तुला = स्त्री तुल–भिदा० अङ्। १ सादृश्ये २ माने च गृहाणां ३ दारुबन्धनार्थपीठिकायां ४ पलशतमाने ५ भाण्डे च मेदि०। राशिचक्रस्य द्वादशधा विमक्तस्य ६ सप्तमे राशौ स च ३६० अंशात्मकराशिचक्रस्य १८१ अंशावधि २१० पर्य्यन्तः चित्राशेषार्द्ध स्वातिविशाखान्तिमपादत्रयात्मकः। अस्याधिष्ठाता तुलाधरः पुरुषः। अस्य योगतारादिकम् अश्लेषाशब्दे उक्तमृक्षशब्दे च विशेष उक्तः। “तौलीना कथितस्तुलाधटधरः” जातकपद्धतिः। “पुमांश्चरश्चित्रसमोदयोमतः प्रत्यक् मरुत् स्निग्धरवोऽथ वन्यः। स्वल्पप्रजासङ्गमशूद्र उग्रस्तुला द्युपीर्य्यो द्विपदः समानः” जातकपद्धत्युक्तस्वभावः। वादिप्रतिवादिनोर्लौकिकप्रमाणाभावे दिव्यपरीक्षया अर्थनिर्णये कर्त्तव्ये धटापरनामके ७ परीक्षाभेदे। सा च परीक्षा दिव्यशब्दोक्तसामान्यविधिपूर्वकं सर्वं कृत्वा कर्त्तव्या। तद्विधिश्च वीरमित्रोदये दर्शितो यथा पितामहः “विशालामुच्छितां शुभ्रां धटशालान्तु कारयेत्। यत्रस्थो नोपहन्येत श्वभिश्चाण्डालवायसैः। कपाटवीजसंयुक्तां परिचारकरक्षिताम्। पानीयादि समायुक्तामशून्यां कारयेन्नृपः” इति। वीजानि यवब्रीह्यादीनि। धटार्थानि काष्ठानि नारद आह “खादिरं कारयेत्तत्र निर्व्रणं शुष्कवर्जितम्। शांशपन्तदभावे वा सालं वा कोटरैर्विना। “अर्जुनन्तिन्दुकी सारन्तिणिसो रक्तचन्दनम्। एवंविधानि काष्ठानि धटार्थं परिकल्पयेत्,। अर्जुनस्तिलकः शाकस्तिणिसो रक्तचन्दनम्” इति। माधवीये पाठः। शांशपमिति शिंशपावृक्षसम्बन्धि। “देविकाशिंशपेति” पाणिनिस्मरणादिकारस्याकारः। एवंविधानीत्यन्यस्याप्योदुम्बरादेर्यज्ञियस्य काष्ठस्य ससारस्य ग्रहणम्”। अतएव पितामहः “छित्त्वा तु यज्ञियं काष्ठं यूपवन्मन्त्र पूर्वकम्। प्रणम्य लोकपालेभ्यस्तुला कार्य्या मनीषिभिः। मन्त्रः सौम्यी वानस्पत्यः छेदने जप्य एव चेति”। यूपवन्मन्त्रपूर्वकमित्यनेन ओ~ ओषधे त्रायस्वैनमित्यादिच्छेदनमन्त्रप्रयोगादिकमुक्तम्। वानस्पत्यः “वनस्पते शतवलशोविरोहेति” मन्त्रः। छेदने कृते इति शेषः। वानस्पत्यच्छेदनानन्तरं प्रयोगे यूपवदित्यतिदेशा- त्सिद्धेऽपि पुनर्विधानम् औपदेशिकस्य सोमदैवत्येनाति देशिकस्य तस्य बाधनिवृत्त्यर्थम्। अत्र जप्य एव चेति चशब्दस्य वानस्पत्येत्यनेनान्वयात् तस्य च समुच्चयद्योतकत्वात्समुच्चय इति केचित् सौम्यवानस्पत्ययोरेकार्थत्वात्। “तुल्यार्थास्तु विकल्पेरन्नित्यनेन “माषेणेव व्रीहि यवादिभ्यः” इत्यपरे। पितामहः “प्राङ्मुखो निश्चलः कार्य्यः शुचौ देशे धटः सदा। इन्द्रस्थाने सभायां वा धर्मस्थाने चतुष्पथे” इति। धटनिर्माणप्रकारन्तत्प्रमाणञ्चाह पितामहः, “चतुर्हस्ता तुला कार्य्या पादौ कार्य्यौ तथाविधौ। अन्तरन्तु तयोर्हस्तौ भवेदध्यर्द्धमेव चेति”। पादौ तुलाधारकाक्षनामककाष्ठधारणाख्यौ स्तम्भौ तथाविधौ चतुर्हस्तौ। अन्तरं मध्यम्। अध्यर्द्धं सार्धहस्तद्वयम्। अक्षकाष्ठस्य प्रमाणम्पादस्तम्भमध्यप्रमाणाभिधानेनैव सूचितमिति न पृथगुपन्यस्तम्। अन्तरालप्रमाणपर्य्यालोचनया ततः किञ्चिदधिकमक्षकाष्ठं कर्त्तव्यम्। पादस्तम्भयोर्मस्तकप्रदेशाद्यथा बहिर्न निःसरति तथा अक्षकाष्ठङ्कार्य्यमिति स्मृतिचन्द्रिकायाम्। अत्र निखातभागपरित्यागेन पादस्तम्भयोश्चतुर्हस्तत्वाभिधानं ज्ञेयम्। अतएव पितामहः “हस्तद्वयं निखेयन्तु प्रोक्तं मुण्डकयोर्द्वयोः। षढस्तन्तु तयोः प्रोक्तं प्रमाणं परिमाणतः” इति मुण्डकौ पादस्तम्भौ। हस्तप्रमाणन्दर्शितं कालिकापुराणे “यवानान्तण्डुलैरेकमङ्गुलञ्चाष्टभिर्भवेत्। अदीर्घयोजितैर्हस्तश्चतुर्वि शतिरङ्गलैः”। इति स्मृत्यन्तरेऽपि “तिर्यग्यवोदराण्यष्टा ऊर्द्ध्वांशा व्रीहयस्त्रयः। प्रमाणमङ्गुलस्योक्तं वितस्तिर्द्वादशाङ्गलः”। शारदातिलके “चतुर्विंशत्यङ्गुलाद्यं हस्तन्तन्त्रविदो विदुः। यवानामष्टभिः कॢप्तं मानाङ्गुलमितीरितमिति”। हस्तो वितस्तिद्वितयं चतुर्विंशत्यङ्गुलो हस्त इत्यर्थः। यवानां यवतण्डुलानामित्यर्थः। “यवानान्तण्डुलैरिति” स्मरणात्। तुलाया विशेषान्तरमाह पितामहः “चतुरस्रा तुला कार्य्या दृढा ऋज्वी तथैव च। कटकानि च देयानि त्रिषु स्थानेषु यत्नतः” इति। कटकानि लोहमयानि वलयानि। त्रिषु स्थानेषु अन्त्ययोर्मध्ये। कटकग्रहणं लोहकीलादीनामुपयुक्तानामुपलक्षणम्। नारदोऽपि “ऋज्वी धटतुला कार्य्या खादिरी तैन्दुकी तथा। चतुरस्रा त्रिभिः स्थानैर्धटकर्कटकादिभिरिति”। धटो धटमध्यम्। कर्कटकौ अन्त्यौ। पादस्तम्भादीनां स्थूलता तु विशेषानभिधानात् यावति स्थैल्ये दाद्यंम्भवति तावत्येव कार्य्या। शिष्टाचाराद्विशेषो ज्ञेयः। पादस्तम्भावुदग्दक्षिणसंस्थानौ कृत्वा तुला प्राग्भारा कार्य्या। “पश्चिमे तोलयेत्कर्तॄन् अन्यस्मिन् मृत्तिकां शुभामिति” पितामहस्मरणात्। पूर्वपश्चिमसस्थानौ कृत्वोदग्मारा वा कार्य्या। “धारयेदुत्तरे पार्श्वे पुरुषं दक्षिणे शिलामिति” मारदस्मरणात्। धटाङ्गत्वेन तोरणादिकं कार्य्यमित्याह पितामहः “तोरणे तु तथा कार्य्ये पार्श्वयोरुभयोरपि। धटादुच्चतरे स्यातान्नित्यन्दशभिरङ्गुलैः। अवलम्बौ तु कर्त्तव्यौ तौरणाभ्यामधोमुखौ। मृण्मयौ सूत्रसम्बद्धौ धटमस्तकचुम्बिनाविति”। धटारोहणमाह नारदः “शिक्यद्वयं समासज्य धटकर्कटयोर्दृढम्। एकशिक्ये तु पुरुषमन्यत्र तोलयेच्छिलाम्”। “धारयेदुत्तरे पार्श्वे पुरुषन्दक्षिणे शिलाम्। पिटकम्पूरयेत्तस्मिन्निष्टकापांशुलोष्टकैरिति”। इष्टकाभिर्ग्रावभिः पांशुभिर्लोष्टैर्वेत्यर्थः। माषराशिभिरपि पेटकम्पूरयेत्। “माषराशिमथाषिवेति” स्मृत्यन्तरवचनात्। पितामहोऽपि” “शिक्यद्वयं समासज्य यार्श्वयोरुभयोरपि। प्रागग्रान् कल्पयेद्दर्भांस्तत्र विप्रः ससाहितः। षश्चिमे तोलयेत्कर्त्तॄनन्यस्मिन्मृत्तिकां शुभाम्। इष्टकाभस्मपाषाणकपालास्थिविवजितामिति”। अत्र इष्टकापाषाणयोर्वर्ज्यत्वोक्तिः समुच्चयनिराकरणार्था नतु विकल्पनिराकरणार्था पूर्वोदाहृतनारदवचते तयोरपि विधानात्। “एतेन मृत्तिकापाषाणादीनां सम्भूय तोलनकर्तृत्वमिति मतमपास्तम्। मृत्तिकाशिलेष्टकादोनामेकार्थत्वात् “तुल्यार्थास्तु विकल्पेरन्निति” न्यायेन विकल्प इति मिताक्षरायाम्। विष्णुरपि “अत्रैकशिक्ये पुरुषमारोपयेत् द्वितीये प्रतिमानं शिलादीति”। समतानिरीक्षणार्थं राज्ञा तद्विदो नियोक्तव्याः। तथा च पितामहः “परीक्षका नियोक्तव्यास्तुलामानविशारदाः। बणिजो हेमकाराश्च कांस्यकारास्तथैवचेति”। नियुक्ताश्च निरीक्षेरन्नित्याह बारदः। “सुवर्ण्णकारा बणिजः कुशलाः कांस्यकारकाः। तान्तुलामन्ववेक्षेरन् तुलाधारणकोविदाः इति”। निरीक्षिणं प्रत्याह पितामहः “कार्य्यः परीक्षकैर्नित्यमवलम्व्य समो धटः। उदकञ्च प्रदातव्यं धटस्योपरि पण्डितैः। यस्मिन्न प्लवते तोयं स विज्ञेयः समो घट” इति। अबलम्बसमः तोरणयोर्लम्बमानौ यौ मृत्तोयावबलम्बौ तयोः समः। नारदोऽपि “प्रथमारोहणे ग्राह्यं प्रमाणन्निपुणैः सह। तुलाशिरोभ्यान्तुल्यं तु तोरणन्यस्तलक्षणमिति”। तोलनानन्तरं कर्त्तव्यम्पितामह आह “तोलयित्वा नरं पूर्वं पश्चात्तमवतार्य्य तु। धटं तु कारयेन्नित्यं पताकाध्वजशोभितम्”। तत आवाहयेद्देवान्विधिनानेन मन्त्रवित्। बादित्रतूर्य्यनिर्घोषैर्गन्धमाल्यानुलेपनैः। प्राङ्मुखः प्राञ्जलिर्भूत्वा प्राड्विवेकस्ततोवदेत्” इति। विवादानुरूपं प्रश्नम्पृच्छतोति प्राट् तद्विवेचयतोति विवेकः प्राट् चासौ विवेकश्च प्राड्विवेकः। ततोऽभियुक्तं तोलयित्वाऽवतार्य्य धर्म्मावाहनादारभ्याभियुक्तशिरसि पत्रबन्धनान्तं साधारणविधिं कुर्य्यात्। धटपूजायाङ्गन्धादिविशेषन्नारद आह “रक्तैर्गन्धैश्च माल्यैश्च दध्यपूपाक्षतादिभिः। अर्चयेत्तु धटं पूर्वं ततः शिष्टांस्तु पूजयेदिति”। शिष्टा नवशिष्टानिन्द्रादीन्। पत्रबन्धनानन्तरं मन्त्रयेत् प्राङ्गिवेक इत्याह पितामहः “धटमामन्त्रयेच्चैव विधिनानेन शास्त्रवित्”। विधिना मन्त्रेण शास्त्रवित्प्राड्विवैकः। मन्त्रश्च तेनैव दर्शितः” “त्वं धट! ब्रह्मणा सृष्टः परीक्षार्थं दुरात्मनाम्। धकाराद्धर्ममूर्त्तिस्त्वण्टकारात् कुटिलं नरम्। धृतो धारयसे यस्माद्धटस्तेनाभिधीयमे। त्वं वेत्सि सर्वभूतानां षाषानि सुकृतानि च। त्वमेव देव! जानीषे न विदुर्य्यानि मानवाः। व्यवहाराभिशस्तोऽयं मानुषः शुद्धिनिच्छतीति”। शोध्यस्याभिमन्त्रणञ्चाह याज्ञवल्क्यः “तुलाधारणविद्वद्भिरभियुक्तस्तुलाश्रितः। प्रतिमानसमीभूतो रेखां कृत्वाऽवधारितः। त्वन्तुले! सत्थधामासि पुरा देवैर्विनिर्भिता। तत्सत्यं वद कल्याणि! संशयान्मां विमोचय। यद्यस्मि पापकृन्मात! स्ततो मां त्वमधो नय। शुद्धश्चेद्गमयोर्द्ध्वम्मां तुलामित्यभिमन्त्रयेदिति”। तुलाश्रितः तुलामारूढः। प्रतिमानसमोभूतः प्रतिमानेन मृदादिना समीकृतः। रेखां कृत्वावतारणे साम्यचिह्नं कृत्वा अभिमन्त्रणमेवावतारणानन्तरं कार्य्यम् अवतारित इति क्तदर्शनात्ततः प्राड्विवेकः तुलाधारकं शपथैर्नियम्य शिरोगतपत्रकं पुनर्धटमारोपयेत्। अतएव नारदः “समयैः परिगृह्याथ पुनरारोषयेन्नरम्। निर्वाते वृष्टिरहिते शिरस्यारोप्य पत्रकमिति”। समयैः शपथैः परिगृह्य नियम्य। ते च विष्णुना दर्शिताः। “ब्रह्मघ्नो ये स्मृता लोकाः ये लोकाः कूटसाक्षिणः। तुलाधारस्य ते लोकास्वलान्धारयतो मृषेति” पुनरारोहणकायेऽभि- मन्त्रणमाह नारदः “त्वं वेत्सि सर्वभूतानां पापानि सुकृतानि च। त्वमेव देवि! जानीषे न विदुर्यानि मानवाः। व्यवहाराभिशस्तोऽयं मानवस्तोल्यते त्वयि। तदेनं संशयारूढं धर्मतस्त्रातुमर्हसि। देवासुरमनुष्याणां सत्ये त्वमभिषिच्यसे। सत्यसन्धोऽसि भगवन्! शुभाशुभविभावने। आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च। अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तमिति”। मन्त्रोच्चारणानन्तरकर्त्तव्यं पितामह आह “ज्योतिर्विद्ब्राह्मणश्रेष्ठः कुर्य्यात्कालपरीक्षणम्। विनाड्यः पञ्च विज्ञेयाः परीक्षाकालकोविदैः। साक्षिणो ब्राह्मणाः श्रेष्ठाः यथादृष्टार्थवादिनः। ज्ञानिनः शुचयोऽलुब्धा नियोक्तव्या नृषेण तु। शंसन्ति साक्षिणः श्रेष्ठाः शुद्ध्यशुद्धी नृपे तदा” इति।

कानि पुनर्जयपराजयचिह्नानीत्यपेक्षायामाह नारदः “तुलितो यदि वर्द्धेत विशुद्धः स्यान्न संशयः। समो वा हीयमानो वा न विशुद्धो भवेन्नरः” इति वर्द्धेत उपरि गच्छेत्। हीयमानः अधो गच्छेत्। यत्पुनरुक्तं पितामहेन “तुलितो यदि वर्द्धेत शुद्धो भवति धर्मतः। हीयमानो न शुद्धः स्यादेकेषान्तु समोऽशुचिः। अल्पपापः समो ज्ञेयो बहुपापस्तु हीयते” इति। अल्पत्वं ष्यभिचारे समालिङ्गनादिना” चौर्य्ये तद्देशगमनादिना तत्र एकेषामिति पूजार्थं न तु स्वमते समस्य शुचित्वद्योतनार्थम् अल्पपापिनोऽप्यशुचित्वात्। तेन हीयमानसमयोर्व कश्चिद्विशैषः। दण्डप्रायश्चित्ते पापविशेषस्तयोर्दोषानुसारित्वात्। यत्तु कैश्चिदेकेषां तु समोऽशुचिरिति वचनम्। “अल्पपापः समो ज्ञेयः” इति वचनं साम्ये संशयपरमेवेत्युक्तन्तत्क्लिष्टकल्पनया वाक्यानार्जवन्तैरुपेक्षणीयम्। यत्तूक्तम्, वृहस्पतिना “धटेऽभियुक्तस्तुलितो हीनश्चेद्धानिमाप्नुयात्। तत्समस्तु पुनस्तौल्यो वर्द्धितो विजयी भवेदिति” अयमर्थः पुनर्देवतावाहनाद्यसहितं सर्वं कर्म चिघायोत्तोलनीय इति समस्याशुचित्वनिश्चयो न प्रथमतोलनपर्य्याये कार्य्यः। किन्तु पुनस्तौल्यमानस्य समतैव यदि भवति तदा अशुद्धिरवधारणीयेत्यर्थः इति स्मृतिचन्द्रिकायाम्। यत्तु कैश्चित्तस्मिन्नैव प्रयोगे तोलनसुक्तं तन्मन्दं प्रधानावृत्तावङ्गावृत्तिरिति न्यायेन तोलनस्य फलसम्बन्धेन प्रधानत्वात् तदावृत्तौ देवतावाहनाद्यङ्गानामप्यावृत्तेरेवोचितत्वात्। शिक्यादिच्छेदेऽपि पुनः समीकृत्य तोलनीय इत्याह कात्यायतः “शिक्यच्छेदे तुलाभङ्गे तथा चापि गुणस्य वा। शुद्धेस्तु संशये चैनं परीक्षेत पुनर्नरमिति” शुद्धिसंशयकारीण्याह नारदः “तुलाशिरोभ्यामुद्भ्रान्तं विचलं न्यस्तलक्षणम्। यदा वायुप्रणुन्नंवा तदा नैकतरं वदेत्” इति। अयमर्थः। यदा तुलान्तौ तिर्यक्चलितौ यदा च समताज्ञानार्थन्यस्तं चिह्नमपैति यदा च वायुना प्रेरिता तुला ऊर्द्ध्वमधश्च कम्पते तदा जयं पराजयं च न वदेदिति। व्यासोऽपि “कक्षच्छेदे तुलाभङ्गे धटकर्कटयोस्तथा। रज्वुच्छेदेऽक्षभङ्गे वा दद्याच्छुद्धिं पुनर्नृपः” इति। कक्षं शिक्यतलं कर्कटौ तुलोपान्तस्थौ शिक्याधारावीषद्वक्रौ कर्कटशृङ्गसन्निभौ लौहकीलकौ। अक्षः पादस्तम्भयोरुपरिनिहितस्तुलाधारपट्ट इति मिताक्षरा। दार्ढ्यप्रयोजकः कीलक इति हलायुधः। यत्तु वृहस्पतिवचनम् “कक्षच्छेदे तुलाभङ्गे धटकर्कटयोस्तथा। रज्वुच्छेदेऽक्षभङ्गे च तथैवाशुद्धिमाप्नुयादिति” तदाऽऽकस्मिककक्षच्छेदादिविषयम्। कात्यायनवचनन्तु दृश्यमानकारणकशिक्यच्छेदादिविषयमिति विज्ञानेश्वराचार्य्यादयः” वीरमि०। तुलापुरुपाङ्गतुला तु हेमाद्रौ दा० खण्डे दृश्या। मत्कृत कृततुलादानादिपद्धतौ च विस्तरेण दृश्या। ८ तोलने मिता०। “तुलाः स्त्रियां पलशतं भारः स्याद्विंशतिस्तुला इत्यमरोक्तेः पलशतमानं तुला। तत्र सादृश्ये “तुलां यदा रोहति दन्तवाससा,” कुमा० “कामयानसमस्थया तुलाम्” रघुः। तुलोपमाशब्दयोगे षष्ठ्येव साधु न तु तृतीया “अतुलोपमाभ्याम्” पा० तृतीयाविधाने तयोः पर्य्युदासात् तृतीयाप्रयोगस्तु सहार्थशब्दाध्याहारेण तद्योगे इति मल्लि०। तुलाराशौ। “कन्यार्के च तुलार्के च पितॄणां श्राद्धमिष्यते” स्मृतिः “तुलायां लोलया सह” ति० त०। “सहझषस्तुलया” ज्यो० त०। तोलनदण्डात्मके माने “अथ स दक्षिणादूरोरुकृत्य स्वमांसपेशीं तुलया धारयन् गुरुतर एव कपोत आसीत्” भा० व० १९६ अ०। “तुलामानं प्रतीमानं सर्वञ्च स्यात् सुलक्षितम्। षट्सु षट्सु च मासेषु पुनरेव परीक्षयेत्” मनुः “तुलामानं सुवर्णादीनां परिच्छेदार्थं यत् क्रियते प्रतीमानं प्रस्थद्रोणादि तत्सर्वं स्वनिरूपितं यथा स्यात् षट्सु षट्सु मासेषु गतेषु पुनस्तत्सर्वं सभ्यपुरुषैर्नृपतिः परीक्षयेत्” कुल्लू० “आषाढ्यां तुलया वीजतोलने भाविशस्यहानिवृद्धिज्ञापनम् वृ० स० २६ अ० उक्तं तत्र अधिवासनाङ्गतुलानिर्माणप्रकारस्तत्रैवोक्तो यथा

“आषाढ्यां समतुलिताधिवासितानाम् अन्येद्युर्यदधिकतामुपैति वीजम्। तद्वृद्धिर्भवति न जायते यदूनं मन्त्रोऽस्मिन् भवति तुलाभिमन्त्रणाय। स्तोतव्या मन्त्रयोगेन सत्या देवी सरस्वती। दर्शयिष्यसि यत्सत्यं सत्ये सत्यव्रता ह्यसि। येन सत्येन चन्द्रार्कौ ग्रहा ज्योतिर्गणास्तथा। उत्तिष्ठन्तीह पूर्वेण पश्चादस्तं व्रजन्ति च। यत्सत्यं सर्ववेदेषु यत्सत्यं ब्रह्मवादिषु। यत्सत्यं त्रिषु लोकेषु तत्सत्यमिह दृश्यताम्। ब्रह्मणो दुहिता चासि त्वमादित्येति कीर्तिता। काश्यपी गोत्रतश्चैव नामतो विश्रुता तुला। क्षौमं चतुःसूत्रकसन्निबद्धं षडङ्गुलं शिक्यकवस्त्रमस्याः। सूत्रप्रमाणं च दशाङ्गुलानि षडेय कक्षोभयशिक्यमध्ये। याम्ये शिक्ये काञ्चनं सन्निवेश्यं शेषद्रव्याण्युत्तरेऽम्बूनि चैयम्। तोयैः कौप्यैः स्यन्दिभिः सारसैश्च वृष्टिहीना मध्यमा चोत्तमा च। दन्तैर्नागा गोहयाद्याश्च लोम्ना हेम्ना भूपाः सिक्थकेन द्विजाद्याः। तद्वद्देशा वर्षमाशा दिशश्च शेषद्रव्याण्यात्मरूपस्थितानि। हैमी प्रधाना रजतेन मध्या तयोरलाभे खदिरेण कार्या। वितः पुमान् येन शरेण सा वा तुला प्रमाणेन भवेद्वितस्तिः। हीनस्य नाशोऽभ्यधिकस्य वृद्धिस्तुल्येन तुल्यं तुलितं तुलायाम्। एतत्तुलाकोशरहस्यमुक्तं प्राजेशयोगेऽपि नरो विदध्यात्”।

तुलाकूट = न० ६ त०। तुलामानस्य कूटे १ प्रकृतमानापेक्षया न्यूनतापादने। तुलायां कूटं यस्य। २ तत्कारिणि पुरुषे च “मानकूटं तुलाकूटं कण्टमोष्ठं निपीडय” काशी०८ अ० स्वकिङ्करं प्रति यमवाक्यम्।

तुलाकोटि(टी) = स्त्री तुलया तुलां वा कोटयति कुट–परितापे–इन् वा ङीप्। नूपुरे, “तुलाकोटिक्वाणैः कुसुमशरमुज्जागरयति” उद्भटः। “स्खलत्तुलाकोटिनिनादकोमलः” माघः।

तुलाकोश = पु० तुला कोश इव। तुलायां भाविशस्य हानिवृद्धिज्ञापनार्थतुलारूपे मानदण्डभेदे वृ० स० वाक्यं तुलाशब्दे दृश्यम्। २ तुलया परीक्षणे च मिता०।

तुलादान = न० तुलया स्वदेहमानेन दानम्। तुलापुरुषसंज्ञके महादाने मत्कृततुलादानादिपद्धतौ तत्प्रयोमो दृश्यः।

तुलाधट = पु० तुलायै तोलनाय धटः। तुलाधारदण्डे त्रिका०

तुलाधर = त्रि० तुलाया मानदण्डस्य धरः धृ–अच्। १ बाणिजके, २ तुलाराशौ, ३ तुलादण्डधारके त्रि० मेदि०।

तुलापुरुष = पु० षोडशसु महादानेषु आद्ये माहादाने तत्- प्रकारः मत्स्यपु० २७३ अ० उक्तो यथा “अथातः सम्प्रवक्ष्यामि महादानानुकीर्तनम्” इत्युपक्रमे। “आद्यन्तु सर्वदानानां तुलापुरुषसंज्ञकम्” महादानानि विभज्य उक्तं यथा “मत्स्य उवाच। यानि नोक्तानि गुह्यानि महादानानि षोडश। तानि ते कथयिष्यामि यथावदनुपूर्वशः। तुलापुरुषयागोऽयं येषामादौ विधीयते। अयने विषवे पुण्ये व्यतीपाते दिनक्षये। युगादिषूपरागेषु तथा मन्वन्तरादिषु। सङ्क्रान्तौ वैधृतिदिने चतुर्दश्यष्टमीषु च। सितपञ्चदशीपर्वद्वादशीष्वष्टकासु च। यज्ञोत्सवविवाहेषु दुःखप्नाद्भुतदर्शने। द्रव्यब्राह्मण लाभे वा श्रद्धा वा यत्र जायते। तीर्थे वायतने वापि तडागे रुचिरे तथा। महादानानि देयानि संसारभयभीरुणा। अनित्यं जीवितं यस्मात् वसु चातीव चञ्चलम्। केशेष्वेव गृहीतः सन् मृत्युना धर्म्ममाचरेत्। पुण्यां तिथिमथासाद्य कृत्वा ब्राह्मणवाचनम्। षोडशारत्निमात्रन्तु दश द्वादश वा करान्। मण्डपं कारयेद्विद्वान् चतुर्भद्रासनं बुधः। सप्तहस्ता भवेद्वेदी मध्येपञ्चकरा तथा। तत्मध्ये तोरणं कुर्य्यात् सारदारुमयं बुधः। कुर्य्यात् कुण्डानि चत्वारि चतुर्दिक्षु विचक्षणः। समेखलायोनियुतानि कुर्य्यात् सम्पूर्णकुम्भानि सहासनानि। सुताम्रपात्रद्वयसंयुतानि सयज्ञपात्राणि सुविष्टराणि। हस्तप्रमाणानि तिलाज्यधूपपुष्पोपहाराणि सुशोभनानि। पूर्वोत्तरे हस्तमिताथ वेदी ग्रहादिदेवेश्वरपूजनाय। अत्रार्चनं ब्रह्मशिवाच्युतानां तत्रैव कार्य्यं फलमाल्यवस्त्रैः। लोकेशवर्णाः परितः पताकामध्ये ध्वजः किङ्किणिकायुतः स्यात्। द्वारेषु कार्य्याणि च तोरणानि चत्वार्य्यपि क्षीरवनस्पतीनाम्। द्वारेषु कुम्भद्वयमत्र कार्य्यं स्रग्गन्धधूपाम्बररत्नयुक्तम्। शालेङ्गुदी चन्दनदेवदारुश्रीपर्णिविल्वप्रियकाञ्चनोत्थम्। स्तम्भद्वयं हस्तयुगावस्वातं कृत्वा दृढं पञ्चकरोच्छ्रितञ्च। तदन्तरं हस्तचतुष्टयं स्यादथोत्तराङ्गञ्च तदङ्गमेव। समानजातिश्च तुलावलम्ब्या हैमेन मध्ये पुरुषेण युक्ता। दैर्घ्येण सा हस्तचतुष्टयं स्यात् पृथुत्वमस्यास्तु दशाङ्गुलानि। सुवर्णषट्टाभरणा तु कार्य्या सा लोहपाशद्वयशृङ्खलाभिः। युता सुवर्णेन तु रत्नमालाविभूषिता माल्यविलेपनाभ्याम्। चक्रं लिखेद्वारिजगर्भयुक्तं नानारजोभिर्भुवि पुष्पकीर्णम्। वितानकञ्चोपरि षञ्चवर्णं संस्थापयेत् पुष्पफलोपशोभम्। अथर्त्विजो वेदविदश्च कार्य्याः सुरूपके- शान्वयशोलयुक्ताः। विधानदक्षाः पटवोऽनुकूला ये चार्य्यदेशप्रभवा द्विजेन्द्राः। गुरुश्च वेदान्तविदार्य्यवंशसमुद्भवः शीलकुलाभिरूपः। पुराणशास्त्राभिरतोऽतिदक्षः प्रसन्नगम्भीरसरस्वतीकः। सिताम्बरः कुण्डलहेमसूत्र केयूरकण्ठाभरणाभिरामः। पूर्वेण ऋग्वेदविदावथास्तां भजुर्विदौ दक्षिणतश्च शस्तौ स्थाप्यौ द्विजौ सामविदौ तु पश्चादाथर्वणाबुत्तरतस्तु कार्य्यौ। विनायकादिग्रहलोकपालवस्वष्टकादित्यमरुद्गणानाम्। ब्रह्माच्युतेशार्कवनस्पतीनां स्वमन्त्रतोहोमचतुष्टयं स्यात्। जप्यानि सूक्तानि तथैव चैषामनुक्रमेणापि यथास्वरूपम्। होमावसाने कृततूर्य्यनादो गुरुर्गृहीत्वा वलिपुष्पधूपम्। आवाहयेल्लोकपतीन् क्रमेण मन्त्रैरमीभिर्यजमानयुक्तः। एह्येहि सर्बामरसिद्धसाध्यैरभिष्टुतोवज्रधराऽमरेश!। संवोज्यमानोऽप्सरसाङ्गणेन रक्षाध्वरन्नो भगवन्नमस्ते (इन्द्रस्य)। एह्येहि सर्वामरहव्यवाह! मुनिप्रवीरैरभितोऽभिजुष्ट!। तेजस्विना लोकगणेन सार्द्धं ममाध्वरं रक्ष कवे! नमस्ते” (अग्नेः)। एह्येहिवैवस्वत! धर्म्मराज! सर्वामरैरर्चितदिव्यमूर्त्ते!। शुभाशुभानन्दशुचामधीश। शिवाय नः पाहि मखं नमस्ते” (यमस्य)। एह्येहि रक्षोगणनायकस्त्वं सर्वैस्तु वेतालपिशाचसङ्घैः। ममाध्वरं पाहि शुभाधिनाथ! लोकेश्वरस्त्वं भगवन्नमस्ते (नैरृतस्य)। एह्येहि यादोगणवारिधीनाङ्ग णेन पर्जन्यमहाप्सरोभिः। विद्याधरेन्द्रामरगीयमान! पाहि त्वमस्मान् भगवन्नमस्ते (वरुणस्य)। एह्ये हि यज्ञे मम रक्षणाय मृगाधिरूढः सह सिद्धसङ्घैः। प्राणाधिपः कालकवेः सहायः गृहाण पूजां भगवन्नमस्ते (वायोः)। एह्येहि यज्ञेश्वर! यज्ञरक्षां विधत्स्व नक्षत्रगणेन सार्द्धम्। सर्वौषधीभिःपितृभिः सहैव गृहाण पूजां भगवन्नमस्ते (सोमस्य)। एह्येहि विश्वेश्वर! नस्त्रिशूल कपालखष्ट्वाङ्गधरेणसार्द्धम्। लोकेश! यज्ञेश्वर! यज्ञसिद्ध्यै गृहाण पूजां भगवन्नमस्ते (ईशस्य)। एह्येहि पातालधराधरेन्द्र! नागाङ्गनाकिन्नरगीयमान!। यक्षोरगेन्द्रामरलोकसङ्घैरनन्त! रक्षाध्वरमस्मदीयम्”। (अनन्तस्य) एह्येहि विश्वाधिपते! मुनीन्द्र लोकेन सार्द्धं पितृदेवताभिः। सर्वस्य धातास्यमितप्रभाव! विशाध्वरन्नो भगवन्नमस्ते (ब्रह्मणः)। त्रैलोक्ये यानिमूतानि स्थावराणि चराणि च ब्रह्मविष्णुशिवैः सार्द्धं रक्षां कुर्वन्तु तानि मे। देवदानवगन्धर्वा यक्षराक्षसपन्नगाः। ऋषयो मनवोगावो देवमातर एव च। सर्वे ममाध्वरे रक्षां प्रकुर्वन्तु मुदान्विताः। इत्यावाह्य सुरान् दद्यादृत्विग्भ्यो हेमभूषणम्। कुण्डलानि च हैमानि सूत्राणि कटकानि च। अङ्गुलीयपवित्राणि वासांसि शयनानि च। द्विगुणं गुरवे दद्याद्भूषणाच्छादनानि च। जपेयुः शान्तिकाध्यायं जापकाः सर्वतोदिशम्। तत्तोषितास्तु ते सर्वे कृत्वैवमधिवासनम्। आदावन्ते च मध्ये च कुर्य्याद्ब्राह्मणवाचनम्। ततो मङ्गलशब्देन स्नापितो वेदपुङ्गवैः। त्रिःप्रदक्षिणमावर्त्य गृहीतकुसुमाञ्जलिः। शुक्लमाल्याम्बरोभूत्वा तां तुलामभिमन्त्रयेत्। नमस्ते सर्वदेवानां शक्तिस्त्वं सत्यमास्थिता। साक्षिभूता जगद्धात्री निर्भिता विश्वयोनिना। एकतः सर्वसत्यानि तथानृतशतानि च। धर्म्माधर्म्मकृतां मध्ये स्थापितासि जगद्धिते!। त्वं तुले! सर्वभूतानां प्रमाणमिह कीर्त्तिता। मां तोलयन्ती संसारादुद्धरस्व नमोऽस्तु ते। योऽसौतत्त्वाधिपोदेवः पुरुषः पञ्चविंशकः। स एकोऽधिष्ठितोदेवि! त्वयि तस्मान्नमोनमः। नमोनमस्ते गोविन्द! तुलापुरुषसंज्ञक!। त्वं हरे! तारयस्वास्माम्महाससारकर्दमात्। पुण्यकालं समासाद्य कृत्वैवमधिवासनम्। पुनः प्रदक्षिणं कृत्वा तुलामारोहयेद्बुधः। सस्वड्गचर्मकवचः सर्वाभरणभूषितः। धर्म्मराजमथादाय हैमं सूर्य्येण संयुतम्। कराभ्यां बद्धममुष्टिभ्यामास्ते पश्यन् हरेर्मुखम्। ततोऽपरे तुलाभागे न्यसेयुर्द्विजपुङ्गवाः। समादभ्यधिकं यावत् काञ्चनं चातिनिर्मलम्। पुष्टिकामस्तु कुर्यीत भूमिसंस्थं नरेश्वरः। क्षणमात्रं ततः स्थित्वा पुनरेवमुदीरयेत्। नमस्ते सर्वभूतानां साक्षिभूते! सनातनि!। पितामहेन देवि! त्वं निर्मिता परमेष्ठिना। त्वया धृतं जगत्सर्वं सहस्थावरजङ्गमम्। सर्वभूतात्मभूतस्थे! नमस्ते विश्वधारिणि!। ततोऽवतीर्य्य गुरवे पूर्वमर्द्धं निवेदयेत्। ऋत्विग्भ्योऽपरमर्द्धन्तु दद्यादुदकपूर्वकम्। गुरवे ग्रामरत्नानि ऋत्विग्भ्यश्च निवेदयेत्। प्राप्य तेषामनुज्ञां तु तथान्येभ्योऽपि दापयेत्। दीनानाथविशिष्टादीन् पूजयेद्ब्राह्मणैः सह। न चिरं धारयेद्गेहे सुवर्णं प्रोक्षितं बुधः। तिष्ठद्भयावहं यस्माच्छोकव्याधिकरं नृणाम्। शीघ्रं परस्वीकरणाच्छ्रेयः प्राप्नोति मानवः। अनेन विधिना यस्तु तुलापुरुषमाचरेत्। प्रतिलोकाधिपस्थाने प्रतिमन्वन्तरं वसेत्। विमानेनार्कबर्णेन किङ्किणीजाल- मालिना। पूज्यमाबोऽप्सरोभिश्च ततो विष्णुपुरं व्रजेत्। कल्पकोटिशतं यावत्तस्मिन् लोके महीयते। कर्म्मक्षयादिह पुनर्भुवि राजराजो भूपालमौलिमणिरञ्जितपादपीठः। श्रद्धान्वितो भवति यज्ञसहस्रयाजी दीप्तप्रतापजितसर्बमहीपलोकः। यो दीयमानमपि पश्यति भक्तियुक्तः कालान्तरे स्मरति वाचयतीह लोके। यो वा शृणोति पठतीन्द्रसमानरूपः प्राप्तोति धाम सपुरन्दरदेवजुष्टम्”। अन्यविधानं हेमा० दा० वृश्यम् एतत् प्रयोगस्तु मत्कृततुलादानादिपद्धतौ दृश्यः। २ व्रतभेदे। तच्चव्रतं पञ्चदशदिमसाध्यमेकविंशतिदिनसाध्यञ्च यथा।

“पिन्याकाचमतक्रोदकलक्तूनामुपवासान्तरितोऽभ्यव्यवहारास्तुलापुरुषः”। विष्णु० स०। “पिन्याकाचामतक्राम्बुसक्तूनां प्रतिवासरम्। एकरात्रोपवासश्च कृच्छ्रः सौम्योऽयमुच्यते” इत्युपक्रमे “एषां त्रिरात्रमभ्यासादेकैकस्य यथाविधि। तुलापुरुष इत्येष ज्ञेयः पञ्चदशाहिकः”। एषां पिन्याकादीनां पञ्चानां क्रमेनैकैकस्य त्रिरात्राभ्यासेन पञ्चदशाहव्यापी तुलापुरुषाख्यः कृच्छ्रो वेदितव्यः। अत्र पञ्चदशाहिकत्वविधानादुपवासस्य निवृत्तिः। यमेन त्वेकविंशतिरात्रिकस्तुलापुरुष उक्तः “आचाममथ पिन्याकं तक्रञ्चोदकसक्तुकान्। त्र्यहं त्र्यहम्भयुञ्जानो वायुभक्षस्त्र्यहद्वयम्। एकविंशतिरात्रन्तु तुलापुरुष उच्यते इति”।

तुलाप्रग्र(ग्रा)ह = पु० प्र + ग्रह वा घञ् पक्षे अप् ६ त०। १ तुलासूत्रे सि० कौ०।

तुलामान = न० तुलार्थं तोलनार्थं मानं मीयतेऽनेन मा–करणे ल्युट्। १ तुलादण्डे शब्दार्थचि०।

तुलायष्टि = स्त्री ६ त०। १ तुलादण्डे। “स्तोकेनोन्नतिमायाति स्तोकेनायात्यधीगतिम्। अहो हसदृशी चेष्टा तुलायष्टेः खलस्य च” पञ्चत०।

तुलावीज = न० तुलायाः तोलनस्य वीजं मूलम्। १ गुञ्जायाम् तदारभ्यैव हि मानं शास्त्रे दर्शितं यथा “दर्शार्द्धगुञ्जं प्रवदन्ति माषमिति” लीला०

तुलासूत्र = न० तुलार्थं तोलनार्थं सूत्रम्। तोजनार्थं तुलादण्डस्थितसूत्रे प्रग्रहे अमरः।

तुलि(ली) = स्त्री तुरि(री) + रस्य लः। तुर्य्यां शब्दरत्ना०।

तुलिका = स्त्री तुल–बा० क्युन्। खञ्जनिकायां त्रिका०।

तुलित = त्रि० तुला + तत्करोति णिच्–कर्मणि क्त। १ परिमिते “येऽपीन्द्रपाणितुलितायुधलूनपक्षाः” माघः। २ सदृशीकृते

तु(तू)लिनी = स्त्री तूलं विद्यते फलेऽस्या इनि ङीप् वा पृषो० ह्रस्वः। १ शाल्मलिवृक्षे रत्नमाला।

तु(तू)लिफला = स्त्री तुलि तूलयुक्तं फलमस्याः वा पूषो०। १ शाल्मलीवृक्षे रत्नमाला।

तुल्य = त्रि० तुलया सम्मितं यत्। १ सदृशे अमरः। “सकामां दूषयंस्तुल्यो न बधं प्राप्नुयान्नरः”। “सकामां दूषयं स्तुण्षोनाङ्गुलिच्छेदमाप्नुयात् मनुः”। “कुम्भकर्णः कपीन्द्रेण तुल्यावस्थः स्वसुःकृतः” रघुः।

तुल्यपान = न० तुल्येन सजातीयेन सह पानम्। सजातीयैर्बहुभिरेकत्र पाने अमरः।

तुल्ययोगिता = स्त्री अर्षालङ्कारभेदे अलङ्कारभेदे अलङ्कारशब्दे ३९९ पृ० दृश्यम्।

तुल्यशस् = अव्य० तुल्य + वीप्सार्थे शम्। तुल्यं तुल्यमित्यर्थे। “विम्बीलोटाच्च तुल्यशः” सुश्रु०।

तुल्वल = पु० ऋषिभेदे। तौल्वलिशब्दे दृश्यम्।

तुवर = पु० तवति हिनस्ति रोगान् सौ० तु–ष्वरच् नि० गुणाभावः। १ धान्यभेदे २ कषायरसे च ३ तद्वति त्रि० ४ आढक्याम् ५ सौराघ्रमृत्तिकायाञ्च स्त्री षित्त्वात् ङीष् स्वार्थे क तुवरिकाप्यत्रैव। रसभेदे पुंस्त्री तद्वति त्रि० अमरः। ६ श्मश्रुहीने नरे उणा०।

तुवरयावनाल = पु० कर्म० घान्यभेदे राजनि०। “तुवरो यावनालस्तु कषायोष्णो विरेचकः। संग्राही वातशमनो विदाही शोषकारकः” राजनि०।

तुवरिका = स्त्री० तुवरोऽस्त्यस्याः ठन्। १ सौराष्ट्रमृत्तिकायां (फटकिरि) अमरः। २ आढक्यां (अरहर) भरतः।

तुवरी = स्त्री तु + ष्वरच् षित्त्वात् ङीष्। १ आढक्यां २ सौराष्ट्नमृत्तिकायाञ्च(फिट्करि) राजनि०। (तोरी) इति ३ धान्यभेदे भावप्र० तद्गुणास्तत्रोक्ता यथा। “तुवरी ग्राहिणी शीता लघ्वी कफविषास्मजित्। तीक्ष्णोष्णा वह्निदा कण्डूकुष्ठकोठकृमिप्रणुत्”।

तुवरीशिम्ब = पु० तुवर्य्या आढक्या इव शिम्बा यस्य। रक्तचक्रमर्दने शब्दच०।

तुवि = स्त्री० तुम्बी + पृषो०। १ तुम्ब्यां। तु–पूर्त्तौ इन् किच्च। २ वहुशब्दार्थे निघण्टुः। “तुविकूर्मिरृथावान्” ऋ० ३। ३०। ३। कृ–मि वेदे गुणे अकारस्थोत्त्वम् “तुविग्राभं तुविकूर्मिं रभोदाम्” ऋ० ६। २२। ५। “ग्रहेरण्। तुविग्राभं बहुग्राहकम्” भा० “तुविशुष्म! तुविक्रतो!” ऋ० ८। ६८। २ वा ङीप्। “सहस्रेषु तुवीमघ!” ऋ० १। २९। १। तुवीमघ कथञ्चन” “स इद्दासं तुवीरवम्” ऋ० १०। ९९। ६।

तुविस् = न० तु–वृद्धौ षूर्त्तौ वा इसि किच्च। १ वृद्धौ २ प्रज्ञायां ३ बले च। “यः सप्तरश्मिर्वृषभस्तुविष्मान्” ऋ० २। १२। १२। “तुविष्मान् वृद्धिमान् बलवान् वा” भा०। “भीमस्तुविष्मान् चर्षणिभ्यः” १। ५५। १। “तुविष्मान् प्रज्ञावान् वलवान् वा” भा०। बलेन प्रज्ञया च वृद्धेः पूर्त्तेश्च सम्भवात् बलप्रज्ञयोस्तथात्वम्।

तुवीरवत् = त्रि० तुवी मत्वर्थीवोरः ततो मतुप् मस्य वः। बहुस्तोवृयुक्ते। “रथा कविस्तुवीरवान्” ऋ० १०। १६४। ४। “तुवीरवान् बहुस्तोतृयुक्तो भवति। मत्वर्थीयप्रत्ययावृत्तिः। यद्वा तुविशब्दस्य रो मत्वर्थीयः। बाहुल्ययुक्तदेवैः सहितो भवति” भा०।

तुश = बधे भ्वा० आ० सक० सेट्। तोशते अतोशिष्ट तुतुशे। “इन्दुरिन्द्राय तोशते नितोशते” ऋ० ९। १०९। २२ “इन्दुः णोम इन्द्रायेन्द्रार्थं तोशते” तोशते हन्यते अभिषूयते। नितोशते नितरामभिषूयते। तोशतिर्बधकर्म्मा” भा० कर्मकर्त्तरि तङ्। यगभावश्छान्दसः। “सत्रात्वं पुरुष्टुतं एको वृत्राणि तोशसे”। ऋ०८। १५। ११। तोशसे हिनस्ति” भा०।

तुष = तोषे आनन्दभेदे दि० ष० ऌदित् अक० सेट्। तुष्यति अतुषत्। तुतोष। ञीदित् वर्त्तमाने क्तः तुष्टः। तुष्टिः। तोषः “तुष्य द्रौपदि! मा क्रुघ” भा० व० ११०९ श्लो० “तुष्यन्ति च रमन्ति च” भा० आनु० १२७६ श्लो० “तुतोष पश्यन् वितृणान्तरालाः” भट्टिः।

तुष = पु० तुष–क। १ विभीतकवृक्षे (वयडा) २ धान्यत्वचि स्वनामख्याते द्रव्ये च अमरः। “व्रीहीन् जिहासति सितोत्तमतण्डुलाद्यान् को नाम भोस्तुषकणोपहितान् हिताथी” प्रबो० च०। “तुषेणापि परित्यक्ता न प्ररोहन्ति तण्डुलाः” हितो०। “सतुषं धानयमुच्यते” आ० त०।

तुषग्रह = पु० तुषेण गृह्यते ग्रह–कर्मणि अप्। वह्नौ त्रिका०

तुषज = त्रि० तुषे जायते जन–ड। तुषजाते वह्न्यादौ। अस्य “दीर्घकाशतुषवटं जे” पा० आद्युदात्तता।

तुषधान्य = न० तुषावृतं धान्यं शा० त०। तुषावृते सतुषे धान्ये। “तुषधान्यतोक्ष्णमन्त्राभिचारवेतालकर्मज्ञाः”। “परधनहरणाभिरतास्तुषधान्यं सर्वभिषजश्च”। वृ० स० १५ अ०।

तुषसार = पु० तुषं सरति अनुसरति सृ–अण्। वह्नौ शब्दमा०

तुषानल = पु० तुषस्यानलः। तुषजाते अग्नौ। तुषाग्न्यादयोऽप्यत्र।

तुषाम्बु = न० तुषोदकशब्दार्थे “तुषाम्बु दीपनं पाण्डु कृभिरोगगदापहम्। तीक्ष्णोष्ण पाचनं पित्तरक्तकृद्वस्तिशूलहृद्” भावप्र०।

तुषार = पु० तोषयति तुष–अन्तर्भूतण्यर्यात् आरन् किच्च। १ देशभेदे। (त्खार) शब्दे दृश्यम् तत्र तुखारा इत्यत्र तुषारा इति पाठान्तारम्। २ हिमकणभेदे नीहारे हेमच०। ३ शीतलस्पर्शे अमरः ४ तष्ट्वति त्रि०। “अपां हि तृप्ताय न वारिधारा स्वादुः सुगन्धिः खदते तुषारा” नैष० “प्रपतत् तुषारो हेमन्तकालः” ऋतुस० ५ कर्पूरभेदे राजनि०। “जनस्तुषाराञ्जगपर्वताविय” “स्यपनवारितुषारभृतस्तनाः” माघः। “आचचाम सतुषारशीकरः” रघुः। “पदं तुषारस्रुतिधौतरक्तम्” कुमा०। “लथुतुषारतुषारजलश्च्युतम्” किरा०।

तुषारकर = पु० तुषारो हिमः करोऽस्य। १ हिमकरे चन्द्रे तुषारकिरणादयोऽप्यत्र। “कलया तुषारकिरणस्य पुरः” माथः। २ कर्पूरे च।

तुषारगिरि = पु० ६ त०। १ हिमालये “तुषारगिरिकूटाभं सिताभ्रशिखरोपमम्” भा० अनु० १४ अ०। तुषाराचलादयोऽप्यत्र।

तुषित = पु० तुष–या० कितच्–तुष–सम्प० क्विप् ततः तारका० इतच् वा। १ गणदेवताभेदे ते च द्वादश। किन्तु मन्वन्तरभेदे भिन्ननामानः यथा “चाक्षुवस्यान्तरे पूर्वमासन् ये तुषिताः सुराः। वैवस्वतेऽन्तरे ते वै आदित्या द्वादश स्मृताः” हरिवं० ३ अ०। तथा च आदित्यरूपा द्वादश १३ “प्राणापानावुदानञ्च समानो व्यान एव च। चक्षुः श्रोत्ररसाघ्राणस्पर्शे बुद्धिर्मनस्तथा। द्वादशैते तु तुषिताः देवाः स्वारोचिषेऽन्तरे” सारसुन्दरोधृतवाक्योक्ता द्वादश१२ “तोषः प्रतोषः सन्तोषो भद्रः शान्तिरिडस्पतिः। इध्मः कविर्विभुः स्वाहा नुदेवो रोचनो द्विषट १२। तुषिता नाम ते देवा आसन् स्वायम्भुवेऽन्तरे” शब्दार्थचि० धृतवाक्योक्ता द्वादश इति षट्त्रिंशत्। ये च द्वादशेति मन्यन्ते ते एकैकमन्वन्तरापेक्षया द्वादशेति वर्णयन्ति। समष्ट्यमिप्रायेण षट्त्रिं शदिति विवेकः। तदभिप्रायेणैव “षट्त्रिंशत्तुषिता मताः” इत्युक्तम्। २ विष्णौ पु०। “तुषित! महातुषितेत्यादि” भा० शा० ३४ अ०। विष्णुस्तुतौ।

तुषोत्थ = न० तुषादुत्तिष्ठति उद् + स्था–क ३ त०। १ तुषोदके राजनि०।

तुषोदक = न० तुषमिश्रितमुदकं शा० त०। १ काञ्चिकभेदे हारा०। तत्करणप्रकारो भावप्र० उक्तो यथा “तुषोदकं यवैरामैः सतुषैः शफलीकृतैः। यवैरुदकसहितैः सन्धानवर्गोक्तत्वात्”। तुषान्युशब्दे तद्गुणादि दृश्यम्।

तुष्ट = त्रि० तुष–कर्त्तरि क्त। १ सन्तोषयुक्ते। “तस्मि~स्तुष्टे जगत्तुष्ट प्रीणिते प्रीणितं जगत्” पुरा०। २ विष्णौ पु० “परर्द्धिः परमस्प्रष्टस्तुष्टः पुष्टः शुभेक्षणः” विष्णुस० “परानन्दैकरूपत्वात्तुष्टः” भा०। तस्यानन्दरूपत्वेऽपि आनन्दाश्रयत्वं कल्पितम् अतएव विवरणे “आनन्दो विषयानुभवो नित्यत्वञ्च सन्ति धर्मा अपृथक्त्वेऽपि पृथगिवावभासन्ते” इत्युक्तम्। न्यायनये तु दुःखाभावस्यैवानन्दरूपत्वात् तस्य तदाश्रयत्वमस्त्येवेति भेदः।

तुष्टि = स्त्री तुष–भावे क्तिन्। १ तोषे २ भोगेष्वेतावतालमिति बुद्धौ ३ अधिगतार्थादन्यत्र तुच्छत्वबुद्धौ “तुष्टिर्नुरकृतार्थस्य कृतार्थोऽस्मीति या मतिः” इत्युक्ते ४ बुद्धिभेदे सा च नवविधा इति सांख्याचार्य्याः यथोक्तं सा० का० त० कौ० च। “तुष्टिर्नबधेत्युक्तं ताः परिगणयति। “आध्यात्मिक्यश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः। वाह्याविषयोपरमात् पञ्च नव तुष्टयोऽभिमताः” का०। “प्रकृतिव्यतिरिक्त आत्मास्तीति प्रतिपद्य ततोऽस्य श्रवणमननादिना विवेकसाक्षात्काराय त्वसदुपदेशतुष्टो यो न प्रयतते तस्य चतस्र आध्यात्मिक्यस्तुष्टयो भवन्ति प्रकृतिव्यतिरिक्तमात्मानमधिकृत्य यस्मात्तास्तुष्टयस्तस्मादाध्यात्मिक्यः, कास्ता इत्यत आह प्रकृत्युपादानकालभाग्याख्याः प्रकृत्यादिराख्या यासां तास्तथोक्ताः। तत्र प्रकृत्याख्या तुष्टिर्यथा कस्यचिदुपदेशः (विवेकसाक्षात्कारो हि प्रकृतिपरिणामभेदः तञ्च प्रकृतिरेव करोतीति कृतं ते ध्यानाभ्यासेन, तस्मादेवमेवास्स्वेति)। सेयमुपदेष्टव्यस्य शिष्यस्य प्रकृतौ तुष्टिः प्रकृत्याख्या तुष्टिः अम्भ इत्युच्यते। “या च प्रकृत्यविवेकख्यातिर्न सा प्रकृतिमात्राद्भवति मा भूत्सर्वस्य सर्वदा तन्मात्रस्य सर्वान् प्रत्यविशेषात् प्रव्रज्यायास्तु सा भवति तस्मात्प्रव्रज्यामुपाददीथाः कृतं ते ध्यानाभ्यासेनायुष्मन्नित्युपदेशे या तुष्टिः सोपादानाख्या सलिलमुच्यते। “या तु प्रव्रज्यापि न सद्यो निर्वाणदेति सैव कालपरिपाकमपेक्ष्य सिद्धिन्ते विधास्यति अलमुत्तप्ततया तवेत्युपदेशे या तुष्टिः सा कालाख्या मेघ उच्यते। “या तु न कालात् नाप्युपादानाद्विवेकख्यातिरपि तु भाग्यादेव अतएव मदालसापत्यानि अतिबालानि मातुरुपदेशमात्रादेव विवेकख्यातिमन्ति मुक्तानि बभूवुः तत्र भाग्यमेव हेतुर्नान्यदित्युपदेशे या तुष्टिः सा भाग्याख्या तुष्टिरुच्यते। बाह्या दर्शयति बाह्यास्तुष्टयोविषयोपरमात् पञ्च, याः खल्वनात्मनः प्रकृतिमहदङ्कारादीनात्मेत्यभिमन्यमानस्य वैराग्ये सति तुष्टयस्ता बाह्याः आत्मज्ञानाभावेऽनात्मानमधिकृत्य प्रवृत्तेरिति। ताश्च वैराग्ये सति सम्भवन्ति तुष्टय इति वैराग्यहेतुपञ्चविधत्वाद्वैराग्याण्यपि पञ्च, तत्पञ्चकत्वात् तुष्टयः पञ्चेति, उपरम्यतेऽनेनेत्युपरमो वैराग्यं विषयादुपरमो विषयोपरमः। विषया भोग्याः शब्दादयः पञ्च, उपरमा अपि पञ्च। तथा च अर्ज्जनरक्षणक्षयभोगहिंसादोषदर्शनहेतुजन्मान उपरमाः पञ्च भवन्ति। तथा हि सेवादयो धनोपार्जनोपायास्ते च सेवकादीन् दुःखा कुर्वन्ति। दृप्यद्दुरीश्वरद्वाःस्थहस्तदत्तचण्डार्द्धचन्द्रजां वेदनां भावयन् प्राज्ञः कः सेवासु प्रसज्जते। एवमन्येऽप्यर्जनोपाया दुःखा इति विषयोपरमे या तुष्टिः सैषा पारमुच्यते। तथार्जितं धनं राजैकागारिकाग्निजलौघादिभ्यो विनङ्क्ष्यतीति तद्रक्षणे महद्दुःखमिति भावयतो विषयोपरमे या तुष्टिः द्वितीया सुपारमुच्यते। तथा महतायासेनार्जितं घनं भुज्यमानं क्षीयते इति तत्प्रक्षयं भावयतो विषयोपरमे या तुष्टिः सा तृतीया पारपारमुच्यते। एवं शब्दादिभोगाभ्यासाद्वर्द्धन्ते कामास्ते च विषयाप्राप्तौ कामिनं दुःखयन्तीति भोगदोषं भावयतो विषयोपरमे या तुष्टिः सा चतुर्थीं अनुत्तमाम्भ उच्यते। एवं नानुपहत्य भूतानि विषयोपभोगः सम्भवतीति हिंसादोषदर्शनाद्विषयोपरमे या तुष्टिः सा पञ्चमी उत्तमाम्भ उच्यते। एवमाध्यात्मिकीभिश्चतसृभिर्बाह्याभिश्च पञ्चभिर्नव तुष्टयोऽभिमताः”। भाष्यकृता अन्थथा तुष्टिभेदा दर्शिता यथा “तुष्टिर्नवधा” सा सू० “आध्यात्मिक्यादिभेदान्नवधा तुष्टिः” भा०। “इदं सूत्रं कारिकया व्याख्यातम्। आध्यात्मिक्य इत्यादि अस्यायमर्थः। आत्मानं तुष्टिमतः सङ्घातमधिकृत्य वर्त्तन्त इत्याध्यात्मिक्यस्तुष्टयश्चतस्रः। तत्र प्रकृत्याख्या तुष्टिर्यथा। साक्षात्कारपर्य्यन्तः परिणामः सर्वोऽपि प्रकृतेरेव तं च प्रकृतिरेव करोत्यहं तु कूटस्थः पूर्ण इत्यात्मभावनात् परितोषः। इयं तुष्टिरम्भ इत्युच्यते। ततश्च प्रब्रज्योपादानेन या तुष्टिः सोपादानाख्या सलिलमित्युच्यते। ततश्च प्रव्रज्यायां बहुकालं समाध्यनुष्ठानेन या तुष्टिः सा कालाख्या तुष्टिर्मेघ इत्युच्यते। ततश्च प्रज्ञानपरमकाष्ठारूपे धर्ममेघसमाधौ सति या तुष्टिः सा जलाख्या तुष्टिरित्युच्यत इति चतस्र आध्यात्मिक्यः। बाह्याः पञ्च तुष्टयो बाह्यविषयेषु पञ्चसु शब्दादिष्वर्जनरक्षणक्षयभोगहिंसादिदोषनिमित्तकोपरमाज्जायन्ते। ताश्च तुष्टयो यथाक्रमं पारं सुपारं पाराप्रारमनुत्तमाम्भ उत्तमाम्भ इति परिभाषिता इति। कश्चित् त्विमां कारिकामन्यथा व्याख्यातवान्। तद्यथा विवेकसाक्षात्कारोऽपि प्रकृतिपरिणाम एवेत्यलं ध्यानाभ्यासेनेत्येवं दृष्ट्या या ध्यानादिनिवृत्तौ तुष्टिः सा प्रकृत्याख्या। प्रव्रज्योपादानेनैव मोक्षो भविष्यति किं ध्यानादिनेति या तुष्टिः सोपादानाख्या। कृतसन्न्यासस्यापि कालेनैव मोक्षो भविष्यत्यलमुद्वेगेनेति या तुष्टिः सा कालाख्या। भाग्यादेव मोक्षो भविष्यति न मोक्षशास्त्रोक्तसाधनैरेवं कुतर्के या तुष्टिः सा भाग्याख्येत्यादिरर्थ इति तन्न। तद्याख्याततुष्टीनामभावस्य ज्ञानाद्यनुकूलत्वेनाशक्तिपरिभाषानौचित्यादिति”। तुष–कर्त्तरि क्तिच्। ५ गौर्य्यादिषु षोडशसु मातृषु मध्ये मावृभेदे। कुलदेवताशब्दे २१३० पृ० दृश्यम्। ६ अनन्तदेवपत्न्याञ्च। “अनन्तपत्नी तुष्टिश्च पूजिता वन्दिताऽभवत्। यया विना न सन्तुष्टाः सर्वे लोकाश्च सर्वतः” देवीभा०। “या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता” देवीमाहा०। “आचारश्चैव साधूनामात्मनस्तुष्टिरेव च” मनुः।

तुष्टिमत् = त्रि० तुष्टिरस्त्यस्य मतुप्। तोषयुक्ते। स्त्रियां ङीप्। २ उग्रसेनात्मजे कंसभ्रातरि पु० “कंसः सुनामा न्यग्रोधः कङ्कः शङ्कुः सुहुस्तथा। राष्ट्रपालोऽथ सृष्टिश्च तुष्टिमानुग्रसेनजाः” भाग० ९। २४। १४।

तुष्टु = पु० तुष–बा० तुक्। कर्णस्थमणौ शब्दच०।

तुष्य = पु० तुष–कर्त्तरि क्यप्। १ महादेवे तुटितुटशब्दे दृश्यम्

तुस = ध्वनौ भ्वा० पर० सक० सेट्। तोसति अतोसीत्। तुतोस।

तुस = पु० तुष + पृषो०। तुषे धान्यत्वचि रमानाथः।

तुस्त = न० तुस–क्त बा० इडभावः। १ रेणौ अमरे वुस्तेत्यत्र तुस्तेति पाठं मत्वा सारसुन्दर्य्यां व्याख्यातम्।

तुह = अर्द्दने बधे भ्वा० पर० सक० सेट्। तोहति। इरित् अतुहत् अतोहीत्।। तुतोह।

तुह(हा)र = पु० तुह–बा० करन् कारन् वा। कुमारपारिषदभेदे। “तुहरश्च तुहारश्च चित्रदेवश्च वीर्य्यवान्” भा० स० ४६ अ०। कुमारपारिषदोक्तौ।

तुहिन = न० तुह्यतेऽनेन तुह–इनन् ह्रस्वश्च। १ हिमे अमरः २ चन्द्रतेजसि उज्ज्वल० “तृणान्तलग्नैस्तुहिनैः पतद्भिः” ऋतुस० “सान्द्रस्तहिनान्तरितः” प्रबोधच०।

तुहिनकर = पु० तुहिनं करोऽस्य। १ चन्द्रे तुहिनांशुप्रभृतयोऽप्यत्र। २ कर्पूरे च।

तुहिनांशुतैल = न० ६ त०। कर्पूरतैले राजनि०।

तुहिनाचल = पु० ६ त०। हिमालये तुहिनाद्रिप्रभृतयीऽप्यत्र।

तुहुण्ड = पु० दनुवंश्ये दानवभेदे। “अश्वग्रीवश्च सूक्ष्मश्च तुहुण्डश्च महाबलः। एकपादेकचक्रश्च विरूपाक्षमहोदरौ। निचन्द्रश्च निकुम्भश्च कुपटः कपटस्तथा। शरभः शलभश्चैव सूर्य्यचन्द्रमसौ तथा। एते ख्याता दनोर्वंशे दानवाः परिकीर्त्तिताः” भा० आ० ६५ अ०। २ धृतराष्ट्रपुत्रभेदे “नन्दको बाहुशाली च तुहुण्डोविकटस्तथा” १८६ अ०।

तूड = अनादरे भ्वा० पर० सक० सेट्। तूडयति अतूडीत्। तुतूड। ऋदित्। णिच् अतुतूडत् त।

तूण = सङ्कोचे अद० चुरा० उभ० सक० सेट्। तूणयति ते। अतुतूणत् त।

तूण = सङ्कोचे चु० उभ० सक० सेट्। तूणयति ते अतूतुणत् त।

तूण = पूरणे चु० आ० सक० सेट्। तूणयते, अतूतुणत् त।

तूण = पु० तूण्यते पूर्य्यते वाणैः तूण–पूरणे कर्म्मणि घञ्। इषुधौ वाणाधारे अमरः।

तूणक = न० “तूणकं भवेदिदं रजौ रजौ ततश्च रः” वृ० र० टीकोक्ते पञ्चादशाक्षरपादके छन्दोभेदे।

तूणधार = पु० तूणं धारयति धारि–अण् उप० स०। तूणधारिणि धानुष्के। अस्या नियुक्तत्वात् “अणि नियुक्ते” पा० न आद्युदात्तत्वम्। किन्तु तत्पुरुषस्वरः।

तूणव = पु० तूणस्तदाकारोऽस्त्यस्य केशा० व तूणं तदाकारं वाति वा–क वा। तूणाकारे वाद्यभेदे। “सैषा वाग् वनस्पतिषु वदति या दुन्दुभौ या तूणवे या वीणायाम्” तै० स० ६। १। ४। १। “वीणावाद क्रोशाय तूणवध्ममवरस्पराय” यजु० ३०। १९। “तूणवं वाद्यभेदं धमति तथाभूतम्” वेददी०। “वीणावादं पाणिघ्नं तूणवध्मं तान्नृत्तायानन्दाय” यजु० ३०। २०।

तूणवत् = त्रि० तूण + अस्त्यर्थे मतुप् मस्य वः। १ तूणयुक्ते धानुष्के “सायुधा बद्धनिस्त्रिं शास्तूणवन्तः संमार्गणाः” भा० व० ९ अ०। ठन्। तूणिक इनि तूणिन् तत्रार्थे त्रि० इन्यन्तस्य स्त्रियां ङीप्। तूणिन्। नन्दिवृक्षे पु० राजनि०।

तूणी = स्त्री तूण्यते पूर्य्यते शरैः तूण–पूरणे घञ् गौरा० ङीष्। १ इषुधौ २ तूणे ३ नील्यां शब्दार्थचि०। ४ तूणे स्त्री टाप् शब्दार्थचि०।

तूणीक = पु० तूणीव कायति–कै–क। नन्दिवृक्षे राजनि०।

तूणीर = पु० तूण्यते पूर्य्यरे शरैः तूण–पूरणे बा० ईरन्। १ तूणे इषुधौ अमरः।

तूतक = न० तुत्थ + पृषो०। तुत्थे (तु~तिया) शब्दच०।

तूतुजान = पु० तुजि–बले कानच् तुजा० अभ्यासदीर्थः बा० नलोपः। १ क्षिप्रे विघण्टुः। २ प्रेर्य्यमाणे च तुजधातौ दृश्यम्।

तूतुजि = स्त्री तुजि–बले दाने वा कि द्वित्वे तुजा० अभ्यासदीर्घः नलोपः। १ क्षिप्रे निघण्टुः २ दातरि च। “जज्ञेऽतूतुजिं चित्तूतुजिरशिश्नत्” ऋ० ७। २८। ३। “तूतुजिर्दाता” भा०।

तूतुज्यमानास = पु० तुजि–वले कर्मणि शानच् द्वित्वम् अभ्यासदीर्घः बा० नलोपः तथाभूतः असति दोप्यते असदीप्तौ अच् कर्म्म०। क्षिप्रे निघण्टुः।

तूतुम = त्रि० तुज–अच् द्वित्वे अभ्यासदीर्थः पृषो०। १ तूर्णे माधवः “सवना तूतुमा कृषे” ऋ० १०। ५०। ५। “एता विश्वा सवना तूतुमा कृषे” ऋ० १०। ५०। ६। “तूतुमा तूर्णानि” भा०।

तूद = पु० तुद–घञर्थे कर्म्मणि क पृषो०। १ तूलवृक्षे राजनि०। अश्वत्थाकारे (पार्श्वपिप्पल) ख्याते वृक्षे भावप्र० “तूदं पक्वं गुरु स्तम्भि हिमं पित्तानिलापहम्। तदेवामं सुमघुरं संशोषि रक्तपित्तहृत्”।

तूदी = स्त्री देशभेदे। तूदी अभिजनोऽस्य ढक्। तौदेय पित्रादिक्रमेण तूदीदेशवासिनि त्रि०।

तूपर = पु० शृङ्गहीने १ पशौ। स्त्रियां टाप्। तस्य शृङ्गहीनत्वकारणं यथा “तासान्त्वेव वाऽब्रुवन्नासामहा एवेमौ द्वादशौ मासौ सं संवत्सरमापयामेति तासां द्वादशसु माःसु शृङ्गाणि प्रावर्त्तन्त ताः सर्वमन्नाद्यमाप्नुवंस्ता एतस्तूपरास्तस्मात्ताः सर्वान् द्वादशमासः प्रेरते सर्वं हिता अन्नाद्यमाप्नुवन्” ताण्ड्य० घ्रा० ४। १। २। “तुशब्दी वैलक्षण्यद्योतनार्थः, तासांगवां मध्ये काश्चिदव्रुयन् किमित्युच्यते, यौ द्वादशौ द्वादशसंख्यापूरकावेव शिष्टावेकादशद्वादशौ मासौ इमौ आसामहा एवं अनुष्ठायैबं अनुष्ठायं प्रारब्धं संवत्सरसाध्यं समापयामेति व्यवहिताश्चेति समित्यस्य व्यवहितेन सम्बन्धः, तासां गवां जातानि शृङ्गाणि द्वादशसु माःसु मासेषु पूर्णेषु प्रावर्त्तन्त प्रापतन् दशभिर्मासैः शृङ्गप्राप्तिलक्षणफले सिद्धेऽपि पुनरश्रद्धया यतो मासद्वयमन्वतिष्ठन् अतो जातानामपि शृङ्गाणां पुनः पतनमित्यभिप्रायः, तथा चैतरेयकम् “अथ समापयिष्यामः संवत्सरमित्यासत तासामश्रद्धया शृङ्गाणि प्रावर्त्तन्तेति”। एतास्तूपरा इति ताः पतितशृङ्गाः गावः सर्वर्त्तुभवमन्नाद्यमदनीयमन्नं प्राप्तुवन् ता गावस्तूपराः शृङ्गहीनाः दृश्यन्ते तस्मात्ताः सर्वान् द्वादश मासौ मासान् प्रेरते प्रगच्छन्ति ईर गतौ शीतवातातपेषु सर्वदा पुष्टाङ्गा एव यथायथं गच्छन्ति शृङ्गिणो महिषादयस्तु कृशा भवन्ति, तस्मादित्युक्तं कस्मादित्याह हि यस्मात्ता गावः सर्वमन्नाद्यमाप्नुवन् तस्मात् सर्वर्त्तुषु पुष्टाङ्गा भवन्ति तथा चैतरेयकम् “ऊर्द्ध्वत्वमसमन्वत तस्मादु ताः सर्वभूतान्तरमुत्तिष्ठन्तीति” भा०। “प्राजापत्यांश्च सप्तदश श्यामतूपरान् वस्तान्” कात्या० श्रौ० १४। २। १३ “अश्वस्तूपरो गौर्मृ गस्ते प्राजापत्याः” यजु०। २४। १।

तूबर = पुंस्त्री० सौ० तु + क्विप् तूः बृ–वृत्यां अच् कर्म्म०। तूपर + पृषो० पस्य बो वो। १ तूपरे कालेऽजातशृङ्गे पशौ २ कालेऽजातश्मश्रुके पुरुषे ३ अव्यक्तपुरुषलक्षणे च “जहि तूवरकं क्षिप्रं कर्णस्य बलमादधत्” भा० द्रो० १३३ अ० “तञ्च तूवरकं बालं बह्वाशिनमविद्यकम्” भा० उ० १५९ अ०। २ कषाये रसे पु० ३ तद्वति त्रि०। ४ आढक्यां ५ सौराष्ट्रमृत्तिकायां स्त्री गौरा० ङीष्।

तूय = न० तीय + पृषो०। १ जले निघण्ट्वः। तू–भावे सम्प० क्विप् तां याति या–क वा। २ क्षिप्रे न० “देव हरिभिर्याहि तूयम्” ऋ० ३। ४३। ३ “तूयं क्षिप्रम्” भा०। ३ क्षिप्रतायुक्ते त्रि०। “अद्रिणा ते मन्दिन इन्द्र! तूयान्” ऋ० १०। २८। ३। “तूयानविलम्बितान्” भा०।

तूर = हिंसे, सक० वेगे अक० दिवा० आत्म० सेट्। तूर्य्यति अतूरिष्ट। तुतूरे।

तूर = त्रि० तुर–कर्त्तरि क्विप्। १ वेगयुक्ते। भावे सम्प० क्विप्। २ वेगे स्त्री “पूर्भिर्मयेन विहिताभिरदृश्यतूर्भिः” भा० २। ७। ३८। “अदृश्यतूर्भिः अलक्ष्यवेगाभिः” श्रीधरः।

तूर = न० तूर्य्यते ताड्यते मुखमारुतेन तूर–घञर्थे कर्मणि क। १ वाद्यभेदे (सानाइ) हेमच०। ३ ताडलाने पटहादौ शब्दार्थचि०।

तूरी = स्त्री तूरं तदाकारोऽस्त्यस्याः अच् गौरा० ङीष्। धूस्तुरे भावप्र०।

तूर्ण्ण = न० त्वर–संभ्रमे भावे क्त पक्षे इडभावः ऊठ् तस्य नः। १ शीघ्रे कर्त्तरि क्त। २ त्वरायुक्ते त्रि० अमरः। “अभ्याजतोऽभ्यागततूर्णतर्णकान्” माघः। “चूर्णमानीयतां तूर्णं पूर्णचन्द्रनिभानने!”। पर्णानि स्वर्णवर्णानि सीदन्त्याकर्णलोचने!” उद्भटः।

तूर्ण्णाश = न० तूर्णमश्नुते अश–अच्। १ उदके। “प्रतिश्रुताया वो वृषत्तूर्णाशं न गिरेरधि” ऋ० ८। ३२। ३। “तूर्णाशमुदकं भवति तूर्ण्णमश्नुते” निरु० भा०।

तूर्णि = पु० त्वर–नि नि० ऊठ्। १ मनसि उज्ज्वलदत्तः शब्दकल्पद्रुमे मलार्थतोक्तिः नकारस्थाने लकारभ्रमात्। भावेनि। २ त्वरायां हेमच०। ३ श्लोके संक्षिप्नसारे उणा० ४ क्षिप्रे निघण्टुः। ५ तद्वति त्रि०। “प्र यतत्स्तोता जरिता तूर्ण्यर्थः” ऋ० ३। ५२। ५। “तूर्ण्यर्थः त्वरितगमनाः” भा० “विगाहं तूर्णिं तविषीभिरावृतम्” ऋ० ३। ३। ५। “तूर्णिं क्षिप्रगामिनम्” भा०।

तूर्त = न० त्वर–क्त ऊठ् बेदे न तस्य नः। १ क्षिप्रे “यद्वै क्षिप्रं तत्तूर्त्तमथ यत् क्षिप्रात् क्षेपीयस्तत्प्रतूर्त्तम्” शत० ब्रा० ६। ३। २। २।

तूर्य्य = न० तुर्य्यते ताड्यते तूर–यत्। वाद्यभेदे “होमावसाने कृततूर्य्यनादः” मत्पु० तुलापुरुषदानविधौ “तत्र भुक्त्वा पुनः किञ्चित्तूर्य्यघोषैः प्रहर्षितः” मनुः। एतत्परस्य मानस्य गिरिनद्या० न णत्वम् तूर्य्यमानम् “सतूर्य्यमेनां स्नपयाम्बभूवुः” कुमा०।

तूर्य्यखण्ड = पु० ६ त०। वाद्यभेदे डगडवाद्ये हारा०।

तूर्व = न० तुर्व अच्–रेफे पूर्वाणो दीर्घः। १ क्षिप्रे तूर्णे “तूर्वयाणो गूर्त्तवचस्तमः” ऋ० १०। ६१। २। “तूर्य्ययाणस्तूर्णगमनः” भा०। “रक्षो अग्निमशुषं तूर्वयाणम्” ऋ० १। १७४। ३।

तूर्वि = न० तुर्व–इन् दीर्घः। १ क्षिप्रे “वावृधानाय तूर्वये” ऋ० ९। ४२। ३।

तूल = पूरणे चुरा० आ० सक० सेट्। तूलयते अतूतुलत।

तूल = इयत्तापरिच्छेदे निष्काशने भ्वा० पर० सक० सेट्। तूलति अत्लीत्। तुतूल।

तूल = न० तूलयति पूरयति तूल्यते वा तूल–अच्। १ सर्वव्यापके आकाशे मेदि० २ अश्वत्थाकारे तूदे वृक्षे भावप्र० तूदशब्दे दृश्यम्। कार्पासादिवीजजाते (तूला)। ख्याते पदार्थे। “सर्वं दहति गङ्गाम्भस्तूलराशिमिवानलः” प्रा० त०। अव्ययीभावेऽस्य “कूलतीरतूलेत्यादिना” पा० आद्युदात्तता उपतूलम्। तूलशब्दे परे ईषिकाशब्दस्य षष्ठी तत्पुरुषे ह्रस्वः। ईषिकतूलं मुञ्जेषीकातूलम्। “कञ्चर्क तूलगर्भञ्च तूलिकाम् सूपवीतिकां मञ्जिष्ठारूपवासांसि तथा तूलवतीं पटीम्। ऊर्णामयानि वासांसि यतिभ्योऽपि प्रदापयेत्” काशी० ४ अ०।

तूलक = न० तूल–स्वार्थे क। तूले हेमच०।

तूलकार्मुक = न० तूलस्य स्फोटनार्थं कार्मुकम्। तूलस्फोटनार्थे धनुषि (धुनखरा) तूलचापादयोऽप्यत्र शब्दच०।

तूलनालि(ली) = स्त्री० तूलनिर्म्मिता नाली। पिञ्जिकायाम् (पाइज) स्वार्थे क। अत्रैवार्थे स्त्री त्रिका०।

तूलपिचु = पु० पिच–मर्दने कुन् तूलप्रधानः पिचुः। तूलवृक्षे (तुलारगाछ) भरतः।

तूलवृक्ष = पु० तूलसाधनं वृक्षः शाक० त०। शाल्मलिवृक्षे। राजनि०

तूलशर्करा = स्त्री तूलस्य शर्करेव। कार्पासवीजे रत्ना०।

तूलसेवन = न० ६ त०। तूलसूत्रकर्त्तने (काटनाकाटा) शब्दमा० तूलसेचनेति चमध्यपाठः प्रमादिकः।

तूलि(ली) = स्त्री तूल–इन् वा ङीप्। चित्रसाधने स्वनामख्याते पदार्थे सि० कौ०।

तूलिका = स्त्री तूली स्वार्थे क। १ नील्यां २ वर्त्तौ च शब्दर०। तूलीशब्दार्थे ३ लेख्यकूर्चिकायां ४ वीरणादिशलाकायाम्। ५ आवर्त्तितसुवर्णादेर्द्रवाधारपात्रभेदे (मुचि)। तूल अस्त्यस्य ठन् कापि अत इत्त्वम्। ६ (तोषक्) शय्याभेदे तूलशब्दे उदा०। “उन्मीलितं तूलिकयेव चित्रम्” कुमा०। “तूलिका कथिता लेख्यकूर्चिका तूलशय्ययोः” विश्वः। तूलपूरितशय्या च तूलशय्येत्यर्थः।

तूलिनी = स्त्री तूलोऽस्त्यस्या इनि ङीष्। शाल्मलीवृक्षे भावप्र०। २ लक्ष्मणाकन्दे राजनि०। ३ तूलयुक्ते त्रि० स्त्रियां ङीप् तूलिफला।

तूलिफला = स्त्री तूलि तूलवत् फलं यस्याः। १ शाल्मलीवृक्षे रत्नमा०

तूवर = पु० सौ० तु–बा० वरच् दीर्थश्च। १ तूपरशब्दार्थे २ कषाये रसे अमरः। ३ तद्वति त्रि० अमरः।

तूवरिका = स्त्री सौ० तु–वा० वरच् दीर्घः संज्ञायां कन् कापि अत इत्त्वम्। १ आदक्याम् (अहरहर) २ सौराष्ट्रमृत्तिकायाञ्च भरतः।

तूवरी = स्त्री तूवर + गौरा० ङीष्। १ आढक्याम् २ सौराष्ट्रमृत्तिकायाञ्च (फिट्किरि) भरतः।

तूष = तुष्टौ भ्वा० पर० सक० सेट्। तूषति अतूषीत्। तुतूष।

तूष्णींशीलः = त्रि० तूष्णीं शीलं यस्य। १ मौनावलम्बिनि।

तूष्णीक = त्रि० तूष्णीं शीलं यस्य शीलेऽर्थे कन् मलोप्रश्च। मौनावलम्बिनि अमरः।

तूष्णीकाम् = अव्य० तुष्णीम् + अकच्प्रकरणे तूष्ण्णीमः काम् वक्तव्यः” वार्त्ति० काम् मित्त्वादन्त्यादचः परः। तूष्णीं शब्दार्थे। “तुष्णीकामास्ते” सि० कौ०।

तूष्णीङ्गङ्ग = अव्य० तूष्णीं गङ्गा यत्र “अन्यपदार्थे च संज्ञायाम्” पा० बहुव्रीह्यर्थे अव्ययी०। १ देशभेदे। “अपांह्रदं च पुण्याख्यं भृगुतुङ्गं च पर्वतम्। तूष्णींगङ्गे च कौन्तेय! सामात्यः समुपस्पृश” भा० व० १३५ अ०। तूष्णीङ्गङ्गे इत्यत्र सप्तम्या वा न अम।

तूष्णीम् = अव्य० तूष बा० नीम् स्वरादि। १ मौने (चुपकरा) अमरः। “यत्किञ्चित् दश वर्षाणि सन्निधौ प्रेक्षते धनी। भुज्यमानं परैस्तूष्णीं न स तल्ल्ब्धुमर्हति” मनुः “परैर्वा कीर्त्त्यमानेषु तूष्णीमास्ते पराङ्सुखः” भा० शा० १०३ अ०। तूष्णींशब्दे उपपदे “तूष्णीमि भुवः” क्त्वाणमुलौ तूष्णीं भूय तूष्णीं भावम्। “तूष्णींभूय भयादासाञ्चक्रिरे मृगपक्षिणः” भट्टिः। क्त्वा च इति” पा० वा समासाभावेतूष्णीं भूत्वा।

तूष्णीम्भाव = पु० तूष्णीम् + भू–घञ्। तूष्णीम्मवने मौनावलम्बने “अनिमिषनयननिरीक्षणे तूष्णींभावादयस्तत्र” सा० द० “तूष्णींभावेऽपि विज्ञेयं न चेद्भवति कारणम्” भा० शा० १०३ अ०।

तूस्त = न० तुस–बा० तन् दीर्घश्च। १ रेणौ। २ जटायाञ्च मेदि० ३ पापे ४ सूक्ष्मे च शब्दच०।वि + तूस्त–णिच्। तूस्तस्य हनने। वितूस्तयति तूस्तं केश इत्येके जठीभूताः केशा इत्यन्ये पापमित्यपरे सि० कौ०।

***