दण्डक = पु० दण्ड + स्वार्थे क। १ इक्ष्वाकुराजपुत्रभेदे “दण्ड- को नृपतिः कामात् क्रोधाच्च जनमेजयः” कामन्दकी। जनस्थानशब्दे दृश्यम्। ह्रस्वो दण्डः अल्पार्थे कन्। २ ह्रस्वलगुडे(सो~टा)। ३ षड्विंशत्यक्षराधिकपादके चण्डप्रयातादौ छन्दोभेदे। “यदिह नयुगलं ततः सप्तरेफास्तदा चण्डप्रयातो भवेद्दण्डकः” वृ० र०। ४ दण्डनृपकृते सन्निवेशे पु०। “दण्डकानध्यवात्तां यौ” भट्टिः पुंस्त्वेन बहुवचनान्ततया जयमङ्गलः पपाठ। “पराक्रमात् जिगमिषुरेव दण्डकान्” रामा० अयो० २१ स० ६४ श्लो०। “प्राप्तानि दुःखान्यपि दण्डकेषु” रघुः। तद्भूमिपरत्वे स्त्री त्रिका० “भरतस्तु दण्डकामध्यवात्तां यौ” इति पपाठ उदाजहार च “क्वायोध्यायाः पुनरुपगमो दण्डकायावने वः” भवभूतिवाक्यम्। तच्च वनं वृ० स० १४० अ० कूर्म्मवि० दक्षिणस्यामुक्तं यथा “बलदेवपट्टनदण्डकावनतिमिङ्गिनाशना भद्राः”।

दण्डकन्दक = पु० दण्डः प्रकाण्डः कन्दोऽस्य कप्। भूमिकन्दे राजनि०।

दण्डकाक = पुंस्त्री० दण्डः यम इव कृष्णत्वात् काकः। (डा~ड) काकभेदे हेमच०।

दण्डगौरी = स्त्री अप्सरोभेदे “उर्वशी मिश्रकेशी च दण्डगौरी वरूथिनी” भा० व० ४३ अ०।

दण्डग्राह = त्रि० दण्डं गृह्णाति ग्रह–अण् उप० स०। दण्डधारके ततः रेवत्या० अपत्यादौ ठक्। दाण्डग्राहिक तदपत्यादौ पुंस्त्री०।

दण्डघ्न = त्रि० दण्डेन देहेन हन्ति हन–क। देहेन घातिनि दण्डपारुष्यकर्त्तरि। “न साहसिकदण्डघ्नौ स राजा शक्रलोकभाक्” मनुः।

दण्डढक्का = स्त्री दण्डा प्रकाण्डा ढक्का। (दामामा) ख्याते वाद्यभेदे त्रिका०।

दण्डताम्री = स्त्री ताम्रेण निर्वृत्ता अण् ङीष् दण्डा प्रकाण्डा ताम्री। ताम्रीवाद्यभेदे शब्दर०।

दण्डदास = पु० दण्डेन कृतो दासः। दण्डद्रव्यदानासामर्थ्येन तच्छोधनार्थं स्वीकृतदासभावे दासभेदे “ध्वजाहृतो भक्तदासो गृहजः क्रीतदत्त्रिमौ। पैतृको दण्डदासश्च सप्तैते दासयोनयः” मनुः। “दण्डादिधनशुद्ध्यर्थं स्वीकृतदासभावः” कुल्लू०।

दण्डधर = पु० दण्डं लोकानां कर्मानुसारिणं दण्डं लगुडं वा धरति धर–अच् ६ त०। १ यमे अमरः २ नृपे। ३ लगुडधारके त्रि०। “श्रमनुदं मनुदण्डधरान्वयम्” रघुः। “ईशो दण्डस्य वरुणो राज्ञां दण्डधरो हि सः” मनुः। “नाहं दण्डधरस्तव” भा० शा० २३ अ०।

दण्डधार = पु० दण्डं धरति धृ–अण् उप० म०। १ यमे २ नृपे च मेदि०। ३ लगुडहस्ते त्रि० “क्रोधवर्द्धन इत्येव यस्त्वन्यः परिकीर्त्तितः। दण्डधार इति ख्यातः स आसीन् नृपतिः क्षितौ” भा० आ० ६७ अ० उक्ते ४ नृपभेदे पु० ५ धृतराष्ट्रपुत्रभेदे। “कवची निषङ्गी दण्डी दण्डधारो धनुर्ग्रहः” ६७ अ० धृतराष्ट्रपुत्रकथने।

दण्डनायक = पु० दण्डं नयति नी–ण्वुल् ६ त०। १ सेनान्याम् हेमच०। दण्डप्रणेतरि २ नृपे च।

दण्डनीति = स्त्री दण्डो नीयतेऽनया नी–करणे क्तिन्। विद्याभेदे। “एकैव दण्डनीतिस्तु विद्येत्यौशनसी स्थितिः। तस्यान्तु सर्वविद्यानामारम्भाः समुदाहृताः”। “दमो दण्ड इति ख्यातस्तात्स्थ्याद्दण्डो महीपतिः। तस्य नीतिर्दण्डनीतिर्नयनान्नीतिरुच्यते” काम० नीतिः। तच्छास्त्रविषयविभागादि भा० शा० ५९ अ० उक्तं यथा

“ततोऽध्यायसहस्राणां शतञ्चक्रे स्वबुद्धिजम्। यत्र धर्मस्तथैवार्थः कामश्चैवाभिवर्णितः। त्रिवर्ग इति विख्यातो गण एष स्वयम्भुवा। चतुर्थो मोक्ष इत्येव पृथगर्थः पृथग्गुणः। मोक्षस्यापि त्रिवर्गोऽन्यः प्रोक्तः सत्त्वं रजस्तमः। स्थानं वृद्धिः क्षयश्चैव त्रिवर्गश्चैव दण्डजः। आत्मा देशश्च कालश्चाप्युपायाः कृत्यमेव च। सहायाः कारणञ्चैव षड्वर्गो नीतिजः स्मृतः। त्रयी चान्वीक्षिकी चैव वार्त्ता च भरतर्षभ!। दण्डनीतिश्च विपुला विद्यास्तत्र निदर्शिताः। अमात्यरक्षा प्रणिधी राजपुत्त्रस्य लक्षणम्। चारश्च विविधोपायः प्रणिधेयः पृथग्विधः। साम भेदः प्रदानञ्च ततो दण्डश्च पार्थिव!। उपेक्षा पञ्चमी चात्र कार्त्स्न्येनैवमुदाहृता। मन्त्रश्च वर्णितः कृत्स्नस्तथा भेदार्थ एव च। विभ्रमश्चैव मन्त्रस्य सिद्ध्यसिद्ध्योश्च यत् फलम्। सन्धिश्च त्रिविधाभिख्यो हीनो मध्यस्तथोत्तमः। भयसत्कारवित्ताख्यं कार्त्स्न्येन परिवर्णितम्। यात्राकालाश्च चत्वारस्त्रिवर्गस्य च विस्तरः। विजयो धर्मयुक्तश्च तथार्थविजयश्च ह। आसुरश्चैव विजयस्तथा कार्त्स्न्येन वर्णितः। लक्षणं पञ्चवर्गस्य त्रिविधञ्चात्र वर्णितम्। प्रकाशश्चाप्रकाशश्च दण्डोऽथ परिशब्दितः। प्रकाशोऽष्टविधस्तत्र गुह्यस्य च सुविस्तरः। रथा नागा हयाश्चैव पादाताश्चैव पाण्डव!। विष्टिर्नावश्चराश्चेह दैशिका इति चाष्टमम्। अङ्गान्येतानि कौरव्य! प्रकाशानि बलस्य तु। जङ्गमाजङ्गमाश्चोक्ताश्चूर्णयोगा विषादयः। स्पर्शे चाभ्यवहार्य्ये चाप्युपांशुस्त्रिविधः स्मृतः। अरिर्मित्रमुदासीन इत्येतेऽप्यनुवर्णिताः। कृत्स्ना मार्गगुणाश्चैव तथा भूमिगुणाश्च ह। आत्मरक्षणमाश्वासः सर्गाणाञ्चान्ववेक्षणम्। कल्पना विविधाश्चापि नृनागरथवाजिनाम्। व्यूहाश्च विविधाभिख्या विचित्रं युद्धकौशलम्। उत्पाताश्च निपाताश्च सुयुद्धं सुपलायितम्। शस्त्राणां पालनं ज्ञानं तथैव भरर्तषभ!। बलव्यसनमुक्तञ्च तथैव बलहषर्णम्। पीडातापदकालश्च पत्तिज्ञानञ्च पाण्डव!। तथा खातविधानञ्च योगसञ्चार एव च। चौरैराटविकेश्चोग्रैः परराष्ट्रस्य पीडनम्। अग्निदैर्गरदैश्चैव प्रतिरूपककारकैः। श्रेणीमुख्योपजापेन वीरुधश्छेदनेन च। भूषणेन च नागानामातङ्काजननेन च। आराधनेन भक्तस्य प्रत्ययोपार्ज्जनेन च। सप्ताङ्गस्य च राज्यस्य ह्रासवृद्धी समञ्जसम्। कृतसामर्थ्ययोगाच्च राष्ट्रस्य च विवर्द्धनम्। अरिमध्यस्थमित्राणां सम्यक् चोक्तं प्रपञ्चनम्। अवमर्द्दः प्रतीघातस्तथा चैव बलीयसाम्। व्यवहारः सुसूक्ष्मश्च तथा कण्टकशोधनम्। श्रमो व्यायामयोगश्च त्यागो द्रव्यस्य संग्रहः। अभृतानाञ्च भरणं भृतानाञ्चान्ववेक्षणम्। अर्थस्य काले दानञ्च व्यसने चाप्रसङ्गिता। तथा राजगुणाश्चैव सेनापतिगुणाश्च ह। कारणञ्च त्रिवर्गस्य गुणा दोषास्तथैव च। दुष्टेप्सितञ्च विविधं वृत्तिश्चैवानुवर्त्तिनाम्। शङ्कितत्वञ्च सर्वस्य प्रसादस्य च वर्जनम्। अलब्धलाभो, लब्धस्य तथैव च विवर्द्धनम्। प्रदानञ्च विवृद्धस्य पात्रेभ्यो विधिवत्ततः। विसर्गोऽर्थस्य धर्म्मार्थं कामहेतुकमुच्यते। चतुर्थं व्यसनाघाते तथैवात्रानुवर्ण्णितम्। क्रोधजानि तथोग्राणि कामजानि तथैव च। दशोक्तानि कुरुश्रेष्ठ! व्यसनान्यत्र चैव ह। मृगयाक्षास्तथा पानं स्त्रियश्च भरतर्षभ!। कामजान्याहुराचार्य्याः प्रोक्तानीह स्वयम्भुवा। वाक्पारुष्यं तथोग्रत्वं दण्डपारुष्यमेव च। निग्रहोऽथात्मनस्त्यागमर्थदूषणमेव च। यन्त्राणि विविधान्येव क्रियास्तेषाञ्च वर्ण्णिताः। अवमर्द्दः प्रतीघातः केतनानाञ्च भञ्जनम्। चैत्यद्रुमावमर्दश्च रोधः कर्म्मानुशासनम् अपस्करोऽथ गमनं तथोपायाश्च वर्ण्णिताः। पणवानकशङ्खानां भेरीणाञ्च युधिष्टिर!। उपार्जनञ्च द्रव्याणां परिमर्दश्च तानि षट्। लब्धस्य च प्रशमनं सताञ्चैवाभिपूजनम्। विद्वद्भिरेकीभावश्च दानहोमविधिज्ञता। मङ्गलालम्भनञ्चैव शरीरस्य प्रतिक्रिया। आहारयोजनञ्चैव नित्यमास्तिक्यमेव च। एकेन च यथोत्थेयं सत्यत्वं मधुरं गिरः। उत्सवानां समाजानां क्रियाकेतनजास्तथा। प्रत्यक्षाश्च परोक्षाश्च सर्वाधिकरणेष्वथ। वृत्ते भरतशार्दूल! नित्यञ्चैवान्ववेक्षणम्। अदण्ड्यत्वञ्च विप्राणां युक्त्या दण्डनिपातनम्। अनुजीविस्वजातिभ्यो गुणेभ्यश्च समुद्भवः। रक्षणञ्चैव पौराणां राष्ट्रस्य च विवर्द्धनम्। मण्डलस्था च या चिन्ता राजन्! द्वायशराजिका। द्वासप्ततिविधा चैव शरीरस्य प्रतिक्रिया। देशजातिकुलानाञ्च धर्म्माः समनुवर्णिताः। धर्मश्चाथश्च कामश्च मोक्षश्चात्रानुवर्णितः। उपायश्चार्थलिप्सा च विविधा भूरिदक्षिणा। मूलकर्मक्रिया चात्र मायायोगश्च वर्णितः। दूषणं स्रोतसाञ्चैव वर्ण्णितं च स्थिराम्भसाम्। यैर्यैरुपायैर्लोकस्तु न चलेदार्य्यवर्त्मनः। तत्सर्वं राजशार्दूल! नीतिशास्त्रेऽभिवर्णितम्। एतत् कृत्वा शुभं शास्त्रं ततः स भगवान् प्रभुः। देवानुवाच संहृष्टः सर्वाञ्छक्रपुरोगमान्। उपकाराय लोकस्य त्रिवर्गस्थापनाय च। नवनीतं सरस्वत्या बुद्धिरेषा प्रभाविता। दण्डेन सहिता ह्येषा लोकरक्षणकारिका। निग्रहानुग्रहरता लोकाननुचरिष्यति। दण्डेन नीयते चेदं दण्डं नयति वा पुनः। दण्डनीतिरिति ख्याता त्रींल्लोकानतिवर्त्तते। षाड्गुण्यगुणसारैषा स्थास्यत्यग्रे महात्मसु। धर्म्मार्थकाममोक्षाश्च सकला ह्यत्र शब्दिताः। ततस्तां भगवान्नीतिं पूर्बं जग्राह शङ्करः। बहुरूपो विशालाक्षः शिवः स्याणुरुमापतिः। प्रजानामायुषो ह्रासं विज्ञाय भगवान् शिवः। सञ्चिक्षेप ततः शास्त्रं महार्थं ब्रह्मणा कृतम्। विशालाक्षमिति प्रोक्तं तदिदं प्रत्यपद्यत। दशाध्यायसहस्राणि सुब्रह्मण्यो महातपाः। भगवानपि तच्छास्त्रं सञ्चिक्षेप पुरन्दरः। सहस्रैः पञ्चभिस्तात! यदुक्तं बाहुदन्तकम्। अध्यायानां सहस्रंस्तु त्रिभिरेव वृहस्पतिः। सञ्चिक्षेपेश्वरो बुद्ध्या वार्हस्पत्यं यदुच्यते। अध्यायानां सहस्रेण काव्यः संक्षेपमब्रवीत्। तच्छास्त्रममृतप्रज्ञो योगाचार्य्यो महायशाः। एवं लोकानुरोधेन शास्त्रमेतन्महर्षिभिः। संक्षिप्तमायुर्विज्ञाय मर्त्यानां ह्रासमेव च।” २ दुर्गायाम् “नयानयगता लोके विकल्पनिलयामला। दण्डनाद्नयनाद्वापि दण्डनीतिरिति स्मृता” देवीपु० ४५ अ० भावे क्तिन्। ३ दण्डप्रणयने स्त्री।

दण्डनेतृ = न० दण्डं नयति अपराधिनम् नी–तृच् ६ त०। दण्डप्रणायके नृपे। “सैन्यापत्यञ्च राज्यञ्च दण्डनेतृत्वमेव च” मनुः।

दण्डप = पु० दण्डेन पाति पा–क। दण्डेन पालके नृपे तस्यापत्यं नडा० फक्। दाण्डपायन तदपत्ये पुंस्त्री।

दण्डपांशुल = पु० दण्डेन यष्टिधारणेन पांशुलः अधमः। द्वारपाले शब्दर०।

दण्डपाणि = पु० दण्डः यष्टिः पाणौ यस्य। दण्डधरे यमे। काशीस्थे २ भैरवभेदे “विश्वेशं माधवं ढुण्ढिं दण्डपाणिञ्च भैरवम्” स च पूर्णभद्रयक्षसुतो हरिकेशनामा आराधितशिववरेण काश्यां दण्डपाणिनामत्वमवाप। यथाह काशीख० ३२ अ० “इति श्रुत्वा वचः पत्न्याः पूर्णभद्रः स यक्षराट्” इत्थुपक्रमे “अन्तर्वत्न्यथ कालेन तत्पत्नी सुषुवे सुतम्। तस्य नाम पिता चक्रे हरिकेश इति द्विज!” इत्यनेन तस्योत्पत्तिमुक्त्वा तस्य शिवाराधनमुपवर्ण्य तपसाप्रसन्नशिवस्य तस्मै वरदानमुक्तं यथा “भक्तस्य धीरस्य तपोनिधेदेदौ हरो वराणां निकरं तदा मुदे। क्षेत्रस्य यक्षास्य मम प्रियस्य भो भवाधुना दण्डधरो वरान्मम। स्थिरस्त्वमद्यादि दुरात्मदण्डकः सुपालकः पुण्टकृताञ्च मत्प्रियः। त्वं दण्डपाणिर्भव नामतोऽधुना सर्वान् गणान् शाधि ममाज्ञयोत्कटान्। त्वत्सात्कृतक्षेत्रवरेऽद्य यक्षराट् कस्त्वामनाराध्य मुमुक्तिभाजनम्। सभाजनं प्रागत एव ते चरेत् ततः समर्च्चा मम भक्त आदरात्। मद्भक्तियुक्तोऽपि विना त्वदीयां भक्तिं न काशीवसतिं लभेत। गणेषु देवेषु हि मानवेषु तदग्रमान्यो भव दण्डपाणे”। काश्यां तत्स्थितिस्थानञ्च तत्रैवोक्तं यथा “त्वं दक्षिणस्यां दिशि दण्डपाणे! सदैव मे नेत्रसमक्षमत्र। त्वं दण्डयन् प्राणभृतो दुरीहानिहास्व निस्वानभयं दिशन् वै”।

दण्डपारुष्य = न० दण्डेन देहेन पारुष्यम्। व्यवहारविषयभेदे “तत्स्वरूपञ्च नारदेनोक्तम् “परगात्रेष्वभिद्रोहो हस्तपादायुधादिभिः भस्मादिभिश्चोपघातो दण्डपारुष्यमुच्यत” इति। “परगात्रेषु स्थावरजङ्गमात्मकद्रव्येषु हस्तपाद्रायुधैरादिग्रहणाद्ग्रावादिभिर्योऽभिद्रोहो हिंसनं दुःखोत्पादनं तथा भस्मना आदिग्रहणाद् रजःपङ्कपुरीषाद्यैश्च य उपघातः संस्पर्शनरूपं मनोदुःखोत्पादनन्तदुभयं दण्डपारुष्यम्। दण्ड्यतेऽनेनेति दण्डो देहस्तेन यत् पारुष्यं विरुद्धाचरणं जङ्गमादेर्द्रव्यस्य, तद्दण्डपारुष्यम्” मिता०।

तद्भेदादिकं वीरमि० उक्तं यथा

“तस्य त्रैविध्यमाह नारदः। “तस्यापि दृष्टन्त्रैविध्यं हीनमध्योत्तमक्रमात्। अवगोरणनिःशङ्कपातनक्षतदर्शनैः। हीनमध्योत्तमानाञ्च द्रव्याणां समतिक्रमात्। त्रीण्येव साहसान्याहुस्तत्र कण्टकशोधनमिति”। अवगोरणं ताडनाद्युद्योगः। निःशङ्कपातनं निःशङ्कप्रहरणम्। त्रीण्येव साहसानि त्रिप्रकाराण्येव सहसाकृतानि दण्डपारुष्याणीत्यर्थः। अन्यानपि भेदानाह परिशिष्टकारः। “दुःखं रक्तं व्रणं भङ्गं छेदनं भेदनन्तथा। कुर्य्याद्यः प्राणिनां तद्धि दण्डपारुष्यमुच्यते”। स्थावरजङ्गमप्राणिनां प्राण्यन्तरकृतनखादिना छेदनादिभवं दुःखं रक्तव्रणादिकञ्च दण्डपारुष्यमुच्यत इत्यर्थः। व्यासोऽपि “भस्मादिना प्रक्षिपणी ताडनञ्च करादिना। आवेष्टनञ्चांशुकाद्यैर्दण्डपारुष्यमुच्यते”। आदिग्रहणाद्दुःखकरं कर्दमपांशुमलादि द्रव्यं गृह्यते। करादिनेत्यादिशब्देन पाषाणेष्टकायुधादि द्रव्यम्। अंशुकाद्यैरित्यादिशब्देन रज्ज्वुशृङ्खलादिद्रव्यम्। दण्डपारुष्यस्य पञ्चप्रकारा विधयो नारदेन दर्शिताः। “विधिः पञ्चविधस्तूक्त एतयोरुभयोरपि। पारुष्ये सति संरम्भादुत्पन्ने क्रुद्धयोर्द्वयोः। स मान्यते यः क्षमते दण्डभाग्योऽतिवर्त्तते। पूर्ववमाक्षारयेद्यस्तु नियतं स्यात् स दोषभाक्। पश्चाद्यः सोऽप्यसत्कारी पूर्वे तु विनयो गुरुः। द्वयोरापन्नयोस्तुल्यमनुबध्राति यः पुनः। स तयोर्दण्डमाप्नोति पूर्वो वा यदि चेतरः। पारुष्यदीषावृतयोर्युगपत्सम्प्रवृत्तयोः। विशेषश्चेन्न लक्ष्येत विनयः स्यात् समस्तयोः। श्वपाकषण्डचाण्डालव्यङ्गेषु बधवृत्तिषु। हस्तिपव्रात्यदासेषु गुर्वाचार्यनृपेषु च। मर्य्यादातिक्रमे सद्यो घात एवानुशासनम्। यमेव ह्यतिवर्त्तेरन्नेते सन्तञ्जनं नृषु। स एव विनयं कुर्य्यात् न तद्विनयभाङ्नृपः। मला ह्येते मनुष्याणां धनमेषां मलात्मकम्। अतस्तान् घातयेद्राजा नार्थदण्डेन दण्डयेदिति”। अयमर्थः। वाग्दण्डपारुष्ययोंसभयोरपि द्वयोः प्रवृत्तकलहयोर्मध्ये यः क्षमते न तस्य केवलं दण्डाभाव एव किन्तु पूज्यत्वमपि। तथा पूर्वं कलहे प्रवृत्तस्य दण्डगुरुत्वम्। कलहे च वृद्धवैरानुसन्धातुरेव दण्डभाक्त्वम्। तथा तयोर्द्वयोरपराधविशेषापरिज्ञाने सम एव दण्डः। तथा श्वपचादिभिरार्याणामपराधे कृते सज्जना एव दण्डने अधिकारिणस्तेषामशक्यत्वे तान् राजा घातयेदेव नार्थं गृह्णीयादिति। यत्तु वृहस्पतिवचनम् “आक्रुष्टस्तु समाक्रोशं ताडितः प्रतिताडयन्। हत्वापराधिनञ्चैव नापराधी भवेन्नरः” इति। तत्पूर्वप्रवृत्तस्य समो दण्डः पश्चात् प्रवृत्तस्य नेत्येवंपरन्न तु दण्डाभावपरम्। दण्डपारुष्य स्वरूपसन्देहे निर्णायकमाह याज्ञवल्क्यः “असाक्षिकहते चिह्नैर्युक्तिभिश्चागमेन च। द्रष्टव्यो व्यवहारस्तु कूटचिह्नकृतो भयादिति”। यदा कश्चिद्रहस्यहमनेनाहत इति राज्ञे निवेदयति तदा चिह्नैर्व्रणादिभिस्तत्स्वरूपगतैर्लङ्गैः युक्तिभिः कारणप्रयोजन पर्य्यालोचनादिभिः आगमेन जनप्रवादेन चशब्दाद्दिव्येन वा कूटचिह्नकृतसम्भावनभयात् परीक्षा कार्य्येत्यर्थः।

दण्डपाल = पु० दण्डं देहं पालयति भक्षणात् पालि–अण् उप० स०। (डाडिकोणा) मत्स्यभेदे हारा० तद्भोजिनो रोगिणी देहस्यास्थ्यजननात्तस्य तथात्वम्। संज्ञायां कन्। दण्डपालक शकुलमत्स्यभेदे हारा०। उभयमपि दण्डनायके।

दण्डपिङ्गलक = पु० दण्डः देहः पिङ्गलोऽत्र। उत्तरस्थदेशभेदे “उत्तरतः कैलासः” इत्युपक्रमे वृ० स० १४ अ० कूर्मविभागे “पौरवकवचदारुदण्डपिङ्गलकाः” उक्तः।

दण्डबालधि = पु० दण्ड इव बालधिरस्य। हस्तिनि शब्दर०। तस्य लाङ्गूलस्य दण्डाकारत्वात् तथात्वम्।

दण्डबाहु = त्रि० दण्ड इव वाहुरस्य। १ दण्डाकारबाहुयुक्ते २ कुमारानुचरभेदे पु०। “दण्डबाहुः सुबाहुश्च रजःकोकिल एव च” भा० श० ४६ अ० कुमारानुचरोक्तौ।

दण्डभृत् = त्रि० दण्डं यष्टिं लोकदमनं वा बिभर्त्ति भृक्विप्। १ यष्टिधारके २ यमे त्रिका०।

दण्डमत्स्य = पु० दण्ड इव मत्स्यः। दण्डाकारे शकुलमत्स्ये। “दण्डमत्स्यो रसे तिक्तः पित्तरक्तं कफं हरेत्। वात साधारणः प्रोक्तः शुक्रलो बलवर्द्धन” राजव०।

दण्डमांन(ण)व = पु० दण्डप्रधानो मान(ण)वः शा० त०। दण्डप्रधाने जने बालके च तदर्थपरतायां गोत्रप्रत्ययान्तशब्दात् “दण्डमान(ण)वान्तेवासिषु” पा० न वुञ्। दाक्षा दण्डमान(ण)बाः शिष्या वा” सि० कौ०।

दण्डमातङ्ग = पु० पिण्डतगरे पारस्करनिघण्टुः।

दण्डमाथ = पु० दण्डाकारो माथः पन्थाः शा० त०। प्रधानपथे दण्डमाथं धावति ठक्। दाण्डमाथिक तत्रधावके नि०।

दण्डमुद्रा = स्त्री दण्डाकारा मुद्रा “उत्तानोर्द्ध्वमुखा मध्या सरला बद्धमुष्टिका। दण्डमुद्रा समाख्याता” तन्त्रसारोक्ते मुद्राभेदे।

दण्डयात्रा = स्त्री दण्डार्थं शत्रुदमनार्थं दण्डा प्रकाण्डा वा यात्रा। १ जिगीषोर्थात्रायां २ सम्यग्गमने ३ वरयात्रायाञ्च मेदि०।

दण्डयाम = पु० दण्डेन यच्छति यम–बा० कर्त्तरि यम–घञ्। १ यमे २ दिने। दण्डे इन्द्रियदमने यामः संयमो यस्य। ३ अगस्त्ये मुनौ च मेदि०।

दण्डरी = स्त्री दण्डं तदाकारं राति रा–क गौरा० ङीष्। (डङ्गरा) इतिनामके वृक्षे राजनि०।

दण्डवादिन् = पु० दण्डेन तदुत्तोलनेन वदति वदणिनि। १ द्वारपाले हारा० २ दण्डवक्तरि प्राड्विकादौ च।

दण्डवासिन् = पु० दण्डे दण्डनिमित्तं वसति द्वारदेशे वसणिनि। १ द्वारपाले त्रिका०। २ एकग्रामदण्डनेऽधिकृते जने जटा०।

दण्डविष्कम्भ = पु० दण्डं मन्थानदण्डं विष्कभ्नाति वि + स्कन्भ–अण् उप० स०। (चोलमओयार खु~टि) तक्रमन्थनार्थं रज्ज्वा दण्डाकर्षणार्थे मन्थानवन्धनहेतौ स्तम्भभेदे अमरः।

दण्डवृक्ष = पु० दण्डाकारः पत्रादिहीनत्वात् वृक्षः। स्नुहीवृक्षे। स्वार्थे क। स्नुहीवृक्षे राजनि०। तस्य पत्रशून्यत्वेन दण्डाकारत्वात्तथात्वम्।

दण्डव्यूह = पु० दण्डसंज्ञको व्यूहः। व्यूहभेदे दण्डशब्दे दृश्यम्। “दण्डव्यूहेन तन्मार्गं यायात्तु शकटेन वा” मनुः। “दण्डाकृतिरचनो दण्डव्यूहः” कुल्लू०। “यत्राग्रे बलाध्यक्षो मध्ये राजा पश्चात् सेनापतिः पार्श्वयोर्हस्तिनस्तत्समीपे घोटकास्ततः पदातयः इत्येवं कृतरचनो दीर्घः सर्वतः समविन्यासो दण्डव्यूह उच्यते। तेन थातव्यं मार्गं सर्वतोभये सति यायात्” तदर्थः।

दण्डसहाय = पु० दण्डे सहायः। दुष्टनिग्रहादौ राज्ञा सहाये। स च सहाया इत्युपक्रमे “दण्डेषु सुहृत्कुमाराटविकाः सामन्तकाद्याश्चेति” सा० द० उक्तः।

दण्डसेन = पु० पौरवे विष्वक्सेनसुते नृपभेदे विष्यक्सेनस्य पुत्रोऽभूत् दण्डसेनो महीपतिः” हरिवं० २० अ० २ द्वापरयुगीये नृपभेदे च। “वधः पाण्डस्य च तथा अश्वत्थाम्ना महात्मना दण्डसेनस्य च ततो दण्डस्य च बधस्तथा” भा० आ० १ अ०।

दण्डस्थान = न० ६ त०। मनूक्तेषु दशसु दण्डस्थानेषु उपस्थादिषु दश स्थानानि दण्डस्येत्यादिवाक्यं दण्डशब्दे दृश्यम्।

दण्डहस्त = पु० दण्ड इव हस्तो वृन्तमस्य। तगरपुष्पे राजनि०।

दण्डाक्ष = न० चम्पानदीसमीपस्थे तीर्थभेदे। “तथा चम्पां समासाद्य भागीरथ्यां कृतोदकः। दण्डाक्षमभिगम्यैव गोसहस्रफलं लभेत्” भा० व० ८५ अ०। दण्डार्त्तमित्यपि तत्र पाठान्तरम्।

दण्डाजिन = न० दण्डश्चाजिनञ्च समा० द्व०। १ दण्डचर्मणोः समाहारे। तत् छलेन धार्यतयाऽस्त्यस्य अच्। २ शाठ्ये शब्दार्थचि०।

दण्डादण्डि = अव्य० दण्डैश्च दण्डैश्च प्रहृत्येदं प्रवृत्तं युद्धम् “क्रियाव्यतिहारे इच् समा० पूर्वपददीर्घः। परस्परदण्डकरणकप्रहारपूर्वकं प्रवृत्ते युद्धे।

दण्डादि = न० “दण्डादिभ्यो यत्” पा० अर्हार्थे यत्प्रत्ययनिमित्ते शब्दगणे स च पा० ग० सू० उक्तो यथा “दण्ड, मुसल, मधुपर्क, कशा, अर्घ, मेघा, मेघ, सुवर्ण, उदक, वध, युग, गुहा, भाग, इभ, भङ्ग”।

दण्डापूप = पु० दण्डे दण्डाकर्षे अपूपस्य तत्सम्बद्धस्यापूपस्याकर्षः। दण्डाकर्षणे अर्थसिद्धे तत्सम्बद्धापूपस्याकर्षे। तत्प्रतिपादकः न्यायः दण्डापूपन्यायः। यथा “भुञ्जीतामरणात् क्षान्तेति” वचनेन जाताधिकारायाः पत्न्या अभावे अनुत्पन्नाधिकारपत्न्यभायोक्तानां पूर्वधनस्वामिदायग्राहिणां दुहित्रादीनां घनाधिकारस्य दर्भितत्वात् पत्नीतो जघन्यदुहितृदौहित्रयोरधिकारे दण्डापूपन्यायसिद्धोऽयमर्थः” “स्थावरपदाद्दण्डापूपन्यायादेवापरस्य धनस्य सिद्धिः” दा० भा० दण्डापूप इवाचरति क्यच ततः कर्त्तरि क्तः। दण्डापूपायितदण्डापूपवदाचरिते पदार्थे “पत्न्या च भर्त्तृधनात् कन्यायै विवाहार्थं तुरीयांशो देयः, पुत्राणामेव तद्दानप्रतिपादनात् दण्डापूपायितं पत्न्यादीनां दानम्” दा० भा०। “यथा दण्डाकर्षे तत्सम्बद्धस्यापूपस्याप्याकर्षः तथा अपुत्रसंक्रान्तधनस्य पत्नीगततया आकर्षे तत्सम्बद्धस्य कन्याविवाहधनावशिष्टत्वविशेषस्याप्याकर्ष इति भावः” श्रीकृष्णः।

दण्डार = त्रि० दण्डमृच्छति ऋ–अण् उप० स०। दण्डप्राप्ते। २ मत्तहस्तिनि शब्दर०। ३ कुम्भकारचक्रे ४ यन्त्रभेदे ५ वाहने पु० मेदि०।

दण्डार्त्त = न० चम्पानदीसमीपस्थे तीर्थभेदे “अथ चम्पां समासाद्य भागीरथ्यां कृतोदकः। दण्डार्त्तभभिगम्याथ गोसहस्रफलं लभेत्” भा० व० ८३ अ०। दण्डाक्षमिति वा पाठः

दण्डावतानक = पु० सुश्रुतोक्ते वातरोगभेदे “कफान्वितो भृशं वायुस्त्वास्वेव यदि तिष्ठति। स दण्डवत्सम्भववति कृच्छ्रो दण्डापतानकः”।

दण्डासन = न० आसनभेदे हेमच०।

दण्डाहत = न० दण्डेन मन्थानयष्ट्याऽऽहतम्। (घोल) मन्थनदण्डेनालोडिते तक्ते अमरः।

दण्डिक = त्रि० दण्डोऽस्त्र्यस्य ठन्। १ दण्डधारके (डाडिकोणा) २ मत्स्यभेदे राजनि० ३ हारभेदे स्त्री जटाधरः। ४ रज्ज्वां सुपद्मव्या० वृत्तिः।

दण्डिन् = पु० दण्ड + अस्त्यर्थे इनि। १ यमे, हेमच० २ नृपे ३ द्वारपाले, ४ मञ्जुघाषे, ५ रवेः पार्श्वचरभेदे, शब्दार्थचि० ६ जिनभेदे, त्रिका० ७ दमनकवृक्षे, राजनि० ८ चतुर्थाश्रगविशिष्टे, काव्यादर्शग्रन्थकर्त्तरि ९ कविभेदे च। “जाते जगति वाल्मीके कविरित्यभिधीयते। कवी इति ततो व्यासे कवयस्त्वयि दण्डिनि” उद्भटः। १० दण्डधारके त्रि०। स्त्रियां ङीप्। ११ महादेवे पु०। “दण्डिने सोमकर्णाय दण्डिदण्डाय वै नमः” भा० शा० २८५ अ०। दण्डिदण्डोऽपि शिवे “गुह्यकेशनखश्मश्रुः पात्री दण्डी कुसुम्भवान्” १२ धृतराष्ट्रपुत्रभेदे दण्डधारशब्दे दृश्यम्।

दण्डिमन् = पु० दण्डस्य भावः कर्म वा पृथ्वा० इमनिच्। दण्डभावे दण्डकर्मणि च।

दण्डोत्पल = न० दण्डयुक्तमुत्पलमिव। १ वृक्षभेदे, (डानिकोणा) २ मत्स्यभेदे राजनि०। तत्रार्थे स्त्री रत्नमाला।

दण्ड्य = त्रि० दण्ड–कर्म्मणि यत्। १ दण्डनीये। दण्डमर्हति दण्डा० यत्। २ दण्डार्हे। दण्डशब्दे उभयीदा० दृश्यम्

***