तार = पु० तारयति स्वजापकान् संसारार्णवात् तॄ–णिच्–अच् तार्य्यतेऽनेन वा तॄ–णिच् करणे अच् तॄ–णिच्–भावे अच् वा। १ प्रणवे ओङ्कारे “तारयेद् यद्भवाम्भोधेः स्वजपासक्तमानसम्। ततस्तार इति ख्यातो यस्तं ब्रह्मा व्यलोकयत्” काशीख० ७३ अ०। २ वानरभेदे ३ शुद्धमौक्तिके ४ मुक्ता विशद्धौ मेदि० ५ देवीप्रणवे कूर्चवीजे (ह्री~) तन्त्रसा० ६ तारणे विश्व ७ महादेवे “काश्यां विश्वेश्वरोऽहं गिरि- पतितनयासंयुतो वामभागे शुण्डादण्डेन दक्षे त्रिपथगतटिनीतीरशुद्धाम्बुभागे। मायावीजञ्च कर्णे सुरमुनिसहितो ध्यानयुक्तं वदामि प्रीत्या लोकस्य तस्मात् सुरमुनिगणकैरुच्यते तारनामेति” शब्दार्थचि० धृतवाक्यम् ८ रूप्ये न० राजनि०। ९ नक्षत्रे न० स्त्री० मेदि० “विपत्तारे गुडं दद्यात्” ताराबलादिन्दुरथेन्दुवीर्य्यात्” ज्योति० त० सां० त० उक्ते अध्ययनरूपे प्रथमे १० गौणसिद्धिभेदे। “ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः सुहृतप्राप्तिः। दानञ्च सिद्धयोऽष्टौ सिद्धेः पूर्वोऽङ्कुशस्त्रिविधः” सा० का०। “विहन्यमानस्य दुःखस्य त्रित्वात् तद्विघातास्त्रय इति इमा मुख्याः तिस्रः सिद्धयस्तदुपायतया त्वितरा गौण्यः पञ्च सिद्धयस्तत्रापि हेतुमत्तया तिस्रः हेतुतया पञ्च व्यवस्थिताः। तास्वाद्या अध्ययनादिलक्षणा सिद्धयो हेतवः मुख्यास्तु हेतुमत्यः। विधिंवद्गुरुमुखादध्यात्मविद्यानामक्षरस्वरूपग्रहणमध्ययनं प्रथमसिद्धिस्तारमुच्यते” त० कौ० ११ विष्णौ पु० “अशोकस्तारणस्तारः शूरः शौरिर्ज्जनेश्वरः” भा० अनु० १४९ अ० सहस्रनामकथने। १२ उच्चशब्दे पु०। १३ तद्वति त्रि० मेदि०। १४ स्फुरितकिरणे १५ निर्मले त्रि० धर०। दिक्शब्दात् परम् तीरस्य तारादेशः। १६ तीरे। दक्षिणतारं दक्षिणतीरमित्यर्थः १७ उच्चैस्तरे त्रि० १८ नेत्रकनीनिकायां न० स्त्री० “मत्तयेव घूर्णितमन्दतारया” काद०। “तारैर्बभूवे परभागलाभतः” माघः शुद्धमुक्ताफले। “तारहेममहारत्नविमानशतशोभितम्” भाग० ४। ६। २७। प्रणवे “तारो मायारमायोगो मनोर्दीपनमुच्यते”। (ओं श्रीं ह्री~) दी० त० “तारं व्योमाग्निमनुयुग्दण्डी ज्योतिर्मनुर्मतः” दी त०। “हारममलं तरलतारमुरसि दधतम्” जयदेवः। “उरसि निहिततारोहारः” अमरुः। “तारलोलबलयेन करेण” सा० द०।

तारक = त्रि० तारयति तॄ–णिच्–ण्वृल्। १ तारयितरि। “तत्र हि जन्तोः पाणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्मव्याचष्टे” जावालोप०। स्त्रियां कापि अतं इत्त्वम्। २ दैत्यभेदे तत्कथा शिवपुराणे दृश्या। ३ कर्णे ४ भेलके च मेदि०। तारैव स्वार्थे क। “तारका ज्योतिषि” पा० अजादि० टाप् न अत इत्त्वम्। तारका। ५ नेत्रकनीनिकायां स्त्री। ६ चक्षुषि न० स्त्री० मेदि०। “तस्मिन् विप्रकृताः काले तारकेण दिवौकसः” कुमा०। “अभिभाव्यतरिकमदृष्टहिमद्युतिविम्बमस्तमितभानु नभः” माघः “कुमार- स्तुतिषु तारकोद्धरणम्” काद०। न दण्ड्यानां नेत्रोत्पाटनमिति ध्वन्यर्थः। “पतनं तारकादीनाम्” सुश्रु० “तनुप्रकाशेन विचेयतारका” रघुः। “तारकावर्षमिव धर्म्मविनाशपिशुनम्” “क्वापि विहृत्य दिवावसाने लोहिततारका” काद०। “त्र्यधिकदशयतिर्ननौ रौ भवेतां ररौ तारका, वृत्तरत्नाकरोक्ते अष्टादशाक्षरपादके ७ छन्दोभेदे च।

तारकजित् = पु० तारकं दैत्यं जयति जि–क्विप्। कार्त्तिकेये तत्कथा शिवपु० दृश्या।

तारकाक्ष = पु० तारकासुरस्य ताराक्षापरपर्य्याये पुत्रभेदे “निर्जितेषु च दैत्येषु तारकस्य सुतास्त्रयः। ताराक्षः कमलाक्षश्च विद्युन्माली च पार्थिव!” इत्युपक्रमे “काञ्चनं तारकाक्षस्य चित्रमासीन्महात्मनः। राजतं कमलाक्षस्य विद्युन्मालिन आयसम्” भा० क० ६ त०। २ कुमारानुचरभेदे “महाजठरपादाङ्गास्तारकाक्षाश्च भारत!” भा० ग० ४६ अ०।

तारकब्रह्म = न० कर्म्म०। रामस्य (ओं रामाय नमः) षडक्षरे मन्त्रे। “षडक्षरं महामन्त्रं तारकब्रह्मौच्यते। रामाय नम इत्येतत् प्रणवादि षडक्षरम्” इति अन्योऽपि मन्त्रः पद्मपुर० उक्तो यथा। “मुमूर्षोर्मुनिकर्ण्यान्तु अर्द्धोदकनिवासिनः। अहं दिशामि ते मन्त्रं तारकं ब्रह्मवाचकम्। ओ~ श्रीरामरामेत्येतन्मन्त्रं तारकमुच्यते। अतस्त्वं जानकोनाथ। परं ब्रह्म विनिश्चितम्”।

तारकादि = संजातार्थे इतच् प्रत्ययनिमित्ते पा० गण सू० उक्ते शब्दगणे स च गणो यथा

“तारका, पुष्प, कर्णक, मञ्जरी, ऋजीष, क्षण, सूत्र मूत्र, निष्क्रमण, पुरीष, उच्चार, प्रचार, विचार, कुद्मल, कण्टक, मुसल, मुकुल, कुसुम, कुतूहल, स्तवक, किसलय, पल्लव, खण्ड, वेग, निद्रा, मुद्रा, बुभुक्षा, धेनुष्यां, पिपासा श्रद्धा, अभ्र, पुलक, अङ्गारक, वर्णक, द्रोह, दोह, सुख, दुःख, उत्कण्ठा, भर, व्याधि, वर्मन्, व्रण, गौरव, शास्त्र, तरङ्ग, तिलक, चन्द्रक, अन्धकार, गर्व, मुकुर, हर्ष, उत्कर्ष, रण, कुवलय, गर्ध, क्षुध्, सीमन्त, ज्वर गर, रोग, रोमाञ्च, पण्डा, कज्जल, तृष्, कोरक, कल्लोल, स्थपुट, फल, कञ्चुक० शृङ्गार, अङ र, शैवाल, बकुल, श्वभ्र, आराल, क्वलङ्क, कर्दम, कन्दल, मूर्च्छा, अङ्गार, हस्तक, प्रतिविम्ब, विघ्न, तन्त्र, प्रत्यय, दीक्षा, गर्ज, (गर्भादप्राणिनि) “तदस्य संजातं तारकादिभ्य इतच्” पा० इतच् तारकित अस्य आकृतिगणत्वात् अन्येऽपि शब्दा यथाप्रयोगमत्रावधेयाः।

तारकायण = पु० विश्वामित्रपुत्रभेदे “औदुम्बरा ह्यविष्णातास्तारकायणचञ्चुलाः” हरिवं० २७ अ०। विश्वामित्रपुत्रकथने।

तारकारि = पु० ६ त०। कार्त्तिकेये हेमच०। तारकशत्रुप्रभृतयोऽप्यत्र।

तारकित = न० तारका संजाता अस्य तार० इतच्। नक्षत्रयुक्ते आकाशे “सितनिशादृषदि स्फुटनिष्पतत्कणगणाधिकतारकिताम्बरः” नैष०।

तारकिणी = स्त्री तारकाः सन्त्यत्र इनि ङीप्। १ नक्षत्रयुक्तायां रात्रौ राजनि० २ तारकायुक्ते त्रि० स्त्रियां ङीप्।

तारकोपनिषद् = स्त्री तारयति ज्ञानदानेन तारि–ण्वुल्। तारिका उपनिषत्। उपनिषद्भेदे उपनिषच्छब्दे दृश्यम्।

तारक्षिति = पु० तारा उच्चा क्षितिर्यत्र। देशभेदे स च देशः वृ० स० १४ अ० प्रतीच्यामुक्तः “अपरस्यां मणिमान्” इत्युपक्रमे “पञ्चनदमठपारावततारक्षितिशृङ्गवैश्यकनकशकाः” कर्म्म०। २ उच्चभूमौ स्त्री।

तारण = पु० तारयत्यनेन ल्युट्। १ भेलके रत्ना०। कर्त्तरि ल्यु। २ तारयितरि त्रि० ३ विष्णौ पु०। “अशोकस्तारणस्तारः” विष्णुस०। ४ भावे ल्युट्। ५ तारणकरण ६ उद्धारणे च न० “तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै” भा० अ० १३ अ०। भावे युच्। तारणा ७ तरणप्रापणे स्त्री “तारणा पारणं चैव तद्व्रतं सर्वकामिकम्” हरिवं० १४० अ०। षष्टिवर्षमध्ये अष्टादशे ८ वर्षभेदे। “अतिवृष्टिश्च जायेत धान्यस्याथ प्रपीडनम्। शस्यं भवति सामान्यं तारणे सुरवन्दिते!” ज्यो० त०। “तारणं तदनु भूरिवारिदं शस्यवृद्धिमुदितञ्च पार्थिवम्” वृ० स० ८ अ०

तारणि(णी) = स्त्री तार्य्यतेऽनया तॄ–णिच्–अणि। १ नौकायां हारा० वा ङीप्। ङीवन्तः २ काश्यपपत्नीभेदे याजोपयाजयोरृष्योर्मातरि तस्या अपत्यम् ढक्। तारणेय तदपत्ये। “तथैव च महाभागः सोऽपश्यच्छंसितव्रतौ। याजोपयाजौ ब्रह्मर्षी शाम्यन्तौ परमेष्ठिनौ। संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ। तारणेयौ युक्तरूपौ ब्राह्मणावृषिसत्तमौ” भा० आ० १६७ अ०।

तारतण्डुल = पु० तारः शुद्धमौक्तिकमिव शुभ्रस्तण्डुलोऽस्य। धवलयवनाले राजनि०।

तारतम्य = न० तरतमयोर्भावः ष्यञ्। १ न्यूनाधिकत्वे “निर्धनं निधनमेतयोर्द्वयोस्तारतम्यविधिमुक्तचेतसाम्। वोधनाय विधिना विनिर्म्मिता रेफ एव जयवैजयन्तिका” इत्युद्भटः। “अहो तारतम्यं नराणाम्” मृच्छक० तरतमशब्दे उदा०।

तारतार = न० तारयतीति तारं तत्प्रकारः प्रकारे द्वित्वम्। सां० त० उक्ते गौणतृतीयसिद्धिभेदे तारशब्ददर्शिते “ऊहः शब्दोऽध्ययनम्” इत्यादिवाक्ये “ऊहस्तर्कः आगमाविरोधिन्यायेनागमार्थपरीक्षणम् संशयपूर्वपक्षनिराकरणेनोत्तरपक्षव्यवस्थापनं तदिदं मननमाचक्षते आगमिनः। सा तृतीया सिद्धिस्तारतारमुच्यते” त० कौ०।

तारदी = स्त्री तरद्येव स्वार्थे अण् ङीप्। तरदीवृक्षे राजनि० तारटीति पाठान्तरं तत्रार्थे।

तारपुष्प = पु० तारं रजतमिव पुष्पमस्य। कुन्दवृक्षे। राजनि०।

तारमाक्षिक = न० तारं रूप्यमिव माक्षिकम् उपधातुभेदः। रजततुल्ये उपधातुभेदे। “तारमाक्षिममन्यत्तु तद्भवेद्रजतोपमम्। किञ्चिद्रजतसाहित्यात् तारमाक्षिकमीरितम्। अनुकल्पतया तस्य ततो हीनगुणाः स्मृताः। न केवलं रूप्यगुणावर्त्तन्ते तारमाक्षिके। द्रव्यान्तरस्य संसर्गात् सन्त्यन्येऽपि गुणा यतः। स्यात् तारमाक्षिकं स्वादु तिक्तं वृष्यं रसायनम्। चाक्षुष्य वस्तिरुक्कुष्ठपाण्डुमेहविषोदरम्। अर्शः शोथं क्षयं कण्डूं त्रिदोषमपि नाशयेत्। मन्दानलत्वं बलहानिमुग्रां विष्टम्भितां नेत्रगदान् सकुष्ठान्। तथैव मालां व्रणपूर्विकाञ्च करोत्यशुद्धं रजताख्यमाक्षिकम्”। शोधनन्तु। “कर्कोटी मेषशृङ्ग्युत्थैर्द्रवैर्जम्बीरजैर्दिनम्। भावयेदातपे तीव्रे विमला शुद्ध्यति ध्रुवम्। विमला तारमाक्षिकम्। मारणन्तु “कुलत्थस्य कषायेण घृष्टा तैलेन वा पुटेत्। तैलेन वाऽजमूत्रेण म्रियते तारमाक्षिकम्” भावप्र०।

तारल = पु० तरल एव अण्। १ तरले २ विटे च शब्दार्थचि०।

तारवायु = पु० कर्म्म०। अत्युच्चशब्दयुक्ते पवने।

तारविमला = स्त्री तारोरजतमिव विमला। तारमाक्षिके उपधातुभेदे शब्दार्थचि०।

तारशुद्धिकर = न० तारस्य रजतस्य शुद्धिं धात्वन्तरयोगात् जातमलशुद्धिङ्करोति कृ–ट। सीसके तत्सम्पर्काद्धि रजतस्य मलशुद्धिर्लोकसिद्धा राजनि०।

तारसार = पु० उपनिषद्भेदे उपनिच्छब्दे दृश्यम्।

तारहार = पु० तारनिर्मितो हारः। १ स्थूलमुक्ताहारे “संवर्द्धितोरःस्थलतारहारः” रघुः।

तारा = स्त्री तारयति संसारर्णवात् भक्तान् तॄ–णिच्–अच्। १ दशमहाविद्यान्तर्गते द्वितीयमहाविद्याभेदे। २ नक्षत्रे च तत्र नक्षत्रादीनां लिङ्गभेदा यथा “हस्ता स्वाती श्रवणा अक्लीवे मृगशिरो नपुंसि स्यात्। पुंसि पुनर्वसुपुष्यौ मूलं त्वस्त्रो स्त्रियः शेषाः अधिकमृक्षशब्दे १४०० पृ० दृश्यम्। “काली तारा महाविद्या षीडशी भुबनेश्वरी” इत्यादि तन्त्रसा० “तारकत्वात् सदा तारा सुखमोक्षप्रदायिनी। उग्रापत्तारिणी यस्मादग्रतारा ततः स्मृता” तन्त्रसा० तन्नामनिरुक्तिः। ३ बुद्धदेवताभेदे ४ वृहस्पतिभार्य्यायाम् मेदि०। ५ सुषेणवानरकन्यायां वालिभार्य्यायाञ्च ६ चिडानामगन्धद्रव्ये ७ मुक्तायाञ्च राजनि०। “वृहस्पतेः स वै भार्य्यां तारां नाम यशस्विनीम्। जहार तरसा सर्वानवमत्याङ्गिरःसुतान्। स (चन्द्रः) याच्यमानो देवैश्च तथा देवर्षिभिः सह। नैव व्यसर्जयत् तारां तस्मायाङ्गिरसे तदा” “ददावङ्गिरसे तारां स्वयमेव पितामहः। तामन्तःप्रसवां दृष्ट्वा तारां प्राह वृह स्पतिः। मदीयायां न ते योनौ गर्भो धार्य्यः कथञ्चन। अयोनावुत्सृजत्तं वै कुमारं दस्युहन्तमम्। ईषी कास्तम्बमासाद्य ज्वलन्तमिव पावकम्। जातमात्रः स भगवान् देवानामक्षिपद्वपुः। ततः संशयमापन्नास्तारामुचुः सुरोत्तमाः। सत्यं ब्रूहि सुतः कस्य सोमस्याथ वृहस्पतेः। पृच्छ्यमाना यदा देवैर्नाह सा साध्वसाधु वा। तदा तां शप्तुमारब्धः कुमारो दस्युहन्तमः। तं निवार्य ततो ब्रह्मा तारां पप्रच्छ संशयम्। यदत्र तथ्यं तद् ब्रूहि तारे! कस्य सुतो ह्ययम्। सा प्राञ्जलिरुवाचेदं ब्रह्माणं वरदं शनैः। सोमस्येति महा त्मानं कुमारं दस्युहन्तमम्” हरिवं० २५ अ०। “सुषेणा दुहिता चेयमर्थसूक्ष्मविनिश्चये। औत्पातिके च विविधे सर्वतः परिनिष्ठिता। यदेषा साध्विति व्रूयात् कार्य्यं तन्मुक्तसंशयम्। न हि तारा मतं किञ्चदन्यथा परिवर्त्तते” रामा० कि० २३ अ०। सा च पश्चात् वालिनी मरणानन्तरं सुग्रीवभार्य्या “तारया सहितः कामी सक्तः कपिवृषस्तदा” ३१ अ० “अहल्या द्रौपदी कुन्ती तारा मन्दोदरी तथा। पञ्च कन्याः स्मरेन्नित्यं महापातकनाशनम्” तत्र मुक्तायां “तारावलीविकरणैर्व्यरुचन् निवासाः” माघः कनीनिकायां “लुलितनयनताराः क्षामवक्त्रेन्दुविम्बाः” माघः। ताराश्च अश्विनादयः। ज्यो० त० ताः तद्विशेषादिकञ्चोक्तं यथा “अश्विनी भरणी चैव कृत्तिका रोहिणी तथा। मृग- शीर्षं तथा चार्द्रा पुनर्वसुकपुष्यकौ। अश्लेषा च मघा पूर्वफल्गुन्युत्तरफल्गुनी। हस्ता चित्रा तथा स्वाती विशाखा चानुराधिका। ज्येष्ठा मूलं तथाषाढे पूर्वोत्तरपदादिके। श्रवणा च धनिष्ठा च शतभिषाद्यभाद्रिका। उत्तरादिभाद्रपदा रेवती भानि च क्रमात्”। “अश्वियमदहनकमलजशशिशूलभृददितिजीवफणिपितरः। योन्यर्य्यमदिनकृत्त्वष्णृपवनशक्राग्निमित्राः। शक्रोनिरृतिस्तोयं विश्वविरञ्ची हरिर्वसुर्वरुणः। अजपादोऽहिर्बुध्नः पूषा चेतीश्वरा भानाम्” विशाखायाः शक्राग्न्योर्मिलितदैवतत्वम् अभिजितोभिन्नत्वेन अष्टाविंशतिरिति तच्च वक्ष्यते इति नक्षत्राधिपाः “उग्रः पूर्वमघान्तका ध्रुवगणस्त्रीण्युत्तराणि स्वभूर्वातादित्यहरित्रयं चरगणः पुष्याश्विहस्ता लघुः। चित्रा नित्रमृगान्त्यभं मृदुगणस्तीक्ष्णोऽहिरुद्रेन्द्रयुक्। मिश्रोऽग्निः सविशाखभः शुभकराः सर्वे स्वकृत्ये गणाः। “शशाङ्कतारयोः शुद्धिर्विचार्य्या सर्वकर्म्मसु। ग्रहाणामपि सर्वेषां तच्छुद्धौ फलदातृता”। श्रीपतिसमुच्चये “ताराचन्द्रबले प्राप्ते दोषाश्चान्ये भवन्ति ये। ते सर्वे विलयं यान्ति सिंहं दृष्ट्वा गजा इव। जन्मसम्पत् विपत्क्षेमं प्रत्यरिः साधकोबधः। मित्रं परममित्रञ्च जन्मभाच्च पुनःपुनः। सर्वमङ्गलकार्य्याणि त्रिषु जन्मसु कारयेत्। विवादश्राद्धभैषज्ययात्राक्षौरादि वर्जयेत्। यात्रायां पथि बन्धनं कृषिविधौ सर्वस्य नाशोभवेत्। भै ज्ये मरणं तथा सुनियतं दाहोगृहारम्भणे। क्षौ रोगसमागमोबहुविधः श्राद्धेऽर्थनाशस्तथा वादे बुद्धिविनाशनं युधि भयं प्राप्नोत्ययं जन्मभे। पापाख्या तु त्रिविधा पञ्चचतुर्दशबिंशतिस्त्रियुत्ता। सिद्धिफला वृद्धिकरी विनाशसंज्ञा क्रमात् कथिता”। “जन्माद्यं कर्म्म ततोपि दशमं सांघातिकं षोडशकम्। समुदयमष्टादशभं विनाशसंज्ञं त्रयोविंशम्। आद्यात्तु पञ्चविंशम् मानसमेवं नरः षडृक्षः स्यात्। नवनक्षत्रोनृपतिः स्वजातिदेशाभिषेकर्क्षैः”। जात्यर्क्षन्तु। “पूर्वात्रयं मानलमग्रजानां राज्ञान्तु पौष्णेन सहोत्तराणि। सपौष्णमित्रं पितृदैवतञ्च प्रजापतेर्भञ्च कृषीवलानाम्। आदित्यहस्ताभिजिदश्विभानि तान्यन्त्यजातेःप्रभविष्णुतायाम्”। (देशभं देशनामर्क्षम्)। नाडीनक्षत्राणि। “ईहादेहार्थहानिः स्याज्जन्मर्क्ष उपतापिते। कर्म्मर्क्षे कर्म्मणां हानिः पीडा मनसि मानसे। मूर्त्तिद्रविणबन्धूनां हानिः सांघातिके तथा। संतप्ते सामुदयिके मित्रभृत्यार्थसंक्षयः। वैनाशिके विनाशः स्यात् देहद्रविणसम्पदाम्”। नाडीनक्षत्रफलम्। “जातिभे कुलनाशः स्याद्बन्धनञ्चाभिषेकभे। देशभे देशभङ्गः स्यात् क्रूरैरेवं शुभैः शुभम्। यस्मिन्राजाभिषिक्तोभवति तदाभिषेचनिकभम् अ इ उ ए कृत्तिका ओ ववि वु रोहिणीत्यादिदेशभम् (चक्रशब्दे १२४८ पृ० शतपदचक्रे दृश्यम्)। उग्रादिगणादिकार्य्यभेदः मु० चि० उक्तो यथा “उत्तरात्रयरोहिण्यो भास्करश्च ध्रुवं स्थिरम्। तत्र स्थिरं वीजगेहशान्त्यारामादिसिद्धये। स्वात्यादित्ये श्रुतेस्त्रीणि चन्द्रश्चापि चरं चलम्। तस्मित् गजादिकारोही वाटिकागमनादिकम्। पूर्वात्रयं याम्यमघे उग्रं कूरं कुजस्तथा। तस्मिन् घाताग्निशाठ्यानि विषशस्त्रादिसिध्यति। विशाखाग्नेयभे सौम्यो मिश्रं साधारणं स्मृतम्। तत्राग्निकार्य्यमिश्रं च वृषोत्सर्गादिसिद्धये। हस्ताश्विपुष्पाभिजितः क्षिप्रं लघु गुरुस्तथा। तस्मिन् पण्यरतिज्ञानं भूषाशिल्पकलादिकम्। मृगान्त्यचित्रामित्रर्क्षमृदु मैत्रं भृगुस्तथा। तत्र गीताम्बरं क्रीडा मित्रकार्य्यविभूषणम्। मूलेन्द्रार्द्राहिभं सौरिस्तीक्ष्णं दारुणसंज्ञकम्। तत्राभिचारघातोग्रभेदाः पशुदमादिकम्। मूलाहिमिश्रोग्रमधोमुखं भवेदूर्ध्वास्यमार्द्रेज्यहरित्रयं ध्रुवम्। तिर्यङ्मुखं मैत्रकरानिलादितिज्येष्ठाश्विनानीदृशकृत्यमेषु”।

ताराकूट = न० दम्पत्योर्विवाहशुभाशुभज्ञापके कूटभेदे उपयमशब्दे १२४८ पृ० दृश्यम्। “वर्णो वश्यस्तथा तारा योनिश्च ग्रहमैत्रकम्। गणमित्रं भकूटञ्च नाडी चेते गुणाधिकाः” मुहु० चि०।

ताराक्ष = पु० तारकाक्षापरपर्य्यायके तारकासुरस्य पुत्रे दैत्यभेदे तारकाक्ष्यशब्दे दृश्यम्।

ताराचक्र = न० तन्त्रोक्ते दौक्षणोयमन्त्रशुभाशुभज्ञानार्थे चक्रमेद तास्वरूपादि चक्रशब्दे० ८०९ पृ० नक्षत्रचक्रे दृश्यम्।

ताराचमन = न० तारायाः पूजाद्यङ्गमाचमनम्” शा० त०। तारादवीपजाद्यङ्गे आचमनभेदे तच्च भैरवतन्त्रे उक्तं यथा “तारामेदेस्त्रिभिः पीत्वा मायया क्षालयेत् करम्। हु~ ओष्ठौ तु द्बिरुत्मृज्य फट्कारैः क्षालयेत् करम्। आस्यं नासे दृशौ श्रात्रे नाभिवक्षः श्रिरोभुजान्। वैरोचनादिभिः स्पृष्ट्वा सर्वपापैः प्रमुच्यते। आचम्य भैरवो भूत्वा वत्सरात्तां प्रपश्यति”। ताराभेदैरिति। उग्रतारैकजटानीलसरस्वतीभेदैः। वैरोचनादयस्तु। बैरोचन, शङ्ख, पाण्डर, पद्मनाभ नामक, मामक, पाण्डव, तारकाऽसिताङ्ग, यमान्तक, विघ्नान्तक, नरा- न्तकाः, सचतुर्थीप्रणवादिनमोऽन्तकाः” कृष्णानन्दतन्त्रसा०।

ताराधिप = पु० ६ त०। १ चन्द्रे २ शिवे ३ वृहस्पतौ ४ वालिवानरे ५ सुग्रीवे च। “ततार ताराधिपखण्डधारी” कुमा०। “ताराधिपे लिनि लग्नगतेऽथ वास्मिन्” ज्यो० त०। तारापतितारानाथादयोऽप्यत्र। “कठोरतारापतिलाञ्छनच्छविः” माघः। ६ नक्षत्राधिपेषु अश्विनीकुमारादिषु ताराशब्दे दृश्यम्।

तारापथ = पु० ताराणां पन्थाः अच् समा०। आकाशे हला०

तारापीड = पु० ताराणामापीडः भूषणमिव। चन्द्रे त्रिका०।

ताराप्रमाण = न० अश्विन्यादिनक्षत्राणां स्वरूपावेदकसंख्याविशेषे स च वृ० स० ९८ अ० सप्रयोजनमुक्तो यथा

“शिखिगुणरसेन्द्रियानलशशिविषयगुणर्तुपञ्चवसुपक्षाः। विषयैकचन्द्रभूतार्णवाग्निरुद्राश्विवसुदहनाः। भूतशतपक्षवसवो द्वात्रिं शच्चेति तारकामानम्। क्रमशोऽश्विन्यादीनां कालस्ताराप्रमाणेन। नक्षत्रजमुद्वाहे फलमव्दैस्तारकामितैः सदसत्। दिवसैर्ज्वरस्य नाशो व्याधेरन्यस्य वा वाच्यः”।

ताराभूषा = स्त्री तारा भूषा यस्याः। रात्रौ राजनि०।

ताराभ्र = पु० तारो निर्मलः जलशून्यः अभ्रो मेघ इव शुभ्रत्वात् कर्पूरे राजनि०।

तारामण्डल = न० ताराणां मौक्तिकानां मण्डलं यत्र। ईश्वरमण्डपभेदे शब्दरत्ना०। ६ त०। २ नक्षत्रमण्डले च।

तारामृग = पु० तारारूपः मृगः मृगशिरः। मृगशिरोनक्षत्रे “अन्वधावन् मृगं रामो रुद्रस्तारामृगं यथा” भा० व० २७७ अ० “तारारूपं मृगम् तारामृगं, प्रजापतिः स्वां दुहितरं मृगो भूत्वा जगाम तस्य रुद्रः शिरोऽच्छिनत् तदेव मृगशिरो नक्षत्रम्” नीलक०। “एष चैव मृगः श्रीमान् यश्च दिव्यो नभश्चरः। उभावेतौ मृगो दिव्यौ तारामृगमहीमृगौ” रामा० अर० ४३। २। स०।

तारारि = पु० ६ त०। विटमाक्षिके उपधातुभेदे हेमच०।

तारावती = स्त्री ककुत्स्थराजभार्य्यायां मनोन्यथिन्यां जातायां दुर्गावतारभूतायां कन्यायां शिवावतारचन्द्रशेखरपत्न्याम्। तत्कथा कालिकापु० ४७ अ० यथा।

“काकुत्स्थो भार्य्यया सार्द्धमत्यन्तमुदितोऽभवत्। सहजेनाथ हारेण भूषिता सा ककुत्स्थजा। ववृधे मन्दिरे तस्य वर्षास्विव सुरापगा। तेनैव हारचिह्नेन तस्यास्तारावतीति वै। नामाकरोत् पिता काले यथोक्ते नृपसत्तम!”। “पतिं पूर्ववरं पुत्री राज्ञस्तारावती सती। खयं सा पार्वती देवी वत्रे च चन्द्रशेखरम्। वैवाहि- केन विधिना स राजा चन्द्रशेखरः। तारावतीं तदा भार्य्यां ककुत्स्थनृपतेः सुताम्। संस्कृत्य ज्ञापयामास देवेभ्यो वैदिकैर्मखः”

ताराषोढा = स्त्री ६ त०। तारापूराङ्गे षोढान्यासभेदे तन्त्रसारे ताराप्रक० दृश्यम्। “इति षोढा च कथिता तारायाः सर्वसिद्धिदा” तन्त्रसा०।

तारिका = स्त्री ताडिका डस्य रः। तालरसजाते मद्यभेदे। ताडिकाशब्दे दृश्यम्।

तारिन् = त्रि० तारयति तॄ–णिच्–णिनि। १ तारके। स्त्रियां ङीप्। सा च दशसु महाविद्यासु २ द्वितीयविद्यायाम् तद्भेदाः तन्त्रसारे उक्ता यथा “तारा चोग्रा महोग्रा च वजा काली सरस्वती। कामेश्वरी च चामुण्डा इत्यष्टौ तारिणी गणाः। अथ भेदान् प्रवक्ष्याभि तारिण्याः सर्वसिद्धिदान्। येषां विज्ञानमात्रेण जीवन्मुक्तो हिसाधकः” इत्युपक्रमे तासामभिधानम्। ३ बुद्धदेवताभेदे त्रिका०।

तारुक्ष्य = पु० तरुक्षस्यर्षेरपत्यं गर्गा० यञ्। तरुक्षर्षेरपत्ये। स्त्रियां लोहिता० ष्फ। तारुक्ष्यायणी। यूनि तु तारुक्ष्यायण फक्। यूनि तदपत्ये स च गोत्रप्रवरान्तर्गतः।

तारुण = पुंस्त्री तरुणस्यापत्यम् उत्सा० अञ्। तरुणस्यापत्ये स्त्रियां ङीप्।

तारुण्य = न० तरुणस्य भावः ष्यञ्। यौवने अमरः। “स्मरान्धा गाढतारुण्याः समस्तरतकीविदाः” सा० द०। “ततः स राजा तारुण्यादौरसेन बलेन च” भा० शा० १२५ अ०।

तारेय = पु० ताराया अपत्यम् ढक्। अङ्गदे १ बालिपुत्रे। “करिष्यत्येष तारेयस्तेजस्वी तरुणोऽङ्गदः” रामा० कि० २२ सर्गः। २ वृहस्पतिभार्य्यायास्तारायाश्चन्द्रजे पुत्रे बुधे च।

तार्कव = त्रि० तर्कोर्विकारः कोपधत्वात् अण्। तर्कुविकारे सि० कौ०।

तार्किंक = त्रि० तर्कं वेत्ति तच्छास्त्रमधीते वा ठञ्। १ तर्कवेत्तरि २ तर्कशास्त्राभिज्ञे च।

तार्क्ष = पु० तृक्ष एव स्वार्थे अण्। कश्यपे ऋषौ। “प्रमथ्य तरसा राज्ञः शांल्लादींश्चैद्यपक्षगान्। पश्यतां सर्वलोकानां तार्क्षपुत्रः सुधामिव” भाग०। २ पातालगरुडलतायां स्त्री राजनि० गौरा० ङीष्।

तार्क्ष्य = पु० तृक्षस्य गोत्रापत्यं गर्गा० वृक्षेत्यत्रंतृक्षेति पाठान्तरात् यञ्। १ वृक्षमुनेर्गोत्रापत्ये स्त्रियां लोहि० ष्फ। तार्क्ष्यायणी। २ गरुडाग्रजे अरुणे ३ गरुडे ४ अश्वे ५ सर्पे पुंस्त्री० ६ रसाञ्जने च मेदि०। ७ शालवृक्षे ८ स्वर्णे च शब्दर० ९ अश्वकर्ण्णवृक्ष १० स्यन्दने हेमच०। ११ पर्वतभेदे १२ विहृसमात्रे। “अयमुत्तरात् संयद्वसुस्तस्य तार्क्ष्य- श्चारिष्टनेमिश्च सेनानीग्रामण्यौ” यजु० १५। १८। “तीक्ष्णेऽन्तरीक्षे क्षिपति पक्षौ तार्क्ष्यः” वेददी० पृषो०। तत्र गरुडे “आरुह्य तार्क्ष्यं नभसीव भूतले” माघः “भवन्ति निर्विषाः सर्पाः यथा तार्क्ष्यस्य दर्शनात्” पञ्चत०। “त्रस्तेन तार्क्ष्यात् किल कालियेन” रघुः। “दशरात्रमुपयुज्य सर्वं तरतिं किल्विषं तार्क्ष्यदर्शनमुपपद्यते” सुश्रुतः। तार्क्ष्यस्येव दर्शनं दूरात् दर्शनमित्यर्थः। सर्पे “त्रिपदाः शिखिनस्तार्क्ष्याश्चतुर्दष्ट्राः विषाणिनः” भा० भी० ३ अ०।

तार्क्ष्यज = न० तार्क्ष्ये पर्वते जायते जन–ड। रसाञ्जने शब्दार्थचि०।

तार्क्ष्यध्वज = पु० तार्क्ष्यो ध्वजीऽस्य। गरुडध्वजे विष्णौ हेमच० तार्क्ष्यकेतनादयोऽप्यत्र।

तार्क्ष्यनायक = पु० ६ त०। गरुडे राजनि० तार्क्ष्यनाथादयोऽप्यत्र

तार्क्ष्यप्रसव = पु० तार्क्ष्यः शैलः प्रसवोऽस्य। अश्वकर्णवृक्षे राजनि०

तार्क्ष्यशैल = न० तार्क्ष्यशैले भवम् अण्। रसाञ्जने राजनि० “सिन्धूद्भूतं चक्रमर्दस्य वीजमिक्षूद्भूतं केशरं तार्क्ष्यशैलम्”। “लौहं चूर्णं मागधी तार्क्ष्यशैलं तुल्याः कार्य्याः कृष्णवर्णास्तिलाश्च” सुश्रुतः।

तार्क्ष्यसामन् = न० सामभेदे लाट्या० १। ६। १९।

तार्क्ष्यायण = पुंस्त्री० तृक्षस्य ऋषेरपत्यं युवा गर्गा० वृक्षेत्यत्र तृक्षेति पाठान्तरात् यञ् यूनि फक् अनातीत्युक्तेरापत्यस्य यस्य लोपो न। तृक्षर्षेर्यून्यपत्ये।

तार्क्ष्यी = स्त्री तार्क्ष्यस्य खगस्य प्रिया अण्। वनलताभेदे शब्दरत्ना०।

तार्ण = त्रि० तृणस्येदं शिवा० अण्। १ तृणसम्बन्धिनि २ तृणजन्ये वह्नौ पु०। “तार्णातार्णोभयं नास्तीत्यत्र तार्णत्वमतार्णत्वञ्च वह्नित्वव्याप्यो जातिभेदः इति नव्य नैयायिकाः। तृणात् तद्विक्रयात् स्थानादागतः आयस्थानत्वात् शुण्डिका० अण्। ३ तृणविक्रयरूपार्थस्थानजे करे त्रि०।

तार्णक = त्रि० तृणानि सन्त्यस्मिन् छण् कुक् च तार्णकीयास्तस्मिन् भवः विल्वका० छमात्रस्य लुक्। तृणयुक्तदेशभवे।

तार्णकर्ण = पुंस्त्री० तृणकर्णस्यापत्यं शिवा० अण्। तृणकर्णस्यर्षेरपत्ये।

तार्णायन = पुंस्त्री तृणस्यर्षेर्गोत्रापत्यम् नडा० फक्। तृणनामकर्षेर्गोत्रापत्ये।

तार्त्तीय = त्रि० तृतोय एव स्वार्थे अण्। तृतीये “प्रथमस्य तूत्तरस्याह्नस्तार्त्तीयं तृतीयं सवनम्” आश्व० श्रौ० १। १। ४

तार्त्तीयीक = त्रि० तृतीय एव तृतीय + स्वार्थ ईकक्। तृतीये “तार्त्तीयोकं पुरारेस्तदवतु मदनप्लोषणं लोचनं वः” मालतीमाधवम्।

तार्य्य = त्रि० तॄ–कर्मणि ण्यत्। तरणीये। “नौतार्य्यां तां गदीं तरेत्” भा० शा० १२४६ श्लो० “नाव्यं त्रिलिङ्गं नौतार्य्यम्” अमरः। तरे देयम् ष्यञ्। २ तरणार्थे देवे शुल्के च। “भाण्डपूर्णाणि यानानि तार्य्यं दाप्यानि सारतः” मनुः।

ताल = पु० तल एव अण्। १ करतले शब्दार्थचि०। ताड्यते तड–आघाते कर्मणि अच् डस्य लः। १ हरिताले २ तालीशपत्रे न० राजनि० ३ दुर्गासिंहासने न० हेमच० तालस्येदम् अण् तस्य लुक्। ४ तालफले न०। अङ्गुष्ठमध्यम भ्यां मिते ५ परिमाणे ६ करास्फालने ७ कांस्यनिर्मितवाद्यभेदे (करताल) ८ त्सरौ खडगमुष्टौ च पु० मेदि० ९ स्वनामख्याते वृक्षभेदे भावप्र०। “पक्वं तालफलं पित्तरक्तश्लेष्मविवर्द्धनम्। दुर्जरं बहुमूत्रञ्च तन्द्राऽभिष्यन्दशुक्रदम्। तालमज्जा तु तरुणः किञ्चिन्मदकरो लघुः। श्लेष्मलो वातपित्तघ्नः सस्नेहो मधुरः सरः। तालमज्जा तालफलवीजमज्जा। तालजं तरुणं तोयमतीव मदकृन्मतम्। अम्लीभूतं तदा तत् स्यात् पित्तकृतद्वातदोषहृत्” भावप्र०। “तालो द्वादशभिर्जानुपरिणाहपरिभ्रमैरिति” उक्ते १० मानविशेषे। हस्तेन जानुमण्डलपरिभ्रमणं यावत्याकालमात्रया क्रियते तावतीभिर्द्वादशभिस्तालाख्यः कालांशो ज्ञेयः इत्यर्थः। ११ गीतकालक्रियामाने। अयं स्वर इयत्कालं गेयः इयत्कालं विलम्बित इयत्कालं द्रुतम् इयत्कालं मध्यमिति बोधयितुं ईदृशैर्हस्तैरङ्गुल्याकुञ्चनप्रसारणाक्रियाभिर्नर्त्तितव्यं गातव्यञ्चेति कालक्रिययोः प्रमाणं तालः। इदमियत्कालं गेयमिति कालेनाङ्गुल्याद्याकुञ्चनादिक्रियामानं ताल इति यावत्। “कालस्य एकद्वित्रिमात्राद्युच्चारणनियमितस्य क्रियायाः परिस्पन्दात्मि कायाः परिच्छेदहेतुस्तालम्” इति मधुसू०। “कालेन नर्त्तन गलवादनक्रियाणां मानं तालः ताराद्येककालमेषां विरामस्ताल इत्यन्थे” इत्यमरटीकायां भरतः। तन्निरुक्तिस्तु गौरीहरयोर्नृत्येन तालो बभूव। तथा हि। हरनृत्यस्य ताण्डवं गौर्य्यानृत्यस्य लास्यम् इति संज्ञा पुरुषन्यृत्यस्य ताण्डवं नार्य्यानृत्यस्य लास्यमिति नियमात्। ताण्डवस्याद्याक्षरेण लास्यस्याद्याक्षरेण च मितित्वा ताल इति संज्ञा जाता इति” संगीतशास्त्रे तस्य भेदा यथा “चर्च्चत् पुट १ श्चारु पुटः २ ३ घट्टितापुत्रकस्तथा। ४ उद्घट्टकः ५ सन्निपातः ६ कङ्खणः ७ कोकिलारवः। ८ राजकोलाहलो ९ रङ्गविद्याधर १० शचीप्रियौ। ११ पार्वतीलोचनो १२ राज चूडामणि १३ जयश्रियौ १४ वादकाकल १५ कन्दर्प १६ नलकूवर १७ दर्पणाः। १८ रतिलीलो १९ मोक्षपतिः २० श्रीरङ्गः २१ सिंहविक्रमः। २२ दीपको २३ मल्लिकामोदो २४ गजलीलश्च २५ चर्च्चरी। २६ कुहक्को २७ विजयानन्दो २७ वीरविक्रम २८ टेङ्किके। २९ रङ्गाभरण ३० श्रीकीर्त्ति ३१ वननालि ३२ चतुर्मुखाः। ३३ सिंहनन्दन ३४ नन्दीश ३५ चन्द्रविम्ब ३६ द्वितीयकाः। ३७ जयमङ्गल ३८ गन्धर्व ३९ मकरन्द ४० त्रिभङ्गयः। ४१ रतितालो ४२ वसन्तश्च ४३ जगझम्प्रो ४४ऽथ मारुतिः। ४५ कविशेखर ४६ घोषौ च ४७ हरवल्लभ ४८ भैरवौ ४९। गतप्रत्यागतो ५० मल्लतालो ५१ भैरवमस्तकः ५२। सरस्वतीकण्ठाभरणः ५३ क्रीडा ५४ निःसारुरेव च। ५५ मुक्तावली ५६ रङ्गराज ५७ भरतानन्दा ५८ऽऽदितालकाः ५९। सम्पक्वेष्टक ६० इत्यादि ताला भरत संमताः। संक्षेपतो निगदिता अथैषां ल णं तथा। अर्द्धमात्रं द्रुतं ज्ञेयमेकमात्र लघु स्मृतम्। द्विमात्रन्तु गुरुज्ञेयं त्रिमात्रन्तु प्लुतं मतम् ताले चर्च्चत् पुटे ज्ञेयं गुरु द्वन्द्वं लघुः प्लुतः १। गुरर्लघुः प्लुतश्चैव भवेच्चारुपुटाभिधे २। गलागलगलाश्चैव षट्टिता पुत्रके मताः ३। उद्घट्टके तु गमनाः ४ सन्निपाते गुरुर्मतः ५। चतुर्विधः परिज्ञेयस्तालः कङ्कणनामकः ६। पूर्णः खण्डः समश्चैव विषमश्चैव कथ्यते। लचतुष्कं गणौ पूर्णे खण्डे विन्दुद्वयं गुरुः। यगणस्तु समे ज्ञेय स्तगणो विषमे भवेत्। खचतुष्कं सयत्यन्तं गुरुर्विन्दु चतुष्टयम्। सयत्यन्तं लघुश्चैव तालोऽयं कोकिलारवः ७ लचतुष्कं सयत्यन्तं खत्रयं खत्रयं लघुः। लघुर्विन्दुद्वयञ्चेति राजकोलाहलाभिधे ८। खद्वयं द्वौ प्लुतौ यत्र रङ्गविद्याधरः स तु ९। लघूनि त्रीणि यत्र स्युर्गुरूणि त्रीणि यत्र वै। प्लुतद्वयञ्च यत्रास्ति स तालः स्याच्छचीप्रियः १०। खद्वयं गुरुलौ विन्दुर्गौ प्लुतौ गौ प्लुतौ पुनः। यत्र तालः स विज्ञेयः पार्वतीलोचनाभिधः ११। राजचूडामणौ विन्दुर्लश्च विन्दुर्लगौ मतौ १२। रगणोनो गुरुश्चैव जयश्रीरिति कथ्यते १३। प्लुतौ लघुचतुष्कञ्च मौ नौ द्रुतयुगं लघुः। लचतुष्कं विनाशब्दं तालः स्याद्वादकाकलः १४। द्रुतद्वयं यकारश्च कन्दर्पेऽपि प्रकीर्त्तितः १५। चत्वारो गुरवो यत्र चत्वार प्लुतका अपि। लष्वक्षराणि चत्वारि तालीऽयं नलकू वरः १६। विन्दुद्वयं गुरुश्चैव भवेद्यत्र स दर्पणः १७। रतिलोले विधातव्यं लघुद्वन्द्वं गुरुद्वयम् १८। आदौ षोडश गुरुवो द्वात्रिंशल्लघवस्ततः। चतुःषष्टिर्द्रुता यत्र सोऽयं मोक्षपतिर्मतः १९। श्रीरङ्गसंज्ञके ताले मगणाल्लः प्लुतौ मतौ २०। सिंहविक्रमताले तु मगणो नखगाः खगौ २१। प्लुतो नश्च प्लुतश्चैव ताले दीपकनामनि २२ ताले स्यान्मल्लिकामोदे लद्वयं खचतुष्टयम् २३। लचतुष्कं विरामान्तं गजलीले प्रकीर्त्तितम् २४। अष्टकृत्वस्तु चर्च्चर्य्यां विरामान्ते द्रुतौ लघुः २५। द्रुतद्वन्द्वं भवेत्ताले कुहक्काख्ये लघुद्वयम् २६। भवेच्च विजयानन्दे लत्रयञ्च लघुत्रयम् २७। वीरविक्रमताले तु द्रुतौ लगौ ततः प्लुतः २८। टेङ्किका रगणेन स्यादेकेनैव कृतास्पदे २९। भगणो ग प्लुतौ स्यातां रङ्गाभरणनामके ३०। श्रीकीर्त्तिसंज्ञके ताले गुरुद्वन्द्वं लघुद्वयम् ३१। चतुर्द्रुता लघू द्वौ तु द्रुतो गो वनमालिनि ३२। चतुर्मुखाभिधे ताले यगणानन्तरं प्लुतः। ३३। भश्च प्लुतो लगौ विन्दुद्वयं गौ नः प्लुतस्तथा। लघुः प्लुतो द्रुतश्चैको लघुद्वयमथापि च। निःशब्दं ल चतुष्कञ्च ताले स्यात् सिंहनन्दने ३४। गो लघुर्गौ लघुः प्लतस्ताले नन्दीश्वरे मतः ३५। गो द्रुतौ नौ प्लतद्वन्द्वं चन्द्रविम्बे प्रकीर्त्तितम् ३६। द्र तद्वन्द्वं लघुश्चैकस्ताले स्यात्तु द्वितीयके ३७। सकारश्च यकारश्च जयमङ्गलनामनि ३८। चत्वारो गुरवो विन्दुश्चत्वारश्च प्लुता अपि। विन्दवो दश षट् लाश्च ताले गान्धर्वसंज्ञके ३९। मकरन्दे द्रुतद्वन्द्वं लघुद्वन्द्वमथो गुरुः ४०। गुरुर्लघुः प्लुतश्चैव त्रिभङ्गिः परिकीर्त्तिता ४१। गुरुद्वयं लघुद्वन्द्वं रतिताले प्रकीर्त्तितम् ४२। वसन्तताले कर्त्तव्यो नगणो मगण स्तथा ४३। जगझम्पे गुरुश्चैको विरामान्तञ्च खद्वयम् ४४। गप्लुतौ लौ द्रुतौ लश्च प्लुतो मारुतिनामनि ४५। कविशैखरे प्लुतः शून्यं नगौ लश्च ततो लघुः ४६। खचतुष्कं विना शब्दं यत्र घोषः स उच्यते ४७। हरवल्लभताले च प्लुतो लो गौं च खद्वयम् ४८। भगणः प्लुतौ गणौ गयौ प्लुतौ लघुश्च भैरवे ४९। गतप्रत्यागते ताले लो मौ गौ नौ प्रकीर्त्तितौ ५०। चतुर्लघु मल्लताले विरामान्तं द्रुतद्वयम् ५१। लगौ गौ मो नगौ गश्च खद्वयं लद्वयं पुनः। नचतुष्कं विना शब्दं ताले भैरवमस्तके ५२। सरस्वतीकण्ठाभरणे गौ लघुश्च द्रुतद्वयम् ५३। एक एव प्लुतो यत्र क्रीडातालः स उच्यते ५४। द्रुतद्वयं विरामान्तं ताले निःसारके मतम् ५५। खत्रयं सविरामान्तं नौ पुनः खत्रय- न्तथा। प्लुतौ गः खयुगं गश्च यत्र मुक्तावली तु सा ५६। लगौ विन्दुयुगं गौ लौ रङ्गराजे प्रकीर्त्तितः ५७। खद्वयं सविरामान्तं गुरुः प्लुतद्वयं लघुः। यत्र ताले स विज्ञेयो भरतानन्दसंज्ञकः ५८। आदिताले लघुश्चैक इत्याह भरतो मुनिः ५९। भगणश्च प्लुताद्यन्तःसंपक्वेष्टकतालके ६०। एकाधिकशते ताले षष्टिर्मुख्यतमा इमे”। अथ प्लुतादिमात्राभेदेन तालघातनम्। “ताले निष्णातहस्तः प्लुतमनुघटयेद्घातमेकं सशब्दं तत्पश्चात् द्वौ च घातौ निनदविरहितौ दर्शयेदूर्द्ध्वतोऽधः। शुन्यत्वात् पक्कतालाविति जगति पुनः सूत्रसिद्धौ सनन्दा विल्वं घातत्रयं तत् त्रिफलतनुवहिर्बर्द्धयेद्दुर्लकारम। एको घातः सशब्दो द्विकल इह गुरौ शब्दहीनस्तथान्यः सोऽप्यूर्द्ध्वं याति लीलावलयवलयितोत्तानहस्ताङ्गुलीभिः। किञ्चोच्चैकैकमात्रा समुदयिनि लघौ घात एको निनादी घात्यो मात्रार्द्धभाजि द्रुतवपुषि लघोरर्द्धनादेन घातः”। संगी० दा० ३ स्तवकः।

“आदावष्टस्तथा रुद्रो ब्रह्म इन्द्रश्चतुर्दशः। दशावतारवन्धादिनृत्यनाट्यं ततः परम्।”अथष्टतालभेदाः। “आडः १ दोजः २ ज्योतिः ३ चन्द्रशेखर ४ गञ्जनं ५ पञ्चतालः ६ रूपकं ७ समतालः ८।”तत्र रुद्रतालस्य भेदाः। बीरविक्रमः १। विषमसमुद्रः २ धरणं ३ वीरदशकः ४ मण्डूकः ५ कन्दर्पः ६ डा~शपाहिडः ७ ध्रुवचरणं ८ दशकोषी ९ गजेन्द्रगुरुः १० छुटका ११।”अथ ब्रह्मतालभेदाः “ब्रह्म १ विरामब्रह्म २ षट्कला ३ सप्तमात्रा ४”अथेन्द्रतालभेदाः। “देवसारः १ देवचाली २ मदनदोला ३ गुरुगन्धर्वः ४ पञ्चाली ५ इन्द्रभाषः ६।”अथ चतुर्द्दशतालभेदाः। “चिह्नतालः १ चन्द्रमात्रा २ देवमात्रा ३ अर्द्धज्योतिः ४ स्वर्गसारः ५ क्षमाष्टः ६ धराधारा ७ वसन्तवाक् ८ काककला ९ कीरशब्दा १० ताण्डवी ११ हर्षधारिका १२ भाषा १३ अर्द्धमात्रा १४।”क्रमेणैषां लक्षणादि तत्रापि अष्ट तालभेदस्य लक्षणानि यथा “एकतालस्ततः शून्यं यगलं तालिका परे। सङ्गीते प्रथमः सार आडतालः प्रकीर्त्तितः १। एकतालञ्च शून्यञ्च क्रमेणापि त्रिधा भवेत्। शेषशून्यं कलाभेदे दोजाख्यश्च भवेत् पृथक् ३। प्रथमं युगलं तालं एक एकस्तथा परे। कलाभेदे गानमेवं ज्योतिश्च परिकीर्त्तितम् ३। चन्द्रश्चन्द्रस्तथा युग्मं तथा चन्द्रस्तथा परे। षट् तालानि भवन्त्येवं चन्द्रशेखर- भाषितः ४। एकतालो भवेत् श्रेष्ठः क्रमेणापि चतुष्टयम्। शेषशून्यं गञ्चनञ्च सर्वतो मुनिभाषितम् ५। प्रथमं युगलञ्चैव तत्परं तालमेककम्। शेषे युग्मं तथा शून्यं पञ्चतालं प्रकीर्त्तितम् ६। युगलं प्रथमं तालं तत्परन्त्वेकशून्यकम्। शेषे च युगलं त लं रूपकं परिकीर्त्तितम् ७। एकतालं तथा शून्यं क्रमेण द्विविधं भवेत्। शेषे युगलतालञ्च समतालं भवेत् परम् ८।”रुद्रतालभेदलक्षणादि “एकतालं तथा शून्यं क्रमेण त्रिविधं भवेत्। तत्परं युगलं ताल इत्येव वीरविक्रमः १। युग्मतालं तथा शून्यं तत्परं द्वयतालकम्। शेषे च युगलं तालं समुद्रविषमं स्मृतम् २। युग्मतालञ्च शून्यञ्च एकतालञ्च तत्परे। शेषैकत्र त्रिशून्यञ्च विषमं धरणं भवेत् ३। एकतालं तथा शून्यं क्रमेणापि त्रिघा भवेत्। युगलं युगलं पश्चात् स वीरदशकः स्मृतः ४। प्रथममेकतालञ्च तत्परं शून्यमेककम्। शेषैकत्र त्रितालञ्च मण्डूकस्य गतिर्यथा ५। समतालं यथा दृष्टं तथा कन्दर्पसंज्ञितम्। समताले भवेत् शून्यं कन्दर्पे नास्ति, तत्पुनः ६। पञ्चतालात् परं शून्यं डा~शपाहिडमुत्तमम्। अत्यूर्द्ध्वञ्च भवेत् त्रस्तं संग्रामस्य यथा गतिः ७। एकतालं तथा शून्यं क्रमेणापि द्विधा भवेत्। शेषैकत्र त्रितालञ्च घ्रुवचरणभाषितम् ८। एकतालं एकशून्यमित्येवञ्च भवेत् क्रमात्। विरामे एकतालञ्च वाग्भेदे दशकोषिका ९। युगलं युगलं पश्चात् तदन्तेप्येकतालकम्। शेषे च युग्मं शून्यञ्च गजेन्द्रगुरुभाषितम् १० युग्मशून्यं विरामे च एकतालं भवेत् क्रमे। छुटकाख्यानकं धीरं सङ्गीतपरिनिष्ठितम् ११।”ब्रह्मतालभेदलक्षणानि। “युगञ्च त्रस्तं प्रथमैकतालं किञ्चिद्विरामे पुनरेकतालम्। ब्रह्माख्यतालञ्च सुगीतमध्ये यथा कपोती हि करोति शब्दम् १। युम्मतालं भवेद्त्रस्तं एकतालञ्च तत्परे। शेषे द्वितीयशून्ये च विरामब्रह्मतालकम् २। प्रथमञ्चैकतालञ्च युग्मशून्यं तथा परे। शेषैकत्र त्रितालेति षट्कला खलु कथ्यते ३। आदौ युग्मं तथा युग्मं त्रितालञ्च तथा परे। सप्तमात्रा भवत्येषा व्रह्मतालान्तरे शुभे ४।”इन्द्रतालभेदलक्षणानि “सविरामं त्रितालञ्च एकशून्यन्तथापरे। शेषे त्रस्तं त्रितालञ्च देवसार इतीर्य्यते १। द्वितीयशून्यं विरामे भवति ततश्च त्रितालानि। शेषेण द्विशून्यमित्येवं देवचाली २। प्रथममेव युग्मतालं तत्पश्चादेक शून्यविरामे। शेषे त्रितयतालं भवतीति मदन दोलेति। युग्मतालं समारभ्य पञ्चतालं भवेत्तथा। अत्यूर्द्ध्वञ्च तथा त्रस्तं गुरु गन्धर्व ईरितः ४। श्रावणस्य यथा धारा तथा तालो भवेद्घनः। पञ्चतालान्तराणीति पञ्चालीति प्रकीर्त्तिता ५ सविरामं चतुस्तालं त्रितालं शून्यमन्ततः। मेघारम्भे यथा केका रूयन्ते इन्द्रभासितः ६।”चतुर्दशतालभेदलक्षणानि “एकतालञ्च शून्यञ्च क्रमेण त्रितयं ततः। शेषे चतुष्टयं त्रस्तं चिह्नताल इतीर्य्यते १। एकचन्द्रस्तथा युग्मं तालं प्रत्येकतस्त्रयम्। शेषे त्रीणि च शून्यानि चन्द्रमात्रा भवेत्परा २। प्रथमं षट्कतालञ्च अत्यूर्द्ध्वन्तु भवेत् क्रमात्। शेषे युग्मं तथा शून्यं देवमात्रा च सोव्यते ३। चन्द्रशून्यं त्रितालञ्च विरामेण क्रमेण तु। अत्युर्द्ध्वन्तु भवत्येवमर्द्धज्योतिरिति स्थितिः ४। एकैकतालान्तंरयुग्मतालात् शून्यत्रयं तत्परमेकतालम्। कलाभिदा शून्यभिदा समाख्या स स्वर्गसाराख्यनवीनतालः ५। युग्मशुन्यं विरामेण देवतालमिति क्रमात्। क्षमाष्टाख्योऽन्तरे शून्यमिति सर्वत्र भाषितम् ६। नवाम्बुदे रासिनि शीघ्रयानं तथा सुखंवद्धसुतानभानम्। युम्मं सत्रस्तं क्रमतश्च तालं शेषे त्रितालञ्च घराधराख्या ७। एकतालञ्च शून्यञ्च क्रमेणापि चतुष्टयम्। क्रमात्तालत्रयञ्चैव वसन्तवागुदाहृता ८। सविरामं द्वयं तालं युग्मतालं तथा परे। शेषैकत्र त्रितालञ्च भवेत् काककलेति सा ९। त्रितालञ्च भवेद् त्रस्तं तत्परं त्वेकतालकम्। शेषेऽपि च त्रितालञ्चेत् कीरशब्दा प्रचक्ष्यते १०। युग्मं युग्मं तथा युग्मं तालन्त्वेकं भवेत् क्रमात्। शेषे शून्यं कलाभेदे ताण्डवीति भवेत् पृथक् ११। सविरामं द्वयं तालं युग्मशून्यञ्च तत्परम्। शेषोर्द्ध्वन्तु त्रितालञ्च हर्षधारा प्रकीर्त्तिता १२। चन्द्रशून्यं विरामेण द्वयं तालं भवेत् क्रमात्। अत्यूर्द्ध्वन्तु भवेद् त्रस्तं भाषाख्यं तालमुत्तमम् १३। अत्यूर्द्ध्वन्तु त्रितालञ्च द्वयं तालं विरामकम्। इत्यर्द्धमात्रा विज्ञेया सङ्गीता भुवि सर्वतः” १४ सङ्गीतदामोदरे ४ स्तवकम्”। तालस्येदम् उत्सा० अञ्। “पानसं द्राक्षमाघुकं खार्जुरं तालमैक्षवम्” प्रा० वि० पुलस्त्योक्ते ११ मद्यभेदे न०

तालक = न० चु० तड–घञ् संज्ञायां क डस्य लः। हरिताले राजनि० २ द्वारकपाटरोधनयन्त्रे (ताला) हेमच०। ३ तुवरिकायां (अरहर) शब्दर०। स्वार्थे क। ४ ताले वृञ्चदौ

ताल(लि)कट = पु० देशभेदे स च देशः वृ० स० १४ अ० कूर्मविभागे दक्षिणस्यामुक्तः। अथ दक्षिणेनेत्युपक्रमे “कालाजिनसौरिकीर्णताल(लि)कटाः”।

तालकन्द = न० तालस्येव कन्दमस्य। तालमूल्याम् “कसेरु कोविदारश्च तालकन्दं तथामिषम्” प्रा० त० वायुपु०। “तालकन्दं तालमूलीति प्रसिद्धम्” रघु०।

तालकाभ = पु० तालकस्येवाभा यस्य। १ हरितवर्णे हेम० २ तद्वति त्रि०।

तालकी = स्त्री तालकस्येयम् अण् ङीप्। तालजमद्यभेदे (ताडी)

तालकेतु = पु० तालस्तालचिह्नितः केतुरस्य। भीष्मे। “तासां प्रमुखतो भीष्मस्तालकेतुर्व्यरोचत” भा० उ० १४९ अ०।

तालक्षीर = पु० तालजातं क्षीरमिव शुभ्रत्वात्। (तालेर चिनि) शर्कराभेदे राजनि०। स्वार्थे क। तालक्षीरक। तत्रार्थे।

तालगर्भ = पु० ६ त०। (तालेर मेति) तालमज्जनि। “झष पित्तमृगाश्ववस्तदुग्धैः करिहस्तच्छिदये सतालगर्भैः” वृ० स० ५० अ०।

तालङ्क = पु० ताडङ्ग + डस्य लः। ताडङ्के भूषणे शब्दार्थचि०।

तालचर = पु० १ देशभेदे २ तद्देशवासिषु ३ तन्नृपेषु ब० व०। अन्ध्रास्तालचराश्चैव चुचुपा रेणुपास्तथा” भा० उ० १३९ अ०।

तालजङ्घ = पु० ताल इव जङ्घा यत्र। १ देशभेदे २ तद्देशवासिषु ३ तन्नृपेषु च ब० व०। “स हैहयान् समुत्साद्य तालजङ्घांश्च भारत!” भा० व० १०६ अ०। “हैहयानामुदावर्त्तो नीपानां जनमेजय!। वहुलस्तालजङ्घानां क्रथानामुद्धतो वसुः” भा० उ० ७३ अ०। “तालजङ्घं महाक्षत्रमौर्वेणैकेन नाशितम्” भा० अनु० १५३ अ०। ४ ग्रहभेदे “निर्मांसास्तालजङ्घाश्च व्यादितास्याः भयङ्कराः” इत्युपक्रमे “एते ग्रहाश्च सततं रक्षन्तु मम सर्वतः” हरिवं० १६८ अ०। “कण्ठपृष्ठग्रीवाजङ्घञ्च” पा० अस्याद्युदात्तता।

तालजटा = स्त्री तालस्य जटेव। तालवृक्षस्य जटाकारे पदार्थे तालप्रलम्बे शब्दार्थचि०।

तालध्वज = पु० तालः ध्वजोऽस्य। बलदेवे “सरस्वत्यास्तटे जातं नगं तालध्वजो बली” भा० श० ३८ अ०। “नातिदूरं ततो गत्वा नगं तालध्वजो बली” ५५ अ०। “अस्ति तालध्वजा नाम नगरी त्रिदशोपमेति” पद्मपु० क्रियायोगसारीक्ते २ पुरीभेदे स्त्री।

तालनवमी = स्त्री तालोपहारा नवमी शा० त०। भाद्रशुक्लनवस्यां “मासि भाद्रपदे या स्यान्नवमी बहुलेतरा। तस्यां संपूज्य वै दुर्गामश्वमेधफलं लभेत्”। संवत्सरकौ० धृतगरुडपुराणवचनम् इयमेव तालनवमी ख्याता

तालपत्र = न० तालस्य पत्रमिव। १ कर्णभूषणभेदे ताडङ्के। अमरः। ६ त०। २ तालस्य पत्रे च। “क्वचित् विधवयेव उन्मुक्ततालपत्रया” काद०।

तालपत्रिका = स्त्री तालस्य पत्रमिव पत्रमस्याः ङीप् संज्ञायां कन् ह्रस्वः। तालमूलीवृक्षे राजनि०।

तालपत्री = स्त्री तालस्य पत्रमिव पत्रमस्याः ङीप्। मूषिकपर्ण्याम् राजनि०। “अपामार्गोऽश्वगन्धा च तालपत्री सुवर्चला” सुश्रु०

तालपर्ण = न० स्त्री० ताल इव खड्गमुष्टिरिव पर्ण्णमस्य। १ मुरानामद्रव्ये शब्दच०। स्त्रीत्वपक्षे पाककर्णेति ङीप्। सा च २ मधुरिकायां जटाधरः।

तालपुष्पक = न० तालःखड्गमुष्टिरिव पुष्पमस्य कप्। १ प्रपौण्डरीके शब्दर०। ६ त०। २ तालवृक्षकुसुमे च।

तालप्रलम्ब = न० ताले वृक्षे प्रलम्बते प्र + लम्ब–अच्। तालवृक्षस्य जटायाम् राजनि०। तथा “तालप्रलम्बञ्च भङ्गक्षतरुजापहम” राजनि०।

तालभृत् = पु० तालं ध्वजरूपेण बिभर्त्ति भृ–क्विप् ६ त०। बलदेवे त्रिका०।

तालमर्द्दल = पु० तालस्य तालार्थं मर्द्दल इव। १ वाद्यभेदे हारा०

तालमूली = स्त्री० तालस्य मूलमिव मूलमस्याः ङीप्। मुषल्याम्। स्वार्थे क। तालमूलिका २ दीर्घकन्दायायाम्। मुसल्याम्। “तालमूलो तु विद्वद्भिर्मुषलीति निगद्यते। मुसली मधुरा वृष्या वीर्य्योष्णा वृंहणी गुरुः। तिक्ता रसायनी हन्ति गुदजान्यनिलं तथा” “क्रौञ्चोष्ट्ररासभास्थीनि श्वदंष्ट्रातालमूलिका। अजमोदा कदम्बस्य मूलं नागरमेव च” सुश्रु०।

तालयन्त्र = न० सुश्रुतोक्ते शल्योद्धारणार्थे यन्त्रभेदे। “तलियन्त्रे द्वादशाङ्गले मत्स्यतालवदेकतालद्वितालके कर्ण्णनासानाडीशल्यानामाहरणार्थम्” सुश्रु०।

तालरेचनक = पु० तालेन रेचयति चु० रिच–ल्यु स्वार्थे क। नटे शब्दर०। तालवेचनकेति तत्र पाठान्तरम् तत्रार्थे।

ताललक्षण = पु० तालो लक्षणं ध्वजोऽस्य। बलराभे हे ७ च०

तालवन = न० ६ त०। वृन्दावनस्थे तालप्रचुरे वनभेदे “गोवर्द्धनस्योत्तरती यमुनातीरमाश्रितम्। ददृशति ततो वीरौ रम्यं तालवन महत्” हरिवं ७० अ०। २ तालानां वने च। “मुण्डतालवनानीव स चकार रथव्रजान्” भा० भी० ११७ अ०।

तालवृन्त = न० ताले करतले वृन्तं बन्धनमस्य, तालस्येव वृन्त- मस्य वा। व्यजने हेमच० (पाका) “तालवृन्तेन किं कार्य्यं लब्धे मलयमारुते” उद्भटः। अस्य वायोर्गुणा यथा। “त्रिदोषशमनोवायुर्लघुरः श्रकीर्त्रितः” भावप्र० “तालवृन्तभवो वायुस्त्रिदोषजयनो लघुः” राजनि०। “न वाति वायुस्तत्पार्श्वे तालवृन्तानिलाधिकम्” कुमा०। स्वार्थे क ब० व० कप् वा। तालवृन्तक तत्रार्थे अमरः।

तालव्य = त्रि० तालुनि भवः देहावयवत्वात् यत्। तालूच्चार्य्येषु “इचुयशानां तालु” इत्युक्तेषु वर्णभेदेषु।

तालाकट = पु० दक्षिणस्थे देशभेदे। तालाकटस्य राजा अण् सोऽभिजनोऽस्य वाऽण्। २ तद्देशवासिजने ३ तन्नृपे च बहुषु अणो लुक्। “ततः शूर्पारकं चैव तालाकटमथापि वा। वशेचक्रे महातेजा दण्डकांश्च महाबलम्” भा० स० ३०। सहदेवदक्षिणदिग्विजये। अयमेव देशः तालकटत्वेन वृ० स० १४ अ० उक्तः तालकटशब्दे दृश्यः।

तालाख्या = स्त्री तालं तत्पत्रमिवाख्यायते आ + ख्या घञर्थे कर्म्मणि क। मुरानामगन्धद्रव्ये शब्दच०।

तालाङ्ग = पु० तालस्तालचिह्नितः अङ्कः ध्वजोऽस्य। वलदेवे। अमरः।

तालादि = पु० “तालादिभ्योऽण् वा” पा० विकारार्थे अण्प्रत्ययनिमित्ते शब्दसमूहे। स च गणः पा० गणसू० उक्तो यथा (तालाद्धनुषि) वार्हिण इन्द्रालिश इन्द्रादृश इन्द्रायुध चय, श्यामाक पीयूक्षा”। तालं धनुः पक्षे अञ्मयटौ। तालं तालमयं वा मद्यम्।

तालावचर = पु० तालेनावचरति अव + चर–अच्। नटे त्रिका०

तालि = स्त्री तल–प्रतिष्ठायां णिच्–इन्। भूम्यामलक्यां वा ङीप्। तत्रार्थे (ताडियात्) २ ख्याते वृक्षे भरतः। “वर्मभिः पवनोद्भूतराजतालीवनध्वनिः” रघुः।

तालिक = पु० तालेन करतलेन निर्वृत्तः ठक्। चपेटे (चापड) (हाततालि)। ताली + स्वार्थे क। २ तालमूल्याम् स्त्री हेमच०। ३ लिखितस्य निवन्धने च शब्दर०। ४ चपेटे स्त्री शब्दर०। ५ ताम्रवल्यां स्त्री राजनि०। “स्वैरं हसन्त्यद्य विधाय तालिकाम्” काशी० ५ अ०। “उच्चाटनीयः करतालिकानां दानादिदानीं भवतीभिरेषः” नैषधम्।

तालित = न० चुरा० तड–क्त डस्य लः। १ तुलितपटे २ वाद्यभाण्डे ३ गुणे च अजयपालः।

तालिन् = पु० त० व०। तलेनर्षिणा प्रीक्तमधीयते शौनका० णिनि। तलोक्ताध्येतृषु। तालो वाद्यत्वेनास्त्यस्य इनि। २ दत्तताले त्रि० ३ शिवे पु० “वैणवी पणवी ताली खली कालङ्कटः कटः” भा० अनु० १७। शिवनामोक्तौ।

तालिश = न० चु० तल–श न शित्त्वम्। पर्वते उणादिको०।

ताली = स्त्री तालेन तन्निर्यासेन निर्वृत्ता अण्। (ताडी) १ तालजातसुरायाम्। तल–ण्यन्तात् अच् गौरा० ङीष्। (ताडियात्) २ वृक्षभेदे, अमरः। ३ तालमूल्याम्, (भूइआमला) ४ वृक्षभेदे राजनि०। ५ आढकक्याम्, (अहर) शब्दरत्ना०। ६ तालीशपत्राख्ये वृक्षे, रत्नमाला। ७ तालकोद्वाटनयन्त्रे (काटि) कुञ्जिकायाञ्च। हेमच०। ८ ताम्रवल्यां ९ त्र्यक्षरपादके छन्दोभेदे यथा “ताली सा निर्दिष्टा। उद्दिष्टो मो यत्र” यथा “ज्ञानी ते जानीते। सारूप्यं वैरूप्यम्” छन्दोमञ्जर्य्याम्। अस्य नारीव्यपि संज्ञोक्ता।

तालीपत्र = न० ताल्या इव पत्रमस्य। तालीशपत्रे राजनि०।

तालीश = न० तालीव रीगान् श्यति शो–ड। स्वनामख्याते वृक्षे राजनि० “तालीशं लघु तिक्तोष्णं श्वासकासकफानिलान्। निहन्त्यरुचिगुल्मामवह्निमान्द्यक्षयामयान्” भावप्र० २ भूम्यामलक्यां मेदि०।

तालीशपत्र = न० तालीशं रोगनाशकं पत्रं यस्य। १ स्वनामख्याते वृक्षे, २ भूम्यामलक्याञ्च राजनि०।

तालीशाद्यमोदक = पु० चक्रदत्तोक्ते मोदकभेदे यथा “तालीशपत्रं मरिचं नागरं पिप्पली शुभा। यथोक्तसंभागवृद्ध्या त्वगेले चार्द्धभागिके। पिप्पल्यष्टगुणा चात्र प्रदेया सितशर्करा। श्वासकासारुचिहरं तर्पणं दीपनं परम्। हृत्पाण्डुग्रहणीरोगप्लीहशोषज्वरापहम्। छर्द्यतीसारकासघ्नं मूढवातानुलोमनम्। कल्पयेद् गुडिकां चैतच्चूर्णं पक्वासितोपलाम्। गुडिका ह्यग्निसंयोगाच्चूर्णाल्लघुतरा स्मृता। पैत्तिके ग्राहयन्त्येके शुभाय वंशलोचनम्”।

तालु = न० तरन्त्यनेन वर्णाः तॄ–ञुण् रस्य लः। जिह्वेन्द्रियाधिष्ठाने (तेलो) स्थानभेदे। “मुखतस्तालु निर्भिन्नं जिह्वा तत्रोपजायते। ततो नानारसो जज्ञे जिह्वया योऽधिगम्यते” भाग०। “निर्मिन्नं तालु वरुणो लोकपालोऽविशद्धरेः। जिह्वयांशेन च रसान् ययासौ प्रतिपद्यते” भाग० ३। ६। १४ श्लो० तालुनि चैकमस्थि तच्च कपालाकारं यथोक्तं सुश्रुते अस्थीनीत्युपक्रमे “एतानि पञ्चविधानि मवन्ति। तद्यथा कपालरुचकतरुणबलयनलकसंज्ञानि। तेषां जानुनितम्बांसगण्डतालुशङ्खशिरस्मु कपालानि” अस्थिसंख्यामेदोक्तौ च तत्रैव। तालुनि चैकमित्युक्तम्। “तृषा महत्या परिशुष्कतालवः” ऋतुसं०। स्वार्थे यावा० कन्। तालुकमप्यत्र अमरः।

तालुक्ष्य = पुंस्त्री० तलुक्षर्षेर्गोत्रापत्यं गर्गा० यञ्। तलुक्षर्षेरपत्ये स्त्रियां लोहि० ष्फ षित्त्वात् ङीष्। तालुक्ष्यायणी।

तालुजिह्व = पुंस्त्री तालु एव जिह्वा यस्य। १ कुम्भीरे हेम०। तस्य जिह्वाशून्यत्वेऽपि तालुनैव रसास्वादनात्तथात्वम्। स्त्रियां टाप्।

तालुपाक = पु० सुश्रुदोक्ते तालुगते रोगभेदे। तालुगतास्तु गलशुण्डिका तुन्दिकेर्य्यऽध्रुषो मांसकच्छपोऽर्वुदं मांससङ्घातस्तालुपुष्पुटस्तालुशोषस्तालुपाक इति। “श्लेष्मासृग्भ्यां तालुमूलात्प्रवृत्तो दीर्घः शोफो ध्मातवस्तिप्रकाशः। तृष्णाकासश्वासकृत् सम्प्रदिष्टो व्याधिर्वैद्यैः कण्ठशुण्डीति नाम्ना। शोफःस्थूलस्तीददाहप्रपाकी प्रागुक्ताभ्यां तुण्डिकेरी मता तु। शोफः स्तब्धो लोहितस्तालुदेशे रक्ताज्ज्ञेयः सोऽध्रुषोरुग्ज्वराढ्यः। कूर्म्मोत्सन्नोऽवेदनोऽशीघ्रजन्मा रक्तो ज्ञेयः कच्छपः श्लेष्मणा स्यात्। पद्माकारं तालुमध्ये तु शोफं विद्याद्रक्तादर्बुदं प्रोक्तलिङ्गम्। दुष्टं मांसं श्लेष्मणा नीरुजञ्च ताल्वन्तस्थं मांससङ्घातमाहुः। नीरुक् स्थायी कोलमात्रः कफात्स्यान्मेदोयुक्तात्पुष्पुटस्तालुदेशे। शोषोऽत्यर्थं दीर्य्यते चापि तालु श्वासो वातात्तालुशीषः स पित्तात्। पित्तं कुर्य्यात्पाकमत्यर्थघीरं तालुन्येनं तालुपाकं वदन्ति” तेषां लक्षणान्युक्तानि।

तालुपुप्पुट = पु० सुश्रुतोक्ते तालुगतरोगभेदे तालुपाकशब्दे दृश्यम्।

तालुशीष = पु० सुश्रुतोक्ते तालुरोगभेदे तालुपाकशब्दे दृश्यम्।

तालूर = पु० चु० तल–बा० ऊर। आवर्त्ते हेमच०।

तालूषक = न० तल–बा० ऊषक। तालुनि। “अक्षतालूषके श्रोणीफलके च विनिर्दिशेत्” याज्ञ० “तालूषकं ककु दम्” मिता०।

तावक = त्रि० तवेदम् युष्मद् + अण् एकवचने तवकादेशः। त्वत्सम्बन्धिनि स्त्रियां ङीप्। “मृगं तत्ते तावकेभ्यो रथेभ्यः” ऋ० १। ९४। ११४। “तपः क्व वत्सेः! क्व च तावकं वपुः” कुमा०।

तावकीन = त्रि० तवेदम् युष्मद् + खञ् एकवने तवकादेशः। त्वत्सम्बन्धिनि।

तावच्छस् = अव्य० तावत् + संख्यासंज्ञत्वात् वीप्सार्थे + शस्। तावत्तावत्प्रकारे “यावच्छो वै रसः सिक्तस्य त्वष्टा रूपाणि विकरीति तावच्छो वै तत्प्रजायते” तै० स०।

तावत् = अव्य० तद् + बा० डावत्। १ साकल्ये २ अवधौ ३ माने ४ अवधारणे अमरः ५ प्रशंसायाम् ६ पक्षान्तरे शब्दरत्ना० ७ संग्रामे ८ अधिकारे च मेदि०। ९ तदेत्यर्थे शब्दार्थचि०। “भर्त्तापि तावत् क्रथकौशिकानाम्” रघुः तावत् तदेत्यर्थः। साकल्ये “तावत्प्रकीर्णाभिनवोपचारम्” अवधौ “वल्गुं न सम्भावित एव तावत्” रघुः “तावत् आलोकमार्गप्राप्तिपर्य्यन्तम्” मल्लि०। मानार्थे “त्वमेव तावत् परिचिन्तय स्वयम्” कुमा० तावत् इति मानार्थे “यावन्मात्रं विचारणीयं तावन्मात्रमित्यर्थः” मल्लि०। अवधारणे “इन्द्रप्रस्थगमस्तावत् कारि मा सन्तु चेदयः” माघः। “मा कारि तावत् न क्रियतामेवेत्यर्थः” मल्लि०। तत्परिमाणमस्य तद् + वतुप् “आ सर्वनाम्नः” पा०। आ। १० तत्परिमाणविशिष्टे त्रि०। “यावानर्थ उदपाने सर्वतः संप्लुतोदके। तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः” गीता “जम्बुद्वीपोऽयं तावत्प्रमाणविस्तारस्तावता क्षीरोदघिना वेष्टितः” भाग० ५। २०। २। क्रियाविशेषणत्वे न०। “पुरोऽस्य यावन्न भुवि व्यलीयत। गिरेस्तडित्वानिव तावदुच्चकैः” माघः। स्त्रियां ङीप् “यावती संभवेद्वृत्तिस्तावती दातुमर्हति” मनुः। अस्य वत्वन्तत्वात् संख्यावत् कार्य्यं तावच्छः तावत्कः तावतिकः।

तावतिक = त्रि० तावता क्रीतः संख्यात्वात् कन् “वतोरिड् वा” पा० वा इट्। तत्परिणवता क्रीते। पक्षे इडभावे तावत्क तत्रार्थे।

तावतिथ = त्रि० तावतां पूरणः डट्। “वतोरिथुक्” पा० इथुक्। तावतां पूरणे। “यावत् सामिधेनि वेददमहं तावतिथेन वज्रेणेति” कात्या० श्रौ० ३। १। ९।

ताविष = पु० “तवेर्णिद्वा” उणा० टिषच्। स्वर्गादौ तविषशब्दार्थे तविषशब्दे दृश्यम्।

तावुरि = पु० वृषराशौ कौर्पशब्दे २२७८ पृ० दृश्यम्।

तासुन = पु० तस–बा० उनण्। शणवृक्षे। तस्येदम् अण्। तासुन तत्सम्बन्धिनि स्त्रियां ङीप्। “मुञ्जकाशतासुन्यो रसनाः” ज्यो० त० गोमिलः। “मुञ्जः शरः तासुनः शणस्तद्भवा रसना मेखला तासुनी”।

***