश्यानां वैश्यजातेषु शूद्राणां शूद्रजातिषु। सर्वेषामेव वर्णानां जातिष्वेव न चान्यतः। दौहित्रो भागिनेयश्च शूद्रैस्तु क्रियते सुतः। ब्राह्मणादित्रये नास्ति भागिनेयः सुतः क्वचित्”। गुरुगोत्रसमेऽपि वेति क्षत्रियाणां प्रातिस्विकगोत्राभावात् गुरुगोत्रनिर्देशः “पौरोहित्यान् राजन्यविशां प्रवृणीते इति” सूत्रेण तस्य पुरोहितगोत्रभागित्वोक्तेः। जातिष्वेव नचान्यतं इति नियमः सजातीयसम्भवे विजातीयनिषेधार्थः अन्यथा प्रागुक्तकात्यायनविरोधः स्यात्। तत्रापि सन्निहितसपिण्डेषु सति भ्रातृसुते स एव पुत्रीकार्य्य इत्याह मनुः “सर्वेषामेकजातानामेकश्चेत् पुत्रवान् भवेत्। सर्वे ते तेन पुत्रेण पुत्रिणो मनुरब्रवीत्”। वृहस्पतिः “यद्येकजाता बहवो भ्रातरश्च सहोदराः। एकस्यापि सुते जाते सर्वे ते पुत्रिणः स्मृताः” इति। अत्र वचनद्वयेऽपि भ्रातृसुते पुत्रप्रतिनिधितया कथञ्चित् सम्भवति अन्यो न प्रतिनिधिः कार्य्य इत्यवगम्यते। न चापत्यमुत्पादयितव्यमिति नित्योह्ययं विधिः स यथा कथञ्चित् पालनीयस्तत्र भ्रातृव्ये पुत्रातिदेशेन तत्फलस्य पिण्डोदकादेरलोकतापरीहारस्य च सिद्धत्वेन न पुनस्तत्र प्रवृत्तिरत एवाकृतस्यैव भ्रातृपुत्रस्य पुत्रत्वम्। “अपुत्रस्य पितृव्यस्य तत्पुत्रो भ्रातृजो भवेत्। स एव तस्य कुर्वीत श्राद्धपिण्डोदकक्रियामिति” वृहत्पराशरस्मरणात्। तस्मिन् सति तु न दत्तकाद्युपदानमिति वाच्यम्। भ्रातृव्यस्य पुत्रातिदेशेनालोकतापरीहारादिसाधकत्वेऽपि नामसंकीर्त्तनोचितवंशकरत्वानुपपत्त्या तदर्थं तदुपादानस्यावश्यकत्वात्। किञ्च इदं हि वचनद्वयं सति भ्रातृपुत्रे न दत्तकाद्युपादाननिषेधकं परन्तु श्राद्धादिकर्तृत्वरूपपुत्रधर्म्मातिदेशकम् अन्यथा सत्यपि भ्रातृपुत्रे क्षेत्रजपुत्रोत्पादनविधिविरोधापत्तेः। “अकृता वा कृता वापि यं विन्देत् सदृशात् सुतम्। पौत्री मातामहस्तेन दद्यात् पिण्डं हरेद्धनमिति” वचने दौहित्रेऽपि पौत्रातिदेशसत्त्वात् दौहित्रसत्त्वेऽपि प्रागुक्तयुक्त्या दत्तकाद्यनुपादानप्रसङ्गाच्च। ननु सत्यपि भ्रातृपुत्रे दत्तकाद्युपादानस्य शास्त्रीयत्वे “बह्वीनामेकपत्नीनामेष एव विधिः स्मृत” इति वृहस्पतिवचने “सर्वासामेकपत्नीनामेका चेत् पुत्रिणी भवेत्” सर्वास्ता स्तेन पुत्रेण प्राह पुत्रवतीर्म्मनुरिति” मनुवचने च सपत्नीपुत्रे पुत्रधर्म्मातिदेशेन सत्यपि तस्मिन् दत्तकाद्यपादानमस्त्विति चेन्न यथा “तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा भवति वाजिभ्यो वाजिनम्” इत्यत्रामिक्षार्थं प्रवृत्तस्योद्देश्यीभूतामिक्षापचारे अमिक्षा पुरुषं प्रवर्त्तयति न तु वाजिनम् अनुद्देश्यत्वेनाप्रयोजकत्वात् यथा वा पितुः क्षयाहे पित्रादित्रिकस्य पार्वणे कृते मातामहादिश्राद्धाय न पुनः पार्वणारम्भः तस्य पितृश्राद्धाधीनप्रवृत्तेः तथात्रापि भर्तुरनुज्ञाशास्त्रेण तत्पुत्रोपादानाय प्रवृत्तायास्तत्पुत्राभाव एव तदुपादानं न तु तत्पुत्रानपचारेऽपि स्वपुत्रापचारे तदुपादानं तत्प्रवृत्तेरप्रयोजकत्वात् तत्रालोकतापरीहारोऽस्या न स्यादित्यपेक्षायां मनुवृहस्पतिवचनद्वयं सपत्नीपुत्रे पुत्रातिदेशेनालोकतापरीहारश्राद्धोपपादकं, भर्त्तृवंशमन्तरेण चास्या वंशान्तरासम्भवेन तस्यैव स्ववंशकरत्वं चेत्यतः समस्तस्यापि पुत्रप्रयोजनस्य सम्भवेन सति सपत्नीपुत्रे न दत्तकाद्युपादानं, भ्रातृपुत्रस्य तु वंशकरत्वाभावेन सत्यपि तस्मिन्नुपादीयन्ते दत्तकादय इत्येतावान् परं विशेषः। ननु सति भ्रातृसुते तस्यैव पुत्रीकरणावश्यम्भावे यत्रैक एव भ्रातृपुत्रस्तत्र तदसम्भवः। “नत्वेकं पुत्रं दद्यात् प्रतिगृह्णीयाद्वा स हि सन्तानाय पूर्वेषामिति” वशिष्ठस्मरणादिति चेन्न एतस्य द्व्यामुष्यायणेतरविषये सावकाशत्वात् द्व्यामुष्यायणे च हेतुवन्निगददर्शितसन्ततिविच्छेदाभावात् वेतालस्य च भैरवपुत्रपुत्रीकरणे पौराणिकलिङ्गदर्शनाच्च। यथा “ततः कदाचिदुर्वश्यां भैरवी मैथुनं गतः। तस्यां स जनयामास सुवेशं नाम पुत्रकम्। तमेव चक्रे तनयं वेतालोऽपि स्वकं सुतम्। ततस्तौ तेन पुत्रेण स्वर्ग्यां गतिमवापतुरिति”।

केन पुत्रो देय इत्याह शौनकः “नैकपुत्रेण कर्त्तव्यं पुत्रदानं कदाचन। बहुपुत्रेण कर्त्तव्यं पुत्रदानं प्रयत्नतः” इति। द्विपुत्रस्यापि पुत्रदाने अपरपुत्रनाशे वंशविच्छेदमाशङ्क्याह बहुपुत्रेणेति। स्त्रियास्तु जीवति भर्त्तरि तदनुमतौ, प्रोषिते मृते वा तदनुज्ञां विनापि यथाह वशिष्ठः। “न तु स्त्री पुत्रं दद्यात् प्रतिगृह्णीयाद्वा अन्यत्रानुज्ञानाद्भर्तुरिति”। अनुमतिश्च अप्रतिषेधेऽपि भवति “अप्रतिषिद्धिं परमत मनुमतं भवतीति” न्यायात्। निरपेक्षदानमाह याज्ञवल्क्यः “दद्यान्माता पिता वा यं स पुत्रो दत्तको भवेत्”। तथा। “मातापितृभ्यामुत्सृष्टस्तयोरन्यतरेण चेति”।

अथ पुत्रपरिग्रहविधिमाह शौनकः “शौनकोऽहं प्रवक्ष्यामि पुत्रसंग्रहमुत्तमम्। अपुत्रो मृतपुत्रो वा पुत्रार्थं समुपोष्य च। संग्रहं संग्रहणविधिम्। उपोष्य ग्रहणात् पूर्वदिने कृतोषवासः। वृद्धगोतमः “वाससी कुण्डले दत्त्वा उष्णीषञ्चाङ्गुलीयकम्। आचार्य्यं धर्म्मसंयुक्तं वैष्णवं वेदपारगम्। मधुपर्केण सम्पूज्य राजानञ्च द्विजान् शुचीन्”। राज्ञो विप्रकृष्टत्वे ग्रामस्वामिनम् “बन्धूनाहूय सर्वांस्तु ग्रामस्वामिनमेव च” इति स्मरणात्। द्विजानिति बहुत्वं त्रित्वपर्य्यवसितं कपिञ्जलन्यायात्। द्विजानां पूजनं याचनार्थम्। “वर्हिः कुशमयञ्चैव पालाशं चेध्ममेव च। एतानाहृत्य बन्धूंश्च ज्ञातीनाहूय यत्नतः। बन्धूनन्नेन सम्भोज्य ब्राह्मणांश्च विशेषतः। अग्न्याधानादिकं तत्र कृत्वाज्योत्पवनान्तकम्। दातुः समक्षं गत्वा च पुत्नं देहीति याचयेत्। दाने समर्थो दातास्मै “ये यज्ञनेति पञ्चभिः” (१)। दद्यादिति शेषः। बन्धूनात्ममातृपितृबन्धून्। ज्ञातीन् सपिण्डान्। तदाह्वानं दृष्टार्थम् बन्धूनाहूतान् ब्राह्मणान् पूर्ववृतान्। चकारात् आहूतान्, ज्ञातींश्च सम्भोज्येत्यर्थः। तथा “देवस्यत्वेति” (२) मन्त्रेण हस्ताभ्यां परिगृह्य च। अङ्गादङ्गेत्यृचं (३) जप्त्वा आघ्राय शिशुमूर्द्धनि। वस्त्रादिभिरलङ्कृत्य पुत्रच्छायावह सुतम्। पुत्रच्छाया पुत्रसादृश्यं नियोगादिना (४) स्वयमुत्पादनयोग्यत्वमिति यावत्। तथा “नृत्यनीतैश्च वाद्यैश्च स्वस्तिशब्दैश्च संयुतम्। गृहमध्ये तमाधाय चरुं कृत्वा विधानतः। यस्त्वाहृदेत्यृचा (५) चैव तुभ्यमग्रेत्यृचैकया (६)। सोमोऽदददित्येताभिः (७) प्रत्यृचं पञ्चभिस्तथेति”।

(अत्र प्रतीकसूचिताः ऋचः प्रायशोऽनेकेषां तत्स्वरूपाज्ञानात् तेषां प्रबोधाय वेदादुद्धृत्य प्रदर्श्यन्ते। (१) “ये यज्ञेन दक्षिणया समक्ता इन्द्रस्य सख्यममृतत्वमानश। तेभ्यो भद्रमङ्गिरसो वो अस्तु प्रतिगृभ्रीत मानवं सुमेधसः” ऋ० १०। ६२। १। “य उदाजन् पितरो गोमयं वस्वृतेनाभिन्दन् परिवत्सरे वलम्। दीर्घायुस्त्वमङ्गिरो वो अस्तु प्रतिगृभ्नीत मानवं सुमेधसः। २। य ऋतेन सूर्य्यमारोहयन् दिव्यप्रथयन् पृथिवीं सुप्रजास्त्वमङ्गिरसो वो अस्तु प्रतिगृभ्नीत मातरं सुमेधसः। ३। अयं नाभा वदति वल्गु वो गृहे देवपुत्रा ऋषयस्तच्छृणोतन। सुब्रह्मण्यमङ्गिरसो वो अस्तु प्रतिगृभ्नीत मानवं सुमेधसः। ४। विरूपास इदृषयस्त इद्गम्भीरवेपमः। ते अङ्गिरसः सूनवस्ते अग्नेः परिजज्ञिरे” ५। (२) “देवस्य त्वा सवितुः प्रसवेऽश्विनोर्वाहुभ्यां पुष्णो हस्ताभ्यां प्रतिगृह्णामि” यजु० १। २। (३) “अङ्गादङ्गं सम्भवसि ह्रदयादधिजायसे। आत्मा वै पुत्रनामासि संजीव शरदां शतम्”। (४) “नियोगादिनेति आदिना विवाहसंग्रहः। दुहितृभमिनीप्रभृतीनां विवाहयोग्यत्वाभावात् अर्थतएव तत्सिद्धौ विरुद्धसम्वन्धोपलक्षणार्थमित्युक्तिरपि विवाहयोग्यत्वाभावसूनार्थं शूद्रादेर्दौहित्रादिप्रतिसम्भवार्थञ्चातस्तेषां पृथग्ग्रहणमिति बोध्यम्)। (५) (“यस्त्वा हृदा कीरिणा मन्यमानोमर्त्वं मर्त्यो जीहवीमि। जातवेदो यशो अस्मासु धेहि प्रजाभिरग्ने अमृतत्वमानश” ऋ० ५। ४। १०। (६) “तुभ्यमग्रे पर्य्यवहन्त्सूर्य्यां वहतुना सह। पुनः पतिभ्यो जायां दा अग्ने! प्रजया सह” ऋ० १०। ८५। ३८। (७) “सोमोऽददद्रन्धर्वाय गन्धर्याऽदददग्नये। रयिं च पुत्रांश्चादादग्निर्मह्मथो इमाम्” ऋ० १०। ८५। ८१। “इहैव स्तं मा वि यौष्टं विश्वमायुर्व्यश्नुतम्। कीलन्तौ पुत्रैर्नप्तृभिर्मोदमानौ स्वे ग्दहे” ४२। “आ नः प्रजां जनयतु प्रजापतिराजरसाय समनक्त्रर्यमा। अदुर्मङ्गलीः पतिलोकमाविश शं नो भव द्विपदे शं चतुष्पदे” ४३ “अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाः सुवर्चाः। वीरसूर्देवकामा स्योना शं नो भव द्विपदे शं चतुष्पदे” ४४ “इमां त्वमिन्द्रसीढ्वः सुपुत्रां सुभगां कृणु। दशास्यां पुत्रानाधेहि पतिमेकादशं कृधि” ४५)। वृद्धगौतमः। “पायसं तत्र साज्यञ्च शतसङ्ख्यञ्च हामयेत्। “प्रजापते न (८) त्वदेतामित्युद्दिश्य प्रजापतिमिति”। (“प्रजापते न त्वदेतान्यन्यो विश्वा रूपाणि परिता बभूव। यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयोरयीणाम्” (८) यजु० १०। २०।) वशिष्ठः। “पुत्रं प्रतिग्रहीष्यन् बन्धूनाहूय राजनि निवेद्य निवेशनम्य सध्ये व्याहृतिभिर्हुत्वा अदूरबान्धवं बन्धुसन्निकृष्टमेव गृह्णीयात् सन्देहे चोत्पन्ने दूरबान्धवं शूद्रमिव स्थापयेत् विज्ञायते ह्येकेन बहुजायते इति”। (मुद्रितपुस्तके बहूंस्त्रायते इति पाठस्तु संहिताऽसंवादी अनन्वितश्चेत्युपेक्षितः। बहुस्त्रायते” मीमांसाधृतपाठः। एकेन पुत्रेण बहवः पित्रादयस्त्रायन्ते इति व्याख्याय विज्ञायते इत्यादि श्रुतिं मत्वा बहुरिति जसः स्थाने सुप् इति त्रायते इति वचनव्यत्ययः” मीमांसाशयः) निवेशनं गृहम्। सन्देहे इति दूरावस्थितबान्धवस्य अत्यन्तदेशभाषाविप्रकर्षादिना कुलशीलादिसन्देहो भवत्येव तथात्वे तन्निर्णयपर्य्यन्तं न व्यवहरेत् तत्र हेतुरेकेनेति। एतदन्यतरविधिरावश्यकः। ततश्च शौनकः “दक्षिणां गुरव दद्यात् यथा शक्ति द्विजोत्तमः। नृपो राज्यार्द्धमेवाथ वैश्यो वित्तशतत्रयम्। शूद्रः सर्वस्वमेवापि अशक्तश्चेद्यथाबलम्”। राज्यार्द्धमर्द्धराज्योत्पन्नमेकवर्षीयद्रव्यम्। “प्रदद्यादर्द्धराज्योत्थमेकवर्षाहृतं धनमिति” वृद्धगौतमस्मरणात्। उत्तममध्यमाधमभेदेन वित्तानां सुबर्णरजतताम्राणामिति ज्ञेयम्। “शतत्रयं नाणकानां सौवर्णमथ राजतम्। प्रदद्यात् ताम्रमथ वा उत्तमादिव्यवस्थयेति” वृद्धगौतमस्मरणात्। सर्वस्वमेकवर्षभृतिलब्धमिति यावत्। तैत्तिरीयाणान्तु विधिविशेषमाह बौधायनः “अथ पुत्रपरिग्रहविधिं व्याख्यास्यामः प्रतिग्रहीष्यन्नृपकल्पयते द्वेवाससी द्वे कुण्डले अङ्गुलीयकम्, आचार्य्यञ्च वेदपारगञ्च कुप्रमयं वर्हिः, पर्णमयमिघ्मसित्यथ बन्धूनाहूयनिवेशनस्य मध्ये राजनि निवेद्य परिषदि वागारमध्ये व्राह्मणवागालम्बेन उपविश्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वा यद्देवयजनोल्लेखप्रभृति आप्रणीताभ्यः कृत्वा दातुः समक्ष गत्वा मे पुत्रं देहीति भिक्षेत ददानीतीतर आहं तं परिगृह्णाति धर्म्माय त्वा परिगृह्णामि सन्तत्यै त्वा परिगृह्णामि इत्यथैनं वस्त्रकुण्डलादिभिरलङ्कृत्य परिधानप्रभृत्यग्निमुखं कृत्वा पक्त्वा जुहोति यस्त्वाहृदा कीरिणाः मन्यमान (९) इति” पुरोऽनुवाक्या मनूद्य “यस्मै त्वं सुकृते जातवेद” इति (१०) याज्यया जुहोत्यथ व्याहृतीर्हुत्वा स्विष्टिकृत्प्रभृति सिद्धमाधेनुवरप्रदानदक्षिणां ददाति एते च वाससी एते कुण्डले एतच्चाङ्गुरीयकं य एवं त्वौरस उत्पद्यते तुरीयभागे सम्भवतीति आह स्म वौधायनः” इति। (९) प्राग्वत् (१०) यस्मै त्वं सुकृते जातवेद उ लोकमग्ने! कृणवः स्योनम्। अश्विनं पुत्रिणं वीरन्तं गोमन्तं रयिं नशते स्वस्ति” ५। ४। ११)। एवसुक्तविध्यभावे परिगृहीतस्य तु विवाहोचितधनमात्रभागित्वं नत्वंशभागित्वमिति वक्ष्यते तथा मनुः। “गोत्ररिक्थे जनयितुर्न हरेद्दत्त्रिमः सुतः। गोत्ररिक्थानुगः पिण्डो व्यपैति ददतः स्वधेति। एतेन दातृधने दानादेव पुत्रत्वनिवृत्तिद्वारा दत्त्रिमस्य स्यत्वनिवृत्तिर्दातृगोत्रनिवृत्तिश्च भवतीत्युच्यते। तथा च गोत्रादिनिवृत्तेरेर्वदर्शनात् “संस्कुर्य्यात् स्वसुतान् पितेति” स्मरणात् ग्रहणानन्तरसम्भाव्यमाना एव दत्तकस्य संस्काराः प्रतिग्रहीत्रा कार्य्या न पुनर्जनकेन कृतपूर्वा अपि आवर्त्तनीयाः “एवमेनः शमं याति वीजगर्भसञ्चुद्भवमिति”। “चित्रं कर्म यथानेकैरङ्गैरुन्मील्यते शनैः। ब्राह्मण्यमपि तद्वत् स्यात् संस्कारैर्विधिपूर्वकैरिति” मनुवचनबोधितस्य तत्तत्क्रियातो वीजादिदोषनाशस्य ब्राह्मण्याधानस्य च जातत्वेन तदावृत्तौ प्रमाणाभावात्। अन्यथा “अष्टौ संस्कारकर्म्माणि गर्भाधानमिव स्वयम्। पिता कुर्य्यात्तदन्यो वा तस्याभावेऽपि तत्क्रमात्” इत्यनेन पुंसवनसीमन्तोन्नयनयोरपि करणापत्तेः। तच्चायुक्तं असाम्प्रदायिकत्वात्। किञ्च ग्रहणानन्तरमेव पितृत्वेन संस्काराधिकारात् तत्पूर्वभाविषु संस्कारेषु प्रतिग्रहीतुरनधिकार एवायाति कालाभावात्। यदि च तत्पूर्बभाविनोऽपि संस्कारा जनकेन न कृतास्तदा वीजगर्भदोषनाशावश्यकत्वेन क्रमानुरोधेन च प्रतिग्रहीत्रैव ते समाधेयाः। एवञ्च उपनयनमात्रकरणेऽपि प्रतिग्रहीतु- र्दत्तकपुत्रसिद्धिः। “अन्यशाखोद्भवो दत्तः पुत्रश्चैवोपनायितः। स्वगोत्रेण स्वशाखोक्तविधिना स स्वशाखभागिति” वशिष्ठस्मरणात्। एतच्चाष्टमाव्दरूपतन्मुख्यकालाभ्यन्तरवर्त्तिपरिग्रहे बोध्यम् अन्यथा मुख्यकालेऽधिकारयोग्यत्वाभावे गौणकाले अनधिकारान्न तत्सिद्धिरिति। अत्र च जनकप्रतिग्रहीत्रोरुभयोरपि पुत्राभिसन्धाने सति दत्तकस्य द्व्यामुष्यायणत्वेनोभयगोत्रभागित्वम्। विशेषो वक्ष्यते यत्तु पुराणनाम्ना पठन्ति। “पितुर्गोत्रेण यः पुत्रः संस्कृतः पृथिवीपते!। आचूडान्तं न पुत्रः स पुत्रतां याति चान्यतः। चूडाद्या यदि संस्कारा निजगोत्रेण वै कृताः। दत्ताद्यास्तनयास्ते स्युरन्यथा दास उच्यते। यदि स्यात् कृतसंस्कारो यदि वातीतशैशवः। ग्रहणे पञ्चमाद्वर्षात् पुत्रेष्टिं प्रथमं चरेदिति”। तदमूलम्। समूलत्वेऽपि यज्जनकगोत्रेण चूडान्तसंस्कारसंस्कृतस्य न ग्रहीतुः पुत्रत्वं ग्रहीत्रैव चूडादिसंस्कारकरणे तत्। यदि च कृतचूडोऽतीतपञ्चवर्षो वा ग्राह्यो भवति न तदास्य पुत्रत्वं सम्भवतीति च विवृण्वन्ति तन्न अनुवादापत्तेः। पञ्चवर्षाभ्यन्तरगृहीतस्याप्युपनयनात् पूर्वं सकलशिष्टानुमोदितपुत्रत्वव्यवहारानुपपत्तेः तदानीं ग्रहीतरि मृते तच्छाद्धानधिकारापत्तेश्च। किन्त्वयं वचनार्थः जनकगोत्रेण कृतचूडान्तसंस्कारस्य पुत्रत्वं निषिद्ध्य प्रतिग्रहीत्रा पुनश्चूडादिकरणे तत् प्रतिप्रसूतम्। ततश्च कृतसंस्कारस्यातीतपञ्चवर्षस्य च ग्रहीत्रा चूडादिकरणात् पूर्वं दासत्वाक्षेपात् चूडादिकरणानन्तरं पुत्रत्वं लब्धम्। अकृतसंस्कारस्यानतीतपञ्चवर्षस्य तु परिग्रहशास्त्रादेव तत्प्राप्तं तच्च विततम्। अथवा जनकेन चूडान्तं संस्कृतोऽपि पुत्रो न पुत्र इत्यपुत्रत्वादेशः यतोऽन्यतश्च पुत्रतां यातीति हेतुरुपदिष्टः। तथा च एकस्य पुत्रपदस्य चकारस्य च वैयर्थ्यदूषणमपि परिहृतम्। एवञ्च चूडाद्या इत्यतद्गुणसंविज्ञानबहुव्रीहिणा द्विजातीनामुपनयनलाभः शूद्रस्य तु विवाहलाभः। “अन्यशास्योद्भवो दत्तः पुत्रश्चैवोपनायितः। स्वगोत्रेण स्वशाखीक्तविधिना स स्वशाखभागिति” प्रागुक्तैकवाक्यत्वात्। पञ्चमाद्वर्षादिति। ब्रह्मवर्चसफलार्थिविप्राभिप्रायं “ब्रह्मवर्च्चसंकामस्य कार्य्यं विप्रस्य पञ्चमे) इति मनुवचने तत्कामस्य पञ्चमवर्षस्यैव उपनयनमुख्यकालत्वेन तदेकमूलत्वात्। तदनर्थिनस्त्वाष्टमाव्दादिति। क्षत्त्रियादेरप्युपनयनतत्त- न्मुख्यकालादरः। मुख्यकालेऽपि सिद्धाधिकारयोग्यत्वस्यैव गौणकालेऽपि संस्काराधिकारादित्युक्तप्रायम्। चूडायां गौणकालादरस्तु वचनबलादेव। पुत्रेष्टिमिति तत्र वर्णत्रयस्यैवाधिकारं तेन पुत्रेष्टिपूर्वकचूडादिभिः पुत्रत्वं सम्पाद्यम्। शूद्रेण तु तदापि संस्कारमात्रादेवेति सर्वमनवद्यम्।

एवञ्च सर्वेषामेव प्राचां कालविशेषमनन्तर्भाव्यैव पुत्रपरिग्रहविधानमुपपद्यते उक्तार्थस्य स्वतःसिद्धत्वात्। अथैवमुक्तवचनपरव्याख्याने कृतचूडस्य दत्तकस्य जनकमात्रपुत्रत्वं निषिध्य अन्यतश्च पुत्रत्वं यातीत्यत्र चकारेण जनकप्रतिग्रहीतृसाधारण्यं लब्धम् उभयोरेव संस्कारकत्वात् तच्च उभयोरावयोरयं पुत्र इत्थभिसन्धाने सति बोध्यम्। अयमेव द्व्यामुष्यायणो नाम द्विपितृको द्विगोत्रश्च। ननु क्षेत्रजस्यैव द्विपितृकत्वं दृश्यते। यथा हारीतः, “जीवति क्षेत्रजमाहुरस्वातन्त्र्यान्मृते द्व्यामुष्यायणं अगुप्तवीजत्वात्” जीवत्यपि क्रियाभ्युपगमाद्द्विपितृको भवतीत्याह मनुः, “क्रियाभ्युपगमात्त्वेवं वीजार्थं यत्प्रदीयते। तस्येह भागिनौ दृष्टौ वीजी क्षेत्रिक एव चेति”। अपुत्रवीजक्षेत्रिकयोर्मम क्षेत्रं तव वीजं यदपत्यं तदावयोरित्ययं क्रियाभ्युपगमः। तथा “अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः। उभयोरप्यसावृक्थी पिण्डदाता च धर्मतः” इति। दत्तकस्य तु तददृष्टचरं प्रत्युत “गोत्ररिक्थे जनयितुर्न हरेद्दत्रिमः सुतः” इति प्रागुक्तमनुवचनं तद्विपरीतार्थग्राहकमेवास्तीति चेन्न दत्तकादिष्वपि “सर्वेषामेकधर्माणामेकस्यापि यदुच्यते। सर्वेषामेव तत् कुर्य्यादेकरूपा हि ते स्मृताः” इति बौधायनवचनेन क्षेत्रजधर्मलाभात्। “द्वे श्राद्धे कुर्य्यादेकश्राद्धे वा पृथगनुद्दिश्य एकपिण्डे वा द्वावनुकीर्त्तयेत् प्रतिग्रहीतारं चोत्पादयितारम् आ तृतीयात् पुरुषादिति” साङ्ख्यायनप्रवराध्याये सामान्यतोदर्शनाच्च दत्तकस्यापि द्विपितृकत्वसिद्धिः। अतएव सत्याषाढोऽपि “नित्यानां द्व्यामुष्यायणानां द्वयोरिति” सूत्रेण नित्यद्व्यामुष्यायणानां क्षेत्रजानां सप्रवरगोत्रद्वयसम्बन्धमुक्त्वा दत्तकादीनां द्व्यामुष्यायणवदिति सूत्रेण तद्धर्मोऽतिदिष्टः। विवृतञ्चैतद्भाष्यकारैः “नित्यद्व्यामुष्यायणप्रसङ्गेनानित्यानाह दत्तकादीनामिति”। तावदेव नोत्तरसन्ततौ प्रथमेनैव संग्रहोत्रा चेत्तदा उत्तरस्य पूर्वत्वात्तेनैव उत्तरत्रेति”। एतद्भाष्यार्थस्तु क्षेत्रजवत् उभयोरभिसन्धौ दत्तकस्योभयगोत्रभागित्वम् अन्यथा जनकेनैव सर्वसंस्कारकरणे जनकगोत्रभागित्वं न गृहीतृगोत्रभागित्वं ग्रहीत्रा संस्कारकरणे तु उत्तरस्य ग्रहीतुः पूर्वत्वात् प्राघान्यात्तेनैव उत्तरसन्ततेर्गोत्रमिति। तथा च पैठीनसिः “अथ दत्तकक्रीतकृत्रिमपुत्रिकापुत्राः परपरिग्रहेणार्षेण येऽत्र जातास्तेऽसङ्गतकुलीना द्व्यामुष्यायणा भवन्तीति”। आर्षेण ऋष्युक्तेन परिग्रहेण जनकग्रहीत्रोः स्वीकारेण द्व्यामुष्यायणा भवन्तीत्यर्थः। व्यक्तमुक्तम् “द्व्यामुष्यायणका ये स्युर्दत्तक्रीतादयः सुताः। गोत्रद्वयेऽप्यनूद्वाहः शुङ्गशैशिरयोर्यथेति”। न च दत्तकस्य द्व्यामुष्यायणत्वं न घटते जनकस्यापि तत्र स्वत्वानपायेन “माता पिता वा दद्यातामिति” दानविध्यनुपपत्तेरिति वाच्यम्। “सामान्यं सर्वभूतेभ्यो मयोत्सृष्टमिदं जलम्। रमन्तु सर्वभूतानि स्नानपानावगाहनैः” इत्यादौ स्वमात्रस्वत्वनाशकसर्वभूतोद्देश्यकत्यागादेव नद्यादिवत् साधारणीकृते जले स्वामिनोऽपि उद्दिश्यतया स्वत्ववत् अत्रापि तादृशाभिसन्धिपूर्वकादेव दानात् तादृशदत्तकस्य साधारण्यसिद्धिरित्यास्तां विस्तारः।

अथ दत्तककर्त्तृकश्राद्धनिर्णयः। तत्र पितुः सपिण्डीकरणान्तषोडशश्राद्धे दत्तकस्य पूर्वगृहीतत्वेऽपि सत्यौरसे नाधिकारः। “औरसे पुनरुत्पन्ने तेषु ज्यैष्ठ्यं न विद्यते” इति देवलेन ज्येष्ठत्वप्रतिषेधात्। “पिण्डदोऽंशहरश्चैषां पूर्वाभावे परः पर” इति याज्ञवल्क्यवचनाच्च। अन्यत्र सर्वत्रौरसवत्। “क्षयाहे तु विशेषमाह जातूकर्णः, “औरसक्षेत्रजौ पुत्रौ विधिना पार्वणेन तु। प्रत्यव्दमितरे कुर्युरेकोद्दिष्टं सुता दश”। इतरे दश दत्तकादयः”। तथा पराशरः “पितुर्गतस्य देवत्वमौरसस्य त्रिपौरुषम्। सर्वत्रानेकगोत्राणामेकोद्दिष्टं क्षयेऽहनीति” अनेकगोत्राणां द्विगोत्राणाम्। औरसक्षेत्रजयोरपि साग्न्योरेव पार्वणाधिकारः “पार्वणेन विधानेन देयमग्निमता सदेति” जावालमत्स्वपुराणैकवाक्यत्वात्। औरसक्षेत्रजव्यतिरिक्तानान्तु साग्निनिरग्निसाधारणानामेकोद्दिष्टमिति सिद्धम्। द्व्यामुष्यायणस्येतिकर्त्तव्यतायां विशेषमाह साङ्ख्यायनसूत्रम् “पिण्डान् यथावनेजनं निधाय उभावेकस्मिन् पिण्डे पित्रभेदे” इति। पितृमेदे एकस्मिन् पिज्वे उभौ जनकग्रहीतारौ कीर्त्तयेदिति शेषः। प्रवराध्याये, “पितृव्येण चैककार्य्यजातास्ते परिगृहीतुरेव भवन्ति अथ यद्येषां भार्य्यास्वपत्यं न स्यात् तदा रिक्थं हरेयुः पिण्डं तेभ्यः त्रैपुरुषिकं दद्युः यद्यपि स्पादुभाभ्यामेव दद्युरित्याचार्य्यवचनं द्वे श्राद्धं कुर्य्याट्कश्राद्धे वा पृथगनूद्दिश्य एकपिण्डे वा द्वानुकीर्त्तयेत् प्रतिग्रहीतारं चोत्पादयितारं आ तृतीयात् पुरुषादिति”। ग्रहीतुः क्रियानियमाभावे पुत्रान्तराभावे च तस्यैव क्रियानियमे अपत्यसद्भावे च न द्विपितृकत्वमत्यर्थः। अत्र श्राद्धभेदाभेदयोर्विकल्पः। न चेदं क्षेत्रजविषयं सत्याषाढेन दत्तकादीनां द्व्यामुष्यायणवदिति सूत्रेण दत्तकेऽपि तद्धर्मस्यातिदेशात्। तथा हारीतः, “तेषामुत्पादयितुः प्रथमं प्रवरो भवति द्वौ द्वौ पिण्डौ निर्वपेत् एकपिण्डेवा द्वावनुकीर्त्तयेद्द्वितीये पुत्रः तृतीये पौत्रः लेपिनस्त्रीन् वाचक्षाण आ सप्तमादित्येके” इति। तेषां पितॄणां मध्ये वीजिनः प्रथममार्षेयं क्षेत्रिणो द्वितीयमिति द्विप्रवरता। एकपिण्डे वेत्यत्र वीप्साध्याहारः। “यदि द्विपिता स्यादेकैकस्मिन्नेव द्वौद्वावुपलक्षयेत्” इत्यापस्तम्बवचनात्। द्वितीये पितामहपिण्डे द्व्यामुष्यायणस्य पुत्रः, तृतीये प्रपितामहपिण्डे द्वामुष्यायणस्य पौत्र इति। यदि ग्रहीता प्रथमं मृतः तदा तस्मै तद्यात् अथ यदि जनकस्तदा जनकाय, यद्युभौ तदादौ जनकाय पश्चाद्ग्रहीत्रे दद्यादित्याह मरीचिः, “सगोत्रादन्यगोत्राद्वा यो भवेद्विधवासुतः। पिण्डं श्राद्धविधानञ्च क्षेत्रिणे प्राक् प्रदापयेत्। वीजिने तु ततः पश्चात् क्षेत्री जीवति चेत् क्वचित्। वीजिने दद्युरादौ तु मृते पश्चात् प्रदीयते। उभौ यदि मृतौ स्यातां वीजिन्यादौ ततो ददेत्। क्षेत्रिण्यादौ न दत्तं स्याद्वीजिने नोपतिष्ठते” इति। एतेनैकतरोपरतावपि द्विपितृकस्य पार्वणं दर्शितम्। तथा तुल्यन्यायेन मातृभेदेऽपि द्व्यामुष्यायणदत्तकस्य “पितरो यत्र पूज्यन्ते तत्र मातामहा ध्रुवम्” इत्यनेन प्राप्तमातामहश्राद्धे जननीपितॄणां प्रथमं निर्देशस्ततः प्रतिग्रहीत्री या माता तत्पितॄणाम्। शुद्धदत्तकस्य तु प्रतिग्रहीत्र्या एव मातुः पित्रादिपिण्डदानं तस्य तन्मात्रस्वधाकरत्वादिति। एवञ्च “स हि मन्नानाय पूर्वेषामिति” हेतुवन्निगदस्वरसान्नैकं पुत्रं दद्यादिति निषेधो द्व्यामुष्यायणातिरिक्तविषयः सन्तानविच्छेदाभावादित्युक्तमेव।

अथास्य सापिण्ड्यम्। जनककुले अवयवान्वयेन प्रतिग्रहीतृकुले च पिण्डान्वयेन त्रिपौरुषं यदाह कार्ष्णाजिनिः “यावन्तः पिवृवर्गाः स्युस्तावद्भिर्दत्तकादयः। प्रेतानां योजनं कुर्य्युः स्वकीयैः पितृभिः सह। द्वाभ्यां सहाथ तत् पुत्राः पौत्राश्चैकेन तत्समम्। चतुर्थे पुरुषे च्छेदं तस्मादेषा त्रिपौरुषीति”। अस्यार्थः दत्तकादयः पुत्राः प्रेतानां प्रतिग्रहीत्रादीनां पितृणामीरसत्वे दत्तकत्वे द्व्यामुष्यायणत्वे वा यावन्तः पितृवर्गाः त्रयः षट् वा तावद्भिः सह तेषां योजनं सपिण्डनं कुर्य्युः तत्र प्रतिग्रहीत्रादीनामौरसत्वे तत्पितृपितामहप्रपितामहास्त्रयः, दत्तकत्वे तत्प्रतिग्रहीतृपितामहप्रपितामहास्त्रयः, द्व्यामुष्यायणत्वे तज्जनकाद्यास्त्रयः तत्प्रतिग्रहीत्रादयस्त्रयं इति षट्। एवञ्च दत्तकस्य स्वकर्त्तृके पार्वणे येषां देवतात्वं स्वपुत्त्रकत्तेके सपिण्डीकरणेऽपि तेषामेव तथात्वमिति ज्ञापितम्। दत्तकस्य पुत्त्रास्तु दत्तकसपिण्डीकरणं तत्प्रतिग्रहोत्रा तत्पितॄणां त्रयाणां मध्ये द्वाभ्याञ्च सह कुर्य्युः। एवञ्च दत्तकस्य पौत्रा दत्तकप्रतिग्रहीतृभ्या ग्रहीतुः पितॄणां त्रयाणां मध्ये एकेन ग्रहीतुः पित्रेति यावत्तेन च समं सह तत् स्वपितृसपिण्डनं कुर्य्युः। चतुर्थपुरुषे च्छेदमिति। यो यदा यत् सपिण्डीकरोति स तत्पित्रादिभिस्त्रिभिरेव करोतीति चतुर्थे विरामः सिंद्ध एवेति तदारम्भः “सिद्धे सत्यारम्भी नियमाय” इति न्यायेन लेपिनां लेपनिरासेन सापिण्ड्यव्यवच्छेदार्थः। तदेवाह तस्मादेषेति। एषा सपिण्डता। तथाच “लेपनाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः। पिण्डदः सप्तमस्तेषां सापिण्ड्यं साप्तपौरुषमिति” मत्स्यपुराणोक्तसाप्तपौरुषसापिण्ड्यस्य सामान्यस्यानेन विशेषेण बाध एव। अतएव हारीतेन “लेपिनस्त्रीन् वाचक्षाणः आ सप्तमादित्येके” इति पक्षान्तरमुपन्यस्तं सङ्गच्छते। तदेव संगृह्यान्यत्रोक्तम् “दत्तकानान्तु पुत्त्राणां सापिण्ड्यं स्यात्त्रिपौरुषम्। जनकस्य कुले तद्वद्सहीतुरिति धारणेति”। यदिदसभयत्र त्रिपुरुषसापिण्ड्याभिधानं तत् द्व्यामुष्यायणाभिप्रायेण, तस्य त्रिकद्वयेन सपिण्डनविधानात्। शुद्धदत्तकस्य तु “गोत्ररिक्थे जनयितुर्न हरेद्दत्त्रिमः सुतः। गोत्ररिकृथानुगः पिण्डो व्यपैति ददतः स्वघनि” प्रागुक्तमनुवचने पिण्डनिवृत्तिदर्शनात् प्रतिग्रहीतृकुल सापिण्ड्यमिति।” यत्तु वृद्धगोतमीयम् “सगोत्रेषु कृता ये स्युदत्तक्रीतादयः सुताः। विधिना गोत्रतां यान्ति न सापिण्ड्यं विधीयते”। सगोत्रेषु मध्ये कृता अपि दत्तकादयो विधिनैव गोत्रं भजन्ते परन्तु तेषु सापिण्ड्यं नोत्पद्यते सगोत्रेष्वपि सापिण्ड्यानुत्पत्तौ परगोत्रेषु सुतरां सापिण्ड्यानुत्पत्तिरिति। तत्तु पुत्रान्तरवत् साप्तपौरुषसापिण्ड्यप्रसक्तौ निषेधकं सापिण्ड्यपयुक्तदशाहाशौचादिप्रतिषेधकम् वा न तु सामान्यतसापिण्ड्यनिषेधमुक्तवचनजातात्।

अथ दत्तकाशौचनिर्णयः। तत्र शुद्धदत्तकस्य जनककुले परस्परमशौचं नास्त्येव गोत्रषिण्डनिवृत्त्या अशौचनिवृत्तेरर्थसिद्धत्वात् द्व्यामुष्यायणस्य तु उभयत्रैवाशौचमिति। ब्रह्मपुराणे “दत्तकश्च स्वयन्दत्तः कृत्रिमः क्रीत एव च। अपबिद्धाश्च ये पुत्त्रा भरणीयाः सदैव ते। भिन्नगोत्राः पृथक् पिण्डाः पृथग्वंशकराः स्मृताः। जनने मरणे चैव त्र्यहाशौचस्य भागिनः”। पराशरः “भिन्नगोत्रः स्वगोत्रो वा नीतः संस्कृत्य चेच्छया। जनने मरणे तस्य त्र्यहाशौचं विधीयते”। तथा “औरसं वर्जयित्वा च सर्ववर्णेषु सर्वदा। क्षेत्रजादिषु पुत्रेषु जातेषु च मृतेषु च। अशौचन्तु त्रिरात्रं स्यात् समानमिति निश्चयः”। सर्वदा उपनयनानन्तरमपि। अत्र सगोत्रस्यापि विधिना जनकगोत्रविच्छित्तिपूर्वकग्रहीतृगोत्रप्राप्तावसगोत्रदत्तकाविशेषात् त्र्यहाशौचमुक्तं युक्तमेव। तथा दत्तके अकृतोद्वाहे पश्चाज्जातस्यौरसस्य विवाहे न परिवेदनदोषः न वा दत्तकस्याग्रजसोदरात् पूर्वं विवाहकरणेऽपि क्षतिः। ननु शुद्धदत्तकस्य जनककुले सापिण्ड्यविच्छेदस्य दर्शितत्वात् तत्र विवाहः प्रसज्येत प्रसज्येत च द्व्यामुष्यायणस्यापि त्रिपुरुषानन्तरितकन्यासन्ततिपरम्परया विवाहः, मैवं “असपिण्डा च या मातुरसगोत्रा च या पितुः। सा प्रणस्ता द्विजातीनां दारकर्मणि मैथुने”। मनुवचने चकारात् पितुरसपिण्डा च इति ग्रहीतृमात्रगोत्रस्यापि दत्तकस्य जनकस्यापि सपिण्डासगोत्रावर्जनाथ पितुरिति पदोपादानात्। न च तथापि दत्तकस्य पितुरपि दत्तकत्वे तत्त्रिपुरुषानन्तरितकन्यासन्ततेर्विवाहः कन वार्य्यते पितृसापिण्ड्यसगोत्रत्वयोरभावादिति वाच्यम् यतो विवाहे नैतत् सापिण्ड्यमुपयुज्यते किन्तु सर्वसाधारणं परिभाषितं पितृपक्षे साप्तपौरुषं मातामहपक्षे पाञ्च- पौरुषञ्चेति न काप्यनुपपत्तिः। तत्प्रपञ्चस्तु तत्र तत्र द्रष्टव्य इति।

अथ दत्तकविमागः। तत्र वृहस्पतिः “एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः। शेषाणामानृशंस्यार्थं प्रदद्यात्तु प्रजीवनम्”। शेषाणां ये तत्रांशभागित्वेन निषिद्धास्तेषाम्। आनृशंस्यं दया। प्रजीवनं भरणम्। तथा यमः “पुत्रास्तु द्वादश प्रोक्ता मुनिभिस्तत्त्वदर्शिभिः। तेषां षड्बन्धुदायादाः षडदायादबान्धवाः। स्वयमुत्पादितस्त्वेको द्वितीयः क्षेत्रजः स्मृतः। तृतीयः पुत्रिकापुत्रो जातिधर्मविदो विदुः। पौनर्भवश्चतुर्थस्तु कानीनः पञ्चमः स्मृतः। गृहे च गूढ उत्पन्नः षडेते पिण्डदायिनः। अपविद्धः सहोढश्च दत्तः कृत्रिम एव च। क्रीतश्च पञ्चमः पुत्रो यश्चोपनयते स्वयम्। इत्येते सङ्करोत्पन्नाः षडदायादबान्धवाः” नारदः। औरसः क्षेत्रजश्चैव पुत्त्रिकापुत्त्र एव च। कानीनश्च सहोढश्च गूढोत्पन्नस्तथैव च। पौनर्भवोऽपविद्धश्च दत्तः क्रीतः कृतस्तथा। स्वयं चोपागतः पुत्त्रा द्वादशैते प्रकीर्त्तिताः। तेषां षड्बन्धुदायादाः षडदायादबान्धवाः। पूर्वः पूर्वः स्मृतो ज्येष्ठो जघन्यो यो य उत्तरः। क्रमादेते प्रवर्त्तन्ते मृते पितरि तद्धने। ज्यायसो ज्यायसोऽभावे जघन्यो यो य आप्नुयात्”। पूर्वपूर्वामावे उत्तरोत्तरेषां द्रविणार्हत्वमित्यर्थः। औरसक्षेत्रजपुत्रिकापुत्रपौनर्भवकानीनगूढोत्पन्नसहोढजदत्तकक्रीतस्वयमुपागतापविद्धयत्र क्वचनोत्पादितानभिधाय विष्णु “तेषां पूर्वः पूर्वः श्रेयान् स एव दायहरः स चान्यान् बिभृयात्”। औरसपुत्रिकापुत्रक्षेत्रजगूढजकानीनपौनर्भवदत्तकक्रीतकृत्रिमस्वयंदत्तसहोढापविद्धानभिधाय याज्ञवल्क्यः “पिण्डदोऽंशहरश्चैषां पूर्वाभावे परः परः।” मनुः “न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः” तथा “श्रेयसः श्रेयसोऽभावे यवीयानृकुथमर्हति। बहवश्चेत्तु सदृशाः सर्वे रिक्थस्य भागिनः”। सदृशा गुणेन औरसत्वक्षत्रजत्वाद्युपाधिना वा। श्रेयस औरसादेः। यवीयान् न्यूनः क्षेत्रजादिरित्यर्थः। तथा “औरसक्षेत्रजौ पुत्रौ पितृरिक्थस्य भागिनौ। दशापरे च क्रमशः पितृरि कथांशभागिनः”। दश दत्तकादयः। हारीतः “स्वयमुत्पादितः क्षेत्रजः पौनर्भवः कानीनः पुत्रिकापुत्रो गूढोत्पन्नश्चेति बन्धुदायादाः, दत्तः क्रीतोऽपविद्धः सहोढजः स्वयसपागतः सहसादृष्टश्चेत्यबन्धुदायादाः”। मनुः “पुत्त्रान् द्वादश यानाह नॄणां स्वायम्भुवो मनुः। तेषां षट् बन्धुदायादाः षडदायादबान्धवाः। औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च। गूढोत्पन्नोऽपविद्धश्च दायादबान्धवास्तु षट्। कानीनश्च सहोढश्च क्रीतः पीनर्भवस्तथा। स्वयंदत्तश्च शौद्रश्च षडदायादवान्धवाः”। बौधायनः “औरसं पुत्रिकापुत्रं क्षेत्रजं दत्तकृत्रिमौ। गूढञ्चैवापविद्धञ्च रिक्थभाजः प्रचक्षते। कानीनञ्च सहोढञ्च क्रीतं पौनर्भवं तथा। स्वयंदत्तं निषादञ्च गोत्रभाजः प्रचक्षते”। एतच्च कानीनादीनां गोत्रमात्रभागित्वकथनमौरसीनां मध्ये कस्यापि सम्भवेऽंशहरत्वप्रतिषेधार्थम्। सहोढदत्तकक्रीतस्वयमुपागतापविद्धशौद्रानभिधाय औरसादीन् परामृष्य पुनर्वशिष्ठः “यस्य तु सर्वेषां वर्णानां न कश्चित् दायादः स्यादेते तस्य भागं हरेयुः”। औरसपुत्रिकापुत्रक्षेत्रजकानीनगूढोत्पन्नापविद्धसहोढपौनर्भवदत्तकस्वयमुपागतकृतकक्रीतानभिधाय देवलः “एते द्वादश पुत्रास्तु सन्तत्यर्थमुदाहृताः। आत्मजाः परजाश्चैव लब्धा यादृच्छिकास्तथा। तेषां षड्बन्धुदायादाः पूर्वेऽन्ये पितुरेव षट्। विशेषश्चापि पुत्राणामानुपूर्व्या विशिष्यते। सर्वे ह्यनौरसस्यैते पुत्रा दायहणः स्मृताः। औरसे पुनरुत्पन्ने तेषु ज्यैष्ठ्यं न विद्यते। तेषां सवर्णा ये पुत्रास्ते तृतीयांशभागिनः। हीनास्तमुपजीवेयुर्ग्रासाच्छादनसम्भृताः” कात्यायनः, “उत्पन्ने त्वौरसे पुत्रे तृतीयांशहराः स्मृताः। सवर्णा असवर्णास्तु ग्रासाच्छादनभागिनः”। चतुर्थासहराः स्मृता” इति द्वितीयचरणे क्वचित् पाठः। वर्शिष्ठः, “तस्मिंश्चेत् प्रतिगृहीते औरस उत्पद्यते स चतुर्थभागभागी यदि नाभ्युदयिकेषु प्रयुक्तं स्यात्”। स प्रतिगृहीतपुत्रः आभ्युदयिकेषु यज्ञादिषु यदि औरसेन प्रयुक्तं न स्यात् प्रभूतं धनमिति शेषः। अत्र नानाविधमुनिवचनानां परस्परविरोधपरिहार्थमेवं व्याख्यायते वृहस्पतिवचने औरसमात्रस्य धनभागित्वकथनमत्थेषांभरणमात्रकथनञ्च असवर्णक्षेत्रजदत्तकादिविषयं, देवलकात्यायनवचनैकवाक्यत्वात्। नारदादिवचनेषु च औरसाद्यभावे क्षेत्रजदत्तकादीनामृक्थग्रहणविधिरपि सर्वधनग्रहणविषयः। अतश्च दत्तकग्रहणानन्तरगौरनीतपत्तौ तदौरसचतुर्थांशविधिर्वशिष्ठोक्तो दत्तकविषये ज्ञेयः। तथा देवलकात्यायनवचने तृतीयांशग्रहणविधिवन्युत्कृष्टगुणदत्तकविषयो वाच्यः। “उपपश्री गुणैः सर्वैः पुत्रो यस्य हि दत्त्रिमः। स हरेतैव तद्रिक्थं संप्राप्तोऽप्यन्यगोत्रतः” इति मनुवचनैकवाक्यत्वात्। गुणैः जातिविद्याचारैः। “समग्रधनभोक्ता स्यादौरसोऽपि जघन्यजः। त्रिभागं क्षेत्रजो भुङक्ते चतुर्थं पुत्रिकासुतः” इति ब्रह्मपुराणदर्शनात्। क्षेत्रजविषय इत्यन्ये। तथा केनापि मुनिना दत्तकस्य बन्धुदायादत्वमन्येन चादायादत्वमुक्तम् तत् गुणवदगुणवद्भेदेन समाधेयम्। पितुरिव बन्धूनां सपिण्डानामपि दायहरत्वाद्बन्धुदायादत्वं पितृमात्रदायहरत्वात् अबन्धुदायादत्वम् “तेषां षडबन्धुदायादाः पूर्वेऽन्ये पितुरेव षट्” इत्यत्र पितुरेवेत्येवकारश्रवणात्। एवं दत्तकस्य धनग्रहणादौ मुनिभेदेन पूर्वापरोक्तिवैषम्यं गुणागुणविवेकेनापास्तम्। एतेनौरसस्य भ्रात्रादिधने येनैव भ्रातृत्वादिना संबन्धेनाधिकारत्वं तादृशेनैव सम्बन्धेन तादृशदत्तकस्यापि यथासम्भवमुचितांशभागित्वमवधेयम्। एव धनिनः पुत्रान्तरसत्त्वे मृतपितृकस्य दत्तकपौत्रस्यापि दत्तोचितांशभागित्वं तदसत्त्वे सर्वहरत्वमपीति। न च पौत्रस्य स्वपितृयोग्यांशभागित्वनियमात् दत्तकस्य ग्रहीतुः पितामहौरसत्वे तादृशपितृव्यतुल्यस्यैवांशस्य तद्योग्यत्वाद्दत्तकपौत्रः पितृव्यतुल्यमेवांशं लभतामिति वाच्यं पुत्रस्य दत्तकत्वे चतुर्थांशः पौत्रस्य तु तथात्वे समानांश इति वैषखात्। ततश्च स्वसमानरूपस्य पितुर्यादृशांशः शास्त्रसिद्धस्तस्यैव स्वपितृयोग्यांशतेति यथोक्तमेव साधु। एवं रोतिः प्रपौत्रेऽप्यनुसर्त्तव्येति। ननु क्षेत्रजदत्तकादीनां नामान्यधनाधिकारित्वेऽपि राज्येऽनधिकारः श्रूयते। यथा “औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च। गूढोत्पन्नोऽपविद्धश्च भागार्हास्तनया इमे। कानीनश्च महो ढ्श्च क्रोतः पौनर्भवस्तथा। स्वयंदत्तश्च दासश्च षडिमे पुत्रपांशुलाः। अभावे पूर्वपूर्वेषां परान् समभिवचवेत्। पौनर्भवं। स्वयंदत्तं दासं राज्ये न योजयेत्”। तथा “न क्षेत्रजादींस्तनयान् राजा राज्येऽभिषेचयेत्। पितृणां साधयेन्नित्यमौरसे तनये सतीति” उच्यते। शास्त्रान्तरसद्भावे विशेषशास्त्रस्य सामान्यपरत्वमेव लाचवात्। अतएव पूर्वपूर्वाभावे परपराधिकारबोधकं हि पूर्ववाक्यं प्रागुक्तनारदादिवचनैकवाक्यतया समग्रराज्यमेव विषयोकरोति परवचनञ्च सत्यौरसे क्षेत्रजदत्तकादीनां समानांशनिषेधकम् असवर्णक्षेत्रजदत्तकादिविषयं वा। अन्यथा वाक्यभेदे गौरवम्। तत्स्वीकारेऽपि नानेन वचनेन क्षेत्रजदत्तकादीनां सत्यौरसे स्वस्वोचितांशो निषिध्यते किन्त्वोरससत्त्वे तेषामभिषेकं निषिध्यौरसस्य राज्येऽभिषेको विधीयते तथा च क्षेत्रजदत्तकादयः सामान्यशास्त्रप्राप्तमंशं लभन्त एव तत्सङ्कोचकाभावात्। न चैतदेव वचनं बाधकं भिन्नविषयत्वात्। अतएव “भागार्हास्तनया इमे” इत्यनेन पूर्ववचने भागार्हत्वं स्पष्टीकृतम्। राज्यातिरिक्तस्य भाम इति न शक्यते वक्तु राज्यस्यैव तत्रोपस्थितत्वात् पौनर्भवादीनान्तु पूर्बपूर्वाभावेऽपि राज्यनियोजनाभावः पृथगभिधानसामर्थ्यादिति। एतावता प्रबन्धेनाभिहितोऽये क्षेत्रजदमकादीनामौरसेन सह विभागप्रकारः। स तु शूद्रस्य न सम्भवति तस्य तु “दास्यां वा दासदास्यां वा यः शूद्रस्य सुतो भवेत्। सोऽनुज्ञातो हरेदंशमिति धर्मो व्यवस्थित” इति मनुवचनेन “जातोऽपि दास्यां शूद्रेण कामतोऽंशहरो भवेत्। मृते पितरि कुर्य्युस्तं भ्रातरस्त्वर्द्धभागिनम्। अभ्रातृको हरेत् सर्वं दुहितॄणां सुतादृते” इति याज्ञवल्क्यीयेन च दासोपुत्रस्याप्यौरसेन समांशाभिधानेन पितुरनन्तरं भ्रातृरहितस्य तस्यैव दोहित्रेण सह विभागदर्शनेन दण्डापूपायितः सति पितरि क्षेत्रजदत्तकादीनामौरसेन समांशः असति तु तदर्द्धांशः। अन्यथा यत्र च क्षेत्रजदत्तकादीनामौरसचतुर्थांशित्वं तत्र तदपेक्षया अत्यन्तविप्रकृष्टस्य दासीपुत्रस्यौरससमांशित्वमिति महद्वैषम्यं स्यात्। एवं सत्सु क्षेत्रजादिषु सत्योश्च पत्नीकन्ययोर्दौहित्राधिकारे कॢप्ताधिकारविधिबाधापत्तिः। तेन दौहित्रपर्य्यन्ताधिकारिशृङ्खलायां तदेकतमे सत्यपि न दासीपुत्रस्य सर्वहरत्वं किन्तु तत्समांशः। अतएव “दत्तपुत्रे यथा जाते कदाचित्त्वौरसो भवेत्। पितुर्वित्तस्य सर्वस्य भवेतां समभागिनौ” इत्यपि वचनं शूद्रविषय एव योजनीयम्। तथा “शूद्रस्य तु सवर्णैव नान्या भार्य्योपदिश्यते। तस्यां जाताः समांशाः स्युर्यदि पुत्रशतं भवेत्” इत्यत्र वचने शूद्राणां भार्य्योत्पन्नानां सर्वेषां समांशमभिधाय पुनर्यदि पुत्रशतम् इत्यनेन पुत्रान्तराणामपि समांशता प्रतिपादिता। औरसमात्रपरत्वे पूर्वेणैतत्प्राप्त्या पुनरेतदभिधानं व्यर्थं स्यात्। द्व्यामुष्यायणदत्तकस्य तु जनकप्रतिग्रहीत्रोरुभयोरपुत्रत्वे सर्वरिकथहरत्वं सत्यौरसे गृहीतस्य तु नांशहरत्वं ग्रहणा नन्तरमौरसोत्पत्तौ तु जनकधने तदौरसार्द्धहरत्वं ग्रहीतुरसाधारणदत्तकस्य यादृशोऽंशः शास्त्रीयः तदर्द्ध- हरत्वञ्चेति। यदाह प्रबराध्यायः। “यद्येषां स्वासु भार्य्यासु अपत्यं न स्यात् तदा रिक्थं हरेयुरिति”। तथा नारदः “द्व्यामुष्यायणका दद्युर्द्वाभ्यां पिण्डोदके पृथक्। रिक्थादर्द्धां शमादद्युर्वीजिक्षेत्रिकयोस्तथा”। वीजिक्षेत्रिकपदयोर्जनकप्रतिग्रहीत्रुभयोपलक्षकत्वं प्रागेवाभिहितम्।

अथान्धपङ्गुप्रभृतिपुत्राणां धनानधिकारितया तदौरसक्षेत्रजयोरेव पितामहधनभागित्वश्रुतेर्न तद्गृहीतदत्तकपुत्रादेः पितामहधनाधिकारः। किन्तु भरणमात्रम् अन्धादिभार्य्याणां भरणविधानेन तद्भरणस्य दण्डापूपायितत्वात्। तथा हि, “अन्धपङ्ग्वादीननधिकारिपुत्रानभिधायाह “औरसाः क्षेत्रजास्त्वेषां निर्दोषा भागहारिणः। अपुत्रा योषितश्चैषां भर्त्तव्याः साघुवृत्तयः। सुताश्चैषां प्रभर्त्तव्या यावन्न भर्त्तृसात् कृताः” याज्ञ०। एवं ग्रहणानन्तरमुत्पन्नौरसेन सह दत्तकस्य विभागदर्शनात् सत्यौरसे गृहीतस्यापि नांशभागित्वमिति। तथा विधानं विना परिगृहीतस्यापि नांशभागित्वमित्याह “तस्मिन् जाते सुते दत्ते न कृते च विधानके। तत् स्व तस्यैव वित्तस्य यः स्वामी पितुरञ्जमा”। तथा मनुः “अविधाय विधानं यः परिगृह्णाति पुत्रकम्। विवाहविधिभाजं त न कुर्य्यात् धनभाजनम्” इति। अन्यजातीयदत्तकस्यापि नांशभागित्वमित्याह “यदि स्यादन्यजातीथो गृहीतोऽपि सुतः क्वचित्। अंशभाज न तं कुर्य्यात् शौनकस्य मतं हि तत्”।

दत्तकमीमांसोक्तो विशेषो दिङमात्रमत्रोदाह्रियते। “पुत्त्रानुमत्या पुत्त्रवतोऽप्रि पुत्त्रग्रहणेऽधिकारः “यन्नः पिता सजानीते तस्मिंस्तिष्ठामहे वयम्। पुरस्तात् सर्वे कुर्म्महे त्वामन्वञ्चो वयं स्म हीति” श्रौतलिङ्गात्”।

“अपुत्रेणेति पुस्त्वं विवक्षितं स्त्रियाहोमप्रतिग्रहमन्त्रानधिकारेण तद्ग्रहणानधिकारः इति वाचस्पतिमत तद्दूषयित्वा ब्राह्मणादिद्वारा होममन्त्रपाठेन भर्त्त्रनुज्ञया तासामप्यधिकारः इति” व्यवस्थापितम्। “एकत्वविवक्षया द्वाभ्यां त्रिभिर्वा एकः पुत्रो न ग्रहीतुं शक्यते द्व्यामुष्यायणविधिश्च जनकपरिग्रहीतद्वयविषयकः न प्रतिग्रहीतृहयविषयक इत्यविरोधः” इति। अतअन्द्रिकामताद वैलक्षण्यम्। सोदरभ्यातृपुत्रस्य पुत्रीकरणे बहूनामपि मिलितानां मुगपदेवाधिकारः। “तदयं निर्गलिताऽर्द्धः। ससाबगोत्रः सपिण्डो मुख्यः तदभावेऽसमानगोत्रः सपिण्डः। यद्यप्यसमानगोत्रः सपिण्डः समानगोत्रोऽसपिण्डश्चेत्युभावपि तुल्यकक्षौ एकैकविशेषणराहित्यादुभयोस्तथापि गोत्रप्रवर्त्तकपुरुषात् सापिण्ड्यप्रवर्त्तकपुरुषस्य सन्निहितत्वेनाभ्यर्हितत्वं तेन चासमानगोत्रोऽपि सपिण्ड एव ग्राह्यो मातामहकुलीनः सर्वथा सपिण्डाभावेऽसपिण्डस्तत्रापि समानोदकः आ चतुर्द्दशात्समानगोत्रः प्रत्यासन्नः। तस्याभावे असमानोदकः सगोत्र ऐकविंशात्। तस्याप्यभावे असमानगोत्रोऽसपिण्डश्चेति तदाह शाकलः “सपिण्डापत्यकञ्चैव सगोत्रजमथापि वा। अपुत्त्रको द्विजो यस्मात् पुत्त्रत्वे परिकल्पयेत्। समानगोत्रजाभावे पालयेदन्यगोत्रजम्” इति। सगोत्र इत्यनेन सोदकसगोत्रौ गृह्येते। अत्र च पूर्वपूर्वस्य प्रत्यासत्त्यतिशयेन निर्देश इति तदेवाह वशिष्ठोऽपि “अदूरवान्धवं बन्धुसन्निकृष्टमेव प्रतिगृह्णीयात्” इति। अस्यार्थः अदूरश्चासौ बान्धवश्चेत्यदूरबान्धवः सन्निहितः सपिण्ड इत्यर्थः। सान्निध्यञ्च द्विघा सगोत्रतया स्वल्पपुरुषान्तरेण च भवति। तत्र सगोत्रः स्वल्पपुरुषान्तरः सपिण्डो मुख्यस्तदभावे बहुपुरुषान्तरोऽपि सगोत्रः सपिण्डः। तदभावे असमानगोत्रः सपिण्डस्तस्याप्यभावे वन्धुसन्निकृष्टः सपिण्डः बन्धूनां सपिण्डानां सन्निकृष्टः सपिण्डः स्वस्यासपिण्डः सोदक इत्यर्थः पर्य्यवस्यति। तत्रापि सन्निकर्षो द्विविधः सगोत्रतया स्वल्पपुरुषान्तरेण च। स्वस्यासपिण्डोऽपि स्वसमानगोत्रः स्वल्पपुरुषान्तरः सपिण्डानां सपिण्डो मुख्यस्तदभावे बहुपुरुषान्तरोऽपि सगोत्रः सपिण्डसपिण्डः सोदक इति यावत्। सपिण्डसोदकासम्भवे समानगोत्र ऐकविंशात् ग्राह्यः। “तदभावेऽसमानगोत्रोऽसपिण्डोऽपि ग्राह्यः। “तदभावेऽसपिण्डेवेति” शौनकीयात् “सन्देहे चोत्पन्ने दूरबान्धवं शूद्रमिव स्थापयेत्” इति वशिष्ठलिङाच्च। “दूरे बान्धवा यस्यामौ दूरबान्धवः गोत्रसापिण्ड्याभ्यामसन्निहिय इत्यर्थः। सन्देहोऽत्र कुलशीलादिविषय। स चामषिण्डेऽसगोत्रे च भवतीति सोऽप्यनुज्ञायते”। सगोत्रसपिण्डेषु भ्रातृपुत्र एव पुत्त्रीकार्य्य इत्युक्तं यथा “तत्र सोदरभ्रातृपुत्र एव पुत्त्रीकार्य्य इत्याह मनुः। “भ्रातॄणामेकजातानामेकश्च त् पुत्त्रवान् भवेत्। सर्वे ते तेनपुत्त्रेण पुत्त्रिणो मनुरव्रवीत” इति। अत भ्रातृणां प्रतिग्रहीतृत्वप्रतिपादनात् ग्राह्यत्वाभावोऽयमत्वते। एकजातानामित्यनेनैकेन पित्रा एकस्यां मातरि जातानामेव ग्रहीतृत्वं न भिन्नोदराणां भिन्नपितृकाणां वेति गम्यते। भ्रातृणामिति पुंस्त्वनिर्देशात् पदद्वयोपादानसामर्थ्याच्च सोदराणां भ्रातृभगिनीनामपि परस्परपुत्रग्रहीतृत्वाभावोऽवगम्यते। तदाह वृद्धगौतमः “ब्राह्मणादितृये नास्ति भागिनेयः सुतः क्वचिदिति” भागिनेयपदं म्रातृपुत्त्रस्याप्युपलक्षणम् तेन भगिन्या भ्रातृपुत्त्रो न ग्राह्य इत्यर्थः सिद्ध्यति”।

एकपुत्त्रेण पुत्त्रदानस्य निषेधेन प्रतिग्रहीऽपि निषिद्धः यथोक्तं तत्रैव।

“एक एव पुत्त्रो यस्येति एकपुत्त्रः तेन तत्पुत्त्रदानं न कार्य्यम् “न त्वेवैकं पुत्त्रं दद्यात्प्रतिगृह्णीयाद्वेति” वशिष्ठशरणात्। अत्र स्वस्वत्वनिवृत्तिपूर्वकपरस्वत्वापादनस्य दानपदार्थत्वात् परस्वत्वापादनस्य च परप्रतिग्रहं विनानुपत्तेस्तमप्याक्षिपति तेन प्रतिग्रहनिषेधीऽपि अनेनैव सिद्ध्यति। अतएव वशिष्ठः “न त्वेवैकं पुत्रं दद्यात्प्रतिगृह्णीयाद्वेति” उक्त्वा तत्र हेतुमाह “स हि सन्तानाय पूर्वेषामिति” सन्तानार्थत्वाभिधानेनैकस्य दाने सन्तानविच्छित्तिप्रत्यवायो बोधितः। स च दातृप्रतिग्रहीत्रोरुभयोरपि उभयशेषत्वात्”।

मातापित्रोर्मध्ये पितुर्निरपेक्षतथा स्त्रियास्तु भर्त्त्रनुज्ञापेक्षतया मुख्यगौणाधिकारौ तत्राक्तौ यथा“बहुपुत्रेणेति पुंस्त्वश्रवणात् स्त्रियाः पुत्त्रदानप्रतिषेधः। “न स्त्री पुत्त्रं दद्यात्” नैरपेक्ष्यश्रवणात् भर्त्त्रनुज्ञाने तस्या अप्यविकारः। वथा च वशिष्ठः “अन्यत्रानुज्ञानाद्भर्तुः” इति। यत्तु “दद्यान्माता पिता यं वा” इति यच्च “माता पिता वा दद्यातामिति” मातुः पितृसमकक्षतयाभिधानं तदपि भर्त्त्रनुज्ञानविषयमेव। न चैवं विधवाया आपद्यपि पुत्रदानं न स्यात् भर्त्त्रनुज्ञानासम्भवात् परिग्रहवदिति वाच्यम्। मानवोयलिङ्गदर्शनेन तथाकल्पनात् नैरपेक्ष्यकत्वश्रवणाच्च स्त्रीनिरपेक्षस्यैकस्यापि भर्तुर्दाकाधिकारः। “दद्यात् माता पिता यं वा”। “माता पिता वा दद्यातामिति” मातृनिरपेक्षैकपितृनिर्देशात् वीजस्य प्राधान्यात् “अयोनिजा अपि पुत्रादृश्यन्त” इति वौधायनीयहेतुदर्शनाच्च। भारतेऽपि “मावा भस्त्रा पितुः पुत्रो येन जातः स एव हि” इति। श्रुतिरपि “आत्मा वै जायते पुत्र” इति। मानवे दद्यातामित्युभयकर्तृकता- श्रवणाच्चोभयाधिकारो मुख्यः। अतएव वशिष्ठः “शुक्रशोणितसम्भवः पुत्रो मातापितृनिमित्तकस्तस्य प्रदानविक्रयपरित्यागेषु मातापितरौ प्रभवतः” इति। बौधायनोऽपि “मातापित्रोरेव संसर्गसाम्यात्” इति। अतएव “माता पिता वा दद्यातामिति” मनृना मातुर्भर्त्त्रनुज्ञानसापेक्षत्वात् जघन्यत्वं स्त्र्यनुज्ञाननैरपेक्ष्यात् पितुर्मध्यमत्वं जनकतासाम्यात् उभयोर्मुख्यत्वमभिप्रेत्य पूर्वपूर्वास्वरसादुत्तरोत्तरमभिहितम्। न चेदमेकमेव वाक्यं द्विवचनान्तैकक्रियाश्रवणादिति वाच्यम् मध्ये विकल्पासङ्गतेः तस्मात् कल्पत्रयमेव। अतएव योगीश्वरः “दद्यान्माता पिता यं वा” इति प्रत्येकमेकवचनान्तमेव क्रियापदमुदाजहार। तत्रापि निमित्तमाह प्रयत्नत इति। प्रकृष्टो यत्नो यस्मिन् कालेऽसौ प्रयत्न आपत्कालस्तेन चापत्काल एव पुत्त्रदानं नान्यथेत्यर्थः”।

पञ्चवर्षातीतस्यनग्राह्यता तत्रोक्ता यथा

“कालिकापु० “दत्ताद्या अपि तनया निजगोत्रेण संस्कृताः। आयान्ति पुत्रतां सम्यगन्यवीजसमुद्भवाः। पितुर्गोत्रेण यः पुत्रः संस्कृतः पृथिवीपते। आचूडान्तं न पुत्रः स पुत्रतां याति चान्यतः। चूडाद्या यदि संस्करा निजगोत्रेण वै कृताः। दत्ताद्यास्तनयास्ते स्युरन्यथा दास उच्यते। ऊर्द्ध्वन्तु पञ्चमाद्वर्षात् न दत्ताद्याः सुता नृप!। गृहीत्वा पञ्चवर्षीयं पुत्रेष्टिं प्रथमञ्चरेत्। पौनर्भवन्तु तनयं जातमात्रं समानयेत्। कृत्वा पौनर्भवष्टोमं जातमात्रस्य तस्य वै। सर्वांस्तु कुर्य्यात् संस्कारान् जातकर्म्मादिकान् नरः। कृते पौनर्भवष्टोमे ततः पौनर्भवः सुतः इति”। अन्यवीजसमुद्भवा अपि दत्ताद्यास्तनया निजगोत्रेण प्रतिग्रहीत्रा स्वगोत्रेण सम्यक् स्वसूत्रोक्तविधिना जातकर्म्मादिभिः संस्कृताश्चेत् तदैव प्रतिग्रहीतुः पुत्रतां प्राप्नुवन्ति नान्यथेत्यर्थः। तदाह वशिष्ठः “अन्यशाखीद्भवो दत्तः पुत्रश्चैवोपनायितः। स्वगोत्रेण स्वशाखोक्तविधिना स स्वशाखभागिति” दत्ताद्या इत्यादिपदेन कृत्रिमादीनां ग्रहणम्। औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च। गूढोत्पन्नोऽपविद्धश्च भागार्हास्तनया इमे। कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा। स्वयन्दत्तश्च दासश्च षडिमे पुत्रपांशुलाः। अभावे पूर्वपूर्वेषां परान् समभिषेचयेत्। पौनर्भर्व स्वयन्दत्तं दासं राज्ये न योजयेदिति” पूर्वोपक्रमात् योऽयं पौनर्भवादीनां राज्यनियोजनाभावः स ओरसव्यतिरिक्ताभाव एव “अभावे पूर्वपूर्वधामित्यस्येवानेनापवादात् सत्यौरसे तु राज्याभावस्य “न क्षेत्रजादींस्तनयान् राजा राज्येऽभिषेचयेत्। पितॄणां साधयेन्नित्यमौरमे तनये सतीत्त्यतेन” प्रागेवाभिधानात्। सत्यौरसे क्षेत्रजादीन् राज्ये नैवाभिषेचयेत् पितॄणां नित्यं श्राद्धादि च नैव साधयेत् न कारयेदित्यर्थः। गोत्रेणेति यद्यपि जातकर्म्मादीनां साक्षाद्गोत्रस्य करणता न श्रूयते तथापि तदङ्गभूते वृद्धिश्राद्धे तत्सम्बन्धावश्यम्भावात् प्रधानेऽपि तत्सम्बन्ध इति। चूडादिषु साक्षादेव तत्सम्बन्धः। “शिखा अपि च कर्त्तव्याः कुमारस्यार्षसङ्ख्ययेति” स्मरणात्। संस्कारैः पुत्रत्वमित्युक्तम् तानेवान्वयव्यतिरेकाभ्यामाह पितुर्गोत्रेणेति। यः पुत्र आचूडान्तं चूडान्तैः संस्कारैः पितुर्जनकस्य गोत्रेण सस्कृतः सोऽन्यतोऽन्यस्य पुत्रतां न याति। अयमत्राभिसन्धिः। कृतचूडस्य परिग्रहीतुः पुत्रताभावप्रतिपादनम् असाधारणपुत्रतां विषयीकरोतीत्यवश्यं वाच्यम्। अन्यथा गृहीत्वा पञ्चवर्षीयमिनेन कृतचूडस्यापि परिग्रहीतृपुतृताप्रतिपादनविरोधात्। गृहीत्वेत्यस्य च कृतचूडविषयत्वावश्यम्भावः स्पष्टमिष्यते ततश्च चूडान्तसंस्कृतस्य परिग्रहे द्व्यामुष्यायणता भवति गीत्रद्वयेन संस्कृतत्वात् तस्य च फलं गोत्रद्वयसम्बन्ध इत्यग्रे वक्ष्यते। अनेन जातकर्म्मादीनां चूडान्तानां संस्काराणां पुत्रताहेतुत्वमुक्तम्। आचूडमिति वक्तव्ये यदन्तग्रहणं तदकृतार्षसमसङ्ख्य शिखस्य पुत्त्रीकरणाभ्यनुज्ञानार्थं प्रधाननिष्पत्त्या पुत्त्रतार्हत्वात् चूल्लाद्या इति वक्ष्यमाणत्वाच्च। अकृतजातकर्म्माद्यसम्भवे कथमित्यत आह चूडाद्या यदीति। यदि चूडाद्याः संस्कारा निजगोत्रेण प्रतिग्रहीत्रगोत्रेण कृता वैशब्दोऽवधारणे तदैव दत्ताद्यास्तनयाः स्युरन्वथा ते दासा उच्यन्ते इति। चूडा आद्या येषां ते तथेति न तु चूडाया आद्या इति पूर्वेण पौनरुक्त्यापातात्। अनेन जातकर्म्माद्यन्नप्राशनान्तानां जनकगोत्रेणानुष्ठानेऽपि न विरोधः। तथा च अकृतजातकर्म्मादिर्मुख्यः अकृतचूडोऽनुकल्प इति सिद्ध्यति। दत्ताद्या इत्यादिपदेन कृत्रिमादिग्रहणमित्युक्तमेव तेषामपि संस्कारैरेव पुत्त्रत्वं न परिग्रहमात्रेण अन्यथा दास उच्यत इति विपक्षबाधकात्। अन्यथा चुडाद्यकरणे कृतचूडादिपरिग्रहे वा दासता भवति न तु पुत्त्रत्वमित्यर्थः अस्य पुत्त्रत्वस्य यूपत्वादिवत् संस्कारजन्यत्वात्। असंस्कृतः पुत्त्रीकार्य्य इति स्थितम् तत्रावध्यपेक्षायामाह ऊर्द्धमिति। असंस्कृतोऽपि पञ्चमादूर्द्ध्वं न ग्राह्यः कालाभावेन पुत्त्रत्वानुपपत्तेः। अनेन पञ्चैव वर्षाणि पुत्त्रपरिग्रहकाला इत्युक्तं भवति तद्व्यतिरेकेणाभिधानन्तु पञ्चमानन्तरं गौणोऽपि काली नास्तीति प्रतिपादनाय। अन्यथा “स्वकालादुत्तरः कालो गौणः सर्वः प्रकीर्त्तित” इति न्यायेन पञ्चमानन्तरस्य गौणकालत्वापत्तिः। ततश्च जननमारभ्यातृतीयवर्षं, तत्रापि तृतीयवर्षस्य मुख्यकालता ऊर्द्ध्वन्तु पञ्चमाद्वर्षादित्युपसंहारे वर्षश्रवणाच्च अत्रापि चूडाशब्दस्य तृतीयवर्षपरतैवाभिप्रेतेति गम्गते। अन्यथा उपनीतिसहभावपक्षे अष्टमवर्षस्याकृतचूडस्य परिग्रहापत्तिः। नचेष्टापत्तिः “ऊर्द्ध्वन्तु पञ्चमाद्वर्षादित्यनेन विरोधात्”। तस्मादाचूडान्तमित्यत्र चूडाशब्दस्तृतीयवर्षपर एव युक्तः तृतीयानन्तरमापञ्चमं गौणः ऊर्द्ध्वन्तु गौणोऽपि नेति स्थितम्”।

“यत्तुकात्यायनस्मरणम्। विक्रयञ्चैव दानञ्च न नेयाः स्युरनिच्छवः”। दाराः पुत्त्राश्च” इत्यनिच्छूनां दानादिनिषेधः सोऽपि पञ्चवार्षिकस्यैव नाधिकस्येति व्याख्ययम्। यच्च “सदृशन्तु प्रकुर्य्यात् यमिति” वाक्ये गुणदोषविचक्षणमिति पाठमभिग्रेत्य विचक्षणं न तु बालमिति सर्वज्ञेन व्याख्यातम् तदपि पञ्चवार्षिकमेव। विचक्षणं चातुर्य्यविशेषेण” न तु बालम् “बाल आ षोडशाद्वर्षात्” इति लक्षणविशिष्टं न कुर्य्यादित्यर्थ इति व्याख्येयम्। तर्ह्यसंस्कृताभावे कथमित आह ग्रहीत्वेति। पञ्चवर्षीयं चूडान्तसंस्कारसंस्कृतमित्यर्थः। ननु कथं तस्य ग्रहणं दासताभिधानादित्यत आह पुत्त्रेष्टिमिति। अयमत्राभिसन्धिः “अग्नये पुत्रवते पुरोडाशमष्टाकपालं निर्वपेदिन्द्राय पुत्रिणे पुरोडाशमेकादशकपालं प्रजाकामोऽग्निरेवास्मै प्रजां प्रजनयति वृद्धामिन्द्रः प्रयच्छतीति” वाक्ये प्रजाफलकत्वामष्टेः श्रूयते तत् यत्रानुत्पन्ना प्रजा तत्र तदुत्पत्तिरेव भाव्या यत्र तूतान्ना परिगृह्यते तत्रोत्पत्तेरभावात्तत्याः प्रजात्वमेव भाव्यमिति कल्प्यते प्रकृतविध्यन्यथानुपपत्तेः। तच्च दासत्वापनीदनमृते न सम्भवतीति तदपनोदोऽप्यवश्यमभ्युपेयः। अन्यथा प्रजात्वमात्रसम्पा कत्वे पुत्रपरिग्रहमात्रे स्यात्। यदि च संस्कारै- रेव तत्र पुत्रत्वोत्पत्तेर्न्न तदपेक्षेति तर्हि प्रकृतेऽपि तुल्यं प्रथमपदेनात्र तत्सूचनात्। “सर्वांस्तु कुर्य्यात् संस्कारान् जातकर्म्मादिकान्नरः” इत्यन्तेऽभिधानाच्च। तस्मात् पुत्रेष्ट्या पूर्वसंस्कारप्रयुक्तदासत्वापनोदपूर्वकप्रजात्वसम्पादनात् संस्कृतोऽपि परिग्राह्य इति स्थितम्। यद्येवं तर्हि संस्कृतमित्येव वाच्यम् किं पञ्चवर्षीयपदोपादानेनेति चेन्मैवम् पञ्चवर्षीयस्यैवेति नियमार्थत्वात् नियमश्चाक्षरग्रहणपूर्वकब्रह्मवर्च्चसफलकोपनयनप्राप्त्यर्थः। नचायन्नियमः पूर्ववाक्येनैब सिद्ध इति वाच्यम् तस्याकृतसंस्कारावधिसमर्पकत्वेन प्रकृतत्वाभावे परिगृहीतत्वात्। प्रथममिति संस्कारेभ्यः प्रागित्यर्थः। ननु परिग्रहहोमादेव प्रागिति कुतो नष्यते, गृहीत्वेति साङ्गाया ग्रहणभावनायाः क्त्वाप्रत्ययेन पूर्वकालतावगमात्। पुत्रेष्ट्या पूर्वसंस्कारापनोदेन संस्कारान्तरावश्यापेक्षणाच्चेति”। पुत्त्रच्छायावहमित्यस्यार्थस्तत्रैवोक्तो यथा

“पुत्रच्छाया पुत्रसादृश्यं तच्च नियोगादिना स्वयमुत्पादनयोग्यत्वम् यथा भ्रातृसपिण्डसगोत्रादिपुत्रस्य, नंचासम्बन्धिनि नियोगासम्भवः “वीजार्थं ब्राह्मणः कश्चिद्धनेनोपनिमन्त्र्यतामिति” स्मरणेन निमन्त्रणसम्भवात्। ततश्च भ्रातृपितृव्यमातुलदौहित्रभागिनेयादीनां निरासः पुत्रसादृश्याभावात्। एतदेवाभिप्रेत्योक्तमग्रे तेनैव “दौहित्रो भागिनेयश्च शूद्राणां विहितः सुतः। ब्राह्मणादित्रये नास्ति भागिनेयः सुतः क्वचिदिति”। अत्रापि भागिनेयपदं पुत्त्रासदृशानां सर्बेषामुपलक्षणं विरुद्धसम्बन्धस्य समानत्वात्। विरुद्धसम्बन्धश्च नियोगादिना स्वयमुत्पादनायोग्यत्वम्। यथा विरुद्धसम्बन्धो विवाहगृह्यपरिशिष्टे च वर्जितः। “दम्पत्योर्म्मिथः पितृमातृसाम्ये विवाहो विरुद्धसम्बन्धो यथा भार्य्यास्वसुर्दुहिता पितृव्यपत्नीस्वसा चेति”। अस्यार्थः यत्र दम्पत्योर्बधूवरयोः पितृमातृसाम्यं बध्वा वरः पितृस्थानीयो भवति वरस्य वा बधूर्मातृस्थानीया भवति तादृशो विवाहो विरुद्धसम्बन्धः तत्र यथाक्रममुदाहरणद्वयं भार्य्यास्वसुर्दुहिता श्यालिकापुत्त्री पितृव्यपत्नीस्वसा पितृव्यपत्न्या भनिनी चेति। तथा प्रकृते विरुद्धसम्बन्धः पुत्त्रो बर्त्जनीय इति यतो रतियोगः सम्भवति तादृशः कार्य्य इति यावत्।”

“परिग्रहविध्यभावे विशेषमाह मनुः। “अविधाय विधानं यः परिगृह्णाति पुत्त्रकम्। विवाहविधिभाजं तं कुर्य्यान्न धनभाजनमिति”। परिग्रहविधिं विना परिगृहीतस्य विवाहमात्रं कार्य्यं न धनदानमित्यर्थः किन्तु तत्र पत्न्यादय एव धनभाजः विधिं विना तस्य पुत्त्रत्वानुत्पादात्। अतएव वृद्धगौतमः “सगोत्रेषु कृता ये स्युर्दत्तक्रीतादयः सुताः। विधिना गोत्रतां यान्ति न सापिण्ड्यं विधीयते” इति विधिनैव गोत्रतां यान्तीति नियमः दानादिविधीनां दत्तकादिलक्षणान्तर्गतत्वेन स्वरूपनिर्वाहकत्वात् यथोक्तं “यमद्भिः पुत्त्रमापदि”। अब्ग्रहणं सकलदानविधेरुपलक्षणं तेन च प्रतिग्रहविधिरप्याक्षिप्तो भवति”। “मेधातिथिरपि दत्तकादिषु संस्कारनिमित्तमेव पुत्त्रत्वमाह “सत्यपि प्रयोगे इन्द्रादिशब्दवल्लोकतोऽर्थातिशयात् शास्त्रे चोत्पत्तिविधानात् भार्य्यादिव्यवहारवत् पुत्त्रत्वव्यवहारोऽवगन्तव्य इत्यादिग्रन्थसन्दर्भेण”। तस्मात् दत्तकादिषु संस्कारनिमित्तमेव पुत्त्रत्वमिति सिद्धम्। दानप्रतिग्रहहोमाद्यन्यतमाभावे तु पुत्त्रत्वाभाव एवेति।”

दत्तकस्य जनकग्रहीत्रोर्मध्ये सापिण्ड्यमस्ति न वेति संशनिर्णयाय सापिण्ड्यविशेषस्य तयोरभावस्तत्र प्रतिपादितः “ननु मनुवचनात् जनकगोत्रनिवृत्तावपि प्रतिग्रहीतृगोत्रप्राप्तौ किं मानमित्यत आह वृहन्मनुः। दत्तक्रीतादिपुत्त्राणां वीजवप्तुः सपिण्डता। पञ्चमी सप्तमी तद्वत् गोत्रं तत्पालकस्य चेति”। दत्तक्रीतादिपुत्त्राणां वीजवप्तुर्जनकस्य सपिण्डतास्त्येव दानादिनापि सा न निवर्तते तस्या अवयवान्वयरूपतया यावच्छरीरं दुरपनेयत्वात् अनेनावयवान्वय एव सापिण्ड्यं न पिण्डान्वय इत्युक्तं भवति पिण्डान्वयस्य “व्यपैति ददतः स्वधेति” अपगमावगमात्। सा च सपिण्डता कियतीत्यपेक्षायामाह पञ्चमी सप्तमीति। पञ्चानां पूरणी पञ्चमी पञ्चपुरुषव्याप्तेत्यर्थः एवं सप्तमी। गोतमोऽपि “ऊर्द्ध्वं सप्तमात् पितृवन्धुभ्यः वीजिनश्च मातृबन्धुभ्यः पञ्चमादिति”। अत्र वीजिग्रहणं दत्तकाद्युत्पादकानां सर्वेषामपि संग्रहार्थं न केवलं क्षेत्रजोत्पादकस्यैव “य एतेऽभिहिताः पुत्त्राः प्रसङ्गादन्यवीजजाः। यस्य ते वीजतो जातास्तस्य ते नेतरस्य त्विति” मनुस्मरणात्। तस्य ते पुत्त्रा इति पुत्त्रत्वप्रतिपादनं सापिण्ड्यप्रतिपादनार्थं न तु पुत्त्रत्वोत्पादनार्थं “पुत्त्रान् द्वादश यानाह” इत्यादिप्रतिग्रहीतृपुत्त्रत्वप्रतिपादनविरोधात् नेतरस्य प्रतिग्रहीतुरित्यर्थः। नन्वेवं कन्यावदुभयत्रापि सापिण्ड्यमास्तां प्रतिग्रहेण गोत्रवत् सापिण्ड्यस्याप्युत्पत्तेरिति चेन्मैवम् “सगोत्रेषु कृता ये स्युर्दत्तक्रीतादयः सुताः। विधिना गोत्रतां यान्ति न सापिण्ड्यं विधीयते” इति वृद्धगोतमस्मरणविरोधात्। ये दत्तादयः सुताः सगोत्रेषु सगोत्रमध्ये कृतास्ते विधिना गोत्रतां सन्ततित्वं यान्ति परन्तु तैः सह विधिना सापिण्ड्यं न विधीयते नोत्पद्यत इत्यर्थः। सगोत्रेष्वपि सापिण्ड्यनुत्पत्तौ परगोत्रे सुतरां सापि ण्ड्यानुत्पत्तिरुक्ता। युक्तञ्चैतत् पित्रारब्धत्वेन भर्त्रा सहैकशरीरारब्धकत्वेन च यथा उभयत्रापि सापिण्ड्यं सिद्ध्यति न तथा दत्तके पित्रारब्धत्वेऽपि प्रतिग्रहीत्रा सहैकशरीरारम्भकत्वाभावात्”। तत्र चायमर्थः धर्मार्थं स्वस्यालोकतापरिहारकधर्मसम्पत्त्यर्थं तत्तद्गोत्रेण जनकापेक्षया भिन्नगोत्रेणापि परिग्रहीत्रा पुत्रवत् पुत्त्रप्रतिनिधितया परिगृह्य ये पुत्रा वर्द्धिताः तेषु केवलं परिग्रहीत्रंशपिण्डविभागित्वमेव न सापिण्ड्यमिति तस्मात् अत्र दत्तके नापरिग्रहीतृसापिण्ड्यं किन्तु जनककुल एव साप्तपौरुषिकं सापिण्ड्यमिति सिद्धम्”।

“नन्वेवं दत्तकस्य प्रतिग्रहीतृकुले सापिण्ड्याभावे कथं विवाहो न स्यादिति चेत् सत्यम्। सगोत्रत्वादिति व्रूमः। तर्हि तद्भगिन्यादिसन्ततौ विवाहोऽस्तु सगोत्रत्वसपिण्डत्वयोरभावात् न चात्र निषेधकं वचनमुपलभामहे प्रत्युत “सावित्रीं यस्य यो दद्यात् तत्कन्यां न विवाहयेत्। तद्गोत्रे तत्कुले वापि विबाहो नैव दोषकृत्” इत्याद्यनुकूलमेव वचनमस्ति। न चेष्टापत्तिः अविच्छिन्नाविगीतसकलदेशीयशिष्टाचारविरोधात् तस्मात् किं तत्राविवाहनिमित्तमिति। अत्र कैश्चिदुच्यते “असपिण्डा च या मातुरसगोत्रा च या पितुः। सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने” इति मनुवाक्ये स्वस्यासपिण्डेति वक्तव्ये यत् पितुरसपिण्डावचनं तद्दत्तकस्य प्रतिग्रहीतृसपिण्डाया विवाहो मा प्रसाङ्क्षीदित्येवमर्थम् अन्यथा पितृद्वारके सापिण्ड्ये मूलपुरुषादष्टमस्य वरस्य, मातृद्वारके सापिण्ड्ये मूलपुरुषात् षष्ठ्याः कन्याया विवाहो न स्यात् पितुः सपिण्डत्वेन असपिण्डताऽभावात् न चष्टापत्तिः “पञ्चमात् सप्तमादूर्द्ध्वं मातृतः पितृतस्तथा” इत्यादिसकलस्मृतिनिबन्धशिष्टाचारविरोधात्। न चेदं दूषणं दत्तकेऽपि समानम् अष्टमस्य तस्य षष्ठ्याः कन्यायाः पितुः सषिण्डत्वेन अविवाह्यत्वप्रसङ्गादिति वाच्यम् “सपिण्डता तु पुरुषे सप्तमे विनिवर्तते” इति वक्ष्यमाणवाक्येन सप्तमस्य दत्तकपितुर्मूलपुरुषासपिण्डत्वेन षष्ठ्याः कन्यायास्तदसापिण्ड्येन षष्ट्याः सप्तमस्य च पितुः सपिण्डत्वाभावादित्युक्तमेव। तस्मात् दत्तकसापिण्ड्यनिर्णायकमिदमेव वचनमिति कानुपपत्तिः ७। तदतिभ्रान्तप्रलपितं विकल्पासहत्वात् तथा हि किमिदं दत्तकस्यैव सापिण्ड्यनिर्णायकम् उत दत्तकौरसयोरुभयोरिति। नाद्यः द्वेधा हि अस्य वचनस्य दत्तकविषयता सम्भवेत् दत्तकप्रक्रमाद्वा दत्तकमापिण्ड्यनिर्णायकविशेषवचनैकवाक्यत्वाद्वा न चेहोभयमप्यस्ति अनुपलम्भात्। किञ्चास्य दत्तकपरत्वे अत्रत्यं पितुपदं गौण्यां प्रतिग्रहीतृपितृपरं स्यात् तच्च अनिष्टम् “न विधौ परः शब्दार्थ” इति न्यायविरोधात्। नाप्यन्त्यः पितृपदे युगपद्वृत्तिद्वयविरोधात्। न च गङ्गायां मीनघाषावित्यत्रेव वृत्त्यन्तरतात्पर्य्यग्राहकं प्रमाणमस्ति। तस्मात् औरसबिषयमेवेदं वचनं गर्भाधानादिप्रक्रमात् “पञ्चमात् सप्तमादूर्द्ध्वमिति” वचनान्तरैकवाक्यत्वाच्च। न चास्यौरसपरत्वे कूटस्थात्” अष्टमस्य वरस्य षष्ठीकन्यायाश्च अनुद्बाह्यत्वप्रसङ्गः पितुरसपिण्डत्वाभावादित्युक्तमेव दूषणमिति वाच्यम् तस्य पितुरिति पञ्चम्यां षष्ठीभ्रमनिबन्धनत्वेन अदूषणत्वात्। अतएव योगीश्वरेण “मातृतपितृतस्तथा” इत्यत्र पञ्चमीत्वनिर्णायकस्तसिल्प्रयोग आदत्तः। तस्यापि सार्वविभक्तिकत्वशङ्कायाम् “ऊर्द्ध्वं सप्तमात् पितृबन्धुभ्यो वीजिनश्च मातृबन्धुभ्यः पञ्चमादिति” गौतमवाक्ये पञ्चम्या निर्णय इति न किञ्चित् समाधानमिति समाधानान्तरं वक्तव्यम्। तत्रापरे आहुः “क्षेत्रजादीन् सुतानेतानेकादश यथोदितान्। पुत्त्रप्रतिनिधीनाहुः क्रियालोपान्मनीषिणः” इत्यत्र वाक्ये क्षेत्रजादीनां पुत्रप्रतिनिधित्वाभिधानात् “प्रतिनिधिस्तद्धर्मा स्यादिति” न्यायेन सकलौरसधर्म्मप्राप्त्या प्रतिग्रहीत्रादिपितृमपिण्डावर्जनं सेत्स्यतीति। तन्न “न सापिण्ड्यं विधीयते” इत्यनेन निषिद्धस्य सापिण्ड्यस्य अतिदेशासम्भवेनाप्राप्त्या तद्वर्जनासम्भवात्। एतेन पुत्रनाम्ना औरसधर्मातिदेशात् प्रतिग्रहीत्रादिपितसपिण्डावर्जनसिद्धिरित्यपास्तम् “न तौ पशौ करोतीति” वत् निषिद्धस्य सापिण्ड्यस्य अतिदेशासम्भवेन वर्जनासम्भवात् तस्मात् अनन्यगत्या वाचनिकमेव प्रतिग्रहीतृकुले सापिण्ड्यम् अभ्युपगन्त- व्य पति। चेदुच्यते। द्विविधं हि सापिण्ड्यम् अवयवान्वयेन पिण्डान्वयेन चेति तत्रावयवान्वयसापिण्ड्यस्य दत्तके प्रत्यक्षवाधितत्वेन हेमाद्रिः पिण्डान्वयमेवोपादाय दत्तकादीनां प्रतिग्रहीतृकुले त्रिपुरुषमेव सापिण्ड्यं व्यवातिष्ठिपत्”।

“दत्तकानामेषा पिण्डान्वयरूपा अशौचाविवाह्यत्वादिपयोजिका त्रैपौरुष्येव सपिण्डता, न “लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः। पिण्डदः सप्तमस्तेपां मापिण्ड्यं साप्तपौरुषमिति” मात्स्याभिहिता साप्तपौरुषी तस्याः सामान्यरूपतया विशेषेणापवादात्”। “एतदेवाभिप्रेत्योक्तं संग्रहकारेण “दत्तकानान्तु पुत्राणां सापिण्ड्यं स्यात् त्रिपौरुषम्। जनकस्य कुले तद्वद्ग्रहीतुरिति धारणेति”। यदिदमुभयत्र त्रिपुरुषसापिण्ड्याभिधानं तत् द्व्यामुष्यायणाभिप्रायेण तस्य त्रिकद्वयेन सह सपिण्डीकरणाभिधानात् शुद्धदत्तकस्य तु प्रतिग्रहीवृकुले त्रिपुरुषं पिण्डान्वयरूपं सापिण्ड्यं जनककुले साप्तपौरुषमवयवान्वयरूपमेवेति। तद्वत् सपिण्डतावंत् गोत्रमपि वीजवप्तुर्जनकस्य न केयलं जनकस्य अपि तु तत्पालकस्य च दत्तकादेर्यः मालकस्तस्य च गोत्रं दत्तकादीनां भवतीति। अनेन सपिण्डतावैलक्षण्यं गोत्रेऽभिहित यथा सपिण्डता जनकम्यैव न तथा गोत्रं किन्तु उभयोरपि तदिति। न चेदमपि दत्तकमात्रे किन्तु द्व्यामुष्यायणे दत्तकविशेषे। तथा हि द्विविधा दत्तकादयो नित्यवद्द्व्यामुष्यायणा अनित्यवद्द्वामुष्यायणाश्चेति। तत्र नित्यवदद्व्यामुष्यायण नाम ये जनकप्रतिग्रहीतृभ्यामावथोरयं पुत इति संप्रतिपन्नाः। अनित्यवद्द्व्यामुष्यायणास्तु ये च्डान्तैःसंस्कारेर्जनकेन संस्कृताः उपनयादिभिश्च प्रतिग्रहीत्रा, तेषां गोत्रद्वयेनापि संस्कृतत्वात् द्व्यामुषकायणत्वं परन्त्रनित्यं जातमात्रस्यैव परिग्रहे गोत्रद्वयेन संस्काराभावात् तस्य प्रतिग्रहीत्रगीतमेव। तदिदं सर्वमभिप्रेत्याह सत्याषाढः “नित्यानां द्व्यामुष्यायणानां द्वयोरिति” सूत्रेण नित्यद्व्यमुष्यायणानां गोत्रद्वयप्रवरसम्बन्धमुक्त्वा तमेवानित्येष्वप्यतिविशति “दत्तकादीनान्तु द्व्यामुष्यायणवदिति” सूत्रेण। न्याख्यातञ्चैतत् शवरस्वामिभिः द्व्यामुष्यायणप्रसङ्गेनानित्यानाह दत्तकेति। तावदेव नोत्तरसन्ततौ प्रथमेनैव संस्काराः परिग्रहीत्रा चेत् तदा उत्तरस्य पूर्वत्वात्तेनैव उत्तरत्र। तथा पितृव्येण भ्रातृव्येण चैकार्षेण ये जातास्ते परिग्रहीतुरेवेति”। अस्य भाष्यस्यायमर्थः यो गोत्रद्वयेन संस्कृतस्तस्यैव गोत्रद्वयसम्बन्धो नोत्तरसन्ततेः जनकगोत्रसम्बन्धे किं कारणमित्यत आह प्रथमेनेति प्रथमो जनकस्तेनैव संस्कृतत्वात्। संस्काराश्च चौडान्ताः। “पितुर्गोत्रेण यः पुत्त्रः संस्कृतः पृथिवीपते!। आचूडान्तं न पुत्त्रः स पुत्त्रतां याति चान्यतः” इति कालिकापुराणात्। व्याख्यातञ्चैतत् प्रागेव अन्यस्यासाधारणीं पुत्त्रतां न याति किन्तु द्व्यामुष्यायणो भवतीति। प्रथमेनासंस्कारे कथमित्येत आह परिग्रहीत्रा चेदिति। परिग्रहीत्रैव जातकर्म्मादिसर्वसंस्कारकरणे चौडादिसंस्कारकरणेऽपि वा उत्तरस्य परिग्रहीतुरेव गोत्रम् तत्र हेतुः पूर्वत्वात् संस्कारकरणे प्रथमत्वात्। द्व्यामुष्यायणसन्ततौ दत्तकसन्ततौ चापेक्षितं गोतृमाह तेनैर्वति। परिग्रहीत्रगोत्रेणैव उत्तरसन्ततेर्गोत्रमुभयत्रापि। सगोत्रपरिग्रहमाह तथेति। जनकपरिग्रहीत्रोरेकगोतत्वेऽपि परिग्रहीत्रैव व्यपदेशः परिग्रहसंस्कारकरणादिति। यत्तु “गोत्ररिक्थे जनयितुर्न्न भजेद्दत्त्रिमः सुत इति तत्परिग्रहीत्रैव जातकर्म्मादिसर्वसंस्कारकरणपक्षे वेदितव्यम्। ये तु नित्यवद्द्व्यामुष्यायणादत्तकादयस्ते षां गोत्रद्वयम्। “द्व्यामुष्ययणका ये स्युर्दत्तकक्रीतकादयः। गोत्रद्वयेऽप्यनुद्वाहः शुङ्गशैशिरयोर्यथेति” पारिजातधृतस्मरणात्। गोत्रद्वये जनकगोत्रे परिग्रहीतृगोत्रे च। दत्तकादीनाञ्च द्व्यामुष्यायणत्वे” इदं वचनं “नित्यानां द्व्यामुष्यायणानामिति” सत्याषाढवचनं च प्रमाणम्। प्रवरमञ्जर्य्यामप्यनेनैवाभिप्रायेणोक्तं “दत्तक्रीतकृत्रिमपुत्त्रिकापुत्रादीनां यथासम्भवं गीत्रद्वयं सप्रवरमस्तीति” एतावता द्विगोत्राणां गोत्रद्वयं सप्रवरं विवाहे वर्ज्यमिति”।

शाखायां विशेषस्तत्रोक्तो यथा “शाखापि प्रतिग्रहीतुरेवेत्याह वशिष्ठः “अन्यशाखोद्भवो दत्तः पुत्रश्चैवोपनायितः। स्वगोत्रेण स्वशाखोक्तविधिना स स्वशाखभागिति”। स्वस्य प्रतिग्रहीतुः शाखा यस्मिन् कर्म्मणि तत् स्वशाखं कर्म्म तद्भजतीति स्वशाखभागिति प्रतिग्रहीतृशाखीयमे० कर्म तेन कर्त्तव्यमित्यर्थः। दत्तकादीनां मातामहा अपि प्रतिग्रहीत्री या माता तत्पितर एव पितृन्यायस्य मातामहेष्वपि समानत्वात्” दत्तकमीमांसाकृत्।

श्राद्धीयद्रव्यग्रहणनिषेधे विशेषस्तत्रोक्तो यथा

“एवं प्रतिग्रहीतृकुलश्राद्धीयद्रव्यं दत्तकाय प्रतिग्रहीतृजनककुलश्राद्धीयद्रव्यञ्च द्व्यामुष्यायणाय न दातव्यं “सपिण्डाय सगोत्राय श्राद्धीयं नैव दापयेत्। न भोजयेत् पितृश्राद्धे समानप्रवरं तथेति” हेमाद्रिपारिजातधृतवचनात्। श्राद्धीयं श्राद्धे दत्तद्रव्यम्”।

दत्तदुहिताऽपि ग्रहीतुं शक्यते यथोक्तं तत्रैव

“औरसपुत्त्रस्येव औरसपुत्त्र्या अप्यपचारे क्षेत्रजाद्याः पुत्र्यः प्रतिनिधयो भवन्ति। “मुख्यापचारे प्रतिनिधिरिति” न्यायात्। मुख्यत्वञ्चास्या दानादिविधौ साधनत्वेन साधनत्वञ्च ऋतुगमनविधिना साधिताया द्रव्यार्ज्जनविधिना अर्ज्जितस्य व्रीह्यादेः क्रतुसाधनत्ववत्। तथा हि रात्रिसत्रन्यायेन “ऋत्वियात् प्रजां विन्दामहे ऋत्वयात् प्रजां विन्दते” इत्याद्यर्थवादोन्नीते “ऋतावुपेयात् तस्मिन् संविशेत्” इत्यादौ नित्ये ऋतुगमनविधौ स्त्रीपुंससाधारण्याः श्रुतिसिद्धायाः प्रजाया एव भाव्यत्वमवगम्यते। प्रजनयतीति प्रजेतिव्युत्पत्त्या प्रजननशक्तिमतः स्त्रीपुंसयोरेव प्रजाशब्दवाच्यत्वात् न नपुंसकस्य, तस्य शुक्रशोणितसाम्यजन्यत्वेन नान्तरीयकत्वात्। अतएव “अनधीत्य द्विजो वेदमनुत्पाद्य च सन्ततिम्। अनिष्ट्वा विविधैर्यज्ञैर्म्मोक्षमिच्छन् पतत्यधः” इति तादृश्या एव सन्ततेरनुत्पादे अधःपातः स्मर्य्यते। संतनीत्यन्वयमिति सन्ततिः प्रजापर्य्याय एव। “प्रजा स्यात् सन्ततौ जने” इति कोषात्। एवम् “अपत्यार्थं स्त्रियः सृष्टाः स्त्री क्षेत्रं वीजिनो नराः। क्षेत्रं वीजवते देयं नावीजी क्षेत्रमर्हति” इत्यत्र अपत्यशब्दो व्याख्यातः “अपत्यं कस्मादपतनं भवति प्रनेन पततीति” यास्कस्मरणात्। “आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियान्त्वमी। आहुर्दुहितरं सर्वेऽपत्य तीकं तयोः समे” इति कोषाच्च। यद्यत्र “पुमान् पुरुमना भवति पुंसतेर्वेति” यास्कीक्त्या पुंपदं बहुज्ञपरं तदा पुंसतेर्वेति” तदुक्त्यैव प्रसवकर्त्तृमिथुनपरमेव व्याख्यायताम्। अतएव यास्कः “मिथुनाः पित्र्यदायादा” इति तदेतादृक, श्लोकाभ्यामप्युक्तम्। “अङ्गादङ्गात् सम्भवति हृदयादधिजीवसे। आत्मा वै पुत्रनामासि स जीव शरदां शतमिति”। “अविशेषेण पुत्राणां दायो भवति धम्मतः। मिथुनानां विसर्गादौ मनुः स्वायम्भुवोऽब्रवीत्” इत्यत्र पुत्रपदं मिथुनपरं दर्शितवान्। नचात्र मिथुनपदं पुत्रस्नुषापरमिति वाच्यम्। अङ्गादङ्गात् सम्भवसि इत्यस्यासङ्गतेः। “न दुहितर इत्येके पुमान् दायादोऽदायादा स्त्रीति विज्ञायत” इत्येकीयमते दुहितृनिराकारणासङ्गतेश्च। यच्च “नापुत्रस्य लोकोऽस्तीत्यादौ पुत्रपदं तदप्युभयपरमेव। “भ्रातृपुत्रौ स्वसृदुहितृभ्यामिति” पाणिनिना पुत्रदुहितृपदयोरेकशेषस्मरणात्। एतेन “अपुत्रेणैव कर्त्तव्यः पुत्रप्रतिनिधिः सदा” इत्यादावपि पुत्रपदं व्याख्यातम्। तत्साधनञ्च पुत्रिकाकरणलिङ्गमग्रे वक्ष्यते। अतएवोक्तस “तत्समः पुत्रिकासुत” इति। “अङ्गादङ्गात्सम्भवति पुत्रवद्दुहिता नृणामिति” च। यदि च अदृष्टवैकल्येन कन्यानुत्पादः तदा कृष्णप्रतिपच्छाद्धादिना तत्सम्पादनं कार्य्यं कृष्णचतुर्थीश्राद्धादिना पुत्रादृष्टस्येव”। यत्तु गमनकरणिकायामेव भावनायाम् “एवं गच्छन् पुत्रं जनयेदिति” पुत्रस्यैव भाव्यत्वं प्रतीयते तत्प्रजापदोपात्तयोः स्त्रीपुसयोर्म्मध्ये पुत्रस्य तद्वाक्यविहितगुणफलतया अवधृत्यानुवादः पुत्रार्थिप्रवृत्त्यर्थः। गुणाश्च युग्मनिशाशुक्राधिक्यस्त्रीक्षामतेन्दुसौस्थ्यपुंसवनापूपादयो योगिमन्वादिभिरेव एवमित्यादिना स्पष्टीकृताः। आश्वलायनेनापि पाणिग्रहणे पुत्रपुत्र्योर्गुणफलत्वं प्रकटितम्। “गृह्णामि ते सौभगत्वाय हस्तमित्यङ्गुष्ठमेव गृह्णीवात यदि कामयेत पुमांस एव मे पुत्रा जायेरन्नित्यङ्गुलीरेव, स्त्रीकामोरोमान्ते हस्तं साङ्गुष्ठमुभयकाम इति”। एतेन “स्त्रियोऽयुग्मासु रात्रिषु” इत्यपि व्याख्यातम्। तस्मात् पुत्रस्येव श्राद्धकर्त्तृत्वेन परलोकसाधनतया च पुत्र्या अपि दानश्राद्धादिविधिसाधनत्वेन सिद्धे मुख्यत्वे तदपचारे प्रतिनिधिर्युक्त एव। “दुहिता दुरहिता दूरे हिता दोग्धा” इति निरुक्त्या दुहितुर्द्दौहित्रद्वारापि पित्रुपकारकत्वं दर्शयति यास्कः मनुरपि “पौत्रदौहित्रयोर्लोके विशेषो नोपपद्यते। दौहित्रोऽपि ह्यमुत्रैनं सन्तारयति पौत्रवदिति”। महाभारते गान्धार्य्युक्तिश्च “एका शताधिका बाला भविष्यति गरीयसी। तेन दौहित्रजाल्लो~कान् प्राप्नुयामिति मे मतिः”। अन्यत्रापि “दुहितर एव मातापित्रोः किमौरसाः पुत्रः। निपतन् दिवो यथा- तिर्दौहित्रैरुद्धृतः पूर्वमिति”। दौहित्रैरष्टकादिभिः कानीनैर्म्मागधीपुत्रैः। एवञ्चौरसदुहित्रभावे दौहित्रकृतलोकप्राप्त्यर्थं क्षेत्रजादिदुहितॄणामपि प्रतिनिधित्वेनोपादानं सिद्धमेव। न च व्रीहिप्रतिनिधित्व इव वचनमस्ति। यद्येवं तर्हि भर्त्रपचारे देवरस्येव भार्य्यापचारे श्यालिकायाः प्रतिनिधित्वं स्यात् श्वशुरशरीरावयवान्वयेन सौसादृश्यादिति चेन्मैवम् नहि श्वशुरशरीरावयवान्वयेन भार्य्योपादानं किन्तु तस्याः संस्कृतस्त्रीत्वेन, न च तत् श्यालिकायामस्ति। यत्र च कनिष्ठादौ तदस्ति तत्र भवत्येव तस्याः ज्येष्ठाप्रतिनिधित्वम्। यथाह व्यतिरेकमुखेन योगीश्वरः। “सत्यामन्यां सवर्णायां धर्म्मकार्य्यं न कारयेत्। सवर्णासु विधौ धर्म्मे ज्येष्ठया न विनेतरेति”। तस्मात् सिद्धमासां न्यायत एव प्रतिनिधित्वम्”।

“दुहितृप्रतिनिधौ पुराणेषु लिङ्गदर्शनानि उपलभ्यन्ते। तत्र दत्तकाया रामायणे बालकण्डे दशरथं प्रति सुमन्त्रस्य सनत्कुमारोक्तभविष्यानुवादो लिङ्गम्। “इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः। नाम्ना दशरथो वीरः श्रीमान् सत्यपराक्रमः। सख्यं तस्याङ्गराजेन भविष्यति महात्मना। कन्या चास्य महाभागा शान्ता नाम भविष्यति। अपुत्रस्त्वङ्गराजो वै लोमपाद इति श्रुतः। स राजानं दशरथं प्रार्थयिष्यति भूमिपः अनपत्योऽस्मि धर्मज्ञ! कन्येयं मम दीयताम्। शान्ता शान्तेन मनसा पुत्रार्थे वरवर्णिनी। ततो राजा दशरथो मनसाभिविचिन्त्य च। दास्यते तां तदा कन्यां शान्तामङ्गाधिपायः सः। प्रतिगृह्य तु तां कन्यां स राजा विगतज्वरः। नगरं यास्यति क्षिप्रं प्रहृष्टेनान्तरात्मना। कन्यां तामृष्यशृङ्गाय प्रदास्यति स वीर्य्यवान्” इत्यादि”।

“तत्रैव ऋष्यशृङ्गं प्रति लोमपादवाक्यम्। “अयं राजा दशरथः सखा मे दयितः सुहृत्। अपत्यार्थं ममानेन दत्तेयं वरवर्णिनी। याचमानस्य मे व्रह्मन्! शान्ता प्रियतमा मम। सोऽयं ते श्वशुरो धीर! यथैवाहं तथा नृपः” इत्यादि। अत्र दीयतां दास्यते प्रतिगृह्य दत्ताशब्दैर्द्दानविधिः स्पष्ट एव। तथा पुत्र इत्युपक्रम्य पुत्रार्थ इत्युपसंहारात् औरसपुत्रीवत् दत्तपुत्र्यपि पुत्रप्रतिनिधिर्भवतीति गम्यते”।एवं कृत्रिमादिपुत्रीकरणमपि शकुन्तलादीतिहासादौ दृश्यम्।

“दत्तकाशौचनिर्णयः। तच्च जनककुले परस्परं नास्त्येव। “गोत्ररिक्थे जनयितुर्न भजेद्दत्त्रिमः सुतः। गोत्ररिक्थानुगः पिण्डो व्यपैति ददतः स्वधा” इति मनुवचनात्। अत्र च स्वधापिण्डशब्दौ अशौचादिसकलपितृकर्मोपलक्षणं पिण्डदानादिनिमित्तीभूतगोत्ररिक्थयोर्निवृत्तिश्रवणात् प्रेतपिण्डदानादेश्चाशौचपूर्वकालत्वनियमात् ततश्च पिण्डनिवृत्त्या अशौचनिवृत्तिरर्थ्रसिद्धैव। “असगोत्रः सगोत्रो वा यदि स्त्री यदि वा पुमान्। प्रथमेऽहनि योः दद्यात् स दशाहं समापयेत्। प्रग्राहिणान्तु नैव स्यात् कर्त्तुः स्वस्ति तथापि च। यावदशौचमुदकं पिण्डमेकञ्च दद्युः” इत्यादिवाक्यपर्य्यालोचनया पिण्डाशौचयोः समव्याप्तिसिद्धैः तस्मात् दत्तकतज्जनकादीनाञ्च परस्परं नाशौचादि। यत्तु “वैजिकादपि सम्बन्धादनुरुन्ध्यादघं त्र्यहमिति” तदपि “व्यपैति ददतः स्वधा” इत्यनेनापोदितम् दत्तकातिरिक्तस्थले तस्य सावकाशत्वात्। किञ्च अशौचोदकदानादौ गोत्रसापिण्ड्ययोर्मिलितयोर्निमित्तत्वावगमात् अन्यतरापाये न तन्निमित्तमशौचादि। तथा च शङ्खलिखितौ “सपिण्डता तु विज्ञेया गोत्रतः साप्तपौरुषी। पिण्डश्चोदकदानञ्च शौचाशौचं तदानुगमिति”।

प्रतिग्रहीतृपित्रादीनान्तु दत्तकादिमरणे त्रिरात्रमशौचम्। तदाह वृहस्पतिः अन्याश्रितेषु दारेषु परपत्नीसुतेषु च। मृतेष्वाप्लुत्य शुद्ध्यन्ति त्रिरात्रेण द्विजोत्तमाः”। इदञ्च त्रिरात्राशौचविधानं यत्प्रतियोगिकं भार्य्यात्वं पुत्रत्वञ्च तस्यैव। त्रिपुरुषालन्तरवर्तिनां पितृसपिण्डानान्तु पृथगाह मरीचिः “सूतके मृतके चैव त्रिरात्रं परपूर्वयोः। एकाहस्तु सपिण्डानां त्रिरात्रं यत्र वै पितुः” इति। यद्यपि दत्तकादीनामुत्पन्नानामेव स्वीकारात् परिग्रहीतुस्तदुत्पत्त्याशौचं न घटते तथापि तदपत्योत्पत्त्याशौचं घटत एवेति सूतकनिर्द्देशः। इदमपि समानजातीयानामेव पुत्राणाम्। तथा च ब्रह्मपुराणम्। “औरसं वर्ज्जयित्वा तु सर्ववर्णेषु सर्वदा। क्षेत्रजादिषु पुत्रेषु जातेषु च मृतेषु च। अशोचन्तु त्रिरात्रं स्यात् समान इति निश्चयः” इति। सर्वदा सर्वकाले उपनयनान्तरमपि। “अन्याश्रितेषु दारेषु परपत्नीसुतेषु च। गोत्रिणः स्नानशुद्धाः स्युस्त्रिरात्रेणैव तत्त्ववित्” इति। यद्यपि प्रतिग्रहीतृमरणे दत्तकस्य दशाहाशौचं न घटते सपिण्डसगोत्रत्वयोंर्मिलितयोरभावात् अशौचविशेषश्चाहत्य नोपलभ्यते तथापि “गुरोः प्रेतस्य शिष्यस्तु पितृमेधं समाचरन्। प्रेतहारैः समं तत्र दशरात्रेण शुद्ध्यतीति” मरीचिवचनेन शिष्यस्य गुरुप्रेतकार्य्यकरणनिमित्तदशाहाशौचमुक्तम्भवति। अत्र गुरुशब्द आचार्य्यादिरूपः। गुरुत्वमत्राप्यस्ति उपनयनादिकर्तृत्वात्। ततश्च दत्तकस्य प्रतिग्रहीतृक्रियाकरण एव दशरात्राशौचं सिद्ध्यति अन्यथा त्रिरात्रमेव पूर्वोक्तवचनात्। एवं दत्तकस्य प्रतिग्रहीतुस्त्रिपुरुषानन्तरवर्तिसपिण्डमरणे एकाहः “एकाहस्तु सपिण्डानाम्” इति पूर्वोक्तमरीचिवाक्यात्। सोदकसगोत्रयोर्मरणे स्नानमात्रम्। “अन्याश्रितेषु दारेषु परपत्नीसुतेषु च” इति पूर्वोक्तप्रजापतिवाक्यात्”।

अन्येऽपि मीमांसादौ विशेषाः सन्ति ते च तत एवावगन्तव्या विस्तरभयात् न लिखिताः। दत्तकचन्द्रिकानुसारिव्यवस्था वङ्गदेशे प्रचलिता मीमांसानुसारिव्यवस्था तु पाश्चात्त्यदेशप्रचलितेति भेदः।

वीरमित्रोदये अकृतानुज्ञे भर्त्तरि मृते स्त्रिया दत्तको ग्रहीतुं शक्यते इति व्यवस्थापितम् यथा “न तु स्त्री पुत्रं दद्यात्प्रतिगृण्हीयाद्वान्यत्रानुज्ञानाद्भर्त्तुरिति”। अत्र भर्त्रनुज्ञां विना स्त्रियाः पुत्रप्रतिग्रहनिषेधाददत्तानुज्ञे भर्त्तरि मृते बिधवया कृतः पुत्रो दत्तको न भवतीत्याहुस्तन्न अपुत्रस्य गत्यभावात्पुत्रकरणस्यावश्यकत्वश्रवणाच्छास्त्रमूलकतदनुज्ञायास्तत्राप्यक्षतेः। न चैवमनुज्ञानादन्यत्रेति व्यर्थम् व्यावर्त्त्याभावाच्छास्त्रीयानुमतेः सर्वत्रावश्यकत्वादिति वाच्यम्। मुमुक्षोः, पत्न्यन्तरे पुत्रवतो वानुज्ञाया असम्भवाद्भार्य्या यदि स्वपुत्रार्थिनी तां प्रति निषेधात्। तथा हि “सर्वासामेकपत्नीनामेका चेत्पुत्रिणी भवेत्। सर्वास्तास्तेन पुत्रेण प्राह पुत्रवतीर्मनुरिति”। पुत्रकार्य्यश्राद्धादेः सपत्नीपुत्रेण सिद्धेर्भर्त्रनुज्ञां विना तादृश्याः पुत्रो न कार्य्यः। उभयोरपि तत्र कार्य्यस्य तेन निष्पत्तेः। भर्त्तुर्हि स औरस एव मुख्यः तस्या अपि दत्तवद्गौण इति तादृश्या भर्त्रनुमतिमन्तरेणेतरो न प्रतिग्राह्य इति तात्पर्य्यार्थः। वस्तुतस्तु “भ्रातॄणामेकजातानामेकश्चेत् पुत्रवान् भवेत्। सर्वा~स्ता~स्तेन पुत्रेण पुत्रिणो मनुरब्रवीदिति” वचनवदेतस्यापि भ्रातृपुत्रस्य गौणदत्तकपुत्रत्वादिसम्भवेऽन्यपुत्रप्रतिनिधिर्न कार्य्य इत्यर्थकतया मिताक्षरा- स्मृतिचन्द्रिकादौ व्याख्यातत्वाद्भर्त्तरि जीवति भार्य्यया स्वातन्त्र्येण तदननुमत्या न पुत्रीकरणीय इति भर्त्तुरनुज्ञानादन्यत्रेत्यस्यार्थः। मृते तु तस्मिन् न पारतन्त्र्यम् तस्या यत्पारतन्त्र्यं तदनुमतिरेवापेक्षिता। एवं सति दृष्टार्थता भवति प्रतिषेधस्य,। तस्माददत्तानुज्ञे मृतेऽपि भर्त्तरि भार्य्याया दत्तकादिकरणमविरुद्धम्। मनुवचनद्वयस्य पूर्वोक्तार्थकत्वे उपपत्तिरपि मिताक्षरादावेवोक्ता”।

इयमपि व्यवस्था पाश्चात्त्यकदेशे प्रचलिता। ८ वैश्यस्योपाधिभेदे “शर्मा देवश्च विप्रस्य वर्मा त्राता च भूभुजः। भूतिर्दत्तश्च वैश्यस्य दासः शूद्रस्य कारयेत्” उद्वा० त०।

दत्तशत्रु = पु० अधिदेवनृपपुत्रभेदे दत्तशर्म्मापि तत्पुत्रभेदे हरिवं० ३९ अ० दत्तशब्दे दृश्यम्।

***