वाचस्पत्यम्
दग to दण्ड
links:
Menu अ–ह
Prev द–दक्ष
Next दण्डक–दण्ड्य
दग
दग्ध
दण्ड
UpasanaYoga
.org

दगा(का)र्गल = न० दकस्य जलद्वाररोधस्यार्गलमिव गमध्यपाठे पृषो० कमध्यपाठस्तु सम्यक्। ५४ अ० वराहसंहितोक्ते निर्जलदेशे जलोपलब्धिसाधने उपायभेदे। यथा

“धर्म्यं यशस्यं च वदाम्यतोऽहं दगा(का)र्गलं येन जलोपलब्धिः। पुंसां यथाङ्गेषु सिरास्तथैव क्षितावपि प्रोन्नतनिम्नसंस्थाः। एकेन वर्णेन रसेन चाम्भश्च्युतं नभस्तो वसुधाविशेषात्। नानारसत्वं बहुवर्णतां च गतं परीक्ष्यं क्षितितुल्यमेव। पुरुहूतानलयमनिरृति वरुणपवनेन्दुशङ्करा देवाः। विज्ञातव्याः क्रमशः प्राच्यादीनां दिशां पतयः। दिक्पतिसञ्ज्ञाश्च सिरा नवमी मध्ये महासिरानाम्नी। एताभ्योऽन्याः शतशो विनिःसृता नामभिः प्रथिताः। पातालादूर्ध्वसिराः शुभाश्चतुर्दिक्षु संस्थिता याश्च। कोणदिगुत्था न शुभाः सिरानिमित्तान्यतो वक्ष्ये। यदि वेतसोऽम्बुरहिते देशे हस्तैस्त्रिभिस्ततः पश्चात्। सार्धे पुरुषे तोयं वहति सिरा पश्चिमा तत्र। चिह्नमपि चार्द्धपुरुषे मण्डूकः पाण्डुरोऽथ भृत् पीता। पुटभेदकश्च तस्मिन् पाषाणो भवति तोयमधः। जम्ब्वाश्चोदग्धस्तैस्त्रिभिः सिराधो नरद्वये पूर्वा मृल्लोहगन्धिका पाण्डुराथ पुरुषेऽत्र मण्डूकः। जम्बूवृक्षस्य प्राग् वल्मीकी यदि भवेत् समीपस्थः। तस्माद्दक्षिणपार्श्वे सलिलं पुरुषद्वये स्वादु। अर्धपुरुषे च मत्स्यः पारावतसन्निभश्च पाषाणः। मृद्भवति चात्र नीला दीर्घं कालं बहु च तोयम्। पश्चादुदुम्बरस्य त्रिभिरेव करैर्नरद्वये सार्धे। पुरुषे सितोऽहिरश्म्यञ्जनोपमोऽधः सिरा सुजला। उदगर्जुनस्य दृश्यो वल्मीको यदि ततोऽर्जुनाद्धस्तैः। त्निभिरम्बु भवति पुरुषैस्त्रिभिरर्धसमन्वितैः पश्चात्। श्वेता गोधार्धनरे पुरुषे मृद्धूसरा ततः कृष्णा। पीता सिता ससिकता ततो जलं निर्दिशेदमितम्। वल्मीकोपचितायां निर्गुण्ड्यां दक्षिणेन कथितकरैः। पुरुषद्वये सपादे स्वादु जलं भवति चाशोष्यम्। रोहितमत्स्योऽर्धनरे मृत् कपिला पाण्डुरा ततः परतः। सिकता सशर्कराथ क्रमेण परतो भवत्यम्भः। पूर्वेण यदि वदर्या वल्मीको दृश्यते जलं पश्चात्। पुरुषैस्त्रिभिरादेश्यं श्वेता गृहगोधिकार्धनरे। सपलाशा बदरी चेद् दिश्यपरस्यां ततो जलं भवति। पुरुषत्रये सपादे पुरुषेऽत्र च ढुण्ढुभिश्चिह्नम्। बिल्वोदुष्वरयोगे विहाय हस्तत्रयं तु याम्येन। पुरुषैस्त्रिभिरम्बु भवेत् कृष्णोऽर्धनरे च मण्डूकः। काकोदुम्बरिकायां वल्मीको दृश्यते सिरा तस्मिन्। पुरुषत्रये सपादे पश्चिमदिक्स्था वहति सा च। आपाण्डुपीतिका मृद् गौरसवर्णश्च भवति पाषाणः। पुरुषार्धे कुमुदनिभी दृष्टिपथं मूषिको याति। जलपरिहीने देशे वृक्षः कम्पिल्लको यदा दृश्यः। प्राच्यां हस्तत्रितये वहति सिरा दक्षिणा प्रथमम्। मृन्नीलोत्पलवर्णा कापोती चैव दृश्यते तस्मिन्। हस्तेऽजगन्धिमत्स्यो भवति पयोऽल्पं च सक्षारम्। शोणाकतरोरपरोत्तरे सिरा द्वौ करावतिक्रम्य। कुमुदा नाम सिरा सा पुरुषत्रयवाहिनी भवति। आसन्नो वल्मीको दक्षिणपार्श्वे विभीतकस्य यदि। अध्यर्धे तस्य सिरा पुरुषे ज्ञेया दिशि प्राच्याम्। तस्यैव पश्चिमायां दिशि वल्मीको यदा भवेद्धस्ते। तत्रोदग्भवति सिरा चतुर्भिरर्धाधिकैः पुरुषैः। श्वेतो विश्वम्भरकः प्रथमे पुरुषे तु कुङ्कुमाभोऽश्मा। अपरस्यां दिशि च सिरा नश्यति वर्षत्रयेऽतीते। सकुशासित ऐशान्यां वल्मीको यत्र कोविदारस्य। मध्ये तयोर्नरैरर्धपञ्चमैस्तोयमक्षोभ्यम्। प्रथमे पुरुषे भुजगः कमलोदरसन्निभो मही रक्ता। कुरुविन्दः पाषाणश्चिह्नान्येतानि वाच्यानि। यदि भवति सप्तपर्णो वल्मीकवृतस्तदुत्तरे तोयम्। वाच्यं पुरुषैः पञ्चभिरत्रापि भवन्ति चिह्नानि। पुरुषार्धे मण्डूको हरितो हरितालसन्निभा भूश्च। पाषाणोऽभ्रनिकाशः सौम्या च सिरा शुभाम्बुवहा। सर्वेषां वृक्षाणामधःस्थितो दर्दुरो यदा दृश्यः। तस्माद्धस्ते तोयं चतुर्भिरर्धाधिकैः पुरुषैः। पुरुषे तु भवति नकुलो नीला मृत् पीतिका ततः श्वेता। दर्दुरसमानरूपः पाषाणो दृश्यते चात्र। यद्यहिनिलयो दृश्यो दक्षिणतः संस्थितः करञ्जस्य। हस्तद्वये तु याम्ये पुरुषत्रितये तु सिरा सार्धे। कच्छपकः पुरुषार्धे प्रथमं चोद्भिद्यते सिरा पूर्वा। उदगम्या स्वादुजला हरितोऽश्माधस्ततस्तोयम्। उत्तरतश्च मधूकादहिनिलयः पश्चिमे तरोस्तोयम्। परिहृत्य पञ्च हस्तान् अर्धाष्टमपौरुषे प्रथमम्। अहिराजः पुरुषेऽस्मिन् धूम्रा धात्री कुलत्थवर्णोऽश्मा। माहेन्द्री भवति सिरा वहति सफेनं सदा तोयम्। वल्मीकः स्निग्धो दक्षिणेन तिलकस्य सकुशदूर्वश्चेत्। पुरुषैः पञ्चभिरम्भो दिशि वारुण्यां सिरा पूर्वा। सर्पावायः पश्चाद् यदा कदम्बस्य दक्षिणेन जसम्। परतो हस्तत्रितयात् षड्भिः पुरुषैस्तुरी- योनैः। कौबेरी चात्र सिरा वहति जलं लोहगन्धि चाक्षोभ्यम्। कनकनिभो मण्डूको नरमात्रे मृत्तिका पीता। वल्मीकसंवृतो यदि तालो वा भवति नारिकेलो वा। पश्चात् षड्भिर्हस्तैर्नरेश्चतुर्भिः सिरा याम्या। याम्येन कपित्थस्याहिसंश्रयश्चेदुदग्जलं वाच्यम्। सप्त परित्यज्य करान् खात्वा पुरुषान् जलं पञ्च। कर्बुरकोऽहिः पुरुषे कृष्णा मृत् पुटभिदपि च पाषाणः। श्वेता मृत् पश्चिमतः सिरा ततश्चोत्तरा भवति। अश्मन्तकस्य वामे वदरी वा दृश्यतेऽहिनिलयो वा। षड्भिरुदक् तस्य करैः सार्धे पुरुषत्रये तोयम्। कूर्मः प्रथमे पुरुषे पाषाणो धूसरः ससिकता मृत्। आदौ सिरा च याम्या पूर्वोत्तरतो द्वितीया च। वामेन हरिद्रतरोर्वल्मीकश्चेत्ततो जलं पूर्वे। हस्तत्रितये पुरुषैः सत्र्यंशैः पञ्चभिर्भवति। नीलो भुजगः पुरुषे मृत् पीता मरकतोपमश्चाश्मा। कृष्णा भूः प्रथमं वारुणी सिरा दक्षिणेनान्या। जलपरिहीने देशे दृश्यन्तेऽनूपजानि चिह्नानि। वीरणदूर्वा मृदवश्च यत्र तस्मिन् जलं पुरुषे। भार्गी त्रिवृता दन्ती सूकरपादी च लक्षणा चैव। नवमालिका च हस्तद्वयेऽम्बु याम्ये त्रिभिः पुरुषैः। स्निग्धाः प्रलम्बशाखा वामनविटपद्रुमाः समीपजलाः। सुषिरा जर्जरपत्रा रूक्षाश्च जलेन सन्त्यक्ताः। तिलकाम्रातकवरुणकभल्लातकबिल्वतिन्दुकाङ्कीलाः। पिण्डारशिरीषाञ्जनपरूषकावञ्जुलातिबलाः। एते यदि सुस्निग्धा वल्मीकैः परिवृतास्ततस्तोयम्। हस्तैस्त्रिभिरुत्तरतश्चतुर्भिरर्धेन च नरस्य। अतृणे सतृणा यस्मिन् सतृणे तृणवर्जिता मही यत्र। तस्मिन् सिरा प्रदिष्टा वक्तव्यं वा धनं तस्मिन्। कण्टक्यकण्टकानां व्यत्यासेऽम्भस्त्रिभिः करैः पश्चात्। खात्वा पुरुषत्रितयं त्रिभागयुक्तं धनं वा स्यात्। नदति मही गम्भीरं यस्मिंश्चरणाहता जलं तस्मिन्। सार्धैस्त्रिभिर्मनुष्यैः कौवेरी तत्र च सिरा स्यात्। वृक्षस्यैका शाखा यदि विनता भवति पाण्डुरा वा स्यात्। विज्ञातव्यं शाखातले जलं त्रिपुरुषं खात्वा। फलकुसुमविकारो यस्य तस्य पूर्वे सिरा त्रिभिर्हस्तैः। भवति पुरुषैश्चतुर्भिः बाषाणीऽधः क्षितिः पीता। यदि कण्टकारिका तु कण्टकैर्विना दृश्यते सितैः कुसुमैः। तस्यास्तलेऽम्बु वाच्यं त्रिभिर्नरैरर्धपुरुषे च। खर्जूरी द्विशिरस्का यत्र भवेज्जलविवर्जिते देशे। तस्याः पश्चिमभागे निर्देश्यं त्रिपुरुषे वारि। यदि भवति कर्णिकारः सितकु सुमःस्यात्पलाशवृक्षो वा। सव्येन तत्र हस्तद्वयेऽम्बु पुरुषत्रये भवति। ऊष्मा यस्यां धात्र्यां धूमो वा तत्र वारि नरयुग्मे। निर्देष्टव्या च सिरा महता तोयप्रवाहेण। यस्मिन् क्षेत्रोद्देशे जातं सस्यं विनाशमुपयाति। स्निग्धमतिपाण्डुरं चा महासिरा नरयुगे तत्र। मरुदेशे भवति सिरा यथा तथातः परं प्रवक्ष्यामि। ग्रीवा करभाणामिव भूतलसंस्थाः सिरा भान्ति। पूर्वोत्तरेण पीलोर्यदि वल्मीको जलं भवति पश्चात्। उत्तरगमना च सिरा विज्ञेया पञ्चभिः पुरुषैः। चिह्नं दर्दुर आदौ मृत् कपिलातः परं भवेद्धरिता। भवति च पुरुषेऽधोऽश्मा तस्य तले वारि निर्देश्यम्। पीलोरेव प्राच्यां वल्मीकोऽतोऽर्धपञ्चमैर्हस्तैः। दिशि याम्यायां तोयं वक्तव्यं सप्तभिः पुरुषैः। प्रथमे पुरुषे भुजगः सितासितो हस्तमात्रभूर्त्तिश्च। दक्षिणतो वहति सिरा सक्षारं भूरि पानीयम्। उत्तरतश्च करींरादहिनिलये दक्षिणे जलं स्वादु। दशभिः पुरुषैर्ज्ञेयं पुरुषे पीतोऽत्र मण्डूकः। रोहीतकस्य पश्चादहिवासश्चेत्त्रिभिः करैर्याम्ये। द्वादश पुरुषान् खात्वा सक्षारा पश्चिमेन सिरा। इन्द्रतरोर्वल्मीकः प्राग्दृश्यः पश्चिमे सिरा हस्ते। खात्वा चतुर्दश नरान् कपिला गोधा नरे प्रथमे। यदि वा सुवर्णनाम्नस्तरोर्भवेद्वामतो भुजङ्गगृहम्। हस्तद्वये तु याम्ये पञ्चदशनरावसानेऽम्बु। क्षारं पयोऽत्र नकुलोऽर्धमानवे ताम्रसन्निभश्चाश्मा। रक्ता च भवति वसुधा वहति सिरा दक्षिणा तत्र। बदरीरोहितवृक्षौ सम्पृक्तौ चेद्विनापि वल्मीकम्। हस्तत्रयेऽम्बु पश्चात् षोडशभिर्मानवैर्भवति। सुरसं जलमादौ दक्षिणा सिरा वहति चोत्तरेणान्या। पिष्टनिभः पामाणो मृच्छेता वृश्चिकोऽर्धनरे। सकरीरा चेद्वदरी त्रिभिः करैः पश्चिमेन तत्राम्भः। अष्टादशभिः पुरुषैरैशानी बहुजला च सिरा। पीलुसमेता वदरी हस्तत्रयसम्भिते दिशि प्राच्याम्। विंशत्था पुरुषाणामशोष्यमम्भोऽत्र सक्षारम्। ककुभकरीरावेकत्र संयुतौ यत्र ककुभविल्वौ वा। हस्तद्वयेऽम्बु पश्चान्नरैर्भवेत्पञ्चविंशत्या। वल्मीकमूर्द्धनि यदा दूर्वा कुशाश्च पाण्डुराः सन्ति। कूपो मध्ये देयो जलमत्र नरैकविंशत्या। भूमिःकदम्बकयुता वल्मीके यत्र दृश्यते दूर्वा। हस्तत्रयेण याम्ये नरैर्जलं पञ्चविंशत्या। वल्मीकत्रयमध्ये रोहीतक- पादपो यदा भवति। नानावृक्षैः सहितस्त्रिभिर्जलं तत्र वक्तव्यम्। हस्तचतुष्के मध्यात् षोडशभिश्चाङ्गुलैरुदग्वारि। चत्वारिंशत्पुरुषान् खात्वाश्मातः सिरा भवति। ग्रन्थिप्रचुरा यस्मिञ्छमी भवेदुत्तरेण वल्मीकः। पश्चात्पञ्चकरान्ते शतार्धसङ्ख्यैर्नरैः सलिलम्। एकस्थाः पञ्च यदा वल्मीका मध्यमो भवेच्छेतः। तस्मिन् सिरा प्रदिष्टा नरषष्ट्या पञ्चवर्जितया। सपलाशा यत्र शमी पश्चिमभागेऽम्बु मानवैः षष्ट्या। अर्धनरेऽहिः प्रथमं सवालुका पीतमृत् परतः। वल्मीकेन परिवृतः श्वेतो रोहीतको भवेद्यस्मिन्। पूर्वेण हस्तमात्रे सप्तत्या मानवैरम्बु। श्वेता कण्टकबहुला यत्र शमी दक्षिणेन तत्र पयः। नरपञ्चकसंयुतया सप्तत्याहिर्नरार्धे च। मरुदेशे यच्चिह्नं न जाङ्गले तैर्जलं विनिर्देश्यम्। जम्बूवेतसपूर्वे ये पुरुषास्ते मरौ द्विगुणाः। जम्बूस्त्रिवृता मूर्वा शिशुमारी सारिवा शिवा श्यामा। वीरुधयो वाराही ज्योतिष्मती च गरुडवेगा। सूकरिकामाषपर्णीव्याघ्रपदाश्चेति यद्यहेर्निलये। वल्मीकादुत्तरतस्त्रिभिः करैस्त्रिपुरुषे तोयम्। एतदनूपे वाच्यं जाङ्गलभूमौ तु पञ्चभिः पुरुषैः। एतैरेव निमित्तैर्मरुदेशे सप्तभिः कथयेत्। एकनिभा यत्र मही तृणतरुवल्मीकगुल्मपरिहीना। तस्यां यत्र विकारो भवति धरित्र्यां जलं तत्र। यत्र स्निग्धा निम्ना सवालुका सानुनादिनी वा स्यात्। तत्रार्धपञ्चमैर्वारि मानवैः पञ्चभिर्यदि वा। स्निग्धतरूणां याम्ये नरैश्चतुर्भिर्जलं प्रभूतं च। तरुगहनेऽपि हि विकृतो यस्तस्मात्तद्वदेव वदेत्। नमते यत्र धरित्री सार्धे पुरुषेऽम्बु जाङ्गलानूपे। कीटा वा यत्र विनालयेन बहवोऽम्बु तत्रापि। उष्णा शीता च मही शीतोष्णाम्भस्त्रिभिर्नरैः सार्धैः। इन्द्रधनुर्मत्स्यो वा वल्मीको वा चतुर्हस्तात्। वल्मीकानां पङ्क्त्यां यद्येकोऽभ्युच्छ्रितः सिरा तदधः। शुष्यति न रोहते वा सस्यं यस्यां च तत्राम्भः। न्यग्रोधपलाशोदुम्बरैः समेतैस्त्रिभिर्जलं तदधः। वटपिप्पलसमवाये तद्वद्वाच्यं सिरा चोदक्। आग्नेये यदि कोणे ग्रामस्य पुरस्य वा भवति कूपः। नित्यं स करोति भयं दाहं च समानुषं प्रायः। तैरृतकोणे बालक्षयं वनिताभयं च वायव्ये। दिक्त्रयमेत्त्यक्त्वा शेषासु शुभावहाः कूपाः। सारस्वतेन मुनिना दगा(का)र्गलं यत्कृतं तदवलोक्य! आर्याभिः कृतमेतद् वृत्तैरपि मानवं वक्ष्ये। स्निग्धा यतः पादपगुल्मवल्ल्यो निश्छिद्रपत्राश्च ततः सिरास्ति। पद्मक्षुरोशीरकुलाः सगुण्ड्राः काशाः कुशा वा नलिका नलो वा। खर्जूरजम्ब्वर्जुनवेतसाः स्युः क्षीरान्विता वा द्रुमगुल्मबल्ल्यः। छत्रेभनागाः शतपत्रनीपाः स्युर्नक्तमालाश्च ससिन्धुवाराः। विभीतको वा मदयन्तिका वा यत्रास्ति तस्मिन् पुरुषत्रयेऽम्भः। स्वात्पर्वतस्योपरि पर्वतोऽन्यस्तत्रापि मूले पुरुषत्रयेऽम्भः। या मौञ्चकैः काशकुशैश्च युक्ता नीला च मृद् यत्र ससर्करा च। तस्यां प्रभूतं सुरसं च तोयं कृष्णाथवा यत्र च रक्तमृद्वा। ससर्करा ताम्रमही कषायं क्षारं धरित्री कपिला करोति। आपाण्डुरायां लवणं प्रदिष्टं मिष्टं पयो नीलवसुन्धरायाम्। शाकाश्वकर्णार्जुणबिल्वसर्जाः श्रीपर्ण्यरिष्टाधवशिंशपाश्च। छिद्रैश्च पर्णैर्द्रुमगुल्मवल्ल्यो रूक्षाश्च दूरेऽम्बु निवेदयन्ति। सूर्य्याग्निभस्मोष्ट्रखरानुवर्णा या निर्जला सा वसुधा प्रदिष्टा। रक्ताङ्कुराः क्षीरयुताः करीरा रक्ता धरा चेज्जलमश्मनोऽधः। वैदूर्यमुद्गाम्वुदमेचकाभा पाकोन्मुखोदुम्बरसन्निभा वा। भृङ्गाञ्जनाभा कपिलाथ वा या ज्ञेया शिला भूरिसमीपतोया। पारावतक्षौद्रघृतोपमा वा क्षौमस्य वस्त्रस्य च तुल्यवर्णा। या सोमवल्ल्याश्चैः समानरूपा साप्याशु तोयं कुरुतेऽक्षयं च। ताम्र समेता पृषतैर्विचित्रैरापाण्डुभस्मोष्ट्रखरानुरूपा। भृङ्गोपमाङ्गुष्ठिकपुष्पिका वा सूर्याग्निवर्णा च शिला वितोया। चन्द्रातपस्फटिकमौक्तिकहेमरूपा याश्चेन्द्रनीलमणिहिङ्गुलुकाञ्जनामाः। सूर्य्योदयांशुहरितालनिभाश्च याः स्युस्ताः शोभना मुनिवचोऽत्र च वृत्तमेतत्। एता ह्यभेद्याश्च शिलाः शिवाश्च यक्षैश्च नागैश्च सदाभिजुष्टाः। येषां च राष्ट्रेषु भवन्ति राज्ञां तेषामवृष्टिर्न भवेत्कदाचित्। भेदं यदा नैति शिला तदानीं पालाशकाष्ठैः सह तिन्दुकानाम्। प्रज्वालयित्वानलमग्निवर्णा सुधाम्बुसिक्ता प्रविदारमेति। तोयं शृतं मोक्षकभस्मना वा यत्सप्तकृत्वः परिषेचनं तत्। कार्यं शरक्षारयुतं शिलायाः प्रस्फोटनं वह्निवितापितायाः। तक्रकाञ्जिकसुराः सकुलत्था योजितानि वदराणि च तस्मिन्। सप्तरात्रमुषिताम्यभितप्तां दारयन्ति हि शिलां परिषेकैः। नैम्यं पत्रं त्वक् च नालं तिलानां सापामार्गं तिन्दुकं स्याद्गुडूची। गोमूत्रेण स्रावितः क्षार एषां षट्कृत्वोऽतस्तापितो भेद्यतेऽश्मा। आर्मं पयो हुडुविषाणमषीसमेतं पारा- वताखुशकृता च युतं प्रलेपः। टङ्कस्य तैलमथितस्य ततोस्य पानं पश्चाच्छितस्य न शिलासु भवेद्विघातः। क्षारे कदल्या मथितेन युक्ते दिनोषिते पायितमायसं यत्। सम्यक् शितं चाश्मनि नैति भङ्गं न चान्यलोहेष्वपि तस्य कौण्ठ्यम्। पाली प्रागपरायताम्बु सुचिरं धत्ते न याम्यीत्तरा कल्लोलैरवदारमेति मरुता सा प्रायशः प्रेरितैः। तां चेदिच्छति सारदारुभिरपां सम्पातमावारयेत् पाषाणादिभिरेव वा प्रतिचयं क्षुण्णं द्विपाश्वादिभिः। ककुभवटाम्रप्लक्षकदम्बैः सनिचुलजम्बूवेतसनीपैः। कुरुवकतालाशोकमधूकैर्बकुलाविमिश्रैश्चावृततीराम्। द्वारं च नैर्वाहिकमेकदेशे कार्य्यं शिलासञ्चितवारिमार्गम्। कोशस्थितं निर्विवरं कपाटं कृत्वा ततः पांशुभिरावपेत्तम्। अञ्जनमुस्तोशीरैः सराजकोशातकामलकचूर्णैः। कतकफलसमायुक्तैर्योगः कूपे प्रदातव्यः। कलुषं कटुकं लवणं विरसं सलिलं यदि वाशुभगन्धि भवेत्। तदनेन भवत्यमलं सुरसं ससुगन्धि गुणैरपरैश्च युतम्। हस्तो मथानुराधापुष्यधनिष्ठोत्तराणिरोहिण्यः। शतभिषगित्या रम्भे कूपानां शस्यते भगणः। कृत्वा वरुणस्य वलिं वटवेतसकीलकं सिरास्थाने। कुसुमैर्गन्धैर्धूपैः संपूज्य निधापयेत् प्रथमम्। मेघोद्भवं प्रथममेव मया प्रदिष्टं ज्येष्ठामतीत्य बलदेबमतादि दृष्ट्वा। भौमं दगा(का)र्गल मिदं कथितं द्वितीयं सम्यग्वराहमिहिरेण मुनिप्रसादात्”।

दग्ध = त्रि० दह–क्त। कृतदाहे १ भस्मीकृते “दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः” सा० द०। “सर्वं स्याद् दग्धमामिषम्” कर्मलोचनम्। देहस्वाग्निदाहभेदाः सुश्रुते उक्ता यथा

“अत ऊर्द्ध्वमितरथा दग्धलक्षणं वक्ष्यामः। तत्र स्निग्धं रूक्षं वा श्रित्य द्रव्यमग्निर्दहति। अग्निसन्तप्तो हि स्नेहः सूक्ष्मसिरानुसारित्वात्त्वगादीननुप्रविश्याशु दहति। तस्मात् स्नेहदग्धेऽधिका रुजो भवन्ति। तत्र प्लुष्टं दुर्दग्धं सम्यग्दग्धमतिदग्धञ्चेति चतुर्विधमग्निदग्धम्। तत्र यद्विवर्णं प्लुष्यतेऽतिमात्रं तत्प्लुष्टम्। यत्रोत्तिष्ठन्ति स्फोटास्तीव्राश्चोषदाहरागपाकवेदनाश्चिराच्चोपशाम्यन्ति तद्दुर्दग्धम्। सम्यग्दग्धमनवगाढं तालफलवर्णं सुसंस्थितं पूर्वलक्षणयुक्तञ्च। अतिदग्धे मांसावलम्बनं गात्रविश्लेषः सिरास्नायुसन्ध्यस्थिव्यापादनमतिमात्रं ज्वरदाहपिपासामूर्च्छाश्चोपद्रवा भवन्ति व्रणश्चास्य क्षिरेण रोहति रूढश्च विवर्णो भवति। तदेतच्चतुर्विध- मग्निदग्धलक्षणमात्मकर्मप्रसाधकं भवति। भवति चात्र। अग्निना कोपितं रक्तं भृशं जन्तोः प्रकुप्यति। ततस्तेनैव वेगेन पित्तमस्याभ्युदीर्य्यते। तुल्यवीर्य्ये उभे ह्येते रसतो द्रव्यतस्तथा। तेनास्य वेदनास्तीव्राः प्रकृत्या च विदह्यते। स्फोटाः शीघ्रं प्रजायन्ते ज्वरस्तृष्णा च वर्द्धते” सुश्रु०।

तिथिभेदेन युक्ते २ चन्द्राश्रितराशौ पु०। “मृगसिंहौ तृतीयायां प्रथमायां तुलामृगौ। पञ्चम्यां बुधराशी द्वौ सप्तम्यां चापचन्द्रभे। नवम्यां सिंहकीटाख्यावेकादश्यां गुरोर्गृहे। वृषमीनौ त्रयोदश्यां दग्धसंज्ञास्त्वमी गृहाः। दग्धसद्मनि यत् कर्म कृतं सर्वं विनश्यति” ज्यो० त०। ३ वारभेदेन युक्ते नक्षत्रभेदे न०। “याम्यं त्वाष्ट्रं वैश्यदेवं धनिष्ठार्य्यम्णं ज्येष्ठान्त्यं रवेर्दग्धभं स्यात्” ज्यो० त०। ४ वारभेदयुक्ते तिथिभेदे स्त्री “एकादशी चेन्दुवारे द्वादशी चार्कवासरे। षष्ठी वृहस्पतेर्वारे तृतीया बुधवासरे। अष्टमी शुक्रवारे च नवमी शनिवासरे। पञ्चमी भौमवारे च दग्धयोगाः प्रकीर्त्तिताः” नारदः। “द्वादश्येकादशी नागनौरीस्कन्दवसुष्वपि नवम्यां दग्धयोगाख्या भानुवारादितः क्रमात्” वसिष्ठः। ५ सूर्य्यचन्द्राक्रान्तराशिभेदेन युक्ते तिथिभेदे स्त्री राजमार्त्तण्डे “द्वितीया मीनधनुषोश्चतुर्थी वृषकुम्भयोः। मेषकर्कटयोः षष्ठी कन्यामिथुनकेऽष्टमी। दशमी वृश्चिके सिंहे द्वादशी मकरे तुले। आद्या धनुःषु शफरीषु परा द्वितीया एकान्तरे दिनकरे तिथयः प्रदग्धाः। कार्मुके च तथा कुम्भे मेषे युग्ने हरौ घटे। एषु शुक्ला द्वितीयाद्याः दग्धाः कृष्णा झषादिषु। राश्योश्चन्द्रस्य च रवेः स्थित्या वाच्यं फलं बुधैः। याः प्रोक्तास्तिथयो दग्धाः मेषादिषु च राशिषु। शुक्लास्ता विषमे राशौ समे कृष्णाः प्रकीर्त्तिताः। एभिर्जातो न जीवेत यदि शक्रसमो भवेत्। विवाहे विधवा नारी यात्रायां मरणं भवेत्। निष्फलं कृषित्राणिज्यं विद्यारम्भे च मूर्खता। गृहप्रवेशे भङ्गः स्वाच्चूडायां मरणं ध्रुवम्। ऋणदाने फलं नास्ति व्रतदाने च निष्फले। शुभकर्माणि सर्वाणि नैव कुर्य्याद्विचक्षणः”। उत्तरराशिषु चन्द्रस्थित्या दग्धायौ व्यक्तत्वं यथा “षष्ठी मेषकुलीरयोर्हिमकरे कन्यायुगे चाष्टमी सिंहे वृश्चिकराशिगे च दशमी तौलौ मृगे द्वादशी। चापे चाथ झषे द्विका यदि वृषे कुम्भे चतुर्थी यदा दग्धाख्यास्तिथयो वदन्ति मुनयस्त्याज्या सदा कर्मसु” ज्यो० त०। दग्धादिवस्त्राद्यस्यांशभेदे फलभेदः मु० चि० उक्तो यथा

“वस्त्राणां नवभागकेषु च चतुष्कोणेऽमरा राक्षसा मध्यत्र्यंशगता नरास्तु सदशे पार्श्वे च मध्याशयोः। दग्धे वा स्फुटितेऽम्बरे नवतरे पङ्कादिलिप्ते न सद्रक्षोऽंशे, नृसुरांशयोः शुभमसत् सर्वांशके प्रान्ततः” तदुक्तं श्रीपतिना “कर्दमकज्जलगोमयलिप्ते वाससि दग्धवति स्फुटिते वा। चिन्त्यमिदं नवधाभिहितेऽस्मिन्निष्टमनिष्टफलञ्च सुधीभिः। निवसन्त्यमरा हि वस्त्रकोणे मनुजाः पार्श्वदशान्तमध्ययोश्च। अपरेऽपि च रक्षसां त्रयोऽंशे शयने चासनपादुकासु चैवम्। भोगप्राप्तिर्देवतांशे, नरांशे पुत्राप्तिः, स्याद्राक्षसांशे च मृत्युः। प्रान्ते सर्वांशेष्वनिष्टं तथा स्यात् प्लुष्टे वस्त्रे नूतने साध्वसाधु”। ६ सूर्य्याधिष्ठितदिशि स्त्री। ७ दग्धरुहायां वृक्षे च स्त्री ८ संतप्ते त्रि०।

दग्धकाक = पुंस्त्री० दग्ध इव काकः। द्रोणकाके हेमच० स्त्रियां जातित्वात् ङीष्।

दग्धमन्त्र = पु० नित्यकर्म्म०। “वह्निर्वायुसमायुक्तो यस्य मन्त्रस्य मूर्द्धनि। सप्तधा दृश्यते तन्तु दग्धमन्त्रं प्रचक्षते” तन्त्रसारोक्ते मन्त्रभेदे।

दग्धरथ = पु० दग्धो रथोऽस्य। चित्ररथगन्धर्वे चित्ररथशब्दो २९४६ पृ० तद्रथदाहकथा दृश्या।

दग्धरुह = पु० दग्धोऽपि रोहति रुह–क। १ तिलकवृक्षे, २ भस्मरोहायाञ्च स्त्री राजनि०।

दग्धिका = स्त्री कुत्सिता दग्धा कुत्सिते कन्। (पोडाभात) १ दग्धान्ने भरतः। दग्ध + स्वार्थे क। अतैत्त्वम्। २ दग्धरुहावृक्षे राजनि०।

दग्धेष्टका = स्त्री कर्म्म०। झामके (झामा) हारा०।

दघ = त्यागे पालने च भ्वा० पर० सक० सेट् इदित्। दङ्घति अदङ्घीत्। ददङ्घ।

दघ = घातने स्वा० पर० सक० सेट् दघ्नोति अदाघीत्–अदघीत्। ददाघ देघतुः। गतौ दिवा० निघण्टुः। दष्यति इति भेदः। “पश्चा स दघ्या यो अघस्य” ऋ० १। १२३। ५। “दध्याः गच्छतु पुरुषव्यत्ययः” भा०। “पश्चाद्दष्यरथ्यो विभागे” ऋ० ७। ५६। २१।

दण्ड = दण्डपातने दमने च अद० चुरा० उभ० सक० सेट्। दण्डयति ते अददण्डत्–त। दण्डः दण्ड्यः दण्डनीयः दण्डितः। ग्रहणपूर्वकशासने द्विक०। “प्रजाः शतं दण्डयति राजा। दुहा० गोणे कर्म्मणि लकारादयः। गर्गाः शतं दण्ड्यन्ते। दण्डशब्दे उदा० “अदण्ड्यान् दण्डयन् राजा दण्ड्यांश्चैवाप्यदण्डयन्” मनुः।

दण्ड = पुंन० दण्ड–अच् कर्म्मणि पुंसि घ वा दमेर्डो वा। १ लगुडे (लाटि) ख्याते पदार्थे २ विप्रदण्डोद्यमे “कृच्छ्र मतिकृच्छ्रं निपातने। “परस्य दण्डं नोद्यच्छेत् क्रुद्धो नैव निपातयेत्” मनुः। दण्डघारणगुणाः “स्खलतः संप्रतिष्ठानं शत्रूणाञ्च निषेधनम्। अवष्टम्भनमायुष्यं भयघ्नं दण्डधारणम्” वैद्यकम्।

भिन्दिपालाङ्गदण्डलक्षणं हेमा० प० लक्षणसमुच्चयोक्तं भिन्दिपालशब्दे वक्ष्यते तदनुसारेणान्योऽपि दण्डो विधेयः। छत्राङ्गदण्डस्तु “समवृत्तदण्डयुक्तम्” वृ० स० ७४ अ० उक्तः। चामराङ्गदण्डस्तु तत्रैव ७२ अ० उक्तो यथा “अध्वर्द्धहस्तप्रमितोऽस्य दण्डो हस्तोऽथ वा रत्निसमीऽथवान्यः। काष्ठाच्छुभात् काञ्चनरूप्यगुप्ताद् रत्नैर्विचित्रैश्च हिताय राज्ञाम्”। ब्रह्मचारिधार्य्ये काष्ठमये लगुडाकारे २ पदार्थे, वर्णभेदेन तत्प्रमाणादि मनुनोक्तं यथा “व्राह्मणो वेल्वपालाशौक्षत्रियो वाटखादिरौ। पैलवौदुम्बरौ वैश्यो दण्डानर्हन्ति धर्मतः। केशान्तिको ब्राह्मणस्य दण्डः कार्य्यः प्रमाणतः। ललाटसम्मितो राज्ञः स्यात्तु नासान्तिको विशः। ऋजवस्ते तु सर्वे स्युरव्रणाः सौम्यदर्शनाः। अनुद्वेगकरा नॄणां सत्वचो नाग्निदूषिताः। प्रतिगृह्येप्सितं दण्डमुपस्थाय च भास्करम्। प्रदक्षिणं परीत्याग्निं चरेद्भैक्षं यथाविधि”। संन्यासिनां दण्डधारणे विशेषादि नि० सि० उक्तो यथा

“हारीतः “कुटीचको बहूदको हंसश्चैव तृतीयकः। चतुर्थः परमो हंसो यो यः पश्चात् स उत्तमः”। आद्यः पुत्रादिना कुटिं कारयित्वा तत्र गृहे वा वसन् काषाय वासाः शिखोपवीतत्रिदण्डवान् बन्धुषु स्वगृहे वा भुञ्जान आत्मज्ञो भवेत् एतदत्यन्ताशक्तपरम् द्वितीयस्तु बन्धून् हित्वा सप्तागाराणि भैक्षं चरन् पूर्वोक्तवेषः स्योत्। हंसस्तु पूर्वोक्तवेषोऽप्येकदण्डः “एकन्तु वैणवं दण्डं घारयेन्नित्यमादरादिति” स्कान्दात् विष्णुरपि “यज्ञोपवीतं दण्डं च वस्त्रं जन्तुनिवारणम्। तावान् परिग्रहः प्रोक्तो नान्यो हंसपरिग्रहः”। चतुर्थोऽपि स्कान्दे “परहंसस्त्रिदण्डं च रज्जु” गोबालनिर्मिताम्। शिखां यज्ञोपवीतं च नित्यं कर्म परित्यजेत्। अयमप्येकदण्डः एव। ये तु शिखोपवीतादित्यागनिषेघास्ते कुटीचकादिपराः। यत्तु मेधातिथिंः “यावन्न स्युस्त्रयो दण्डास्तावदेकेन वर्त्तयेदिति” तदपि तत्परमेव। यच्चात्रिः “चतुर्धा भिक्षवः प्रोक्ताः सर्वे चैव त्रिदण्डिनः” इति तद्वाग्दण्डादिपरं न यष्टिपरम् “वाग्दण्डोऽथ मनोदण्डः कायदण्डस्तथैव च। यस्यैते नियता दण्डाः स त्रिदण्डीति चोच्यते” मनूक्तेः। तस्मात् परमहंसस्यैकदण्ड एव। सोऽप्यविदुषः विदुषस्तु सोऽपि नास्ति “न दण्डं न शिखां नाच्छादनं न भैक्षं चरति परमहंस” इति महोपनिषदुक्तेः “ज्ञानमेवास्य दण्ड” इति वाक्यशेषाञ्च यत्तु यमः “काष्ठदण्डो धृतो येन सर्वाशी ज्ञानवर्जितः। स याति नरकान् घोरान् महारौरवसंज्ञकानिति” तद्वैराग्यं विना जीवनार्थकृतसन्न्यासपरम् “एकदण्डं समाश्रित्य जीवन्ति बहवी नराः। नरके रौरवे घोरे कर्मत्यानात् पतन्ति ते” इति स्मृतेः यच्चाश्वमेधिके “एकदण्डी त्रिदण्डी वा शिखामुण्डित एव वा। काषायमात्रसारोऽपि यतिः पूज्यो युधिष्ठिरेति” तस्यापि पूर्वोक्तव्यवस्था ज्ञेया”।

भावे अच्। ३ दमने “वाग्दण्डश्च मनोदण्डः कायदण्डस्तथैव च” मनुः। “शरणागतसंत्राणं भूतानामप्यहिंसनम्। बहिर्वेदि च दानञ्च दण्डमित्यभिधीयते” भा० मोक्षधर्म्मोक्ते ४ शरणागतत्राणादित्रिके। दण्ड इवाच रति दण्ड + क्विप् ततो भावे घञ्। ५ दण्डतुल्यस्थितौ (दा~डान) सारसुन्दरी दण्ड–यथायथं कर्मभावकरणादौ अच्। ६ प्रकाण्डे ७ अश्वे ८ कोणे ९ मन्थने १० सैन्ये ११ भूमिमानभेदे (काठा) “हस्तैश्चतुर्भिर्भवतीह दण्डः” लीला०। गोचर्म्मशब्दे २६९५ पृ० दृश्यम् “दशहस्तेन दण्डेन” इति पाठान्तरम्। १२ सूर्य्यपारिषदभेदे १३ यमे १४ अभिमाने च मेदि०। १५ दण्डाकारे ग्रहभेदे हेमच० ग्रहशृङ्गाटकशब्दे २७६९ पृ० दृश्यम्। १६ इक्ष्वाकुनृपपुत्रभेदे। तत्कथा जनस्थानशब्दे ३०२४ पृ० दृश्या। स्वार्थे क। तत्रार्थे। “धृष्णुकश्चाम्बरीषथ दण्डकश्चेति ते त्रयः। यश्चकार महात्मावै दण्डकारण्यमुत्तमम्” हरिवं० १० अ०।

षष्टिपलात्मके दिनषष्टिभागरूपे घटिकापरपर्य्याये १७ कालभेदे तज्ज्ञानोपायश्च घटीयन्त्रशब्दे उक्तप्रायः। श्रीपतिनाप्युक्तो यथा

“शुल्वस्य दिग्भिर्विहितं पलैर्यत् षडङ्गुलोच्चद्विगुणायतास्यम्। तदम्भसा षष्टिपलैः प्रपूर्यं पात्रं घटार्द्धप्रतिमं घटी स्यात्। सत्र्यंशमाषत्रयनिर्मिता या हेम्नः शलाका चतुरङ्गुका स्यात्। विद्धं तयां प्राक्तनमत्र पात्रं प्रपूर्य्यते नाडिकयाम्बुना तत्” “षष्टिदण्डात्मिका- याश्च तिथेर्निष्क्रमणं परे”। “दण्डैकरजनीयोगः” ति० त०।

१८ व्यूहभेदे तल्लक्षणभेदादि अग्निपु० २४१ अ० यथा

“मण्डलासंहतौ भागो दण्डास्ते बहुधा शृणु। तिर्य्यग्वृत्तिस्तु दण्डः स्यात् भोगोऽन्या वृत्तिरेव च। मण्डलः सर्वतो वृत्तिः पृथग्वृत्तिरसंहतः। प्रदरो दृढकोऽसह्यः चापो वैकुक्षिरेव च। प्रतिष्ठः सुप्रतिष्ठश्च श्येनो विजयसञ्जयौ। विशालो विजयः सूची स्थूणाकर्णचमूमुखौ। सर्पास्यो बलयश्चैव दण्डभेदाश्च दुर्जयाः। अतिक्रान्तः प्रतिक्रान्तः कक्ष्याभ्याञ्चैकक्षपक्षतः। अतिक्रान्तस्तु पक्षाभ्यां त्रयोऽन्ये तद्विपर्य्यये। पक्षोरस्यैरतिक्रान्तः प्रतिष्ठोऽन्यो विपर्य्ययः। स्थूणापक्षो धनुःपक्षो द्विस्थूणो दण्ड ऊर्द्ध्वगः। द्विगुणोऽयन्त्वतिक्रान्तपक्षोऽन्यस्य विपर्य्ययः। द्विचतुर्दण्ड इत्येते ज्ञेया लक्षणतः क्रमात्। गोमूत्रिका हि सञ्चारी शकटो मकरस्तथा”

१९ राज्ञामुपायभेदे चतुर्थोपाये। ते चोपायाः सामदानभेददण्डाः सर्व्त्र प्रसिद्धाः तु अग्निपु० २४० अ०। अन्येऽप्युपायाः सामादिप्रयोगविषयाश्चोक्ता यथा

“साम दानं च भेदश्च दपेण्डोक्षेन्द्रजालकम्। मायोपायाः सप्त परे निक्षिपेत् साधनाय तान्। चतुर्विधं स्मृतं साम उपकारानुकीर्त्तनात्। मिथः सम्बन्धकथनं मृदुपूर्वं च भाषणम्। आयाते दर्शनं वाचा तवाहमिति चार्पणम्। यः सम्प्राप्तधनोत्सर्ग उत्तमाधममध्यमः। प्रतिदानं तदा तस्य गृहीतस्यानुमोदनम्। द्रव्यदानमपूर्वं च स्वयंग्राहप्रवर्त्तनम्। देयश्च प्रतिमोक्षश्च दानं पञ्चविधं स्मृतम्। स्नेहरागापनयनं संहर्षोत्पादनं तथा। भिथो भेदश्च भेदज्ञैर्भेदश्च त्रिविधः स्मृतः। वधोऽर्थहरणं चैव परिक्लेशस्त्रिधा दमः। प्रकाशश्चाप्रकाशश्च लोकद्विष्टान् प्रकाशतः”। “दण्डस्य दर्शनाद्दुष्टान्, पुत्रभ्रात्रादि, सामतः। दानभेदैश्चमूमुख्यान् योधान् जनपदादिकान्। सामन्ताटविकान् भेददण्डाभ्यामपराद्धकान्। देवताप्रतिमानान्तु पूजयान्तर्गतैर्नरैः। पुमान् स्त्रीवस्त्रसंवीतो निशि चाद्भुतदर्शनः। वेतालोल्कापिशाचानां शिवानां च स्वरूपिता। कामतो रूपधारित्वं शस्त्राग्न्यश्माम्बुवर्षणम्। तमोऽनिलोऽनलो मेघ इति माया ह्यमानुषी। जधान कीचकं भीम आस्थितः स्त्रीस्वरूपताम्। अन्याये व्यसने युद्धे प्रवृत्तस्यानिवारणम्। उपेक्षेयं स्मृता भ्रातोपेक्षितश्च हिडिग्वया। मेघान्धकारवृष्ट्यग्निपर्वताद्भुतदर्शनम्। दरस्थानं च सैन्यानां दर्शनं ध्वजशालिनाम्। छिन्नपाटितभिन्नानां संसृतानां च दर्शनम्। इतीन्द्रजालं द्विषतां भीत्यर्थमुपकल्पयेत्”। २० विष्णौ पु० “धनुर्द्धरो धनुर्वेदो दण्डो दमयिता दमः” विष्णुसं०। २१ शिवे “शत्रुन्दमाय दण्डाय पर्णचीरपटाय च” भा० शा० २८६ अ०। २२ दण्डाकारे ऋजौ सूर्य्यपरिवेषभेदे “परिधिस्तु प्रतिसूय्योर्दण्डस्त्वृजुरिन्द्रचापनिभः” वृ० स० १९ अ०। २३ दण्डवत्स्थिते रविकरादेः संघाते “रविकिरणजलदमरुतां सङ्घातो दण्डवत्स्थितो दण्डः। स विदिक्स्थितो नृपाणामशुभो दिक्ष द्विजातीनाम्। शस्त्रभयातङ्ककरो दृष्टः प्राङ्मध्यसन्धिषु दिनस्य। शुक्लाद्यो विप्रादीन् यदभिमुखस्तां निहन्ति दिशम्” ३० अ०। २४ राज्ञः प्रजाशासनभेदे तत्स्वरूपादि भा० शा० १२१ अ०

“शृणु कौरव्य! यो दण्डो व्यवहारो यथा च सः। यस्मिन् हि सर्वमायत्तं स दण्ड इह केवलः। धर्मसंस्था महाराज! व्यवहार इतीर्य्यते। तस्य लोपः कथं न स्याल्लोकेष्ववहितात्मनः। इत्येवं व्यवहारस्य व्यवहारत्वमिष्यते। अपि चैतत् पुरा राजन्! मनुना प्रोक्तमादितः। सुप्रणीतेन दण्डेन प्रियाप्रियसमात्मना। प्रजा रक्षति यः सम्यक् धर्म्म एव स केवलः। यथोक्तमेतद्वचनं प्रागेव मनुना पुरा। यन्मयोक्तं मनुष्येन्द्र! ब्रह्मणो वचनं महत्। प्रागिदं वचनं प्रोक्तमतः प्राग्वचनं विदुः। व्यवहारस्य चाख्यानाद्व्यवहार इहोच्यते। दण्डे त्रिवर्गः सततं सुप्रणीते प्रवर्त्तते। दैवं हि परमो दण्डो रूपतोऽग्निरिवोत्थितः। नीलोत्पलदलश्यामश्चतुर्दंष्ट्रश्चतुर्भुजः। अष्टपान्नैकनयनः शङ्कुकर्णोर्द्ध्वरोमवान्। जटी द्विजिह्वस्ताम्रास्यो मृगराजतनुच्छदेः। एतद्रूपं बिभर्त्त्युग्रं दण्डो नित्यं दुराधरः। असिर्द्धनुर्गदा शक्तिस्त्रिशूलं मुद्गरः शरः। मुषलं परशुश्चक्रं पाशो दण्डर्ष्टितोमराः। सर्वप्रहरणीयानि सन्ति यानीह कानिचित्। दण्ड एव स सर्वात्मा लोके चरति मूर्त्तिमान्। भिन्दन् छिन्दन् रुजन् कृन्तन् दारयन् पाटयंस्तथा। घातयन्नभिधावंश्च दण्ड एव चरत्युत। असिर्विशसनो धर्मस्तीक्ष्णवर्म्मा दुराधरः। श्रीगर्भो विजयः शास्ता व्यवहारः सनातनः। शास्त्रं ब्राह्मणमन्त्राश्च शास्ता प्राग्वदतां वर!। घर्मपालोऽक्षरो देवः सत्यगो नित्यगोऽग्रजः। असङ्गो रुद्रतनयो मनुर्ज्येष्ठः शिवङ्करः। नामान्येतानि दण्डस्य कीर्त्तितानि युधिष्ठिर!। दण्डो हि भगवान् विष्णुर्दण्डो नारायणः प्रभुः। शश्वद्रूपं महद्बिभ्रन्महापुरुष उच्यते। तथोक्ता ब्रह्मकन्येति लक्ष्मीर्वृत्तिः सरस्वती। दण्डनीतिर्जगद्धात्री दण्डो हि बहुविग्रहः। अर्थानर्थौ सुखं दुःखं धर्म्माधर्म्मौ बलाबले। दौर्भाग्यं मागधेयञ्च पुण्यापुण्ये गुणागुणौ। कामाकामावृतुर्म्मासः शर्वरी दिवसः क्षणः। अप्रमादः प्रमादश्च हर्षक्रोधौ शमोदमः। दैवं पुरुषकारश्च मोक्षामोक्षौ भयाभये। हिंसाहिंसे तपो यज्ञः संयमोऽथ विषाविषम्। अन्तश्चादिश्च मध्यञ्च कृत्यानाञ्च प्रपञ्चनम्। मदः प्रमादो दर्पश्च दम्भो धैर्य्यं नयानयौ। अशक्तिः शक्तिरित्येवं मानस्तम्भौ व्ययाव्ययौ। विनयश्च विसर्गश्च कालाकालौ च भारत!। अनृतं ज्ञानिता सत्यं श्रद्धाश्रद्धे तथैव च। क्लीवता व्यवसायश्च लाभालाभौ जयाजयौ। तीक्ष्णता मृदुता मृत्युरागमानागमौ तथा। विरोधश्चाविरोधश्च कार्य्याकार्य्ये बलाबले। असूया चानसूया च धर्म्माधर्स्मौ तथैव च। अपत्रपानपत्रपे ह्रीश्च सम्पद्विपत्पदम्। तेजः कर्म्माणि पाण्डित्यं वाक्छक्तिस्तत्त्वबुद्धिता। एवं दण्डस्य कौरव्य! लोकेऽस्मिन् बहुरूपता। न स्याद्यदीह दण्डो वै प्रमथेयुः परस्परम्। भयाद्दण्डस्य नान्योन्यं घ्नन्ति चैव युधिष्ठिर!। दण्डेन रक्ष्यमाणा हि राजन्नहरहः प्रजाः। राजानं वर्द्धयन्तीह तस्माद्दण्डः परायणम्। व्यवस्थापयति क्षिप्रमिमं लोकं नरेश्वर!। सत्ये व्यवस्थितो धर्म्मो व्राह्मणेष्ववतिष्ठते। धर्म्मयुक्ता द्विजश्रेष्ठा वेदयुक्ता भवन्ति च। बभूव यज्ञो वेदेभ्यो यज्ञः प्रीणाति देवताः। प्रीताश्च देवता नित्यमिन्द्रे परिवदन्त्यपि। अन्नं ददाति शक्रश्चाप्यनुगृह्णन्निमाः प्रजाः। प्राणाश्च सर्वभूतानां नित्यमन्ने प्रतिष्ठिताः। तस्मात् प्रजाः प्रतिष्ठन्ते दण्डो जागर्त्ति तासु च। एवंप्रयोजनश्चैब दण्डः क्षत्त्रियतां गतः। रक्षन् प्रजाः स जागर्त्ति नित्यं स्ववहितोऽक्षरः। ईश्वरः पुरुषः प्राणः सत्त्वं चित्तं प्रजापतिः। भूतात्मा जीव इत्येवं नामभिः प्रोच्यतेऽष्टभिः। अददद्दण्डमेवास्मै ध्रुवमैश्वर्य्य मेव च। बलेन यश्च संयुक्तः सदा पञ्चविधात्मकः। कुलं बहुधनामात्याः प्राज्ञाः प्रोक्ता बलानि तु आहार्य्य मष्टकैर्द्रव्यैर्बलमन्यद्युधिष्ठिर!। हस्तिनोऽश्वा रथाः पत्तिर्गावो विष्टिस्तथैव च। दैशिकाश्चाविकाश्चैव तदष्टाङ्ग वल स्मृतम्। अथ वाऽङ्गस्य युक्तस्य रथिनो हस्तियायिनः। अश्वारोहाः पदाताश्च मन्त्रिणो रसदाश्च ये। भिक्षुकाः प्राड्विवाकाश्च मौहूर्त्ता दैवचिन्तकाः। कोषो मित्राणि धान्यञ्च सर्वोपकरणानि च। सप्तप्रकृति चाष्टाङ्गं शरीरमिह यद्विदुः। राज्यस्य दण्डमेवाङ्गं दण्डः प्रभव एव च। ईश्वरेण प्रयत्नेन कारणात् क्षत्त्रियस्य च। दण्डो दत्तः समानात्मा दण्डो हीदं सनातनम्। राज्ञां पूज्यतमो नान्यो यथा धर्मः प्रदर्शितः। ब्रह्मणा लोकरक्षार्थं स्वधर्म्मस्थापनाय च। भर्तृप्रत्यय उत्पन्नो व्यवहारस्तथाऽपरः। तस्माद्यः सुहितो दृष्टो भर्तृप्रत्ययलक्षणः। व्यवहारस्तु वेदात्मा वेदप्रत्यय उच्यते। मौलश्च नरशार्दूल! शास्त्रोक्तश्च तथाऽपरः। उक्तो यश्चापि दण्डोऽसौ भर्तृप्रत्ययलक्षणः। ज्ञेयो नः स नरेन्द्रस्थो दण्डप्रत्ययलक्षणः। दण्डप्रत्ययदृष्टोऽपि व्यवहारात्मकः स्मृतः। व्यवहारः स्मृतो यश्च स वेदविषयात्मकः। यश्च वेदप्रसूतात्मा स धर्म्मो गुणदर्शनः। धर्म्मप्रत्यय उद्दिष्टो यथाधर्मं कृतात्मभिः। व्यवहारः प्रजागोप्ता ब्रह्मदिष्टो युधिष्ठिर! ! त्रीन् धारयति लोकान् वै सत्यात्मा भूतिवर्द्धनः। यश्च दण्डः स दृष्टो नो व्यवहारः सनातनः। व्यवहारश्च दृष्टो यः स वेद इति निश्चितम्। यश्च वेदः स वै धर्म्मो यश्च धर्म्मः स सत्पथः। ब्रह्मा पितामहः पूर्बं बभूवाथ प्रजापतिः। लोकानां स हि सर्वेषां ससुरासुररक्षसाम्। समनुष्योरगवतां कर्त्ता चैव स भूतकृत्। ततोऽन्यव्यवहारोऽयं भर्तृप्रत्ययलक्षणः। तस्मादिदमथोवाच व्यवहारनिदर्शनम्। माता पिता च भ्राता च भार्य्या चेव पुरोहितः। नादण्ड्यो विद्यते राज्ञो यः स धर्मेण तिष्ठति।” तत्रैव १५ अ०।

“दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति। दण्डः सुप्तेषु जागर्त्ति दण्डं धर्मं विदुर्ब्बुधाः। धर्मं संरक्षते दण्डस्तथैवार्थं जनाधिप!। कामं संरक्षते दण्डस्त्रिवर्गो दण्ड उच्यते। दण्डेन रक्ष्यते धान्यं धनं दण्डेन रक्ष्यते। एवंविद्वन्नुपादत्स्व भावं पश्यस्व लौकिकम्। राजदण्डभयादेके पापाः पापं न कुर्वते। यमदण्डभयादेके परलोकभयादपि। परस्परभयादेके पापाः पापं न कुर्वते। एवं सांसिद्धिके लोके सर्वं दण्डे प्रतिष्ठितम्। दण्डस्यैव भयादेके न खादन्ति परस्परम्। अन्धे तमसि मज्जेयुर्यदिं दण्डो न पालयेत्। यस्माददान्तान्दमयत्यशिष्टान्दण्डयत्यपि। दम- नाद्दण्डनाच्चैव तस्माद्दण्डं विदुर्बुधाः। वाचा दण्डो ब्राह्मणानां क्षत्त्रियाणां भुजार्पणम्। दानदण्डाः स्मृता वैश्या निर्दण्डः शूद्र उच्यते। असंमोहाय मर्त्त्यानामर्थसंरक्षणाय च। मर्य्यादा स्थापिता लोके दण्डसंज्ञा विशाम्पते!। यत्र श्यामो लोहिताक्षो दण्डश्चरति सूद्यतः। प्रजास्तत्र न मुह्यन्ते नेता चेत्साधु पश्यति। ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः। दण्डस्यैव भयादेते मनुष्या वर्त्मनि स्थिताः। नाभीतो यजते राजन्! नाभीतो दातुमिच्छति। नीभतः पुरुषः कश्चित्समये स्थातुमिच्छति। नाच्छित्त्वा परमर्म्माणि नाकृत्वा कर्म दुष्करम्। नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम्। नाघ्नतः कीर्त्तिरस्तीह न वृत्तं न पुनः प्रजाः। इन्द्रो वृत्रबधेनैव महेन्द्रः समपद्यत। य एव देवा हन्तारस्तान् लोकोऽर्चयते भृशम्। हन्ता रुद्रस्तथा स्कन्दः शक्नोऽग्निर्वरुणो यमः। हन्ता कालस्तथा मृत्युर्वायुर्वैश्रवणो रविः। वसवो मरुतः साध्या विश्वे देवाश्च भारत!। एतान्देवान्नमस्यन्ति प्रतापप्रणता जनाः। न ब्रह्माणं न धातारं न पूषाणं कथञ्चन। मध्यस्थान सर्वभूतेषु दान्तान् शमपरायणान्। यजन्ते मानवाः केचित्प्रशस्ताः सर्वकर्भसु। न हि पश्यामि जीवन्तं लोके कञ्चिदहिंसया। सत्त्वैः सत्त्वा हि जीवन्ति दुर्बलैर्बलवत्तराः। नकुलो मूषिकानत्ति विडालो नकुलं तथा। विडालमत्ति श्वा राजन् श्वानं व्यालमृगस्तथा। तानत्ति पुरुषः सर्वान् पश्य कालो यथागतः। प्राणस्यान्नमिदं सर्वं जङ्गमं स्थावरञ्च यत्। विधानं दैवविहितं तत्र विद्वान्न मुह्यति। यथा सृष्टोऽसि राजेन्द्र! तथा भवितुमर्हसि। विनीतक्रोधहर्षा हि मन्दा वनमुपाश्रिताः। विना बधं न कुर्वन्ति तापसाः प्राणयापनम्। उदके बहवः प्राणाः पृथिव्यां च फलेषु च। न च कश्चिन्न तान् हन्ति किमन्यत्प्राणयापनात्। सूक्ष्मयोनीनि भूतानि तर्कागम्याणि कानिचित्। पक्ष्मणोऽपि निपातेन येषां स्यात् स्कन्धपर्य्ययः। ग्रामान्निष्क्रम्य मुनयो विगतक्रोधमत्सराः। वने कुटुम्बधर्माणी दृश्यन्ते परिमोहिताः। भूमिं भित्त्वौषधीश्छित्त्वा वृक्षादीनण्डजान् पशून्। मनुष्यास्तन्वते यज्ञांस्ते स्वर्गं प्राप्नुवन्ति च। दण्डनीत्यां प्रणीतायां सर्वे सिध्यन्त्युपक्रमाः। कौन्तेय! सर्वभूतानां तत्र मे नास्ति संशयः। दण्डश्चेन्न भवेल्लोके विनश्येयुरिमाः प्रजाः। शूले मत्स्यानिवापक्ष्यन् दुर्बलान् वलवत्तराः। सत्यं चेदं ब्रह्मणा पूर्बमुक्त दण्डः प्रजा रक्षति साधुनीतः। पश्याग्नयश्च प्रतिशाम्य भीताः सन्तर्ज्जिता दण्डभयाज्ज्वलन्ति। अन्धन्वम इवेदं स्यान्न प्राज्ञायेत किञ्चन। दण्डश्चेन्न भवेल्लोके विभजन् साध्वसाधुनी। येऽपि सम्भिन्नमर्य्यादा नास्तिका वेदनिन्दकाः। तेऽपि भोगाय कल्पन्ते दण्डेनाशु निपीडिताः। सर्वो दण्डजितो लोके दुर्लभो हि शुचिर्जनः। दण्डस्य हि भयाद्भीतो भोगायैव प्रवर्त्तते। चातुर्वर्ण्यप्रभेदाय सुनीतिनयनाय च। दण्डो विधात्रा विहितो धर्मार्थावभिरक्षितुम्। यदि दण्डान्न बिभ्येयुर्वयांसि श्वापदानि च। अद्युः पशून्मनुष्यांश्च यज्ञार्थानि हवींषि च। न व्रह्म चाप्यधीयीत कल्याणीं न दुहेत गाम्। न कन्योद्वहनं गच्छेद्यदि दण्डो न पालयेत्। विश्वग्लोपः प्रवर्त्तोत भिद्येरन् सर्वसेतवः। ममत्वं न प्रजानीयुर्यदि दण्डो न पालयेत्। न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः। विधिवद्दक्षिणावन्ति यदि दण्डो न पालयेत्। चरेयुर्नाश्रमे धर्मं यथोक्तं विधिमाश्रिताः। न विद्यां प्राप्नुयात् काञ्चित् यदि दण्डो न पालयेत्। न चोष्ट्रा न बलीवर्द्दा नाश्वाश्वतरगर्दभाः! युक्ता वहेयुर्यानानि यदि दण्डं न पालयेत्। न प्रेष्या वचनं कुर्य्युर्न्न बाला जातु कर्हिचित्। तिष्ठेत्पितृमती धर्म्मे यदि दण्डो न पालयेत्। दण्डे स्थिताः प्रजाः सर्वा दण्डे सर्वं विदुर्बुधाः। दण्डे स्वर्गो मनुष्याणां लोकोऽयञ्च प्रतिष्ठितः। न तत्र कूटं पापं वा वञ्चना वाऽपि दृश्यते। यत्र दण्डः सुविहितश्चरत्यरिविनाशनः। हविः श्वाऽपि लिहेद्दृष्ट्वा दण्डश्चेन्नोद्यतो भवेत्। हरेत्काकः पुरोडाशं यदि दण्डो न पालयेत्।” मनुनाप्युक्तं यथा “दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति। दण्डः सुप्तेषु जागर्त्ति दण्डं धर्मं विदुर्बुधाः। समीक्ष्य स धृतः सम्यक् सर्वा रञ्जयति प्रजाः। असमीक्ष्य प्रणीतस्तु विनाशयति सर्वतः। यदि न प्रणयेद्राजा दण्डं दण्ड्येष्वतन्द्रितः। शूले मत्स्यानिवापक्ष्यन् दुर्बलान् बलवत्तराः। अद्यात् क्राकः पुरोडाशं श्वाऽयलिह्याद्धविस्तथा। साम्यञ्च नंस्यात् कस्मिंश्चित् प्रवर्त्तेताधरोत्तरम्। णर्वो दण्डजितो लोको दुर्लभो हि शुचिर्न्नरः। दण्डस्य हि भयात् सर्वं जगद्भोगाय कल्पते। देवदानवगन्धर्वा रक्षांसि पतगोरगाः। तेऽपि भोगाय कल्पन्ते दण्डेनैव निपीडिताः। दुष्येयुः सर्ववर्णाश्च विद्येरन् सर्वसेतवः। सर्वलोकप्रकोपश्च भवेद्दण्डस्य विभ्रमात्। यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा। प्रजास्तत्र न मुह्यन्ति नेता चेत् साधु पश्यति। तस्याहुः सम्प्रणेतारं राजानं सत्यवादिनम्। समीक्ष्यकारिणं प्राज्ञं धर्मकामार्थकोविदम्। तं राजा प्रणयन् सम्यक् त्रिवर्गेणाभिवर्द्धते। कामात्मा विषमः क्षुद्रो दण्डेनैव निहन्यते। दण्डो हि सुमहातेजा दुर्द्धरश्चाकृतात्मभिः। धर्माद्विचलितं हन्ति नृपमेव सवान्धवम्।” तस्य स्थानानि च मनूक्तानि

“दश स्थानानि दण्डस्य मनुः स्वायम्भुवोऽब्रवीत्। त्रिषु वर्णेषु यानि स्युरक्षतो ब्राह्मणो व्रजेत्। उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम्। चक्षुर्नासा च कर्णौ च धनं देहस्तथैव च। अनुबन्धं परिज्ञाय देशकालौ च तत्त्वतः। सारापराधौ चालोक्य दण्डं दण्ड्येषु पातयेत्। अधर्मदण्डनं लोके यशोघ्नं कीर्त्तिनाशनम्। अस्वर्ग्यञ्च परत्रापि तस्मात्तत् परिवर्जयेत्। अदण्ड्यान् दण्डयन्राजा दण्ड्यांश्चैवाप्यदण्डयन्। अयशो महदाप्नोति नरकञ्चैव गच्छति। वाग्दण्डं प्रथमं कुर्य्यात् धिग्दण्डं तदनन्तरम्। तृतीयं धनदण्डन्तु बधदण्डमतः परम्। वधेनापि यदा त्वे तान्निग्रहीतुं न शक्नुयात्। तदैषु सर्वमप्येतत् प्रयुञ्जीत चतुष्टयम्।”

तस्योत्तमाधममध्यमभेदेन परिमाणभेदा मनूक्ता यथा “पणानां द्वे शते सार्द्धे प्रथमः साहसः स्मृतः। मध्यमः पञ्च विज्ञेयः सहह्रन्त्वेव चोत्तमः”।

विवादभेदे तद्भेदाः स्मृत्युक्ताः क्रमशो दर्श्यन्ते।तत्र ऋणादाने प्रतिवादिनो निह्नवे निह्नुतद्रव्यतुल्यम्। वादिना मिथ्याभियोगे अभियोगविषयधनात् द्विगुणं धनं वादिनो दमः। “निह्नवे भावितो दद्यात् धनं राज्ञे च तत् समम्। मिथ्याभियोगीद्विगुणमभियोगात् धनं हरेत्” याज्ञ०। मनुनात्र विशेष उक्तः यथा

“ऋणे देवे प्रतिज्ञाते पञ्चकं शतमर्हति। अपह्नवे तद्द्विगुणं तन्मनोरनुशासनम्”। “यः साधयन्तं छन्देन वेदयेत् धनिकं नृपे। स राज्ञा तच्चतुर्भागं दाप्यस्तस्य च तद्धनम्” मनुः।

प्रतिपन्नार्थस्य राज्ञा दापने अधमर्णस्य निह्न- वाभावे दशकं शतं साधितद्रव्यस्य दशमभागो दनः। “राज्ञाऽधमर्णिको दाप्यः साधिताद्दशकं शतम्” याज्ञ०।उपनिधिनिक्षेपादौ नाशभेदे दमभेदो याज्ञ० उक्तो यथा “भ्रेषश्चेत् मार्गितेऽदत्ते दाप्यो दण्डं च तत्समम्” आजीवन् स्वेच्छया दण्ड्यो दाप्यस्तञ्चापि सोदयम्। याचितान्वाहितन्यासनिःक्षेपादिकेष्वयं विधिः”।

अत्र विशेषो मनुनोक्तो यथा “यो निक्षेपं नार्पयति यश्चानिक्षिप्य याचते। तावुभौ चौरवच्छास्यौ दाप्यौ वा तत्समं दमम्। निक्षेपस्यापहर्त्तारं तत्समं दापयेद्दमम्। तस्योपनिधिहर्त्तारमविशेषेण पार्थिवः”।छद्मना उत्कोचग्रहणे मनुनोक्तो यथा “उपधाभिश्च यः कश्चित् परद्रव्यं हरेन्नरः। ससहायः संहन्तव्यः प्रकाशं विविधैर्बधैः”। “करचरणशिरश्छेदादिभिर्नानाविधैः बधोपायैः स दम्यः” कुल्लू०।कौटसाक्ष्ये मनुनोक्तो दमो यथा

“लोभान्मोहाद्भयान् मैत्र्यात् कामात् क्रोधात्तथैव च। अज्ञानाद्बालभावाच्च साक्ष्यं वितथमुच्यते। एषामन्यतमे स्थाने यः साक्ष्यमनृतं वदेत्। तस्य दण्डविशेषांस्तु प्रवक्ष्याम्यनुपूर्वशः। लोभात् सहस्रं दण्ड्यस्तु मोहात् पूर्वन्तु साहसम्। भयाद् द्वौ मध्यमौ दण्डौ मैत्र्यात् पूर्वं चतुर्गुणम्। कामाद्दशगुणं पूर्वं क्रोधात्तु त्रिगुणं परम्। अज्ञानात् द्वे शते पूर्णे चाशिष्याच्छतमेव तु। एतानाहुः कौटसाक्ष्ये प्रोक्तान् दण्डान् मनीषिभिः। धर्मस्याव्यभिचारार्थमधर्मनिधनाय च। कौटसाक्ष्यन्तु कुर्वाणान् त्रीन् वर्णान् धार्मिको नृपः। प्रवासयेद्दण्डयित्वा ब्राह्मणन्तु विवासयेत्”। अत्र विशेषमाह याज्ञ० “यः साक्ष्यं श्रावितोऽन्येभ्यो निह्नुते तत्तमो वृतः। स दाप्योऽष्टगुणं दण्डं ब्राह्मणन्तु विवासयेत्”।साक्ष्यादाने दममाह याज्ञ०। “अब्रुवन् हि नरः साक्ष्यमृणं स दशबन्धकम्। राज्ञा सर्वं प्रदाप्यः स्यात् षट्चत्वारिंशकेऽहनि। न ददाति च यः साक्ष्यं जानन्नपि नराधमः। स कुटसाक्षिणां पापैस्तुल्यो दण्डेन चैव हि”।मष्टस्वामिकद्रव्यविषये दमो मनुनोक्तो यथा “ममेदमिति यो ब्रूयात् सोऽनुयोज्यो यथाविधि। संवाद्य रूपसंख्यादीन् स्वामी तत्द्रव्यमर्हति। अवेदयानो नष्टस्य देशं कालञ्च तत्त्वतः। वर्णं रूपं प्रमाणञ्च तत्समं दण्डमहति”। “हृतं प्रनष्टं यो द्रव्यं परहस्तादवाप्नुयात्। अनि- वेद्य नृपे दण्ड्यः स तु षण्णवतिं पणान्” मनुः। “आगमेनोपभोगेन नष्टं भाव्यमतोऽन्यथा। पञ्चवन्धो दमस्तत्र राज्ञे तेनाविभाविते” याज्ञ०। “पञ्चबन्धः पञ्चमांशः” मिता०।अस्वामिविक्रये मनुनोक्तो दमो यथा “अवहार्य्यो भवेच्चैव सान्वयः षट्शतं दमम्। निरन्वयोऽनपसरः प्राप्तः स्याच्चौरकिल्विषम्”। “एष परस्वविक्रयी यदि स्वामिनो भ्रात्रादिरूपत्वेन सान्वयः सम्बन्धी भवति तदा षट् पणशतानि अवहार्य्यो दमनीयः यदि पुनः स्वामिनः सम्बन्धी न भवति अनपसरश्च स्यात् अपसरत्यनेनास्मात् सकाशाद्धनमित्यपसरः प्रतिग्रहक्रयादिः स यस्य स्वामिसम्बन्धिपुत्रादेः सकाशात् नास्ति तदा चौरसम्बन्धि पापं तद्वद्दमनीय इत्यर्थः” कुल्लू० “नान्यदन्ये न संसृष्टरूपं विक्रयमर्हति। न चासारं न च न्यूनं न दूरे न तिरोहितम्” मनुः। “कुङ्कुमादिद्रव्यं कुसुम्भादिना मिश्रीकृत्य न विक्रेत्यव्यं न चासारं सारमित्यभिधाय न च तुलादिना न्यूनं न च परोक्षावस्थितं न च रागादिनास्थापितरूपम् अत्रास्वामिविक्रयसादृश्यादस्वामिविक्रयदम एव स्यात्” कुल्लू०।दोषविशिष्टकन्यादाने दमो यथा। “यस्तु दोषवतीं कन्यामनाख्याय प्रयच्छति। तस्य कुर्य्यान् नृपो दण्डं स्वयं षण्णवतिं पणान्। अकन्येति च यः कन्यां ब्रूयाद्द्वेषेण मानवः। स शतं प्राप्नुयाद्दण्डं तस्या दोषमदर्शयन्”।दत्ताप्रदानिके नारदेनोक्तो दमो यथा “गृह्णात्यदेयं यो लोभाद् यश्चादेयं प्रयच्छति। अदेयदायको दण्ड्यस्तघाऽदत्तप्रतीच्छकः”। तत्सममित्यर्थः।अभ्युपेत्याशुश्रूषायां “शिक्षयन्तमसन्दुष्टं य आचार्य्यं परित्यजेत्। बलाद्वासयितव्यः स्यात् बधवन्धौ च सोऽर्हति” नारदः। “बधोऽत्र ताडना दोषस्याल्पत्वात्” मिता०।संविद्व्यतिक्रमादौ “गणद्रव्यं हरेद्यस्तु संविदं यश्च लङ्घयेत्। सर्वस्वहरणं कृत्वा तं राष्ट्राद्विप्रवासयेत्” याज्ञ०। “अयञ्च दण्डोऽनुबन्धाद्यतिशये द्रष्टव्यः। अनुबन्धाद्यल्पत्वे तु “यो ग्रामदेशसङ्घानां कृत्वा सत्येन संविदम्। विसंवदेन्नरो लोभात्तं राष्ट्राद्विप्रवासयेत्। निगृह्य दापयेदेनं समयव्यभिचारिणम्। चतुःसुसर्णं षण्णिष्कं शतमानञ्च राजतमिति” मनूक्त निर्वासनचतुःसुवर्णनिष्कशतमानानां चतुर्णामन्यतमो जातिशक्त्याद्यपेक्षया कल्पनीयः” मिता०।वेतनादाने “भृत्यो नार्त्तो न कुर्य्याद्यो दर्पात् कर्म यथोदितम्। स दण्ड्यः कृष्णलान्यष्टौ न देयं तस्य वेतनम्” मनुः।द्यूतसमाह्वये “राज्ञा सचिह्नं निर्वास्याः कूटाक्षोपधिदेविनः” याज्ञ० “कूटाक्षदेविनः पापान् राज्ञा राष्ट्राद्विवासयेत्। कण्ठेऽक्षमालामासज्य स ह्येषां विनयः स्मृतः” नारदः यानि च मनुवचनानि द्यूतनिषेधपराणि। “द्यूतं समाह्वयञ्चैव यः कुर्य्यात् कारयेत् वा। तान् सर्वान् घातयेद्राजा शूद्रांश्च द्विजलिङ्गिनः” इत्यादीनि तान्यपि कूटाक्षदेवनविषयतया राजाध्यक्षसभिकरहितद्यूतविषयतया च योज्यानि” मिता०।स्वामिपालविवादे मिताक्षरोक्ता दमा यथा “माषानष्टौ तु महिषी सस्यघातस्य कारिणी। दण्डनीया तदर्द्धं तु गौस्तदर्द्धमजाविकम्” याज्ञ०। परसस्यविनाशकारिणी महिषी अष्टौ माषान् दण्डनीया। गौस्तदर्द्धं चतुरो माषान् अजामेषञ्च माषद्वयं दण्डनीयम्। महिष्यादीनां धनसम्बन्धाभावात्तत्स्वामी पुरुषो लक्ष्यते। माषश्चात्र ताम्रिकपणस्य विंशतितमो भागः “माषो विंशतिमो भागः पणस्य परिकीर्त्तितः” इति नारदस्मरणात्। एतच्चाज्ञानपिपयम्। ज्ञानपूर्बं तु “पणस्य पादौ द्वौ गां तु द्विगुणं महिषीं तथा। तथाऽजाविकवत्सानाम्पादो दण्डः प्रकीर्त्तितः” इति स्मृत्यन्तरोक्तं द्रष्टव्यम्। यत् पुनर्नारदेनोक्तम् “माषङ्गान्दापयेद्दण्डं द्वौ माषौ महिषीं तथा। तथाजाविकवत्सानां दण्डः स्यादर्द्धमाषिक” इति। तत्पुनः प्ररोहयोग्यमूलावशेषभक्षणविषयम्। अपराधातिशयेन क्वचिद्दण्डद्वैगुण्यमाह “भक्षयित्वोपविष्टानां यथोक्ताद्द्विगुणोदमः” याज्ञ०। “यदि पशवः परक्षेत्रे सस्यम्भक्षयित्वा तत्रैवानिवारिताः शेरते। तदा यथोक्ताद्दण्डाद्द्विगुणो दण्डो वेदितव्यः। “वसतां द्विगुणः प्रोक्तः सवत्सानाञ्चतुर्गुण” इति वचनात्। क्षेत्रान्तरे पश्वन्तरे चातिदेशमाह “सममेषां विवीतेऽपि खरोष्ट्रं महिषीसमम्” याज्ञ०। विवीतः प्रचुरतृणकाष्ठोरक्ष्यमाणः परग्रहीतो भूप्रदेशस्तदुपघातेऽपीतरक्षेत्रदण्डसमन्दण्डमेषां महिष्यादीनां विद्यात्। खराश्चोष्ट्राश्च खरोष्ट्रं तन्महिषीसमं महिषी यत्र यादृशेन दण्डेन दण्ड्यते तत्र तादृशेनैव दण्डेन खरोष्ट्रमपि प्रत्येकं दण्डनीयम्। सस्योपरोधकत्वे खरोष्ट्रयोः प्रत्येकं महिषीतुल्यत्वाद्दमस्य चापराधानुसारित्वात् खरोष्ट्रमिति समाहारो न विवक्षितः। परसस्यनाशे गोस्वामिनो दण्ड उक्त इदानीं क्षेत्रस्वामिने फलमप्यसौ दापनीय इत्याह “यावत्सस्यं विनश्येत्तु तावत् स्यात् क्षेत्रिणः फलम्। गोपस्ताड्यस्तु गोमी तु पूर्वोक्तं दण्डमर्हति” याज्ञ०। सस्यग्रहणं क्षेत्रोपचयोपलक्षणार्थम्। यस्मिन् क्षेत्रे यावत्पलालधान्यादिकं गवादिभिर्विनाशितं तावत्क्षेत्रफलमेतावति क्षेत्रे एतावद्भवतीति सामन्तैः परिकल्पितं तत्क्षेत्रस्वामिने गोमी दापनीयः। गोपस्तु ताडनीय एव न फलं दापनीयः। गोपस्य ताडनं पूर्वोक्तधनदण्डसहितमेव पालदोषेण सस्यस्य नाशे द्रष्टव्यः। “या नष्टा पालदोषेण गौस्तु सस्यानि नाशयेत्। न तत्र गोमिनो दण्डः पालस्तद्दण्डमर्हतीति” वचनात्। गोमी पुनः स्वापराधेन सस्यनाशं पूर्वोक्तं दण्डमेवार्हतीति न ताडनम्। फलदानं पुनः सर्वत्र गोमिन एव तत्फलपुष्टमहिष्यादिक्षीरोपभोग द्वारेण तत्क्षेत्रफलभोगत्वात्। “क्षेत्रविशेषेऽपवामाह “पथि ग्रामविवीतान्ते क्षेत्रे दोषो न विद्यते। अकामतः कामचारे चौरवद्दण्डमर्हति” याज्ञ०। पथि मार्गसमीपवर्त्तिनि क्षेत्रे ग्रामविवीतसमीपवर्त्तिनि च क्षेत्रेऽकामतो गोभिर्भक्षिते गोपगोमिनोर्द्वयोरप्यदोषः। दोषाभावप्रतिपादनं च दण्डाभावार्थं विनष्टसस्यमौल्यदानप्रतिषेधार्थं च। कामचारे कामतश्चारे चौरवत् चौरस्य यादृशी दण्डः तादृशं दण्डमर्हति। एतच्चानावृतक्षेत्रविषयम्। “तत्रापरिवृतं धान्यं विहिंस्युः पशवो यदि। न तत्र प्रणयेद्दण्डं नृपतिः पशुरक्षिणामिति” दण्डाभावस्यानावृतक्षेत्रविषयत्वेन मनुनोक्तत्वात्। आवृते पुनर्मार्गादिक्षेत्रेऽपि दोषोऽस्त्येव। वृतिकरणञ्च तेनैवोक्तम् “वृतिञ्च तत्र कुर्वीत यामुष्ट्रो नावलोकयेत्। छिद्रं निवारयेत्सर्वं श्वशूकरमुखानुगमिति”। पशुविशेषेऽपि दण्डाभावमाह “महोक्षोत्सृष्टपशवः सूतिकागन्तुकाटयः। पालो येषां न, ते मोच्यादैव राजपरिच्युताः” याज्ञ०। “महांश्चासावुक्षा च महोक्षः वृषः सेक्ता। उत्सृष्टपशयः वृषोत्सर्गविधानेन देवतोद्देशेन त्यक्ताः। सूतिका प्रसूता अनिर्दशाहा। आगन्तुकः स्वयूथात्परिभ्रष्टोदेशान्तरादागतः। एते मोच्याः। परसस्यभक्षणेऽपि न दण्ड्याः। येषां च पालो न विद्यते तेऽपि दैवराजपरिच्युताः दैवराजोपहृताः सस्यनाशकारिणो न दण्ड्याः। आदिग्रहणात् हस्त्य- श्चादयो गृह्यन्ते। ते चोशनसोक्ताः “अदण्ड्या हस्तिनोह्यश्वाः प्रजापाला हि ते स्मृताः। अदण्ड्यौ काणकुब्जौ च ये शश्वत्कृतलक्षणाः। अदण्ड्यागन्तुको गौश्च सूतिका चाभिसारिणी। अदण्ड्याश्चोत्सवे गावः श्राद्धकाले तथैव चेति”। अत्रोत्सृष्टपशूनामस्वामिकत्वेन दण्ड्यत्वासम्भवात् दृष्टान्तार्थमुपादानं यथोत्सृष्टपशवो न दण्ड्या एवं महोक्षादय इति” मिता०। “पथि क्षेते परिवृते ग्रामान्तीयेऽथवा पुनः। सपालः शतदण्डार्हो विपालान् वारयेत् पशून्” मनुः।क्षेत्रादिसीमाविवादे मनूक्तो दमो यथा। “क्षेत्रकूपतडागानामारामस्य गृहस्य च। सामन्तप्रत्ययो ज्ञेयः सीमासेतुविनिर्णयः। सामन्ताश्चेन्मृषा ब्रूयुः सेतौ विवदतां नृणाम्। सर्वे पृथक् पृथग्दण्ड्या राज्ञा मध्यमसाहसम्”। “मर्यदायाः प्रभेदे तु सीमातिक्रमणे तथा। क्षेत्रस्य हरणे दण्डा अधमोत्तममध्यमाः” याज्ञ०। “अनेकक्षेत्र व्यवच्छेदिका साधारणी भूर्मर्यादा तस्याः प्रकर्षेण भेदने सीमातिक्रमणे सीमामतिलङ्घ्य कर्षणे क्षेत्रस्य च भयादिप्रदर्शनेन हरणे यथाक्रमेणाधमोत्तममध्यमदमा वेदितव्याः। क्षेत्रग्रहणञ्च गृहारामाद्युपलक्षणार्थम्। यदा पुनः स्त्रीयभ्रान्त्या क्षेत्रादिकमपहरति तदा द्विशतो दमो वेदितव्यः। “गृहं तडागमारामं क्षेत्रं वा भीषया हरन्। शतानि पञ्च दण्ड्यः स्यादज्ञानाद्द्विशतो दमः” मनूक्तेः। अपह्रियमाणक्षेत्रादिभूयस्त्वपर्य्यालोचनया कदाचिदुत्तमोऽपि दण्डः प्रयोक्तव्यः। अतएवाह “बधसर्वस्वहरणं पुरान्निर्वासनाङ्कने। तदङ्गच्छेद इत्युक्तो दण्ड उत्तमसाहस इति” मिता०।वाक्पारुष्ये दमो मनूक्तो यथा “शतं व्राह्मणमाक्रुश्य क्षत्त्रियो दण्डमर्हति। वैश्योऽध्यर्द्धशतं द्वे वा शूद्रस्तु बधमर्हति। पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्त्रियस्याभिशंसने। वैश्ये स्यादर्द्धपञ्चाशच्छूद्रे द्वादशकोदमः। समवर्णे द्विजातीनां द्वादशैव व्यतिक्रमे। वादेष्ववचनीयेषु तदेव द्विगुणं भवेत्। एकजातिर्द्विजातींस्तु वाचा दारुणया क्षिपन्। जिह्वायाः प्राप्नुयाच्छेदं जघन्यप्रभवो हि सः। नामजातिग्रहन्त्वेषामभिद्रोहेण कुर्वतः। निःक्षेप्योऽयोमयः शङ्कुर्ज्वलन्नास्ये दशाङ्गुलः। धर्म्मोपदेशं दर्पेण विप्राणामस्य कुर्वतः। तप्तमासेचयेत्तैलं वक्त्रे श्रोत्रे च पार्थिवः। श्रुतं देशञ्च जातिञ्च कर्म शारीरमेव च। वितथेन ब्रुवन् दर्पा- द्दाप्यः स्याद्द्विशतं दमम्। काणं वाप्यथ वा खञ्जमन्यं वापि तथाविधम्। तथ्येनापि ब्रुवन् दाप्यो दण्डं कार्षापणावरम्। मातरं पितरं जायां भ्रातरं तनयं गुरुम्। आक्षारयन् शतं दाप्यः पन्थानं चाददद्गुरोः। ब्राह्मणक्षत्रियाभ्यान्तु दण्डः कार्य्यो विजानता। ब्राह्मणे साहसः पूर्वः क्षत्त्रिये त्वेव मध्यमः। विट्शूद्रयोरेवमेव स्वजातिं प्रति तत्त्वतः। छेदवर्जं प्रणयनं दण्डस्येति विनिश्चयः।” “सत्यासत्यान्यथास्तोत्रैर्न्यूनाङ्गेन्द्रियरोगिणाम्। क्षेपं करोति चेद्दण्ड्यः पणानर्द्धत्रयोदश। अभिगन्तास्मि भागिनीं मातरं वा तवेति च। शपन्तं दापयेद्राजा पञ्चविंशतिकं दमम्। अर्द्धोऽधमेषु द्विगुणः परस्त्रीषूत्तमेषु च। दण्डप्रणयनं कार्य्यं वर्णजात्युत्तराधरैः। प्रातिलोम्यापवादेषु द्विगुणास्त्रिगुणादमाः। वर्णानामानुलोम्येन तस्मादर्द्धार्द्धहानितः। वाहुग्रीवानेत्रसक्थिविनाशे वाचिके दमः। शत्यस्तदर्द्धिकः पादनासाकर्णकरादिषु। अशक्तस्तु वदम्नेवं दण्डनीयः पणान् दश। तथा शक्तः प्रतिभुवं दाप्यः क्षेमाय तस्य तु। पतनीये कृते क्षेपे दण्डो मध्यमसाहसः। उपपातकयुक्ते तु दाप्यः प्रथमसाहसः। त्रैविद्यनृपदेवानां क्षेप उत्तमसाहसः। मध्यमो जातिपूगानां प्रथमो ग्रामदेशयोः” याज्ञ०।दण्डपारुष्ये दण्डा मनूक्ता यथा “येन केनचिदङ्गेन हिंस्या च्चेत् श्रेष्ठमन्त्यजः। छेत्तव्यं तत्तदेवास्य तन्मनोरनुशासनम्। पाणिमुद्दम्य दण्डं वा पाणिच्छेदनमर्हति। पादेन प्रहरन् कोपात् पादच्छेदनमर्हति। सहासनमभिप्रेप्सुरुत्कृष्टस्यापकृष्टजः। कट्यां कृताङ्को निर्वास्यः स्फिचं वाऽस्यावकर्त्तयेत्। अवनिष्ठीवतो दर्पात् द्वावोष्ठौछेदयेन्नृपः! अवमूत्रयतो मेढ्रमवशर्द्धयतो गुदम्। केशेषु गृह्णतो हस्तौ च्छेदयेदविचारयन्। पादयोर्द्दाढिकायान्तु ग्रीवायां वृषणेषु च। त्वग्भेदकः शतं दण्ड्यो लोहितस्य तु दर्शकः। मांसभेत्ता तु षण्णिष्कान् प्रवास्यस्त्वस्थिभेदकः। वनस्पतीनां सर्वेषामुपभोगो यथा यथा। तथा तथा दमः कार्य्यो हिंसायामिति धारणा। मनुष्याणां पशूनाञ्च दुःखाय प्रहृते सति। यथा यथा महद्दुःखं दण्डं कुर्य्यात्तथा तथा। अङ्गावपीडनायाञ्च प्राणशोणितयोस्तथा। समुत्थानव्ययं दाप्यः सर्वं दण्डमथापि वा। द्रव्याणि हिंस्यात् यो यस्य ज्ञानतोऽज्ञानतोऽपि वा। स तस्योत्पादयेत्तुष्टिं राज्ञो दद्याच्च तत्समम्। चर्मचार्मिकभाण्डेषु काष्ठलोष्टमयेषु च। मूल्यात् पञ्चगुणो दण्डः पुष्पमूलफलेषु च। यानस्यैव तु यातुश्च यानस्वामिन एव च। दशातिवर्त्तनान्याहुः शेषे दण्डो विधीयते। छिन्ननास्ये भिन्नयुगे तिर्य्यक्प्रतिमुखागते। अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च। छेदने चैव यन्त्राणां योक्त्ररश्म्योस्तथैव च। अ क्रन्दे चाप्यपैहीति न दण्डं मनुरव्रयीत्। यत्रापवर्त्तते युग्यं वैगुण्यात् प्राजकस्य तु। तत्र स्वामी भवेद्दण्ड्यो हिंसायां द्विशतं दमम्। प्राजकश्चेद्भवेदाप्तः प्राजको दण्डमर्हति। युम्यस्थाः प्राजकेऽनाप्ते सर्वे दण्ड्याः शतं शतम्। स चेत्तु पथिसंरुद्धः पशुभिर्वा रथेन वा। प्रमापयेत् प्राणभृतस्तत्र दण्डोऽविचारतः। मनुष्यमारणे क्षिप्रं चौरवत् किल्विषी भवेत्। प्राणभृत्सु महत्खर्द्धं गोगजोष्ट्रहयादिषु। क्षुद्रकाणां पशूनाञ्च हिंसायां द्विशतो दमः। पञ्चाशत्तु भवेद्दण्डः शुभेषु मृगपक्षिषु। गर्दभाजाविकानाञ्च दण्डः स्यात् पञ्चमाषकः। भाषकन्तु भवेद्दण्डः श्वशूकरनिपातने। भार्य्या पुत्रश्च दासश्च शिष्यो भ्राता च सोदरः। प्राप्तापराधा स्ताड्याः स्यू रज्ज्वा वेणुदलेन वा। पृष्ठतस्तु शरीरस्य, नोत्तमाङ्गे कथञ्चन। अतोऽन्यथा तु प्रहरन् प्राप्तः स्याच्चौरकिल्वषम्”। अत्र विशेषमाह याज्ञ० यथा

“भस्मपङ्करजःस्पर्शे दण्डो दशपणः स्मृतः। अमेध्यपार्ष्णिनिष्ठ्यूतस्पर्शने द्विगुणस्ततः। समेष्वेवं परस्त्रीषु द्विगुणन्तूत्तमेषु च। हीनेष्वर्द्धदमो मोहमदादिभिरदण्डनम्। विप्रपीडाकरं छेद्यमङ्गमब्राह्मणस्य, तु। उद्गूर्णे प्रथमो दण्डः संस्पर्शे तु तदर्द्धिकः। उद्गूर्णे हस्तपादे च दशविंशतिकौ दमौ। परस्परन्तु सर्वेषां शस्त्रे मध्यमसाहसम्। पादकेशांशुककरोल्लुञ्छनेषु पणान् दश। पीडाकर्षांशुकावेष्टपादाध्यासे शतं दमः। शोणितेन विना दुःखं कुर्वन् काष्ठादिभिर्नरः। द्वात्रिंशतं पणान् दाप्यो द्विगुणं दर्शनेऽसृजः। करपाददतो भङ्गे च्छेदने कर्णनासयोः। मध्यो दण्डो व्रणोद्भेदे मृतकल्पहते तथा। चेष्टाभोजनवाग्रोधे नेत्रादिप्रतिभेदने। कराङ्घ्रिबाहुसक्थ्राञ्च भङ्गे मध्यमसाहसः। एकं घ्नतां बहूनाञ्च यथोक्ताद्घिगुणो दमः। कलहापहृतं देयं दण्डश्च द्विगुणः स्मृतः। दुःखमुतपादयेद्यस्तु स ससुत्थानजव्ययम्। दाप्यो दण्डश्च यो यस्मिन् कलहे समुदाहृतः। अभिघाते तथा च्छेदे भेदे कुड्यावपातने। पणान् दाप्यः पञ्चदशविंशतिन्तद्द्वयं तथा। दुःखोत्पादि गृहे द्रव्यं क्षिपन् प्राणहरन्तथा। षोडशाद्यः पणान् दाप्यो द्वितीयो मध्यमं दमम्। दुःखे च शोणितोत्पादे शाखाङ्गच्छेदने तथा। दण्डः क्षुद्रपशूनाञ्च द्विपणप्रभृति क्रमात्। लिङ्गस्य च्छेदने मृत्यौ मध्यमो मूल्यमेव च। महापशूनामेतेषु स्थानेषु द्विगुणो दमः। प्ररोहिशाखिनां शाखास्कन्धसर्वविदारणे। उपजीव्यद्रुमाणाञ्च विंशतेर्द्विगुणो दमः। चैत्यश्मशानसीमासु पुण्यस्थाने सुरालये। जातद्रुमाणां द्विगुणां दमो वृक्षेऽथ विश्रुते। गुल्मगुच्छक्षुपलताप्रतानौषविवीरुधाम्। पूर्वस्मृतादर्द्धदण्डः स्थानेषूक्तेषु कर्त्तने”।विक्रयासम्प्रदाने “वसानस्त्रीन् पणान् दण्ड्यो नेजकस्तु परांशुकम्। विक्रयावक्रयाधानयाचितेषु पणान् दश। पितापुत्रविरोधे तु साक्षिणां त्रिपणो दमः। अन्तरे च तयोर्यः स्यात्तस्याप्यष्टगुणो दमः। तुलाशासनमानानां कूटकृन्नाणकस्य च। एभिश्च व्यवहर्त्ता यः स दाप्यो दण्डमुत्तमम्। अकूटं कूटकं ब्रूते कूटं यश्चाप्यकूटकम्। स नाणकपरीक्षी तु दाप्य उत्तमसाहसम्। भिषङ्मिथ्या चरन् दाप्यस्तिर्य्यक्षु प्रथमं दमम्। मानुषे मध्यमं राजमानुषेषूत्तमं दमम्। अबन्ध्यं यश्च बध्नाति बन्ध्यं यश्च प्रमुञ्चति। अप्राप्तव्यवहारञ्च स दाप्यो दण्डमुत्तमम्। मानेन तुलया वापि योऽंशमष्टमकं हरेत्। दण्डं स दाप्यो द्विशतं वृद्धौ हानौ च कल्पितम्। भेषजस्नेहलवणगन्धधान्यगुडादिषु। पण्येषु प्रक्षिपन् हीनं पणान् दाप्यस्तु षोडश। मृच्चर्म्ममणिसूत्रायःकाष्ठवल्कलवाससाम्। अजातौ जातिकरणे विक्रेयाष्टगुणो दमः। समुद्रपरिवर्त्तञ्च सारभाण्डञ्च कृत्रिमम्। आधानं विक्रयं वापि नयतो दण्डकल्पना। भिन्ने पणे तु पञ्चाशत् पणे तु शतमुच्यते। द्विपणे द्विशतो दण्डोमुल्यवृद्धौ च वृद्धिमान्” याज्ञओ उक्तो दमः।

“अन्यहस्ते च विक्रीतं दुष्टं वाऽदुष्टवद् यदि। विक्रीणीते दमस्तत्र मूल्यात्तु द्विगुणो भवेत्” याज्ञ०।साहसे याज्ञ० उक्तो दमो यथा “सामान्यद्रव्यप्रसभहरणात् साहसं स्मृतम्। तन्मूल्यादुद्विगुणो दण्डो निह्नवे तु चतुर्गुणः। यः साहसं कारयति स दाप्यो द्विगुणं दमम्। यश्चैवमुक्त्राऽहं दाता कारयेत् स चतुर्गुणम्। अर्घ्याक्रोशातिक्रमकृद्भ्रातृभार्य्याप्रहारकः। सन्दिष्टस्याप्रदाता च समुद्रगृहभेदकृत्। सामन्तकुलिकादीनामपकारस्य कारकः। पञ्चाशत्पणिको दण्ड एषामिति विनिश्चयः। स्वच्छन्दं विधवागामी विक्रुष्टेऽनाभिधावकः। अकारणे च विक्रोष्टा चण्डालश्चोत्तमान् स्मृशन्। शूद्रः प्रव्रजितानाञ्च दैवे पित्र्ये च भोजकः। अयुक्तं शपथं कुर्वन्नयोग्योऽयोग्यकर्मकृत्। वृषक्षुद्रपशूनाञ्च पुंस्त्वस्य प्रतिघातकृत्। साधारणस्यापलापी दासीगर्भविनाशकृत्। पितृपुत्रस्वसृभ्रातृदम्पत्याचार्य्यशिष्यकाः। एषामपतितानां तु त्यागो च शतदण्डभाक्।”चौर्य्ये दण्डो मनूक्तो यथा। “यस्तु रज्जु घटं क्वूपाद्धरेद्भिन्द्याच्च यः प्रपाभ्। स दण्डं प्राप्नुयात् भाषं तच्च तस्मिन् समाहरेत्। धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं बधः। शेषेऽप्येकादशगुणं दाप्यस्तस्य च तद्धनम्। तथा धरिममेयानां शतादभ्यधिके बधः। सुवर्णं रजतादीनामुत्तमानाञ्च वाससाम्। पञ्चाशतस्त्वभ्यधिके हस्तच्छेदनमिष्यते। शेषेऽप्येकादशगुणं मूल्याद्दण्डं प्रकल्पयेत्। पुरुषाणां कुलीनानां नारीणाञ्च विशेषतः। मुख्यानां चैव रत्नानां हरणे बधमर्हति। महापशूनां हरणे शस्त्राणामौषधस्य च। कालमासाद्य कार्य्यञ्च राजा दण्डं प्रकल्पयेत्। गोषु ब्राह्मणसंस्यासु च्छुरिकायाश्च भेदने। पशूनां हरणे चैव सद्यः कार्य्योऽर्द्धपादिकः। सूत्रकार्पासकिण्वानां गोमयस्य गुडस्य च। दध्नः क्षीरस्य तक्रस्य पानीयस्य तृणस्य च। वेणुवैदलभाण्डानां लवणानान्तथैव च। मृण्मयानाञ्च हरणे मृदो भस्मन एव च। मत्स्यानां पक्षिणाञ्चैव तैलस्य च घृतस्य च। मांसस्य मधुनश्चैव यच्चान्यत् पशुसम्भवम्। अन्येषाञ्चैवमादीनां मद्यानामोदनस्य च। पक्वान्नानाञ्च सर्वेषां तन्मूल्याद्द्विगुणो दमः। पुष्पेषु हरिते धान्ये गुल्मवल्लीनगेषु च। अन्येष्वपरिपूतेषु दण्डः स्यात् पञ्चकृष्णलः। परिपूतेषु धान्येषु शाकमूलफलेषु च। निरन्वये शतं दण्डः सान्वयेऽर्द्धशतं दमः। स्यात् साहसं त्वन्वयवत् प्रसभं कर्म यत्कृतम्। निरन्वयं भवेत् स्तेयं कृत्वापह्नुयते च यत्। यस्त्वेतान्युपकॢप्तानि द्रव्याणि स्तेनयेन्नरः। तमाद्यं दण्डयेद्राजा यश्चाग्निं चोरयेद्गृहात्। येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते। तत्तदेव हरेत्तस्य प्रत्यादेशाय पार्थिवः”। अन्यत्र च चौर्य्यादिनानाविषये मनुनोक्तो दमो यथा।

“न होढेन विना चोरं घातयेद्धार्मिको नृपः। स- होढं सोपकरणं घातयेदविचारयन्। ग्रामेष्वपि च ये केचिच्चौराणां भक्तदायकाः। भाण्डावकाशदाश्चैव सर्वांस्तानपि घातयेत्। राष्ट्रेषु रक्षाधिकृतान् सामन्तांश्चैव चोदितान्। अभ्याघातेषु मध्यस्थान् शिष्याच्चौरानिव द्रुतम्। यश्चापि धर्म्मसमयात् प्रच्युतो धर्मजीवनः। दण्डेनैव तमप्योषेत् स्वकाद्धर्म्माद्धि विच्युतम्। ग्रामघाते हिताभङ्गे पथि मोषाभिदर्शने। शक्तितो नाभिधावन्तो निर्वास्याः सपरिच्छदाः। राज्ञः कोषापहर्त्तृंश्च प्रतिकूलेषु च स्थितान्। घातयेद्विविधैर्दण्डैररीणाञ्चोपजापकान्। सन्धि छित्त्वा तु ये चौर्य्यं रात्रौ कुर्वन्ति तस्कराः। तेषां छित्त्वा नृपो हस्तौ तीक्ष्णशूले निवेशयेत्। अङ्गुली ग्रन्थिभेदस्य च्छेदयेत् प्रथमे ग्रहे। द्वितीये हस्तचरणौ तृतीये बधमर्हति। अग्निदान् भक्तदांश्चैव तथा शस्त्रावकाशदान्। सन्निधातॄंश्च मोषस्य हन्याच्चौरमिवेश्वरः। तडागभेदकं हन्यादप्सु शुद्धबधेन वा। तद्वापि प्रतिसंस्कुर्य्याद्दाप्यस्तूत्तमसाहसम्। कोष्ठागारायुधागारदेवतागारभेदकान्। हस्त्यश्वरथहर्त्तॄंश्च हन्यादेवाऽविचारयन्। यस्तु पूर्वनिविष्टस्य तडागस्योदकं हरेत्। आगमं वाप्ययां भिन्द्यात् स दाप्यः पूर्वसाहसम्। समुत्सृजेद्राजमार्गे यस्त्वेकध्यमनापदि। स द्वौ कार्षाप्रणौ दद्यादमेध्यञ्चाशु शोधयेत्। आपद्गतोऽथवा वृद्धो गर्भिणी बाल एव वा। परिभाषणमर्हन्ति तञ्च शोध्यमिति स्थितिः। चिकित्सकानां सर्वेषां मिथ्या प्रचरतां दमः। अमानुषेषु प्रथमो मानुषेषु तु मध्यमः। संक्रमध्वजयष्टीनां प्रतिमानाञ्च भेदकः। प्रतिकुर्य्याच्च तत् सर्वं पञ्चदद्याच्छतानि च। अदूषितानां द्रव्याणां दूषणे भेदने तथा। मणीनामपवेधे च दण्डः प्रथमसाहसः। समैर्हि विषमं यस्तु चरेद्वै मूल्यतोऽपि वा। स प्राप्नुयाद्दमं पूर्वं नरो मध्यममेव वा। बन्धनानि च सर्वाणि राजमार्गे निवेशयेत्। दुःखिता यत्र दृश्येरन् विकृताः पापकारिणः। प्राकारस्य च भेत्तारं परिखाणाञ्च पूरकम्। द्वाराणाञ्चैव भङ्क्तारं क्षिप्रमेव प्रवासयेत्। अभिचारेषु सर्वेषु कर्त्तव्यो द्विशतो दमः। मूल्यकर्मणि चानाप्तैः कृत्यासु विविधासु च। अवीजविक्रयी चैव वीजोत्कृष्टन्तथैव च। मर्य्यादाभेदकश्चैव विकृतं प्राप्नुयाद्बधम्। सर्वकण्टकपापिष्ठं हेमकारन्तु पार्थिवः। प्रवर्त्तमानमन्याये छेदयेल्लवशः क्षुरैः। सीताद्रव्यापहरणे शस्त्राणामौषधस्य च। कालमासाद्य कार्य्यञ्च राजा दण्डं प्रक- ल्पयेत्” “चौरं प्रदाप्यापहृतं घातयेद्विविधैर्बधैः। सचिह्नं ब्राह्मणं कृत्वा स्वराष्ट्राद्विप्रवासयेत्” या०। अङ्कनविशेषो मनुनोक्तो यथा “गुरुतल्पे भगः कार्य्यः सुरापाने सुराध्वजः। स्तेये च श्वपदं कार्य्य ब्रह्महण्यशिराः पुमान्”। “एतच्च दण्डोत्तरकालं प्रायश्चित्तमचिकीर्षतां द्रष्टव्यम्। यथाह मनुः “प्रायश्चित्तन्तु कुर्वाणा। सर्वे वर्णा यथोदितम्। नाङ्क्या राज्ञा ललाटे तु दाप्यास्तूत्तमसाहसमिति” मिता०। “घातितेऽपहृते दोषो ग्रामभर्त्तुरनिर्गते। विवीतभर्तुस्तु पथि चौरोद्धर्तुरवीतके। स्वसीम्नि दद्याद् ग्रामस्तु पदं वा यत्र गच्छति। पञ्चग्रामो वहिःक्रोशाद्दशग्राम्यथ वा पुनः। वन्दिग्राहांस्तथा वाजिकुञ्जराणाञ्च हारिणः। प्रसह्यघातिनश्चैव शूलमारोपयेन्नरान्। उत्क्षेपकग्रन्थिभेदौ करसन्दंशहीनकौ। कार्य्यौ द्वितीयापराधे करपादैकहीनकौ। क्षुद्रमध्यमहाद्रव्यहरणे सारतोदमः। देशकालवयःशक्तिं संचिन्त्य दण्डकर्म्मणि। भक्तावकाशाग्न्युदकमन्त्रोपकरणव्ययान्। दत्त्वा चौरस्य हन्तुर्वा जानतो दम उत्तमः। शस्त्रावपाते गर्भस्य पातने चोत्तमो दमः। उत्तमो वाऽधमो वापि पुरुषस्त्रीप्रमापणे। विप्रदुष्टां स्त्रियञ्चैव पुरुषघ्नीमगर्भिणीम्। सेतुभेदकरीञ्चाप्सु शिलां बद्ध्वा प्रवेशयेत्। विषाग्निदां पतिगुरुनिजापत्यप्रमापिणीम्। विकर्णकरनासौष्ठीं कृत्वा गोभिः प्रमापयेत्। अविज्ञातहतस्याशु कलहं सुतबान्धवाः। प्रष्टव्या योषितश्चास्य परपुंसि रताः पृथक्। स्त्रीद्रव्यवृत्तिकामो वा केन वायं गतः सह। मृत्युदेशसमासन्नं पृच्छेद्वापि जनं शनैः। क्षेत्रवेश्मवनग्रामविवीतखलदाहकाः। राजपत्न्याभिगामी च दग्धव्यास्तु कटाग्निना” याज्ञ०। “तृणं वा यदि वा काष्ठं पुष्पं वा यदि वा फलम्। अनापृच्छन् हि गृह्णानो हस्तच्छेदनमर्हति” मिता० धृतवचनम्।स्त्रीसंग्रहे मनुनोक्तो दमो यथा “परदाराभिमर्षेषु प्रवृत्तान्नॄन् महीपतिः। उद्वेजनकरैर्दण्डैश्चिह्नयित्वा प्रवासयेत्। परस्य पत्न्या पुरुषः सम्भाषां योजयन् रहः। पूर्वमाक्षारितो दोषः प्राप्नुयात् पूर्वसाहसम्। परस्त्रियं योभिवदेत् तीर्थेऽरण्ये वनेऽपि वा। नदीनामपि संभेदे स संग्रहणमाप्नुयात्। उपचारक्रियाकेलिः स्पर्शो भूषणवाससाम्। सह खद्वासनञ्चैव सर्वं संग्रहणं तथा। स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्षयेत्तथा। परस्परस्या- नुमते सर्वं संग्रहणं स्मृतम्। अब्राह्मणः संग्रहणे प्राणान्तं दण्डमर्हति। न सम्भाषां परस्त्रीभिः प्रतिषिद्धः समाचरेत्। निषिद्धो भाषमाणस्तु सुवर्णं दण्डमर्हति। नैष चारणदारेषु विधिर्नात्मोपजीविषु। सज्जयन्ति हि ते नारीर्निगूढाश्चारयन्ति च। किञ्चिदेव तु दाप्यः स्यात् सम्भाषां ताभिराचरन्। योऽकामां दूषयेत् कन्यां ससद्यो वर्धमर्हति। सकामां दूषयंस्तुल्यो न बधं प्राप्नुयान्नरः। कन्यां भजन्तीमुत्कृष्टं न किञ्चिदपि दापयेत्। जघन्यं सेवमानान्तु संयतां वासयेद्गृहे। उत्तमां सेवमानस्तु जघन्यो वधमर्हति। शुल्कं दद्यात् सेवमानः समामिच्छेत् पिता यदि। अभिसह्य तु यः कन्यां कुर्य्याद्दर्पेण मानवः। तस्याशु कर्त्तेदङ्गुल्यौ दण्डञ्चार्हति षट् शतम्। सकामां दूषयंस्तुल्यो नाङ्गुलिच्छेदमाप्नुयात्। द्विशतन्तु दमं दाप्यः प्रसङ्गविनिवृत्तये। कन्यैव कन्यां या कुर्य्यात् तस्याः स्याद्द्विशतो दमः। शुल्कञ्च द्विगुणं दद्याच्छिफाश्चैवाप्नुयाद्दश। या तु कन्यां प्रकुर्य्यात् स्त्री सा सद्यो मौण्ड्यमर्हति। अङ्गुल्योरेव च छेदं खरेणोद्वहनं तथा। भर्त्तारं लङ्घयेद्या तु स्त्री ज्ञातिगुणदर्पिता। तां श्वभिः खादयेद्राजा संस्थाने बहुसंस्थिते। पुमांसं दाहयेत् पापं शयने तप्त आयसे। अभ्यादध्युश्च काष्ठानि तत्र दह्येत पापकृत्। संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः। व्रात्यया सह संवासे चाण्डाल्या तावदेव तु। शूद्रो गुप्तमगुप्तं वा द्वैजातं वर्णमावसन्। अगुप्तमङ्गसर्वस्वैर्गुप्तं सर्वेण हीयते। वैश्यः सर्वस्वदण्ड्यः स्यात् संवत्सरनिरोधतः। सहस्रं क्षत्रियो दण्ड्या मौण्ड्यं मूत्रेण चार्हति। ब्राह्मणीं यद्यगुप्तान्तु गच्छेतां वैश्यपार्थिवौ। वैश्यं पञ्चशतं कुर्य्यात् क्षत्रियन्तु सहस्रिणम्। उभावपि तु तावेव ब्राह्मण्या गुप्तया सह। विप्लुतौ शूद्रवद्दण्ड्यौ दग्धव्यौ वा कटाग्निना। सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रा बलाद्व्रजन्। शतानि पञ्च दण्ड्यः स्यादिच्छन्त्या सह सङ्गतः। मौण्ड्यं प्राणान्तिकीदण्डो ब्राह्मणस्य विधीयते। इतरेषान्तु वर्णानां दण्डः प्राणान्तिको भवेत्। न जातु ब्राह्मणं हन्धात् सर्वपापेष्वपि स्थितम्। राष्ट्रादेनं बहिः कुर्य्यात् समग्रधनमक्षतम्। न ब्राह्मणबधाद्गूयानधर्मो विद्यते भुवि। तस्मादस्य बधं राजा मनसापि न चिन्तयेत्। वैश्यश्चेत् क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजेत्। योब्राह्मण्यामगुप्तायां तावुभौ दण्डमर्हतः। सहसं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन्। शूद्रायां क्षत्रियविशोः साहस्रो वै भवेद्दमः। क्षत्रियायामगुप्तायां वैश्ये पञ्चशतं दमः। मूत्रेण मौण्ड्यमिच्छेत्तु क्षत्रियो दण्डमेव वा। अगुप्ते क्षत्रियावैश्ये शूद्रां वा ब्राह्मणो व्रजन्। शतानि पञ्च दण्ड्यः स्यात् सहस्रन्त्वन्त्यजस्त्रियम्”।

“स्त्री निषेधे शतं दद्याद्द्विशतन्तु दमं पुमान्। प्रतिषेधे द्वयोर्द्दण्डो यथा संग्रहणे तथा। खजातावुत्तमो दण्ड आनुलोम्ये तु मध्यमः। प्रातिलोम्ये बधः पुंसः स्त्रीणां नासादिकर्त्तनम्। अलङ्कृतां हरन् कन्यामुत्तमस्त्वन्यथाऽधमम्। दण्डं दद्यात् सवर्णासु प्रातिलोम्ये बधः स्मृतः। स्वकाम स्वनुलोमासु न दोषस्त्वन्यथा दमः। दूषणे तु करच्छेद उत्तमायां बधस्तथा। शतं स्त्रीदूषणे दद्याद् द्वे तु मिथ्य भिशंसने। पशून् गच्छन् शतं दाप्यो हीनां स्त्रीं गाञ्च मध्यमम्। अवरुद्धासु दासीषु भुजिष्यासु तथैव च। गम्यास्वपि पुमान् दाप्यः पञ्चाशत्पणिकं दमम्। प्रसह्य दास्यभिगमे दण्डो दशपणः स्मृतः। बहूनां यद्यकामासौ चतुर्विंशतिकः पृथक्। गृहीतवेतना वेश्या नेच्छन्ती द्विगुणं वहेत्। अगृहीते समं दाप्यः पुमानप्येवमेव च। अयोनौ गच्छतो योषां पुरुषं वापि मोहतः। चतुर्विंशतिको दण्डस्तथा प्रव्रजितागमे। अन्त्याभिगमने त्वङ्क्यः कुबन्धेन प्रवासयेत्। शूद्रस्तथान्त्य एव स्यादन्त्वस्यार्य्यागमे वधः”।राजशासनकूटकरणादौ मनुनोक्तो दमो यथा “ऊनं वाप्यधिकं वापि लिखेद् यो राजशासनम्। पारदारिकचौरं वा मुञ्चतो दण्ड उत्तमः। अभक्ष्येण द्विजं दुष्यन् दण्ड्य उत्तमसाहसम्। क्षत्त्रियं मध्यमं वैश्यं प्रथमं शूद्रमर्द्धकम्। कूटस्वर्णव्यवहारी विमांसस्य च विक्रयी। त्र्यङ्गहीनस्तु कर्त्तव्यो दाप्यश्चोत्तमसाहसम्। चतुष्पादकृतो दोषो नापैहीति प्रजल्पतः। काष्ठलोष्ट्रेषु पाषाणबाहुयुम्यकृतस्तथा। छिन्ननस्येन यानेन तथा भग्नयुनादिना। पश्चाच्चैवापसरता हिंसने स्वाम्यदोषभाक्। शक्तो ह्यमोक्षयन् स्वामी दंष्ट्रिणां शृङ्गिणां तथा। प्रथम साहसं दद्याद्विक्रुष्टे द्विगुणं ततः। जारं चौरेत्यभिवदन् दाप्यः पञ्चशतं दमम्। उपजीव्य धनं मुञ्चंस्तदेवाष्टगुणीकृतम्। राज्ञोऽनिष्टप्रवक्तारं तस्यैवाक्रोशककारिणम्। तन्मन्त्रस्य च भेत्तारं जिह्वां छित्त्वा प्रवासयेत्। मृताङ्कसम्बविकेतुर्गुरो- स्ताडयितुस्तथा। राजयानासनारोढुर्दण्ड उत्तमसाहसः। द्विनेत्रभेदिनो राजद्विष्टादेशकृतस्तथा। विप्रत्वेन च शूद्रस्य जीवतोऽष्टशतो दमः। दुर्दृष्टांस्तु पुनर्दृष्ट्वा व्यवहारान्नृपेण तु। सभ्याः सजयिनो दण्ड्या विवादाद्द्विगुणं दमम्। यो मन्येताजितोऽस्मीति न्यायेनापि पराजितः। तमायान्तं पुनर्जित्वा दापयेद्द्विगुणं दमम्”। याज्ञवल्क्यवचनांनि अनुपदमेषां मानवत्वोक्तिः प्रामादिकी।सामान्यतोदमविधिः “पिताचार्य्यः सुहृन्माता भार्य्या पुत्रः पुरोहितः। नादण्ड्यो नाम राज्ञोऽस्ति यः स्वधर्मे न तिष्ठति। कार्षापणं भवेद्दण्ड्यो यत्रान्यः प्राकृतो जनः। तत्र राजा भवेद्दण्ड्यः सहस्रमिति धारणा। अष्टापाद्यन्तु शूद्रस्य स्तेये भवति किल्विषम्। षोडशैव तु वैश्यस्य धात्रिंशत् क्षत्रियस्य च। ब्राह्मणस्य चतुःषष्टिःपूर्ण~वापि शतं भवेत्। द्विगुणा वा चतुःषष्टिस्तद्दोषगुणविद्धि सः। वानस्पत्यं मूलफलं दार्वग्न्यर्थं तथैव च। तृणञ्च गोभ्यो ग्रासार्थमस्तेयं मनुरव्रवीत्। योऽदत्तादायिनो हस्ताल्लिप्सेत ब्राह्मणो धनम्। याजनाध्यापनेनापि यथा स्तेनस्तथैव सः। द्विजोऽध्वगः क्षीणवृत्तिर्द्वाविक्षू द्वे च मूलके। आददानः परक्षेत्रान्न दण्डं दातुमर्हति। असन्धितानां सन्धाता सन्धितानाञ्च मोक्षकः। दासाश्वरथहर्त्ता च प्राप्तः स्याच्चौरकिल्विषम्”।

“ऋत्विजं यस्त्यजेद्याज्यो याज्यञ्चर्त्विक् त्यजेद्यदि। शक्तं कर्म्मण्यदुष्टञ्च तयोर्दण्डः शतं शतम्। न माता न पिता न स्त्री न पुत्रस्त्यागमर्हति। त्यजन्नपतितानेतान् राज्ञा दण्ड्यः शतानि षट्” मनूक्तो दमः।अग्निपु० २२६ अ० सर्वविषये दमभेद उक्तो यथा “चौरैरभूषितो यस्तु मूषितोऽस्मीति भाषते। तत्प्रदातरि भूपाले स दण्ड्यस्तावदेव तु। यो यावद्विपरीतार्थं मिथ्या वा यो वदेत्तु तम्। तौ नृपेण ह्यधर्मज्ञौ दाप्यौ तद्द्विगुणं दमम्। कूटसाक्ष्यं तु कुर्वाणांस्त्रीन् वर्णांश्च प्रमापयेत्। विवासयेद्ब्राह्मणन्तु विधिरेष न हीतरः। निक्षेपस्य समं मूल्यं दण्ड्यो निक्षेपभुक् तथा। वस्त्रादिकस्य, धर्मज्ञ! तथा धर्मो न हीयते। यो निक्षेपं घातयति यश्चानिक्षिप्य याचते। तावुभौ चौरवच्छास्यौ दण्ड्यौ वा द्विगुणं दमम्। अज्ञानाद्यः पुमान् कुर्य्यात् परद्रव्यस्य विक्रयम्। निर्द्दोषो, ज्ञानपूर्वन्तु चौरवद्दण्डमर्हति। मूल्यमादाय यः पण्यं न दद्याद् दण्ड्य एव सः। प्रतिश्रुत्याप्रदातारं सुवर्णं दण्डयेन् नृपः। भृतिं गृह्य न कुर्य्याद्यः कर्माष्टौ कृष्णला दमः। अकाले तु त्यजन् भृत्यं दण्ड्यः स्यात्तावदेव तु। क्रीत्वा विक्रीय वा किञ्चिद्यस्येहानुशयो भवेत्। सोऽन्तर्दशाहात्तत्स्वामी दद्याच्चैवाददीत च। परेण तु दशाहस्य नादद्यान्नैव दापयेत्। आददद्धि ददच्चैव राज्ञा दण्ड्यः शतानि षट्। वरे दोषानविख्याप्य यः कन्यां वरयेदिह। दत्ताप्यदत्ता सा तस्य राज्ञा दण्ड्यः शतद्वयम्। प्रदाय कन्यां योऽन्यस्यै पुनस्तां सम्प्रयच्छति। दण्डः कार्य्यो नरेन्द्रेण तस्याप्युत्तमसाहसः। सत्यङ्कारेण वाचा च युक्तं पण्यमसंशयम्। लुब्धोऽन्यत्र च विक्रेता षट्शतं दण्डमर्हति। दद्याद्धेनुं न यः पालो गृहीत्वा भक्तवेतनम्। स तु दण्ड्यः शतं राज्ञा सुवर्णं वाप्यरक्षिता। धनुःशतं परीणाहो ग्रामस्य तु समन्ततः। द्विगुणं त्रिगुणं वापि नगरस्य च कल्पयेत्। वृतिं तत्र प्रकुर्वीत यामुष्ट्रो नावलोकयेत्। तत्रापरिवृते धान्ये हिंसिते नैव दण्ड म्। गृहन्तडागमारामं क्षेत्रं वा भीषया हरन्। शतानि पञ्च दण्ड्यः स्यादज्ञानात् द्विशतो दमः। मर्यादाभेदकाः सर्वे दण्ड्याः प्रथमसाहसम्। शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्ड्यमर्हति। वैश्यस्तु द्विशतं राम शूद्रस्तु बधमर्हति। पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने। वैश्ये चाप्यर्द्धपञ्चाशच्छूद्रे द्वादशको दमः। क्षत्रियक्षेपके वैश्यः साहसं पूर्वमेव तु। शूद्रः क्षत्रियमाक्रुश्य जिह्वाच्छेदमवाप्नुयात्। धर्मोपदेशं विप्राणां शूद्रः कुर्वंश्च दण्डभाक्। श्रुतदेशादिवितथी दाप्यो द्विगुणसाहसम्। उत्तमः साहसस्तस्य यः पातैरुत्तमान् क्षिपेत्। प्रमादाद्यैर्भयात् प्रोच्य प्रीत्या दण्डार्द्धमर्हति। मातरं पितरं ज्येष्ठं भ्रातरं श्वशुरं गुरुम्। आकारयञ्च्छतं दण्ड्यः पन्थानं चाददद्गुरोः। एकजातिर्द्विजातेस्तु येनाङ्गेनापराध्नुयात्। तदेव च्छेदयेत्तस्य क्षिप्रमेवाविचारयन्। अवनिष्ठीवतो दर्पाद् द्वावोष्ठौ छेदयेन्नृपः। अपमूत्रयतो मेढ्रमपशर्द्दयतो शुदम्। उत्कृष्टासनसंस्थस्य नीचस्याधोनिकृन्तनम्। यो यदङ्गुं च रुजयेत्तदङ्गन्तस्य कर्त्तयेत्। अर्द्धपादकराः कार्या गोगजाश्वोष्ट्रघातकाः। वृक्षन्तु विफलं कृत्वा सुवर्णं दण्डमर्हति। द्विगुणं दापयेच्छिन्ने पथि सीम्नि जलाशये। द्रव्याणि यो हरेद्यस्य ज्ञानतोऽज्ञानतोऽपि वा। स तस्योत्पाद्य तुष्टिन्तु राज्ञे दद्यात्ततो दमम्। यस्तु रज्जुं घटं कूपाद्धरेच्छिन्द्याच्च वा प्रपाम्। स दण्डं प्राप्नुयान् माषं दण्ड्यः स्यात् प्राणिताडने। धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं बधः। शेषेऽप्येकादशगुणं तस्य दण्डं प्रकल्पयेत्। सुवर्णरजतादीनां नृस्त्रीणां हरणे बधः। येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते। तत्तदेव हरेदस्य प्रत्यादेशाय पार्थिवः। ब्राह्मणः शाकधान्यादि अल्पं गृह्णन्न दोषभाक्। गोदेवार्थं हरंश्चापि, हन्याद्दष्टं बधोद्यतम्। गृहक्षेत्रापहर्त्तारं तथा पत्न्यभिगामिनम्। अग्निदं गरदं हन्यात्तथा चाभ्युद्यतायुधम्। राजगत्यभिचाराभ्यां हन्याच्चैवाततायिनम्। परस्त्रियं न भाषेत प्रतिषिद्धो विशेन्न हि। अदण्डा स्त्री भवेद्राज्ञा वरयन्ती पतिं स्वयम्। उत्तमां सेवमानः स्त्रीं जघन्यो बधमर्हति। भर्त्तारं लङ्घयेद्या तां श्वभिः सङ्घातयेत् स्त्रियम्। सवर्णदूषितां कुर्य्यात् पिण्डमात्रोपजीविनीम्। ज्यायसा दूषिता नारी मुण्डनं समवाप्नुयात्। वैश्यागमे तु विप्रस्य क्षत्रियस्यान्त्यजागमे। क्षत्रियः प्रथमं, वैश्यो दण्ड्यः शूद्रागमे भवेत्। गृहीत्वा वेतनं वेश्या लोभादन्यत्र गच्छति। वेतनन्द्विगुणं दद्याद्दण्डञ्च द्विगुणं तथा। भार्या पुत्राश्च दासाश्च शिष्यो भ्राता च सोदरः। कृतापराधास्ताड्याः स्यूरज्वा वेणुदलेन वा। पृष्ठे, न मस्तके हन्याच्चौरस्याप्नोति किल्विषम्। रक्षास्वधिकृतैर्यैस्तु प्रजाऽत्यर्थं विलुप्यते। तेषां सर्वस्वमादाय राजा कुर्य्यात् प्रवासनम्। ये नियुक्ताः स्वकार्येषु हन्युः कार्याणि कर्मिणाम्। निर्घृणाः क्रूरमनसस्तान्निःस्वान् कारयेन्नृपः। अमात्यः प्राड्विवाको वा यः कुर्य्यात् कार्य्यमन्यथा। तस्य सर्वस्वमादाय तं राजा विप्रवासयेत्। गुरुतल्पे भगः कार्य्यः सुरापाने सुराध्वजः। स्तेयेषु श्वपदं विद्याद् ब्रह्महण्याशिरः पुमान्। शूद्रादीन् घातयेद्राजा पापान्, विप्रान् प्रवासयेत्। महापातकिनां वित्तं वरुणायोपपादयेत्। ग्रामेष्वपि च ये केचिच्चौराणां भक्तदायकाः। भाण्डारकोषदाश्चैव सर्वांस्तानपि घातयेत्। राष्ट्रेषु राजाधिकृतान् सामन्तान् पापिनो हरेत्। सन्धिं कृत्वा तु ये चौर्यं रात्रौ कुर्वन्ति तस्कराः। तेषां पछित्वा नृपो हस्तौ तीक्ष्णे शूले निवेशयेत्। तडागदेवतागारभेदकान् घातयेन्नृपः। समुत्सृजेद्राजमार्गे यस्त्वमेध्यमनापदि। स हि कार्षापणन्दण्ड्यस्तममेध्यञ्च शोधयेत्। प्रतिमासङ्क्रमभिदो दद्युः पञ्च शतानि ते। समेषु विषमं यो वा चरते मूल्यतोऽपि वा। समाप्नुयान्नरः पूर्वं दमं मध्यममेव वा। द्रव्यमादाय बणिजामनर्घेणावरुन्धताम्। राजा पृथक् पृथक् कुर्य्याद्दंण्डमुत्तमसाहसम्। द्रव्याणां दूषको यश्च प्रतिच्छन्दकविक्रयी। मध्यभं प्राप्नुयाद्दण्डं कूटकर्त्ता तथोत्तमम्। कलहापहृतं देयं दण्डश्च द्विगुणस्ततः। अभक्ष्यभक्षे विप्रे वा शूद्रे वा कुष्णलो दमः। तुलाशासनमानानां कूटकृन्नाणकस्य च। एभिश्च व्यवहर्त्ता यः स दाप्यो दममुत्तमम्। बिषाग्निदां पतिगुरुविप्रापत्यप्रमापिणीम्। विकर्णकरनासौष्ठीं कृत्वा गोभिः प्रवासयेत्। क्षेत्रवेश्मवनग्रामविदाहकास्तथा नराः। राजपत्न्यभिगामी च दग्धव्यास्तु कटाग्निना। ऊनं वाप्यधिकं वापि लिखेद्यो राजशासनम्। पारजायिकचौरौ च मुञ्चतो दण्ड उत्तमः। राजयानासनारीढुर्दण्ड उत्तमसाहसः। यो मन्येताजितोऽस्मीति न्यायेनापि पराजितः। तमायान्तं पराजित्य दण्डयेद् द्विगुणं दमम्। आह्वानकारी बध्यः स्यादनाहूतमथाह्वयन्। दाण्डिकस्य च यो हस्तादभिमुक्तः पलायते। हीनः पुरुषकारेण तद् दद्याद्दाण्डिको धनम्”। “दण्डो दमयतामस्मि” गीता। “दण्डवत्प्रायश्चित्तानि भवन्ति” प्रा० वि० धृतवाक्यम् कुलालचक्रार्थे “कलसे निजहेतुदण्डजः किमु चक्रभ्रमिकारिता गुणः” नैष०। दण्ड्यतोऽनेन करणे घञ्। २५ देहे दण्डपारुष्यशब्दे मिता०। २६ द्वापरोद्भवे नृपभेदे। “क्रोधहन्तेति यस्तस्य बभूवावरजोऽसुरः। दण्ड इत्यभिविख्यातः सोऽभवन्मनुजर्षभः” भा० आ० ६७ अ०। “बधः पाण्ड्यस्य च तथा अश्वत्थाम्ना महात्मना। दण्डसेनस्य च ततो दण्डस्य च वधस्तथा” भा० आ० १ अ०। दण्डयति कर्त्तरि–अच्। २७ नृपे दण्डनीतिशब्दे कामन्द०। अस्य शब्दस्य शब्दकल्पद्रुमदृष्ट्या शरणागतत्राणार्थतोक्तिः प्रामादिकी तत्प्रमाणवाक्ये दत्तमित्यभिधीयते इत्येव पाठः साधुः। लिपिकरप्रमादात् दत्तमित्यत्र दण्डमिति पाठ इति बोध्यम् दत्तशब्दे दृश्यम्।

***