तृंहण = न० तृहि–भावे ल्युट्। हिंसने।

तृक्वन् = पु० स्तेने निघण्टुः रिक्वेत्यत्र पाठान्तरम् तृक्वा त्रिक्वेति वा तत्र पाठः तत्रार्थे।

तृक्ष = गतौ भ्वा० पर० सक० सेट्। तृक्षति अतृक्षीत् ततृक्ष।

तृक्ष = पु० तृक्ष–अच्। काश्यपे ऋषौ तस्यापत्यं गर्गा० यञ्। तार्क्ष्य गरुडे अरुणे विहगमात्रे च तार्क्ष्यशब्दे दृश्यम्

तृक्षाक = पु० तृक्ष–आकन्। ऋषिभेदे ततोऽपत्ये शिवा० अण्। तार्क्षाक तदपत्ये।

तृक्षि = पु० तृक्ष–इन्। त्रसदस्योः पुत्रे ऋषिभेदे। “येभिस्तृक्षिं वृषणा त्रासदस्यवम्” ऋ० ८। २२। ७। “त्रासदस्यवं त्रसदस्योः पुत्रं तृक्षिमेतन्नामकम्” भा०।

तृख = न० तृष–क पृषो०। जातीफले।

तृ(त्र्यृ)च = न० तिसॄणामृचां समाहारः तिस्र ऋचो यत्र वा अच्समा० वा सम्प्रसारणम्। १ समानदेवताकानां समानच्छन्दस्कानामृचां त्रये २ तद्युक्ते अनुवाकसूक्तादौ त्रि०। “मधुवाता तृचं जपेत्” हेमाद्रिश्राद्धकल्पः। “याओष- धोरिति तृचैर्वपत्युदपात्रवत्” कात्या० श्रौ० १७। ३। ८। सूक्रपरत्वे न० “गायत्रं तृचं दश त्रयीषु विद्यते” निरु० १२। ४०। वा संप्रसारणाभावे त्र्यृचमप्यत्र।

तृण = भक्षे तना० उभ० सक० सेट्। तृणोति तर्णोति तृणुतेतर्णुते। अतर्णीत् अतर्णिष्ट। उदित् तर्णित्वा–तृण्ट्वा।

तृण = न० तृह–नक् हलोपश्च। १ नडादौ, खटे (खड)। अमरः। “तृणेन वात्येव तयाऽनुगम्यते” नैष०। “लघुर्वहुतृणं नरः” माघः। तृणस्यायं शिवा० अण्। तार्ण तृणजन्ये वह्नौ पु० “तार्णातार्णोभयं नास्तीति” जगदीशः। तृणसम्पन्धिमात्रे त्रि०। घोषादि० उत्तरपदस्थे तृणशब्दे पूर्वपदमाद्युदात्तम्। ग्रामतृणमित्यादि। समूहार्ये पाशा० य। तृण्या तृण्समूहे स्त्री तत्र भवः। उत्करा० मत्वर्थे छ नडा० कुक् च। तृणकीय तृणभवे त्रि०। स्वल्पं तृणं कन्। तृणक स्वल्पतृणे “क्रीणीष्वेतास्तृणकेनापि राजन्!” भा० आ० ९३ अ०। स्वार्थे क। तत्रार्थे।

तृणकर्ण = पु० तृणमिव कर्णोऽस्य। ऋषिभेदे ततः शिवा० अपत्यादौ अण्। तार्णकर्ण तद्गोत्रापत्ये। यस्का० बहुषु अणो लुक्। तृणकर्णास्तद्गोत्रापत्येषु ब० व०।

तृणकाण्ड = न० तृणानां समूहः दूर्वा० काण्डच्। तृणसमूहे

तृणकुङ्कुम = न० तृणजातं कुङ्कुमम्। सुगन्धद्रव्यभेदे राजनि०। “तृणकुङ्कुमं कटुष्णं कफपित्तविनाशनम्। वातशोकपामकण्डूकुष्ठामदोषनाशनम्। परमं भास्वरं तत्तु भिषग्भिः परिकीर्त्तितम्” राजनि० तद्गुणा उक्ताः।

तृणकुटी = स्त्री तृणाच्छादिता कुटी शा० त०! तृणाच्छादिते गृहे त्रिका०। तृणकुटीरादयोऽप्यत्र (कुडेघर)।

तृणकूर्म्म = पु० तृणमयः कूर्म्मः। तूम्ब्यां शब्दमा०।

तृणकेतु = पु० तृणेषु केतुरिव श्रेष्ठत्वात् असारत्वाद् बा। १ वंशवृक्षे, २ तालवृक्षे, तृणद्रुमतृणध्वजावप्यत्र। राजनि०। स्वार्थे क। तत्रार्थे।

तृणगण्ड = पु० तृणमिव गण्डोऽस्य। उच्चिङ्गटे (उच्चिङडा) कीटभेदे मेदि०।

तृणगोधा = स्त्री तृणमिव गोधा। १ गोधाकृकलासे मेदि० २ तृणजलौकायाञ्च।

तृणगौर = न० तृणमिव गौरं पीतम्। तृणकुङ्कुमे राजनि०।

तृणग्रन्थि = स्त्री तृणमिव ग्रन्थिरस्य। स्वर्णजीवन्त्याम् राज०

तृणग्राहिन् = पु० तृणं गृह्लाति ग्रह–णिनि ६ त०। नीलमणौ राजनि०।

तृणचर = पु० तृणेषु चरति चर–अच्। १ गोमेदमणौ २ तृणचारिमात्रे त्रि०।

तृणजम्भन् = त्रि० तृणं जम्भो भक्ष्यमस्य तृणमिव जम्भोदन्तोऽस्य “जम्भा सुहरित तृणसोमेभ्यः” पा० कृतसमासान्तः नि०। तृणभक्षके तृणतुल्यदन्तयुक्ते च। शब्दकल्पद्रुमे अदन्तोक्तिः प्रामादिकी पा० सू० नान्ततयैव निपातनात्।

तृणजलायूका = स्त्री० तृणाकारा तृणजाता वा जलायूका जलौकाभेदे। “तद्यथा तृणजलायूका तृणस्यान्तं गत्वात्मानमुपसंहरत्येवमेवायं पुरुष इदं शरीरं निहत्याविद्यां गमयित्वात्मानमुपसंहरति” शत० व्रा० १४। ७२। ४। तृणजलूकादयोऽप्यत्र स्त्री “यथा तृणजलूकेयं नापयात्यपयाति च” भाग० ४। २९। ७६।

तृणजलीकान्याय = तृणजलौकायाः यथा अपरदेशसंयोगानन्तरं पूर्धदेशवियोगस्तत्तुल्ये जीवस्यापरदेहसंयोगेन पूर्वदेहपरित्यागरूपे न्याये। स च नैयायिकानां तृणजलयूकाशब्दे दर्शितश्रुत्या कल्पितः। तदेतन्मतं शा० भा० आशङ्क्य तन्मूलश्रुतेरन्यार्थत्वं प्रदर्श्यदुषयित्वा छा० उ० पञ्चाग्निविद्युक्तोश्रुतेः अन्यविध एव संसरणप्रकार उक्तः। यथा “नन्वन्या श्रुतिः तृणजलौकावत् पूर्वदेहं न मुञ्चति यावन्न देहान्तरमाक्रमतीति दर्शयति। इति। तद्यथा तृणजलायूकेति, (तृणजलायूकाशब्दे दर्शिता) तत्राप्यप्परिवेष्टितस्यैव जीवस्य कर्मोपस्थापितप्रतिपत्तव्यदेहविषयभावनादीर्घीभावमात्रं तृणजलूकयोपमोयत इत्यविरोधः। एवं श्रुत्युक्ते देहान्तरप्रतिपत्तिप्रकारे सति याः पुरुषमतिप्रभवाः कल्पनाः” इत्युपक्रमे “ताः सर्वा एवानादर्तव्याः श्रुतिविरोधात्”। “नन्वेतद्देहं त्यक्त्वाऽद्भिः सहगतस्य पश्चाद्देहान्तरप्राप्तिरित्ययुक्तम्। यथा तृणजलायूका तृणान्तरं गृहीत्वा पूर्वतृणं त्यजति तथा जीवी देहान्तरं गृहीत्वा पूर्वदेहं त्यजतीति श्रुतिविरोधादिति शङ्कते नन्वेति। इहैव कर्म्मायत्तभाविदेहं देहोऽहमित्यादिभावनया गृहीत्वा पूर्वदेहं त्यजतीति श्रुत्यर्थः। अतो न विरोधः, इति समाधत्ते, तत्रापीति भावनाया दीर्घभावो भाविदेहविषयत्वम्। घटाकाशवदुपहितो जीवः सूक्ष्मोपाधिगत्या लोकान्तरं गच्छतीति पञ्चाग्निश्रुत्युक्तः प्रकारस्तद्विरोधादन्याः कल्पनाः अनादर्तव्या इत्यन्वयः” रत्नप्र०।

तृणजाति = स्त्री तृणमेव जातिः। उलपादौ (खड)।

तृणज्योतिस् = न० तृणेषु मध्ये ज्योतिः ज्योतिष्मतः। रात्रौ प्रकाशवत्यां ज्योतिष्मत्यां लतायाम् शब्दार्थचि०।

तृणता = स्त्री तृणमिव तायते ताय–क्विप्। १ धनुषि तृणस्य भावः तल्। २ तृणत्वे च मेदि०।

तृणद्रुम = पु० तृणमिव द्रुमः असारत्वात्। १ नारिकेले, २ ताले, ३ गुवाके, ४ ताल्यां, ५ केतक्यां, ६ खर्जूरे, ७ हिन्ताले, ८ खर्जूर्य्याञ्च। “फलमुद्वेगमेते च हिन्तालसहितास्त्रयः (तालनारिकेलगुवाकाः) खर्जूरःकेतकी ताली खर्जूरी च तृणद्रुमाः” अमरः।

तृणधान्य = न० तृणमिव धान्यं अकृष्टोत्पन्नत्वात् शाक० त०। १ नीवारे, अमरः २ श्यामाकादौ च।

तृणध्वज = पु० तृणेषु ध्वज इव। १ तालवृक्षे २ वंशवृक्षे च अमरः

तृणनिम्ब = पु० तृणाकारः निम्बः। नेपालनिम्बे किराततिक्ते (चिराता) राजनि०।

तृणप = पु० तृणं पाति–पा क। गन्धर्वभेदे। “युगपस्तृणपः कार्ष्णिर्नन्दिश्चित्ररथस्तथा” भा० आ० १२३ अ०। गन्धर्वोक्तौ।

तृणपञ्चमूल = न० तृणरूपाणां पञ्चानां मूलम्। कशेरुशररामवाणकर्कटकात्मके पञ्चमूले वैद्यकम्।

तृणपत्रिका = स्त्री तृणस्येव पत्रमस्त्यस्याः ठन्। इक्षुदर्भायां राजनि०।

तृणपत्री = स्त्री तृणमिव पत्रमस्याः गौरा० ङीष्। गुण्डाशिन्यां राजनि०।

तृणपदी = स्त्री तृणस्येव पादोऽस्याः अन्त्यलोपः कुम्भप० ङीषि पद्भावः। तृणतुल्यमूलयुक्तायां लतायाम्।

तृणपीड = न० तृणस्येव पीडा यत्र। युद्धभेदे “तृणपीडंयथाकामं पूर्णयोगं समुष्टिकम्। एवमादीनि युद्धानि प्रकुर्वन्तौ परस्परम्” भा० स० २२ अ०।

तृणपुष्प = न० तृणजातं पुष्पम्। तृणकुङ्गुमे १ गन्धद्रव्यभेदे राजनि०। तृणमिव पुष्पमस्याः ङीप्। २ सिन्दूरपुष्पीवृक्षे स्त्री राजनि०।

तृणपुली = स्त्री तृणनिर्मिता पुली। चञ्चायां (चा~च) हारा० स्वार्थे क। तृणपुलिकाऽप्यत्र स्त्री मेदि०।

तृणमणि = पु० तृणग्राहको मणिः शा० त०। तृणग्राहिणि मणिभेदे हारा०।

तृणमत्कुण = पु० प्रतिभुवि (जामिन्) त्रिका०।

तृणमय = त्रि० तृणस्य विकारः शरा० मयट्। तृणविकारे “कुर्य्यात् तृणमयं चापं शयीत मृगशायिकाम्” भा० आ० १४५ अ०। स्त्रियां ङीप्।

तृणराज = पु० तृणेषु राजते राज–अच् ६ त० टच् समा० वा। तालवृक्षे अमरः।

तृणवल्वजा = स्त्री तृणरूपा वल्वजा। वल्वजायां राजनि०।

तृणविन्दु = ऋषिभेदे “जयद्रथेन पापेन यत् कृष्णा क्लेशिता वने। यातेषु मृगयाञ्चैव तृणविन्दोरथाश्रमम्” भा० श० ६२ अ०। “तृणविन्दुप्रसादाच्च धौम्यस्य च महात्मनः” भा० वि० १ ३ अ०। “द्रौपदीमाश्रमेन्यस्य तृणविन्दोरनुज्ञया” भा० व० २६३ अ०। “चरतः किल दुश्चरं तपः तृणविन्दोः प्रतिशङ्कितः पुरा” रघुः।

तृणविन्दुसरः = ६ त०। तृणविन्दोः ऋषेः सरोरूपे तीर्थे तत्स्थानं भारते उक्तं यथा “मरुभूमेः शिरः स्थानं तृणविन्दुमरः प्रति” भा० द २५७ अ०।

तृणवीज = न० ६ त०। श्यामाके घान्ये रत्नमा०।

तृणशीत = न० तृणेषु शीतम्। १ कत्तृणे गन्धतृणे रत्नमा०। २ जलपिप्पल्यां स्त्री राजनि०।

तृणशून्य = न० १ तृणमिव शून्यं फलरहितम्। केतकीपुष्पे २ मल्लिकायाञ्चमेदि० तयोः फलरहितत्वात्तथात्वम्। तृणेन शून्यम्। ३ तृणरहिते त्रि०।

तृणशूली = स्त्री तृणं शूलमिव नीक्ष्णाग्रं यस्याः गौरा० ङीष्। लतानेदे। “सुरस्यास्तृणसूल्याश्च सिन्धुवारस्य यानि च” (पुष्पाणि) सुश्रु०।

तृणशोषक = पुंस्त्री तृणमपि शोषयति शुष–णिच–अण् उप० स०। राजिमत्सर्पभेदे। अहिशब्दे ५८१ पृष्ठे दृश्यम्

तृणशौण्डिका = स्त्री तृणेषु शौण्डिका। लघुकेतकीवृक्षे। पारस्करनिघण्टुः।

तृणषट्पद = पु० तृणमिव षट्पदः। (वोलता) वरोले हारा०।

तृणसारा = स्त्री तृणस्येव सारोऽस्याः। १ कदल्याम् हारा०। तस्याः सर्वथाऽसारत्वात्तथात्वम्।

तृणसिंह = पु० तृणे–सिंह इव। कुठारे शब्दार्थक०।

तृणसोमाङ्गिरस् = पु० दक्षिणदिक्स्थिते धर्मराजस्य ऋत्विग्भेदे “उन्मुचुः प्रमुचश्चैव स्वस्त्यात्रेयश्च वीर्य्यवान्। दृढव्य श्चोर्द्ध्वबाहुश्च तणसोमाङ्गिरास्तथा। मित्रावरुणयोः पुत्रस्तथाऽगस्त्यः प्रतापवान्। धर्म्मराजर्त्विजः सप्तदक्षिणां दिशमास्थिताः भा० अनु० १५० अ०।

तृणस्कन्द = तृणमिव स्कन्दति स्कन्द–अच्। तृणवच्चलनस्वभावे “तृणस्कन्दस्य नु विशः” ऋ० १। १७२। ३।

तृणहर्म्य = पुं न० तृणव्याप्तो हम्यः। तृणव्याप्ते हर्म्ये हारा०

तृणांह्रिप = पु० तृणरूपीऽंह्रिपः। मन्थानतृणे राजनि०।

तृणाग्नि = पु० तृणजातोऽग्निः शा० त०। तार्णे वह्नौ त्रिका०। “ब्राह्मणस्त्वनधीयानस्तृणाग्निरिव शाम्यति” मनुः।

तृणाञ्जन = पु० तृणमिवाञ्जनः। कृकलासे त्रिका०।

तृणाटवी = स्त्री तृणप्रचुराटवी। तृणमये वने हेम०।

तृणाट्य = न० तृणेषु आढ्यम्। पर्वतजाते तृणे राजनि०।

तृणादि = पु० चतुरर्थ्यां सप्रत्ययनिमित्ते शब्दगण स च गणः पा० ग० सू० उक्तो यथा “तृण, नड, मूल, वन, पर्ण वर्ण, वराण, विल, पुल, फल, अर्जुन, अर्ण, सुवर्ण, वल, चरण्ण, वसु,”।

तृणाम्ल = न० तृणेषु अम्लम्। तृणजलवणे राजनि०।

तृणारणिन्याय = पु० तृणस्यारणेश्च वह्निजनने यथा परस्परनिरपेक्षतया कारणत्वमेवं स्वातन्त्र्येण कारणतासूचके न्यायभेदे।

तृणावर्त्त = पु० तृणमावर्त्तयति भ्रमयति आ + वृत–णिच्–अण्। १ वात्यारूपे वातसमूहे (घूर्ण्णा) २ तद्वज्जनभ्रामके असुरभेदे पु०

तृणासृज् = न० तृणेषु असृगिव रक्तत्वात्। तृणकुङ्कुमे राजनि०

तृणेक्षु = पु० तृणमिक्षुरिव मधुररसत्त्वात्। वल्लजायां राजनि०।

तृणेन्द्र = पु० तृणमिन्द्र इव। तृणराजे ताले वृक्षे। “हलीबल इति ख्यातो भविष्यति धराधरः। त्रिशिरास्तस्य देवस्य शातकुम्भमयोद्रुमः। ध्वजस्तृणेन्द्री देवस्य भविष्यति रथाश्रितः” भा० आनु० १४७ अ०।

तृणोत्तम = पु० तृणेषु उत्तमः। उखर्वले तृणे राजनि०।

तृणोद्भव = पु० तृणेषूद्भवति उद् + भू–अच्। १ नीवारे धान्यभेदे राजनि०। २ तृणजाते वह्नौ च ३ तज्जातमात्रे त्रि०।

तृणोल्का = स्त्री तृणजाता उल्का। तृणजायामुल्कायाम् “न हि तापयितुं शक्यं सागराम्भस्तृणोल्कया” हितो० “तृणोल्कया ज्ञायते जातरूपं वृत्तेन भद्रो व्यवहारेण साधुः” भा० उ० ३४ अ०।

तृणौकस् = न० तृणनिर्मितमोकः। तृणनिर्मिते गृहे (खडेरघर)। हेमच०।

तृणौषध = न० तृणात्मकमौषधम्। एलवालुकाख्ये गन्धद्रव्ये शब्दच०।

तृण्या = स्त्री तृणानां समूहः पाशा० य। तृणसमूहे।

तृतीय = त्रि० त्रयाणां पूरणः त्रि + तीयत्रेः मंप्रसारणञ्च। त्रयाणां पूरणे। “वाग्दण्डं प्रथमं कुर्य्यात् धिगुपण्डं तदनन्तरम्। तृतीयं धनदण्ड तु वधदण्डमतःपरम्” “मातुः प्रथमतः पिण्डं निर्वपेत् पुत्रिकासुतः। द्वितीयन्तु पितुस्तस्यास्तृतीयं तत्पितुः पितुः” मनुः।

तृतीयक = पु० तृतीयेऽह्नि भवः रोगः कन्। तृतीयादनभवे ज्वरभेदे स च “दिनमेकमतिक्रस्य यो भवेत् स तृतीयकः” इत्युक्तलक्षणः। “वाताधिकत्वात् प्रवदन्ति तजज्ञास्ततीयकञ्चापि चतुथकञ्च” सुश्रुतः।

तृतीयप्रकृति = स्त्री तृतीया प्रकृतिः प्रकारः। स्त्रीपुरुषा- पेक्षया तृतीये प्रकारे नपु सके अमरः। तत्र तृतीयाप्रकृतिरिति व्यस्तं पदं समस्तत्वे तृतीयप्रकृतिरित्येव स्यात् व्यस्तपाठं दृष्ट्वा शब्दकल्पद्रुमे तृतीयाप्रकृतिशब्दकल्पनं प्रामादिकम्।

तृतीययुगपर्य्यय = पु० तृतीयस्य युगस्य द्वापररूपस्य पर्य्ययः परिवर्त्तोयत्र काले। द्वापरयुगस्य परिवर्त्ताधारे कलिसन्धरूपे काले “द्वापरे समनुप्राप्ते तृतीययुगपर्य्यये” भाग० १। ४। १५ श्लो०। इतः परं किं भविष्यतीति द्वापरे सन्देहे जाते इत्यर्थः तेन न विरोधः।

तृतीयसवन = न० सूयते सोमोऽस्मिन् कर्म्म०। कालत्रये सवनत्रयोपेताग्निष्टोमादेः तृतीये सवने। तद्विधानादि ताण्ड्य० ब्रा० १। ६। १७ भाष्ये उक्तं यथा “तृतीयसवनारम्भमादित्यग्रहमाचरेत्। आर्भवेण स्तुवीताथ पश्वङ्गैः प्रचरत्यथ। सावित्रवैश्वदेवाख्यौ ग्रहौ सौम्यचरुस्तथा। पात्रीवतग्रहादूर्द्ध्वं यज्ञायज्ञायसंस्तवः। अग्निमारुतशस्त्रं स्यात् गृह्णीयात् हारियोजनम्। समाप्ते सवने पश्चात् कुर्य्यादवभृथं ततः। कुर्य्यादुदयनीयेष्टिमनूवन्ध्यां यजेत गाम्। देविकानिर्वपेद्देवसुवासापि यजू~ष्यथ। उपोष्य वेदिमाग्नेयमिष्टाग्निष्टोमसंस्थितिः” “प्रातः सवने नोच्चैः कर्माणि” कात्या० श्रौ० ९। ६। १८ “प्रातः सवने यान्युच्चैः कर्माणि प्रैषोच्चारणादीनि तान्यपि प्रथमस्वरेणैव कार्य्याणि “मन्द्रं प्रातः सवने चरन्तीति” शाखान्तरात्। अतश्चाग्नीदग्नीन्विहरेत्यादयः प्रैषा आश्रावणादयश्च प्रथमस्वरेणैव प्रयोज्याः” कर्कः। “मध्यमेन माध्यन्दिने” १९ सू० “माध्यन्दिने सवने यानि कर्माणि नीचैर्यानि चोच्चैस्तान्युभयान्यपि मध्यगेन स्वरेण कार्य्याणि शाखान्तरे तथा श्रवणात्” कर्कः। “उत्तमेन तृतीयसवने” २० सू० “तृतीयसवने यानि नीचैर्य्यानि च मध्यमेन स्वरेण प्राप्नुवन्ति तानि सर्वाण्युत्तमेन तृतीयेनैव स्वरेण कार्य्याणि तथैव शाखान्तरे श्रुतत्वात्” कर्कः।

तृतीया = स्त्री तृतीय + टाप्। १ चन्द्रमण्डलस्य तृतीयकलाक्रियायां २ तदुपलक्षिते कालभेदे च तत्र व्रतादिकालव्यवस्थादि तिथिशब्दे ३२९० पृ० दर्शितम्। जन्मनक्षत्रापेक्षया ३ तृतीयद्वादशैकविंशात्मकनक्षत्ररूपविपत्तारायाञ्च।

तृतीयाकृत = त्रि० तृतीय + डाच् + कृ–क्त। १ त्रिगुणं कृष्टे त्रिवारकृष्टे क्षेत्रादौ।

तृतीयाश्रम = पुंन० कर्म्म०। वानप्रस्थाश्रमे। “उषित्वैवं गृहे विप्रो द्वितीयादाश्रमात् परम्। बलीपलितसंयुक्त स्तृतीयन्तु समाश्रयेत्” संवर्त्तस०।

तृतीयिन् = त्रि० तृतीय + अस्त्यर्थे इनि। तृतीयभागार्हे। “सर्वेषामर्द्धिनो मुख्यास्तदर्द्धेनार्द्धिनोऽपरे। तृतीयिनस्तृतीयांशाश्चतुर्थांशाश्च पादिनः” मनुः। दक्षिणागोशतविभागे।

तृत्सु = त्रि० तृद–बा० सुक्। हिंसके। “गव्या तृत्सुभ्यो अजगन्युधा नॄन्” ऋ० ७। १८। ७। “तृत्सुभ्यो हिंसकेभ्य”। भा० २ राजर्षिभेदे “व्यानवस्य तृत्सवे गयम्” ऋ० ७। १८। १३। तृत्सुं राजर्षिभेदम्” भा०।

तृद = हिंसायां भ्वा० प० सक० सेट्। तर्द्दति अतर्दीत् ततर्द्द। प्रतर्द्दनः।

तृद = अनादरे रु० उभ० सक० सेट्। तृणत्ति तृन्ते। इरित् अतर्द्दीत् अतृदत् अतर्द्दिष्ट। उदित् तर्द्दित्वा तृत्त्वा। “भूतिं तृणद्मि यक्षाणाम्” भट्टिः “ऋतस्य श्लोको वधिरा ततर्द” ऋ० ४। २३। ८ “ततर्द तरसा विष्णुर्वाणैः शत्रुबलार्द्दनः” हरिवं० १३४ अ०। “सेहे कपीरथाश्वांश्च रिपोस्ततर्द शाखिना” “अतर्दीच्चैव शूलेन कुम्भकर्णः प्लवङ्गमान्” भट्टिः।

तृदिल = त्रि० तृद–बा० किलच्। १ भेदके २ भिन्ने च। “तृदिला अतृदिलासः” ऋ० १०। ९४। ११। “तृदिला भेदकाः अतृदिला अभिन्नाः” भा०।

तृन्प(म्प) = प्रीणने तु० पर० सक० सेट्। तृपति तृम्पति अतृग्मीत् अतृपीत्। ततृम्प ततृप।

तृन्फ(म्फ) = प्रीणने तु० प० सक० सेट्। तृफति तृम्फति अतृम्फीत् अतृफीत् ततृम्फ ततृफ।

तृन्ह = हिंसे त० प० सक० सेट् क्ता वेट्। तृंहति ऌदित् अतृहत्। ततृंह ततृहतुः ततृंहतुः।

तृप = प्रीणने स्वा० पर० सक० सेट्। तृप्नोति अतर्पीत्। ततर्प।

तृप = सन्दीपने प्रीणने च वा चुरा० उभ० पक्षे भ्वा० पर० सक० सेट्। तर्पयात ते तर्पति अततर्पत्त अतीतृपत् त। अतर्पीत्। ततर्प ततर्पथ।

तृप = प्रीणने दि० पर० सक० वेट् इरित्। तृप्यति अतर्पीत् अत्राप्सीत्–अर्ताप्सीत्–अतृपत्। ततर्ष।

तृप = प्रीणने तु० पर० सक० सेट्। तृपति अतर्पीत्। “तृपत्सोमं पाहि” ऋ० २। ११। १५।

तृपत = पु० तृप। चन्द्रे उणादि०।

तृपाना = स्त्री तृप–कानच्। १ लतायाम् २ उणा० संक्षिप्तसा०

तृपल = न० तृप–कलच्। १ उपले प्रस्तरे। “अपां तसन्य् स्तृपलप्र- भर्मा” ऋ०। १०। ८९। ५। तृपलप्रभर्मा ग्रावादिभिः क्षिप्रप्रहारी” भा०। २ त्रिफलायाञ्च।

तृप्त = त्रि० तृप–क्त। १ तृप्तियुक्ते। “नित्यं तृप्ता गृहेयस्य देवायज्ञस्य धर्म्मतः” भा० व०५८ अ०। “स्वागतेनाग्नयस्तृप्ता आसनेन शतक्रतुः। पितरः पादशौचेन स्विन्नानेन गृही यतिः” पु०।

तृप्ति = त्रि० तृप–क्तिन्। भोजनादिना आकाङ्क्षितानिवृत्तौ “वार्घीणसस्य मांसेम तृप्तिर्द्वादशवार्षिकी” मनुः “तस्यालमेषा क्षुधितस्य तृप्त्यै” रघुः।

तृप्तिमत् = त्रि० सुखा० अस्त्यर्थे इनि तृप्तमनेन इष्टादि० इनि वा। १ तृप्तियुक्ते स्त्रियां ङीप्। २ उदके निघण्टुः।

तृप्नु = त्रि० तृप–क्नु। तृप्तिशीले।

तृप्र = पु० तृप–रक्। १ पुरोडाशे उज्ज्वलद०। २ तर्पके त्रि० “न यं शुक्रो न दुराशीर्न तृप्राः” ऋ० ८। २। ५ “तृप्रास्तर्पकाः” भा० ३ दुःखे न० ततः असहने आलु। तृप्रालु तदसहने। “तृप्रं दुःखमिति माधवः” सि० कौ०। ४ घृते न० उणादि०।

तृफ = प्रीणने तुदा० पर० सक० सेट्। तृफति अतर्फीत्। ततर्फ। तृफतेरपि कलच् इत्युज्ज्वलदत्तः। दुर्गादासस्तु अयं मुचादित्वभ्रान्त्या तृम्फतीत्युदाजहार। तच्चिन्त्यं पा० मुचादिमध्ये तृफधातोरनुत्कीर्त्तनात् उज्ज्वलदत्तेन तृफते रिति निर्द्देशाच्च। मुचादयश्च सि० कौ० १५६२ आदौ दृश्याः। तृम्फादिशब्दे दृश्यः।

तृफला = स्त्री तृफ–कलच्। त्रिफलायाम् उज्ज्वलद०।

तृफू = स्त्री तृफ–कू। सर्पजातौ उणादि०।

तृम्फादि = “तृन्फ तुन्फ तृन्फ दृन्फ ऋन्फ गुन्फ उन्फ शुन्फ” पा० धातुपाठोक्ते धातुगणभेदे।

तृष = तृष्णायां दिवा० पर० सक० सेट्। तृष्यति इरित् अतृषत् अतर्षीत्। ततर्ष। “तृषित्वेवानिशं स्वादु पिबन्तं सरितां पयः”। “मुमूर्च्छुर्ववमूरक्तं ततृषुश्चोभये भटाः” “रक्तमश्च्योतिषुः क्षुण्णाः क्षताश्च कपयोऽतृषन्” भट्टिः।

तृष्(षा) = स्त्री तृष–सम्प० क्विप् वा टाप्। १ आकाङ्क्षायां २ पिपासायां ३ कामकन्यायाञ्च शब्दर०। ४ लाङ्गलीवृक्षे शब्दच० “लोभो जनयते तृषां तृषार्त्तो दुःखमाप्नोति” हितोप०। “कृपा हि मे सुमहती त्वां दृष्ट्वा तृट्समाश्रितम्” भा० आश्व० ५५ अ०। “न हन्ति मण्डूककुलं तृषाकुलः” ऋतु०।

तृषाभू = स्त्री ६ त०। तृष्णाधारे क्लोमनि शब्दच० तृष्णाशब्दे चरकवाक्ये क्लोम्नस्तत्स्थानत्वं दृश्यम्।

तृषाह = न० तृषां हन्ति हन–ड। १ जले २ मधुरिकायां (मौरी) स्त्री शब्दच०

तृषित = त्रि० तृषा जातास्य तार० इतच्। १ तृष्णान्विते हेमच० “तृषितान्याहवे भोक्तुं नृपमांसानि वै भृशम्” हरिवं० ९२ अ०।

तृषितोत्तरा = स्त्री तृषित उत्तरः यस्याः। अशनपर्ण्याम् शब्दच०।

तृषु = न० तॄ–तुर–वा सुक् पृषो०। १ क्षिप्रे निघण्ठुः। २ तद्वति त्रि० स्त्रियामुदन्तगुणचलनत्वात् ङीप्। “तृष्वीमनु प्रसितिं द्रूणानोऽस्तासि” ऋ० ४। ४। १। “तृष्विति क्षिप्रनाम भरतेर्वा त्वरतेर्वा निरु०” भा०। “तृषु यदन्ना तृषुणा” ऋ० ४। ७। ११।

तृष्ट = त्रि० तृष–क्त वेदे बा० इडभावः। १ दाहजनके “तृष्टमेतत् कटुकमेतत्” ऋ० १०। ८५। ३४। “तृष्टं दाहजनकम्” भा०।

तृष्टामा = स्त्री तृष्टं दाहममयति गमयति अम णिच्–अच् १ नद्याम् “तृष्टामया प्रथमं यातवे” ऋ०१०। ७५। ६। “तृष्टामया नद्या” भा०।

तृष्णज् = त्रि० तृष नजिक्। १ लुब्धे अमरः। “असिञ्चन्नुत्सं गोतमाय तृष्णजे” ऋ० १। ८५। ११।

तृष्णा = स्त्री० तृष नाकिच्च। १ पिपासायां, २ लोभे, ३ अप्राप्ताभिलाषे च अमरः ४ रोगभेदे। तन्निदामादि भावप्र० उक्तं यथा “भयश्रमाभ्यां वलसङ्क्षयाद्वा ऊर्द्धं चितं पित्तविवर्द्धनैश्च। पित्तं सवातं कुपितं नराणां तालुप्रपन्नं जनयेत् पिपासाम्। स्रोतःस्वपांवाहिषु दूषितेषु दोषैश्च तृट् सम्भवतीह जन्तोः। तिस्रः स्मृतास्ता क्षतजा चतुर्थी क्षयात्तथान्यामसमुद्भवा च। भुक्तोद्भवा सप्तमिकेति तासां निबोध लिङ्गान्यनुपूर्वशस्तु”। नराणां चितं स्वस्थान एव सञ्चितं पित्तं सवातं पित्तविवर्द्धनैः कद्वम्लोष्णादिभिः कुपितम्। भयश्रसाभ्यां बलसङ्क्षयादुपवासादेश्च त्वातः कुपितः। तद्द्वयं ऊर्द्ध्वं प्रसरत् तालुप्रपन्नं सत् पिपासां जनयेत्। न केवलं तालुन्येव दूषिते तृष्णा भवति किन्तु जलवाहिस्रोतःस्वपि। अत आह। स्रोतः स्वित्यादि। नन्वत्र बहुवचनमयुक्तम्। यतो जलवहे द्वे स्रोतसी सुश्रुतेनोक्ते। उच्यते। तयोरेवानेकप्रतानयोगान्न दोषः। अपांवाहिषु स्रोतःस्विति जिह्वादेरप्युपलक्षणम्। यत आह चरकः। “रसवाहिनीश्च धमनीर्जिह्वाहृदयगलतालुक्लोम च। संशोष्य नॄणां देहे कुरुतस्तृष्णामतिवलौ पित्तानिलाविति”। सङ्ख्यामाह तिस्र इत्यादि। तृष्णायाः सामान्यं लक्षणमाह। “सततं यं पिवेत्तोयं न तृप्तिमधिगच्छति। मुहुः काङ्क्षति तोयन्तुतं तृष्णार्द्दितमादिशेत्। वातजायालक्षणमाह। क्षामास्यता मारुतसम्भवायां तोदस्तदा शङ्खशिरःसु चापि। स्रोतोनिरोधो विरसञ्चवक्त्रं शीताभिरद्भिश्च विवृद्धिमेति”। शङ्खशिरःसु शङ्खयोः शिरसि च। स्रोतो निरोधः। पित्तजामाह “मूर्च्छान्नविद्वेषविलापदाहरक्तेक्षणत्वं प्रततश्च शोषः। शीताभिनन्दो मुखतिक्तता च पित्तात्मिकायां परिधूपनञ्च”। विलापः प्रलापः प्रततश्च शोषः अविरतश्च शोषः। शीताभिनन्दः शीतेच्छा। परिधूपनं कण्ठाद्धूमनिर्गम इव। कफजामाह। “वास्पावरोधात् कफसंवृतेऽग्नौ तृष्णा बलासेन भवेन्नरस्य। निद्रागुरुत्वं मधुरास्यता च तयार्द्दितः शुष्यति चातिमात्रम्”। अग्नौ जठराग्नौ। कफसंवृते स्वकारण कुपितेन कफेनोपरिष्टादाच्छादिते। वास्पावरोधात् अग्नेरुष्मावरोधात्। अवरुद्धानलोष्मणाम्बु वहस्रोतःशोषणात् बलासेन कफेन नरस्य तृष्णा भवेत्। तया तृष्णया अर्दितः पीडितः शुष्यति कृशो भवति। क्षतजामाह। “क्षतस्य रुक्शोणितनिर्गमाभ्यां तृष्णा चतुर्थी क्षतजा मतातु”। क्षतस्य शस्त्रादिक्षतयुक्तस्य। रुक् पीडा। क्षयजामाह। “रसक्षयाद् या क्षयसम्भवा सा तयाभिभूतस्तु निशादिनेषु। पेपीयतेऽम्भः स सुखं न याति तां सन्निपातादिति केचिदाहुः। रसक्षयोक्तानि च लक्षणानि तस्यामशेषेण भिषग् व्यवस्येत्”। रसक्षयलक्षणानि सुश्रुतेनोक्तानि “रसक्षये हृत्पीडा कम्पः शोषः शून्यता तृष्णा चेति”। व्यवस्येत् जानीयात्। आमजामाह। “त्रिदोषलिङ्गामसमुद्भवा च हृच्छूलनिष्ठीवनसादकर्त्री”। भुक्तोद्भवामाह। “स्निग्धं तथाम्लं लवणञ्च भुक्तं गुर्वन्न सेवासु तृषां करोति”। लवणञ्चेति चकारात् कटु च। उपसर्गजामाह “क्षीणस्वरः प्रताय्यं दीनाननहृदयशुष्कगलतालुः। भवति खलु सोपसर्गात् तृष्णा सा शोषिणी कष्टा”। शोषिणी धातुशोषिणी। उपसर्गानाह। “ज्वरमोहं क्षयः श्वासो बाधिर्य्यं कास एव च। बहिर्निर्गतजिह्वत्वं सप्तैते तदुपद्रवाः”। तद्युक्तायां अरिष्टत्वञ्चाह “ज्वरमोहक्षयकासश्वासाद्युपसृष्टदेहिनाम्। सर्वास्त्वतिप्रसक्तारोग कृशानां वमिप्रसक्तानाम्। घोरोपद्रवयुक्तास्तृष्णा मरणाय विज्ञेयाः”। आदिशब्दादतीसारादीनां ग्रहणम्। अतिप्रसक्ताः निरन्तराः। घोरोपद्रवयुक्ताः अतीव मुखशोषादियुताः। तृष्णाशब्दस्य वरुत्रीशब्देन द्वन्द्वे उभयपदे प्रकृतिखरः।

तृष्णाक्षय = पु० तृष्णायाः क्षयो यत्र। १ शान्तिगुणे हेमच०। ६ त०। २ पिपासानाशे च।

तृष्णारि = पु० ६ त०। १ पर्पटे राजनि०। २ तृष्णानाशके च।

तृष्णालु = त्रि० तृष्णा + अस्त्यर्थे आलु। तृष्णायुक्ते। “तृष्णालुर्भवति पूतनागृहीतः” सुश्रु०।

तृष्य = त्रि० तृष–ऋदुपधत्वात् क्यप्। १ लोभ्ये २ एषणीये। भावे क्यप्। ३ लोभे न०। तृष्यमस्त्यस्य मतुपि वेदे दीर्घः। तृष्यावत्। तृष्णायुक्ते। “अभ्यवर्षोत्तृष्यावतः प्रावृष्यागतायाम्” ऋ० ७। १०३। ३। तृष्यावतस्तृष्णावतः” भा०।

तृह = हिंसे तु० पर० सक० वेट्। तृहति अतर्हीत् अतृक्षत्।

तृह = हिंसे वा चु० उ० पक्षे रुधा० पर० सक० वेट्। तर्हयति ते तृणेढि अततर्हत् त अतीतृहत् त अतर्हीत् अतृक्षत्। “तृणेढु रामः सह लक्षणेन” भट्टिः।

तॄ = तरणे प्लवने अभिभवे च भ्वा० प० सक० सेट्। तरति अतारीत्। ततार। “तरति ब्रह्महत्यां योऽश्वमेधेन यजते” तरति शोकमात्मविद्” श्रुतिः शत० ब्रा० १४। ७। १। २२ “ततार ताराधिपखण्डधारी” कुमा० “क्रमेण तस्मिन्नथ तीर्णदृक्पथे” नैष०। तेरतुः। तरीरिता तरि(री)ष्यति। तीर्य्यात्। तरीतुं तरितुं तीर्त्त्वा तीर्य्यते। तारयति तितीर्षति। “तितीर्षुर्दुस्तरं मोहात्” रघुः। “ताञ्च तर्तुं प्रयच्छामीमित्यत्रार्षः इडभावः।अति + अतिक्रम्य गमने। “खर्गानतितरन्ति ते” हितो०। “न यस्य कश्चातितितर्त्ति मायाम्” भाग०८। ५। ३०। यङ्लुङोरूपम्।वि + अति + विशेषेण अतिक्रमे। “यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति” गीता।अभि + उल्लङ्घने। “कथं नाभ्यतरामस्तां पाण्डवानामनीकिनीम्” भा० द्रो० २८०।अब + अवनमने। “अथोरुदेशादवतार्य्य पादम्” कुमा०। अवतारः। “अवतरतः सिद्धिपरं शब्दस्य मनोरथस्य वा” मालविकाग्नि०।उद् + उत्थाने अक०। “सपल्वलोत्तीर्णवराहयूथम्” रघुः। उल्लङ्घने सक०। “उदतारीदुदन्वन्तम्” “उदतारिषुरम्भोधिम्” भट्टिः।निम् + निःशेषेण तरणे। “कथञ्च निस्तरेयास्मात्” भा० व० १५५६६ श्लो०।वि + दाने। “तडिल्लेखालक्ष्मीर्वितरति पताकावलिरियम्” “ज्योत्स्ना शङ्कामिह वितरति” १ किरा०।सम् + सम्यक् तरणे (सा~तार देओया)।

ते = अव्य० तम–वा० डे। १ त्वयेत्यर्थे त्रिका०। २ गौर्य्यां तेनशब्देदृश्यम्

तेगा = स्त्री तिज–पुंसि घ जस्य गः। अप्रसिद्धदेवताभेदे। “शादं दद्भिरवकां दन्तमूलैर्मृदं वर्स्वैस्तेगां दंष्ट्राभ्याम्” यजु० १५। १। “देगां देवतां शादादयोऽप्रसिद्धा देवाः आदित्यादयः प्रसिद्धाः देवाः” वेददीपः।

तेज = निशाने पालने च भ्वा० पर० सक० सेट्। तेजति अतेजीत्। तितेज।

तेजःफल = न० तेजसे फलमस्य तेजः फलति–फल अच् वा। (तेजबल) वृक्षभेदे “तेजःफलः कटुस्तीक्ष्णः सुगन्धिर्दीपनो मतः। वातश्लेष्मारुचिघ्नश्च बालरक्षाकरः स्मृत इति” भावप्र०।

तेजन = पु० तेजयति शस्त्रमग्निं वा तिज–णिच्–ल्यु। १ वंशे २ मुञ्जे च अमरः संज्ञायां कन्। ३ शराभिधे तृणे, करणे ल्युट्। ङीप्। ४ मूर्वायां, ५ ज्योतिष्मत्याञ्च स्त्री ङीप्। राजनि०। ६ शस्पे अमरः।

तेजपत्र = न० तेजयति तिज–णिच्–अच् तेजं पत्रमस्य। (तेजपात) ख्याते वृक्षभेदे। “तेजपत्रं वराङ्गं स्यात् त्वचं चोचं तथोत्कटम्। त्वचं लघूष्णं कटूकं स्वादु तिक्तञ्च रूक्षकम्। पित्तलं कफवातघ्नं कण्ड्वामारुचिनाशनम्। हृद्वस्तिरोगवातार्शःकृमिपोनसशुक्रहृत्” भावप्र०।

तेजल = पु० तिज–करणे कलच्। कपिञ्जलपक्षिणि राजनि०।

तेजस् = त० तिज–भावे करणादौ असुन्। १ दीप्तौ २ प्रभावे ३ पराक्रमे ४ रेतसि च मेदि०। ५ देहजकान्तौ ६ नवनीते ७ वह्नौ च हेमच०। ८ सुवर्णे ९ मज्जनि १० पित्ते च राजनि०। सा० द० उक्ते सात्विके अधिक्षेपापमानादेरसहनरूपे ११ नायकगुणभेदे यथा

“शोभा विलासो माधुर्य्यङ्गाम्भीर्य्यं धैर्य्यतेजसी। ललितौदार्य्यमित्यष्टौ सत्वजाः पौरुषा गुणाः” इत्युद्दिश्य “अधिक्षेपापमानादेः प्रयुक्तस्य परेण यत्। प्राणात्ययेऽप्यसहनं तत्तेजः समुदाहृतम्” सा० द० लक्षितम्। १२ सारे “रसादीनां शुक्रान्तानां धातूनां यत्परं तेजस्तत् स्वल्वोजस्तदेव बलमित्युच्युते” सुश्रु० १३ प्रागल्भ्ये १४ पराभिभवसामर्थ्ये। १५ परैरनभिभाव्यत्वे। १६ अप्रतिहताज्ञत्वे। १७ चैतन्यात्मके ज्योतिषि। १८ स्त्रीबालकादिभिर्मूढैरनभिभाव्यत्वे। १९ सत्वगुणजाते लिङ्गदेहे। २० हयवेगे। “तेजोनाम दर्पापरानामा सत्त्वगुणविकारः प्रकाशकोऽन्तः नारविशेषः। यथाह भोजराजः “तेजोनिसर्गजं न्वत्त्वं वाजिनां स्फुरणं रजः। क्रोधस्तम इति ज्ञेयास्त्रयोऽपि सहजागुणाः”। तच्च द्विविधम्। सततोत्थितं भयोत्थितञ्चेति। यथाह स एव “धारासु योजितानाञ्च निसर्गात् प्रेरणं विना। अवच्छिन्नमिवाभाति तत् तेजःसततीत्थितम्। कशापादादिघातैर्यत् साध्वसात् स्फुरितन्तु तदिति”। शब्दस्पर्शतन्मात्र सहिताद्रूपतन्मात्रादुत्पन्ने शब्दस्पर्शरूपगुणे २१ तृतीये महाभूते। यथा “तृतीयं ज्योतिरित्याहुश्चक्षुरध्यात्ममुच्यते। अधिभूतं ततोरूपं सूर्य्यस्तत्राधिदैवतम्” भा० आश्व० उष्णस्पर्शवत्तेजः। “तद्द्विविधम्। नित्यमनित्यञ्च। नित्यं परमाणुरूपम्। अनित्यं कार्य्यरूपम्। पुनस्त्रिविधम्। शरीरेन्द्रियविषयभेदात्। शरीरमादित्यलोके। इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्त्ति विषयश्चतुर्विधः। भौमदिव्यौदर्य्याकरजभेदात्। भौमं वह्न्यादिकम्। अविन्धनं दिव्यं विद्युदादि। भुक्तान्नस्य परिणामहेतुरौदर्यम्। आकरजं सुवर्णादि” तर्कसंग्रहः “स्पर्श उष्णस्तेजसस्तु स्याद्रूपं शुक्लभाखरम्। नैमित्तिकं द्रवत्वन्तु नित्यतादि च पूर्ववत्। इन्द्रियं नयनं वह्निस्वर्णादिर्विषयोमतः” इति भाषाप०। उपचारात् २२ तेजस्विनि च। “त्रीणि तेजांसि नोच्छिष्ट आलभेत कदाचन” “अग्निं गां ब्राह्मणं चैव” भा० आनु०५०१७ श्लो०। स्वपरप्रकाशकं तेजः अन्धकारविरोधि तल्लक्षणञ्च शुक्लभास्वररूपसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वम्। तेजसो गुणादिकमग्निशब्दे ४८ पृ० दृश्यम्। “सामानाधिकरण्यं हि तेजस्तिमिरयोः कुतः” माघः। भुक्ततेजसः कार्य्यञ्च छा० उ० दर्शितं “तेजोऽशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तदस्थि भवति यो मध्यमं स मज्जा योऽणिष्ठः सा वाक्। “अन्नमयं हि सौम्य! मन आपोमयः प्राणस्तेजोमयी वागिति च” तेजोभूतञ्च वायुकार्य्यमपां कारणञ्च। यथोक्तं “अद्भिः सौम्य! शुङ्गेन तेजोमूलमन्विच्छ” छा० श्रुतिः २३ रजोगुणे तैजसशब्दे दृश्यम् तेजसा निर्वृत्तः अण् तेजोजन्ये त्रि०। तेजसं + अस्त्यर्थे विनि। तेजस्विन् मतुप् मस्य वः तेजस्वत्। तेजोविशिष्टे त्रि० स्त्रियां सर्वत्र ङीप्। तैजसी तेजस्विनी तेजस्वती। २४ वीर्य्ये च।

तेजस्कर = त्रि० तेजः करोति कृ–हेत्वादौ ट। तेजोहेतौ द्रव्ये स्त्रियां ङीप्।

तेजस्य = त्रि० तेजसि साधु यत्। तेजःसाधने “यावामिन्द्रावरुणा सहस्या रक्षस्या तेजस्या तनूः” तै० स० २। ३। १३। १।

तेजस्वत् = त्रि० तेजस + अस्त्यर्थे मतुप् मस्य वः। तेजोयुक्ते “तेजस्वदस्तु मुखम्” तैत्ति० १। ७। ७। ३। स्त्रियां ङीप् सा च २ गजपिप्पल्यां शब्दरत्ना० ३ चविकायां रत्नमाला ४महाज्योतिष्मत्यां राजनि०। अत्र संज्ञात्वेन सान्तत्वात् सस्य पदत्वाभावे तेजोवतीत्यपि तत्रार्थे।

तेजस्विन् = त्रि० तेजस् + अस्त्यर्थे विनि। तेजोयुक्ते “तेजस्विमध्ये तेजस्वी दवीयानपि गण्यते” माघः। स्त्रियां ङीप्। सा च २ ज्योतिष्मतीलतायां शब्दर०। ३ महाज्योतिष्मतीलतायाम् राजनि०। “तेजोस्विनी कफश्वासकासाऽऽस्यामयवातहृत्। पाचन्युष्णा कटुस्तिक्तारुचिवह्निप्रदीपनी” भावप्र०।

तेजित = त्रि० तिज–णिच्–क्त। शाणिते तीक्ष्णीकृते अमरः

तेजिष्ठ = त्रि० तेजस्विन् + अतिशये इष्ठन् विनेर्लुकि डिद्भावः। अतिशयेन तेजस्विनि। “तेजष्ठिया तिथिग्वस्य वर्तनी” ऋ० १। ५३। ८।

तेजीयस् = त्रि० तेजस्विन् + अतिशये ईसुन् विनेर्लुकि डिद्भावः। अतितेजस्विनि। “तेजीयसां न दोषाय वह्नेः सर्वभुजो यथा” भाग० १०। ३३। २९। स्त्रियां ङीप्।

तेजेयु = पु० रौद्राश्वनृपस्य पुत्रभेदे। “रौद्राश्वस्य महेष्वासा दशाप् सरसि सम्भवाः” इत्युपक्रमे। “तेजेयुर्बलवान् धीमान् सत्येयुश्चेन्द्रविक्रमः” भा० आ० ९४ अ०।

तेजोनाथ = तीर्थभेदे शिवपु० दृश्यम्।

तेजोमन्थ = पु० तेजो मथ्नाति मन्थ–अण्। गणिकारिकायाम्। रत्नमा०।

तेजोमय = त्रि० तेजस् + प्रचुरार्थे विकारे वा मयट्। १ तेजःप्रचुरे २ तेजोविकारे ३ ज्योतिर्मये च। स्त्रियां ङीप्। “तेजोमयी वाक्” इति छा० उ० श्रुतिः। “तस्य तेजोमया लोका भवन्ति ब्रह्मवादिनः” मनुः।

तेजोमात्रा = स्त्री तेजसां सत्त्वगुणानां मात्रांऽशः। इन्द्रियेषु भूतानां सात्विकांशेभ्य एव तेषामुत्पत्तिः सांख्यसिद्धा।

तेजोमूर्ति = पु० तेजस्तेजस्वती मूर्त्तिर्यस्य। १ सूर्य्ये २ तेज आत्मके ३ तेजः प्रचुरे च त्रि०। “स गच्छति परं स्थानं तेजोमूर्त्तिपथर्जुना” मनुः।

तेजोरूप = न० तेजः मर्वप्रकाशकं चैतन्यं रूपं स्वरूपं यस्य। ज्योतीरूपे प्रकाशात्मके ब्रह्मणि “अशरीरं विग्रहवदिन्द्रियवदतीन्द्रियम्। यदसाक्षि सर्वसाक्षि तेजोरूपं नमाम्यहम्” ब्रह्मवै० पु०। ६ त०। २ तेजसो रूपे च अग्निशब्दे तद्रूपं दर्शितम्।

तेजोवत् = त्रि० तेजस् + अस्त्यर्थे मतुप् मस्य वः बा० न पदत्वम्। तेजोयुक्ते स्त्रियां ङीप्। सा च (तेजस्वत्) शब्दोक्तार्थेषु। “तेजोवता लोकगणेन सार्द्धम्” मत्स्यपु०। अग्न्यावाहनमन्त्रः

तेजोविन्दु = पु० उपनिषद्भेदे उपनिषच्छब्दे दृश्यम्।

तेजोवृक्ष = पु० तेजोयुक्तः वृक्षः शा० त०। क्षुद्राग्निमन्थवृक्षे राजनि०।

तेजोवृत्त = न० तेजसः वीर्य्यस्यानुरूपं वृत्तम्। वीर्य्यानुरूपचरिते। “इन्द्रास्यार्कस्य वायोश्च यमस्य वरुणस्य च। चन्द्रस्याग्नेः पृथिव्याश्च तेजोवृत्तं नृपश्चरेत्” मनुः।

तेजोह्वा = स्त्री तेजः ह्वयते स्पर्द्धते ह्वे–क। तेजस्विन्यां लतायाम् भावप्र०। “कम्पिल्लकं ससिन्दूरं तेजोह्वा तुत्थकाह्वये” सुश्रु०।

तेदनी = स्त्री देवताभेदे “तेदनीमधरकण्टेनापः” यजु० २५। २। “तेदनीं देवतां प्रीणामि” वेददी०।

तेन = अ० तद् + बा० एन। १ तद्धेतुनेत्यर्थे भरतः। ते इति न इति शब्दौ यत्र। २ गानाङ्गभेदे पु०। “तेनेति शब्दस्तेनः स्यान्मङ्गलानां प्रदर्शकः। तेशब्देनोच्यते गौरी नशब्देनोच्यते हरः। तेन माङ्गलिकश्चायं शब्दस्तेन इति स्मृतः” सङ्गी० दा०।

तेप = कम्पे, च्युतौ च भ्वा० आ० अक० सेट्। तेपते अतेपिष्ट। तितेपे। ऋदित्। अतितेपत् त।

तेम = पु० तिम–घञ्। आर्द्रीभावे। अमरः।

तेमन = न० तिम–ल्युट्। १ आर्द्रीकरणे। कर्मणि ल्युट्। २ व्यञ्जने। अमरः। आधारे ल्युट् ङीप्। ३ चूल्लीभेदे हेमच०।

तेलु = पु० नृपभेदे ततः राजन्या० विषये देशे वुञ्। तैलवक तेलुनृपविषये देशे।

तेव = क्रीडने भ्वा० आ० अक० सेट्। तेवते अतेविष्ट। तितेवे। ऋदित् अतितेवत् त।

तेवन = न० तेय–भावे ल्युट्। १ क्रीडायाम्। आधारे ल्युट्। २ केलिकानने हेसच०।

तैङ = पु० तिङां व्याख्यानः ग्रन्यः अञ्। तिङांव्याख्याने ग्रन्थे

तैजस = न० तेजसो विकारः अण्। १ घृते, २ धातुद्रव्यमात्रे च। साङ्ख्योक्ते ३ रजोगुणोत्पन्ने त्रि०। “वैकारः सात्विको नाम तैजसः राजसः स्मृतः। भूतादिस्तामसस्तेऽपि पृथक् तत्त्वान्यवासृजन्” पदार्थादर्शधृतवाक्यम्। “सात्विक एकादशकः प्रवर्त्तते वैकृतादहङ्कारात्। भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम्” सा० का०। “ननुयदि सत्वतमोभ्यामेव सर्वं कार्य्यं जन्यते तदा कृतमकिञ्चित्करेण रजसेत्यत आह तैजसादुभयं तैजसात् राजसादुभयं गणद्वयं भवति। यद्यपि रजसो न कार्य्यान्तरमस्ति तथापि सत्वतमसी स्वयं क्रियासमर्थे अपि न स्वस्वकार्य्यं कुरुतः रजस्तु चलतया ते यदा चालयति तदा स्वस्वकार्य्यं कुरुत इति तदुभयस्मिन्नपि कार्य्ये सत्वतमसोः क्रियोत्पादनद्वारेणास्ति रजसः कारणत्वमिति न व्यर्थं रज” इतित० कौ०। तिज निशाने इत्यस्मादसुन् तेन तेजसा कृतः तैजसः रजसश्च सत्वतमसोः स्वस्वतेजकार्य्यसमर्थत्वकरणरूपतैक्ष्ण्यकरणगुणयोगात् तेजःपदाभिधेयता इति तदाशयः “तैजसादिन्द्रियाण्यासन्” शा० ति०। सत्त्वगुणस्य प्रकाशकत्वात् “तैजसमन्तःकरणमिति” वेदान्तप०। ४ तीर्थभेदे न०। “तैजसं नाम तत्तीर्थं यत्र तीर्थेह्यपां पतिः। अभिषिक्तः सुरगणैर्वरुणो भरतर्षभ!” भा० श० ४७ अ० एतद्व्यष्ट्यु पहितं चैतन्यं तैजसो भवति। तेजोमयान्तःकरणोपहितत्वात्” वेन्दान्तसारोक्ते ५ चैतन्यभेदेपु०।

तैजसावर्त्तनी = स्त्री तैजसं धातुद्रव्यमावर्त्त्यतेऽत्र आ–वृत णिच्–आधारे ल्युट् ङीप्। मूषायाम्। (मुची) अमरः

तैतल = पु० ऋषिभेदे ततः तिका० अपत्ये फिञ्। तैतलायनि तदपत्ये पुंस्त्री।

तैतिक्ष = त्रि० तितिक्षा शीलमस्य छत्रादि० ण। तितिक्षाशीले।

तैतिक्ष्य = पुंस्त्री० तितिक्षस्य ऋषिभेदस्य गोत्रापत्यं गर्गायञ्। तितिक्षर्षिगोत्रापत्ये तस्य छात्राः कण्वा० अणि यञो लोपः। तैतिक्षाः तैतिक्ष्यस्य छात्रेषु ब० व०।

तैतिर = पुंस्त्री० तैत्तिर पृषो०। (तितिर) खगे राजनि०। स्त्रियां ङीष्।

तैतिल = पु० १ गण्डकपशौ। २ ववादितश्चतुर्थे करणे न० मेदि०। ३ देवे च। “शक्तिसदृशेन दानेनावाधितधरणीतलतैतिलगणः” दशकु०। तैतिलशब्दस्य कद्रूशब्देन समासे पूर्वपदप्रकृतिस्वरः।

तैतिलिन् = पु० गोत्रप्रवर्त्तकर्षिगणस्थप्रवरभेदे।

तैत्तिर = न० तित्तिरीणां समूह अण्। तित्तिरखगसमूहे। तित्तिर + स्वार्थे अण्। (तितिर) खगभेदे पुंस्त्री राजनि०। गण्डकपशौ च मेदि०।

तैत्तिरि = पु० कुकुरवंश्यनृपभेदे। “कुकुरस्य सुतो धृष्णुर्धृष्णोऽस्तु तनयस्तथा। “कपोतरोमा तस्याथतैत्तिरिस्तनयोऽभवत्”। हरिव० ३८ अ०। २ऋषिभेदे। आद्यः कठस्तैत्तिरिश्च वैशम्पायनपूर्वजः” भा० शा० ३३८ अ०। २ कृष्णयजुःप्रवर्त्तके ऋषिभेदे।

तैत्तिरीय = पु० ब० व० तित्तिरिणा प्रोक्तमधीयते छण्। १ तित्तिरिप्रीक्तशाखाध्येतृषु स्वार्थे क। तैत्तिरीयकास्त्रत्रार्थे। यजुःशाखाभेदे। तन्नामनिरुक्तिः यथा। “देवरातसुतः सोऽपि छर्दित्वा यजुषां गणम्। ततो गतोऽथ मुनयोददृशुस्तान् यजुर्गणान्। यजूंषि तित्ति- राभूत्वा तल्लोलुपतया ददुः। तैतिरीया इति यजुः शाखा आसन् सुपेशलाः” भाग० १२।

तैन्तिडीक = त्रि० तिन्तीडिकेन संस्कृतम् कोपधत्वात् अण्। तिन्तिडीकसंस्कृतव्यञ्जनादौ। तस्य विकारः कोपधत्वात् अण्। २ तिन्तिडीकविकारे च।

तैमिर = तिमिरमेव अण्। नेत्ररोगभेदे “ऐर्मं हन्यार्मनक्तान्ध्यकाचान् नीलीरोगं तैमिराञ्जनेन” सुश्रु०। तैमिरो रोगोऽस्त्यस्य ठन् तैमिरिकः। तिमिररोगक्ते। “न वामयेत्तैमिरिकोर्द्धवातगुल्मोदरप्लीहकृमिश्रमार्त्तान्” सुश्रु०। “तैमिरिका इवादूरदर्शिनम्” काद०।

तैर = न० तीरे भवः अण्। कूलत्थे राजनि०।

तैरणी = स्त्री तीरे नमति नम–बा० ड ततः स्वार्थे अण् गौरा० ङीष्। कुनील्यां रागदे क्षुपभेदे।

तैरश्च = त्रि० तिरश्चामिदम् तिर्य्यच् अण् + भत्वात् तिरश्चादेशः। तिर्यग्जातिसम्बन्धिनि

तैर्थ = त्रि० तीर्थे दीयते कार्य्यं वा व्युष्टा० अण्। १ तीर्थे देये २ तीर्थकार्य्ये च तीर्थात् आयस्थानादागतः शुण्डिका० अण्। तीर्थरूपायस्थानादागते द्रव्यादौ च।

तैर्थक = त्रि० तीर्थे देशे भवः धूमा० वुञ्। तीर्थदेशभवे।

तैर्थिक = त्रि० तीर्थं सिद्धान्तनिश्चयं नित्यमर्हति छेदा० ठञ्। १ तीर्थसिद्धान्ताभिज्ञे शास्त्रकरे कपिलकणादादौ तीर्थं वेत्ति ठञ् वा। २ सिद्धाभिज्ञे। तीर्थे भवः ठञ्। ३ तीर्थभवे। “तैर्थिकाभुञ्जते यस्तु मणिनागस्य” भा० व० ८५ श्लो०।

तैर्थ्य = त्रि० तीर्थ + चतुरर्थ्या० सङ्का० ण्य। तीर्थसमीपादौ।

तैर्य्यगयनिक = त्रि० तिरश्चामयनं सत्रभेदः तदेव ठञ्। सत्रभेदे। “अष्टादशभिर्ज्यायानादित्यः संवत्सर एव तैर्यगयनिको भवति। आदित्यः खलु शश्वदेकदा षण्मासानुदङ्ङेति नव चाहानि तथा दक्षिणा” श्रुतिः।

तैर्य्यग्योन = त्रि० तिर्य्यग्योनेरिदम् + अण्। तिर्य्यग्योनीनां पश्वादीनां मम्बन्धिनि सर्गभेदे। “अष्टविकल्पो दैवस्तैर्य्यग्योनश्च पञ्चधा भवति। मानुष्यश्चैकविधः समासतो भौतिकः सर्गः” सा० का० तैर्य्यग्योनश्च पञ्चधा भवति पशुमृगपक्षिसरीसृपस्थावरात्मकः” त० कौ०। तत्र भवः अण्। तद्योनिभवे। “निन्दन्त्यवमता मन्त्रं तैर्य्यग्योनास्तथैव च” मनुः।

तैल = न० तिलस्व तत्सदृशस्य वा विकारः अञ्। तिलसर्षपादिजनिते स्नेहद्रव्यभेदे। तल्लक्षणादिकं भावप्र० उक्तं यथा “तिलादिस्निग्धवस्तूनां स्नेहस्तैलमुदाहृतम्। तत्तु वातहरं सर्वं विशेषात्तिलसम्भवम्। अथ तिलतैलगुणाः “तिलतैलं गुरु स्थैर्य्यवलवर्णकरं सरम्। वृष्यं विकाशि विशदं मधुरं रसपाकयोः। सूक्ष्मं कषायानुरसंतिक्तं वातकफापहम्। वीर्य्येणोष्णं हिमं स्पर्शे वृंहणं रक्तपित्तकृत्। लेखनं बद्धविण्मूत्रं गर्भाशयविशोधनम्। दीपनं बुद्धिदं मेध्यं व्यवायि व्रणमेहनुत्। श्रोत्रयोनिशिरःशूलनाशनं लघुताकरम्। त्वच्यं केश्यञ्च चक्षुष्यमभ्यङ्गे भोजनेऽन्यथा। छिन्नभिन्नच्युतोत्पिष्टमथितक्षतपिच्चिटे। भग्नस्फुटितविद्धाग्निदग्धविश्लिष्टदारिते। तथाभिहितमिर्भुग्ने मृगव्याघ्रादि विक्षते। वस्तौ पानेऽन्नसंस्कारे नस्ये कर्णाक्षिपूरणे। सेकाभ्यङ्गावगाहेषु तिलतैलं प्रशस्यते”। ननु वृंहण लेखनयोः कथं सामानाधिकरण्यमित्यत आह। “रूक्षादिदुष्टः पवनः स्रोतः सङ्कोचयेद्यदा। रसोऽसम्यग्वहन् कार्श्यं कुर्य्याद्रक्ताद्यवर्द्धयन्। तेषु प्रवेष्टुंसरता सौक्ष्म्य स्निग्धत्वमार्दवैः। तैलं क्षमं रसं नेतुं कृशानां तेनवृंहणम्। व्यवायि सूक्ष्मतीक्ष्णीष्ण सरत्वैर्मेदसः क्षयम्। शनैः प्रकुरुते तैलं तेन लेखनमीरितम्। द्रुतं पुरीषं वध्नाति स्खलितं तत्प्रवर्त्तयेत्। ग्राहकं सारकञ्चापि तेन तैलमुदीरितम्। घृतमव्दात्परं पक्वं हीनवीर्य्यं प्रजायते। तैलं पक्वमपक्वं वा चिरस्थायि गुणाधिकम्”। सर्षपतैलगुणाः। “दीपनं सार्षपं तैलं कटुपाकरसं लघु। लेखनं स्पर्शवीर्य्योष्णं तीक्ष्णं पित्तास्रदूषकम्। कफमेदोऽनिलार्शोघ्नं शिरःकर्णामयापहम्। कण्डूकुष्ठकृमिश्वित्रकोठदुष्टकृमिप्रणुत्”। राजिकातैलगुणाः “तद्वद्राजिकयोस्तैलं विशेषान्मूत्रकृच्छ कृत्”। राजिकयोः (कृष्णाराई) (आरक्तराई) द्वयोः। तुवरी (तोरी) तैलगुणाः “तीक्ष्णोष्णं तुवरीतैलं लघु ग्राहि कफास्रजित्। वह्निकृद्विषनुत्कण्डूकुष्ठकोठकृमिप्रणुत्। मेदोदोषापहञ्चापि व्रणशोथहरं परम्”। अतसीतैलगुणाः “अतसीतैलमाग्नेयं स्निग्धोष्णं कफपित्तकृत्। कटुपाकमचक्षुष्यं वल्यं वातहरं गुरु। मलकृद्रसतः स्वादु ग्राहि त्वग्दोषनुद्थनम्। वस्तौ पाने तथाभ्यङ्गे नस्ये कर्णस्य पूरणे। अनुपानविधौ चापि प्रयोज्यं वातशान्तये। वररोः तैलगुणाः “कुसुम्भतैलमम्लं स्यादुष्णं गुरुविदाहि च। चक्षुर्भ्यामहितं बल्यं रक्तपित्तकफप्रदम्। अथ (खाखस) वीजतैलस्य गुणाः। “तैलं तु खसवीजानां बल्यं वृष्यं गुरु स्मृतम्। वातहृत्कफहृच्छीतं स्वादुषाकरसं च तत्”। एरण्डतैलगुणाः “एरण्डतैलं तीक्ष्णोष्णं दीपनं पिच्छिलं गुरु। वृष्यं त्वच्यं वयःस्थापि मेधाकान्तिबलप्रदम्। कषायानुरसं सूक्ष्मं योनिशुक्रविशोधनम्। विस्रं स्वादु रसे पाके सतिक्तं कटुकं सरम्। विषमज्वरहृद्रोगपृष्टगुह्यादिशूलनुत्। हन्ति वातोदरानाहगुल्माष्ठीलाकटीग्रहान्। वातशोणितविड्बन्धव्रध्नशोथामविद्रधीन्। आमबातगजेन्द्रस्य शरीरवनचारिणः। एक एव निहन्तायमेर ण्डस्नेहकेशरी”। रालतैलगुणाः “तैलं सर्जरसोद्भूतं विस्फोटव्रणनाशनम्। कुष्ठपामक्रिमिहरं वातश्लेष्मामयाप हम्”। सर्वतैलगुणाः “तैलं स्वयोनिगुणकृद्वाग्भटेनाखिलं मतम्। अतःशेषस्य तैलस्य गुणाज्ञेयास्वयोनिवत्”। “प्रातः स्नाने व्रते श्राद्धे द्वादश्यां ग्रहणे तथा। मद्यलेपसमं तैलं तस्मात्तैलं विवर्जयेत्” कर्म्मलोचन०। “घृतञ्च सार्षपं तैलं यत्तैलं पुष्पवासितम्। अदुष्टं पक्वतैलञ्च तैलाभ्यङ्गे च नित्यशः” तिथ्या० त० वारविशेषे तैलग्रहणफलं यथा। “अर्के नूनं दहति हृदयं कीर्त्तिलाभश्च सोमे भौमे मृत्युर्भवति नियतं चन्द्रजे पुत्रलाभः। अर्थग्लानिर्भवति च गुरौ भार्गवे शोकयुक्तस्तैलाभ्यङ्गात्तनयमरणं सूर्य्यजे दीर्घमायुः” ज्यो० त०। “घृतादष्टगुणं तैलं मर्दयेन्न तु खादयेत्” वैद्यक०। अल्पे कन्। तैलक स्वल्पतैले न०।

तैलकन्द = पु० तिलस्यायम् अण् तैलः तिलसम्बन्धी कन्द इव कन्दोऽस्य। तिलचित्तपत्रके वृक्षभेदे “तैलकन्दः कटूष्णश्च लौहद्रावकरोमतः। मारुतापस्मारविषशोफनाशकरश्च सः। रसस्य बन्धकारी च देहशुद्धिकरस्तथा” राजनि०

तैलकल्कज = पु० तैलात् तिलसम्बन्धिनः कल्काज्जायते जनड। तिलकल्कजाते (तैलेर काट) तैलकिट्टे राजनि०।

तैलकार = पु० तैलं करोति कृ–अण् (तेली) (कलु) इति प्रसिद्धे वर्णसङ्करे चाक्रिके तैलिनि। स च कोटकस्त्रीगर्भे कुम्भकाराज्जातः सङ्कीर्णजातिभेदः ब्रह्मवै० ब्रह्मख०

तैलकिट्ट = न० ६ त०। तैलमले (काट) इति ख्यातेः

तैलकीट = पु० कीटभेदे राजनि०।

तैलक्य = न० तिलकस्य भावादौ पुरोहि० यक्। तिलकभावे।

तैलङ्ग = पु० “श्रीशैलं तु समारभ्य चोलेशान्मध्यभागतः। तैलङ्गदेशो देवेशींत्युक्ते १ देशे। २ तत्रस्थे जने ब० व०। शब्दरत्ना०

तैलचोरिका = स्त्री तैलं चोरयति चुर–ण्वुल् पृषो०। तैलपायिकायाम् (तेलापोका)। पृषो०! तैलचौरिकासूत्रे।

तैलद्रौणी = तैलपूर्णा द्रोणी शा० त०। “कण्ठपर्य्यन्तमज्जनार्थं तैलपूर्णे काष्ठादिनिर्मिते पात्रविशेषे। अत्रावस्थितिगुणाः। वातरोगव्याधिकुष्ठरोगपङ्गुवाधिर्य्यमिन्मिनगद्गदहन्वङ्गस्तम्भपृष्ठप्रचलितपवनगात्रकम्पकपाटीग्रीवाभङ्गापतन्त्रक्षयरुधिरभवमूत्रकृच्छ्रवस्तिरोगेषु हितत्वमिति” राजभल्लभः।

तैलधान्य = न० तैलोपयोगि धान्यं सतुषं शस्यम्। “तिलोऽतसी च तोरी (डी) च त्रिविधश्चापि सर्षपः। द्विधा राजी खसञ्चैव वीजं कौसुम्भसम्भवम्। एतानि तैलधान्यानीत्युक्तेषु तिलादिषु।

तैलपक = पु० तैलं पिवति पा–क स्वार्थे क। तैलपायिकाख्ये पक्षयुक्ते कीटे। तैलहरणे तज्जातिप्राप्तिर्भनुनोक्ता यथा “मांसं गृध्रोवपां मद्गुस्तैलं तैलपकः खगः”

तैलपर्णक = पु० तैलाक्तमिव पर्णमस्य कप्। ग्रन्थिपर्णवृक्षे भावप्र०।

तैलपर्णिक = न० तैलपर्णो गिरिभेद उत्पत्तिस्थानत्वेनास्त्यस्य ठन् तैलाक्तं पर्णमस्त्यस्य ठन् वा। १ हरिचन्दने अमरः। तिलपर्णः वृक्ष उत्पत्तिस्थानत्वेनास्त्यस्य ठन्। २ चन्दनभेदे।

तैलपर्णी = स्त्री तिलपर्णो गिरिस्तत्र भवः अण् ङीप्। १ चन्दने २ श्रीवासे ३ सिह्लके च मेदि०। स्वार्थे क। तैलपर्णिका तत्रार्थे। “कालियकादुकूलाश्च हिङ्गवस्तैलपर्णिकाः” हरिवं० २३१ अ०।

तैलपा = स्त्री तैलं पिबति पा–क। (तेलापेका) कीटभेदे। राजनि०।

तैलपायिका = स्त्री पा–ण्वुल् ६ त०। (तेलापोका) (आरसुला) कीटभे दे अमरः।

तैलपायिन् = पु० तैलं पिबति पा–णिनि। तैलपायिकाख्ये पक्षयुक्ते कीटभेदे। “तैलहृत् तैलपायी स्यात्” याज्ञ०।

तैलपिपीलिका = स्त्री तैलाक्तेव पिपीलिका। पिपिलीकाभेदे

तैलपीत = त्रि० पीतं तैलं येन आहि०परनि०। पीततैलके।

तैलफल = पु० तैलं फले यस्य। इङ्गुदीवृक्षे राजनि०।

तैलभाविनी = स्त्री तैलं भावयति वासयति भू–णिनि ङीप्। तैलवासके जातीपुष्पवृक्षे राजनि०।

तैलमाली = स्त्री तैलेन मालः सम्बन्धो यस्याः गौरा० ङीष्। वर्त्तिकायां दीपदशायां शब्दमाला।

तैलम्पाता = स्त्री तिलस्य पातोऽत्र ञ नि० मुम् च। १ स्वधायाम्, २ तदुपलक्षिते श्राद्धे च अमरः।

तैलयन्त्र = पु० तैलमर्द्दनार्थं यन्त्रम्। तिलादिनिष्पीडनार्थे यन्त्रभेदे (कलुरघाणि) “अमीमांस्यानि शौचानि तैलयन्त्रक्षुयन्त्रयोः” स्मृतिः “रविरथचक्रं च तैलयन्त्र- चक्रवत् भ्रमत्” भागवते ५। २१। १९ श्लोकः।

तैलवक = पु० तेलुनृपस्य विषयो देशः राजन्या० वुञ्। तेलुनृपविषये देशे।

तैलवल्ली = स्त्री तैलाक्तेव वल्ली। लघुशतावर्य्यां पारस्क रनिघ०।

तैलसाधन = न० तैलं साधयति सुरभीकरोति सिध–णिच साधि–ल्यु। कक्कोले गन्धद्रव्ये श्ब्दच०।

तैलस्फटिक = पु० तैलाक्तः स्फटिक इव। तृणमणौ गोमेदे हेमच०।

तैलस्यन्दा = स्त्री तैलमिव स्यन्दति स्यन्द–अच्। १ श्वेतगोकर्ण्यां २ काकोल्यां पारस्करनिघण्टुः।

तैलागुरु = पु० तैलाक्तमिवागुरु। दाहागुरौ राजनि०।

तैलाटी = स्त्री अटति अटं तैलेनाटं विषमस्याः गौरा० ङीष्। वरटायां तैलस्पर्शे तद्विषनाशात् तस्याः तथात्वम्।

तैलाम्बुका = स्त्री तैलमम्बु इव पेयमस्याः। तैलपायिकाख्ये कीटे जटा०।

तैलिक = त्रि० तैलं पण्यं यस्य तैलं शिल्पमस्य वा ठक्। २ तैलार्थं तिलनिष्पीडने (कलु) “खलमलिननीचतैलिकविहीनसत्त्वोपहतपुंस्त्वा” वृ० स० १६ अ०। २ तैलविक्रेतरि च “समुद्रगामी वन्दी च तैलिकः कूटकारकः” मनुः तिलविक्रेतुरपाङ्क्तेयमुक्तम्।

तैलिन् = त्रि० तैलं निष्पाद्यत्वेनास्त्यस्य इनि। १ तैलकारे हेमच०। २ तैलयुक्ते त्रि०। स्त्रियां ङीप् ङीबन्तः। ३ तैलकीटे राजनि० ४ दशायां वर्त्तौ शब्दमा०।

तैलिशाला = स्त्री ६ त०। तैलनिष्पीडनार्थे गृहे (घाणिघर) हेम०।

तैलीन = तिलानां भवनं क्षेत्रं खञ्। तिलभवनयोग्ये क्षेत्रे अमरः।

तैव्रदारव = त्रि० तीव्रदारुणैदम् रजता० अञ्। तीव्रदारुसम्बन्धिनि स्त्रियां ङीप्।

तैष = पु० तिष्यनक्षत्रयुक्ता पौर्णमासी अणि यलोपे ङीप्। तौषी साऽस्मित् मासे अण्। १ पौषे मासि धनुःस्थरव्यारब्धे शुक्लप्रतिपदादिदर्शान्ते चान्द्रे मासि अमरः तदीय पूर्णिमायामेव तद्योगसम्भवः। तिष्यशब्देन तत्समीपनक्षत्रस्यापि ग्रहणात् कदाचित् तत्सम्बन्धाभावेऽपि न क्षतिः। २ तदीयपौर्णमास्यां स्त्री “सास्मिन् पौर्णमासी” पा० नक्षत्रयुक्तकालस्य पूर्णिमायामेव तद्योगे साधुत्वेन पौर्णमासीपरत्वमेवेति बोध्यम्। “तैष्या नधीतपूर्वाणाम्” आश्व० श्रौ० ८। १४। २२।

तोक = न० सौ० तु–क तस्य नेत्त्वम्। १ अषत्ये पुत्रे, दुहितरि च अमरः। “नित्ये तोके दीदिवांसम्” २। २। ११ “पश्वे तोकाय ततयाय जीवसे” ऋ० १०। ३५। १२ “तोकेन जीवहरणं यदुलूकिकायास्त्रैमासिकस्य च पदा शकटोऽपवृत्तः” भाग० २। ७। २८।

तोक्म = पु० तक म पृषो० अत ओत्त्वम्। हरिद्वर्णे अपक्वयवे अमरः। २ हरिद्वर्णे हेमच०। ३ कर्णमले न० हेम०। ४ मेघे पु० अजयपालः। ५ नवप्ररूढे यवे यवाङ्कुरे न०। “प्रायणोयस्य तोक्मानि” यजु० १९। १३। “तोक्मानि नवप्ररूढयवाः” वेददी०। “पत्रपुष्पफलच्छायाभूलबल्कलदारुभिः। गन्धनिर्यासभस्मास्थितोक्मैः कामान् वितन्वते भाग० १०। २२। २५ “तीक्माः पल्लवाद्यङ्कुराः” श्रीधरः तेन ६ तदर्थेऽपि च।

तोक्मन् = न० तक–मनिन् पृषो० अत ओत्त्वम्। नवविरूढयवे २ अपत्ये न० निघण्टुः। “भेषजं तोक्मभिः” यजु० २१। ३०। “तोक्मभिर्लाजैर्महःस्वन्तः” यजु० २१। ४२।

तोटक = न० द्वादशाक्षरपादके छन्दोभेदे। “इह तोटकमम्बुधिसैः प्रथितम्” वृ० र०।

तोड = अनादरे भ्वा० पर० सक० सेट्। तोडति अतोडीत्। ऋदित्। णिच् अतुतोडत् त।

तोडल = न० तन्त्रभेदे।

तोतस् = अव्य० तु–बा० तसि। १ कलत्रे २ त्वयीत्यर्थे च। “मा वयं रायस्पोषेणवियौष्म तोतो रायः” यजु० ४। २२। तोतः शब्दः कलत्रवाची अव्ययम्। तोतः कलत्रे रायो धमानि पशवी वा पदरूपेण तिष्ठन्तु। यद्वाऽव्ययानामनेकार्थत्वात्तोतः शब्दो युष्मत्पर्य्यायः। तोतः त्वयि रायः सन्तु” वेददी०।

तोडन = न० तुड–भावे ल्युट्। १ भेदने २ दारणे ३ हिंसने च।

तोडी(री) = स्त्री तुड–अच् गौरा० ङीष् वा डस्य रः। स्वनामख्याते तैलसाधने धान्यभेदे।

तोत्त्र = न० तुद्यदेऽनेन तुद–करणे ष्ट्रन्। गवादिताडने दण्डे अमरः।

तोद = पु० तुद–मावे घञ्। व्यथायां रत्नमाला। “हीनदग्धे तोदकण्डूजाड्रानि व्याधिवृद्धिश्च” सुश्रु०। “दंशे तोदकण्डूप्रादुर्भावैर्जानीयात्” सुश्रु०। कर्त्तरि अच्। २ व्यथके त्रि०। “तोदो वातस्य हर्य्योरीशानः” ऋ० ४। १६। ११। “तोदस्तोदकः” भा०।

तोदन = न० तुद्यतेऽनेन करणे ल्युट्। १ तुण्डे मुखे अमरः। भावे ल्युट्। २ व्यथायाम् मेदि०। कर्त्तरि ल्यु। ३ व्यथके त्रि०। “कषायं मधुरं रूक्षं तोदनं कफवातजित्” सुश्रु०। ४ क्षीरिवृक्षभेदे पु०। “क्षीरवृक्षफलजाम्बवराजादनतीदनतिन्दुकबकुलधन्वनाश्मन्तकाश्वकर्णफल्गुपरूषकगाङ्गेरुकीपुष्करवर्त्तिविल्वषिम्बीप्रभृतीनि। फलान्वेतानि शीतानि कफपित्तहराणि च। सग्राहकाणि रूक्षाणि कषायमधुराणि च” सुश्रु०।

तोदपर्णी = स्त्री तोदं तोदकं पर्णमस्याः गौरा० ङीष्। कुत्सिते धान्यभेदे। “कोरदूषकश्यामाकनीवारशान्तनुतुवरकोद्दालकप्रियङ्गुमधूलिकानान्दीमुखकुरुविन्दगवेधुकवरुकतोदपर्णी मुकुन्दकवेणुयवप्रभृतयः कुधान्यविशेषाः” सुश्रु०।

तोमर = पुं न० तु–विच् तौर्गतो म्रियतेऽनेन मृ–करणे अप्। १ हस्तक्षेप्ये शल्याग्रे दण्डाकारेऽस्त्रभेदे (रायवा~श) अमरः। तोमरलक्षणं हेमा० प० लक्षणसमुच्चये उक्तं यथा। औशनसधनुर्वेदे। “शुक्रो भगवानुवाच जमदग्निं प्रति वत्स! निबोध यथाप्रश्नमुच्यमानम् तत्र दण्डान्वितं सर्वलौहं वेति तोमरं द्विविधं भवति। तच्च तोमरं सदण्डं लक्ष्यायतं भवेत् तोमरं सर्वायसं तक्त्वार्य्ये प्रयोजयेत्। तच्च निकृष्टमध्यमोत्तमं भूयस्त्रिविधं प्रमाणतो भवति तत्र चतुर्हस्तप्रमाणं निकृष्टं सार्द्धचतुर्हस्तं मध्यमं पञ्चहस्तप्रमाणं तूत्तमं भवति। तथा कलनायां चाद्यं द्वितीयं तृतीयं चेति त्रिधा द्व्यङ्गुलमध्ये द्व्यङ्गुलकलितमेकं स्यान्मध्यात्पूर्वं त्र्यङ्गुलकलितं द्वितीयं स्यात्। मध्यात्पूर्वं षडङ्गुलकलितस्थानकलनया तृतीयं स्यात्। सार्द्धमेकं निकृष्टं, त्रयोमध्यमं षडत्तमं कलनायास्तथा तोमरास्त्रस्य परिणाहः परः षडङ्गुलो भवति सार्द्धपञ्चाङ्गुलो मध्यमः पञ्चाङ्गुलः कनिष्ठ इति। त्रयाणां देशानां त्रयः छन्दाः। छादनात्तथा आवन्त्योमागधो दाक्षिणात्यश्चेति। तत्रावन्त्यतोमरं तक्षणसंस्थानं भवति मागधं तोमरं योनिसंस्थानं भवति दाक्षिणात्यं तोमरं वृत्तं भवति। तेषां मुखानि तद्देशाच्छन्दतः इति इत्यादि। २ नवाक्षरपादके छन्दोभेदे “प्रथमं सकं विनिधाय जगणद्वयञ्च निधाय। कुरु तोमरं सुखकारि फणिराजवक्त्रविहारि” तल्लक्षणम्।

तोमरग्रह = पु० तोमरं गृह्णाति ग्रह–अच् न अण्। तोमरास्त्रग्राहिणि।

तोमरधर = पु० तोमरमस्त्रं धरति धृ–अच्। वह्नौ शब्दार्थक०

तोमरिका = स्त्री तोमर + संज्ञायां कन्। आढक्याम् शब्दर०

तोय = न० सौ० तु–विच् तवे पूर्त्त्यै याति या क। १ जले २ पूर्वाषाढानक्षत्रे च। “ऊद्धृत्य मेघैस्ततः एव तोयम्” माघः। “मृत्तोयैः शुध्यते शोध्यं नदीवेगेन शुध्यति” मनुः। पूर्वाषाढानक्षत्रस्य जलदैवतत्वात् तथात्वम्। ३ लग्नावधिचतुर्थस्थाने च ज्यो० त०। तत्र जलस्य चिन्तनीयत्वात् तथात्वम्।

तोयकर्म्मन् = न० तोयेन कर्म्म। तर्पणे “तोयकर्मणि चारब्धेराज्ञामुदकदानिके” भा० आ० १ अ०।

तोयकाम = पु० तोयं कामयते कम–अण्। १ जलवेतसे जटाधरः। २ जलाभिलाषुके त्रि०।

तोयकुम्भ = पु० तोयस्य कुम्भ इव। शैवाले पारस्करनिघण्टुः।

तोयकृच्छ्र = न० जलमात्रपानरूपे माससाध्ये व्रतभेदे। “यदा तु विल्वानि फलानि प्रत्येकं क्वथितानि मासम्पीयन्ते तदा फलकृच्छ्रादिव्यपदेशं लभते। यथाह मार्कण्डेयः “फलैर्मासेन कथितः फलकृच्छ्रो मनीषिभिः। श्रीकृच्छ्रः श्रीफलैः प्रोक्तः पद्माक्षैरपरस्तथा। मासेनाममलकैरेवं श्रीकृच्छ्रमपरं स्मृतम्। पत्रैर्मतः पत्रकृच्छ्रः पुष्पैस्तत्कृच्छ्र उच्यते। मूलकृच्छःस्मृतीमूलैस्तोयकृच्छ्रो जलेन तु” इति। “इति पर्णकृच्छ्रमेकादशविधम्” मिता०।

तोयडिम्भ = पु० तोयस्य डिम्भ इव। १ मेघोपले करकायां हारा०।

तोयद = पु० तोयं ददाति दा + क। १ मेघे, २ मुस्तके च। ३ घृते न० मेदि०। ४ विधिना जलदातरि त्रि०। “तोयदस्तृप्तिमाप्तोति” पुरा०। तद्दानमाहात्म्यं भा० शा० दानधर्म्मे यथा “अन्ने दत्ते नरेणेह प्राणा दत्ता भवन्त्युत। प्राणदानाद्धि परमं न दानमिह विद्यते। अन्नं वापि प्रभवति पानीयात् कुरुसत्तम!। नीरजातेन हि विना न किञ्चित् संप्रवर्त्तते। अन्नौषध्यो महाराज! वीरुधश्च जलोद्भवाः। यतः प्राणभृतां प्राणाः सम्भवन्ति विशाम्पते!। तस्मात् पानीयदानांद्वै न परं विद्यते क्वचित्। तच्च दद्यान्नरोनित्य यदीच्छेद् भूतिमात्मनः। धन्यं यशस्यमायुष्यं जलदानमिहोच्यते। शत्रूंश्चाप्यधि कौन्तेय! सदा तिष्ठति तोयदः। सर्वकामानवाप्तोति कीर्त्तिञ्चैवेह शाश्वतीम्। प्रेत्य चानन्त्यमश्नाति पापेभ्यश्च प्रमुच्यते। तोयदो मनुज व्याघ्र! स्वर्गं गत्वा महाद्युते!। अक्षयान् समवाप्तोति लोकानित्यव्रवीन् मनुरिति”।

तोयधर = पु० तोयं धरति धृ–अच्। १ मेघे मेदि० २ मुस्तके च “नीला इवातपात्यये तोयं तोयधरा घनाः” रामा० बा० ९३ अ०।

तोयधार = पु० तोयानां धारा यत्र। १ मेघे २ मुस्तके च। धारि–भावे अच्। तोयस्य धारः वर्षणम्। ३ जलवर्षणे पु०। “घनवत्तोयधारेण ववर्ष कनकाम्बुभिः” हरिवं० ११३ अ०। ६ त०। ४ जलसन्ततौ स्त्री। “शरान् व्यसृजतां शीघ्रं तोयधारा घना इव” भा० वि० ३२ अ०। “गिरिः प्रस्रवण इव तोयधारा” रामा० आ० ३५ स०।

तोयधि = पु० तोयानि धीयन्तेऽत्र धा–कि उप० स०। १ समुद्रे जलधिप्रभृतयोऽप्यत्र। ३ चतुःसंख्यायाञ्च। “समन्तान्मेरुमध्यात् तु तुल्योभागेषु तोयधेः” सू० सि०।

तोयधिप्रिय = न० तोयधिं प्रीणाति प्री–क। १ लवङ्गे शब्दच०।

तोयनिधि = पु० तोयं निधीयतेऽस्मिन् नि + धा–कि उप० स०। १ समुद्रे २ चतुःसंख्यायाच्च। “पूर्वापरौ तोयनिधी वगाह्य” कुमा०।

तोयनिवी = स्त्री तीयं समुद्रोदकं नीवीव यस्याः आर्षे न कप्। १ पृथिव्यां “तोयनीव्याः पतिं भूमेरभ्यषिञ्चद्गजाह्वये” भाग० १। १५। ३८। लोके तु कप् तोयनीविका तत्रार्थे।

तोयपिप्पली = स्त्री तोये पिप्पलीव। (का~चडा) शाकभेदे लाङ्गल्याम् अमरः।

तोयपुष्पी = स्त्री तोयेन बहुजलदानेन पुष्पाण्यस्याः। १ पाटलावृक्षे शब्दमाला।

तोयप्रसादन = पु० तोयं प्रसादयति फलयोगेन प्र + सद–णिच्ल्यु। १ कतके (निर्माल्लि)। फलपरत्वे न० रत्नमाला “तोयप्रसादकाम्बुप्रसादकादयोऽप्यत्र “फलं कतकवृक्षस्य यद्यम्बुप्रसादकम्” मनुः।

तोयफला = स्त्री तोयप्रधानं फलं यस्याः। १ इर्वारौ कर्कटीभेदे राजनि०।

तोयमुच् = पु० तोयं मुञ्चति मुच–क्विप् ६ त०। १ जलमुचि मेघे २ मुस्तके च।

तोययन्त्र = न० सू० सि० उक्ते कालज्ञानार्थे घटीयन्त्रभेदे घटीयन्त्रशब्दे २७८१ पृ० दृश्यम्। (फोआरा) इति ख्याते २ जलयन्त्रभेदे च।

तोयराज् = पु० तोयेषु राजते राज–क्विप्। १ समुद्रे “यदीच्छेत्सागरः किञ्चिदुत्स्रष्टुमिह तीयराट्” हरिवं० २२६ अ०। २ वरुणे च

तोयराशि = पु० तोयानां राशिरिव। १ समुद्रे। ६ त०। २ जलसमूहे च “तोयराशिसम्भवापि तृष्णां संवर्द्धयति” काद०।

तोयवल्ली = स्त्री तोयसन्निहितस्थाने वल्ली। १ कारवेल्ले (उच्छे) रत्नमा०। स्वार्थे क। तोयवल्लिकाप्यत्र।

तोयशुक्तिका = स्त्री तोयजाता शुक्तिका शा० त०। जलशुक्तिकायां राजनि०।

तोयशूक = पु० तोयस्य शूक इव। शैवाले पार० नि०।

तोयसूचक = पुंस्त्री० तोयं तोयवर्षं सूचयति रवेण सूचण्वुल्। १ भेके शब्दार्थक०। स्त्रियां जातित्वात् ङीष्। २ जलवर्षणसूचके योगभेदे त्रि०। जलशब्दे३०६५ पृ० दृश्यम्।

तोयविम्ब = न० तीयोत्थितं विम्बम् अर्द्धडिम्बाकारं वस्तु। जलविम्बे जलोपरिभासमाने अर्द्धगोलाकारे पदार्थे। अयं शब्दः तोयवल्लीशब्दात् परं पाठ्यः।

तोयात्मन् = पु० तोयमात्मा स्वरूपं यस्य तत्प्रकृतित्वात्। १ परमेश्वरे। “यस्य केशेषु जीमूताः। नद्यः सर्वाङ्गसन्धिषु कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः” विष्णुस्तुतिः।

तोयाधार = पु० ६ त०। १ जलाशये। जलाशयोत्सर्गशब्दे ३०७५ पृ० तद्भेदादि दृश्यम्। “तोयाधारपथाश्च वल्कलशिखानिष्यन्दरेखाङ्किताः” शकु०।

तोयाधिवासिनी = स्त्री तोयं तोयार्द्रं देशमधिवसति अधि + वस–णिनि ङीप्। पाटलावृक्षे रत्नमाला।

तोयेश = पु० ६ त०। १ वरुणे तदधिदेवताके २ शतभिषानक्षत्रे च। तोयं जलमधिदेवोऽस्य। ३ पूर्वाषाढानक्षत्रे न०।

तोरण = पुंन०। तुर–युच आधारे ल्युट् तोलयत्यनेन तुल–उन्माने करणे–ल्युट् लस्य रो वा। बहिः स्थिते १ द्वारे। “अथोच्चकैस्तोरणसङ्गभङ्गेति” “गणो नृपाणामथ तोरणाद्बहिः” माघः। “भासोज्ज्वत्काञ्चनतोरणानाम्” कुमा०। तच्च द्वाराग्रे निखातस्तम्भोपरिनिबद्धो धनुराकारः (फटक्) इति ख्यातः पदार्थः। यागादौ मण्डपाद्बहिर्द्वाररूपस्य तोरणस्य काष्ठविशेषप्रमाणादिकं मण्डपशब्दे दृश्यं मत्कृततुलादा नादिपद्धतौ विस्तरो दृश्यः। २ कन्धरायां न० हारा०।

तोरश्रवस् = पु० अङ्गिरोमुनौ।

तोल = पुंन०। चु० तुल–कर्म्मणि अच्। अशीतिरत्तिकामाने १ कर्षे। “एकतोलं द्वितोलं वा त्रितोलं वेदतोलकम्। इतोऽधिकं नरः कृत्वा प्रायश्चित्तीयते ध्रुवम्” आगमः। स्वार्थे क। तत्रार्थे “पलं तु लोकिकैर्मानैः साष्टरत्तिद्विमाषकम्। तोलकत्रितयं ज्ञेयम्” तिथित०।

तोल्य = त्रि० तुल + उन्माने कर्म्मणि–ण्यत्। १ तोलनीये। भाषे ण्यत्। २ तोलने न०। “जीवानां वयसां मौल्ये तोल्ये वर्णस्य हेमनि” लीला०।

तोश = पु० तुश–वधे भावे घञ्। १ हिंसायाम्। कर्त्तरि अच्। २ हिंसके “त्वे राय इन्द्र! तोशतमाः” ऋ० १। १६९। ५। “तोशतिर्बधकर्मा नितोशयति निबर्हयतीति तन्नामसु पाठात् तोशतमाः नाशयितृतमाः” भा०। “तोशा वृत्रहणा हुवे” ऋ० ३। १२। ४। “तोशा बाधकौ” भा०। औस्थाने आच्।

तोष = पु० तुष–भावे घञ्। सन्तोषे। “तोषपरो हि लाभः” भा० उ० ३९ अ०।

तोषण = न० तुष–भावे ल्युट्। १ सन्तोषे। तुष–णिच् भावे ल्युट्। २ सन्तोषोत्पादने। “एतावदेव पुरुषैः कार्य्यं हृदयतोषणम्” भा० स० १६ अ०। कर्त्तरि ल्यु। ३ सन्तोपजनके त्रि० “पशून् हृदयतोषणान्” भा० उ० ८३ अ०। करणे ल्युट्। ४ तोषसाधने स्त्रियां ङीप् तोषणी।

तोषल = न० तोषं लूनाति लू–बा० ड। अस्त्रभेदे १ मुषलेऽस्त्रे “कृष्णस्तोषलमुद्यम्य गिरिकूटोपमं बली” हरिवं० ८७ अ०।

तौक्षिक = पु० धनूराशौ दीपिका कौर्प्यशब्दे २२७८ पृ० दृश्यम्।

तौतातिक = न० तुतातभट्टेन निर्वृत्तम् ठञ्। तुतातभट्टकृतशास्त्रे “नैवाश्रावि गुरोर्मतं न विदितं तौतातिकं दर्शनम्” प्रबोधच०।

तौतिक = न० १ मुक्तायां २ शुक्तौ च राजनि०।

तौदी = स्त्री विषनाशके अओषधिनेदे घृतकुमार्य्याम्। “तौदी नामासि कन्या घृताची वा असि” अथ० १९। ४। ४२।

तौम्बरविन् = पु० ब० व०। तुम्बुरुणा कलाप्यन्तेवासिना प्रोक्तमधीयते इनि। कलाप्यन्तेवासिना तुम्बुरुणा प्रोक्तशाखाध्येतृषु।

तौर = न० यागभेदे। “संवत्सरमहरहस्तौरेण यजेत” लाट्या० श्रौ० १०। २०। १। “दार्षद्वततारयोव्र तानि” १०। १८। १०। तत्रैव।

तौरयान = न० तूर्णं यानमस्य पृषो०। तूर्णगमनयुक्ते। “स तौरयान उपयाहि यज्ञम्” निरुक्ते ५। २५। श्रुतिः तौरयानः तूर्ण्णयानः “तौरयान इत्यपि” निगमो भवति”

तौरश्रवस = न० तोरश्रवसाऽङ्गिरसा दृष्टं साम अण्। सामभेदे “तौरश्रवसे माध्यन्दिने पवमाने तदावपनश्रुतेः” कात्या० श्रौ० २५। १४। १४। “तौरश्रवसे सामनी” कर्कः।

तौर्य्य = न० तूर्य्ये मुरजादौ वाद्ये भवम् अण्। मुरजादिध्वनौ।

तौर्य्यत्रिंक = न० त्रयः परिमाणभस्य कन् तौर्य्योपलक्षित त्रिकम्। समुदितेषु नृत्यगीतवाद्येषु अमरः। “वनेऽपि तौर्य्यत्रिकमारराध तम्” नैषधम्। “तौर्य्यत्रिकं वृथाद्या कामजो दशको गणः” मनुः।

तौल = न० तुलैव तुला + स्वांर्थे अण् स्वार्थिका अपि प्रत्ययाः क्वचित्प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते इत्युक्तेः दैवतादिवत् क्लीवता। मानभेदे १ तुलायाम् २ उन्मानदण्डे ३ तुलाराशौ च ज्यो०।

तौलिक = पु० तूल्या जीवति तूली + ठक्। चित्रकरे शब्दमाला।

तौलिकिक = पु० तूलिकया जीवति ठक्। चित्रकरे हेमच०।

तौलिन् = पु० तुलैव तौलं तत् विद्यतेऽस्य इनि। तुलाराशौ “तौलिनि चित्रान्त्यार्द्धं स्वातिः पादत्रयं विशाखायाः” वृ० सं० १०३ अ०। अस्य क्लीवत्वमपि “शक्रे तौलि हुताशनेऽलिधनुषी याम्ये मृगो नैरृते” ज्यो० रात्रिलग्ननिर्णयः।

तौल्य = त्रि० तुलया परिच्छिन्नम् ष्यञ्। तुलया परिच्छिन्ने त्रिका०। तुल्यमेव स्वार्थेऽण्। २ तुल्ये न०।

तौल्वलि = पु० तुल्वलस्यापत्यम् इञ्। तुल्वलार्षेरपत्ये “सर्वेभ्य एव निपृणीयादिति तौल्वलिः क्रियागुणत्वात्” आश्व० श्रौ० २। ६। १७ “अभक्षणमितरेषां तौल्वलिः कृतार्थत्वात्” ५। ६। २४। ततः इञन्तत्वात् यूनि फक् तौल्वल्यादित्वात् युवप्रत्ययस्य न लुक्। तौल्वतायन–यूनि तदपत्ये।

तौल्वल्यादि = पु० “न तौल्वलिभ्यः” पा० सूत्रोक्ते युवप्रत्ययस्य लुकि पर्य्युदस्ते शब्दगणे स च गणः पा० ग० सू० उक्तो यथा

“तौल्वलि, धारणि, पारणि, रावंणि, दैलीपि, दैवति, वार्कलि, नैवकि, दैवमति, दैवयज्ञि, चाफट्टकि, वैल्वकि, वैङ्कि, आनुराहति, पौष्करसादि, आनुरोहति, आनुति, प्रादोहनि, नैमिश्रि, प्राडाहति, वान्घकि, वैशीति, आसिनासि, आहिंसि, आसुरि, नैमिषि, आसिवन्धकि, पौष्करेणुपालि, वैकर्णि, वैरकि, वैहति।

तौवरक = त्रि० तुवर्य्या इदम् अण् स्वार्थे क। तुवरीसम्बन्धिनि १ स्नेहादौ “ऋते भल्लातकस्नेहात् स्नेहात्तौवरकात्तथा” सुश्रुतः। स्वार्थे अण्। ततः स्वार्थे क। २ तुवरके। “आयुष्करं तौवरकं कषायं कटुपाकिकम्। उष्णं कृमिज्वरानाहमेहावर्त्तविनाशनम्” सुश्रुतः।

तौविलिका = स्त्री ओषधिभेदे। तौविलिके!ऽवेलयावायमैलव ऐलयीत्” अथ० ६। १६। ३।

तौषायण = त्रि० तुषस्यादूरदेशादि पक्षा० चतुरर्थ्यां फक्। तुषस्यादूरदेशादौ।

तौषार = त्रि० तुषारस्येदमण्। तुषारसम्बन्धिनि जले राजनि० “तत्रान्तरिक्षं धारं कारं तौषारं हैममिति” आन्तरिक्षजलविभागे सुश्रुतः। भावप्र० तल्लक्षणादि उक्तं यथा “अपि नद्याः समुद्रान्ते वह्निरापश्च तद्भवाः। धूमावयवनिर्मुक्तास्तौषाराख्यांस्तु ताः स्मृताः। अपथ्याः प्राणिनां प्रायो भूरुहाणान्तु ता हित्ताः। तुषाराम्बुहिमं रूक्ष स्याद्वातलमपित्तलम्। कफोरुस्तम्भ- कण्ठाग्निमेदोगण्डादिरोगनुत्”। नदीमारभ्य समुद्रपर्य्यन्तं वह्निरास्ते तद्भवा वह्निभवाः धूमावयवनिर्मुक्ताः धूमांशरहिता आपः तौषाराख्या इत्यर्थः।

***