त्रिवृत्(ता) = पु० त्रीन् अवयवान् वृणोति वृ–क्विप् त्रिभिरवयवैर्वृता वा। १(तेओडि) औषधिभेदे, अमरः “श्वेता त्रिवृद्रोचनी स्यात् स्वादुरुष्णा समीरहृत्। रूक्षा पित्तज्वरश्लेष्मपित्तशोथोदरापहा। श्वेतकृष्णपभेदेन द्विविधा त्रिवृदुच्यते। श्यामा त्रिवृत्ततो हीनगुणा तीव्रा विरेचिका। मूर्च्छादाहमदभ्रान्तिकण्ठोत्कर्षणकारिणी” भावप्र०। वर्तनं वृत् त्रिः तिस्रः वृतो यत्र। एकस्य त्रिशब्दस्य त्रिवारे त्रिसंख्यान्विते च वृत्तिः तन्त्रोच्चारणात्। २ त्रिधात्रिगुणिते त्रि०। “विप्रस्योर्द्धवृतं त्रिवृत्” इति मनुः त्रिगुणितसूत्रत्रयस्यैवोपवीतरूपत्वात्तथार्थता। त्रिर्वर्त्तते वृत–क्विप्। मिश्रितेषु ३ तेजोजलान्नेषु च। “तासां त्रिवृतं त्रिवृतमेकैकां करवाणि” छा० उ० ४ त्रिगुणिते “यजेत वाश्वमेधेन स्वर्जिता गोषयेन वा। अभिजिद्विश्वजिद्भ्यां वा त्रिवृताग्निष्टुतापि वा” मनुः। त्रिभिरृग्यजुःसामभिर्वर्त्तते वृत–कर्तरि क्विप्। ५ यज्ञे पु०। “यः सुपर्णो यजुर्नाम छन्दोगात्रस्त्रिवृच्छिराः” भा० शा० ४७ अ०। “त्रिवृत् यज्ञः शिरोऽस्य” नीलक० त्रिस्त्रिर्वर्तते सुज्गर्भस्य त्रिशब्दस्य वीप्सार्थत्वम्। ६ ऋग्विशेषाणां नवके। यथोक्तं सामसंहिताभाष्ये

“लौकिको वाक्यगोवार्थस्त्रिवृदादेः समत्वतः। उभौ विध्यर्थवाक्यैकवाक्यत्वादस्त्विहान्तिमः। “त्रिवृद्बहिष्पवमानम्” इति श्रुतौ त्रिवृच्छब्दस्य त्रेगुण्यं लोकसिद्धोऽर्थः वाक्यशेषादृक्–त्रयात्मकेषु सूक्तेष्ववस्थितानां बहि ष्पवमानात्मक–स्तोत्र–निष्पादन–क्षमाणाम् “उपास्वै गायता नरः (उ १ प्र० १२, ३ सू०) इत्यादीनामृचां नवकमर्थः तत्र धर्म निर्णये वेदस्य प्रबलत्वेऽपि पद–पदार्थनिर्णये लोकवेदयोः समान–बलवत्त्वात् उभावर्थौ विकल्पेन ग्रहीतव्यौ, इति चेत्–मैवम्, लौकिकार्थ–स्वीकार पक्षे विधिवाक्ये त्रैगुण्यमर्थः, अर्थबाद–वाक्ये स्तोत्रियाणामृचां मवकम्, इत्येवं विध्यर्थवादयोर्वैयधिकरण्यादेकवाक्यत्वं न स्यात्, अतः एकवाक्यत्वाय स्तोत्रियाणां नवकमेव विधिवाक्ये नियतोऽर्थः”।

त्रिवृत्करण = न० ६ त०। तेजो जसान्नानां त्र्यात्मककरणे तत्प्रकारुश्च छा० उ० भाष्ये दर्शितो यथा

“ताश्चां त्रिवृतं त्रिवृतमैकैकां करवाणीति सेयं देवते- मास्तिस्रौ देवता अनेनैव जीवेनात्मनानुपविश्य नामरूपे व्याकरोत्। तासां त्रिवृतं त्रिवृतमेकैकामकरोद्यथा नु खलु सोम्ये मास्तिस्रो देवतास्रिघृत्त्रिवृदेकैका भवति तन्मे विजानहीति। यदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां, यक्तृष्णं तदन्नस्यापागादग्नेरग्नित्वं वाचा रम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम्। यदादित्यस्य रोहितं रूपं तेजसस्तद्रूपं, यच्छुक्लं तदपां, यत्कृष्णं तदन्नस्यापागादादित्यादादित्यत्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम्। यच्चन्द्रमसो रोहितं रूपं, तेजसस्तद्रूपं यच्छुक्लं तदपां, यत्कृष्णं तदन्नस्यापागाच्चन्द्राच्चन्द्रत्व वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम्। यद्विद्युतो रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागाद्धिद्युतो विद्युत्त्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम्।

“सैवं तिस्रो देवता अनुप्रविश्य स्वात्मावस्थे वीजभूतेऽ व्याकृते गामरूपे व्याकरवाणीतीक्षित्वा तासाञ्च तिसृणां देवतानामेकैकां त्रिवृतं त्रिवृतं करवाणि एकैकस्याः त्रिवित्करणे एकैकस्याः प्राधान्यं द्वयोद्वयोर्गुणभावोऽ न्यथा हि रज्वा इवैकमेव त्रिवृत्करणं स्यात्। न तु तिसृणां पृथक् त्रिवृत्करणमिति। एवं हि तेजोबन्नानां पृथङ्नामप्रत्ययलामः स्यात्तेज इदमिमा आपोऽन्नमिदमिति च। प्रथङ्नामप्रत्ययलाभे देवातानां सम्यग्व्यवहारस्य प्रसिद्धिः प्रयोजनं स्यात्। एवमीक्षित्वा सेयं देबते मास्तिस्रो देवता अनेनैव यथोक्तेनैव जीवेन सूर्य्यबिम्बवदन्तः प्रविश्य वैराजं पिण्डं प्रथमं देवतादीनां च पिण्डाननुप्रविश्य यथासङ्कल्पमेव नामरूपे व्याकरोदसौनामायमिदरूप इति तासाञ्च देवतानां गुणप्रधानभावेन त्रिवृतं त्रिवृतमेकैकामकरोत् कृतवती देवता। तिष्ठतु तावद्देवतादिपिण्डानां नामरूपाभ्यां व्याकृतानां, तोजोबन्नमयत्वेन त्रिधात्वं यथा तु खलु बहिरिमाः पिण्डेभ्यस्त्रिस्रो देवतास्त्रिवृत्त्रिवृदेकैका भवति तन्मे मम निगदतो विजानीहि विस्पष्टमवधारयोदाहरणतः। यत्तद्देवतानां त्रिवृत्करणमुक्तं तस्यैवदाहरणमुच्यते। उदाहरणं वामैकदेशप्रसिद्ध्याशेषप्रसिद्ध्यर्थसुदाद्रियत इति। तदेतदाह यदग्नेः त्रिवृत्कृतस्य रोहितं रूपं प्रसिद्ध्वं लोके तदत्रिवृत्कृतस्य तेजसो रूपभिति विद्धि। तथा च यच्छुक्लं रूपमग्नेरेव तदपामत्रिवृत्कृतानाम् यक्तृष्णं तस्यैवाग्ने रूपं तदन्नस्य पृथिव्या अत्रिवृत्कृताया इति विद्धि। तत्रैवं सति रूपत्रयव्यतिरेकेणाग्निरिति यन्मन्यमे त्वं तस्याग्नेरग्नित्वमिदानीमपागादपगतम्। प्राग्रूपत्रयविवेकविज्ञानाद्याग्निबुद्धिरासीत्तेजसाग्निबुद्धिरपगताग्निशब्दश्चेत्यर्थः। यथा दृश्यमान रक्तोपधानसंयुक्तः स्फटिको गृह्यमाणः पद्मरागोऽयमिति शब्दबुद्ध्योः प्रयोजको भवति प्रागुपधानस्फटिकयोर्विवेक विज्ञानात्, तद्विवेकविज्ञाने तु पद्मरागशब्दबुद्धी निवर्त्तेते तद्विवेकविज्ञातुस्तद्वत्। ननु किमत्र बुद्धिशब्दकल्पनया क्रियते प्राग्रूपत्रयविवेककरणादग्निरेवासीत्तदग्नेरग्नित्वं रोहितादिरूपविवेककरणादपागादिति युक्तम्। यथा तन्त्वपकर्षणे पटाभावः। मैवं बुद्धिशब्दमात्रमेव ह्यग्नि र्यत आह वाचारम्भनमग्निर्नाम विकारो नामधेयं नाममात्रमित्यर्थोऽतोऽग्निबुद्धिरपि मृषैव। तर्हि किं तत् सत्यं? त्रीणि रूपाणीत्येव सत्यं नाणुमात्रमपि रूपत्रयव्यतिरेकेण सत्यमस्तीत्यवधारणार्थः। तथा यदादित्यस्य यच्चन्द्रमसो यद्विद्युत इत्यादि समानम्। ननु यथा नु खलु सोम्येमास्तिस्रो देवतास्त्रिवृत्त्रिवृदेकैका भवति तन्मे विजानीहीत्युक्त्वा तेजस एव चतुर्भिरप्युदाहर्णैरग्न्यादिभिस्त्रिवृत्करणं दर्शितं नाबन्नयोरुदाहरणंदर्शितं त्रिवृत्करणे। नैष दोषः। अबन्नावषयाण्यप्युदाहरणान्येवमेव चद्रष्टव्यानोति मन्यते श्रुतिः। तेजस उदाहरणमुपलब्ध्यर्थम्, रूपवत्त्वात् स्पष्टार्थत्वोपपत्तेश्च। गन्धरसयोरनुदाहरणं त्रयाणामसम्भवात् न हि गन्धरसौ तेजसि स्तः। स्पर्शशब्दयोरनुदाहरणं विभागेन दर्शयितुमशक्यत्वात्। यदि सर्व्वं जगत्त्रिवृत्कृतमित्यग्न्यादिवत्त्रीणि रूपाणीत्येव सत्यमग्नेरग्नित्ववदपागाज्जगतो जगत्त्वम्। तथाऽन्नस्यापि अप्शुङ्गत्वादाप इत्येव सत्यं वाचारम्भणमात्रमन्नम्। तथापामपि तेजःशुङ्गत्वाद्वाचारम्भणत्वं तेज इत्येव सत्यम्। तेजसोऽपि सच्छुङ्गत्वाद्वाचारम्भणत्वं, सदित्येव सत्यमित्येषोऽर्थो विवक्षितः। ननु वाय्वन्तरिक्षे त्वत्रिवृत्कृते तेजःप्रभृतिष्वनन्तर्भूतत्वादविशिष्येते। एवं गन्धरसशब्दस्पर्शाश्चावशिष्टा इति। कथं? सतो विज्ञानेन सर्व्वमन्यदविज्ञातं भवेत्तद्विज्ञाने वा प्रकारान्तरं वाच्यम्। नैष दोषो रूपवद्द्रव्ये सर्व्वस्य दर्शनात्। कथं, तेजसि तावद्रूपवति शब्दस्पर्शयोरप्युपलम्भाद्वाय्वन्तरिक्षयोस्तत्र स्पर्शशब्दगुणवतोः सद्भावोऽनुमीयते। तथाबन्नयो रूपवतो रसगन्धान्त- र्भाव इति। रूपवतां त्रयाणां तेजोऽबन्नानां त्रिवृत्करण प्रदर्शनेन सर्व्वं तदन्तर्भूतं सद्विकारत्वात्त्रीण्येव रूपाणि विज्ञातं मन्यते श्रुतिः। न हि मर्त्तं रूपवत् द्रव्यं प्रत्याख्याय वाय्वाकाशयोस्तद्गु णयोर्गन्धरसयोर्वा ग्रहणमस्ति। अथ वा रूपवतामपि त्रिवृत्करणं प्रदर्शनार्थमेवमन्यते श्रुतिः यथा तु त्रिवृत्कृते त्रीण्येव रूपाणीत्येव सत्यं तथा पञ्चीकरणेऽपि समानी न्याय इत्यतः सर्व्वस्य सद्विकारत्वात्सतो विज्ञानेन सर्वमिदं विज्ञातं स्यात्सदेकमेवाद्वितीयं सत्यमिति सिद्धमेव भवति” भाष्यम्। क्षित्यादित्रयाणां प्रत्येकं द्वेधा विभागे द्वितीयार्द्धस्यपुनर्द्वेधा विभागे च एकैकस्मित् स्वस्वेतरद्वितीयांशार्द्धयोजनरूपं पञ्चीकरणवत् त्रिवृत्करणम् “द्विधा विधाय चैकैकं द्विधा च प्रथमं पुनः। स्वस्वेतरद्वितीयांशैर्योजनात् त्र्यात्मकाश्च ते” इत्युक्तरीत्या कल्प्यम्।

त्रिवृत्पर्णी = स्त्री त्रिषु दोषेषु वर्त्तते नाशनाय त्रिवृत् त्रिदोषघ्न्मम् पर्णमस्याः। (हेलञ्चा) हिलमोचिकायाम् शब्दच०।

त्रिवृत्ता = स्त्री त्रिरावृत्ता। १ त्रिवृति अमरः। २ त्रिरावृत्ते त्रिगुणे त्रि० “त्रिवृत्ता (मेखला) ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा” मनुः।

त्रिवृत्तिका = स्त्री तिस्रः वृत्तयोऽस्याः कप्। १ त्रिवृति राजनि०। २ त्रिधावृत्तियुक्ते त्रि०।

त्रिवृद्वेद = पु० ऋगाद्यात्मना त्रिर्वर्तते त्रिवृत् कर्म्म०। १ त्रय्यां वेदत्रये तदुत्पन्ने २ प्रणवे च। “ऋचो यजूंषि चान्यानि सामानि विविधानि च। एष (प्रणवः) ज्ञेयस्त्रिवृद्वेदो यो वेदैनं स वेदवित्। आद्यं यत् त्र्यक्षरं ब्रह्म त्रयी यस्मिन् प्रतिष्ठिता। स गुह्योऽन्यस्त्रिवृद्वेदोयस्तं वेद स वेदवित्” मनुः।

त्रिवे(णि)णी = स्त्री तिस्रः वेणयः प्रवाहाः विच्छिन्नाः संयुक्ता वा यत्र ततः इदन्तत्वात् वा ङीप्। गङ्गायमुनासरस्वतीनां विच्छिन्नप्रवाहे १ दक्षिणप्रयागे युक्तप्रवाहे २ प्रयागे तीर्थभेदे च दक्षिणप्रयागसीमा च यथा “प्रद्युम्नस्य ह्रदात् याम्ये सरस्वत्यास्तथोत्तरे। तद्दक्षिणप्रयागन्तु गङ्गातो यमुना गता” प्रा० त०। त्रिवेण्या इदम् शिवा० अण्। त्रैवेण। तदोये त्रि०।

त्रिवेणु = पु० त्रयो वेणवी यत्र। रथमुखस्थेऽवयवभेदे शब्दार्थचि०। “अश्वांस्त्रिवेणुं तल्पञ्च तिलशोव्यधमच्छरैः” भा० व० २४१ अ०।

त्रिवेद = पु० त्रीन् वेदान् वेत्ति विद–अण् उप० स० त्रयो वेदा अधीतत्वेन सन्त्यस्य अच् वा। १ वेदत्रयवेत्तरि। “नाय न्द्रितस्त्रिवेदोऽपि सर्वाशी सर्वविक्रयी” मनुः ततः स्वार्थे ब्राह्म० ष्यञ्। त्रैवेद्य तदर्थे “त्रैवेद्याः शुचयोदान्ताः” गीता। त्रिगुणितो वेदः शा० त०। २ वेदत्रये ३ तद्विहितकर्मणि च “त्रिवेदसंयोगाच्च” कात्या० श्रौ० २५। १४। ३७। “वेदत्रयविहितकर्मयोगो ब्राह्मणः” कर्कः।

त्रिवेला = स्त्री तिस्रो वेला सीमानोऽस्याम्। त्रिवृति (तेओडि) राजनि०।

त्रिशक्ति = स्त्री त्रिगुणिता शक्तिः। १ कालीतारात्रिपुरारूपे तन्त्रोक्ते देवीत्रये “त्रिशक्तिविषये देवि! क्रमदीक्षा प्रकीर्तिता” तन्त्रसा० इच्छाज्ञानक्रियारूपे ऐश्वरे २ शक्तित्रये प्रभावोत्साहमन्त्रजे राज्ञां ३ शक्तित्रये। ब० ब्री०। ४ त्रिगुणात्मके प्रधाने च।

त्रिशक्तिधृत् = पु० त्रिशक्तिं इच्छादिशक्तित्रयं धरति धृ–क्विप्। १ परमेश्वरे २ विजिगीषुनृपे च।

त्रिशङ्कु = पु० त्रयः शङ्कव इव यत्र। १ मार्ज्जारे २ शलभे मेदि०। ३ चातकखगे शब्दच०। ४ खद्योते शब्दमा०। ५ सूर्य्यवंश्ये नृपभेदे। तस्य नामनिरुक्तिः हरिवं० १३ अ० दर्शिता यथा

“अविद्यमाने मांसे तु वशिष्ठस्य महात्मनः। सर्वकामदुघान्दोग्ध्रीं ददर्श स नृपात्मजः। तां वै क्रोधाच्च मोहाच्च श्रमाच्चैव क्षुधार्दितः। दशधर्मगतो राजा जघान जनमेजय!। मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः। त्वरमाणश्च भीरुश्च लुब्धः कामी च ते दश। तच्च मांसं स्वयञ्चैव विश्वामित्रस्य चात्मजान्। भोजयामास तच्छुत्वा वशिष्ठोऽप्यस्य चुक्रुघे। क्रुद्धस्तु भगवान् वाक्यमिदमाह नृपात्मजम्। वशिष्ठ उवाच। पातयेयमहं क्रूर! तव शङ्कुमसंशयम्। यदि ते द्वाविभौ शङ्कू न स्यातां वै पुनःकृतौ। पितुश्चापरितीषेण गुरोर्दोग्ध्रीबधेन च। अप्रोक्षितोपयोगाच्च त्रिविधस्ते व्यतिक्रमः। वैशम्पायन उवाच। एवं त्रीण्यस्य शङ्कूनि तानि दृष्ट्वा महातपाः। त्रिशङुरिति होवाच त्रिशङ्कुस्तेन स स्मृतः”। तस्य सशरीरस्वर्गयानकथा रामा० आ०५ ७ स०

“सोऽभिगम्य महात्मानः सर्वानेव गुरोः सुतान्। अभिवाद्यानुपूर्व्येण ह्रिया किञ्चिदर्वाङ्मुखः। अव्रवीत् स महात्मानः सर्व्वानेव कृताञ्जलिः। शरणं वः प्रपन्नोऽहं शरण्यान् शरणं गतः। प्रत्याख्यातो हि भद्रं वो वशिष्ठेन महात्मना। यष्टुकामो महायजं तदनुज्ञातुमर्हथ। गुरुपुत्त्रानहं सर्व्वान्नमस्कृत्य प्रसादये। शिरसा प्रणतो याचे ब्राह्मणान् तपसि स्थितान्। ते मां भवन्तः सिद्ध्यर्थं याजयन्तु समाहिताः। सशरीरो यथाहं वै देवलोकमवाप्नुयाम्। प्रत्याख्यातो वशिष्ठेन गतिमन्यां तपोधनाः!। गुरुपुत्त्रानृते सर्व्वान्नाहं पश्यामि काञ्चन। इक्ष्वाकूणां हि सर्व्वेषां षुरोधाः परमा गतिः। तस्मादनन्तरं सर्व्वे भवन्तो दैवतं मम”।

“ततस्त्रिशङ्कोर्वचनं श्रुत्वा क्रोधसमन्वितम्। ऋषिपुत्त्रशतं राम! राजानमिदमव्रवीत्। प्रत्याख्यातोऽसि दुर्म्मेधो! गुरुणा सत्यवादिना। तं कथं समतिक्रम्य शाखान्तरमुपेयिवान्। इक्ष्वाकूणां हि सर्व्वेषां पुरोधाः परमा गतिः। न चातिक्रमितुं शक्यं वचनं सत्यवादिनः। अशक्यमिति होवाच वशिष्ठो भगचानृषिः। तं वयं वै समाहर्त्तुं क्रतुं शक्ताः कथञ्च न। वालिशस्त्वं नरश्रेष्ठ! गम्यतां स्वपुरं पुनः। याजने भगवान् शक्तस्त्रैलोक्यस्यापि पार्थिव!। अवमानं कर्थं कर्तुं तस्य शक्ष्यामहे वयम्। तेषां तद्वचनं श्रुत्वा क्रोधपर्य्याकुलाक्षरम्। स राजा पुनरेवैतानिदं वचनमब्रवीत्। प्रत्याख्यातो भगवता गुरुपुत्त्रैस्तथैव हि। अन्यां गतिं गमिष्यामि स्वस्ति वोऽस्तु तपोधनाः!। ऋषिपुत्त्रास्तु तच्छ्रुत्वा वाक्यं घोराभिसंहितम्। शेपुः परमसंक्रुद्धाश्चण्डालत्वं गमिष्यसि। इत्युक्त्वा ते महात्मानो विविशुः स्वं स्वमाश्रमम्। अथ रात्त्र्यां व्यतीतायां राजा चण्डालतां गतः। नीलवस्त्रधरो नीलः परुषो ध्वस्तमूर्द्ध्वज्वः। चितामाल्याङ्गरागश्च आयसाभरणोऽभवत्। तं दृष्ट्वा मन्त्रिणः सर्व्वे त्यज्य चण्डालरूपिणम्। प्राद्रवन् सहिताःराम! पौरा येऽस्यानुगामिनः। एको हि राजा काकुत्स्थ! जगाम परमात्मवान्। दह्यमानो दिवारात्रं विश्वामित्रं तपोधनम्। विश्वामित्रस्तु तं दृष्ट्वा राजानं विफलीकृतम्! चण्डालरूपिणं राम! मुनिः कारुण्यमागतः। कारुण्यात् स महातेजा वाक्यं परमधार्म्मिकः! इदं जगाद भद्रन्ते राजानं घोरदर्शनम्। किमागमानकार्य्यन्ते राजपुत्र! महाबल!। अयोध्याधिपते! वीर! शापाच्चण्डालताङ्गतः। अथ तद्वाक्यमाकर्ण्य राजा चण्डालताङ्गतः। अब्रवीत् प्राञ्जलिर्वाक्यं वाक्यज्ञो वाक्यकोविदम्। प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्त्रैस्तथैव च। अनवाप्यैव तं कामं मया प्राप्तो त्रिप्रर्य्ययः। सशरीरो दिवं यायामिति मे सौम्यदर्शन!। मया चेष्टं क्रतुशतं तथा तन्नाप्यते फलम्। अनृतं नोक्तपूव्ये मे न च वक्ष्ये कदाचन। कृच्छ्रेष्वपि गतः सौम्य! क्षत्रधर्म्मेण ते शपे। यज्ञैर्बहुविधैरिष्टं प्रजाधर्म्मेण पालिताः। गुरवश्च महात्मानः शीलवृत्तेन तोषिताः। धर्म्मे प्रयतमानस्य यज्ञं चाहर्त्तुमिच्छतः। परितोषं न गच्छत्ति गुरवो मुनिपुङ्गव!। दैवमेव परं मन्ये पौरुषं तु निरर्थकम्। दैवेनाक्रम्यते सर्व्वं दैवं हि प्तरमा गतिः। तस्य मे परमार्त्तस्य प्रसादमभिकाङ्क्षतः। कर्त्तुमर्हसि भद्रन्ते दैवोपहतकर्म्मणः। नान्यं गतिं गमिष्यामि नान्यच्छरणमस्ति मे। दैवं पुरुषकारेण निवर्त्तयितुमर्हसि” ५८ स०। “उक्तवाक्यं तु राजानं कृपया कुशिकात्मजः! अब्रवीत् मधुरं बाक्यं साक्षाच्चण्डालताङ्गतम्। इक्ष्वाको! स्वागतं वत्स! जानामि त्वां सुधार्म्मिकम्। शरणं ते प्रदास्यामि मा भैषीर्नृपपुङ्गव!। अहमामन्त्रये सर्व्वान्महर्षीन् पुण्यकर्म्मणः। यज्ञसाह्यकरान् राजंस्ततो यक्ष्यसि निर्वृतः। गुरुशापकृतं रूपं यदिदं त्वति वर्त्तते। अनेन सह रूपेण सशरीरो गमिष्यसि। हस्तप्राप्तमहं मन्ये स्वर्गं तव नराधिप!। यस्त्वं कौशिकमागम्य शरण्यं शरणागतः। एवमुक्त्वा महातेजाः पुत्त्रान् परमधार्म्मिकान्। व्यादिदेश महाप्राज्ञान् यज्ञसम्भारकारणात्। सर्व्वान् शिष्यान् स चाहूय वाक्यमेतदुवाच ह। सर्वानृषीन् सवाशिष्ठानानयध्वं ममाज्ञया। सशिष्यान् सुहृदश्चैव सर्त्विजः सुबहुश्रुतान्। यदन्यो वचनं ब्रूयान्मद्वाक्यबलनोदितः। तत्सर्वमखिलेनोक्तं ममाख्येयमनावृतम्। तस्य तद्वचनं श्रुत्वा दिशो जग्मुस्तदाज्ञया। आजग्मुरथ देशेभ्यः सर्वेभ्यो ब्रह्मवादिनः। ते च शिष्याः समागम्य मुनिं ज्वलिततेजसम्। ऊचुश्च वचनं सर्वं सर्वेषां ब्रह्मवादिनाम्। श्रुत्वा ते वचनं सर्वे समायान्ति द्विजातयः। सर्वदेशेभ्य आगच्छन् वर्जयित्वा महोदयम्। वाशिष्ठं यच्छतं सर्वं क्रोधपर्य्याकुलाक्षरम्। यथाह वचनं सर्वं शृणु त्वं मुनिपुङ्गव!। क्षत्त्रियो याजको यस्य चण्डालस्य विशेषतः। कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः। ब्राह्मणा वा महात्मानो भुक्त्वा चण्डालभोजनम्। कथं स्वर्गं गमिष्यन्ति विश्वामित्रेण पालिताः। एतद्वचननैष्ठुर्य्यमूचुः संरक्तलोचनाः। वाशिष्ठा मुनिशार्द्दूल! सर्बे सहमहोदयाः। तेषां तद्वचनं श्रुत्वा सर्वेषां मुनिपुङ्गवः। क्रोधसंरक्तनयनः सरोषमिदमव्रवीत्। यद्दूष- यन्त्यदुष्टं मां तप उग्र समास्थितम्। भस्मीभूता दुरात्मानो भविष्यन्ति न संशयः। अद्य ते कालपाशेन नीता वैवस्वतक्षयम्। सप्त जातिशतान्येव मृतपा सम्भवन्तु ते। श्वमांसनियताहारा मुष्टिका नाम निर्घृणाः। विक्रियाश्च विरूपाश्च लोकाननुचरन्त्वमी। महोदयश्च र्दुर्बुद्धिर्नामदुष्यं ह्यदूषयत्। धूषितः सर्वलीकेषु निषादत्वं गमिष्यति। प्राणातिपातनिरतो निरनुक्रोशताङ्गतः। दीर्धकालं मम क्रोधात् दुर्गतिं वर्त्तयिष्यति। एतावदुक्त्वा बचनं विश्वामित्रो महातपाः। विरराम महातेजा ऋषिमध्ये महामुनिः” ५९ स०।

“तपोवलहतान् ज्ञात्वा वाशिष्ठान् समहोदयान्। ऋषिमध्ये महातेजा विश्वामित्रोऽभ्यभाषत। अयमिक्ष्वाकुदायादस्त्रिशङ्कुरिति विश्रुतः। धर्मिष्ठश्च वदान्यश्च मां चैव शरणं गतः। स्वेनानेन शरीरेण देवलोकजिगीषया। यथायं स्वशरीरेण देवलोकं गमिष्यति। तथा प्रवर्त्यतां यज्ञो भवद्भिश्च मया सह। विश्वामित्रवचः श्रुत्वा सर्व एव महर्षयः। ऊचुः समेताः सहसा धर्म्मज्ञा धर्म्मसंहितम्। अयं कुशिकदायादो मुनिः परमकोपनः। यदाह वचनं सम्यगेतत् कार्य्यं न संशयः। अग्निकल्पो हि भगवान् शापं दास्यति रोषतः। तस्मात् प्रवर्त्यतां यज्ञः सशरीरो यथा दिवि। गच्छेदिक्ष्वाकुदायादो विश्वामित्रस्य तेजसा। ततः प्रवर्त्त्यतां यज्ञः सर्वे समभितिष्ठत। एवमुक्त्वा च ऋपयः संजह्रुस्ताः क्रियास्तदा। याजकश्च महातेजा विश्वामित्रोऽभवत् क्रतौ। ऋत्विजश्चानुपूर्वेण मन्त्रवन्मन्त्रकोविदाः। चक्रुः सर्वाणि कर्माणि यथाकल्पं यथाविधि। ततः कालेन महता विश्वामित्रो महातपाः। चकारावाहनं तत्र भागार्थं सर्वदेवताः। नाभ्यागमंस्तदा तत्रं भागार्थं ताश्च देवताः। ततः कोपसमाविष्टो विश्वामित्रो महामुनिः। स्रुवमुद्यम्य सक्रोधस्त्रिशङ्कुमिदमब्रवीत्। पश्य मे तपसो वीर्य्यं स्वार्जितस्य नरेश्वर!। एष त्वां स्वशरीरेण नयामि स्वर्गमोजसा। दुष्प्रापं स्वशरीरेण स्वर्गं गच्छ नरेश्वर!। स्वार्जितं किञ्चिदप्यस्ति मया हि तपसः फलम्। राजंस्त्वं तेजसा तस्य सशरीरो दिवं व्रज। उक्तवाक्ये मुनौ तस्मिन् सशरीरो नरेश्वरः। दिवं जगाम काकुत्स्थ! मुनीनां पश्यतां तदा। स्वर्गलोकं गतं दृष्ट्वा त्रिशङ्कुं पाकशासनः। सह सर्वैः स्वरगणै- रिदं वत्त्रनमब्रवीत्। त्रिशङ्को! गच्छ भूयस्त्वं नास्ति स्वर्गकृतालयः। गुरुशापहतो मूढ! पत भूमिमवाक्शिराः। एवमुक्तो महेन्द्रेण त्रिशङ्कुरपतत् पुनः। विक्रोशमानस्त्राहीति विश्वामित्रं तपोधनम्। तच्छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिकः। रोषमाहारयत् तीव्रं तिष्ठ तिष्ठेति चाब्रबीत्। ऋषिमध्ये स तेजस्वी प्रजापतिरिवापरः। सृजन् दक्षिणमार्गस्थान् सप्तर्षीनपरान् पुनः। नक्षत्रवंशमपरमसृजत् क्रोधमूर्च्छितः। दक्षिणां दिशमास्थाय ऋषिमध्ये महायशाः। सृष्ट्वा नक्षत्रवंशञ्च क्रोधेन कलुषीकृतः। अन्यमिन्द्रं करिष्यामि लोको वा स्यादनिन्द्रकः। दैवतान्यपि स क्रोधात् स्रष्टुं समुपचक्रमे। ततः परमसम्भ्रान्ताः सर्षिसङ्घाः सुरासुराः। विश्वामित्रं महात्मानमूचुः सानुनयं वचः। अयं राजा महाभाग! गुरुशापपरिक्षतः। सशरीरो दिवं यातुं नार्हत्येव तपोधन!। तेषां तद्वचनं श्रुत्वा देवानां मुनिपुङ्गवः। अब्रवीत् सुमहद्वाक्यं कौशिकः सर्वदेवताः। सशरीरस्य भद्रं वस्त्रिशङ्कोरस्य भूपतेः। आरोहणं प्रतिज्ञातं नानृतं कर्त्तुमुत्सहे। स्वर्गोऽस्तु सशरीरस्य त्रिशङ्कोरस्य शाश्वतः। नक्षत्राणि च सर्वाणि मामकानि ध्रुबाण्युत। यावल्लोका धरिष्यन्ति तिष्ठन्त्वेतानि सर्वशः। मत्कृतानि सुराः सर्वे तदनुज्ञातुमर्हथ। एवमुक्ताः सुराः सर्वे प्रत्यूचुर्मुनिवुङ्गवम्। एवं भवतु भद्रन्ते तिष्ठन्त्वेतानि सर्वशः। गगने तान्यनेकानि वैश्वानरपथाद्बहिः। नक्षत्राणि मुनिश्रेष्ठ! तेषु ज्योतिःषु जाज्वलन्। अवाक्शिरास्त्रिशङ्कुश्च तिष्ठत्वमरसन्निभः। अनुयास्यन्ति चैतानि ज्योतीषि नृषसत्तमम्। कृतार्थं कीर्त्तिमन्तञ्च स्वर्गलोकगत यथा। विश्वामित्रस्तु धर्म्मात्मा सर्वदेवैरभिष्टुतः। ऋषिमध्ये महातेजा वाढमित्येव देवताः। ततो देवा महात्मान ऋषयश्च तपोघनाः। जम्मुर्यथागतं सर्वे यज्ञस्यान्ते नरोत्तम!।” ६० स० त्रिशङ्कोरपत्यम् अण्। त्रैशङ्कव हरिश्चन्द्रे “तस्य (त्रिशङ्कीः) सत्यरथा नाम पत्नी कैकयवंशजा। कुमारं जनयामास हरिश्चन्द्रमकल्मषम्। स वै राजा हरिश्चन्द्रस्त्रैशङ्कव इति स्मृतः” हरिवं०१३ अ०।

त्रिशङ्कुज = पु० त्रिशङ्कोर्जायते जन–ड। हरिश्चन्द्रे नृपे हेमच० त्रिशङ्कुशब्दे दृश्यम्।

त्रिशङ्कुयाजिन् = पु० त्रिशङ्कुं याजयति यज–णिनि। विश्वाभित्रे हेमच० त्रिशङ्कुशब्दे दृश्यम्।

त्रिशत = न० त्रिगुणितं शतम् शा० त०। त्रिगुणिते शते। “चतुर्विंशतिसंयुक्तं सण्डलं त्रिशतं स्मृतम्” कामन्दकी। “नरकं त्रिशतं प्राप्य स विष्ठामुपजीवति” भा० अनु० १०१ अ०। समा० द्वि० ङीप्। २ शतत्रये स्त्री।

त्रिशरण = न० त्रीणि शरणान्यस्य। बुद्धदेवे त्रिका०।

त्रिशर्करा = स्त्री त्रिगुणिता शर्करा शा० त०। मिलितगुडोत्पन्नाहिमोत्था मधुरेति मधुरत्रिके राजनि०।

त्रिशला = स्त्री अर्हन्मातृभेदे हेमच०।

त्रिशाख = त्रि० तिस्रः शाखा अग्राणि यस्य। शिखाकाराग्रत्रययुते। “कृत्वा त्रिशाखां भ्रूकुटीं ललाटे” भा० कर्ण० ८५ अ०।

त्रिशाखपत्र = पु० त्रिस्रः शाखा अस्य तादृशं पत्रं यस्य। बिल्वे राजनि०।

त्रिशाण = त्रि० त्रयः शाणाः परिमाणमस्य तैः क्रीतं वा अण् तस्य वा लुक्। १ त्रिशाणपरिमिते २ तत्क्रीते च। पक्षे न लुक्। त्रैशाण तत्रार्थे पक्षे यत् त्रिशाण्य तत्रार्थे एवं द्विशाणद्विशाण्य द्वैशाण द्विशाणक्रीते तत्परिमिते त्रि०

त्रिशालक = न० तिस्रः शाला यत्र वा कप्। हिरण्यनाभाख्ये वास्तुभेदे तत्फलादिकं वृ० स० ५३ उक्तं यथा “उत्तरशालाहीनं हिरण्यनाभं त्रिशालकं धन्यम्। प्राक्शालया वियुक्तं सुक्षेत्रं वृद्धिदं वास्तु। याम्याहीनं चुल्ली त्रिशालकं वित्तनाशकरमेतत्। पक्षघ्नमपरयावर्जितम् सुतध्वंसवैरकरम्”।

त्रिशिख = न० त्रिस्रः शिखा अस्य। १ त्रिशूले अस्त्रभेदे २ किरीटे च हेमच०। ३ शिखात्रययुक्ते त्रि०।

“त्रिशिखां भ्रुकुटिञ्चास्य ददृशुर्दानवा रणे” हरिवं० २२५ अ०। “त्रिशिखां भ्रुकुटीं कृत्वा सन्दश्य दशनच्छदम्” भा० आ० १६३ अ०। ४ रावणपुत्रे राक्षसभेदे पु०

त्रिशिखिदला = स्त्री तिस्रः शिखाः सन्त्यत्र इनि तादृशं दलमस्य। मालाकन्दे राजनि०।

त्रिशिरस् = पु० त्रीणि शिरांस्यस्य। १ कुवेरे हेमच०। २ रावणपुत्रभेदे ३ खरसेनापतिभेदे च। त्रिशिरस्के ४ ज्वरे च। “त्रिशिरस्ते प्रसन्नोऽहं व्येतु ते मज्ज्वराद्भयम्” भाग० १० अ० वाणयुद्धे। अस्य अदन्तत्वमपि “सर्वे सान्ता अदन्ताः स्युः” इत्युक्तेः “स्यरत्रिशिरदूषणमुख्यबन्धून्” भाग० ९। १०। १० “ज्वरस्त्रिपादस्त्रिशिराः षड्भुजो नवलोचनः” हरिवं० १८१ अ०। त्रयो वेदाः शिरांसीव यस्य। ५ जैवे रथे पु०। “सबन्धुरस्तस्य रथस्त्रिचक्रस्त्रिवृच्छिरास्त्रिशिराश्च त्रिनाभिः” भा० आनु० १९८ अ०। नील- कण्ठस्तु “वृहच्छिराश्चतुरश्वस्त्रिनाभिः” इति पठित्वा “चतुरश्वः कालादृष्टेश्वरेच्छास्वसंकल्पाश्चत्वारोऽश्वा अस्येति” व्याचख्यौ। “अतीव हि त्रिशिरसं समुच्छिन्द्यात् कृतत्वरः” कामन्दकी। त्रिशीर्षकादयोऽप्यत्र। तच्च त्रिशूले न० हेमच०।

त्रिशुच् = पु० तिस्रः शुचो दीप्तयः शोका वाऽस्य। स्वर्गान्तरिक्षपृथिवीस्थदीप्तित्रययुते घर्मे। “धर्मस्त्रिशुक् विराजति विराजा” यजु० ३८। २७। “ताः शुचश्च तत्रैव १८ मन्त्रे उक्ता यथा “या ते घर्भ! दिवा शुग्या गायत्र्यां हविर्धाने। सा त आप्यायतां निष्ट्यायतां तस्यै ते स्वाहा। या ते घर्मान्तरिक्षे तस्याः त्रिष्टुभ्याग्नीध्रे सा त आप्यायतामित्यादि या ते घर्म पृथिव्यां तस्या जगत्यां सदस्या। सा त आप्यायताम्” इत्यादि। २ आध्यात्मिकादिशोकत्रययुक्ते च।

त्रिशूल = न० त्रीणि शूलानीव अग्राणि यस्य। स्वनामख्याते अस्त्रभेदे हेमच०। “त्रिशूलं दक्षिणे हस्ते खड्गं चक्रं क्रमादधः” दुर्गाध्यानम् “त्रिशूलडमरुकरं व्याघ्रकृत्तिं वसानम्” शिवध्यानम्।

त्रिशूलखात = न० त्रिशूलेन खातम्। तीर्थभेदे “त्रिशूलखातं तत्रैव तीर्थमासाद्य भारत!। तत्राभिषेकं कुर्वीत पितृदेवार्च्चने रतः। गाणपत्यञ्च लभते देहं त्यक्त्वा न संशयः” भा० भ० ५४ अ०।

त्रिशूलमुद्रा = स्त्री त्रिशूलमाकारत्वेनास्त्यस्याः कर्म०। मुद्राभेदे “अङ्गुष्ठेन कनिष्ठान्तु बद्धा शिष्टाङ्गुलीत्रयम्। प्रसारयेत्त्रिशूलाख्या मुद्रैषा परिकीर्तिता” तन्त्र, तल्लक्षणमुक्तम्

त्रिशूलिन् = पु० त्रिशूलमस्त्यस्य इनि। शिवे “त्र्यक्षोऽभेद्यस्त्रिशूली च वृषकेतुर्महाबलः” स्कन्दपु० शिवस्तवः। २ दुर्गायां स्त्री ङीप्। “त्रिशूलिनीं नमस्यामि महिषासुरघातिनीम्” हरिवं० १६६ अ०।

त्रिशृङ्ग = पु० त्रीणि शृङ्गाण्यस्य। त्रिकूटपर्वते शब्दरत्ना०। “त्रिशृङ्गः पर्वतश्चैव कुमारी च सरिद्वरा” हरिवं० २३७ अ०। २ त्रिकोणे। “कुरङ्गेण हीनस्त्रिशृङ्गस्तदन्तः” सारसमुच्चयः।

त्रिशृङ्गिन् = पु० त्रीणि शृङ्गाणि सन्त्यस्य इनि। रोहितमत्स्ये शब्दार्थकल्पतरुः।

त्रिशोक = पु० त्रयः आध्यात्मिका दयः शोका अस्य। १ जीवे २ कण्वपुत्रे ऋषिभेदे च। “अनु त्रिशोकः शतमावहन्नॄन्” ऋ० १०। २९। २। त्रिशोको नामर्षिः” भा०। “याभिस्त्रिशोक उस्रिया” ऋ० १। ११२। १२ “कण्वपुत्रस्त्रिशोक ऋषिः” भा०।

त्रिषंयुक्त = त्रि० त्रिभिर्हविर्भिः संयुक्तं वेति छन्दसीति चानुवृत्तौ “पूर्वपदात्” पा० वा वेदे षत्वम्। त्रिभिर्हविर्भिः संयुक्ते इष्टिभेदे। “ऐन्द्रावैष्णवं चरुं, वैष्णवं त्रिकपालं वा पुरोडाशं चरुं वा तेन त्रिषंयुक्तेन यजते” शत० ब्रा० ५। २। ५। १। “त्रिषं युक्तेषु” कात्या० श्रौ० १५। २। ११। “त्रिभिर्हविर्भिः संयुक्तं कर्म त्रिषंयुक्तम्” संग्र० व्याख्या। २ त्रिभिः संयुतमात्रे त्रि०। “दक्षिणेऽग्नौ पावयन्ति पवित्राभिस्त्रिषंयुक्ताभिः” शत० ब्रा० १२। ९। २३। १२१। लोके तु न षत्वम्।

त्रिषंवत्सर = न० त्रयः संवत्र्सराः साधनकाला अस्य वेदे वा षत्वम्। त्रिवर्षसाध्ये सत्त्रभेदे। “त्रिषंवत्सरं षष्टिदीक्षम्” कात्या० श्रौ० २५। ५३। १२ “त्रिषंवत्सरं सत्रं तच्च षष्टिदीक्षं भवति” सं० व्या० त्रिगुणितः संवत्सरः। २ त्रिवर्षे च। “महातापश्चितं त्रिषंवत्सरोपसत्कम्” कात्या० श्रौ० २५। ५। ६। “त्रयः संवत्सरा उपसदो यत्र” कर्कः। लोके तु न षत्वम्। ३ त्रिवर्षसाध्ये वस्तुनि त्रि०।

त्रिषन्धि = त्रि० त्रयः सन्धयोऽस्य वेदे वा षत्वम्। १ त्रिसन्धियुक्ते “चातुर्मास्यानि त्रिषन्धीनि द्विसमस्तानि तस्मादिमानि पुरुषस्याङ्गानि त्रिषन्धीनि द्विसमस्तानि” शत० ब्रा० ११। ५। २। ७। “त्रयः सन्धयोऽन्तरालकालाश्चत्वारश्चत्वारी मासा येषां तानि त्रिसन्धीनि द्विसमस्तानि सुनासीरीयवैश्वदेव योः फाल्गुनस्य शुक्लचतुर्दश्यां पौर्णमास्यां वा पौर्वापर्य्येणाव्यवहितानुष्ठानात् द्वाभ्यां पर्वभ्यां समस्तानि संश्लिष्टानि पादतलादधस्तनोपरितनसन्ध्योरुभयोः प्रत्यासन्नत्वाद्द्विसमस्तत्वम्” भा०।

त्रि(तृ)षम = त्रि० ह्रस्वे निघण्टुः मायुषेत्यत्र तथा, तृषमेति च पाठान्तरम्।

त्रिषवण = न० सूयते सोमोऽत्र सु–आधारे ल्युट् “पूर्बपदात्” पा० वा षत्वम्। त्रिकाले प्रातर्मध्याह्नसायाह्नरूपे काले “उपस्पृशंस्त्रिषवणं पितॄन् देवांश्च तर्पयेत्। दान्तस्त्रिषवणस्नायी निवृत्तश्च प्रतिग्रहात्” “कुर्य्यात् त्रिषवणस्नायी कृच्छ्रं चान्द्रायणं तथा” याज्ञ०। षत्वाभावे लोके च त्रिसवनमप्यत्र

त्रिषष्टि = स्त्री बहुत्वेऽपि एकव० त्र्यधिका षष्टिः शा० त०। १ त्र्यधिकषष्टिसंख्यायां २ तत्संख्येये च। “चतुःषष्टिस्त्रिषष्टिर्वा वर्णाः सम्भवतो मताः” शिक्षा। पक्षे त्रय आदेशे त्रयः षष्टिरप्यत्र। त्रयश्च षष्टिश्च इति विग्रहेऽपि तदर्थे। “संख्याः” पा० त० पक्षे पूर्वपदप्रकृतिस्वर इति भेदः। इयांस्तु भेदः त्रय आदेशे अन्तोदात्तः। तिषष्ट्या युतंशतादि ड। त्रिषष्ट त्रिषष्टियुतशतादौ त्रि०। ततः पूरणे तमप्। त्रिषष्टितम त्रयःषष्टितम तत्संख्यापूरणे त्रि०। स्त्रियां ङीप्। पूरणे डट्। त्रिषष्ट त्रयःषष्ट तिषष्टि पूरणे त्रि०। स्त्रियां ङीप्।

त्रिषु(सु)पर्ण = पु० त्रयः सुपर्णास्तद्वाचकशब्दा यत्र। १ बह्वृचवेदभागभेदे त्रिसौपर्णशब्दे दृश्यं २ तद्व्रते च तद्योगात् ३ तद्ब्रतधारिणि पुरुषे “त्रिणाचिकेबः पञ्चाग्निस्त्रिसु(षु)पर्णः षडग्निवित्” मनुः। बा कप्। तत्रार्थे “वेदार्थवित् ज्येष्ठसामा त्रिमधुस्त्रिसुपर्णकः” याज्ञ०।

त्रिष्टुभ् = स्त्री त्रिषु स्थानेषु स्तुभ्यते स्तुभ्–क्विप् षत्वम्। एकादशाक्षरपादके वर्णवृत्ते छन्दोभेदे “गायत्र्युष्णिगनुष्टुप् च वृहती पङ्क्तिरेव च। त्रिष्टुप् च जगती चैव” वृ० र०। प्रस्तावे तस्याः २०४८ भेदाः। “एकादशाक्षरा वै त्रिष्टुप् गायत्री क्षत्रं त्रिष्टुप्” शत० ब्रा० १। ३। ५। ५। “तथैव माध्यन्दिनं सवनमतन्वत” इत्युपक्रमे “एकादशाक्षरा त्रिष्टुभ् तस्मादाहुस्त्रैष्टुभं माध्यन्दिनं सवनमिति” शत० ब्रा० ४। ३। २। ८। २ तच्छन्दोऽभिमानिदेवतायाञ्च। “इन्द्र एकादशाचरेण त्रिष्टुभमुदजयत्” यजु० ९। ३०। “इन्द्रो देवः एकादशाक्षरेण छन्दसा त्रिष्टुभं त्रिष्टुप् छन्दोऽभिमानिनीं देवतामुदजयत्” वेददीपः। प्रसङ्गात् छन्दोऽभिमानिदेवताः सर्वानुक्तमणिकायां ४ अ० उक्ताः प्रदर्श्यन्ते। “अथातश्छन्दोदेवता गायत्र्या अग्निरुष्णिहः सविताऽनुष्टुभः सोमोवृहत्या वृहस्पतिः, पङ्क्तेर्वरुणस्त्रिष्टुभ इन्द्रो जगत्याविश्वे देवा बिराजो मित्रः, स्वराजो वरुणोऽतिच्छन्दसः प्रजापतिर्विच्छन्दसो वायुर्द्विपदायाः पुरुष एकपदाया ब्रह्मा। सर्वा ऋचः आग्नेय्यः सर्वाणि यजूंषि वायव्यानि सर्वाणि सामानि सौराणि सर्वाणि ब्राह्मणानि च। स्वाहाकरस्याग्निर्वषट्कारस्य विश्वे देवाः। कर्मारम्भे मन्त्राणां देवता वेदितव्याः संन्यस्य मनसि देवतां ततो हबिर्हूयते देवतामविज्ञाय यो जुहोति देवास्तस्य हविर्न जुषन्ते। स्वाध्यायमपि योऽधीते मन्त्रदैवतज्ञः सोऽमुष्मिन् लोके देवैरपीद्ध्यते। तस्माच्च देवता वेद्या मन्त्रे मन्त्रे प्रयत्नतः। मन्त्राणां देवताज्ञानान्मन्त्रार्थमधिगच्छति”। शब्दब्रह्मात्मनः मांसात् तस्या उत्पत्तिः भाग०३। १२। २९ श्लो० उक्ता यथा “तस्योष्णिगासील्लोमभ्यो गायत्री च त्वचो विभोः। त्रिष्टुम्मांसात् स्नुतोऽनुष्टुब्जत्यस्थ्नः प्रजापतेः। मज्जातः पङ्क्तिरुत्पन्ना वृहती प्राणतोऽभवत”।

त्रिष्टोम = पु० त्रयः स्तोमा यत्र षत्वम्। क्षत्रधृतियज्ञस्य उभयतः कर्त्तव्ये यज्ञभेदे। “क्षत्रधृतिः” कात्या० श्रौ० १५। ९। २४ सू० “तमुभयतः एके त्रिष्टोमज्योतिष्टोमौ” २५ सू०। “एके तं क्षत्रधृतिमुभयतः त्रिष्टोमज्योतिष्टोमौ कुर्वन्ति” सं० व्या०।

त्रिष्ठ = पु० त्रिषु चक्रेषु तिष्ठति स्था–क अम्बाम्बेत्यादिना षत्वम्। चक्रत्रयस्थिते रथे। “त्रिष्ठं वां सूरे दुहितारुहद्रथम्” ऋ० १। ३४। ५। “त्रिष्ठं चक्रत्रयेऽवस्थितं रथम्” भा०।

त्रिष्ठिन् = त्रि० त्रिषु विद्यादानयज्ञेषु तिष्ठति स्था–वा० इनि सुषामः० षत्वम्। विद्यादिशीलयुक्ते। “उत्कूतनि कूलेभ्यस्त्रिष्ठिनम्” यजु० ३। १४०। “त्रिषु विद्यादिषु स्थितं शीलवन्तस्” वेददी०।

त्रिस् = अव्य० त्रि + वारे सुच्। त्रिवारे “येन त्रिःसप्तकृत्वो नृपवहलवशामांसस्तिष्कपङ्केति” प्रबोधच०। “अनेन विधिना श्राद्धं त्रिर्वदस्य हि निर्वपेत्” मनुः। “त्रिर्जपेदघमर्षणम्” स्मृतिः।

त्रिसन्धि = स्त्री त्रयः सन्धयोऽन्तरकाला विकाशेऽस्याः। (फागनिया) १ पुष्पभेदे राजनि०। सा त्रिविधा मिताऽमिता रक्ता च। समा० द्वि०। २ पूर्वापरमध्यसन्धौ न०।

त्रिसन्ध्य = न० समाहारद्वि०। प्राह्णपराह्णमध्याह्नरूपे स० न्ध्यात्रये। “सान्निध्यं पुष्करे येषां त्रिसन्ध्यं कुरुनन्दन!” भा० व० ८२ अ०। “करैस्त्रिसन्ध्यं त्रिदशैर्दिशे नमः” माघः। “त्रिसन्ध्यव्यापिनी या तु सैव पूज्या सदा तिथिः। न तत्र युग्मादरणमन्यत्र हरिवासरात्” ति० त० पराशरः। कुसुमे (फागनिया) राजनि०।

त्रिसन्ध्याकुसुमा = स्त्री त्रिसन्ध्यं कुसुमं यस्याः। त्रिसन्धि

त्रिसप्तति = स्त्री एकव० त्र्यधिका सप्ततिः शा० त० त्रयश्च सप्ततिश्च द्वन्द्वस० वा। १ त्र्यधिकसप्ततिसंख्यायां २ तत्संख्येये च पक्षे वा त्रयआदेशे त्रयःसप्तति तत्रार्थे। तत्र त० पूर्वप्रकृतिस्वरः त्रय आदेशे अन्तोदात्त इति भेदः। ततः पूरणे तमप्। त्रिसप्ततितम त्रयःसप्ततितम तत्पूरणे त्रि० स्त्रियां ङीप्। पूरणे डट्। त्रिसप्तत तत्रार्थे त्रि० स्त्रियां ङीप्। “भीमसेनं त्रिसप्तत्या नकुलं सप्तभिः शरैः” भा० ग० २३ अ०। त्रिसप्तत्या युतं शतादि ड। त्रिसप्तत तद्युते शतादौ त्रि०।

त्रिसप्तन् = त्रि० ब० व० त्रिगुणिताः सप्त। १ एकविंशतिसंख्यायाम् २ तत्संख्येये च। “विद्घा चैनं त्रिसप्तभिः भा० ग० १३ अ०। “त्रिसप्तकृत्वः पृथिवीं योजिगाय भृगूत्तमः” हरिवं० ३०४ अ०।

त्रिसम = न० त्रयः समा यत्र। समहरीतकीनागरगुडरूपे पदार्थे राजनि०। समा० द्वि०। २ वर्षत्रये न०।

त्रिसर = पु० कृसर + पृषो०। कृशरे हेमच०।

त्रिसरक = न० त्रिवारं सरकम्, त्रयाणां सरकाणां शीधुपानानां समाहारः पात्रा० न ङीप् वा। त्रिवारे मधुपाने “प्रातिभं त्रिसरकेण गतानाम्” माघः।

त्रिसर्ग = पु० त्रयाणां सत्त्वरजस्तमसां सर्गः। सत्त्वरजस्तमसां सर्गे। “यत्र त्रिसर्गो मृषा” भा० १। १। १।

त्रिसामन् = पु० त्रीणि सामानि स्तुतिसाधनानि यस्य। १ परमेश्वरे। “त्रिसामा सामगः साम त्रिवर्णो भेषजं भिषक्” विष्णुसं०। “त्रीणि वेदव्रतसामाख्यानि तैस्त्रिसामभिः स्तुतस्त्रिसामा” भा० बेदव्रतसामानि च। “अधिपताइ मित्र! पताइ सुरपताइ” इत्येवमादीनि त्रीणि सामानि। २ महेन्द्राद्रेःक्षरन्त्यां नद्याम् स्त्री टाप् शब्दार्थचि०। “ऋषिकुल्या त्रिसामा कौशिकी इत्यादि” भाग० ५। १९। १८। भारतवर्षमहानद्युक्तौ।

त्रिसाहस्र = त्रि० त्रीणि सहस्राणि परिमाणमस्य अण् उत्तरपदवृद्धिः। त्रिभिः सहस्रैः १ परिमिते। स्त्रियां ङीप्। “त्रिसाहस्र्युत्तमा” कात्या० श्रौ० १७। ७२३। “उत्तमा चितिः त्रिसाहस्री लोकम्पृणानां भवति” कर्कः।

त्रिसिता = स्त्री त्रिगुणिता सिता शा० त०। त्रिशर्कराशब्दार्थे राजनि०।

त्रिसीत्य = न० त्रिवारं सीतया समितम् यत्। त्रिःकृत्वः सीतया कृष्टक्षेत्रे अमरः।

त्रिसुगन्धि = न० त्रबाणां सुगन्धिद्रव्याणां समाहारः। “त्वगेलापत्रकैस्तुल्यैस्त्रिसुगन्धि त्रिजातकम्” इत्युक्ते तुल्यभागे एलादित्रिके राजनि०। “पिबेद्रसं पुष्पफलोद्भवं वा सितामधूकत्रिसुगन्धियुक्तम्” सुश्रुतः।

त्रिसुवर्चक = पु० आङ्गिरसे च्यवनरूपे वह्नौ “अग्निराङ्गिरसश्चैव च्यवनस्त्रिसुवर्चकः” भा० व० २१९ अ०।

त्रिसौपर्ण = न० त्रिः सुपर्णेन ऋषिणा कृतमण् वृत्तौ त्रिशब्दस्य सुजर्थता उत्तरपदवृद्धिः। सुपर्णर्षिणा चरिते व्रतभेदे।

“सुपर्णो नाम तमृषिः प्राप्तवान् पुरुषोत्तमात्। तपसा वै सुतप्तेन दमेन नियमेन च। त्रिः परिक्रान्तवानेतत् सुपर्णो धर्ममुत्तमम्। यस्मात्तस्माद्व्रतं ह्येतत् त्रिसौपर्णमिहोच्यते। ऋग्वेदपाठपठितं ब्रतमेतद्धि दुश्चरम्। सुपर्णाच्चाप्यधिगतो धर्म एष सनातनः। वायुना द्विपदां श्रेष्ठः कथितो जलदायुघा। वायोः सकाशात् प्राप्तश्च ऋषिभिर्विघसाशिभिः। ततो महोदधिश्चैव प्राप्तवान् धर्ममुत्तमम्। अन्तर्दधे ततो भूयो नारायणसमाहितः” भा० शा० ३५० अ०। सुपर्णा एव स्वार्थे अण् त्रयः सौपर्णा यत्र। ऋग्वेदे १०। ११४। ३। ४। ५। मन्त्रत्रिके। ते च सन्त्राः “चतुष्कपर्दा युवतिः सुपेशा घृतप्रतीका वयुनानि वस्ते। तस्यां सुपर्णा वृषणा निषेदतुर्यत्र देवा दधिरे भागधेयम्”। ३ “एकः सुपर्णः स समुद्रमाविवेश स इदं विश्वं भुवनं विचष्टे। तं पाकेन मनसा पश्यमन्तितस्तं माता ह्लि स उ रेह्लि मातरम्”। ४ “सुपर्णं विप्राः कवयो वचोभिरेकं सन्तं बहुधा कल्पयन्ति। छन्दांसि च दधतो अध्वरेषु ग्रहान्त सोमस्य मिमते द्वादश”। ५ सुपर्णपदघटिते मन्त्रे विदितं अण् उत्तरपदवृद्धिः। ३ परमेश्वरनामभेदे “त्रिसौपर्णं तथा ब्रह्म यजुषां शतरुद्रियम्” भा० शा० २८६ अ०। “त्रिसौपर्णे विदितं नाम त्रिसौपर्णमिति तदर्थः” श्रीधरः। त्रिसौवर्णेति पाठः लिपिकरप्रमादात्।

त्रिस्कन्ध = न० त्रयः स्कन्धा इवावयवा अस्य। ज्योतिःशास्वे वृ० स० १ अ० तस्य स्कन्धत्रयमुक्तं यथा “ज्योतिःशास्त्रमनेकभेदविषयं स्कन्धत्रयाधिष्ठितम् तत्कार्त्स्त्योपनयस्य नाम मुनिभिः सङ्कीर्त्यते संहिता। स्कन्धेऽस्मिन् गणितेम या ग्रहगतिस्तन्त्राभिधानस्त्वसौ होराऽन्योऽङ्गविनिश्चयश्च कथितः स्कन्धस्तृतीयोऽपरः”। तेन तन्त्रहोराङ्गनिर्णयाख्यास्तस्य त्रयः स्कन्घाः।

त्रिस्तन = न० त्रयःस्तना दोह्यायत्र। त्रहसाध्ये यज्ञे प्रथमायामुपसदि दोह्यत्रिस्तनरूपे १ व्रतभेदे “त्रिस्तनं प्रथमायां दोहयति” कात्या० श्रौ० ८। २। १ त्रयःस्तना अस्या ङीष्। स्तनत्रययुक्ते २ राक्षसीभेदे स्त्री “त्रिस्तनीमेकपादाञ्च त्रिजटामेकलोचनाम्” भा० व० २७९ अ०।

त्रिस्तावा = स्त्री त्रिगुणिता तावती वेदिः। “द्विस्त्रावा त्रिस्त्रावा वेदिः” पा० अच् समा० टिलोपः समासश्च निपात्यते। प्रकृतौ यावती वेदिः ततस्त्रिगुणेऽश्वमेधाद्यङ्गे वेदिभेदे। वेदिभिन्ने तु त्रिस्तावती रज्ज्वुः” इत्येव सि० कौ०।

त्रिस्थली = स्त्री त्रयाणां गयाकाशीप्रयागरूपस्थलानां समाहारद्वि०। काशीगयाप्रयागरूपस्थलत्रिके। तदधिकृत्यैव त्रिस्थलीसेतुनामा ग्रन्थः अनन्बभट्टेन कृतः।

त्रिस्थान = त्रि० त्रीणि स्थानान्यस्य। १ स्वर्गमर्त्यपातालस्थे परमेश्वरे २ जाग्रदाद्यवस्थात्रयसाक्षिणि जीवे च।

त्रिस्रोतस् = स्त्री त्रिषु लोकेषु स्रोतो यस्याः। गङ्गायाम् “त्रिस्रोतसः कान्तिमतीत्य तस्थौ” कुमा०। “कृताभिषेकैर्दिव्यायां त्रिस्रोतसि च सप्तभिः” रघुः।

त्रिस्रोतसी = स्त्री त्रीणि स्रोतांसि सन्त्यस्याम् अच् गौरा० ङीष्। स्रोतस्त्रययुक्ते नदीभेदे “तथा समुद्राश्चत्वारः। नदी भागीरथी च सा” इत्युपक्रमे “लघन्ती गोमती चैव सन्ध्या त्रिस्रोतसी तथा” भा० स० ९ अ०। वरुणसभास्थतीर्थभूतनद्यादिकथने।

त्रिस्पृशा = स्त्री त्रीणि चान्द्रदिनानि एकस्मिन् सावने दिने स्पृशति स्पृश–क। एकादशीभेदे “यदा पूर्बदिने दशमी परदिने चैकादशी स्वल्पा ततो द्वादशी रात्रिशेषे त्रयोदशी सा चैकादशी त्रिस्पृशा” रघु० “एकादशी द्वादशी च रात्रिशेषे त्रयोदशी। तत्र क्रतुशतं पुण्यं त्रयोदश्यान्तु पारयेत्” एका० त० धृत वचनम्। “एकादशी द्वादशी च रात्रिशेषे त्रयोदशी। त्रिस्पृशा नाम सा ज्ञेया ब्रह्महत्यां व्यपोहति” संवर्त्तवचनम्। अष्टसु महाद्वादशीषु वासरत्रयस्पर्शिन्यां ३ द्वादश्याञ्च द्वादशीशब्दे दृश्यम्।

त्रिस्नान = न० त्रिषु कालेषु स्नानमत्र। त्रिकालस्नानाङ्गे व्रतभेदे। तच्च वानप्रस्थाङ्गं प्रायश्चित्ताङ्गञ्च। तत्राद्यं कामन्दकीनीतिशास्त्रे उक्तं यथा “वनवासः पयोमूलनीवारफलवृत्तिता। प्रतिग्रहनिवृत्तिश्च त्रिस्नानं व्रतचारिता। देवातिथीनां पूजा च धर्मोऽयं वनवासिनः” द्वितीयन्तु त्रिषवणशब्दे दर्शितम्।

त्रिहल्य = न० त्रिः हलेन कृष्टं क्षेत्रम्। त्रिवारं हलेन कृष्टेक्षेत्रे अमरः

त्रिहायण = त्रि० त्रयो हायना वयोऽस्य णत्वम्। त्रिवर्षे गवादौ “अथ संस्मारणं कृत्वा लक्षयित्वा त्रिहायणान्” भा० व० २२१ अ०। स्त्रियान्तु ङीप्। “त्रिहायणी त्रिवर्षा गौः” अमरः। “वत्सतर्यश्च त्रिहायण्योऽप्रीताः पञ्चवर्णा राजीवपृश्नयो नवनीतपृश्नयोऽरुणाः पिशङ्ग्यः सारङ्ग्यः” कात्या० श्रौ० २२। ९। २३। २ द्रोपद्यां ब्रह्मवै० “कृते युगे वेदवती तेतायां जनकात्मजा। द्वापरे द्रौपदी च्छाया तेन कृष्णा त्रिहायणी” जन्मखण्डम्।

त्रीषु = त्रि० त्रय इषवः परिमाणमस्य कन् तस्य लुक्। १ इषुत्रयमिते स्थाने। त्रयः इषवो यत्र कप्। २ वाणत्रययुक्ते धनुषि न०। “त्रीषुकं धनुर्दक्षिणा” कात्या० श्रौ० २५। ४। ४७। अस्यां त्रिहविष्कायामिष्टौ त्रिभिरिषुभिरुपेतं धनुर्दक्षिणेत्यर्थः” सं० व्याख्या।

त्रीष्टक = पु० त्रिस्तः ऋगादिरूपा इष्टका यस्य। अग्निभेदे “स एष त्रीष्टको अग्निः। ऋगेका यजुरेका सामैका तद्यां कां चानर्चोपदधाति रुक्म एव तस्या आयतनमथ यां यजुषा पुरुष एव तस्या आयतनमथ यां साम्ना पुष्करपर्णमेव तस्या आयतनमेवं त्रीष्टकम्” शत० ब्रा० १०। ५। २। २१।

त्रुट = छेदने वा दिवा० पक्षे तुदा० कु० पर० अक० सेट्। त्रुट्यति त्रुटति अत्रु(त्रो) टीत्। तुत्रोट। छेदश्चात्र अबयवद्विधाभाव मात्रम् “यावन्मे दन्ता न त्रुट्यन्ति” हितो० “त्रुटितं पयोधरतटे हारं पुनर्योजय” सा० द०। “त्रुटित इव मुक्तामणिसरः” उत्तर०।वि + विरुजीकरणे सक०। “कण्टकैरेना विरुजेयुः” कात्या० श्रौ० २३। ३। २२। “विरुजेयुः वित्रुट्येयुः” स० व्याख्या।

त्रुट = छेदने चुरा० आ० सक० सेट्। त्रोटयते अतुत्रुटत।

त्रुटि(टी) = स्त्री कुटा० त्रुट–इन् वा ङीप्। १ सूक्ष्मैलायां २ अल्पे ३ संशये ४ कालभेदे च अमरः स च “योऽक्ष्णोर्निमेषस्य खराम३०भागः स तत्परस्तच्छतभाग उक्ता। त्रुटिर्निमेषैर्धृति१८ भिश्च काष्ठा तत्त्रिंशता सद्गणकैः कलोक्ता” सि० शि० उक्तेः तत्परस्य शतभागकालरूपः। “क्षणद्वयात्मकः कालस्त्रुटिरिति”ऽभरतः तन्मूल्यं मृग्यम्। तदपेक्षया क्षणस्य भाग० अधिककालतोक्तेः तस्यामूर्त्तत्वात् क्षणस्य मूर्तत्वाच्च तथा हि “प्राणादिः कथितो मूर्त्तस्त्रुट्याद्योऽमूर्त्तसंज्ञकः” सू० सि० “त्रुटिराद्या यस्य तादृशः कालः एकप्राणान्तर्गतत्रुटितत्परादिकोऽमूर्त्तसंज्ञकः व्यवक्षारायोग्यत्वेनास्यामूर्त्तवम्। माग० ३। ११। ५, ६। अन्यथा मानमुक्तं यथा “अणू द्वौ परमाणुः स्यात् त्रसरेणुस्त्रयः स्मृतः। ज्वालार्करश्म्यवगतः खमेवानुपतन्नगात्। त्रसरेणुत्रयं भुङ्क्ते यः कालः सः त्रुटिः स्मृता। शतभागस्तु वेधः स्यात्तैस्त्रिभिस्तु लवः स्मृतः। निमेषस्त्रिलवो ज्ञेय आम्नातस्ते त्रयः क्षणः”। “मरुतः सह पर्जन्याः कलात्रुटिलवक्षणाः” हरिवं० १६८ अ०। “शुक्लस्त्वं बहुलस्त्वञ्च कला काष्ठा त्रुटिस्तथा” भा० आ० २५ अ०। “प्राणत्रुटित्रुट्यबयवाद्यकालस्य क्षेत्रस्य च वेत्ता” वृ० सं०२ अ०। २ कुमारानुचरमातृभेदे “केशयन्त्री त्रुटिर्नाम क्रोशना तु तडित्प्रभा” भा० ग० ४७० भातृगणोक्तौ। भावे इन्। ३ अवयवादिहीनतायाम्।

त्रुटिवीज = पु० त्रुटिरल्पं वीजमस्य। कचौ मूलभेदे शब्दमा०।

त्रुटिशस् = अव्य० त्रुटि + वीप्सार्थे शस्। त्रुटिस्त्रुटिरित्याद्यर्थे। “त्रुटिशोलवशश्चापि गण्यते कालनिश्चयः” भा० उ० ११८ अ०।

त्रुन्प(म्प) = बधे भ्वा० पर० सक० सेट्। त्रुम्पति अत्रुम्पीत्। नोपधत्वेक्विपि त्रुप् त्रु पौ मोपधत्वे त्रुन् त्रुम्पौ इति भेदः।

त्रुन्फ(म्फ) = बधे म्बा० पर० सक० सेट्। त्रुम्फति अत्रुम्फीत्। नीपधत्वे क्विपि त्रुप् त्रुफौ मोपधत्वे त्रुन् त्रुम्फौ इति भेदः।

त्रुप(फ) = बधे भ्वा० पर० सक० सेट्। त्रोप(फ)ति अत्रोपी(फी)त्। तुत्रोप (फ)

त्रेता = स्त्री त्रित्वमिता पृषो०। दक्षिणाग्निगार्हपत्याहवनीयात्मके समुदिते १ अग्नित्रये, सत्ययुगामन्तरवर्त्तिनि युगभेदे, द्यूतक्रीडासाधनस्याक्षस्य यस्मित् पार्श्वे त्रयोऽङ्कास्तस्य पार्श्वस्य उत्तानतया ३ पतने, द्यूतविशेषे वराटकानां मध्ये त्रयाणामुत्तानतया ४ पतने च “त्रेतथा हृतसर्वस्वः” इति मृच्छकटिका। अयशब्दे ३३४ पृ० दृश्यम्

“त्रेतायुगमानञ्च दिव्यमानेन ३००० वर्षाः आदौ सन्ध्या ३००। अन्ते सन्ध्यांशः ३०० मिलिताः ३६००। वर्षाः मानुषमानेन ३६० गुणिता १२९६००० वर्षाः। यथाह मनुः “चत्वार्य्यहुः सहस्राणि वर्षाणान्तु कृतं युगम्। तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः। इतरेषु ससन्ध्येषु ससन्ध्यांशेषु च त्रिषु। एकापायेन वर्तन्ते सहस्राणि शतानि च”। सि० शि० “खखाभ्रदन्तसागरैर्युगाग्नियुग्मभूगुणैः। क्रमेण सूर्य्यवत्सरैः कृतादयोयुगाङ्घ्रयः। स्वसन्ध्यकातदंशकैर्निजार्क१२ भागसम्मितैः। युताश्च तद्युता युगं रदाब्धयोऽयुताहताः”। खखाभ्रदन्तसागरैः ४३२००० अङ्कैस्त्रिभिर्गुणितैस्तन्मिता वर्षा त्रेतामानं तत्रापि त्रेतादौ सन्ध्यामानं १०८००० त्रेतामानं १०८०००० वर्षाः। त्रेतान्ते सन्ध्यांशमानम् १०८०००। मिलित्वा १२९६००० वर्षाः त्रेतामानम्। स्पष्टमुक्तं ब्रह्मवै० प्र० ख० “द्विषट्लक्षपरिमितं षण्णवतिसहस्रकम्। त्रेतायुगं परिमितं कालविद्भिः प्रकीर्तितम्”। “दण्डनीत्यां यदा राजा त्रीनंशाननुवर्त्तते। चतुर्थमंशमुत्सृज्य तदा त्रेता प्रवर्त्तते। अशुभस्य चतुर्थांशस्त्रीनंशाननुवर्त्तते। कृष्टपच्यैव पृथिवी भवन्त्योषधयस्तथा”। “राजा कृतयुगसृष्टा त्रेताया द्वापरस्य च। युगस्य च चतुर्थस्य राजा भवति कारणम्। कृतस्य कारणाद्राजा स्वर्गमत्यन्तमश्नुते। त्रेतायाः कारणाद्राजा स्वर्गं नात्यन्तमश्रुते” भा० शा० ६९ अ०। तद्धर्माश्च “त्रेतायुगे समायाते धर्मः पादोनतां गतः। अल्पक्लेशान्विता लोकाः केचित्, केचिद्दयाशयाः। विष्णुध्यागरता लोका यज्ञदानपरायणाः। वर्णाश्रमाचाररताः सुखिनः सुस्थचेतसः। क्षत्रा भूमिस्पृशः शूद्राः सर्वे ब्राह्मणसेविनः। ब्राह्मणाश्च महात्मानो वेदवेदाङ्गपारगाः। प्रतिग्रहनिवृत्ताश्च सत्यसन्धा जितेन्द्रियाः। तपोव्रतपरा नित्यं दातारो विष्णुसेविनः। कालवर्षीं तडित्वांश्च स्त्रियः सर्वाः पतिव्रताः। वसुन्धरा च शस्याढ्या पुत्राश्च पितृसेविनः” इति पाद्ने क्रियायोगसारोक्ताः। “अत्राहाद्या भगवती जीवानां निष्कृतिं यथा। कृते व्यतीते त्रेतायां दृष्ट्वा धर्मव्यतिक्रमम्। वेदोक्तकर्मभिर्मर्त्या न शक्ताः स्वेष्टसाधने। बहुक्लेशकरं कर्म बैदिकं भूरिसाधनम्। कर्तुं न योग्यामनुजाश्चिन्ताव्याकुलमानसाः। त्यक्तुं कर्तुं न चार्हन्ति सदा कातरचेतसः। वेदार्थयुक्तशास्त्राणि स्मृतिरूपाणि भूतले। तदा त्वं प्रकटीकृत्य तपःस्वाध्यायदुर्बलान्। लोकानतारयः पापात् दुःखशोकमयप्रदात्। त्वां विना कोऽस्ति जीवानां घोरसंसारसागरे। भर्त्ता पाता समुद्धर्त्ता पितृवत् प्रियकृत् प्रभुः” इति श्रीमहानिर्वाणतन्त्रे जीवोद्धारणहेतये सदाशिवं प्रति जगन्मातुः वाक्यम्। तस्मिन् युगे पुरुषायुषकालश्च त्रिशतवर्षो मनुनोक्तो यथा “चतुष्पात् सकलो धर्मः सत्यञ्चैव कृते युगे। नाधर्मेनागमः कश्चिन्मनुष्यान् प्रतिवर्त्तते। इतरेष्वागमाद्धर्मः पादशस्त्ववरोपितः। चौरिकानृपमायाभिर्धर्मश्चापैति पादशः। अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः। कृते त्रेतादिषु ह्येषामायुर्ह्रसति पादशः। वेदोक्तमायुर्मर्त्यानामाशिषश्चैव कर्मणाम्। फलन्त्यनुयुगं लोके प्रभावश्च शरीरिणाम्”।

पुराणान्तरे अयुतवर्षास्तत्काल उक्तः अतएव “दशवर्षसहस्राणि रामो राज्यमकारयत्” इत्यादि सङ्गच्छते। तपसा आयुःकालाधिक्यमिति न मनूक्तिविरोधः इति तु न्याय्यम्। “धर्माद्यो हि यथा त्रेता वह्निस्त्रेता तथैव च। तथैव पुत्रपौत्राणां स्वर्गस्त्रेता किलाक्षयः” भा० आश्व० ९० अ०। अग्नित्रयस्य त्रेतानामनिरुक्तिर्यथा “त्रिधा प्रणीतो ज्वलनो मुनिभिर्वेदपारगैः। अतस्त्रेतात्वमा- पन्नो यदेकस्त्रिविघः कृतः” हरिवंशे २१३ अध्याये।

त्रेताय = पु० त्रेतानामकोऽयः। द्यूतभेदे कृतायशब्दे दृश्यम्।

त्रेतिनी = स्त्री त्रेता अस्त्यत्र इनि ङीप्। त्रेताग्निसाध्यक्रियायाम् “ऊर्द्धा यत्ते त्रेतिनी भूत्” ऋ० १०। १०५। ९।

त्रेधा = अव्य० त्रि + प्रकारे एधाच्। त्रिप्रकारे “इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम्” ऋ० १। २२। १७ “एकस्त्रेधा विहितो जातवेदाः” अथ० १८। ४। ११। “तुभ्यं त्रेधा स्थितात्मने” कुमा०।

त्रै = प्रालने भ्वा० आ० सक० अनिट्। त्रायते अत्रास्त। त्राणः त्रातः। “मृत्योरात्मानं त्रायते” शत० ब्रा० २। २। ४। ७। “गायन्तं त्रायते यस्मात् गायत्त्री तेन कीर्तिता” स्मृतिः “पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुतः” मनुः। “ज्ञातेयं कुरु सौमित्रे! भयात् त्रायस्व राघवम्” भट्टिः।

त्रैंश = न० त्रिंशदध्यायाः परिमाणमस्य ब्राह्मणस्य ड। त्रिंशदध्यायपरिमिते ब्राह्मणभेदे।

त्रैककुद = न० त्रिककुद् नाम पर्वतः तत्र भवः अण्। सौराञ्जने। “वृत्रस्येत्यक्ष्यावनक्तित्रैककुदाञ्जनेनाभावेऽन्यद्द्विर्दक्षिणं त्रिरुत्तरं पराक्सकृत्सकृत्मन्त्रः शरेषीकया साग्रया” कात्या० श्रौ० ७। २। ३४। “अध्वर्य्युः साग्रया शरेषीकया शरस्याग्रशलाकया त्रैककुदाञ्जनेन सौवीराञ्जनेन यजमानस्य अक्ष्यौ चक्षुषी अक्षिणी पराक् अनावृत्तमनक्तिनेतश्चामुतश्च तत्र दक्षिणं चक्षुर्द्विरनक्ति उत्तरं त्रिवारम्। तत्राञ्जनमन्त्रः सकृत् सकृत्पठनीयः। त्रिककुत् पर्वतस्तत्र भवमञ्जनं त्रैककुदं सौवीरमिति यत् प्रसिद्धम्। त्रैककुदाभावेऽन्यत् लीकपसिद्धं यत् कज्जलादि। आपस्तम्बः “वृत्रस्य कनीनिकासीति त्रैककुदेनाञ्जनेनाङ्क्ते यटि त्रैककुदं नाधिगच्छेद्येनैव केनाञ्जनेनाञ्जीतेति” कर्कः। “त्रैककुटं भवति। यत्र वा इन्द्रो वृत्रमहंस्तस्य यदक्ष्यासीत्तं गिरिं त्रिककुदमकरोत्तद्यद्त्रैककुदं भवति चक्षुष्येवैतच्चक्षुर्दधाति तस्मात्त्रैककुदं भवति यदि त्रैककुदं न विन्देदप्यत्रैककुदमेव स्वात् समानी ह्येवाञ्जनस्य बन्धता” शत० ब्रा० ३। १। ३। १२।

त्रैकालिक = त्रि० त्रिकाले भवः ठञ्। १ भूतभविष्यद्वर्त्तमानकालषर्तिनि “त्रैकालिकमिदं ज्ञानं प्रादुर्भूतं तथेपमितम्” भा० शा० ३४२ अ०। २ त्रिसन्ध्यव्यापके च।

त्रैकाल्य = न० त्रिकाल + स्वार्थे ष्यञ्। भूतादिषु त्रिषु कालेषु। “क्षणालवाश्च काष्ठाश्च कलास्त्रैकाल्यमेव च” हरिवं- ४१ अ०। “त्रैकाल्यसन्ध्याकरणात् तत् सर्वं विप्रणश्यति” याज्ञ०।

त्रैगर्त्तक = त्रि० त्रिगर्तस्य देशभेदस्यादूरदेशादि चतुरर्थ्यां अरीहणा० वुञ्। त्रिगर्त्तदेशस्यादूरदेशादौ।

त्रैगुणिक = त्रि० त्रिगुणार्थं द्रव्यमेकगुणं प्रयच्छति। “तत् “प्रयच्छति गर्ह्यम्” पा० ठक्। त्रिगुणमादातुमेकगुणद्रव्यप्रयोक्तरि वार्द्धुषिकभेदे।

त्रैगुण्य = न० त्रिगुणानां भावः कर्म वा स्वार्थे ष्यञ् तेन निर्वृत्तं वा। १ सत्वादिगुणत्रये २ तद्भावे ३ तत्साध्ये संसारे च “त्रैगुण्यविषया बेदानिस्त्रैगुण्योभवार्जुन!” गीता। “अविवेक्यादेः सिद्धिस्त्रैगुण्यात्तद्विपर्य्ययेऽभावात्” “पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्य्ययाच्चैव” सा० का०।

त्रैत = पु० त्रीन् वत्सान् तनोति युगपत् तन–बा० ड त्रितो गर्भभेदस्तत्र भवः अण्। युगपज्जन्माधायकगर्भजाते पशौ। “रूपेणैवावरुद्धे सौमापौष्णं त्रैतमालभेत पशुकामो द्वौ वा अजायै स्तनौ नानैव द्वावभिजायेते ऊर्जं पुष्टिं तृतीयः” तै० स० २। १। १। ६ “त्रयाणां वत्सानां युगपज्जातानां तः समुदायस्त्रितः तत्र भवस्त्रैतः तेषामन्यतमः इत्यर्थः। त्रयाणामुत्पत्तौ प्रयोजनमेवमुन्नेयम् अजाया स्तावद्द्वौ स्तनौ प्रसिद्धौ तौ नानैव पृथगेव पातुं द्वौ वत्सौ जायेते मातृरूपायामजायां येयमूर्क् पयःसारं या च शरीरगता पुष्टिस्तदुभयं ख्यापयितुं तृतीयो वत्स उत्पन्नः द्वावेव हि सर्वत्र जायेते तृतीयस्तु क्वचिदेव तथा सति यस्यां तृतीयो जातस्तस्याः शरीरे वीर्य्याधिक्यं पुष्ट्याधिक्यञ्चास्तीति लक्षयितुं शक्यते” भा० अत्र भाष्ये समुदेत्यस्मिन् इत्याधारे अग्वि गर्भपरतेति बोध्यम्।

त्रैतन = पु० अत्यन्तनिर्घृणे टासभेदे। “शिरो यदस्य त्रैतनो वितक्षत् स्वयं दासः” ऋ० १। १५८८। ५। “त्रैतन एतन्नामको दासोऽत्यन्तनिर्घृणः” भा०।

त्रैदशिक = न० त्रिदशा देवता अस्य ठञ्। दैवे अङ्गुल्यग्ररूपे तीर्थे। “ब्राह्मेण विप्रस्तीर्थन नित्यकालमुपस्पृशेत्। कायत्रैदशिकाभ्यां वा न पित्रेण कटाचन” मनुः।

त्रैधस् = अव्य० त्रि + प्रकारे धमुञ्। त्रिप्रकारे “व्रताशक्तौ वा त्रैधं तण्डुलान् विभज्य” कात्या० श्रौ० २५। ४। ४० “सर्वमेव हठैनैके दैवेनैके वदन्त्युत। पुंसः प्रयत्रजं किञ्चित्त्रेधमेतन्निरुच्यते” भा० व० ३२ अ०।

त्रैधर्म्म्य = न० त्रयाणां वेदानां धर्म्मान् हौत्राध्वर्य्यवौद्गात्रान- र्हति ष्यञ्। ऋगादिवेदसम्बन्धिहौत्राध्वर्य्यवौद्गात्रार्हे ज्योतिष्टोमादौ काम्यकर्म्मणि।

त्रैधातवी = स्त्री उदवसानीयाख्ये इष्टिभेदे “तस्य योनिराशय आस। तमनु परामृश्य संलुप्याच्छिनत् सैषेष्टिरभवत् तद्यदेतस्मिन्नाशये त्रिधातुरिवैषाविद्याशेत तस्मात्त्रैधातवी नाम” शत० ब्रा० ५। ५। ५। ६। “सर्वा इष्टीरपि दर्विहोमान्यो राजसूयेन यजते देनसृष्टो वा एषेष्टिर्यत्त्रैधातवी” ११। “त्रैधातब्युदवसानीयासावेव बन्घुः” शत० ब्रा० १३। ६। २। १७। “त्रैघातव्युदवसानीया सर्वत्र” कात्या० श्रौ० १३। ४। ८।

त्रैधातवीय = न० त्रिधातवी + गहा० छ। इष्टिभेदाङ्गकर्मभेदे “सर्वो वा एष यज्ञो यत्त्रैधातवीयम्” तैत्ति० स० २। ४। ११। २।

त्रैधातुक = त्रि० त्रिभिः धातुभिः स्वर्णरौप्यताम्रैः निर्वृत्तः ठञ्। स्वर्णादिधातुत्रयनिष्पाद्ये।

त्रैनिष्किक = त्रि० त्रिभिः निष्केः क्रीतम् ठक्। त्रिनिष्कक्रीते। तस्य वा लुक्। त्रिनिष्क अप्यत्र।

त्रैपारायणिक = त्रि० त्रिः पारायणमावर्तयति ठञ्। त्रिवारं बेदपारायणकारके।

त्रैपुर = पु० त्रिपुर + स्वार्थे अण्। १ त्रिपुरदेशे हेमच०। त्रिपुरोऽभिजनोऽस्य तस्य राजा वा अण्। २ पित्रादिक्रमेण तद्वासिनि ३ त्रिपुराधीशे च बहुषु अणो लुक्। “मेलकैस्त्रैपुरैश्चैव चिच्छलैश्च समन्वितः” भा० भी० ८८ अ०। आर्षत्वात् बहुषु अणो न लुक्। त्रिपुरं पुरत्रयमस्त्यस्य अण्। त्रिपुरस्वामिषु ४ असुरभेदेषु त्रिपुरशब्दे दृश्यम्। “येनोद्धृतास्त्रैपुरा मायिनो वै दग्धाघोरेण वितथान्ताः शरेण” हरिवं० १३१ अ०।

त्रैपुरुष = त्रि० त्रीन् पुरुषान् व्याप्नोति अण् आर्षे पूर्वपदवृद्धिः। त्रिपुरुषव्यापके। “ब्राह्मणानिन्दिता राजन्! हन्युस्त्रैपुरुषं कुलम्” भा० आनु० ९० अ०। लोके तु उत्तरपदवृद्धिः त्रिपौरुष इत्येव।

त्रैफल = न० त्रिफलानां तदाद्यद्रव्याणामिदम् अण्। चक्रदत्तोक्ते वृतभेदे। यथा “त्रिफलां त्र्यूषणं द्राक्षां मधुकं कटुरोहिणीम्। प्रपौण्डरीकं सूक्ष्मैलां विडङ्गं नागकेसरम्। नीलोत्पलं शारिवे द्वे चन्दनं रजनीद्वयम्। कार्षिकं पयसा तुल्यं त्रिगुणं त्रिफलारसम्। घृतप्रस्थं पचेदेतत् सर्वनेत्ररुजापहम्। तिमिरं दोषमास्रावं कामलां काचमर्बुदम्। वीसर्पं प्रदरं कण्डूं रक्तं श्वयथुमेव च। खालित्मं पलित- ञ्चैव केशानां पतनन्तथा। विषमज्वरमर्माणि शुक्रञ्चाशु व्यपोहति। अन्ये च बहवो रोगा नेत्रजा ये च वर्त्मजाः। तान् सर्वान् नाशयत्याशु भास्करस्तिमिरं यथा। न चैवास्मात् परं किञ्चिदृषिभिः काश्यपादिभिः। दृष्टिप्रसादनं दृष्टं यथा स्यात् त्रैफलं घृतम्”।

त्रैबलि = पु० ऋषिभेदे “दामोष्णीषस्त्रैबलिश्च पर्णादो वरजानुकः। मौञ्जायनो वायुभक्षः पाराशर्य्यश्च सारिकः भा० स० ४ अ०।

त्रैमातुर = पु० तिसृणां मातृणामपत्यम् अण् मातुरुत्। तिसृणां कौशल्यकेकयीसुमित्राणां स्नेहभाजनत्वेन तदीयांशपायसभोजनेन जनिते लक्ष्मणे “त्रैमातुरः कृत्सृजितास्त्रशसत्रः” भट्टिः। “सहि सुमित्रया, स्वांशपिण्डद्वयप्रदानात्ताभ्याञ्च जनितः” जयम०। तत्कथा रामायणे दर्शिता यथा “पायसं प्रतिगृह्णीथाः पुत्रीयं त्विदमात्मनः। कौशल्यायै नरपतिः पायसार्द्धं ददौ तदा। अर्द्धादर्द्धं ददौ चापि सुमित्रायै नराधिपः। कैकेत्य्यै चावशिष्टार्द्धन्ददौ पुत्रार्थकारणात्। प्रददौ चावशिष्टार्द्धं पायसस्यामृतोपमम्। अनुचिन्त्य सुमित्रायै पुनरेव महामतिः। एवन्तासां ददौ राजा भार्य्याणां पायसं पृथक्। ताश्चैव पायसं प्राप्य नरेन्द्रस्योत्तमाः स्त्रियः। सम्मानं मेनिरे सर्वाः प्रहर्षो दितचेतसः। ततस्तु ताः प्राश्य तमुत्तमस्त्रियो महीपतेरुत्तमपायसं पृथक्। हुताशनादित्यसमानतेजसोऽचिरेण गर्भान् प्रतिपेदिरे तदा” आ० १६ स०।

त्रैमासिक = त्रि० त्रिमासं तृतीयमासं भूतः स्वसत्तया प्राप्तः “तमधीष्टो भूतो भावी” पा० ठञ् वृत्तौ त्रिशष्दस्य पूरणार्थत्वेन संख्यावाचकत्वाभावात् न द्विगुत्वं तेन “द्विगोर्लुगनपत्ये” पा० न लुक्। स्वसत्तया जन्मतस्तृतीयमासव्यापके त्रिमासवयस्के “तोकेन जीवहरणं यदुलूकिकायास्त्रैमासिकस्य च पदा शकटोऽपवृत्तः” भाग० २। ७२८। २ त्रिमामभवे च।

त्रैमास्य = न० त्रिमास + स्वार्थे ष्यञ्। त्रिमासे “अर्द्धमासमासत्रैमास्यषाण्मास्ये चैके” का० श्रौ० २०। ३। ६।

त्रैयम्बक = त्रि० त्रियम्बको देवता अस्य। “त्र्यम्बकदेवताके १ पशुभेदे। “पृषन्तस्त्रैयम्बकाः” यजु० ३४। १८। “विंशे यूपे त्रियम्बकदेवताकाः पृषन्तः” वेददी०। २ होमभेदे पु० “त्रैयम्बकान् बक्ष्यामि” इत्युपक्रमे कात्या० श्रौ० २। १०। १०। “निर्वपति रौद्रानित्यादिना ते होमाः दर्शिताः रुद्रदेवताके ३ धनुर्विद्याभेदे च। “वेदं षडङ्गं वेदाहमर्थविद्याञ्च मानवीम्। त्रैयम्बकमथेष्वस्त्रमस्त्राणि विविधानि च” भा० द्रो० १७ अ०। ४ रुद्रदेवताके बल्यादौ त्रि० “निशायां नैत्यिकं चेरुर्नैशं त्रैयम्बकं बलिम्” भा० द्रो० ७९ अ०।

त्रैयाहावक = त्रि० त्र्याहावे देशभेदे भवः धूमा० वुञ्। “न य्वाभ्यां पदान्ताभ्यां पूर्वं ताभ्यामैच्” पा० वृद्धिनिषधात् ऐच्। त्र्याहावदेशभवे।

त्रैराशिक = त्रि० त्रीन् राशीन् अधिकृत्य प्रवृत्तम् ठञ्। लीलावत्युक्ते राशित्रयाधिकारेण अनुपातरूपे गणितभेदे तत्प्रकारश्च क्रमव्यस्तभेदसहितो लीला० उक्तो यथा “त्रैराशिके करणसूत्रं वृत्तम्। प्रमाणमिच्छा च समानजाती आद्यन्तयोस्तः फलमन्यजाति। मध्ये, तदिच्छाहतमाद्यहृत् स्यादिच्छाफलं व्यस्तविधिर्विलोमे। उदाहरणम्। कुङ्कुमस्य सदलं पलद्वयं निष्कसप्तमलवैस्त्रिभिर्यदि। प्राप्यते सपदि मे बणिग्वर! ब्रूहि निष्कनवकेन तत्कियत्। न्यासः ३/७। ५ /२। ९/१। लब्धानि कुङ्कुमपलानि। ५२। कर्षौ। २। अपि च प्रकृष्टकर्पूरपलत्रिषष्ट्या चेल्लभ्यते निष्कचतुष्कयुक्तम्। शतं तदा द्वादशभिः सपादैः पलैः किमाचक्ष्व सखे! विचिन्त्य। न्यासः ६३ /१ १०४/१ ४९/४। इच्छागुणितम्फलम्। ५०९६/४। छेदभक्तम्। १२७४। आद्येन। ६३। हृतं लब्धा निष्काः। २०। शेषम्। १४। षोडशगुणितम्। २२४। आद्येन भक्तं जाताद्रम्माः। ३। एवं पणाः। ८। काकिण्यः। ३। वराटकाः। ११। भागाश्च १/९। पुनश्च। द्रम्मद्वयेन साष्टांशा शालितण्डुलखारिका। लभ्या चेत्पणसप्तत्या तत्किं सपदि कथ्यताम्। अत्र प्रमाणेच्छयोः सजातीयकरणार्थं द्रम्मद्वयस्य पणीकृतस्य न्यासः ३३/१। ९/८। ७०/१। लब्धे खार्य्यौ। २। द्रोणाः। ७। आढकाः। १। प्रस्थौ। २। इति क्रमत्रैराशिकम्। अथ व्यस्तं त्रैराशिकम्। इच्छावृद्धौ फले ह्रासो ह्रासे वृद्धिश्च जायते। व्यस्तं त्रैराशिकं तत्र ज्ञेयं गणितकोविदैः। यत्र इच्छावृद्धौ फले ह्रासः ह्रासे वा फले वृद्धिस्तत्र व्यस्तं त्रैराशिकं स्यात्। तद्यथा। जीवानां वयसोमौल्ये तोल्ये वर्णस्य हेमनि। भागहारे च राशीनां व्यस्तं त्रैराशिकं भवेत्। जीवययोमूल्ये उदाहरणम्। प्राप्नीति चेत् षोडशवत्सरा स्त्री द्वात्रिं- शतं विंशतिवत्सरा किम्। द्विधूर्वहो निष्कचतुष्कमुक्षा प्राप्नोति धूःषट्कवहस्तदा किम्। न्यासः। १६। ३२। २०। लब्धं २५/३/५। द्वितीयन्यासः। २। ४। ६। लब्धं १/१/३। वर्णीयसुवर्णतोल्ये उदाहरणम्। दशवर्णं सुवर्णं चेद्गद्यानकमबाप्यते। निष्केण तिथिवर्णन्तु तदा वद कियन्मितम्। न्यासः १०। १। १५। लब्धं २३/२/३। राशिभागहरणे उदाहरणम्। सप्ताढकेन मानेन राशौ शस्यस्य मापिते। यदि मानशतं जातं तदा पञ्चाढकेन किम्। न्यासः ७। १०००। ५। लब्धम् १४०।”

“अस्ति त्रैराशिकं वीजं पाटी च विमला मतिः। किमज्ञातं सुबुद्धीनामतो मन्दार्थमुच्यते” लीला०।

त्रैरूप्य = न० त्रिरूपस्य भावः ष्यञ्। त्रिधारूपे “चात् यत् तेन त्रैरूप्यम्” सि० कौ०।

त्रैलिङ्ग = न० त्रीणि सत्वरजस्तमांसि पुंस्त्रीक्लीवरूपाणि वा लिङ्गान्यस्य, तस्येदम् वा अण्। त्रिलिङ्गप्रधानकार्य्ये। “पुमांश्चैवाऽपुमांश्चैव त्रैलिङ्गं प्राकृतं स्मृतम्। न वाऽपुमान् पुमांश्चैव त्रैलिङ्गीत्यभिधीयते” भा० शा० ३०७ अ०।

त्रैलोक्य = न० त्रिलोक्येव स्वार्थे ष्यञ्। स्वर्गमर्त्यपाताललोके। “तपसैव प्रपश्यन्ति त्रैलोक्यं सचराचरम्” मनुः। “त्रैलोक्ये यानि रत्नानि साम्प्रतं भान्ति ते गृहे” देवीमा०। “प्रसूतिं चकमे तस्मिन् त्रैलोक्यप्रभवोऽपि यत्” रघुः। आर्षे तु क्वचित् स्वार्थे अण्। त्रैलोक तत्रार्थे। “तत् प्रेक्ष्य तादृशं रूपं त्रैलोकेनापि दुर्जयम्” भा० शा० २८२ अ०।

त्रैलोक्यमोहन = न० त्रैलोक्यं मोहयति मुह–णिच्–ल्यु। तन्त्रोक्ते ताराकवचभेदे। “तारापूजा श्रुता नाथ! विद्याश्च सकलास्ततः। साम्प्रतं श्रोतुमिच्छामि कवचं मन्त्रविग्रहम्। त्रैलोक्यमोहनं नाम सर्वापद्विनिवारकम्। पुरैव सूचितं नाथ! कृपया मे प्रकाशय” भैरव उवाच “देवदानवविद्याधृक्पूजिते! प्राणवल्लभे!। त्रैलोक्यमोंहनं नाम कवचं श्रूयतां वरम्”। इत्युपक्रम्य दर्शितम्।

त्रैलोक्यविजया = स्त्री त्रैलोक्यं विजयते सेवने स्वाधीनं करोति वि + जि–अच्। भङ्गायाम् (भाङ) शब्दच०।

त्रैवण = त्रि० त्रिवणस्य वनत्रयस्येदम् शिवा० अण् त्रिवणसम्बन्धिनि सोऽस्यास्तीति उत्करा०छ। त्रैवणीय तद्युक्ते त्रि०

त्रैवणि = स्त्री त्रिवणस्य ऋषेरपत्थम् इञ्। त्रिवणस्यर्षेरपत्ये। “त्रैवणेस्त्रैवणिः” शत० ब्रा० १४। ५। ५। २१।

त्रैवर्गिक = त्रि० त्रिवर्गाय हितं बा० ठञ्। १ धर्मार्थकाम- साधने कर्म्मादौ। “संस्थां विज्ञाय संन्यस्य कर्म्म त्रैवर्गिकञ्च यत्” भा० ग० २। ४। ५ स्त्रियां ङीप्। “सिद्धिस्त्रैवर्गिकी यतः” भाग० ३। १४। १५। त्रिवर्गे प्रसृतः ठञ्। २ त्रिवर्गरते। “त्रैवर्गिक्यास्ते पुरुषा विमुखा हरिमेधसः” भाग० ३। ३२। १४।

त्रैवर्ग्य = त्रि० त्रिवर्गे साधुः ष्यञ्। त्रिवर्गसाधने धनादौ “त्रैवर्ग्यार्थो यतो नित्यं कृतान्तभयसयुतः” भाग० ४। २। १३३।

त्रैवर्णिक = त्रि० त्रिषु वर्णेषु विहितः ठञ्। १ ब्राह्मणादित्रयरूपद्विजातिधर्म्मे। स्वार्थे ठञ्। २ द्विजातौ च “त्रैवर्णिकानामराजकेषु राष्ट्रेषु परराष्ट्रपरचक्रागमनादिजनिते स्त्रीसङ्गरादौ प्राप्ते” कुल्लू०। “त्रैवर्णिकानामधिकारः” कर्कः।

त्रैवर्षिक = त्रि० त्रिवर्षे भविष्यति ठञ्। “वर्षस्याभविष्यति” पा०नोत्तरपदवृद्धिः। त्रिवर्षे भविष्यति वस्तुनि “त्रैवर्षिकं तापश्चितं तस्य सौम्यं संवत्सरः” आश्व० श्रौ० १२। ५। १२। अभतिष्यति तु त्रैवार्षिक इत्येव।

त्रैवार्षिक = त्रि० त्रिवर्षे भूतो भवति वा ठञ् अभविष्यत्त्वात् उत्तरपदवृद्धिः। १ त्रिवर्षभूते २ तत्र भवति वा। “यस्य त्रैवार्षिकं भक्तं पर्य्याप्तं भृत्यवृत्तये” मनुः। “त्रैवार्षिकाधिकान्नोयः स तु सोमं पिबेत् द्विजः” याज्ञ०।

त्रैविक्रम = त्रिविक्रमस्येदम् अण्। १ त्रिविक्रमसम्बन्धिनि। “त्रैविक्रमं पादमिवेन्द्रशत्रुः” रघुः २ त्रिविक्रमावतारे च। “वर्द्धयस्व महाबाहो! पुरा त्रैविक्रमे यथा” हरिवं० ५६ अ०।

त्रैविद्य = पु० त्रिस्रो विद्याः समाहृताः ऋग्यजुःसामरूपास्त्रिविद्यं तदधीते वेद वा अण्। १ वेदत्रयाभिज्ञे। “त्रैविद्यो हेतुकस्तर्कीनैरुक्तो धर्म्मपाठकः। त्रयश्चाश्रमिणः पूर्व्वे परिषत् स्याद्दशावरा” व्यव० त० नारदः। “चत्वारो वेदधर्मज्ञाः पर्षद् त्रैविद्यमेव वा” “राजा कृत्वा पुरे स्थानं ब्राह्मणान्न्यस्य तत्र तु। त्रैविद्यं वृत्तिमद्ब्रूयात् स्वधर्मः पाल्यतामिति” याज्ञ०। तिसृणां विद्यानां समाहारः त्रिविद्यं स्वार्थे अण्। २ तिसृषु विद्यासु। “धर्मं भागवतं शुद्धं त्रैविद्यं च गुणाश्रयम्” भाग० ६। २। २४। ताश्च तिस्रो नानारूपाः “ऋचो यजूंषि सामानि त्रैविद्यं तत्रे तिष्ठति” सा० गृह्य० “स्वाध्यायेन व्रतैर्होमैस्त्रैविद्येनेज्यया सुतैः। महायज्ञैश्च यज्ञैश्च ब्राह्मोयं क्रियते तनुः” मनुः “कर्षकाणां कृषिर्वृत्तिः पण्यं विपणिजीविनाम्। गावोऽस्माकं परा वृत्तिरेतत्रैविद्यमुच्यते” हरिवं० ७३ अ० “त्रयोऽग्नयस्त्रयो वेदास्त्रेविद्यं कौस्तुभो मणिः” हरिवं० १६८ अ० “त्रयो लोकास्त्रयो वेदास्त्रेविद्यं पावकत्रयम्” मार्कण्डेयपु०।

त्रैवि(पि)ष्टप = पु० त्रिविष्टप्रे वसति अण्। देवे शब्दार्थचि०। “त्रैविष्टपानामपि दूरदर्शनम्” भाग० ११। ७।

त्रैविष्टपेय = पु० त्रिविष्टपे वसति बा० ढक्। देवे “गन्धर्वसिद्धासुरयक्षचारणत्रैपिष्टपेयादिषु नानुविन्दत” भाग० ८। ८। १३।

त्रैवृष्ण = पु० त्रिवृष्णस्यापत्यं बा० अण्। राजभेदे “त्रैवृष्णो अग्ने दशभिः सहस्रैर्वैश्वानर! त्र्यरुणश्चिकेत” ऋ०५। २७। १।

त्रैवेदिक = त्रि० त्रिषु वेदेषु तदध्ययनार्थं विहितः ठक्। वेदत्रयाध्ययनार्थे व्रतादौ। “षट्त्रिंशदाव्दिकं चर्य्यं गुरौ त्रैवेदिकं व्रतम्” मनुः।

त्रैशङ्कव = पु० त्रिशङ्कोरपत्यम् अण्। हरिश्चन्द्रे त्रिशङ्कुशब्दे दृश्यम्।

त्रैशोक = न० त्रिशोकेन ऋषिणा दृष्टं साम। “विश्वापृतना,” इत्यादिकायामृचि गेये ब्रह्मस्तोत्रके सामभेदे।

त्रैसानु = पु० तुर्वसुवंश्ये गोभानुसुते नृपभेदे “गोभानोस्तु सुतो राजा त्रैसानुरपराजितः। करन्धमस्तु त्रैसानोर्मरुत्तस्तस्य चात्मजः” हरिवं० ३२ अ०।

त्रैस्वर्य्य = न० त्रिस्वर + चतुर्व० स्वार्थे ष्यञ्। उदात्तानुदात्तस्वरितरूपस्वरत्रिके। तत्र यत्र यः स्वरः तत् उदात्तानुदात्तशब्दयोरुक्तं स्वरितशब्दे वक्ष्यते च तस्यापवादः एकश्रुतिशब्दे १४८४ पृ० उक्तः।

त्रैहायण = त्रि० त्रिहायणस्येदम् हायनान्तत्वात् अण्। १ त्रिवर्षसम्बन्धिनि। स्त्रियां ङीप्। भावे आण्। २ तद्भावे न०।

***